४२ अग्न्याधेयविषयः

अग्न्याधेयविषयम्

अथाग्निहोत्रप्रसङ्गाद् अन्यद् अप्य् अग्न्याधेयविषयं किंचिद् उच्यते । तत्र याज्ञवल्क्यः ।

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥ इति ।

वृत्तवतीम् आचारवतीम् । सा च यदि सवर्णा । तथा च मनुः ।

एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेद् अग्निहोत्रेण यज्ञपात्रैस् च धर्मवित् ॥ इति ।

एवंवृत्ताम् उक्ताचाराम् । अनेनैकान्ततो ऽसवर्णाया अग्निहोत्रेण दहनं न निषिद्ध्यते किं तु सत्याम् एव सवर्णायां तस्या अधिकारासंभवात् । तथा च याज्ञवल्क्यः ।

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् । इति ।

सत्यां सर्वर्णायाम् असवर्णां धर्मकार्यं कारयेत्, तया सह धर्मान् नाचरेद् इत्य् अर्थः । अनेनासत्यां सवर्णायाम् असवर्णाया अप्य् अधिकार इत्य् उक्तं भवति । अत एव वसिष्ठो ऽपि शूद्रयैव सह धर्मानुष्ठाननिषेधम् आह - “कृष्णवर्णा वै रामा रमणायैव न धर्माय” इति । कृष्णवर्णा शूद्रा । सवर्णानेकत्वे तु विना ज्येष्ठया इतराभिः सह न धर्मान् आचरेत् । किं तु सहैव ज्येष्ठया । तथा च याज्ञवल्क्यः ।

सवर्णासु विधौ धर्म्ये ज्येष्ठय न विनेतरा । इति ।

धर्म्ये विधौ ज्येष्ठया विना इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या किं तु सहैव ज्येष्ठयेत्य् अर्थः । न च ज्येष्ठां मुक्त्वा इतरा सहधर्मचारिणीति व्याख्यानं शंकनीयम्, यत् आह कात्यायनः ।

नैकयापि विना कार्यम् आधानं भार्यया द्विजैः ।
अकृतं तद् विजानीयात् सर्वान् अन्वारभन्ति यत् ॥

यद्य् अस्मात् सर्वाः स्त्रिय आधीयमानान् अग्नीन् अन्वारभन्तीत्य् अर्थः । आपस्तम्बो ऽपि - “आधाने हि सती कर्मभिः संबध्यते” । बोधायनो ऽपि - “एकैकाम् एव सन्नयेत्” इति । अतो ज्येष्ठया सहैवेतरासाम् अधिकारो (?) न विना ज्येष्ठयेति सिद्धम् । एतद् अपि ज्येष्ठायाम् अदुष्टायाम् । अत एव कात्यायनः ।

ज्येष्ठायां दोषहीनायां कनीयस्या यद् अग्निमान् ।
ब्रह्महत्या भवेद् अस्य प्रतिपर्व हि सर्वदा ॥ इति ।

दोषदुष्टायां तु तां प्रित्यज्य अन्यया सह धर्मम् आचरेद् इति भावः । तथा च दक्षः ।

धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् ।
दोषे सति न दोषः स्याद् अन्या कार्या गुणान्विता ॥ इति ।

यत् तु विष्णुनोक्तम्,

अग्निहोत्रादियज्ञेषु द्वितीया न सहाचरेत् ।
अन्यथा निष्फलं तस्य स्विष्टैः क्रतुशतैर् अपि ॥

इति, तद् असवर्णद्वितीयाविषयम् । ज्येष्ठायाम् अदुष्टायां केवलं द्वितीयाविषयं वा सत्व् अग्निषु या परिणीता तद्विषयं वा । अन्यथा पूर्वोक्तवचनविरोधः स्यात् । यद् अपि कात्यायनेनोक्तम्,

प्रथमा धर्मपत्नी स्याद् द्वितीया रतिवर्धिनी ।
दृष्टम् एव फलं तत्र नादृष्टम् उपपद्यते ॥

इति, तद् अपि वैष्णवेन समानविषयम् । नन्व् आहिताग्नेः पुनर् उद्वाहो निषिद्ध एव । यद् आह आपस्तम्बः - “धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत । अन्यतराभावे कार्या प्राग् अग्न्याधेयात्” इति । मैवम्, यथा प्राग् अग्न्याधेयात् तथोर्ध्वम् अपि सति निमित्ते पुनर् उद्वाहः कार्य इति तस्यार्थः । अत एव कात्यायनः ।

सदारो ऽन्यान् पुनर् दारान् कथंचित् कारणान्तरे ।
यदीच्छेद् अग्निमान् कर्तुं क्व होमो ऽस्य विधीयते ॥
अग्नाव् एव भवेद् धोमो लौकिके न कदाचन ।
न ह्य् आहिताग्नेः स्वं कर्म लौकिके ऽग्नौ विधीयते ॥

एतत् पूर्वस्याम् अनधिकारिण्यां यावद् अन्याविवाहः तद्विषयम् । ऊर्ध्वं विवाहाद् उत्सर्गेष्ट्याग्नीन् उत्सृज्यान्यया सह पुनर् आदध्याद् इति भावः । ननु च पुनःपरिणीतायाम् अप्य् अग्निहोत्रादिकारस् तर्हि कथं द्वितीयया सह नाचरेद् इत्य् अस्य तद्विषयत्वम् । उच्यते, सत्यं न तद्विषयत्ं ब्रूमः किं तु यस्याः पुनर् अप्रजस्त्वादिना पुनर् उद्वाहे ऽपि दोषाभावान् नाधिकाक्रनाशस् तद्विषयम् इति ब्रूमः । अत एव स्मृत्यन्तरम् ।

व्याधितां स्त्रीप्रजां वन्ध्याम् उन्मत्तां विगतार्तवाम् ।
अदुष्टां लभते त्यक्तुं तीर्थतो न तु धर्मतः ॥ इति ।

तीर्थतः योनित इत्य् अर्थः । अतो नात्र पुनः द्वितीयया सहाधानम् अग्निपरित्यागकारणाभावात् । एवं च पूर्वमारिणीं भार्याम् अग्निहोत्रेण दाहयित्वा योग्यभार्यारहितश् चेत् पुनः परिणीय तया भार्यया सहाधानं कुर्यात्, इतरस् त्व् आधानमात्रम् एवेति मन्तव्यम् । यत् तु कात्यायनेनोक्त्म्,

मृतायां चेह भार्यायां द्वितीयायां कथंचन ।
समुत्सृजेद् अग्निहोत्रं मोहितो ऽज्ञानचक्षुषा ।
ब्रह्मोज्झितं विजानीयाद् यश् च कामात् समुत्सृजएत् ॥

विष्णुर् अपि ।

द्वितीयां चैव यो भार्यां दहेद् वैतानिकाग्निभिः ।
तिष्ठन्त्यां प्रथायां तु सुरापानसमं हित् तत् ॥ इ

इति, तद् आधाने ऽननुप्रविष्टद्वितीयभार्याविषयम् । अन्यथा “आहिताग्निभिर् दहन्ति” इति श्रुतिर् विरुद्धप्रमाणं स्यात् । नन्व् एषा श्रुतिर् द्वितीयेतरविषयापि घटत एव । मैवं स्मृतिवशाच् छ्रुतेः सङ्खोचस्यायुक्तत्वात् । प्रत्युत स्मृतेर् विषयान्तरसंभवेन तत्संकोच एव युक्तः । यत्र पुनर् विषयान्तरासंभवस् तत्र तद्वशात् सङ्कोचो भवत्य् एव । यथोक्तं कात्यायनेन ।

स्त्री धर्मचारिणी साध्वी मृता दाह्या तदाग्निभिः ।
विपरीता न दाह्या तु पुनर् दारक्रिया तथा ॥

याज्ञवल्क्यो ऽपि ।

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।

वृत्तवतीम् आचारवतीम् इत्य् अर्थः । अत्रेयम् अग्निव्यवस्था - सर्वाधाने त्व् एकभार्यस्य पूर्वं भायामरणे तत्राग्निहोत्रम् उत्सृज्य पुनः परिणीय तया सहाधानम् । पुनर् आहरणासामर्थ्ये आत्मार्थम् अग्न्याधेयं कुर्यात्, “दारकर्मणि यद्य् अशक्तः आत्मार्थम् अग्न्याधेयं कुर्वीत । अग्नोत्रं दर्शपूर्णमासौ आग्रयणं च शेषाणि कर्माणि न भवन्ति” इति आपस्तम्बस्मरणात् । बह्वृचब्राह्मणम् अपि - “तस्माद् अपत्नीको ऽग्निम् आहरेत्” इति । एवं च यद् उक्तम् अन्यैः - “पत्न्यां रजस्वलायाम् एतद् वचनम्” इति, तद् अप्य् अपास्तम् । यद् वात्र विष्णूक्तं द्रष्टव्यम् ।

मृतायाम् अपि भार्यायां वैदिकाग्निं न हि त्यजेत् ।
उपाधिनापि तत् कर्म यावज्जीवं समाचरेत् । इति ।

उपाधिश् चात्र कुशमयी पत्नी ।

अन्ये कुशमयींपत्नीं कृत्वा तु गृहमेधिनः ।
अग्निहोत्रम् उपासन्ते यावज्जीवम् अतन्द्रिताः ॥

अन्यत्रापि ।

रामस् तु कृत्वा सौवर्णीं सीतां पत्नीं यशस्विनीम् ।
ईजे बहुविधैर् यज्ञैः सह भ्रातृभिर् अच्युतः ॥

यत् तु सत्याषाढेनोक्तम् - “न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर् देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर् विद्यते” इति, तन् मानुषादिपत्नीविषयं कुशादिमय्याः पत्न्याः प्रतिधित्वस्य वाचनिकत्वात् । अतो यत् कैश्चिद् उक्तम् “कुशादिमय्याः पत्न्याः कार्यकरत्वासंभवेन प्रतिनिधित्वासंभवात्, ऽअन्ये कुशमयीम्ऽ इत्य् अग्निहोत्रस्तुत्यर्थम्” इति तद् अप्य् अपास्तम् । एवं विधानाद् उपरि यजमानमरणे तस्यागित्रेतायां पितृमेधः कार्यः । आधाने ऽप्य् असामर्थ्ये तस्य प्रेताधानम् एव । तद् अप्य् आपस्तम्बेनोक्तम् - “यद्य् आहिताग्निर् उत्सृष्टाग्निर् विच्छिन्नाग्निर् विधुराग्निर् वा प्रमीयेत न तम् अन्येन त्रेताग्निभ्यो दहन्ति तस्य प्राचीनावीत्य् अग्न्यायतनान्य् उद्धृत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यायतने अरणिं संनिधाय मन्थति — ऽये ऽस्याग्नयो जुह्वतो मांसकामाः संकल्पयन्ते यजमानमांसं जानन्तु ते ऽस्मै हविषे स्वादिताय स्वर्गलोकम् इमं प्रेतं नयन्तुऽ इति तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा तूष्णीं हुत्वा प्रेते ऽऽमात्या इत्य् एतदादि कर्म प्रतिपद्यते” इति । अत्रैव पूर्वं यजमानमरणे तस्याग्नित्रेतायां पितृमेधः । पत्न्यास् तु प्रेताधानम् एव । सर्वाधाने वानेकभार्यस्य पूर्वं ज्येष्ठामरणे तत्राग्नीन् उत्सृज्य पुनर् द्वितीयया सहाधानम् । पुनस् तन्मरणे तत्राप्य् अग्निहोत्रम् उत्सृज्य पत्न्यन्तराभावे पुनः परिणीय तया सहाधानादि । परिणयनासामर्थ्ये तु आत्मार्थम् अग्न्याधानादि पूर्ववत् । अत्रैव पूर्वं यजमानमरणे तस्याग्नित्रेतायां पितृमेधः पत्न्यास् त्व् औपासने, “तयोर् यः पूर्वः म्रियेत यजमानः पत्नी वा तस्याग्निहोत्रेणायं पितृमेधः संपद्यते यः पश्चात् तस्यौपसनेन” इत्य् आपस्तम्बस्मरणात् । अत्रैव पूर्वं पत्नीमरणे तत्राग्निहोत्रम् औपासं चोत्सृज्य पुनः परिणीय तया सहाधानम्, “अथैनम् उपोषति” इत्य् आरभ्य “पुरस्तात् सभ्यावसथ्याभ्याम् औपासनेन च” इत्य् आपस्तम्बेनैव औपासनस्यापि प्रतिपत्तिविधानात् । पुनस् तन्मरणे तत्राप्य् एष एव न्यायः । पुनर्दाराहरणासामर्थ्ये आत्मार्थम् अग्न्याधानादि । तत्राप्य् असामर्थ्यनिश्चये पत्न्यास् त्रेतायाम् एव पितृमेधः यजमानस्य त्व् औपासनेन तस्याग्न्यन्तराभावात्, “यः पश्चात् तस्यापासनेन”(?) इति स्मरणाच् च ।

ननु चात्रार्धाधानपक्षे ऽपि “तयोर् यः पूर्वः” इति स्मरणात्, अग्नित्रेतायाम् एव पत्न्याः पितृमेधः यजमानस्यौपासन एवाधानादि किं न स्यात् ।
मैवम्, “शवाग्नयो वा एते पत्न्यां मृतायां धार्यन्ते” इति काठकश्रुत्या तेषां पितृमेधैकार्थत्वश्रवणात् । अतः पूर्वोक्तैव ज्यायसी । अर्धाधान एवानेकभार्यस्य यस्य पूर्वं मरणं तस्याग्नित्रेतायाम् एव पितृमेधः पत्नीनां तु स्वैः स्वैर् औपासनस्याग्नेर् अम्शैः । तद् उक्तं कल्पभाष्ये - “स्वैः स्वैर् औपासनस्याग्नेर् अंशैर् वा स्याद् उपोषणम्” इति । अत्रैव पूर्वं पत्नीमरणे तत्रागिहोत्रम् औपसनं चोत्सृज्य पुनर् द्वितीयया सहाधानादि । यदा तु युगपद् एव जायापत्योर् मरणं तदा तयोः सहैव पितृमेधः । तद् उक्तम् आपस्तम्बेन - “सहैव प्रेते सहैव पितृमेधः” इति । द्विवचनलिङ्गान् मन्त्रान् संगमयति । अनाहिताग्नेस् तु औपासनेन पितृमेधः । तद् अपि तेनैवोक्तम् - “औपासनाग्निनानाहिताग्निं दहन्ति निर्मन्थेन पत्नीम् उत्तपनेनेतरान्” इति । इतरान् ब्रह्मचारिप्रभृतीन् । आत्मादिसमारूढेष्व् अग्निषु यजमानमरणे ऽपि तेनैवोक्तम् - “यद्य् आत्मन्य् अरण्योर् वा समारूढेष्व् अग्निषु यजमानो म्रियेत पूर्ववद् अग्न्यायतनानि कल्पयित्वा यजमानायतने प्रेतं निधाय गार्हपत्यायतने लौकिकाग्निम् उपसमाधाय प्रेतस्य दक्षिणं पाणिम् उपसंगृह्य तत्पुत्रो भ्रातान्यो वा प्रत्यासन्नबुधुः ऽउपावरोह जातवेद इमं तं स्वर्गाय लोकाय नय प्रजानन् । आयुः प्रजां रयिम् अस्मासु धेहि । प्रेताहुतिं चस्य जुषस्वऽ इति लौकिकाग्निम् उपावरोहत्य् अरण्योर् वोपावरोह्य मन्थेद् अरण्योः समारूढस्यानिर्वर्त्यमाने ऽप्रेतम् अन्वारम्भेऽ इत्य् एतं मन्त्रं जपेत् । विहरणादि समानम्” इति ॥

इति स्मृतिचन्द्रिकायां होमकाण्डम्