४१ पुनराधाननिमित्तानि

अथ पुनराधाननिमित्तानि

तत्र कात्यायनः ।

विहायाग्निं सभार्यश् चेत् सीमाम् उल्लङ्घ्य गच्छति ।
होमकालात्यये तस्य पुनर् आधानम् इष्यते ॥

शौनको ऽपि ।

अग्नाव् अनुगते यत्र होमकलद्वयं व्रजेत् ।
उभयोर् विप्रवासे वा लौकिकाग्निर् विधीयते ॥
प्रोषिते तु यदा पत्नी यदि ग्रामान्त्रं व्रजेत् ।
होमकाले तु संप्राप्ते न सा दोषेण युज्यते ॥
अथ तत्रैव वसति होमकालव्यतिक्रमः ।
लौकिको ऽग्निर् विधीयीत काठकश्रुतिदर्शनात् ॥
यजमानश् च पत्नी च उभौ प्रवसतो यदि ।
आ होमान् न निवर्तेतां पुनर् आधानम् अर्हति ॥

आपस्तम्बो ऽपि - “यदि पत्नी सीमान्तरे आदित्यो ऽस्तम् इयाद् अभ्युदियाद् वा पुनर् आधेयं तस्य प्रायश्चित्तिः । नासति यजमाने ग्राममर्यादाम् अग्नीन् अतिहरेयुर् यद्य् अतिहरेयुर् अग्नयो लौकिकाः संपद्येरन्न् इति । यदा यावत्यो ग्राममर्यादा नद्यस् तावतीर् अतिक्रामन्तौ अन्वारभेयातां यदि नान्वारभेयातां लौकिकाः संपद्येरन्” इति । शौनको ऽपि ।

होमद्वयात्यये दर्शपूर्णमासात्यये तथा ।
पुनर् एवाग्निम् आदध्याद् इति भार्गवशासनम् ॥ इति ।

धार्यमाणे ऽग्नौ चतुरहाद् ऊर्ध्वम् अपि होमविच्छित्तौ पुनराधानम् इत्य् आपस्तम्बमतिः । आश्वलायनो ऽपि - “सर्वांश् चानुगतान् आदित्यो ऽभ्युदियाद् वास्तम् इयाद् वाग्न्याधेयं पुनराधेयं वा समारूढेषु चारणिनाशः” इति । एतद् विहृताग्निविषयम् इति कैश्चिद् व्याख्यातम् । आपस्तम्बो ऽपि - “यस्य वोभाव् अनुगताव् अभिनिम्रोचेद् अभ्युदियाद् वा पुनराधेयं तस्य प्रायश्चित्तिः” इति । उभौ गार्हपत्याहवनीयौ । तथा यदि पक्षहोमे पक्षत्रयम् अतीयात् पुनराधेयं तस्य प्रायश्चित्तिर् इति । शौनको ऽपि ।

दैविको भौतिकश् चैव स्वेदार्थं यो ऽग्निर् उद्धृतः ।
सर्वे ते लौकिका ज्ञेया एकागौ विगते सति ॥

एतत् प्रमादोद्धृताग्निविषयम् । पैठीनसिर् अपि ।

प्रस्खलीकृतधर्मस्य पीड्यमानस्य शत्रुभिः ।
मासद्वयं प्रवासो ऽस्ति परतो ऽनाहिताग्निवत् ॥ इति ।

इति स्मृतिचन्द्रिकायां पुनराधाननिमित्तानि