४० औपवस्थ्यनियमाः

**अथौपवस्थ्यनियमाः **

तत्र पुलस्त्यः ।

सकृत् पर्वणि सर्पींषि हविष्यं लघुभोजनम् ।
न सायं नोपवासः स्यात् तैलामिषविवर्जितम् ॥

अत्र विशेषम् आह आपस्तम्बः - “तृप्तिश् चान्नस्य । यच् चैनयोः प्रियं स्यात् तद् एतस्मिन्न् अहनि भुञ्जीयाताम्” इति । अत्र वर्यान्य् आह हारीतः - “माषमसूरमधुमांसपरान्नमैथुनानि व्रत्ये ऽहनि वर्जयेत्” इति । व्रत्याहम् अन्वाधानदिनम् । भरद्वाजो ऽपि ।

वर्जयेत् पर्वकालेषु स्त्रीतैलामिषभोजनम् ॥

साङ्ख्यायनो ऽपि ।

कलहं क्रीतविक्रीतं प्रहासं बहुभाषणम् ।
तौर्यत्रिकं वृथा शय्यां यक्ष्यमाणो विवर्जयेत् ॥

जाबालिर् अपि ।

कैदारकान् कुलुत्थांश् च वर्जयेत् कोद्रवांस् तथा ।
अनृतं बहुवादं च क्रयविक्रयम् एव च ॥
दन्तशौचं च पूर्वेध्युर् यागस्यैतानि वर्जयेत् ।
मसूरान् लवणान् क्षारांश् चणकान् कोरदूषकान् ।
माषान् मधु परान्नं च वर्जयेत् वर्वणि द्विजः ।

गृह्यपरिशिष्टे ऽपि ।

शाकं मांसं मसूरांश् च चणकं कोरदूषकान् ।
माषान् मधु परान्नं च वर्जयेद् औपवस्तके (?) ॥

बोधायनो ऽपि - “सर्वम् एवैतद् अहः कोशिधान्यं वर्जयेद् अन्यत्र तिलेभ्यः” इति ।

इति स्मृतिचन्द्रिकायाम् औपवसथ्यनियमाः