३९ होमविधिः

अथ होमविधिः

तत्र दक्षः ।

संध्याकर्मावसाने तु स्वयंहोमो विधीयते ।
स्वयं होमफलं यत् स्यात् तद् अन्येन न लभ्यते ॥

किं तर्ह्य् अन्यहोमे फलम् इत्य् अपेक्षिते स एवाह ।

होमे यत् फलम् उद्दिष्टं जुह्वतः स्वयम् एव तु ।
हूयमाने तद् अन्येन फलम् अर्धं प्रपद्यते ॥ इति ।

अत्र कर्तृनियमम् आह शौनकः - “पाणिग्रहणाद् अविगृह्यं (?) परिचरेत् स्वयं पत्न्य् अपि वा पुत्रः कुमार्य् अन्तेवासी” इति । अन्तेवासी शिष्यः । दक्षो ऽपि ।

ऋत्विक् पुत्रो गुरुर् भ्राता भागिनेयो ऽथ विट्पतिः ।
एतैर् अपि हुतं यत् स्यात् तद् धुतं स्वयम् एव तु ॥

विट्पतिर् जामाता । आपस्तम्बो ऽपि - “अहर् अहर् यजमानः स्वयम् अग्निहोत्रं जुहुयात् पर्वणि वा ब्रह्मचारी वा जुहुयाद् ब्रह्मणा हिस् अ परिक्रीतो भवति । क्षीरहोता वा जुहुयाद् धनेन हि स परिक्रीतो भवतीति बह्वृचब्राह्मणम्” इति । अत्र विशेषम् आह विष्णुः - “स्वयम् अहुत्वा न परं याजयेत्” इति । विष्णुपुराणे ऽपि ।

ऋत्वक् पुत्रो ऽथ पत्नी वा शिष्यो वापि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयाद् वा यथाविधि ॥

एतत् सर्वं स्वयंहोमालाभविषयम्, तस्यैव प्रशस्तत्वात् । तथा च श्रुतिः ।

अन्यैः शतहुताद् धोमाद् एकः शिष्यहुतो वरः ।
शिष्यैः शतहुताद् धोमाद् एकः पुत्रहुतो वरः ।
पुत्रैः शतहुताद् धोमाद् एको ह्य् आत्महुतो वरः ॥ इति ।

यत् पुनर् मनुनोक्तम्,

नैव कन्या न युवतिर् नाल्पविद्यो न बालिशः ।
होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥
नरके हि पतन्त्य् एते जुह्वन्तः स यस्य तत् ।
तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥

इति, तच् छ्रौताग्निविषयम्, अग्निहोत्रग्रहणात् । एतेन न शौनकोक्तिविरोधः । कन्याग्रहणं पत्न्या अप् प्रदर्शनार्थम् । अत एव गोबिलः - “कामं गृह्याग्नौ पत्नी जुहुयात् सायंप्रातर् होमौ” इति । ऋत्विगादिहोमे ऽपि यजमानसंनिधानेन भवितव्यम् इत्य् उक्तं कात्यायनेन ।

असमक्षं तु दम्पत्योर् होतव्यं नर्त्विगादिना ।
द्वयोर् अप्य् समक्षं तु भवेद् धुतम् अनर्थकम् ॥ इति ।

अत्रापिशब्दात् कथंचिद् अन्यतराभावे ऽपि न दोष इत्य् उक्तं भवति । अत एव क्वचित् प्रवासानुग्रहस् तेनैव दर्शितः ।

निक्षिप्ताग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत् कार्यवान् विप्रो वृथैव न चिरं वसेत् ॥ इति ।

अत्र यज्ञपार्श्वः ।

दुहित्रा स्नुषया वापि विहारो न विरुध्यते ।
निर्लेपनं च पात्राणाम् उपलेपनम् अर्चनम् ॥ इति ।

विहारो विहरणम् । अत्र कालनियमम् आह कात्यायनः ।

सूर्ये ऽस्तशैलम् अप्राप्ते षट्त्रिंशद्भिर् इहाङ्गुलैः ।
प्रादुष्करणम् अग्नीनां प्रातर् भासां च दर्शने ॥

प्रादुष्करणं विहरणम् । तथा होमकालो ऽपि तेनैव दर्शितः ।

यावत् सम्यङ् न भाव्यन्ते नभस्य् ऋक्षाणि सर्वशः ।
न च लौहित्यम् आयान्ति तावत् सायं तु हूयते ॥

मरीचिर् अपि ।

निरश्मिवत्यां संध्यायां सूर्यनक्षत्ररश्मिभिः ।
होमकालः स विज्ञेयो ह्य् अग्निगर्भा तथा मही ॥

आपस्तम्बो ऽपि - “समुद्रो वा एष यद् अहोरात्रस् तस्यैते गाधे तीर्थे यत् सन्धी । तस्मात् सन्धौ होतव्यम् इति शैलालिब्राह्मणं भवति । नक्षत्रं दृष्ट्वा प्रदोषे निशायां वा सायम्” इति । होतव्यम् इति सर्वत्रानुवर्तते । यत्र शक्यम् उपस्थातुं तद् गाधम् । नक्षत्रम् एकम् अप् दृष्ट्वा प्रदोषे, सर्वेषूदितेषु निशायां यस्यां दशायां शेरते भूतानि । अत एवोक्तम् “कालातिपत्तिर् नवनाडिकोर्धम्” इति । एते चत्वारः सायं होमकालाः । तथा प्रातर् होमकाला अपि तेनैव दर्शिताः - “उषस्य् उपोदयं समयाविषित (?) उदिते प्रातः” । समयाविषिते अर्धोदिते । तथा मनुर् अपि ।

उदिते ऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञः इतीयं वैदिकी श्रुतिः ॥ इति ।

एतेषां लक्षणम् आह व्यासः ।

रात्रेः षोडशके भागे ग्रहनक्षत्रभूषिते ।
काले त्व् अनुदिते प्रातर् होमं कुर्याद् विचक्षणः ॥
तथा प्रभातसमये नष्टनक्षत्रमण्डले ।
रविर् यावन् न दृश्येत रश्मिभिस् तु समन्वितः ॥
उदितं तं विजानीयात् तत्र होमं प्रकल्पयेत् ॥ इति ।

अनेन रेखादर्शनाद् आरम्भ्य तृतीयो होमकालः इत्य् उक्तं भवति । अत एव कात्यायनः ।

हस्ताद् ऊर्ध्वं रविर् यावद् भुवं हित्वा न गच्छति ।
तावद् धोमविधिः पुण्यो नान्यो ह्य् उदितहोमिनाम् ॥

आश्वलायनो ऽपि - “सङ्गवान्तः प्रातः” इति । अकाले अनागते काले कृते पुनः काले कर्तव्यम् । अतीते तु काले कृते तस्यानुपादेयत्वात् कृतम् अप्य् अकृतम् एवेत्य् अर्थः । यदा तु कथंचिन् मुख्यकालातिक्रमः तदा गोबिलोक्तं द्रष्टव्यम् - “अथ यदि गृह्ये ऽग्नौ सायंप्रातर्होमयोर् दर्शपूर्णमासयोर् वा हव्यं होतारं वा नाधिगच्छेत् कथं कुर्याद् इति । आ सायमाहुतेः प्रातराहुतिर् नात्येति आ प्रातराहुतेः सायमाहुतिर् आमावास्यायाः पौर्णमासी नात्येत्य् आ पौर्णमास्या अमावास्या” इति । अतः गौणे ऽपि काले ऽतिपन्नं कर्म कुर्याद् इति भवः । तच् च प्रायश्चित्तानन्तरम् एव कार्यम्, “यदि सायमग्निहोत्र्कालो ऽतिपद्येत” इत्य् आपस्तम्बेन मुख्यकालातिपात्तौ प्रायश्चित्ताभिधानात् । आश्वलायनो ऽपि - “सङ्गवान्तः प्रातस् तम् अतिनीय चतुर्गृहीतम् आज्यं जुहुयात्” इति । एतच् च गौणकालानुष्ठानम् आपद्विषयम्, होमकालान् प्रकृत्य, “सर्वेष्व् एतेषु कालेषु होतव्यम् आपदि हुतम् इत्य् एव प्रतीयात्” इत्य् आपस्तम्बस्मरणात् । उक्तं च गोबिलेन - “यदि हव्यं होतारं वा नाधिगच्छेत् कथं कुर्यात्” इति । गौणकालाभिप्रायेण कात्यायनो ऽपि ।

पौर्णमास्यत्यये हव्यं होता वा यद् अहर् भवेत् ।
तद् अहर् जुहुयाद् एवम् अमावास्यात्यये ऽपि च ॥

हव्यं हविः । होता ऋत्विक् । अत्रापि कृत्वा पाथिकृतं वैश्वानरं वातिपन्नं कार्यम् - “अग्नये पथिक्ēते पुरोडाशम् अष्टाकपालं निर्वपेद् यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयेद् वैश्वानरं द्वादशकपालं निर्वपेद् अवावास्यां वा पौर्णमासीं वातिपद्य” इति श्रुतेः । एतद् अप् यावद् अन्यस्य पर्वणो न कालः । तत्प्राप्तौ तु प्रायश्चित्तम् एव न पुनर् अतिपन्नानुष्ठानम् अधिकारान्तरावरोधेन पूर्वाधिकारनिवृत्तेः । उक्तं च भाष्यकारेण - “ततो दर्शो वा पूर्णमासो वा यावद् अन्यो न पर्वकालः” इति । एष एव न्यायः सायंप्रातर्होमयोर् अपि । एवं पश्वाग्रयणाद्यतिपत्ताव् अपि कृत्वा पाथिकृतं वैश्वानरं चातिपन्नानुष्टनं (?) तयोर् अपि तद्विकारत्वात् । अत्र वैजावापः (?) ।

एके ह्य् उदितहोमाः स्युर् अन्ये ऽनुदितहोमिनः ।
अन्ये भोजनहोमाश् च पक्षहोमास् तथैव च ॥

भोजनहोमाः स्युर् इत्य् आपद्विषयम् । एवं पक्षहोमो ऽपि द्रष्टव्यः । तथा च मरीचिः ।

शरीरापद् भवेद् यत्र भयाद् वार्तः प्रजायते ।
तथान्यास्व् अपि चापत्सु पक्षहोमो विधीयते ॥

“यायावरा ह वै पुरा नाम ऋषय आसंस्ते ऽधन्य् आश्रम्यंस्ते ऽर्धमासायार्धमासाय अग्निहोत्रं जुहुवुः । तस्याद् यायावरधर्मेण आमयाव्यार्तो वा जननमरणयोर् अध्वनि वापत्सु वार्धमासायार्धमासायाग्निहोत्रं जुहुयात् प्रतिपदि सायं चतुर्दश चतुर्गृहीतान्य् उन्नयत्य् एका समित् सकृद् धोमः सकृत् पाणिनिर्मार्जनं सकृद् उपस्थानम् एवं प्रातः” इति । पक्षहोमे तु मध्ये त्व् आपन्निवृत्तौ पुनर् होमो न दोषायेत्य् अह मरीचिः ।

पक्षहोमान् अथो कृत्वा मध्ये तस्मान् निवर्तितः ।
होमं पुनः पर्कुर्यात् तु न चासौ दोषभाग् भवेत् ॥

तथा समस्यहोमो ऽपि तेनैव दर्सितः ।

प्रवासे वाग्निहोत्री यस् त्रिपक्षाहं च सप्त वा ।
दातव्यो होम एकाहे सायं प्रातः पृथक् पृथक् ॥ इति ।

अत्र द्रव्यनियमम् आह कात्यायनः ।

कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम् ।
व्रीह्यादि चाकृतं प्रोक्तम् इति हव्यं त्रिधा बुधैः ॥

स्मृत्यन्तरे ऽपि ।

तैलं दधि पयस् सोमो यवागूर् ओदनो घृतम् ।
तण्डुला मांसम् आपश् च दश द्रव्याण्य् अकामतः ॥

कात्यायनो ऽपि ।

हविष्येषु यवा मुख्यास् तद् अनु व्रीहयः स्मृताः ।
अभावे व्रीहियवयोर् दध्ना वा पयसापि वा ।
तदभावे यवाग्वा वा जुहुयाद् उदकेन वा ॥

शौनको ऽपि - “कामं तु व्रीहियवतिलैः” इति । मुख्यद्रव्यालाभे तु कात्यायनोक्तं द्रष्टव्यम् ।

यथोक्तस् त्व् असम्पत्तौ ग्राह्यं तदनुसारि च ।
यवानाम् इत्व् गोधूमा व्रीहीणाम् (?) इव तण्डुलाः ॥ इति ।

यत्र पुनर् द्रव्यादिविशेषानुपादानं तत्रापि स एवाह ।

आज्यं हव्यम् अनादेशे जुहोतिषु विधीयते ।
मन्त्रस्य देवतायास् तु प्रजापतिर् इति स्थितिः ॥ इति ।

अत्राहुतिपरिमाणम् आह बृहस्पतिः ।

प्रथधान्यं चतुःषष्टिर् आहुतेः परिकीर्तितम् ।
तिलानां तु तदर्धं स्यात् तदर्धं स्याद् घृतस्य तु ॥

बोधायनो ऽपि ।

व्रीहीणां वा यवानां वा शतम् आहुतिर् इष्यते । इति ।

होमस् तु गृह्योक्तविधिना तद् उक्तं गृह्यपरिशिष्टे ।

स्वस्वगृह्योक्तविधिना होमं कुर्याद् यथाविधि । इति ।

यथाविधि यथाशस्त्रम् इत्य् अर्थः । तत् कथम् इत्य् अपेक्षिते,

तीर्थायतनसंपूर्णं प्रातर् उत्तानपाणिना ।
द्वयङ्गुले समिधो ऽतीत्य सर्वत्र जुहुयाद् धविः ॥

विष्णुर् अपि ।

अप्रबुद्धे सधूमे वा जुहुयाद् यो हुताशने ।
यजमानो भवेद् अन्धः सो ऽमुत्रेति हि नः श्रुतम् ॥
यो ऽनर्चिषि जुहोत्य् अग्नौ व्यङ्गारे चैव मानवः ।
मन्दाग्निर् आमयावी च दरिद्रश् चोपजायते ॥
अतश् च बहुशुष्केन्धसुसमिद्धे हुताशने ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥

आपस्तम्बो ऽपि - “यद् अङ्गारेषु व्यवशान्तेषु लेलायद् विभाति तद् देवानाम् आस्यम् । तस्मात् तथा होतव्यं यथास्ये ऽपिदधात्य् एवं तद् इति विज्ञायते” इति । व्यवशान्तेष्व् अर्चिर्विरहितेषु ज्वाला यद् विभाति दीप्यमानं विभाति वेत्य् अर्थः । यस्य पुनः श्रौताग्निः स्मार्थाग्निश् च तस्यानुष्ठाने विशेषम् आह भरद्वाजः ।

होमं वैतानिके कृत्वा स्मार्तं कुर्याद् विचक्षणः ।
स्मृतीनां वेदमूलत्वात् स्मार्तं केचित् पुरा विदुः ॥

शातातपो ऽपि ।

श्रौतं यत्नात् स्वयं कुर्याद् अन्यो ऽपि स्मार्तम् आचरेत् ।
अशक्तौ श्रौतम् अप्य् अन्यः कुर्याद् आचारम् अन्ततः ॥ इति ।

एतच् च ज्ञात्वैवानुष्ठेयम् अन्यथा दोषश्रवणात् । तथा च अङ्गिराः ।

स्वाभिप्रायकृतं कर्म यत् किंचिज् ज्ञानवर्जितम् ।
क्रीडाकर्मेव बालानां तत् सर्वं निष्प्रयोजनम् ॥

चतुर्विंशतिमते ऽपि ।

हुतं ज्ञानक्रियाहीनं हुतास् त्व् अज्ञानतः क्रियाः ।
अपश्यन्न् अन्धको दग्धः पस्यन्न् अपि च पङ्गुकः ॥ इति ।

यदा तु प्रमादात् कर्मप्रच्युतिः तदा प्रजापतिनोक्तं द्रष्टव्यम् ।

प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः संपूर्णं स्याद् इति श्रुतिः ॥

अध्वरेषु यज्ञेषु । अत्र कूर्मपुराणम् ।

ब्रह्मण्य् आधाय कर्माणि निःसङ्गः कामवर्जितः ।
प्रसन्नेनैव मनसा कुर्वाणो याति तत् पदम् ॥ इति ।

ब्रह्मण्याधानं ब्रह्मार्पणम् । तद् अपि तत्रैवोक्तम् ।

ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते ।
ब्रह्मैव दीयते चेति ब्रह्मार्पणम् इदं परम् ॥
नाहं कर्ता सर्वम् एतद् ब्रह्मैव कुरुते तदा ।
एतद् ब्रह्मार्पणम् प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥
प्रीणातु भवगान् ईशः कर्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम् ॥
यद् वा फलानां संन्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणाम् एतद् इत्य् आहुः ब्रह्मार्पणम् अनुत्तमम् ॥
तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः ।
तृप्यते परमेशस्य तत् पदं याति शाश्वतम् ॥ इति ।

इति स्मृतिचन्द्रिकायां होमविधिः