३८ यज्ञाधिकारिनिरूपणम्

अधिकारिनिरूपणम्

उक्तान्य् आधानादीनि कर्माणि । अधुना तत्र तत्राधिकारी निरूप्यते । तत्र वसिष्ठः - “अलम् अग्न्याधेयाय नानाहितागिः स्याद् अलं च सोमाय नासोमयाजी” इति । अलं समर्थ इत्य् अर्थः। तच् च सामर्थ्यं याज्ञवल्क्येन दर्शितम् ।

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः ॥ इति ।

वर्षत्रयं यावद् भृत्यभरणपर्याप्तम् अन्नम् अधिकं वा यस्यास्ति स सोमं पिबेत् सोमेन यजेतेत्य् अर्थः । तथा च मनुः ।

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुम् अर्हति ॥

एतत् काम्यसोमाभिप्रायम्, ऋणश्रुतेर् नित्यस्यावश्यकर्तव्यत्वात्, अकरणे प्रत्यवायविधानाच् च । उक्तं चानन्तरम् एव मनुना ।

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
अपीतसोमपूर्वो ऽपि स न प्राप्नोति तत्फलम् ॥ इति ।

अतः उक्ताद् अल्पीयसि द्रव्ये यः पूर्वम् अकृतसोमयागः सो ऽपि तस्य नित्यस्य फलं न प्राप्नोति । किम् उत काम्यस्येत्य् अर्थः । अतो नापधनः कम्यसोमयागं कुर्यात् । अनेनैवाभिप्रायेण शङ्खो ऽपि ।

त्रैवार्षिकाधिकान्नस् तु पिबेत् सोमम् अतन्द्रितः ।
इष्टिं वैश्वानरीं कुर्यात् तथैवाल्पधनो द्विजः ॥ इति ।

इष्टिग्रहणं सोमयागात् प्राचीनाग्निहोत्रादिकर्मोपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् । इति ।

प्राक्सोमोद्भवाः प्राक्सोमिक्यः । मनुर् अपि ।

पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
न त्व् अल्पदक्षिणैर् यज्ञैर् यजेतेह कथंचन ॥
इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् ।
हन्त्य् अल्पदक्षिणो यज्ञः तस्मान् नाल्पधनो यजेत् ॥

मत्स्यपुराणे ऽपि ।

अन्नहीनो दहेद् राष्ट्रं मन्त्रहीन तथर्त्विजः ।
यजन्तं दक्षिणाहीनो नस्ति यज्ञसमो रिपुः ॥ इति ।

अन्नपरिमाणम् अपि शङ्खेनोक्तम् ।

सहस्रं भोजयेत् सोमे ब्राह्मणानां शतं पशौ ।
चातुर्मास्येषु सर्वेषु शतं पर्वणि पर्वणि ॥ इति ।

यत् तु श्रुतौ - “दातव्यैव यज्ञे दक्षिणा भवत्य् अल्पिकापि” इति, तन् नित्याभिप्रायम् । अत एव बोधायनः ।

यस्य लुप्तानि नित्यानि तथैवाजस्रकाणि च ।
विपथस्थो हि न स्वर्गं गच्छेत् तु पतितो हि सः ॥
तस्मात् स्कन्दैः फलैर् मूलैर् मधुनाथ रसेन वा ।
नित्यं नित्यानि कुर्वीत न च नित्यानि लोपयेत् ॥ इति ।

तेनाल्पधनस्यापि नित्यसोमे ऽधिकारसिद्धिः । एवम् आधाने ऽपि द्रष्टव्यम् । तथा च प्रजापतिः ।

सर्वसंस्थाधिकारी स्याद् आहिताग्निर् धने सति ।
आदध्यान् निर्धनो ऽप्य् अग्निंन तु पापभयाद् द्विजः ॥

न पापभयाद् आहिताग्निः संस्थाधिकारी, किं तु धने सत्य् एव, तासां काम्यत्वात् । निर्धनो ऽलपधन इत्य् अर्थः । मनुर् अपि ।

प्राजापत्यम् अदत्वाश्वम् अग्न्याधेयस्य दक्षिणां ।
अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ॥

अविभवे तु ब्राह्मणो ऽश्वम् अदत्वाप्य् आहिताग्निर् भवतीति भावः । अत एव आपस्तम्बः - “यद्य् अनाढ्यो ऽग्नीन् आदधीत कामम् एवैकां गां दद्यात्” इति । अत्र कालनियमम् आह विष्णुः - “यद्य् अहर् एवैनं श्रद्धोपनम् एतत् तद् अहर् एवादधीत” इति । कार्ष्णाजिनिर् अपि ।

पुत्रम् उत्पाद्य कर्मैतत् कुर्याद् वैतानिकं बुधः ।
यथाकथंचिद् आदध्यात् प्राप्तं चेत् साधुतो धनम् ॥ इति ।

साधुग्रहणं शूद्रादिव्युदासार्थम् । अत एव मनुः ।

ये शूद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपासते ।
ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥
तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनां ।
पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ॥ इति ।

अनेनाधानपूर्वकम् अघिनोत्रं निषिद्ध्यते नाग्निहोत्रमात्रम्, “वृषऌआग्न्युपसेविनाम्” इति शूद्राग्नित्ववचनात् । यमो ऽपि ।

उपादाय धनं शूद्राद् यो ऽग्निहोत्रम् उपावसेत् ।
शूद्राग्निहोत्री स भवेद् ब्रह्मवादिषु गर्हितः ॥
परकर्मकरो नित्यं शूद्राग्नेः पर्युपासनात् ।
आत्मानं समधः (?) कृत्वा परांस् तारयते हि सः ॥

छागलेयो ऽपि ।

यः शूद्राद् अधिगम्यार्थान् अग्निहोत्रम् उपावसेत् ।
दाता तत्फलम् आप्नोति कर्ता च नरकं व्रजेत् ॥

एवं यज्ञार्थे ऽपि धने द्रष्टव्यम्, तत्रापि दोषश्रवणात् । तथा च यमः ।

धर्मविद् ब्राह्मणः शूद्राद् यज्ञार्थं नाहरेद् धनम् ।
जायते प्रेत्य चण्डालः शूद्रार्थेनेष्टवेदतः ॥

मनुर् अपि ।

न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत धर्मवित् ।
यजमानस् तु भिक्षित्वा चण्डालः प्रेत्य जायते ॥

याज्ञवल्क्यो ऽपि ।

चण्डालो जायते यज्ञकरणाच् छूद्रभिक्षितात् ।

शङ्खो ऽपि ।

न शूद्रात् तु धनं भिक्षेत् सर्वं दद्यात् तु भिक्षितम् ।

अनेनार्थाद् असर्वदानं निषिद्धम् इत्य् उक्तं भवति । अत एव मनुः ।

यज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
स याति भासतां विप्रः काकतां च शतं समाः ॥

यमो ऽपि ।

यज्ञार्थं भिक्षितं द्रव्यं यः सर्वं नोपयोजयेत् ।
श्वपाकयोनौ जायेत स तद् भुक्त्वा तु दुर्मतिः ॥ इति ।

यदा तु प्रक्रान्तयज्ञस्य मध्ये कथंचित् पश्वाद्यसंभवेन प्रतिरुद्धः तदा शूद्रादेस् तद् ग्राह्यम् इत्य् आह मनुः ।

यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः ।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥
यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः ।
कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ॥
आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।
न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ॥
न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ।
यो ऽनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः ।
तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अधिकारिनिरूपणम्