३७ अग्निहोत्रादि-कर्माणि

अथ कर्माणि

तत्र मनुः ।

वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः ।
तद् धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥

एतत् स्मार्तस्यापि प्रदर्शनार्थम् । अत एव विष्णुः ।

श्रौतं स्मार्तं च यत् किंचिद् विधानं सर्वम् आदरात् ।
गृहे निवसता कार्यम् अन्यथा दोषम् ऋच्छति ॥

स्मार्तं गृह्योक्तम् औपासनादि । तद् वैवाहिकाग्नौ कार्यम् । तथा च याज्ञवल्क्यः ।

कर्म स्मार्तं विवहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥

श्रौतम् अग्निहोत्रादि । वैतानिका गार्हपत्यादयः । गौतमो ऽपि - “भार्यादिर् अग्निर् दायादिर् वा तस्मिन् गृह्याणि” इति । दायं पितृधनम् । अत्र भार्यादित्वे दायादित्वे च यथा स्वगृह्यं व्यवस्था । एवं च यद् उक्तं गार्ग्येण,

कृत्वा दारान् न वै तिष्ठेत् क्षणम् अप्य् अग्निना विना ।
तिष्ठेत चेद् द्विजो व्रात्यस् तथा च पतितो भवेत् ॥
यथा स्नानं यथा भार्या वेदस्वाध्ययनं यथा ।
तथैवोपासनं दृष्टं न स्थितिस् तद्वियोगतः ॥

इति, यद् अप् वसिष्ठेन “अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रधर्माणो भवन्ति” इति, यद् अपि व्यासेन,

यो ऽगृहीतविवाहाग्निर् गृहस्थ इति मन्यते ।
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥

इति, तद् अधिकारप्राप्तौ सत्यां वेदितव्यम् । अश्रोत्रिया वेदरहिताः । अनुवाक्यम् अनुवचनं तद्विहीना अननुवाक्या ज्ञानरहिता इत्य् अर्थः । अत्र गर्गः ।

यो वैदिकम् अनादृत्य कर्म स्मार्तैतिहासिकम् ।
मोहात् समाचरेद् विप्रो न स पुण्येन युज्यते ॥
प्रधानं वैदिकं कर्म गुणभूतं तथेररत् ।
गुणनिष्ठः प्रधानं तु हित्वा गच्छत्य् अघोगतिम् ॥ इति ।

एतद् विद्यमानवैदिकसामर्थ्यविषयम् । अत एव व्यासः ।

श्रौतं कर्म न चेच् छक्तः कर्तुं स्मार्तं समाचरेत् ।
अत्राप्य् अशक्तः करणे सदाचारो भवेद् बुधः ॥

अनेन सति सामर्थ्ये भवितव्यं वैदिकेनेत्य् उक्तं भवति । उक्तं च वसिष्ठेन - “अलम् अग्न्याधेयाय नानाहिताग्निः स्यात्, अलं च सोमाय नासोमयाजी” इति । अलं समर्थ इत्य् अर्थः । सामर्थ्यं चानाहिताग्निपितृराहित्यादि । एवं च यस्याधानादिसामर्थ्यम् अस्ति तस्यैव “अनाहिताग्नितास्तेयम्” इत्यादिदोषो नान्यस्येत्य् अनुसंधेयम् । अत्र वसिष्ठः - “अवश्यं ब्राह्मणो ऽग्नीन् आदधीत । दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशुसोमैश् च यजेत” इति । हारीतो ऽपि ।

पाकयज्ञान् यजेन् नित्यं हविर्यज्ञांश् च नित्यशः ।
सौम्यांश् च विधिपूर्वेण य इच्छेद् धर्मम् अव्ययम् ॥ इति ।

ते च गौतमेन दर्शिताः - “अष्टका पार्वणं श्राद्धं श्रावण्याग्रयणी चैत्र्य् आश्वयुजी चेति सप्त पाकयज्ञसंस्थाः । अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यान्य् आग्रयनेष्टिर् निरूढपशुबन्धः सौत्रामणिर् इति सप्त् हविर्यज्ञसंस्थाः । अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्याम इति सप्त सोमसंस्थाः” इति । पार्वणं पर्वणि क्रियगाणं (?) स्थालीपाकलक्षणम् । श्राद्धं मासिस्राद्धम् । श्रावणी सर्पबलिः । आग्रयान्य् आग्रयणम् । चैत्री होलकाख्यं कर्म । आश्वयुजी इन्द्रद्वजहोमाख्यं कर्म । अन्ये प्रसिद्धाः । केचित् “औपासनहोमो वैश्वदेवं पार्वणम् अष्टका मासिश्राद्धं सर्पबलिर् ईशानबलिः” इति सप्त पाकयज्ञान् आहुः । एवम् एकविंशतिसंस्थं यज्ञम् अभिधाय देवलः - “वाजपेयाश्वमेधराजसूयपौण्डरीकगोसवादयो महायज्ञक्रतवः” इति । अत्र कालनियमम् आह मनुः ।

अग्निहोत्रं तु जुहुयाद् आद्यन्ते द्युनिशोः सदा ।
दर्शेन चार्धमासान्ते पूर्णमासेन चैव हि ॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः ।
पशुना त्व अयनस्यान्ते समान्ते सौमिकैर् मखैः ॥ इति ।

आद्यन्ते द्युनिशोः सायं प्रातः संध्ययोर् इत्य् अर्थः । अध्वरैश् चतुर्मास्यैः,

सस्ययुक्तो नवेष्ट्या तु चातुर्मास्यैः स्मृतो मखः ।

इति जाबालिस्मरणात् । अत्रानुकल्पम् आह याज्ञवल्क्यः ।

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयनेष्टिश् च चातुर्मास्यानि चैव हि ॥
एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः ॥ इति ।

एषां सोमादीनां कथंचिद् असंभवे प्रतिनिधित्वेन तत्तत्काल एव पृथक् पृथग् एताम् इष्टिं निर्वपेद् इत्य् अर्थः । तत्तत्कार्यकरत्वेन ततत्धर्मलाभात्, “प्रतिनिधिस् तद्धर्मा च स्यात्” इत्य् आपस्तम्बस्मरणात् । नन्व् एवं तर्हि सौमिकादिविध्यन्तरप्राप्तिः स्यात् । मैवम्, अग्निहोत्रादिशब्दस्य तत्तदङ्गवर्गप्राप्त्यर्थत्वात् । यत् पुनर् मनुनोक्तम्,

इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये ।
कॢप्तानां पशुसोमानां निष्कृत्यर्थम् असंभवे ॥ इति ।

तद् अपि पश्वादिकार्य एवेष्टिविधानपरं न पुनस् तदकरणे प्रायश्चित्तविधानार्थम् । निष्कृतिः सोमादिकार्यनिष्पत्तिः । यद्य् एवं वैश्वानर्यैवालं किम् अन्यैर् इत्य् आशङ्क्यानन्तरम् आह स एव ।

आपत्कल्पेन यो धर्मं कुरुते ऽनापदि द्विजः ।
स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥
विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः ।
आपत्सु मरणाद् भीतैर् वधेः प्रतिनिधिः कृतः ॥ इति ।

विधेर् मुख्यस्येत्य् अर्थः । अतो निष्कृतिग्रहणे ऽपि वैश्वानरेष्टिः प्रतिनिधिर् एव न प्रायश्चित्तम् इत्य् अनुसंधेयम् । एतेनैतेषां नित्यत्वम् इत्य् उक्तं भवति । उक्तं च प्रजापतिना अकरणे प्रायश्चित्तविधानात् । \

काले त्व् आधाय कर्माणि अप्रवासी विशेषतः ।
तपः कुर्वंस् त्रिरात्रेण मासि मासि विशुद्ध्यति ॥
दर्शं वा पौर्णमासीं वा लुप्त्वा चोभयम् एव वा ।
एकस्मिन् कृच्छ्रपादेन द्वयोर् अर्धेन शोधनम् ॥
हविर् यज्ञेष्व् अशक्तस्य लुप्तम् अप्य् एकम् आदितः ।
प्राजापत्येन शुद्ध्येत पाकसंस्थासु चैव हि ॥
संध्योपासनहानौ तु नित्यस्नानं विलोप्य च ।
होमं च नैत्यकं शुद्ध्येत् सावित्र्यष्टसहस्रकृत् ॥
समान्ते सोमयागानां हानौ चान्द्रायणं चरेत् ।
अकृत्वान्यतमं यज्ञं यज्ञानाम् अधिकारतः ॥
उपवासेन सुद्ध्येत पाकसंस्थासु चैव हि ॥

कात्यायनो ऽपि ।

पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च ।
अनिष्ट्वा नवयज्ञेन नवान्नप्राशने तथा ॥
भोजने पतितान्नस्य चरुर् वैश्वानरो भवेत् ॥ इति ।

मनुर् अप्य् अकृतनवयज्ञस्य नवाशननिषेधम् आह ।

नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः ।
नवान्नम् अद्यान् मांसं च दीर्घम् आयुर् जिजीविषुः ॥

अयं च नवान्ननिषेधो वक्ष्यमाणव्रीह्याद्यभिप्रायेण । तथा च आपस्तम्बः - “यद् अकृत्वाग्रयणं नवस्याश्नीयाद् देवेभ्यो भागं प्रतिकॢप्तम् अद्याद् आर्तिम् आर्च्छेत्” इति । विष्णुर् अपि ।

नवयज्ञाधिकारस्थाः श्यामाका व्रीहयो यवाः ।
अकृताग्रयणो नद्याद् अन्येष्व् अनियमः स्मृतः ॥ इति ।

अत्र कालनियमम् आह आपस्तम्बः - “वर्षासु श्यामाकैर् यजेत शरदि व्रीहिभिर् वसन्ते यवैर् यथर्तु वेणुयवैर् इति विज्ञायते” इति । श्रुतिर् अपि - “गृहमेधी व्रीहियवाभ्यां शरद्वसन्तयोर् जयेत श्यामाकैर् नीवारैर् वा वर्षास्व् आपत्कल्पो ऽन्योन्येन पुराणैर् वा” इति । अत्र कूर्मपुराणे ।

नास्तिक्याद् अथ वालस्याद् यो ऽग्नीन् नाधातुम् इच्छति ।
यजेत वा न यज्ञेन स याति नरकान् बहून् ॥
तस्मात् सर्वप्रयत्नेन ब्राह्मणो ऽपि विशेषतः ।
आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अग्निहोत्रादिकर्माणि