७० शयनविधिः

अथ शयनविधिः

तत्र याज्ञवल्क्यः ।

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविसेत् ॥

संविशेत् स्वपेद् इत्य् अर्थः । चकारो वैश्वदेवादेर् अपि समुच्च्यार्थः,

सायं प्रातर् वैश्वदेवः कर्तव्यो बलिकर्म च ।
अनश्नतापि सततम् अन्यथा किल्बिषी भवेत् ॥

इति कात्यायनस्मरणात् । एतच् च पाकान्तराद् आदाय कार्यं न पुनर् भुक्तशेष्टेन,

न च श्राद्धस्य यच् छिष्टं गृहे पर्युषितं च यत् ।
दम्पत्योर् भुक्तशिष्टं च भुक्त्वा चान्द्रायणं चरेत् ॥

इति तस्याभोज्यत्वस्मरणात्, “यद् आर्याणाम् अभोजनं स्यान् न तेन यजेत” इत्य् आपस्तम्बस्मरणात् । अत एव विष्णुपुराणम् ।

पुनः पाकम् उपादाय सायम् अप्य् अवनीपते (?) ।
वैश्वदेवनिमित्तं वै पत्न्या सार्धं बलिं हरेत् ॥
तत्रापि श्वपचादिभ्यस् तथैवान्नापवर्जनम् ।
अतिथिं चागतं तत्र स्वशक्त्या पूजयेत् ततः ॥
देवातिथौ तु विमुखे गते यत् पातकं नृप ।
तद् एवाष्टगुणं पुंसां सूर्योढे विमुखे गते ॥
कृतपादादिशौचश् च भुक्त्वा सायं ततो गृही ।
गच्छेच् छय्याम् अस्फुटितां दृढदारुमयीं नृप ॥ इति ।

गच्छेच् छय्यां शयनार्थम् इति शेषः । तत् कथम् इत्य् अपेक्षिते हारीतः ।

सुप्रक्षालितचरणः सर्वतो रक्षां कृत्वा उदकपूर्णघटादिमङ्गलोपेतः आत्माभिरुचिताम् अनुपहतां “सुत्रामाणम्” इति पठन् शय्याम् अधिष्ठाय रात्रिसूक्तं जप्त्वा विष्णुं नमस्कृत्य “सर्पापसर्प भद्रं ते” इत्य् एत्च् छ्लोकद्वयं जप्त्वा इष्टदेवतास्मरणं कृत्वा समाधिम् आस्थाय अन्यांश् च वैदिकान् मन्त्रान् सावित्रीं जप्त्वामङ्गलश्रुतिं शङ्खं च शृण्वन् दक्षिणशिराः स्वपेत् । इति ।

रक्षा चात्र गारुडैर् मन्त्रिः,

माङ्गल्यं पूर्णकुम्भं च शिरःस्थाने निधाय च ।
वैदिकैर् गारुडैर् मन्त्रैः रक्षां कृत्वा स्वपेत् ततः॥

इति पुराणस्मरणात् । रात्रसूक्तम् “रात्री स्वख्यदायती” इत्य् अष्टर्चम् । दक्षिणशिरा इति प्रदर्शनार्थम्,

प्राच्यां दिशि शिरःशस्तं याम्यायाम् अथ वा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥

इति पद्मपुराणस्मरणात् । अत्र विशेषम् आह व्यासः ।

शुचिदेशं विविक्तं तु गोमयेनोपलेपयेत् ।
प्रागुदक्प्रवणे चैव संविशेत् तु सदा बुधः ॥ इति ।

विविक्तं रहः । गोबिलो ऽपि - “स्नातः संवेशनवेलायां वैणवं दण्डम् उपनिदधाति शयनसमीपे सर्वां रात्रिं निश्चलं स्वस्त्ययनार्थम्” इति । पुराणे ऽपि ।

रात्रिसूक्तं जपेत् स्मृत्वा देवांश् च सुखशायिनः ।
नमस्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन् निशि ॥ इति ।

सुखशायिनो गोबिलेन दर्शिता ।

अगस्त्यो माधवश् चैव मुचुकुन्दो महाबलः ।
कपिलो मुनिर् आस्तीकः पञ्चैत सुखशायिनः ॥

अत्र मार्कण्डेयः ।

शून्यालये श्मशाने च एको वृक्षो चतुष्पथे ।
महादेवगृहे वापि मातृवेश्मनि न स्वपेत् ॥
न यक्षनागायतने स्कन्दस्यायतने तथा ।
कूलच्छायासु च तथा शर्करालोष्टपांसुषु ॥
न स्वपेच् च तथा दर्भे विना दीक्षां कथंचन ।
धान्यगोदेवविप्राणां गुरूणां च तथोपरि ॥
न चाप् भिन्नशयने नाशुचौ नाशुचिः स्वयम् ।
नार्द्रवासा न नग्नश् च नोत्तरापरमस्तकः ॥
नाकाशे सर्वतः शून्ये न च चैत्यद्रुमे तथा ॥

प्रचेता अपि - “न संध्यायां शयीत न देवसमीपे न देवसमाप्तौ नाशुचिर् न नग्नो न विशीर्णखट्वायां नान्यवर्णोपशायितयां नाश्मपीठोपहितायां न भूतयक्षग्रहायतनेषु न श्मशानवल्मीकमहावृक्षच्छायासु च” इति । विष्णुर् अपि - “नार्द्रपादवासाः स्वपेन् न पलाशशयने न पञ्चदारुकृते न गजभग्नकृते न विद्युद्दग्धे नाग्निप्लुष्टे न घटासिक्तद्रुमजे न श्मशानशून्यालयदेवतायतनेषु न च पलमध्ये न नारीमध्ये न धान्यगोगुरुहुताशनसुराणाम् उपरि नोच्छिष्टो न दिवा” इति । विष्णुपुराणे ऽपि ।

नाविशालां न वा भग्नां नासमां मलिनां न च ।
न च जन्तुमयीं शय्याम् अधितिष्ठेद् अनास्तृताम् ॥ इति ।

दक्षो ऽपि ।

प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ।
यामद्वयं शयानस् तु ब्रह्मभूयाय कल्पते ॥

अत्र कूर्मपुराणम् ।

इत्य् एतद् अखिलं प्रोक्तम् अहन्य् अहनि वै द्विजाः ।
ब्राह्मणानां कृत्यजातम् (?) अपवर्गफलप्रदम् ॥
नास्तिक्याद् अथ वालस्याद् ब्रह्मणो न करोति यः।
स याति नरकान् घोरान् काकयोनौ च जायते ॥
नान्यो विमुक्त ये पन्था मुक्त्वाश्रमविधिं स्वकम् ।
तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ॥ इति ।

इति श्रीसकलविद्याविशारद-श्रीकेशवादित्यभट्टोपाध्यायसुत-

**याज्ञिकदेवणभट्टोपाध्यायविरचितायां **

स्मृतिचन्द्रिकायां आह्निककाण्डः स्माप्तः