६८ भोजननियमे शिष्टम्

अथ भोजननियमप्रसङ्गाद् अन्यद् अपि तद्विषयं किंचिद् उच्यते

अत्र मनुः ।

चन्द्रसूर्यग्रहे नाद्याद् अद्यात् स्नात्वा विमुकयोः ।
अमुक्तयोर् अस्तगयोर् दृष्ट्वा स्नात्वा परे ऽहनि ॥ इति ।

अत्र चन्द्रसूर्यग्रहशब्देन तद्युक्तम् अहोरात्रं लक्ष्यते । एवं च चन्द्रसूर्यग्रहणयुक्ते ऽहोरात्रे तद्विमोचनात् पूर्वं न भुञ्जीतेत्य् उक्तं भवति । उक्तं च मार्कण्डेयेन ।

चन्द्रस्य यदि वा भानोर् यस्मिन्न् अहनि भार्गव ।
ग्रहणं तु भवेत् तत्र न पूर्वं भोजनक्रिया ॥
नाचरेत् सग्रहे (?) तस्मिंस् तथैवास्तम् उपागते ।
यावत् स्यान् नोदयस् तत्र नाश्नीयात् तावद् एव तु ॥ इति ।

तत्र तस्मिन्न् अहोरात्र इत्य् अर्थः । अत्रोदयग्रहणं कथंचिन् मुक्तादर्शने ऽप्य् उदये सति भोजनं यथा स्याद् इत्य् एवं कैश्चिद् व्याख्यातम् । अनेनैवाभिप्रायेण शातातपो ऽपि ।

अहोरात्रं तु नाश्नीयाच् चन्द्रसूर्यग्रहो यदा ।
मुक्तं दृष्ट्वा तु भुञ्जीत स्नानं कृत्वा विधानतः ॥ इति ।

चन्द्रग्रहे तु विशेषम् आह मार्कण्डेयः ।

ग्रहणं तु भवेद् इन्दोः प्रथमाद् अधियामतः ।
भुञ्जीतावर्तनात् पूर्वं प्रथमे प्रथमाद् अधः ॥ इति ।

प्रथमाद् अधि प्रथमयामाद् ऊर्ध्वम् इत्य् अर्थः । आवर्तनं मध्यंदिनम् । अनेन यस्मिन् यामे ग्रहणं ततः पूर्वं यामत्रयं परिहाय भुञ्जीतेत्य् उक्तं भवति । सूर्यग्रहे तु स्मृत्यन्तरोक्तो विशेषः ।

सूर्यग्रहे तु नाश्नीयात् पूर्वं यामचतुष्टयम् ।
चन्द्रग्रहे तु यामांस् त्रीन् बालवृद्धातुरैर् विना ॥

बालवृद्धातुरैर् इत्य् उभयत्र संबध्यते । अत एव मार्कण्डेयः ।

सायाह्ने ग्रहणं चेत् स्याद् अपराह्णे न भोजनम् ।
अपराह्णे न मध्याह्ने मध्याह्ने न तु सङ्गवे ॥
भुञ्जीत सङ्गवे चेत् स्यान् न पूर्वं भोजनक्रिया । इति ।

एवं च यद् उक्तं कूरपुराणे ।

नाद्यात् सूर्यग्रहात् पूर्वम् अह्नि सायं शशिग्रहात् ।
ग्रहकाले तु नाश्नीयात् स्नात्वाश्नीयाद् विमुक्तयोः ॥
मुक्ते शशिनि भुञ्जीत यदि न स्यान् महानिशा ।
स्नात्वा दृष्ट्वापरे ऽह्न्य् अद्याद् ग्रस्तास्तमितयोस् तयोः ॥

अत्राहःसायंशब्दाव् अनुवादकौ वचनान्तरप्राप्तकालोपलक्षणार्थौ वेत्य् अनुसंधेयम् । अत्र व्यासः ।

सर्वं भूमिसं दानं सर्वे ब्रह्मसमा द्विजाः ।
सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे ॥
इन्दोर् लक्षगुणं पुण्यं रवेः शतगुणं ततः ।
गङ्गातोये तु संप्राप्ते इन्दोः कोटी रवेर् दश ॥
इन्दोः कोटिसहस्रस्य यत् फलं लभते नरः ।
तत् फलं जाह्नवीस्नाने राहुग्रस्ते दिवाकरे ॥
दन्द्रसूर्यग्रहे चैव यो ऽवगाहेत जाह्नवीम् ।
स स्नातः सर्वतीर्थेषु किम् अर्थम् अटते महीम् ॥
सूर्यवारे रविग्रासः सोमे सोमग्रहस् तथा ।
वारेष्व् अन्येषु यत् पुण्यं ग्रहणे चन्द्रसूर्ययोः ।
तत् पुण्यं कोटिगुणितं ग्रासे चूडामणौ स्मृतम् ॥

षट्त्रिंशन्मते ऽपि ।

सर्वेषाम् एव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्माणि कुर्वीत शृतम् अन्नं विवर्जयेत् ॥

सूतकग्रहणं सचेलस्नानप्राप्त्यर्थम् । अत एव वृद्धवसिष्ठः ।

सर्वेषाम् एव वर्णानां सूतकं राहुसूतके ।
सचेलं तद् भवेत् स्नानं सूतकान्नं च वर्जयेत् ॥

सूतकान्नं राहुसूतकान्नम् । अत्र शातातपः ।

सर्वस्वेनापि कर्तव्यं श्राद्धं राहुसमागमे ।
अकुर्वाणस् तु तच् छ्राधं पङ्के गौर् इव सीदति ॥

ऋष्यशृङ्गो ऽपि ।

राहुग्रस्ते तु वै सूर्ये यस् तु श्राद्धं प्रकल्पयेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे ॥
स्नानं दानं तपः श्राद्धम् अनन्तं राहुदर्शने ।
आसुरी रात्रिर् अन्यत्र तस्मात् तां परिवर्जयेत् ॥

राहुदर्शनग्रहणं संक्रान्त्यादेर् अपि प्रदर्शनार्थम्,

राहुदर्शनस्ंक्रान्तिविवाहात्ययवृद्द्धिषु ।
स्नानदानादिकं कुर्यान् निशि काम्यव्रतेषु च ॥

इति देवलस्मरणात् । अत्ययो मरणम् । श्राद्धद्रव्यं च शातातपोक्तम् ।

आपद्य् अनग्नौ तीर्थे च चन्द्रसूर्ग्रहे तथा ।
आमश्राद्धं द्विजः कुर्याच् छूद्रो दद्यात् सदैव हि ॥

बोधायनो ऽपि ।

अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं सग्रहे च शूद्रः कुर्यात् सदैव हि ॥ इति ।

अत्र कालनियमो वृद्धवसिष्ठेन दर्शितः ।

त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस् तथा ।
मनुष्या मध्यमे काले मोक्षकाले तु राक्षसाः ॥

अत्र लिङ्गपुराणम् ।

चन्द्रसूर्यग्रहे स्नायात् सूतके मृतके ऽपि वा ।
अस्नायी मृत्युम् आप्नोति स्नायी पापं न विन्दति ॥
सूतके मृतके चैवे न दोषो राहुदर्शने ।
तावद् एव भवेच् छुद्धिर् यावन् मुक्तो न दृश्यते ॥
त्रिरात्रं समुपोष्यैव ग्रहणे चन्द्रसूर्ययोः ।
स्नात्वा दत्वा च विधिवन् मोदते ब्रह्मणा सह ॥
एकरात्रम् उपोष्यैव स्नात्वा दत्वा च शक्तितः ।
कञ्चुकाद् इव सर्पस्य निष्कृतिः पापकोशतः ॥

शातातपो ऽपि ।

अयने विषुवे चैवे चन्द्रसूर्यग्रहे तथा ।
अहोरात्रोषितः स्नातः सर्वपापैः प्रमुच्यते ॥

एवं च यद् उक्तं षट्त्रिंशन्मते,

सूर्यग्रहो यदा रात्रौ दिवा चन्द्रग्रहस् तथा ।
तत्र स्नानं न कुर्वीत दद्याद् दानं न च क्वचित् ॥

तद् यद् बूभागावस्थितानाम् उपरागो न दृश्यते तद्विषयम् इत्य् अवगन्तव्यम् ॥

इति स्मृतिचन्द्रिकायां ग्रहणविषयाः