६७ भोक्तृनियमाः

अथ भोक्तृनियमाः

तत्र हारीतः - “मार्जनार्चनबलिकर्मभोजनानि दैवेन तीर्थेन कुर्यात्” इति । दैवं तीर्थम् अङ्गुल्यग्रम् । आपस्तम्बो ऽपि ।

यत्नेन धारयेद् विप्रः पवित्रं दक्षिणे करे ।
भुञ्जानस् तु विशेषेण अन्नदोषैर् न लिप्यते ॥

अत्रिर् अपि ।

ब्रह्मयज्ञे जपे चैव ब्रह्मग्रन्थिर् विधीयते ।
भोजने वर्तुलः प्रोक्तः एवं धर्मो न हीयते ॥

विष्णुपुराणे ऽपि ।

प्रशस्तरत्नपाणिस् तु भुञ्जीत प्रयतो गृही ।
भुञ्जीतोद्धृतसाराणि न कदाचिद् नरेश्वर ॥

वसिष्ठो ऽपि - “न च मुखशब्दं कुर्यात् सर्वाबिर् अङ्ग्लीभिर् अश्नीयात् पाणिं च नावधूनुयात्” इति । मार्कण्डेयो ऽपि ।

आपोऽशनं सर्वतीर्थं यवद् अन्नं न लङ्घयेत् ।
बाहुना लङ्घितं त्व् अन्नम् अभोज्यं मनुर् अव्रवीत् ॥
यस् तु पाणितले भुङ्क्ते यः सवायु समश्नुते ।
अङ्गुलीं चोद्धरेद् यस् तु गोमांसाशनवत् स्मृतम् ॥

सवायु समश्नुते सशब्दं ग्रसत इत्य् अर्थः । ब्रह्मपुराणे ऽपि ।

ग्रामशेषं न चाश्नीयात् पीतशेषं पिबेन् न तु ।
शाकमूलफलेक्षूणि दन्तच्छेदैर् न भक्षयेत् ॥

बोधायनो ऽपि - “सर्वभक्षापूपकन्दमूलफलमांसानि दन्तैर् नावद्यात् । नातिसुहितः” । नातिसुहितो ऽतितृप्त इत्य् अर्थः । मनुर् अपि ।

अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥

यमो ऽपि ।

नोच्छिष्टं भक्षयेत् किंचिन् न गच्छन् वा कदाचन ।
खट्वारूढो न भुञ्जीत न पाणिस्थं कदाचन ॥

मार्कण्डेयपुराणे ऽपि ।

नास्नातो न च संविष्टो न चैवान्यमना नरः ।
न चैव शयने नोर्व्याम् उपविष्टो न शब्दवत् ॥
न चैकवस्त्रो न वदन् प्रेक्षताम् अप्रदाय च ।
भुञ्जीत पुरुषः स्नातः सायं प्रातर् यथाविधि ॥

नाश्नीयाद् इत्य् अनुवृत्तौ मार्कण्डेयो ऽपि ।

पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ।

उशनापि ।

नादत्वा मृष्टम् अश्नीयान् न बहूनां च पश्यताम् ।
नाश्नीयुर् बहवश् चैव तथा चैकस्य पश्यतः ॥

हारीतो ऽपि - “न च तद् अश्नीयाद् येनान्नेन देवपितृमनुष्ययज्ञान् न कुर्यात्” इति । वृद्धमनुर् अपि ।

न पिबेन् न च भुञ्जीत द्विजः सव्येन पाणिना ।
नैकहस्तेन च जलं शूद्रेणावर्जितं पिबेत् ॥
पिबतो यत् पतेत् तोयं भोजने मुखनिःसृतम् ।
अभोज्यं तद् भवेद् अन्नं भोक्ता भुञ्जीत किल्बिषम् ॥
पीतावशेषितं कृत्वा ब्राह्मणः पुनर् आपिबेत् ।
त्रिरात्रं तु व्रतं कुर्याद् वामहस्तेन वा पुनः ॥

एकहस्तेनावर्जितं जलम् इत्य् अर्थः । चतुर्विंशताव् अपि ।

हस्ताद् ऋते ऽम्बु चान्येन नाश्नन् पात्राद् ऋते पिबेत् ।

विष्णुर् अपि ।

नोच्छिष्टो घृतम् अश्नीयाद् अश्नीयाच् चातिजीर्णितः । इति ।

आदिपुराणे ऽपि ।

नोच्छिष्टो ग्राहयेद् आज्यं जग्धशिष्टं न संत्यजेत् ।
शूद्रभुक्तावशिष्टं तु नाद्याद् भाण्डस्थितं तथा ॥ इति ।

देवलो ऽपि ।

एकवस्त्रो न भुञ्जीत कवाटम् अपिधाय वा ।
यानस्थः शकटस्थो वा पादुकानिकटे ऽपि वा ॥

अत्रिर् अपि ।

आसने पादम् अरोप्य (?) यो भुङ्क्ते ब्राह्मणः क्वचित् ।
मुखेन धमितं चान्नं तुल्यं गोमांसभक्षणे ॥

बोधायनो ऽपि ।

भोजनं च जपं दानम् उपहारः प्रैग्रहः ।
न बहिर् जानु कार्याणि तद्वद् आचमनं स्मृतम् ॥ इति ।

बृहस्पतिर् अपि ।

न स्पृशेद् वामहस्तेन भुञ्जानो ऽन्नं कदाचन ।
न पादौ न शिरो वस्तिं (?)न पदा भाजनं स्पृशेत् ॥

वस्तिर् नाभेर् अधः । आपस्तम्बो ऽपि ।

अग्न्यगारे गवां गोष्ठे देवब्राह्मणसंनिधौ ।
जप्ये भोजनकाले च पादुके परिवर्जयेत् ॥
नोत्सङ्गे भाजनं कृत्वा भुञ्जीत स्नातको द्विजः ।
न च पाणितले कृत्वा न शय्यायां न चासने ॥

आदिपुराणे ऽपि ।

शयनस्थो न भुञ्जीत न चान्यासनसंस्थितः ।
न संध्ययोर् न मध्याह्ने नार्धरात्रे कदाचन ॥
नार्द्रवासा नार्द्रशिरा न चायज्ञोपवितवान् ।
न यन्त्रारूढपादस् तु न च सार्धं तु भायया ॥
शून्यालये न चास्नीयान् न च देवाग्निवेश्मनि ।
मातापित्रोर् अथोच्छिष्टं बालो भुञ्जन् भवेत् सुखी ॥

विष्णुपुराणे ऽपि ।

नाश्नीयाद् भार्यया सार्धं नाकाशे न तथोत्थितः ।
शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम् ॥

प्रौढपादः आसनाद्यारोपितपादः । अवसक्थिका जान्वोर् मध्यस्य च वस्त्रादिना बन्धनम् । यत् तु,

ब्राह्मण्या सह यो ऽश्नीयाद् उच्छिष्टं वा कदाचन ।
न तस्य दोषम् इच्छन्ति नित्यम् एव मनीषिणः ॥
उच्छिष्टम् इतरस् त्रीणां यो ऽश्नीयाद् ब्राह्मणः क्वचित् ।
प्रायश्चित्ती स विज्ञेयः संकीर्णो मूढचेतनः ॥

इति, न तत् सर्वथा दोषाभावप्रतिपादनपरम्, कदाचनेति वचनात् । अत एव आदिपुराणे ।

ब्राह्मण्या भायया सार्धं क्वचिद् भुञ्जीत वाध्वनि ।
अधोवर्णस्त्रिया सार्धं भुक्त्वा पतति ततिक्षणात् ॥ इति ।

अत्र पैठीनसिः - “नानियुक्तो ऽग्रासनं गच्छेत्” इति । भोक्तुम् इति शेषः । शङ्खो ऽपि - “नाग्रासनस्थः पूर्वम् अश्नीयात्” इति । शातातपो ऽपि ।

अग्रासनोपविष्टस् तु यो भुङ्क्ते प्रथमं द्विजः ।
बहूनां पश्यतां सो ऽज्ञः पङ्क्त्या हरति किल्बिषम् ॥ इति ।

गोबिलो ऽपि ।

एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने ।
यद्य् एको ऽपि त्यजेत् पात्रं नाश्नीयुर् इतरे ऽप्य् अनु ॥
मोहात् तु भुङ्क्ते यस् तत्र स सान्तपनम् आचरेत् ।
भुञ्जानेषु तु विप्रेषु यस् तु पात्रं परित्यजेत् ।
भोजने विघ्नकर्तासौ ब्रह्महा च तथोच्यते ॥

आदिपुराणे ऽपि ।

एकपङ्क्तिर् अनुत्थाय मधे चेद् आचमेत् परः ।
तदा शेषं विहायैव ततः सम्यग् उपस्पृशेत् ॥
अप्य् एकपङ्क्त्यां नाश्नीयाद् ब्राह्मणैः स्वजनैर् अपि ।
को हि जानाति किं तस्य प्रच्छन्नं पातकं भवेत् ॥ इति ।

यतः सर्वेषां पातकं भवतीत्य् अभिप्रायः । अत एव बृहस्पतिः ।

एकपङ्क्त्युपविष्टानां दुष्कृतं यद् दुरात्मनाम् ।
सर्वेषां तत्समं तावद् यावत् पङ्क्तिर् न भिद्यते ॥ इति ।

पङ्क्तिभेदो ऽपि तेनैव दर्शितः ।

अग्निना भस्मना वापि स्तम्भेन सलिलेन वा ।
द्वारेण चैव मार्गेण पङ्क्तिभेदो बुधैः स्मृतः ॥

हारीतो ऽपि ।

उदकं च तृणं भस्म द्वारं पन्थास् तथैव च ।
एभिर् अन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते ॥ इति ।

अत्र अत्रिः ।

आचान्तो ऽप्य् अशुचिस् तावद् यावत् पात्रम् अनुद्धृतम् ।
उद्धृते ऽप्य् अशुचिस् तावद् यावद् भूमिर् न लिप्यते ॥
भूमाव् अपि हि लिप्तायां तावत् स्याद् अशुचिः पुमान् ।
आसनाद् उत्थितस् तस्माद् यावन् न स्पृशते महीम् ॥ इति ।

इति स्मृतिचन्द्रिकायां भोक्तृनियमाः