६६ भोजनविधिः

अथ भोजनविधिः

तत्र मनुः ।

भुक्तवत्सु च विप्रेषु भृत्येष्व् अन्येषु चैव हि ।
भुञ्जीयायां ततः पश्चाद् विधसं तं तु दम्पती ॥

विघसं भुक्तशिष्टम् । तथा च व्यासः ।

विधसाशी भवेन् नित्यं नित्यं चामृतभोजनः ।
विघसं भुक्तशिष्टं तु यज्ञशिष्टं तथामृतम् ॥ इति ।

अनेन न कदाचिद् अप्य् आत्मार्थम् अन्नं पचेद् इत्य् अर्थाद् उक्तं भवति । उक्तं च देवलेन ।

नात्मार्थं पचयेद् अन्नं नात्मार्थं घातयेत् पशून् ।
देवार्थे ब्राह्मणार्थे च पचमानो न लिप्यते ॥

मनुर् अपि ।

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।
यज्ञशिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते ॥

अत्र दिङ्नियमम् आह स एव ।

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्त उदङ्मुखः ॥

आयुषे हितम् आयुष्यम् । तत् प्राङ्मुखो भुञ्जीत । यससे हितं यशस्यं दक्षिणामुखो भुञ्जीत । श्रियम् इच्छन् प्रत्यङ्मुखः । ऋतं सत्यम् । तद् इच्छन्न् उदङ्मुख इत्य् अर्थः । विष्णुर् अपि - “प्राङ्मुखो ऽश्नीयाद् दक्षिणामुखो वा” इति । अत्र आपस्तम्बः - “दक्षिणामुखो भुञ्जीत । अनायुष्यं त्व् एवंमुखस्य भोजनं मातुर् इत्य् उपदिशन्ति” इति । एतच् च भोजनं रहसि कार्यम् । तथा च देवलः ।

आहारं तु रहः कुर्याद् विहारं चापि सर्वतः ।
गुप्तो हि लक्ष्म्या युक्तः स्यात् प्रकाशे हीयते श्रिया ॥ इति ।

रहो गुप्तप्रदेशः । पद्मपुराणे ऽपि ।

गुप्ते चैव प्रदेशे तु प्राङ्मुखो वाप्य् उदङ्मुखः ।
सुखासने समासीनः पादौ कृत्वा महीतले ॥ इति ।

अत्र विशेषम् आह देवलः ।

उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वाग्यतः ।
प्राङ्मुखो ऽन्नानि भुञ्जीत शुचिः पीठम् अधिष्ठितः ॥

भविष्यत्पुराणे ऽपि ।

सद्यः कृतोपलेपे तु बहिर् आचम्य वाग्यतः ।
उदङ्मुखः प्राङ्मुखो वा सम्यग् विधृतभोजनः ॥

बहिर्भोजनशालात इत् शेषः ।

यस् तु भोजनशालायां भोक्तुकाम उपस्पृशेत् ।
आसनस्थो न चान्यत्र स विप्रः पङ्क्तिदूषकः ॥

इत्य् आपस्तम्बस्मरणात् । कृतोपलेपे गोमयेनेति शेषः । तथा च बोधायनः ।

मन्त्रेणैव द्विर् आचम्य गोमयेनोपलेपिते ।
भस्मना वारिणा वापि कारयेन् मण्डलं ततः ॥ इति ।

अत्र विशेषम् आह शङ्खः ।

आदित्या वसवो रुद्रा ब्रह्मा चैव पितामहः ।
मण्डलान्य् उपजीवन्ति तस्मात् कुर्वीत मण्डलम् ॥
चतुष्कोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य तु ।
मण्डलाकृतिं वैश्यस्य शूद्रसाभ्युक्षणं स्मृतम् ॥ इति ।

अत्र यमः ।

आर्द्रपादस् तु भुञ्जीत नार्द्रपादस् तु संविशेत् ।
आर्द्रपादस् तु भुञ्जानो दीर्घम् आयुर् अवाप्नुयात् ॥ इति ।

पादग्रहणम् अङ्गपञ्चकोपलक्षणार्थम् । अत एव व्यासः ।

पञ्चार्ध्रो भोजनं कुर्यात् प्राङ्मुखो मौनम् आस्थितः ।
हस्तौ पादौ तथैवास्यम् एषु पञ्चार्द्रता मता ॥

मार्कण्डेयो ऽपि ।

नैकवासास् तथाश्नीयाद् भिन्नभाण्डेन मानवः ।
अनार्द्रपाणिपादश् च तथैवानार्द्रमस्तकः ॥ इति ।

न भिन्नभाण्डेनेति ताम्रादिव्यतिरिक्तविषयम् । अत एव पैठीनसिः - “ताम्ररजतसुवर्णशङ्खशुक्त्यश्मस्फटिकानां भिन्नम् अभिन्नम् इति न दोषः” इति । प्रचेता अपि ।

न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषितैः ।
अन्यत्र ताम्ररौप्याब्जसौवर्णाद् भाजनाद् द्विजः ॥ इति ।

अब्जं शङ्खादि । भोजनपात्रं प्रकृत्य पैठीनसिः ।

ब्रह्मपत्रे तु यो बुङ्क्ते मासम् एकं निरन्तरम् ।
त्रिंशच् चान्द्रायणैस् तुल्यं महापातकनाशनम् ॥
सौवर्णे राजते पत्रे ताम्रे पद्मपलाशयोः ।
भोजने भोजने चैव त्रिरात्रात् पलम् अश्नुते ॥

ब्रह्मपत्रं पलाशपत्रम् । पुराणे ऽपि ।

पलाशेषु च पत्रेषु मध्यमेषु च भारत ।
यः करोत्य् अशनं तस्य प्राजापत्यं दिने दिने ॥
य इच्छेद् ऊर्ध्वगामित्वं परं स्थानं च शाश्वतम् ।
पद्मपत्रे तु भोक्तव्यं मासम् एकं निरन्तरम् ॥

पैठीनसिर् अपि ।

एक एव तु यो भुङ्क्ते विमले कांस्यभाजने ।
भोजने भोजने चैव त्रिरात्रफलम् अश्नुते ॥
एक एव तु यो भुङ्क्ते विमले कांस्यभाजने ।
चत्वारि तस्य वर्धन्ते आयुः प्रज्ञा यशो बलम् ॥

कांस्यभाजनं यत्यादिव्यतिरिक्तविषयम् । तद् आह प्रचेताः ।

ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् ।
यतिश् च ब्रह्मचारी च विधवा च विवर्जयेत् ॥

अत्र वर्ज्यान्य् आह पैठीनसिः ।

वटार्काश्वत्थपर्णेषु कुम्भीश्र्यौदुम्बरेषु च ।
श्रीकामो नैव भुञ्जीत कोविदारकरञ्जयोः ॥

हारीतो ऽपि ।

न कार्ष्णायसे मृण्मये वा पात्रे ऽश्नीयात् । इति ।

प्रचेता अपि ।

मृण्मये पर्णपृष्ठे वा कार्पासे तान्तवे तथा ।
नाश्नीयान् न पिबेच् चैव न करे न तथासने ॥ इति ।

तथासनान्य् अपि वर्ज्यानि तेनैव दर्शितानि ।

गोशकृन्मृण्मयं भिन्नं तथा पालाशम् एव च ।
लोहबद्धं सदैवार्कं वर्जयेद् आसनं बुधः ॥ इति ।

अत्र कूर्मपुराणम् ।

पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय तु ।
उपवासेन तत् तुल्यं मनुर् आह प्रजापतिः ॥

व्यासो ऽपि ।

भूमौ पात्रं प्रतिष्ठाप्य यो भुङ्क्ते वाग्यतः शुचिः ।
भोजने भोजने चैव त्रिरात्रफलम् अश्नुते ॥
न्यस्तपात्रस् तु भुञ्जीत पञ्चग्रासान् महामुने ।
शेषम् उद्धृत्य भोक्तव्यं श्रूयताम् अत्र कारणम् ॥
विप्रुषां दोषसंस्पर्शः पादचेलरजस् तथा ।
सुखेन भुङ्क्ते विप्रेन्द्र पित्रर्थं तु न लिप्यते ॥ इति ।
पित्रर्थं भूमौ पात्रं प्रतिष्ठाप्य न तल् लेपनीयम् । इतरम् उद्धृत्य तत्पात्रे भुञ्जीतेत्य् अर्थः । वाग्यमनं प्रकृत्य पुराणे ऽपि ।

स्नास्यतो वरुणः शक्तिं जुह्वतो ऽग्निः श्रियं हरेत् ।
भुञ्जतो मृत्युर् आयुष्यं तस्मान् मौनं त्रिषु स्मृतम् ॥ इति ।

यत् तु अत्रिणोक्तम्,

मौनव्रतं महाकष्टं हुंकारेणापि नश्यति ।
तथा सति महान् दोषस् तस्मात् तं नियतं चरेत् ॥ इति ।

तत् काष्ठमौनाभिप्रायम् । एतच् च ग्रासाद् उपरि वेदितव्यम्,

अनिन्दन् भक्षयेन् नित्यं वाग्यतो ऽन्नम् अकुत्सयन् ।
पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हित् तत् ॥

इति वृद्धमनुस्मरणात् । अकुत्सयन् अनिन्दन्न् इत्य् अर्थः । अत्र शातातपः ।

हस्तदत्तानि चान्नानि प्रत्यक्षलवणं तथा ।
मृत्तिकाभक्षणं चैव गोमांसाशनवत् स्मृतम् ॥

वृद्धवसिष्ठो ऽपि ।

घृतं वा यदि वा तैलं विप्रो नाद्यान् नखच्युतम् ।
यमस् तम् अशुचिं प्राह तुल्यं गोमांसभक्षणे ॥

पैठीनसिर् अपि ।

लवणं व्यञ्जनं चैव घृतं तैलं तथैव च ।
लेह्यं पेयं च विविधं हस्तदत्तं न भक्षयेत् ॥ इति ।

केन तर्हि देयम् इत्य् अपेक्षिते मनुः ।

दर्व्या देयं घृतान्नं तु समस्तव्यञ्जनानि च ।
उदकं यच् च पक्वान्नं यो दर्व्या दातुम् इच्छति ।
स भ्रूणहा सुरापश् च स स्तेनो गुरुतल्पगः ॥

अत्र बोधायनः ।

सर्वावश्यकावसाने सुप्रक्षालितपाणिपादो ऽप आचम्य संमृष्टोपलिप्ते देशे प्राङ्मुख उपविश्य तद्भूतम् आह्रियमाणं भूर् भुवः सुवर् ओम् इत्य् उपस्थाय वाचं यच्छेत् । न्यस्तम् अन्नं महाव्याहृतिभिः प्रदक्षिणम् उदकं परिषिच्य सव्येन पाणिनाविमुञ्चन्न् अमृतोपस्तरणम् असीति पुरस्ताद् अपः पीत्वा पञ्चान्नेन प्राणाहूतीर् जुहोति प्राणे निविष्टो ऽमृतं जुहोमि शिवो माविशाप्रदाहाय प्राणाय स्वाहेति । पञ्चान्नेन प्राणाहुतीर् हुत्वा तूष्णीं भूयो व्रतयेत् प्रजापतिं मनसा ध्यायन् नातिसुहितो ऽमृतापिधानम् असीति तदुपरिष्ठाद् अपः पीत्वाचान्तो हृदयदेशम् अभिमृशति प्राणानां ग्रन्थिर् असि रुद्रो मा विशान्तकस् तेनान्नेनाप्यायस्वेति पुनर् आचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति, अङ्गुष्ठमात्रः पुरुषो ऽङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥ इति ।

हुतानुमन्त्रणम् ऊर्ध्वहस्तः समाचरेत् । श्रद्धायां प्राणे निविश्यामृतं हुतं प्राणम् अन्नेनाप्यायस्वेति । एवम् अपानव्यानोदानसमानाभिः पञ्चभिः । ब्रह्मणि म आत्मामृतत्वायेत्य् अक्षरेणात्मानं योजयेत् । सर्वक्रतुयाजिनाम् आत्मयाजी विशिष्यत इति । अथाप्य् उदाहरन्ति ।

यथा हि तूलम् ऐषीकम् अग्नौ प्रोतं प्रदीप्यते ।
तद्वत् सर्वाणि पापानि दह्यन्ते ह्य् आत्मयाजिनः ॥ इति ।

गोबिलो ऽपि ।

अथातः प्राणाहुतिकल्पो व्याहृतिभिर् गायत्र्याभिमन्त्र्य ऋतं त्वा सत्येन परिषिञ्चामीति सायं सत्यं त्वर्तेन परिषिञ्चामीति प्रातः अन्तश् चरसि भूतेषु गुहायां विस्वतो मुखः । त्वं यज्ञस् त्वं विष्णुस् त्वं वषट्कारस् त्वं ब्रह्म त्वं प्रजापतिः आपो ज्योतीरसो ऽमृतं ब्रह्म भूर् भुवः सुवर् ओम् अमृतोपस्तरणम् असीत्य् अपः पीत्वा दश्होतारं मनसानुद्रुत्यात्वरयन् पञ्चग्रासान् गृह्णीयत् प्राणाय स्वाहेति । गार्हप्त्यम् एतेन जुहोति । अपानाय स्वाहेति । अन्वाहार्यपचनम् एतेन जुहोति । व्यानाय स्वाहेति । आहवनीयम् एतेन जुहोति । उदानाय स्वाहेति । सभ्यम् एतेन जुहोति । समानाय स्वाहेति । आवसथ्यम् एतेन जुहोति ॥ इति ।

एते मन्त्रा स्वाहाकारान्ताः प्रणवाद्याश् च । तथा च शौनकः ।

स्वाहान्ताः प्रणवाद्याश् च नाम्ना मन्त्रास् तु वायवः ।
जुह्वन्न् एव ग्रसेद् अन्नं दशनैश् च संस्पृशेत् ॥

अत्र विशेषम् आह स एव ।

तर्जनीमद्यमाङ्गुष्ठलग्नं प्राणाहुतौ भवेत् ।
मध्यमानामिकाङ्गुष्ठैर् अपाने जुहुयाद् बुधः ॥
कनिष्ठानामिकाङ्गुष्ठैर् व्याने तु जुहुयाद् धविः।
तर्जनीं तु बहिः कृत्वा उदाने जुहुयाद् बुधः ।
समाने सर्वहस्तेन समुआयाहुतिर् भवेत् ॥

विष्णुर् अपि ।

श्रूयताम् कथयामीह हूयते च यथा मुखे ।
भूमौ पात्रं प्रतिष्ठाप्य ॐकारेणैव संयुतम् ॥
तदन्नं पञ्चभिश् चैव अङ्गुलीभिर् मुखे क्षिपेत् ॥ इति ।

अन्नोपकल्पनानन्तरं भविष्यत्पुराणम् ।

भोजनात् किंचिद् अन्नग्रं धर्मराजाय् वै बलिम् ।
दत्वाथ् छिन्नगुप्ताय धर्मराजाय वै बलिम् ॥
यत्र क्वचन संस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
प्रेतानां तृप्तये ऽक्षय्यम् इदम् अस्तु यथासुखम् ॥ इति ।

अत्र विष्णुपुराणम् ।

अश्नीयात् तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।
लवणाम्लो तथा मध्ये कऋउतिक्तादिकांस् ततः ॥
प्राग्द्रवं पुरुषो ऽश्नीयान् मध्ये तु कठिनाशनम् ।
अन्ते पुनर् द्रवाशी तु बलारोग्ये (?) न मुञ्चति ॥

मरीचिर् अपि ।

भुक्त्वा दध्न्यानुपानं तु न कर्तव्यं च वारिणा ।
भुक्त्वा क्षीरोदनं पश्चान् नातितृप्तः स्पृशेद् बुधः ॥

वृद्धमनुर् अपि ।

पीत्वापोशनम् अश्नीयात् पात्रदत्तम् अगर्हितम् ।
भार्याभृतकदासेभ्य उच्छिष्टं शेषयेत् ततः ॥

अत्र केषुचिद् अपवादम् आह पुलस्त्यः ।

भोजनं तु न निःशेषं कुर्यात् प्राज्ञः कथंचन ।
अन्यत्र दधिसक्त्वाज्यपललक्षीरमध्वपः ॥ इति ।

पललं मांसम् । एतद् अपि सायं प्रतः कार्यम्, “सायं प्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत” गौतमस्मरणात् । अनेनार्थान् नान्तरा भुञ्जीतेत्य् उक्तं भवति । उक्तं च मनुना ।

सायं प्रातर् द्विजातीनाम् अशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्याद् अग्निहोत्रसमो विधिः ॥

अग्निहोत्रसम इत्य् अनेन कालद्वये ऽपि भोजनम् आवश्यकम् (?) इत्य् आह । अत एव श्रुतिः - “तस्मात् सायं प्रातर् आवश्यकं भोजनं स्यात्” इति । भोजनं प्रकृत्य आपस्तम्बः ।

अष्टौ ग्रासा मुनेर् भक्षाः षोडशारण्यवासिनः ।
द्वात्रिंशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥
आहिताग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥ इति ।

उपवासादौ बोधायनोक्तम् ।

गृहस्थो ब्रह्मचारी च यो ऽनश्नंस् तु तपश् चरेत् ।
प्राणाग्निहोत्रलोपेन अवकीर्णो भवेत् तु सः ॥
प्राणाग्निहोत्रमन्त्रांस् तु निरुद्धे भोजने जपेत् ।
त्रेताग्निहोत्रमन्त्रांस् तु द्रव्यालाभे यथा जपेत् ॥ इति ।

भोजनानन्तरं देवलः ।

भुक्त्वोच्छिष्टं समादाय सर्वस्मात् किंचिद् आचमन् ।
उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद् भुवि ॥ इति ।
मन्त्रस् तु ।

रौरवे ऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनाम् उदकं दत्तम् अक्षय्यम् उपतिष्ठतु ॥ इति ।

अत्र गद्यव्यासः - “ततस् तृप्तअः सन् ऽअमृतापिधानम् असिऽ इत्य् अपः प्राश्य तस्माद् देशान् मनाग् अपसृत्य विधिवद् आचामेत्” इति । अपां प्राशने विशेषम् आह स एव व्यासः ।

हस्तं प्रक्षाल्य गण्डूषं यः पिबेत् पापमोहितः ।
न दैवं नैव पित्र्यं च आत्मानं नैव साधयेत् ॥
अर्धं पीत्वाथ गण्डूषम् अर्धं त्याज्यं महीतले ।
रसातलगतान् नागांस् तेन प्रीणाति नित्यशः ॥

अत्र देवलः ।

भुक्त्वाचम्य तथोक्तेन विधानेन समाहितः ।
शोधयेन् मुखहस्तौ च मृद्भिर् घर्षणकरैर् अपि ॥
आचम्य च ततः कार्यं दन्तकाष्ठस्य भक्षणम् ।
भोजने दन्तलग्नांश् च निर्हृत्याचमनं चरेत् ॥
दन्तलग्नम् असंहार्यं लेपं मन्येत दन्तवत् ।
न तत्र बहुशः कुर्याद् यत्नम् उद्धरणं प्रति ॥
भवेद् अशौचम् अत्यर्थं तृणवेधाद् व्रणे कृते । इति ।
अत्र व्यासः ।

मा करेण करं स्प्राक्षीर् मा जङ्घे मा च चक्षुषी ।
जानुनी स्पृश कौन्तेय भर्तव्यस् ते महाजनः ॥ इति ।

शातातपो ऽपि ।

आचम्य पात्रम् उत्सार्य किंचिद् आर्द्रेण पाणिना ।
मुख्यान् प्राणान् समालभ्य नाभिं पाणितलेन च ॥
भुक्त्वा चापि प्रतिष्ठेत न चाप्य् आर्द्रेण पाणिना ।
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः ॥
ज्ञातिश्रैष्ठ्यम् अवाप्नोति प्रयोगकुसलो नरः । इति ।

आपस्तम्बो ऽपि - “आचम्य चोर्ध्वौ पाणी धारयेद् आ प्रोदकीभावात् । ततो ऽग्निम् उपस्पृशेत्” (आप्ध् २।१९।१२–१३) इति । प्रगतम् उदकं याभ्यां तौ प्रोदकौ । विष्णुपुराणे ऽपि ।

स्वस्थः प्रशान्तचित्तस् तु कृतासनपरिग्रहः ।
अभीष्टदेवतानां तु कुर्वीत स्मरणं बुधः ॥
अग्निर् आप्याययत्व् अन्नं प्रार्थिवं पवनेरितः ।
दत्तावकाशं नभसा जरयन्त्व् अस्तु मे मुखम् ॥
अन्नं बलाय मे भूयाद् अपाम् अग्न्यनिलस्य च ।
भवत्व् एतत् परिणतं ममास्त्व् अव्याहतं सुखम् ॥
प्राणापानसमानानाम् उदानव्यनयोर् अपि ।
अन्नं पुष्टिकरं चास्तु ममास्त्व् अव्याहतं सुकह्म् ॥
अगस्तिर् अग्निर् वडवानलश् च भुक्तं मयान्नं जरयत्व् अशेषम् ।
सुखं ममैतत् परिणामसंभवं यच्छत्व् अरोगं मम चास्स्तु देहे ॥
विष्णुः समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान् यथैकः ।
सत्येन तेनात्तम् अशेषम् अन्नम् आरोग्यदं मे परिणामम् एतु ॥
विष्णुर् अत्ता तहैवान्नं परिणामश् च वै यथा ।
सत्येन तेन मे भुक्तं जीर्यत्व् अन्नम् इदं तथा ॥
इत्य् उच्चार्य स्वहस्तेन परिमृज्याथ चोदरम् ।
अनायासप्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः ॥ इति ।

मार्कण्डेयो ऽपि ।

भूयो ऽप्य् आच्म्य कर्तव्यं ततस् ताम्बूलभक्षणम् ।
श्रवणं चेतिहासस्य तथा रामायणस्य वा ॥

कुर्याद् इत्य् अध्याहारः । विष्णुर् अपि ।

भुक्त्वोपविष्टो विश्रान्तो ब्रह्म किंचिद् विचिन्तयेत् ।

दक्षो ऽपि ।

इतिहासपुराणानाभ्यां षष्ठसप्तमकौ नयेत् ।
अष्टमे लोकयात्रा तु बहिः संध्या ततः पुनः ॥ इति ।

इति स्मृतिचन्द्रिकायां भोजनविधिः