६५ अन्नदानविषयः

अथ प्रसङ्गाद् अन्नदानविषयाणि कानिचिद्वचनानि लिख्यन्ते

तत्र व्यासः ।

ग्रासम् अप्य् एकम् अन्नस्य यो ददाति दिने दिने ।
स्वर्गलोकम् अवाप्नोति नरकं च न पश्यति ॥
द्वाव् इमौ पुरुषौ लोके सूर्यस्योपरि तिष्ठतः ।
अन्नप्रदाता दुर्भिक्षे सुभिक्षे हेमवस्त्रदः ॥
अग्नौ हुत्वाथ दानेन यत् पुण्यफलम् आप्यते ।
तेन तुल्यं विशिष्टं वा ब्राह्मणे तर्पिते फलम् ॥
ब्राह्मणेष्व् अक्षयं दानम् अन्नं शूद्रे महाफलम् ।
अन्नदानं हि शूद्रस्य स्याद् विप्रे चाविशेषतः ॥

विष्णुर् अपि ।

कृत्वा तु पातकं कर्म यो दद्याद् अन्नम् अर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥

अत्र देवलः ।

अघृतं भोजयेद् विप्रं यो गृहे सति सर्पिषि ।
परत्र निरयं घोरं स यात्य् एव न संशयः ॥
मृष्टम् अन्नं स्वयं भुक्त्वा पश्चात् कदशनं नरः ।
ब्राह्मणान् भोजयेन् मूखो नरके चिरम् आवसेत् ॥ इति ।

ते च ब्राह्मणाः श्रोत्रिया एव । यद् आह व्यासः ।

वेदविद्याव्रस्नाते श्रोत्रिये गृहम् आगते ।
क्रीषन्त्य् ओषधयः सर्वा यास्यामः परां गतिम् ॥
संध्याहीने व्रतभ्रष्टे विप्रे वेदविवर्जिते ।
दीयमानं रुदत्य् अन्नं किं मया दुष्कृतं कृतम् ॥

मनुर् अपि ।

विद्यातपःसमिद्धेषु हुतं विप्रमुखाग्निषु ।
तत् तारयति दुर्गाच् च महतश् चैव किल्बिषात् ॥ इति ।

अत्रापि विशेषम् आह यमः ।

अपचन्तम् अतिक्रम्य पचन्तं यस् तु भोजयेत् ।
भूषिकाणां भवेद् योनौ वर्षाणाम् अधिकं शतम् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अन्नदानविधिः