६४ अतिथिपूजा

अथातिथिपूजा

तत्र विष्णुः । “भिक्षां च दत्वातिथिपूजने परं यत् समातिष्ठेत्” इति । भिक्षादानानन्तरम् अन्यतिथिनिरीक्षणाय (?) गृहाङ्कणे कंचित् कालं तिष्ठेद् इत्य् अर्थः । तथा च मार्कण्डेयपुराणं ।

आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम् ।
मुहूर्तस्याष्टमं भागम् उद्वीक्ष्यो ह्य् अतिथिर् भवेत् ॥

द्वारे ऽवलोकनं द्वारावलोकनम् । ब्रह्मगर्भो ऽपि ।

गोदोहकालं कांक्षेत कृत्वा भूतबलिं द्विजः । इति ।

अयं च कालनियमः कालान्तरे तस्य निरीक्षणमानावश्यकम् इति वक्तुम् । अत एव विष्णुपुराणम् ।

ततो गोदोहमात्रं वा कालं तिष्ठन् गृहाङ्कणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं वा यथेच्छया ॥ इति ।

सो ऽपि किंलक्षण इत्य् अपेक्षिते शातातपः ।

प्रियो वा यदि वा प्रेष्यो मूर्खः पण्डित एव वा ।
प्राप्तस् तु वैश्वदेवान्ते सो ऽतिथिः स्वर्गसङ्क्रमः (?) ॥

मनुर् अपि ।

एकरात्रं तु निवन्न् अतिथिर् ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥

मार्कण्डेयपुराणे ऽपि ।

न मित्रम् अतिथिं कुर्यान् नैकग्रामनिवासिनम् ।
अज्ञातकुलनामानम् अन्नकाल उपस्थितम् ॥
बुभुक्षुम् आगतं श्रान्तं याचमानम् अकिंचनम् ।
ब्राह्मणं प्राहुर् अतिथिं संपूज्यः शक्तितो बुधैः ॥ इति ।

ब्राहमणाग्रहणं क्षत्रियव्युदासार्थम् । अत एव मनुः ।

न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते ।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुर् एव च ॥ इति ।
यत् तु वायुपुराणे ।

न घोरो नापि संकीर्णो नविद्यो नविशेषवित् ।
न च सन्तानसंबन्धो न सेवनपरो ऽतिथिः ॥ इति ।

तद् अतिथिवद् हुत्वे (?) द्रष्टव्यम् । अत एव शङ्खः - “यदि तु बहूनां न शक्नुयाद् एकस्मा एव दद्याद् यः प्रथमम् उपागतस् तस्य यः श्रोतिर्यस् तस्मै दद्याद् इति वा” । दाने विशेषो मार्कण्डेयेन दर्शितः ।

न पृच्छेद् गोत्रचरणं स्वाध्यायं वापि पण्डितः ।
शोभनाशोभनाकारं तं मन्येत् प्रजापतिम् ॥

पुराणे ऽपि ।

स्वाध्यायायगोत्रचरणम् अपृष्ट्वा च तथा कुलम् ।
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥
तथा प्रजापतिः शुक्रो वह्निर् वसुगणो यमः ।
प्रविश्यातिथिम् एवैते भुञ्जते ऽन्नं नरेश्वरः ॥ इति ।

एवं भोक्तापि कुलं न ब्रूयात् । तद् आह विष्णुः ।

देशं गोत्रं कुलं विद्याम् अन्नार्थं यो निवेदयेत् ।
वैवस्वतेषु धर्मेषु वान्ताशी स तु कीर्तितः ॥ इति ।

अतिथौ यत् कर्तव्यं तद् आह मनुः ।

संप्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ इति ।

उदकग्रहणं पाद्यादिप्रदर्शनार्थम्, “स तस्य स्वाततम् अर्घ्याचमनम् आसनं च प्रदद्यात्” इति हारीतस्मरणात् । पराशरो ऽपि ।

अतिथिं तत्र संप्राप्तं पूजयेत् स्वागतादिना ।
तथासनप्रदानेन पदप्रक्षालनेन च ॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश् चानुयानेन प्रीतिम् उत्पादयेद् गृही ॥

यमो ऽपि ।

चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् ।
उत्थाय चासनं दद्यात् स धर्मः पञ्चलक्षणः ॥

उत्त्यायेति श्रोत्रियातिथिविषयम् । अत एव आपस्तम्बः - “ब्राह्माणायानधीयानायासनम् उदकम् अन्नम् इति देयम् । न प्रत्युत्तिष्ठेत् । अभिवादनायैवोत्तिष्ठेद् अभिवाद्यश् चेत्” इति । अत्रासनादिदाने विशेषम् आह स एव - “असमुदेतश् चेद् अतिथिर् ब्रुवाण आगच्छेद् आसनम् उदकम् अन्नं श्रोत्रियाय ददामीत्य् एव दद्यात् । एवम् अस्य समृद्धं भवति” । विद्यावित्तादिविहीनो ऽसमुदेतः । तथाहिताग्नाव् अपि विशेषस् तेनैव दर्शितः - “आहिताग्निश् चेद् अतिथिर् अभ्यागच्छेत् स्वयम् एनम् अभ्युदेत्य ब्रूयात् । व्रात्य क्वावात्सीर् इति । व्रात्योदकम् इति । व्रात्य तर्पयंस्तु” इति । व्रात्य क्वावाक्सीर् इति मन्त्रेण संभाष्योत्तरेण मन्त्रद्वयेनोदकम् अन्नं च दद्याद् इत्य् अर्थः । अत्र पुनर् आपस्तम्बः - “पयौपसेचनम् अन्नम् अग्निष्टोमसंमितं सर्पिषोक्थ्यसंमितं मधुनातिरात्रसंमितं मांसेन द्वादशाहसंमितम् उदकेन प्रजावृद्धिर् आयुषश् च” (आप्ध् २।७।४) इति । अन्नाभावे च तेनैवोक्तम् - “काले स्वामिनाव् अन्नार्थिनं च प्रत्याचक्षीयाताम् । अभावे भूमिर् उदकं तृणानि कल्याणी वाग् इति । एतानि वै सतो ऽगारे न क्षीयन्ते कदाचन” इति । अतिथिबहुत्वे तु मनुनोक्तम् ।

आसनावसथौ शय्याम् अनुव्रज्याम् उपासनाम् ।
उत्तमेषूत्तमं कुर्याद् धीने हीनं समे समम् ॥

अन्नादिकं तु समम् एवैकपङ्क्तौ । यथाह हारीतः ।

विद्यातपोऽधिकानां च प्रथमासनम् उच्यते ।
पङ्क्तौ सहस्थितानां तु भोजनादि समं स्मृतम् ॥ इति ।

अत एव विषमदाने दोषम् आह वसिष्ठः ।

यद्य् एकपङ्क्तौ विषमं ददाति स्नेहाद् भयाद् वा यदि वार्थहेतोः ।
वेदेषु दृष्टाम् ऋषिभिश् च गीतां तां ब्रह्महत्यां मुनयो वदन्ति ॥

अत्र मार्कण्डेयपुराणम् ।

मांसम् अन्नं शाकं गृहे यच् चोपपदितम् ।
न वै स्वयं तद् अश्नीयाद् अतिथिं येन नार्चयेत् ॥

आपस्तम्बो ऽपि - “ऊर्जं पुष्टिं प्रजां पशून् इष्टापूर्तम् इति गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति” इति । अतिथिभोजनानन्तरं वसिष्ठः - “ततो गच्छन्तम् आसीनम् आसीमान्तम् अनुव्रजेत् । अनुज्ञानाद् वा” । आसीमान्तम् इति श्रोत्रियदिविषयम्,

अतिथिं श्रोत्रियं तृप्तम् आसीमान्तम् अनुव्रजेत् ।

इति याज्ञवल्क्यस्मरणात् । एवं कुर्वतः फलम् आह मनुः ।

अतिथिं पूजयेद् यस् तु श्रान्तं चादुष्टमानसम् ।
सवृषं गोशतं तेन दत्तं स्याद् इति मे मतिः ॥

विष्णुर् अपि ।

स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा ।
नावाप्नोति गृही लोकान् यथा त्व् अतिथिपूजनात् ॥ इति ।

तथा अकरणे दोषो व्यासेन दर्शितः ।

पथि श्रान्तम् अविज्ञातम् अतिथिं क्षुत्पिपासितम् ।
यो न पूजयते भक्त्या तम् आहुर् ब्रह्मघातिनम् ॥

मार्कण्डेयपुराणे ऽपि ।

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
स दत्वा दुष्कृतं तस्य पुण्यम् आदाय गच्छति ॥

देवलो ऽपि ।

अतिथिर् गृहम् आगत्य यस्य प्रतिनिवर्तते ।
असत्कृतो निराशश् च स सद्यो हन्ति तत्कुलम् ॥

अतो न तं प्रत्याचक्षीतेति भावः । एवं सूर्योढे ऽपि द्रष्टव्यम् । तथा च मनुः ।

अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥ इति ।

काले वैश्वदेवकाले प्राप्तः । सूर्योढे वा अन्यो वा सायम् अतिथिर् अप्रणोद्यः अप्रत्याख्येय इत्य् अर्थः । सूर्योढस्य लक्षणम् आह प्रचेता ।

यः स्वयं वैस्वदेवान्ते सायं वा गृहम् आगतः ।
देववत् पूजनीयो ऽसौ सूर्योढः सो ऽतिथिः स्मृतः ॥

अत्रापि विमुखे ऽतिथौ दोषो विष्णुपुराणे दर्शितः ।

देवातिथौ तु विमुखे गते यत् पातकं नृप ।
तद् एवाष्टगुणं पुंसां सूर्योढे विमुखे गते ॥

अत एव लुब्धकायातिथये ऽन्नाद्यभावे भोजनार्थं कपोत आत्मानम् एव प्रददौ । तथाह व्यासः ।

देवतानाम् ऋषीणां च संवादेषु पुनः पुनः ।
श्रुतपूर्वो मया धर्मो महान् अतिथिपूजने ॥
सुदूराद् आश्रमात् प्राप्तः क्षुत्तृष्णाश्रमकर्शितः ।
यः पूज्यते ऽतिथिः सम्यग् अयूपः क्रतुर् एव सः ॥
एवम् उक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना ।
तम् अग्निं त्रिः परिक्रम्य प्रविवेश स्ववेश्मवत् ॥ इति ।

यदा तु क्षत्रियादिर् अतिथिरूपेणागच्छति तदा मनूक्तम् ।

यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत् ।
भुक्तवत्सूक्तविप्रेषु कामं तम् अपि भोजयेत् ॥
वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ।
भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ इति ।

आनृशंस्यम् अनैष्ठुर्यम् । भृत्याः भरणीयाः पोष्या इत्य् अर्थः । शूद्रेषु विशेषम् आह आपस्तम्बः - “शूद्रम् अभ्यागतं कर्मणि नियुञ्ज्यात्” इति । ते च पोष्या दक्षेण दर्शिताः ।

माता पिता गुरुर् भाया प्रजा दीनाः समाश्रिताः ।
अभ्याततो ऽतिथिश् चाग्निः पोष्यवर्ग उदाहृतः ॥

एतच् च भृत्यभरणावशकम् । अन्यथा दोषश्रवणात् । तथा च अत्रिः ।

भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकः पीडने तस्य तस्माद् यत्नेन तं भरेत् ॥ इति ।

मनुर् अपि ।

देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥

यत् तु याज्ञवल्क्येनोक्तम्,

भोजयेच् चागतान् काले सखिसंबन्धिवान्धवान् ।

इति, तत् स्वकुटुम्बाविरोधेन सत्य् अन्ने द्रष्टव्यम् । यद् आह आपस्तम्बः - “ये नित्या भाक्तिकास् तेषाम् अनुपरोधेन संविभागो विहतः । कामम् आत्मानं भार्यां पुत्रं वोपरुन्ध्यात्” इति । भक्तम् अन्नं तद् एषां ते भाक्तिकाः । संविभागो ऽन्नस्य । मनुर् अपि ।

भृत्यानाम् अनुपरोधेन यः करोत्य् और्ध्वदैहिकम् ।
तद् भवत्य् असुखोदर्कं जीवतश् च मृतस्य च ॥ इति ।

अतः सधनस्यैवायं बान्धवादिभोजननियम इत्य् अवगन्तव्यम् । उक्तं च आदिपुराणे ।

ज्ञातिर् बन्धुजनः क्षीणः तथानाथः समाश्रितः ।
अन्यो ऽपि धनयुक्तस्य पोष्यवर्ग उदाहृतः ॥

अस्याप्य् आवश्यकम् एव भरणम् । यतो ऽनन्तरम् एवोक्तम् ।

अभुक्तवत्सु चैतेषु बुञ्जन् भुङ्क्ते तु किल्बिषम् ।
मृतश् च गत्वा नरकं श्लेष्मभुग् जायते नरः ॥

मार्कण्डेयपुराणे ऽपि ।

श्रीमन्तं ज्ञातिम् आसाद्य यो ज्ञातिर् अवसीदति ।
सीदता यत् कृतं पापं तत् सर्वं प्रतिपद्यते ॥ इति ।

अतिथिपूजानन्तरं विष्णुपुराणम् ।

ततः सुवासिनीदुःखिगर्भिणीवृद्धबालकान् ।
भोजयेत् संस्कृतान्नेन प्रथमं तु ततो गृही ॥

अत्र व्यासः ।

गवाह्निकं परगवे दद्यात् संवत्सरं तु यः ।
अकृत्वा स्वयम् आहारं तद्व्रतं सार्वकालिकम् ॥ इति ।

अत्र मन्त्रः ।

सौरभेयाः सर्वहिताः पवित्राः पापनाशनाः ।
प्रतिगृह्णन्तु मे ग्रासं गावस् त्रैलोक्यमातरः ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अतिथिपूजा