६३ बलिहरणम्

अथ बलिहरणम्

तत्र कात्यायनः ।

उद्धृत्य हविर् आसिच्य हविष्येण घृतादिना ।
स्वशाखाविधिना हुत्वा तच्छेषेण बलिं हरेत् ॥ इति ।

अत्र हविर् उद्धृत्य हविष्येण घृतादिना हविर् आसिच्याभिघार्य (?) तेन् हविषा हुत्वेति संबन्धः । अत्र गोबिलः - “स्वयं पत्री यावद् वसेद् बलिं हरेद् अपि वान्यो ब्राह्मणः” इति । यावद् गृहे वसेत् तावत् स्वयं वान्यो बलिं हरेद् इत्य् अर्थः । ब्राह्मणग्रहणं पुत्रादिप्रदर्शनार्थम् । अत् एव अत्रिः ।

पुत्रो भ्राताथ वा ऋत्विक्छिष्यश्वशुरमातुलाः ।
पत्नीश्रोत्रिययाज्याश् च दृष्टास् ते बलिकर्मणि ॥ इति ।

एतत् प्रवासादिविषयम् । अत एव परिशिष्टे ।

प्रवसेद् आहिताग्निश् चेत् कदाचित् कालपर्ययात् ।
यस्मिन्न् अग्नौ भवेत् पाको वैश्वदेवस् तु तत्र वै ॥
तत्राहुत्वा तु यो भुङ्क्ते स भुङ्क्ते किल्बिषं नरः ।
प्रोषितो ऽप्य् आत्मसंस्कारं कुर्याद् एवाविचारयन् ।
पुत्रो भ्राता तथा पत्नी शिष्यो वास्य बलिं हरेत् ॥ इति ।

पत्नी चेद् अमन्त्रम्,

सायम् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् ।

इति मनुस्मरणात् । यदा तु गृहे ऽन्यः कर्ता नास्ति तदा प्रवासे ऽपि स्वयम् एव कुर्यात् । तद् आह बोधायनः ।

प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते ।
पञ्चानां महताम् एषां सह यज्ञैः स गच्छति ॥

अत्र शौनकः - “अथ बलिहरणम् । एताभ्यश् चैव् देवताभ्यो ऽद्भ्य ओषधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्य इन्द्रायेन्द्रपुरुषेभ्यो यमाह यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यस् सोमाय सोमपुरुषेभ्य इति प्रतिदिशं ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये विश्वेभ्यो देवेभ्यः सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा नक्तंचारिभ्य इति नक्तं रक्षोभ्य इत्य् उत्तरतः स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत्” इति । अस्यार्थः - एतभ्य इति वैश्वदेवदेवतानां ग्रहणम्, तासां प्रकृतत्वात् । चकारो वक्ष्यमाणदेवतासमुच्चयार्थः । एवकारो मा भूद् गृह्यान्तरोक्तानां बलिहरणम् इति । एतच् च सूर्यायेत्य् आरभ्य वास्तुदेवताभ्य इत्यन्तैः प्रागपवर्गं यथा प्राचि विधिर् भवति, “प्राञ्चश् चेष्टा” इति परिभाषितत्वात् । ततस् तस्यान्ते प्रतिदिशम् इन्द्राद्यैस् तेषां मध्ये ब्रह्मणे ब्रह्मपुरुषेभ्य इति । सर्वस्य प्रधानस्योत्तरतो विश्वेभ्यो देवेभ्य इति । सर्वेभ्यो भूतेभ्य इति मध्य एव, तस्याधिकारात् । ब्रह्मादीनाम् उत्तरतो रक्षोब्य इति, तेषां प्रकृतत्वात् । अत एव तेषां दक्षिणतः स्वधा पितृभ्य इति । सर्वे मन्त्राः स्वाहान्ताः । अत्र निनयेद् इति वचनं पितृयज्ञार्थम् एतत् कर्मान्तरं बलिहरणम् इति वक्तुम् । कर्मान्तरत्वं च स्वाहाकारनिवृत्त्यर्थम् । कर्मान्तरत्वे कालान्त्रे ऽपि स्यात् तन् मा भूद् इति शेषग्रहणम् इति । एतत् सर्वं गृह्यवृत्ताव् उक्तम् । आपस्तम्बो ऽपि - “अपरेणागिं सप्तमाष्टमाभ्याम् उद्गपवर्गम् उदपानसन्निधौ नवमेन मध्ये ऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् । उत्तरपूर्व्देशे ऽगारस्योत्तरैश् चतुर्भिः । शय्यादेशे कामलिङ्गेन । देहल्याम् अन्तरिक्षलिङ्गेनोत्तरेणापिधान्याम् । उत्तरैर् ब्रह्मसदने दक्षिणतः पितृलिङ्गेन प्राचीनाव् इत्य् अवाचीनपाणिः कुर्यात् । रौद्र उत्तरो यथा देवताभ्यः । तयोर् नाना परिषेचनं धर्मभेदात् । नक्तम् एवोत्तमेन वैहायनम्” इति । अस्यार्थः - उत्तरैश् चतुर्भिः प्रागपवर्गं तस्याधिकारात् । ब्रह्मसदने ऽगारमध्ये । तत्रापि प्रागपवर्गम् इत्य् अनुवर्तते । ब्रह्मसदनाद् दक्षिणतः पितृलिङ्गेन तस्य प्रकृतत्वात् । रौद्र उत्तरतः पैतृकाद् इति शेषः । तयोर् नाना परिषेचनम् इत्य् उत्तरत्र वचनात् । यथा देवताभ्य इति, यथोत्तानेन पाणिना देवताभ्यो बलिदानं तद्वद् अस्यापि न पुनः पैतृकवद् इत्य् अर्थः । अत्र बलिधर्मान् आह स एव - “बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात् परिषेचनम्” इति । एकदेशसमवेतानां तु परिषेचनं तन्त्रेणैव विभवात् । तद् अपि तेनैवोक्तम् - “एवं बलीनां देशे देशे समवेतानां सकृत् सकृद् अन्ते परिषेचनं सति सूपसंस्पृष्टेन कार्याः” इति । अस्यापवादः - “तयोर् नाना परिषेचनं धर्मभेदात्” इति । तयोः पैतृकरौद्रयोर् एकदेशसमवेतत्वे ऽपि नाना पृथक्परिषेचनं प्राचीनावीतत्वे ऽपि धर्मभेदत्वाद् इत्य् अर्थः । नक्तम् एवोत्तमेन वैहायसम् इति — विहायस्याकाशे भवो वैहायसः तम् उत्तमेन “ये भूताः” इत् मन्त्रेण नक्तम् एव दद्याद् इत्य् अर्थः। केचिद् उत्तमेनैव नक्तं नान्येनेति रात्राव् अन्यमन्त्रनिवृत्तिम् इच्छन्ति । एतत् सर्वं भाष्यकारेणोक्तम् । गृह्यकात्यायनो ऽपि - “मणिके त्रीन् पर्जन्यायाद्भ्यः (?) पृथिव्यै धात्रे विधात्रे च द्वार्योः (?) प्रतिदिशं वायवे दिशां च मध्ये त्रीन् ब्रह्मणे ऽन्तरिक्षाय सूर्याय विश्वेभ्यो देवेभ्यो विश्वेभ्यश् च भूतेभ्यस् तेषाम् उत्तरत उषसे भूतानां च पतये परं पितृभ्यः स्वधा नम इति दक्षिणतः पितृभ्यस् त्रिभ्य उत्तरापरस्यां दिशि निनयेत् ऽयत् क्षेम तत् ते निर्णेजनम्ऽ " इति । अयम् अर्थः - मणिके उदपानसमीपे । प्रतिदिशं वायवे तथा दिशां च । प्रतिदिशम् इति शेषः । अत्र प्राच्यै दिश इत्य् एवं प्रयोगः । “मध्ये” एतेषाम् इति शेषः । त्रयाणाम् उत्तरतो विश्वेभ्य इति द्वौ । “परं” तयोर् उत्तरतः उषसे भूतानां च पतय इति । त्रयाणां दक्षिणतः पितृभ्य इति पात्रं निर्णिज्य यत् क्षेम तत् ते इत्य् उत्तरापरस्यां दिशि निनयेत् । एतत् सर्वं तद्भाष्यकारेणोक्तम् । अत्र नमोऽन्ताः सर्वे मन्त्राः,

अमुष्मै नम इत्य् एवं बलिदानं विधीयते ।

इति कात्यायनस्मरणात् । अत्र यथास्वशाखं व्यवस्था,

न जातु परशाखोक्तं द्विजः कर्म समारभेत् ।

इति वसिष्ठस्मरणात् । अत्र मार्कण्डेयपुराणम् ।

एवं गृह्यबलिं कृत्वा गृहे गृहपतिः शुचिः ।
आप्यायनाय भूतानां कुर्याद् उत्सर्गम् आदरात् ॥ इति ।

उत्सर्गो ऽन्नस्य । सो ऽपि कथम् इत्य् अपेक्षिते विष्णुपुराणम् ।

देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः ।
प्रेताः पिशाचास् तरवः समस्ताः ये चान्नम् इच्छन्ति मया प्रदत्तम् ॥
पिपीलिकाः कीटपतङ्गकाश् च भ्भुक्षिताः कर्मनिबन्धबद्धाः ।
प्रयान्तु ते तृप्तिम् इदं मयान्नं तेभ्यो निसृष्टं सुखिनो भवन्ति ॥
येषां न माता न पिता न बन्धुः नैवान्नसिद्धिर् न तथास्ति तृप्तिः ।
तत्तृप्तये ऽन्नं भुवि दत्तम् एतत् ते यान्तु तृप्तिं मुदिता भवन्तु ॥
भूतानि सर्वाणि तथान्नम् एतद् अहं च विष्णुर् न ततो ऽन्यद् अस्ति ।
तस्माद् अहं भूतहिताय भूतम् अन्नं प्रयच्छामित् भवाय तेषाम् ॥
चतुर्दशो लोकगणो य एषः तत्र स्थिताये खलु भूतसङ्घाः ।
तृप्त्यर्थम् अन्नं हि मया निसृष्टं तेषाम् इदं ते मुदिता भवन्ति ॥
इत्य् उच्चार्य नरो दद्याद् अन्नं श्रद्धासमन्वितः ।
भुवि भूतोपकाराय गृही सर्वाश्रयो यतः ॥ इति ।

ततः श्वादिभ्यो ऽन्नं दद्यात् । तद् अपि तत्रैवोक्तम् ।

श्वचण्डालविहङ्गानां भुवि दद्यात् ततो नरः ।
ये चान्ये पतिताः केचिद् आमपात्राः समागताः ॥

मनुर् अपि ।

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां क्रिमीण्श्ं च शनकैर् निक्षिपेद् भुवि ॥

अत्र श्ववायसबलिमन्त्रौ व्यासोक्तौ ।

श्वानौ द्वौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां पिण्डं प्रदास्यामि रक्षेतां पथि मां सदा ॥
ऐन्द्रवारुणवायव्या याम्यनैऋतिकाश् च ये ।
ते काकाः प्रतिगृह्णन्तु भूमौ पिण्डं मदर्पितम् ॥

अत्र पतितादीनां दानम् अनित्यं तेषाम् अनियतत्वात् । केचित् त्व् आगतानाम् अपि दद्याद् इत्य् आहुः । तद् आह आपस्तम्बः - “सर्वान् वैश्वदेवे भागिनः कुर्विता श्वचण्डालेभ्यः । नानर्हद्भ्यो दद्याद् इत्य् एके” इति । अनर्हद्भ्यश् चण्डालादिभ्यः । अत्र व्यासः ।

दत्वानेन विधानेन बलिं पश्चाद् उपस्पृशेत् । इति ।

एवं कुर्वतः फलम् आह मनुः ।

एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति ।
स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥ इति ।

आपस्तम्बो ऽपि - “य एतान् अव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश् च । अग्रं च देयम्” इति । श्रोत्रियायेति शेषः । तथा च वसिष्ठः - “गृहदेवताभ्यो बलिं हरेच् छ्रोत्रियायाग्रं दत्वा ब्रह्मचारिणे चानन्तरं पितृभ्यो दद्यात्” इति । ब्रह्मारिणे भिक्षां दत्वेत्य् अर्थः । अत एव यमः ।

भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे । इति ।

सो ऽपि विधिर् गौतमेन दर्शितः - “स्वस्ति वाच्य भिक्षादानम् अप्पूर्वम्” इति । भिक्षमाणं ब्रह्मचारिणं स्वस्तीति वाचयित्वा तद्धस्ते जलं प्रदाय भिक्षादानं कार्यम् इत्य् अर्थः । यतेः पुनर् आद्यन्तयोर् उदकदानं कार्यम् । तथा च व्यासः ।

यतिहस्ते जलं दद्याद् भैक्षं दद्यात् पुनर् जलम् ।
तद् भैक्षं मेरुतुल्यं स्यात् तज्जलं सागरोपमम् ॥

अत्र वचनद्वये ऽपि दद्याद् इत्य् अभिधानाद् यतिं ब्रह्मचारिणं वा न प्रत्याचक्षीतेति गम्यते । अत एव आपस्तम्बः - “स्त्रीणां च प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून् ब्रह्मवर्चसम् अन्नाद्यं वृङ्क्ते । तस्माद् उ ह वै ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीत” । पुराणे ऽपि ।

अपूजयन् हि काकुत्स्थ तपस्विनम् उपागतम् ।
दुःखाशी च परे लोके स्वानि मांसानि खादति ॥

व्यासो ऽपि ।

यतिश् च ब्रह्मचारी च पक्वान्नस्वामिनाव् उभौ ।
तयोर् अन्नम् अदत्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ इति ।

अत्र पराशरः ।

दद्याच् च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।
इच्छया च ततो दद्याद् विभवे सत्यवारितम् ॥ इति ।

एतद् अपि व्रताध्ययनादियोगविषयम्,

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय वा ।

इति याज्ञवल्क्यस्मरणात्,

अव्रता ब्य् अनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चोरभक्तप्रदो हि सः ॥

इति वसिष्ठस्मरणाच् च । यदा तु वैश्वदेवाद् अर्वाग् भिक्षुर् आगच्छति तदा व्यासोक्तं द्रष्टव्यम् ।

अकृते वैश्वदेवे तु भिक्षुके गृहम् आगते ।
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्वा विसर्जयेत् ॥
वैश्वदेवकृतं दोषं शक्तो भिक्षुर् व्यपोहितुम् ।
न हि भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥

भिक्षुः परिव्राट् । एवं ब्रह्मचारिण्य् अपि द्रष्टव्यम् । अत एव विष्णुपुराणम्।

भिक्षां तु भिक्षवेर् दद्यात् परिव्राड्ब्रह्मचारिणाम् ।
अकल्पितान्नाद् उद्धृत्य सर्वव्यञ्जनसंयुताम् (?) ॥

भिक्षां प्रकृत्य यमः ।

हस्तदत्ता तु या भिक्षा सलिलव्यञ्जनानि च ।
भोक्ता त्व् अशुचितां याति दाता स्वर्गं न गच्छति ॥

यदा तु भिक्षुकालाभस् (?) तदा विष्णुनोक्तम् ।

भिक्षुकालाभे ऽन्नं गोभ्यो दद्याद् अग्नौ वा प्रक्षिपेत् । इति ।

ते च भिक्षुका व्यासेन दर्शिताः ।

ब्रह्मचारी यतिश् चैव विद्यार्थी गुरुपोषकः (?) ।
अध्वगः क्षीणवृत्तिश् च षड् एते भिक्षुकाः स्मृताः ॥

पुराणे ऽपि ।

व्याधितस्यार्थहीनस्य कुटुम्बात् प्रच्युतस्य च ।
अध्वानं वा प्रपन्नस्य भिक्षाचर्या विधीयते ॥ इति ।
भिक्षादिपरिमाणं मनुनोक्तम्।

ग्रासमात्रा भवेद् भिक्षा अग्रं ग्रासचतुष्टयम् ।
अग्रं चतुर्गुणीकृत्य हन्तकारी विधीयते ॥ इति ।

एवं कुर्वतः फलम् आह यमः ।

सत्कृत्य भिक्षवे भिक्षां या प्रयच्छति मानवः ।
गोप्रदानसमं पुण्यं तस्याह भगवान् यमः ॥

ब्रह्मपुराणे ऽपि ।

यः पात्रपूरणीं भिक्षां यतिभ्यः संप्रयच्छति ।
विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिम् आप्नुयात् ॥ इति ।

इति स्मृतिचन्द्रिकायां बलिहरणम्