६२ वैश्वदेवविधिः

अथ वैश्वदेवविधिः

तत्र नारायणः ।

सभार्यस् तु शुचिः स्नातो विधिनाचम्य वाग्यतः ।
प्रविश्य सुसमिद्धे ऽग्नौ वैश्वदेवं समाचरेत् ॥ इति ।

सुसमिद्धे ऽग्नाव् अवैदिके वैदिके वा । तथा च शातातपः ।

लौकिके वैदिके वापि हुत्वोत्सृष्टे जले क्षितौ ।
वैश्वदेवस् तु कर्तव्यः पञ्चसूनापनुत्तये ॥

वैदिके वैवाहिके । यद् आह मनुः ।

वैवाहिके ऽग्नौ कुर्वीत गृह्यकर्म यथाविधि ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकी गृही ॥ इति ।

विसेषश् चतुर्विंशतौ दर्शितः ।

प्रातर्होमं तु निर्वर्त्य समुद्धृत्य हुताशनात् ।
शेषं महानसे कृत्वा तत्र पाकं समाचरेत् ॥ इति ।

अथ वा लौकिके ऽग्नौ पाकः । तद् आह अङ्गिराः ।

शालाग्नौ तु पचेद् अन्नं लौकिके वापि नित्यशः ॥ इति ।

शालाग्निर् गृह्याग्निः । यदा तु लौकिके पाकस् तदा तस्मिन्न् एव होमः । तद् उक्तं कूर्मपुराणे ।

यदि स्याल् लौकिके पाकस् ततो ऽन्नं तत्र हूयते ।
शालाग्नौ तत्र चेद् अन्नं विधिर् एष सनातनः ॥ इति ।

अनेनैवाभिप्रायेण आपस्तम्बो ऽपि - “औपासने पचने वा षड्भिर् आद्यैः प्रतिमन्त्रं हस्तेन जुहुयात्” इति । अत्र पचने वेति यस्य सर्वाधानं, तद्-विषयम् एवेति व्याख्यातं तद्भाष्ये । तद् उक्तं च विष्णुना ।

आधानाद् अग्नि-होत्रस्य आवसथ्यात् तु बाह्यतः ।
यस्मिन्न् अग्नौ पचेद् अन्नं तत्र होमो विधीयते ॥ इति ।

यस्य सर्वाधानं तस्यावसथ्याद् बाह्यतः पृथग् अग्निहोत्रस्याभावात् गृह्याग्न्यभावेन यस्मिन् लौकिके ऽग्नौ वा पाकस् तत्रैव होम इत्य् अर्थः । सो ऽपि कथम् इत्य् अपेक्षिते शौनकः । “अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयाद् अग्निहोत्रदेवताभ्यः सोमाय वनस्पतये ऽग्नीषोमाभ्यां द्यावापृथिवीभ्यां धन्वतरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे स्वाहेति । अथ बलिहरणम्” इति । हविष्यस्य हविर्योग्यस्येत्य् अर्थः । अग्निहोत्रदेवताभ्यः सूर्याग्निप्रजापतिभ्य इति यावत् । आपस्तम्बो ऽपि - “औपासने पचने वा षड्भिर् आद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् । उभयतः परिषेचनं यथा पुरस्तात्” इति । आद्यैः अग्नये स्वाहेत्यादिस्विष्टकृदन्तैः । उभयतः कर्मादाव् अन्ते चेत्य् अर्थः । गृह्यकात्यायनो ऽपि - “वैश्वदेवाद् अन्नात् पर्युक्ष्य स्वाहाकारैर् जुहुयाद् ब्रह्मणे प्रजापतये गृहेभ्यः काश्यपायानुमतये” इति । गौतमो ऽपि - “अग्नाव् अग्निर् धन्वन्तरिर् विश्वेदेवाः प्रजापतिः स्विष्टकृद् इति होमाः” इति । अत्र यथास्वशाखं व्यवस्था,

संस्कृतान्नैर् हविष्यैर् वा हविष्यव्यञ्जनान्वितैः ।

इति स्मरणात् । कात्यायनो ऽपि ।

उद्धृत्य हविर् आसिच्य हविष्येण घृतादिना ।
स्वशाखाविधिना हुत्वा तच्छेषेण बलिं हरेत् ॥ इति ।

अत्र हविर् उद्धृत्य हविष्येण घृतादिनासिच्याभिघार्य (?) तेन हविषा हुत्वेति संबन्धः । अत्रादिशब्दो दध्यादिपरिग्रहार्थः । अत एव व्यासः ।

जुहुयात् सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं पयसाक्तं वा तदभावे ऽम्बुनापि वा ॥

यदा तु हविष्यद्रव्यालाबस् तदा विशेषश् चतुर्विंशतिमते दर्शितः ।

अलाभे येन केनापि फलशाकोदकादिभिः (?) ।
पयोदधिघृतैः कुर्याद् वैश्वदेवं स्रुवेण तु ॥
हस्तेनान्नादिभिः कुर्याद् अद्भिर् अञ्जलिना जले । इति ।

येन केनापि करणेनेत्य् अर्थः । अत्रापि यद् अशनीयं तेनैव होमः । तद् उक्तं परिशिष्टे ।

शाकं (?) वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
संकल्पयेद् यदाहारे तेनाग्नौ जुहुयाद् अपि ॥ इति ।

अत्र आपस्तम्बोक्तो विशेषः ।

उत्तानेन तु हस्तेन अङ्गुष्ठाग्रेण पीडितम् ।
संहताङ्गुलिपाणिस् तु वाग्यतो जुहुयाद् धविः ॥

कात्यायनो ऽपि ।

यो ऽनर्चिषि जुहोत्य् अग्नौ व्यङ्गारे चैव मोहतः ।
मन्दाग्निर् आमयावी च दरिद्रश् चोपजायते ॥
तस्मात् समिद्धे होतव्यं नासमिद्धे कथंचन ।
आरोग्यम् इच्छतायुश् च श्रियम् आत्यन्तिकीं तथा ॥

शौनको ऽपि ।

बहुशुष्केन्धने वह्नौ सुसमिद्धे विशेषतः ।
विधूमे लेलिहाने (?) च होतव्यं कर्मसिद्धये ॥

कात्यायनो ऽपि ।

जुहुयुश् च बुभुषुश् च पाणिशूर्पास्यदारुभिः ।
न कुर्याद् अग्निधमनं न कुर्याद् व्यजनादिना ॥
मेखेनैव धमेद् अग्निं मुखाद् एषो ऽभ्यजायत ।

अत्र व्यवस्थाम् आह स एव ।

नाग्निं मुखेनेति वचो लौकिके योजयेत् ततः । इति ।

आपस्तम्बस् तु वैश्वदेवाद्युपक्रमे व्रतविशेषम् आह - “तेषां मन्त्राणाम् उपयोगे द्वादशाहम् अधःशय्या ब्रह्मचर्यं क्षारलवणवर्जं चोत्तमस्यैकरात्रम् उपवासः” इति । तेषां वैश्वदेवबल्यर्थानाम् । उत्तमस्य “ये भूताः” इति मन्त्रस्य । ततो वैश्वदेवश् चरुः “वैश्वदेवे विश्वे देवाः” इति तेनैवोक्तत्वात् । वैश्वदेवे कर्तव्य तत्र यत् कर्म तस्मिन् विश्वेदेवा देवता इत्य् अर्थः । अत्र पुनर् आपस्तम्बः - “सिद्धे ऽन्ने तिष्ठन् भूतम् इति स्वामिने प्रब्रूयात् तत् सुभूतं विराड् अन्नं तन् मा क्षायीति प्रतिवचनम्” इति । ततो वैश्वदेवादिकर्म । एतच् च सायं प्रातः कार्यम्,

सायं प्रातर् वैश्वदेवः कर्तव्यो बलिकर्म च ।
अनश्नतापि कर्तव्यम् अन्यथा किल्बिषी भवेत् ॥

इति कात्यायनस्मरणात् । अनेनात्मसंस्कार इत्य् उक्तं भवति । उक्तं च परिशिष्ठे ।

प्रवसेद् आहिताग्निश् चेत् कदाचित् कालपर्ययात् ।
यस्मिन्न् अग्नौ भवेत् पाको वैश्वदेवस् तु तत्र वै ॥
तत्राहुत्वा तु यो भुङ्क्ते स भुङ्क्ते किल्बिषं नरः ।
प्रोषितो ऽप्य् आत्मसंस्कारं कुर्याद् एवाविचारयन् ॥

गोबिलो ऽपि - “यद्य् एतस्मिन् काले व्रीहियवौ प्रक्रियेयाताम् अन्यतरस्य हुत्वा कृतम् अन्येन । यद्य् एतस्मिन् काले पुनः पुनर् अन्नं पच्येत सकृद् एवैकं बलिं तत्र कुर्वीत । यद्य् एकस्मिन् काले बहुधान्नं पच्येत गृहपतिर् महानसाद् एवैकं बलिं तत्र कुर्वीत” इति । अस्यार्थः - यद्य् एतस्मिन् काले व्रीहियवाद्यनेकान्नपाकः तदा एकस्माद् एव पाकाद् धोमादिबलिं कुर्वीत न प्रतिपाकम् । यद्य् एतस्मिन् काले ऽभ्यागतादिवशेन पुनः पुनर् अन्नं पच्येत तदाप्य् एकस्माद् एव पाकात् सकृद् एवैकं बलिं कुर्यात् । तथैकाग्न्युपजीविनां भ्रातृपुत्रादीनाम् एतस्मिन् काले बहुधा पाके ऽपि गृहपतिपाकात् सकृद् एव कुर्वीतेति । अत्रानग्निकं प्रकृत्य अत्रिः ।

साग्निकः पितृयज्ञान्तं बलिकर्म समाचरेत् ।
अनग्निर् हृतशेषं तु बलिं काकबलिं हरेत् ॥
पुरुषयज्ञाद् ऋते नास्ति निरग्नेस् तु महामखः । इति ।

होमो ऽपि तस्य वसिष्ठेन दर्शितः ।

अनग्निकस् तु यो विप्रः सो ऽन्नं व्याहृतिभिः स्वयम् ।
हुत्वा शाकलमन्त्रैश् च शिष्टं काकबलिं हरेत् ॥

शाकलमन्त्राः “देवकृतस्यैनसः” इत्याद्याः । विष्णुर् अपि ।

अन्नं व्याहृतिभिर् हुत्वा हुत्वा मन्त्रैश् च शाकलैः ।
प्रजापतेर् हविर् हुत्वा पूजयेद् अतिथिं ततः ॥ इति ।

अत्र यमः ।

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ।
वृथा तेनान्नपाकेन काकयोनिं व्रजन्ति ते ॥

व्यासो ऽपि ।

अकृत्वा वैश्वदेवं तु यो भुङ्क्ते ऽनापदि द्विजः ।
स मूढो नरकं याति कालसूत्रम् अवाक्छिराः ॥ इति ।

**इति स्मृतिचन्द्रिकायां वैश्वदेवविधिः **