६१ पञ्च-महायज्ञाः

अथ पञ्च-महायज्ञाः

तत्र संवर्तः ।

ततः पञ्च महायज्ञान् कुर्याद् अहर् अहर् द्विजः ।
न हापयेत तान् प्राज्ञश् श्रूयन्ते हि श्रुताव् अपि ॥

ततो देवपूजानन्तरम् इत्य् अर्थः,

पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ।
वैश्वदेवं ततः कुर्याद् बलिकर्म तथैव् च ॥

इति नारसिंहपुराणस्मरणात् । यमो ऽपि ।

पञ्च सूना गृहस्थस्य वर्तन्ते ऽहर् अहर् सदा ।
खण्डिनी पेषिणी चुल्ली जलकुम्भ उपस्करः ॥
एता हि वाहयन् विप्रो बध्यते वै मुहुर् मुहुः ।
एतासां पावनार्थाय पञ्च यञ्जाः प्रकल्पिताः ॥ इति ।
सूना हिंसास्थानानि, “अथ सूनां व्याख्यास्यामो जङ्गमस्थावरादीन् प्राणिनः सूदयन्तीति सूनाः” इति हारीतस्मरणात् । खण्डिन्य् उलूखलादिः । पेषिणी दृषदादिः । चुल्ली पाकस्थानम् । जलकुम्भ उदकभाण्डम् । उपस्करः शूर्पादिः । एता निर्वाहयन् तत् तत् कार्यं प्रापयन् वध्यते पापेन संयुज्यते इत्य् अर्थः । अत्र यद्य् अपि निमित्तश्रवणान् नैमित्तिकत्वं प्रतिभाति, तथापि नित्यनिमित्तत्वान् नित्यतैवेति । अत एव शङ्खः ।

पञ्च सूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः ।
खण्डनी चोदकुम्भश् च तस्य पापस्य शान्तये ॥
पञ्चयज्ञविधानं तु गृही नित्यं न हपयेत् ।

व्यासो ऽपि ।

आपद्य् अपि च कष्टायां पञ्च यज्ञान् न हापयेत् ।

ते च यज्ञा यमेन दर्शिताः ।

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।
होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥ इति ।

अध्यापनम् अध्ययनं (?) जपलक्षणं ब्रह्मयज्ञः,

यस् तु श्रुतिजपः प्रोक्तो ब्रह्मयज्ञस् तु स स्मृतः ।

इति कात्यायनस्मरणात् । तर्पणं पितृतर्पणं पितृश्राद्धं पितृयज्ञः । यद् आह मनुः ।

ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा ।
आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥
स्वाध्यायेनार्चयेतर्षीन् होमैर् देवान् यथाविधि ।
पितॄन् श्राद्धेन नॄन् अन्नैर् भूतानि बलिकर्मणा ॥ इति ।

अथ वा कात्यायनोक्तं द्रष्टव्यम् ।

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।
होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥
श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो बलिर् अथापि वा ॥ इति ।

अत्र यथास्वशाखं व्यवस्था । श्राद्धम् अत्र नित्यश्राद्धम् । तथा च कूर्मपुराणम् ।

एकं तु भोजयेद् विप्रं पितॄन् उद्दिश्य सन्ततम् ।
नित्यश्राद्धं तद् उद्दिष्टं पितृयज्ञो गतिप्रदः ॥ इति ।

अनेनादैवं श्राद्धम् इत्य् उक्तं भवति । उक्तं च मनुना ।

एकम् अप्य् आशयेद् विप्रं पित्रर्थं पाञ्चयज्ञिके ।
न चैवात्राशयेत् कंचिद् वैश्वदेवं प्रति द्विजः ॥ इति ।

पाञ्चयज्ञिके पञ्चयज्ञाङ्गब्भूते । अपिशब्दात् सति विभवे बहून् अपि । अत एव मार्कण्डेयपुराणम् ।

कुर्याद् अहर् अहः श्राद्धम् अन्न् आद्येनोदकेन वा ।
पितॄन् उद्दिश्य विप्रांस् तु भोजयेद् विप्रम् एव वा ॥ इति ।

अत्र विशेषम् आह हारीतः -

नित्यश्राद्धम् अदैवं स्याद् अर्ध्यपिण्डादिवर्जितम् । इति ।

प्रचेता अपि ।

नामन्त्रणं न होमं च नाह्वानं न विसर्जनम् ।
न पिण्डदानं न स्वधा नित्ये कुर्याद् द्विजोत्तमः ॥
उपवेश्यासनं दत्वा संपूज्य कुसुमादिभिः ।
निर्दिश्य भोजयित्वा तु किंचिद् दत्वा विसर्जयेत् ॥

पुराणे ऽपि ।

नित्यश्राद्धं तु यन् नाम दैवहीनं तद् उच्यते ।
तत् तु षाट्पुरुषं ज्ञेयं दक्षिनापिण्डवर्जितम् ॥

व्यासो ऽपि ।

नित्यश्राद्धे ऽर्ध्यगन्धाद्यैर् द्विजान् अभ्यर्च्य शक्तितः ।
सर्वान् पितृगणान् सम्यक् सहैवोद्दिश्य भोजयेत् ॥
आवाहनस्वधाकारपिण्डाग्नौकरणादिकम् ।
नित्यश्राद्धे त्यजेद् एतान् भोज्यम् अन्नं प्रकल्पयेत् ।
दत्वा तु दक्षिणां शक्त्या नमस्कारैर् विसर्जयेत् ॥
एकम् अप्य् आशयेद् विप्रं षण्णाम् अप्य् अन्वहं गृही ॥

अत्र मत्स्यपुरानोक्तं द्रष्टव्यम् ।

यद्य् एकं भोजयेद् विप्रं त्रीन् उद्दिश्य पितॄंस् तथा ।

अत्रानुकल्पम् आह कात्यायनः ।

एकम् अप्य् आशयेद् विप्रं पितृयजार्थसिद्धये ।
अथैवं नास्ति चेद् अन्यो भोक्ता भोज्यम् अथापि वा ॥
अप्य् उद्धृत्य यथाशक्ति किंचिद् अन्नं यथाविधि ।
पितृभ्य इदम् इत्य् उक्त्वा स्वधाकारम् उदाहरेत् ॥

तच् चान्नं ब्राह्मणाय दद्यात् । अत एव पितृयज्ञं प्रकृत्य कूर्मपुराणम् ।

उद्धृत्य वा यथासक्ति किंचिद् अन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ इति ।

तर्राप्य् असामर्थ्ये मनूक्तम् ।

दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आहरन् ॥ इति ।

होमो दैव इति होमो वैश्वदेवः, स देवयज्ञ इत्य् अर्थः । तथा च कूर्मपुराणे ।

शालाग्नौ लौकिके वाथ जले भूम्याम् अथापि वा ।
वैश्वदेवस् तु कर्तव्यो देवयज्ञः स वै स्मृतः ॥ इति ।

शालाग्निर् गृह्याग्निः । तत्र बोधायनः - “अहर् अहर् देवेभ्यः स्वाहाकुर्याद् आ काष्ठाद् अथैनं देवयज्ञं समाप्नोति” इति । आ काष्ठद् इत्य् अन्नाभावविषयम् । अत एव प्रचेताः - “तस्माद् अहर् अहर् जुहुयाद् अन्नाभावे केनचिद् आ काष्ठाद् देवेभ्यः” इति । बलिर् भौत इति बलिहरणं स भूतयज्ञ इत्य् अर्थः । तथा च कूर्मपुराणे ।

देवेभ्यश् च हुताद् अन्नच् छेषाद् भूतबलिं हरेत् ।
भूतयज्ञः स विज्ञेयो भूतिदः सर्वदेहिनाम् ॥

हारीतो ऽपि - “वास्तुपालभूतेभ्यो बलिहरणम् अहुतः” इति । अहुतो भूतयज्ञः । तत्राप्य् अन्नाभावे बोधायनोक्तम् - “अहर् अहर् भूतेभ्यो बलिं हरेद् आ पुष्पेभ्यो ऽथैनं भूतयज्ञं समाप्नोति” इति । नृयज्ञो ऽतितिपूजनम् इति, अतिथिपूजनम् अतिथिभ्यो ऽन्नदानं स मनुष्ययज्ञ इत्य् अर्थः,

अतिथिभ्यो ऽन्नदानं तु नृयज्ञः स तु पञ्चमः।

इति यमस्मरणात् । हारीतो ऽपि - “यद् देवेभ्यो जुहोति देवलोकं तेनाभियजति यत् पितृभ्यः पितृलोकं तेन यत् स्वाध्यायम् अधीते ऋषिलोकं तेन यद् भूतेभ्यो बलिं हरति भूतलोकं तेन यद् ब्राह्मणांश् तर्पयति मनुष्यलोकं तेन । तस्माद् अन्नं पितृभो दत्वोदीक्षेता गोदोहनात्” इति । मार्कण्डेयपुराणे ऽपि ।

अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ।
तस्मिंस् तृप्ते नृयज्ञार्थान् मुच्येतर्णाद् गृहाश्रमी ॥

अत्र विशेषम् आह नारायणः ।

नियुज्यैकम् अनेकं वा श्रोत्रियं प्राङ्मुखं सदा ।
निवीतो तद्गतमना ऋषीन् ध्यायन् समाहितः ॥
आसनं चार्घ्यदानं च भुक्ते चाचमनं ततः ।

ऋषीन् सनकादीन्, तेषां मनुष्यत्वात् । कार्ष्णाजनिर् अपि ।

मनुष्याणां तथा कुर्यात् तर्पणं प्रत्यहं द्विजः ।
हन्तेति हन्तकारं तु गृहस्थः प्रत्यहं यजेत् ॥

हन्तेति क्रियते यस्मिन् स हन्तकारः । हन्तेत्य् उच्चार्य यजेद् इत्य् अर्थः । अत एव कात्यायनः ।

स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् ।
स्वधाकारः पितॄणां तु हन्तकारस् तथा नृणाम् ॥

हन्तेतिकरणं हन्तकार इत्य् अर्थः । अत्रानुकल्पम् आह नारायणः ।

अशक्ताव् अन्नम् उद्धृत्य हन्तेत्य् एवं प्रकल्पयेत् । इति ।

बोधायनो ऽपि - “अहर् अहर् ब्राह्मणेभ्यो ऽन्नं दद्याद् आ मूलफलशाकेभ्यो ऽथैनं मनुष्ययज्ञं समाप्नोति” इति । मुख्यकल्पानन्तरं कार्ष्णाजनिर् अपि ।

भिक्षां वा पुष्कलं वापि हन्तकारम् अथापि वा ।
असंभवे सदा दद्याद् उदपात्रम् अथापि वा ॥

दद्याद् अतिथय इति शेषः । अत एव मनुष्ययज्ञं प्रक्र्त्य कूर्मपुराणे ।

हन्तकारम् अथाग्रं वा भिक्षां वा शक्तितो द्विजः ।
दद्याद् अतिथये नित्यं बुध्येत परमेश्वरम् ॥ इति ।

भिक्षादिलक्षणं तु शातातपेनोक्तम् ।

ग्रासमात्रं भवेद् भिक्षा पुष्कलं तु चतुर्गुणम् ।
पुष्कलानि च चत्वारि हन्तकारं विदुर् बुधाः ॥

मनुर् अपि ।

ग्रासमात्रं भवेद् भिक्षा अग्रं ग्रासचतुष्टयम् ।
अग्रं चतुर्गुणीकृत्य हन्तकारो विधीयते ॥ इति ।

यदा तु पितृयज्ञे भिक्षादाने च ब्राह्मणालाभः तदा प्रतिपत्तिनियमः कूर्मपुराणे दर्शितः ।

सर्वेषाम् अप्य् अलाभे तु दत्तं गोभ्यो निवेदयेत् । इति ।

एवं च मन्वादिभिर् वैश्वदेवबलिहरणे एव देवयज्ञभूतयज्ञाव् इति दर्शितम् । आपस्तम्बेन तु मन्त्रभेदात् संज्ञाभेदात् पृथग् एवैतद् यज्ञद्वयम् उक्तम् इत्य् उक्तं तद्भाष्ये । अत्र बोधायनः ।

प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते ।
पञ्चानां महताम् एषां स यज्ञैः सह गच्छति ॥
प्रवासे कुरुते चैतान् यद् अन्नम् उपपद्यते ।
न चेद् उत्पद्यते चान्नम् अद्भिर् एतान् समापयेत् ॥ इति ।

अत्र कालनियमम् आह दक्षः ।

पञ्चमे च यथाभागे संविभागो यथार्हतः ।
पितृदेवमनुष्याणां भूतानां चोपदिश्यते ॥ इति ।

संविभागो ऽन्नस्य । अष्टधा विभक्तस्याह्नः पञ्चमभागे । अत एव विष्णुः ।

मध्याह्ने त्व् अथ संप्राप्ते बलिं कृत्वात्मनो गृहे ।
देवपितृमनुष्याणां शिष्टं भुञ्जीत वाग्यतः ॥ इति ।

एवं कुर्वतः फलम् आह हारीतः ।

देवान् पितॄन् ऋषींश् चैव भूतानि ब्राह्मणांस् तथा ।
तर्पयन् विधिना विप्रो ब्रह्मभूयाय कल्पते ॥ इति ।

शम्भुर् अपि ।

यत् फलं सोमयागेन प्राप्नोति धनवान् द्विजः ।
सम्यक् पञ्चमहायज्ञैर् दरिद्रस् तद् अवाप्नुयात् ॥

अथाकरणे दोषो गर्गेण दर्शितः ।

सूनानिर्णिक्तदोषा ये सर्वे ते वृषलाः स्मृताः ।
न तेषाम् अधिकारो ऽस्ति क्वचिद् धर्मे दुरात्मनाम् ॥

वृषलः शूद्रः । व्यासो ऽपि ।

पञ्चयज्ञांस् तु यो मोहान् न करोति गृहाश्रमी ।
तस्य नायं च न परो लोको भवति धर्मतः ॥

विष्णुपुराणे ।

देवादिनिश्वासहतं शरीरं यस्य वेश्मनि ।
न तेन सङ्करं कुर्याद् गृहासनपरिच्छदैः ॥ इति ।

इति स्मृतिचन्द्रिकायां पञ्चमहायज्ञाः