६० शिवस्नानादिविषयाः

**अथ शिवस्नानादिविषयाणि **

तत्र शिवधर्मे नन्दिकेश्वरः ।

कल्पकोटिसहस्रैस् तु यत् पापं सम्ज्पार्जितम् ।
घृतस्नानेन तत् सर्वं दहत्य् अग्निर् इवेन्धनम् ॥
वर्षकोटिसहस्रैस् तु यत् पापं समुपार्जितम् ।
घृताभ्यङ्गेन लिङ्गस्य दहेत् सर्वं न संशयः ॥
कृणाष्टम्यां घृतस्नानं कृत्वा लिङ्गे सकृन् नरः ।
त्रिःसप्तकुलम् उद्धृत्य शिवलोके महीयते ॥
नैरन्तर्येण यो मासं घृतस्नानं समाचरेत् ।
स त्रिसप्तकुलोपेतो लभते पदम् ऐश्वरम् ॥
अयुतं यो गवां दद्याद् दोग्धीणां वेदपारगे ।
वस्त्रहेमादियुक्तानां क्षीरस्नानस्य तत् फलम् ॥
दध्ना तु स्नापयेल् लिङ्गं सकृद् भक्त्या तु यो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
दध्ना तु स्नापयेल् लिङ्गं कृष्णाष्टम्याम् उपोषितः ।
कुलसप्तकम् उद्धृत्य शिवलोके महीयते ॥
मधुना स्नापयित्वा तु सकृद् भक्त्या तु वै नरः ।
पापकञ्चुकम् उद्धृत्य वह्निलोके महीयते ॥
स्नानम् इक्षुरसेनापि यो लिङ्गे सकृद् आचरेत् ।
लभेद् वैद्याधरं लोकं सर्वकामसमन्वितम् ॥
वस्त्रपूतेन तोयेन यो लिङ्गं स्नापयेत् सकृत् ।
सर्वकामसुतृप्तात्मा वारुणं लोकम् आप्नुयात् ॥
कुशोदकेन यो लिङ्गं सकृत् स्नापयते नरः ।
काञ्चनेन विमानेन ब्रह्मलोके महीयते ॥
गन्धचन्दनतोयेन स्नापयेत् सकृद् ईश्वरम् ।
गन्धर्वलोकम् आसाद्य गन्धर्वैश् च सुपूज्यते ॥
पुष्पोदकेन सावित्रं कौबेरं हेमवारिणा ।
रत्नोदकेन चाप्य् ऐन्द्रं लोकं प्राप्य स मोदते ॥
कपिलापञ्चगव्येन विधिना सकृ आचरेत् ।
स्नानं शतगुणं प्रोक्तम् इतरेषां न संशयः ॥
स्नानं शतफलंज्ञेयम् अभ्यङ्गं पञ्चविंशतिः ।
फलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ॥
वासांसि सुविचित्राणि सारवन्ति मृदूनि च ।
धूपितानि शिवे दद्याद् विकेशानि नवानि च ॥
यावत् तद्वस्त्रतन्तूनां परिमाणं विधीयते ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥
त्रिवृतं शुक्लपीतं वा पट्टसूत्रादिनिर्मितम् ।
दत्वोपवीतं रुद्राय भवेद् वेदान्तपारगः ॥
लिङ्गस्य लेपनं कुर्याद् दिव्यगन्धैः सुगन्धिभिः ।
वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥
गन्धानुलेपनात् पुण्यं द्विगुणं चन्दनस्य तु ।
चन्दनाद् अगरोर् ज्ञेयं पुण्यम् अष्टगुणान्वितम् ॥
कृष्णागरोर् विशेषेण द्विगुणं फलम् इष्यते ।
तस्माच् छतगुणं पुण्यं कुङ्कुमस्य विधीयते ॥
चन्दनागरुकर्पूरैः श्लक्ष्णपिष्टैः सकुङ्कुमैः ।
लिङ्गं पर्याप्तम् आलिप्य कल्पकोटिं वसेद् दिवि ॥
संवीज्य तालवृन्तेन दिव्यगन्धैर् विलेपितम् ।
वर्षकोटिसहस्राणि वायुलोके महीयते ॥
मायूरं व्यजनं दत्वा शिवायातीव शोभनम् ।
वर्षकोटिशतं तत्र रुद्रलोके महीयते ॥
पुष्पैर् अरण्यसंभूतैः पत्रैर् वा गिरिसंभवैः ।
अपर्युषितनिच्छिद्रैः प्रोक्षितैर् जन्तुवरितैः ॥
आत्मारामोद्भवैर् वापि पुष्पैः संपूजयेच् छिवम् ।
पुष्पआतिविशेषेण भवेत् पुण्यं विशेषतः ॥
अर्कपुष्पे तु एकस्मिन् शिवाय विनिवेदिते ।
शतं दत्वा सुवर्णानां यत् फलं तद् अवाप्नुयात् ॥
अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ।
करवीरसहस्रेभ्यो बिल्वपत्रं विशिष्यते ॥
बिल्वपत्रसहस्रेभ्यः पद्मम् एकं विशिष्यते ।
तथा पद्मसहस्रेभ्यो वकपुष्पं विशिष्यते ॥
बकपुष्पसहस्रेभ्यश् चैकं दुत्तूरकं वरम् ।
दुत्तूरकसहस्रेभ्यो बृहतीपुष्पम् उत्तमम् ॥
बृहतीपुष्पसाहस्राद् द्रोणपुष्पं विशिष्यते ।
द्रोणपुष्पसहस्रेभ्यो ह्य् अपामार्गं विशिष्यते ॥
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ।
कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥
शमीपुष्पसहस्रेभ्यः श्रीमन् नीलोत्पलं वरम् ।
सर्वासां पुष्पजातीनां प्रवरं नीलम् उत्पलम् ॥
नीलोत्पलसहस्रेण यो मालां संप्रयच्छति ।
शिवाय विधिवद् भक्त्या तस्य पुण्यफलं शृणु ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वसेच् छिवपुरे श्रीमान् शिवतुल्यपराक्रमः ॥
शमीपुष्पं बृहत्याश् च कुसुमं तुल्यम् उच्यते ।
करवीरसमा ज्ञेया जातीविजयपाटलाः ॥
श्वेतमन्दारकुसुमं सितपद्मसमं भवेत् ।
नागचम्पकपुन्नागा दुत्तूरकसमाः स्मृताः ॥
दुत्तूरकेन यो लिङ्गं सकृत् पूजयते नरः ।
स गोलक्षफलं प्राप्य शिवलोके महीयते ॥
बृहतीकुसुमैर् भक्त्या यो लिङ्गं सकृद् अर्जयेत् ।
गवाम् अयुतदानस्य फलं प्राप्य दिवं व्रजेत् ॥
मल्लिकोत्पलपद्मानि जातीपुन्नागचम्पकाः ।
अशोकश् चैव मन्दारकर्णिकारबकानि च ॥
करवीरार्कदुत्तूरशमीनागरकेसराः ।
कुशापामार्गकुसुमकादम्बद्रोणजैर् अपि ॥
पुष्पैर् एतैर् यथालाभं यो नरः पूजयेच् छिवम् ।
स यत् फलम् अवाप्नोति तद् एकाग्रमनाः शृणु ॥
सूर्यकोटिप्रतीकाशैर् विमानैः सार्वकालिकैः ।
पुष्पमालापरिक्षिप्तैर् गीतवादित्रनादितैः ॥
तन्त्रीमधुरवाद्यैश् च स्वच्छन्दगमनालयैः ।
रुद्रकन्यासमाकीर्णैर् देवदानवदुर्लभैः ॥
दोधूयमानश् चमरैः स्तूयमानः सुरासुरैः ।
गच्छेच् छिवपुरं दिव्यं यत्र वा रुचितं भवेत् ॥
शिवस्योपरि यः कुर्यात् सुघनं पुष्पमण्टपम् ।
शोभितं पुष्पमालाद्यैर् आपीडान्तं प्रलम्बितैः ॥
अत्याश्चर्यैर् महायानैर् दिव्यपुष्पोपशोभितैः ।
सर्वैः परिवृतः श्रीमान् गच्छेच् छिवपुरं सुखम् ॥
त्रुटिमात्रं तु यो दद्याद् धेम लिङ्गस्य मूर्धनि ।
इन्द्रस्यार्धासने तावद् यावद् इन्द्राश् चतुर्दश ॥
एवम् एवानुसारेण फलं ज्ञेयं समासतः ।
सर्वेषां मणिपद्मानां मकुटार्थे विशेषतः ॥
स्वयम् उत्पाट्य पुष्पाणि यः स्वयं पूजयेच् छिवम् ।
तानि साक्षात् प्रगृह्णाति तद्भक्त्या सततं शिवः ॥
अलाभे वापि पुष्पाणां पत्राण्य् अपि निवेदयेत् ।
पत्राणाम् अप्य् अलभे तु तृणगुल्मौषधीर् अपि ॥
ओषधीनाम् अलाभे तु भक्त्या भवति पूजितः ।
काननानि कदम्बानि रात्रौ देयानि शम्भवे ॥
दिवा शेषाणि पुष्पाणि दिवा रात्रौ च मल्लिकाः ।
निर्गन्धान्य् उग्रगन्धानि कुसुमानि विवर्जयेत् ॥
गन्धवन्त्य् अपि पत्राणि यानि तानि विवर्जयेत् ।
गन्धहीनम् अपि ग्राह्यं पवित्रं यत् कुशादिकम् ॥
कीटकेशोपविद्धानि शीर्णपर्युषितानि च ।
स्वयम्पतितपुष्पाणि त्यजेद् उपहतानि च ॥
मुकुलैर् नार्चयेद् देवम् अपक्वं न निवेदयेत् ।
कृष्णागरुमलो धूपस् तुषाग्निर् इव काञ्चनम् ॥
शोधयेत् पापसंयुज्तं पुरुषं नात्र संशयः ।
कृष्णागरुसकर्पूरैर् धूपं दद्यान् महेश्वरे ॥
नैरन्तर्येण मासार्धं तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
भुङ्क्ते शिवपुरे भोगांस् तस्यान्ते च महीपतिः ।
गुग्गुलुं घृतसंयुक्तं साक्षाद् गृह्णाति शङ्करः ॥
मासार्धमात्रदानेन शिवलोके महीयते ।
शिवे कृष्णचतुर्दश्यां यः साज्यं गुग्गुलुं दहेत् ॥
अपराधसहस्रैकम् इहामुत्र कृतं दहेत् ।
द्वे सहस्रे फलानां तु महिषाज्यस्य गुग्गुलोः ॥
दग्ध्वा तम् आज्यसंमिश्रं शिवतुल्यः प्रजायते ।
घृतदीपप्रदानेन शिवाय शतयोजनम् ॥
याम्यं तदालयं हित्वा विमानैः सूर्यसंनिभैः ।
स तस्य देवदेवस्य गाणापत्यं लभेन् नरः ॥
शालीनां तण्डुलप्रस्थं कुर्याद् अन्नं सुसंस्कृतम् ।
शिवाय तच् चरुं दद्याच् चतुर्दश्यां विशेषतः ॥
यावन्तस् तण्डुलाः तस्मिन् नैवेद्ये परिसंख्यया ।
तावद्युगसहस्राणि रुद्रलोके महीयते ॥
गुडखण्डघृतानां च भक्षाणां च निवेदिते ।
घृतेन पाचितानां च दानाच् छतगुणं फलम् ॥
मज्जकापानकानां च भक्षार्धं फलम् इष्यते ।
तदर्धं सलिलस्यापि वासितस्य विशेषतः ॥
मातुलुङ्गफलादीनि पक्वानि विनिवेदयेत् ।
शिवाय तत्फलं तस्य यद्भक्षाणां निवेदने ॥
पञ्चसौगन्धिकोपेतं यस् ताम्बूलं निवेदयेत् ।
शिवाय गुरवे चैव तस्य पुण्यफलं शृणु ॥
सुगन्धिदेहस् तेजस्वी सर्वावयवसुन्दरः ।
वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥
शिवस्य पुरतो दद्याद् दर्पणं चारु निर्मलम् ।
पर्यङ्कशोभितं कृत्वा श्वेतमाल्यैर् अलंकृतम् ॥
चन्द्रांशुनिर्मलः श्रीमान् सुभगः कामरूपधृत् ।
कल्पायुतसहस्राणि रुद्रलोके महीयते ॥
स यां गतिम् अवाप्नोति न तां क्रतुशतैर् अपि ।
कृत्वा प्रदक्षिणं भक्त्या शिवस्यायतने नरः ।
अश्वमेधसहस्रस्य सुखेन लभते फलम् ॥

लिङ्गपुराणे ऽपि ।

प्रदक्षिणं तु यः कुर्यात् सप्रणामं समन्ततः ।
सव्यापसव्यन्यायेन मृदुगत्या शुचिर् नरः ॥
पदे पदे ऽश्वमेधस्य यज्ञस्य फलम् आप्नुयात् । इति ।

इति स्मृतिचन्द्रिकायां शिवस्नानादिविषयाणि