५९ शिवार्चनम्

अथ शिवार्चनम्

तत्र बोधायनः ।

अथातो महादेवस्याहर् अहः परिचर्याविधिं व्याख्यास्यामः । स्नातः शुचिः समे देशे गोमयेनोपलिप्य प्रतिकृतिं कृत्वाक्षतगन्धपुष्पैर् यथालाभम् अर्चयित्वा सह पुष्पोदकेन महादेवम् आवाहयेत् । ॐ भूर् महादेवम् आवाहयामि ॐ भुवर् महादेवम् आवाहयामि ॐ सुवर् महादेवम् आवाहयामि ॐ भू भुवः सुवः महादेवम् आवाहयामि । आयातु भगवान् महादेव इति । अथ स्वागतेनाभिनन्दयति स्वागतम् अनु चागतं भगवते महादेवाय एतद् आसनम् उपकॢप्तं अत्रास्तां भगवान् महादेव इति । अत्र कूर्चं ददाति भगवतो ऽयं कूर्चो दर्भमयस् त्रिवृद् धरितः सुवर्णस् तं जुषस्वेति । अत्र स्थानानि कल्पयति अग्रतो ब्रह्मणे कल्पयामि विष्णवे कल्पयामि, दक्षिणतः स्कन्दाय कल्पयामि विनायकाय कल्पयामि, पश्चिमतः शूलाय कल्पयामि महाकालाय कल्पयामि, उत्तरत उमयै कल्पयामि नन्दिकेश्वराय कल्पयामि इति कल्पयित्वा सावित्र्या पात्रम् अभिमन्त्र्य प्रक्षाल्य तिरःपवित्रम् अप आनीय पुनस् तेनैवाभिमन्त्र्य सह पवित्रेणादित्यं दर्शयेत् ओम् इत्यातमितोः । तासां त्वरितरुद्रेण पाद्यं दद्यात् । प्रणवेनार्घ्यम् । अथ व्याहृतिभिर् निर्माल्यं व्यपोह्य उत्तरतश् चण्डीश्वराय नमः इति । अथैनं स्नापयति “आपो हिष्ठा मयोभुवः” इति तिसृभिः “हिरण्यवर्णाः” इति चतसृभिः “पवमानः स्वर्जनः” इत्य् एतेनानुवाकेन । स्नापयित्वाद्भिस् तर्पयति भवं देवं तर्पयामि शर्वं देवं तर्पयामि ईशानं देवं तर्पयामि पशुपतिं देवं तर्पयामि रुद्रं देवं तर्पयामि उग्रं देवं तर्पयामि भीमं देवं तर्पयामि महान्तं देवं तर्पयामि इति तर्पयित्वा । अथैतानि वस्त्रयज्ञोपवीताचनीयान्य् उदकेन व्याहृतिभिर् दत्वा व्याहृतिभिः प्रदक्षिणम् उदकं परिषिच्य नमस् ते रुद्र मन्यव इति गन्धं दद्यात् । ईशानं त्वा भुवनानाम् अधिश्रियं इत्य् अक्षतान् दद्यात् । सावित्र्या घूपम्, उद्दीप्यखेति दीपं देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां भगवते महादेवाय जुष्टं चरुं निवेदयामीति नैवेद्यम् । अथाष्टभिर् (?) नामभिर् अष्टौ पुष्पाणि दद्यात् भवाय देवाय नमः शर्वाय देवाय नमः ईशानाय देवाय नमः पशुपतये देवाय नमः रुद्राय देवाय नमः उग्राय देवाय नमः भीमाय देवाय नमः महते देवाय नमः ब्रह्मणे नमः विष्णवे नमः स्कन्दाय नमः विनायकाय नमः महाकालाय नमः उमायै नमः दुर्गाय नमः नन्दिकेश्वराय नम इति । चरुशेषेणाष्टभिर् नामभिर् अष्टाहुतीर् जुहोति भवाय देवाय स्वाहेत्यादिभिः । अथ शिष्टैर् गन्धमाल्यैर् ब्राह्मणान अलंकृत्यात्मानं चालंकृत्य । अथैनम् ऋग्यजुःसामाथर्वाभिः स्तुतीन्त (?) सहस्राणि सहस्रश इत्य् अनुवाकं जप्त्वान्यांश् च रौद्रान् मन्त्रान् यथाशक्तीत्य् एके । ॐ भूर् भुवः सुवर् महर् ॐ भगवते महादेवाय चतुर्म् उद्वासयामीति चरुम् उद्वास्य उद्वासनकाले ॐ भूर् महादेवम् उद्वासयामि ॐ भुवः महादेवम् उद्वास्यामि ॐ सुवर् महादेवम् उद्वास्यामि ॐ भूर् भुवः सुवर् महादेवम् उद्वासयामि ।
प्रयातु भगवान् ईशः सर्वलोकपरायणः ।
अनेन हविषा तुष्टः पुनर् आगमनाय च ॥ इति ।
प्रतिमास्थानेष्व् अप्स्व् अग्नौ वा आवाहनविसर्जनवर्जं सर्वं समानं महत्स्व् अस्त्य् अयनम् इत्य् आचक्षते महत्स्व् अस्त्य् अयनम् इत्य् आचक्षत इत्य् आह भगवान् बोधायनः । इति ।

त्वरितरुद्र इति सर्वो वै रुद्र इत्य् अनुवाकेन । एवं कुर्वतः फलम् आह पुराणे नन्दिकेश्वरः ।

यः प्रदद्याद् गवां लक्षं दोग्ध्रीणां वेदपारगे ।
एकाहम् अर्चयेल् लिङ्गं तस्य पुण्यं ततो ऽधिकम् ॥
मासे मासे तु यो ऽश्नीयाद् यावज्जीवं द्विजोत्तमान् ।
यस् त्व् अर्चयेत् सकृल् लिङ्गं समम् एतन् न संशयः ॥ इति ।

इति स्मृतिचन्द्रिकायां शिवार्चनविधिः