५८ देवतास्नानादिविषयः

देवतास्नानादिविषयाणि

अथान्यान्य् अपि देवतास्नानादिविषयाणि वचनानि कानिचिल् लिख्यन्ते । तत्र विष्णुधर्मे पुलस्त्यः ।

गवां शतस्य विप्राणां यद् दत्तस्य भवेत् फलम् ।
घृतप्रस्थेन तद् विष्णोर् भवेत् स्नानान् न संशयः ॥
भूरिद्युम्नेन संप्राप्ता सप्तद्वीपा वसुन्धरा ।
घृताढकेन गोविन्दप्रतिमास्नपनात् किल ॥
द्वादश्यां पञ्चदश्यां वा गव्येन हविषा हरेः ।
स्नापनं दैत्यशार्दूल महापतकनाशनम् ॥
अयने चोत्तरे प्रप्ते यः स्नपयति केशवम् ।
घृतप्रस्थेन पापं स सकलं वै व्यपोहति ॥
कपिलां विप्रमुख्याय ददात्य् अनुदिनं हि यः ।
घृतस्नानं हि देवस्य तस्मिन् काले समं हि यते ॥
स्नाप्यमानं च पश्यन्ति ये घृतेनोतरायणे ।
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः ॥
दध्यादीनां विकाराणां क्षीरतः संभवो यथा ।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥

नृसिंहपुराणे ऽपि ।

स्नाप्य दध्ना सकृद् विष्णुं निर्मलं प्रियदर्शनम् ।
विष्णुलोकम् अवाप्नोति सेव्यमानः सुरोत्तमैः ॥

यमो ऽपि ।

देवमाल्यापनयनं देवागारसमूहनम् ।
स्नापनं सर्वदेवानां गोप्रदानसमं स्मृतम् ॥

नृसिंहपुराणे ।

कुङ्कुमागरुश्रीखण्डकर्दमैर् अच्युताकृतिम् ।
आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेद् दिवि ॥

शङ्खो ऽपि - “चन्दनकुङ्कुममृगनाभिभिर् जातीफलवर्जम् अनुलेपनं समादध्यात्” इति । एतेषां संभव इति शेषः । पद्मपुराणे ऽपि ।

गन्धेभ्यश् चन्दनं पुण्यं चन्दनाद् अगरुर् वरः ।
कृष्णागरुस् ततः श्रेष्ठः कुङ्कुमं तु ततो वरम् ॥

नृसिंहपुराणे ऽपि ।

अपर्युषितनिच्छिद्रैर् अस्पृष्टैश् चापि जन्तुभिः ।
आत्मारामोद्भवैर् वापि पुष्पैः संपूजयेद् धरिम् ॥
दश दत्वा सुवर्णानि यत् फलं लभते नरः ।
तत् फलं लभते निष्णोर् द्रोणपुष्पप्रदानतः ॥
दोणपुष्पसहस्रेभ्यः खादिरं पुष्पम् उत्तमम् ।
खादिरात् पुष्पसाहस्राच् छमीपत्रं विशिष्यते ॥
शमीपत्रसहस्राद् धि बिल्वपत्रं विशिष्यते ।
बिल्वपत्रसहस्राद् धि बकुलं पुष्पम् उत्तमम् ॥
बकुलात् पुष्पसाहस्रान् नद्यावर्तं विशिष्यते ।
नन्द्यावर्तसहस्राद् धि करवीरं विशिष्यते ॥
करवीरसहस्रेभ्यः पालाशं पुष्पम् उत्तमम् ।
पालाशपुष्पसाहस्रात् कुशपुष्पं विशिष्यते ॥
कुशपुष्पसहस्राद् धि वनमाला विशिष्यते ।
वनमालासहस्राद् धि चम्पकं पुष्पम् उत्तमम् ॥
चम्पकात् पुष्पसाहस्राद् अशोकं पुष्पम् उत्तमम् ।
अशोकपुष्पसाहस्रात् सेवन्तीपुष्पम् उत्तमम् ¦।
सेवन्तीपुष्पसाहस्राद् गोर्जटापुष्पम् उत्तमम् ।
गोर्जटापुष्पसाहस्रान् मालतीपुष्पम् उत्तमम् ॥
मालतीपुष्पसाहस्रात् संध्यारक्तम् अनुत्तमम् ।
संध्यारक्तसहस्राद् धि कुन्दपुष्पं विशिष्यते ॥
कुन्दपुष्पसहस्राद् धि मल्लिकापुष्पम् उत्तमम् ।
मल्लिकापुष्पसाहस्राज् जातीपुष्पं विशिष्यते ॥
जातीपुष्पसहस्रेण यो मालां संप्रयच्छति ।
विष्णवे विधिवद् भक्त्या तस्य पुण्यफलं शृणु ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वसेद् विष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः ॥

विष्णुरहस्ये ऽपि ।

वर्णानां तु यथा विप्रः तीर्थानां जाह्नवी यथा ।
सुराणां च यथा विष्णुः पुष्पाणां मालती तथा ॥
मालत्यानुदिनं देवं यो ऽर्चयेद् गरुडध्वजम् ।
जन्ममृत्युजरारोगैर् मुक्तो ऽसौ मुक्तिम् आप्नुयात् ॥
दत्तमात्रं हरेः पुष्पं निर्माल्यं भवति क्षणात् ।
उपभुङ्क्ते त्व् अहोरात्रं मालत्याः कुसुमं हरिः ॥
सुगन्धैर् मल्लिकापुष्पैर् अर्चयित्वाच्युतं नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
यो ऽर्चयेत् पाटलीपुष्पैः सर्वपापहरं हरिम् ।
स पुण्यात्मा परं स्थानं वैष्णवं व्रजते ऽमलम् ॥
सितरक्तैर् महापुण्यैः कुसुमैः करवीरजैः ।
अर्चयित्वाच्युतं याति यत्रास्ते गरुडध्वजः ॥
गन्धाढ्यैर् विमलै रम्यैः कुसुमैः कुब्जकोद्भवैः ।
भक्त्याभ्यर्च्य हृषीकेशं श्वेतद्वीपं व्रजेन् नरः ॥
शुभ्रशुद्धैर् महागन्धैः कुसुमैः पङ्कजोद्भवैः ।
अधोक्षजं समभ्यर्च्य नरो याति हरेः पदम् ॥
अर्चयित्वा हृषीकेशं कुसुमैः केतकोद्भवैः ।
पुण्यं तद्भवनं याति केशवस्य निरामयम् ॥
अभ्यर्च्य कुन्दकुसुमैः केशवं कल्मषापहम् ।
प्रयाति भवनं विष्णोर् वन्दितं मुनिचारणैः ॥
आढरूपिकपुष्पैर् यः पूजयेज् जगतां पतिम् ।
स पुण्यवान् नरो याति विष्णोस् तत् परं पदम् ॥
अशोककुसुमै रम्यैर् जन्मशोकभयापहम् ।
पूजयित्वाच्युतं देवं याति विष्णुम् अनामयम् ॥
तिलकस्योज्ज्वलैः पुष्पैः संपूज्य मधुसूदनम् ।
धूतपापो निरातङ्कः कृष्णस्यानुचरो भवेत् ॥
नीपार्जुनकदम्बैश् च वकुलैश् च सुगन्धिभिः ।
अभ्यर्च्य केशवं पुष्पैः पुण्यकृद् विष्णुलोकभाक् ॥
अगस्त्याम्बुमयैः पुष्पैः किंशुकैः सुमनोहरैः ।
समभ्यर्च्य हृषीकेशं जन्मदुःखाद् विमुच्यते ॥
शतदूर्वामयैः पुष्पैस् तथा काशकुशोद्भवैः ।
भूधरं समलंकृत्य विष्णुलोकं व्रजेन् नरः ॥
मारुतं केतकं पुष्पं तथा दामनकं पुनः ।
उत्तमां तु हरेः प्रीतिं करोति शतवार्षिकीम् ॥
पुरोपवनजैः पुष्पैर् अलंकृत्य जनार्दनम् ।
यत् फलं प्राप्यते पुंभिर् आरण्यैस् त्रिगुणं ततः ॥
भक्त्या दत्तं फलं पुष्पं पत्रं दूर्वाङ्कुरं जलम् ।
अचिरात् प्रतिगृह्णाति भक्तिग्राह्यो हि केशवः ॥

विष्णुधर्मेष्व् अपि ।

भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः परमेश्वरः ।
हरिर् ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥

विष्णुरहस्ये पि ।

सकृद् अभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः ।
मुक्तिभागी निरातङ्कः कृष्णस्यानुचरो भवेत् ॥
ये ऽर्चयन्ति शमीपत्रैः प्रमादेनापि केशवम् ।
ते प्रसन्ने हृषीकेशे नरा यान्ति परां गतिम् ॥
हरिं भृङ्गारजेनापि ये ऽर्चयन्ति सुरेश्वरम् ।
ते ऽपि मुक्ता जरारोगैर् नरा यान्ति हरेः पदम् ॥
ये ऽर्चयन्ति तम् आलस्य पत्रैः पापहरं हरिम् ।
धूतपाप्माच्युतावासं प्रयाति सुकृती नरः ॥
तुलसी कृष्णगौरा स्यात् तयाभ्यर्च्य जनार्दनम् ।
नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वतीं गतिम् ॥

पद्मपुराणे ऽपि ।

सुगन्धतुलसीपत्रैः प्रतिमायाः समन्ततः ।
निच्छिद्रम् आस्तरेद् यस् तु सो ऽनन्तं फलम् आप्नुयात् ॥
पुष्पजातिषु सर्वासु सौवर्णं पुष्पम् उत्तमम् ।
तृटिमात्रप्रदानात् तु शक्रार्धासनम् आप्नुयात् ॥

तृटिमात्रम् अणुमात्रम् । विष्णुरहस्ये ऽपि ।

स्वर्णे लक्षाधिकं पुण्यं माला कोटिगुणाधिका ।
दत्ता भवति कृष्णाय नरैर् भक्तिसमन्वितैः ॥
एवं शुभैः सदा पुष्पैः पूजनीयो जनार्दनः ।
निषिद्धैर् दुःखदैर् देवं नार्चयेत कथंचन ॥ इति ।

निषिद्धान्य् अपि तत्रैव दर्शितानि ।

न शुष्कैः पूजयेद् देवं कुसुमैर् न महीं गतैः ।
न विशीर्णदलैः सिष्टैर् नाशुभैर् नाविकासिभिः ॥
पूतिगन्धोग्रगन्धानि आम्लगन्धानि वर्जयेत् ॥

पद्मपुराणे ऽपि ।

कीटकेशापविद्धानि शीर्णपर्युषितानि च ।
भग्नपत्रं च न ग्राह्यं क्रिमिदुष्टं न चाहरेत् ।
वर्जयेद् ऊर्णनाभेन वासितं यदि शोभनम् ।
स्थलजं नोद्धरेत् पुष्पं छेदयेज् जलजं न तु ॥
यानि स्पृष्टानि चास्पृश्यैर् लोकायुकैश् च वर्जयेत् ॥

हारीतो ऽपि ।

स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः ।
देवतास् तं न गृह्णन्ति न च गृह्णन्ति वै द्विजाः ॥
पितरस् तं न गृह्णन्ति भस्मीभवति काष्ठवत् ॥

एतन् मध्याह्नस्नानाभिप्रायम् । द्वितीयभागं प्रकृत्य,

समित्पुष्पकुशादीनां न कालः परिकीर्तितः ।

इति दक्षस्मरणात् । विष्णुरहस्ये ऽपि ।

ये ऽरकपुष्पैस् त्रिलोकेशम् अर्चयन्ति जनार्दनम् ।
तेभ्यः क्रुद्धो ऽक्षयं दुःखं क्रोधाद् विष्णुः प्रयच्छति ॥
उन्मत्तकेन ये मूढाः पूजयन्ति त्रिविक्रमम् ।
उन्मादं दारुणं तेषां ददाति गरुडध्वजः ॥
काञ्जनारमैः पुष्पैर् ये ऽर्चयन्त्य् असुरद्विषम् ।
दारिद्र्यं दुःखबहुलं तेभ्यो विष्णुः प्रयच्छति ॥
गिरिकर्णिकया विष्णुं ये ऽर्चयन्त्य् अबुधा जनाः ।
तेषां कुलक्षयं घोरं कुरुते मधुसूदनः ॥ इति ।

अत्र हारीतः ।

महिषाक्षकणं दारुसल्लकं सागरं मदम् ।
शङ्खजातिफलं श्रीमत् प्रिया धूपा हरेर् इमे ॥
घृततैलैर् विना किंचिद् दीपार्थं न समाहरेत् ॥

संवर्तो ऽपि ।

देवागारे द्विजानां च दत्वा दीपं चतुष्पथे ।
मेधावी ज्ञानसंपन्नश् चक्षुष्मान् जायते नरः ॥

भविष्योत्तरे ऽपि ।

प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् ।
अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥

पद्मपुराणे ऽपि ।

नैवेद्यपात्रं वक्ष्यामि केशवाय महात्मने ।
हैरण्यं राजतं कांस्यं ताम्रं मृण्मयम् एव वा ॥
पालाशं पद्मपत्रं वा पात्रं विष्णोर् अतिप्रियम् ।
हविः शाल्योदनं दिव्यम् आज्ययुक्तं सशर्करम् ॥
नैवेद्यं देवदेवाय यावकं पायसं तथा ।
नैवेद्यवस्त्वलाभे तु फलानि विनिवेदयेत् ॥
फलानाम् अप्य् अभावे तु तृणगुल्मैषधीर् अपि ।
ओषधीनाम् अलाभे तु तोयान्य् अपि निवेदयेत् ॥
तदभावे तु सर्वत्र मानसं परमं स्मृतम् ॥

वराहपुराणे ऽपि ।

प्रणम्य दण्डवद् भूमौ नमस्कारेण यो ऽर्चयेत् ।
स यां गतिम् आप्नोति न तां क्रतुशतैर् अपि ॥

नृसिंहपुराणे ऽपि ।

नमस्कारेण चैकेन अष्टाङ्गेन हरिं व्रजेत् । इति ।

अष्टाङ्गलक्षणं पुराणे दर्सितम् ।

उरसा सिरसा दृष्ट्या मनसापि धियापि च ।
पद्भ्यां कराभ्यां वाचा च प्रणामो ऽष्टाङ्ग उच्यते ॥

अत्र ब्रह्मा ।

विष्णोर् विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणम् ।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥

पुराणे ऽपि ।

अग्निष्टोमसहस्रैस् तु वाजपेयशतैर् अपि ।
तत् फलं लभते देवि विष्णोर् नैवेद्यभक्षणात् ॥
हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः ।
धारोदकं च निर्माल्यं मस्तके यस्य सो ऽच्युतः ॥ इति ।

इति स्मृतिचन्द्रिकायां देवतास्नानादिविषयाणि