५७ देवतार्चनम्

अथ देवतार्चनम्

तत्र हारीतः ।

कुर्वीत देवतापूजां जपयज्ञाद् अनन्तरम् ।
स्थण्डिले प्रतिमायां वा जले ऽग्नौ हृदये ऽपि वा ॥

जपयज्ञो ब्रह्मयज्ञः । अत्र ब्रह्मयज्ञं प्रकृत्य,

जपयज्ञस्य सिद्ध्यर्थं विद्याम् आध्यात्मिकीं जपेत् ।

इति याज्ञवल्क्यस्मरणात् । मरीचिर् अपि ।

विधाय देवतापूजां प्रातर्होमाद् अनन्तरम् ।
स्थण्डिले प्रतिमायां वा वह्नौ वा हृदयाम्बुजे ॥

नृसिंहपुराणे ऽपि ।

जले देवं नमस्कृत्य ततो गच्छेद् गृहं बुधः ।
पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥ इति ।

अत्रैषां विकल्पो वेदितव्यः । अत्र योगयाज्ञवल्क्यः ।

अङ्गुष्ठे चैव गोविन्दं तु महीधरम् ।
मध्यमायां हृषीकेशम् अनामिकायां त्रिविक्रमम् ॥
कनिष्ठायां न्यसेद् विष्णुं हस्तमध्ये च माधवम् ।
अग्नौ हुतं च दत्तं च देवतार्चनम् एव च ॥
हस्तन्यासप्रभावेन सर्वं भवति चाक्षयम् ॥ इति ।

तच् चार्चनं नारदेनोक्तम् ।

इमम् अर्थं पुरा पृष्टो नारदो भगवान् ऋषिः ।
नरनारायणाभ्यां च तैर् मुनीन्द्रश् च संगतैः ॥
नारायणार्चनविधिं श्रोतुं नो वक्तुम् अर्हसि ।
धर्मार्थकामापवर्गान् येन प्राप्नोति पुष्कलान् ॥
श्रुत्वैतत् स चिरं ध्यात्वा सस्मार च पुरातनम् ।
क्षीराब्धौ यच् छ्रुतं पूर्वं पुष्कराक्षमुखाच् च्युतम् ॥
शृण्वन्तु मुनयः सम्यक् पुरुषोत्तमपूजनम् ।
यत् कृत्वा मुनयः सर्वे ब्रह्म निर्वाणम् आप्नुयुः ॥
स्नात्वा यथोक्तविधिना प्राङ्मुखः शुद्धमानसः ।
स्वशाखोक्तक्रियां कृत्वा हुत्वा चैवादिहोत्रकम् ॥
कुर्याद् आराधनं विष्णोर् देवदेवस्य चक्रिणः ।
अप्स्व् अग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ॥
षट्स्व् एतेषु हरेः सम्यग् अर्चनं मुनिभिः स्मृतम् ।
अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् ॥
प्रतिमास्व् अल्पबुद्धीनां योगिनां हृदये हरिः ।
आपो ह्य् आयतनं तस्य तस्मात् तासु सदा हरिः ॥
आपो ह्य् आयतनं तस्य तस्मात् तासु सदा हरिः ।
तस्य सर्वगतत्वाच् च स्थण्डिले भावितात्मनाम् ॥
ऋग्वेदे पौरुषं सूक्तम् अर्चितं गुह्यम् उत्तमम् ।
आनुष्टुभस्य सूक्तस्य त्रिष्टुबन्तस्य देवता ॥
पुरुषो यो जगद्बीजम् ऋषिर् नारायणः स्मृतः ।
प्रथमां विन्यसेद् वामे द्वितीयां दक्षिणे करे ॥
तृतीयां वामपादे तु चतुर्थी दक्षिणे तथा ।
पञ्चमीं वामजङ्घायां दक्षिणस्यां तथोत्तराम् ॥
सप्तमीं वामकट्यां तु दक्षिणस्यां तथाष्टमीम् ।
नवमीं नाभिमध्ये तु दशमीं हृदि विन्यसेत् ॥
एकादशीं कण्ठदेशे द्वादशीं वामबाहुके ।
त्रयोदशीं दक्षिणे तु आस्यदेशे चतुर्दशीम् ॥
अक्ष्णोः पञ्चदशीं न्यस्य षोडशीं मूर्ध्नि विन्यसेत् ।
यथात्मनि तथा देवे न्यासकर्म समाचरेत् ॥
एवं न्यासं तु कृत्वादौ पश्चाद् देवस्य पूजनम् ।
गन्धमाल्यैः सुरभिभिर् आत्मानं चार्चयेद् बुधः ॥
ततः पीतं समाराध्य गन्धपुष्पाक्षतैः शुभैः ।
आद्ययावहयेद् देवम् ऋचा तु पुरुषोत्तमम् ॥
द्वितीययासनं दद्यात् पाद्यं चैव तृतीयया ।
चतुर्थ्यार्घ्यं प्रदातव्यं पञ्चम्याचमनीयकम् ॥
षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रम् एव च ।
यज्ञोपवीतम् अष्टम्या नवम्या गन्धम् एव च ॥
दशम्या पुष्पदानं स्याद् एकादश्या तु धूपकम् ।
द्वादश्या च तथा दीपं त्रयोदश्या चरुं तथा ॥
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् ।
षोडश्योद्वासनं कुर्याच् छेषकर्माणि पूर्ववत् ॥
स्नाने वस्त्रोपवीते च चरावाचमनीयकम् ।
हुत्वा षोडशभिर् मन्त्रैः षोडशान्तास्य चाहुतिः ॥
शेषं निवेदयेत् तस्मै दद्याद् आचमनं ततः ।
ततः षोडशभिर् मन्त्रैर् दद्यात् पुष्पाणि षोडश ॥
तच् च सर्वं जपेद् भूयः पौरुषं सूक्तम् उत्तमम् ।
ततः प्रकक्षिणं कृत्वा नारायणम् अनामयम् ॥
शङ्खचक्रगदापाणिं ध्यात्वा विष्णुं समर्चयेत् ।
षण्मासात् सिद्धिम् आप्नोति एवम् एव समर्चयन् ॥
संवत्सरेण तेनैव सायुज्यम् अधिगच्छति ।
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर् धृतशङ्खचक्रः ॥

कूर्मपुराणे ऽपि ।

न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्माद् अनादिमध्यान्तं नित्यम् आराधयेद् धरिम् ॥
तद् विष्णोर् इति मन्त्रेण सूक्तेन पुरुषेण वा ।
नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश् चतुर्ष्व् अपि ॥
अथ वा देवम् ईशानं भगवन्तं सनातनम् ।
आराधयेन् महादेवं भावपूतो महेश्वरम् ॥
मन्त्रेण रुद्रगायत्र्या प्रणवेनाथ वा पुनः ।
ईशानेनाथ वा रुद्रैस् त्र्यम्बकेण समाहितः ॥
तथ्ॐ नमः शिवायेति मन्त्रेणानेन वा जपेत् ॥ इति ।

बोधायनो ऽपि ।

अथातो महापुरुषस्याहर् अहः परिचर्याविधिं व्याख्यास्यामः । स्नातः शुचिः शुचौ देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वाक्षतगन्धपुष्पैर् यथालाभम् अर्चयित्वा सह पुष्पोदकेन महापुरुषम् आवाहयेत् — ॐ भूः पुरुषम् आवाहयामि, ॐ भुवः पुरुषं आवाहयामि, ॐ सुवः पुरुषं आवाहयामि, ॐ भूर् भुवः सुवः पुरुषम् आवाहयामि, इत्य् आवाह्य आयातु भगवान् महापुरुष इति । अथ स्वागतेनाभिनन्दयति स्वागतम् अनु चागतं भगवते महापुरुषायैतद् आसनम् उपकॢप्तम् अत्रास्तां भगवान् महापुरुष इति । अत्र कूर्चं ददाति । भगवतो ऽयं कूर्चो दर्भमयस् त्रिवृद्धरितः सुवर्नस् तं जुषस्वेति । अत्र स्नानादि कल्पयति अग्रतः शङ्खाय कल्पयामि चक्राय कल्पयामि दक्षिणतो गदायै कल्पयामि वनमालायै कल्पयामि पश्चिमतः श्रीवत्साय कल्पयामि गरुत्मते कल्पयामि उत्तरतः श्रियै कल्पयामि सरस्वत्यै कल्पयामि पुष्ट्यै कल्पयामि तुष्ट्यै कल्पयामीति । अथ सावित्र्या पात्रम् अद्भिः प्रक्षाल्य तिरःपवित्रम् अप आनीय पुनस् तेनैवापो ऽभिमन्त्र्य सपवित्रेणादित्यं दर्शयेत् ओम् इत्य् आतमितोः । तासाम् “त्रीणि पदा विचक्रमे” इति पद्यं ददाति । अथ व्याहृतिभिः निर्माल्यं व्यपोह्य “इदं विष्णुर् विचक्रमे” इत्य् अर्घ्यं दद्यात् । “दिवो वा विष्णो” इत्य् आचमनीयम् । अथैनं स्नापयति “आपो हिष्ठा मयोभुवः” इति तिसृभिः, “हिरण्यवर्णाः शुचयः पावकाः” इति चतसृभिः, “पवमानः सुवर्जनः” इत्य् एतेननुवाकेन, ब्रह्मजज्ञानं वामदेव्यर्चा यजुःपवित्रेणेति । अथाद्भिस् तर्पयति — केशवं तर्पयामि नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामीति । दैवतानि वस्त्रयज्ञोपविताचमनीयानि उदकेन व्याहृतिभिर् दत्वा व्याहृतिभिः प्रदक्षिणम् उदकं परिषिच्य प्रणवेन वासो ददाति सावित्र्या यज्ञोपवीतम्, “इदं विष्णुः” इत्य् अचमनीयम्, “गन्धद्वाराम्” इति गन्धम्, “इरावती” इत्य् अक्षतम्, “तद् विष्णोः” इति पुष्पम्, सवित्र्या धूपम्, “उद्दीप्यस्व” इति दीपम्, “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां भगवते महापुरुषाय जुष्टं चरुं निवेदयामि” इति नैवेद्यम्, अथास्मै द्वादशभिर् नामभिः (केशवादिभिर् द्वादश) पुष्पाणि दद्यात् । ततः शङ्खाय नमः चक्राय नमः गदायै नमः वनमालायै नमः श्रीवत्साय नमः गरुत्मते नमः श्रियै नमः सरस्वत्यै नमः पुष्ट्यै नमः तुष्ट्यै नमः इति । अथ शिष्टैर् गन्धमाल्यैर् ब्राह्मणान् अलंकृत्यातिशिष्टैर् गन्धमाल्यैर् आत्मानम् अलंकृत्य, अथैनम् ऋग्यजुःसामाथर्वभिः स्तुतिभिः स्तुवन्ति । ध्रुवसूक्तं जप्त्वा पुरुषसूक्तं चाथान्यांश् च वैष्णवान् मन्त्रान् इत्य् एके । ॐ भूर् भुवः सुवर् महर् ॐ भगवते महापुरुषाय चरुम् उद्वासयामीति चरुम् उद्वास्य उद्वासनकाले “ॐ भूः पुरुषम् उद्वासयामि ॐ भुवः पुरुषम् उद्वासयामि ॐ सुवः पुरुषम् उद्वासयामि ॐ भूर् भुवः सुवः पुरुषम् उद्वासयामि” इत्य् उद्वास्य प्रयातु भगवान् महापुरुषो ऽनेन हविषा तृप्तो वा पुनर् आगमनाय पुनः संदर्शनाय च इति । प्रतिमास्थानेष्व् अप्सु अग्नौ वावाहनविसर्जनं सर्वं समानं महत् सवस्त्ययनम् इत्य् आचक्षते इत्य् आह भगवान् बोधायनः ॥ इति ।

अत्र पूजानन्तरं योगयाज्ञवल्क्यः ।

एवं संपूज्य देवेशं क्षणं ध्यात्वा निरञ्जनम् ।
ततो ऽवलोकयेद् अर्कं हंसः शुचिष्द् इत्य् ऋचा ।
स याति ब्रह्मणः सद्म ध्यात्वेक्षेतानया तु यः ॥ इति ।

एवं कुर्वतः फलम् आह भगवान् ।

ये ऽर्चयन्ति सदा विष्णुं शङ्खचक्रगदाधरम् ।
सर्वपापविनिर्मुक्ता ब्रह्माणं प्रविशन्ति ते ॥

विष्णुरहस्ये ऽपि ।

इति विष्ण्वर्चनं ये तु प्रकुर्वन्ति नरा भुवि ।
ते यान्ति शाश्वतं विष्णोर् अनन्तं परमं पदम् ॥ इति ।

अत्र व्यासः ।

सर्वेषाम् एव लोकानां गुरुर् नारायणो हरिः ।
तस्य संपूजनं कार्यं सर्वपापहरं हि यत् ॥ इति ।

शिवार्चनफलं तु शिवधर्मशास्त्रे दर्शितम् ।

यः प्रदद्याद् गवां लक्षं दोग्ध्रीणां वेदपारगे ।
एकाहम् अर्चयेल् लिङ्गं तस्य पुण्यं ततो ऽधिकम् ॥
मासे मसे तु यो ऽश्नीयाद् यावज्जीवं द्विजोत्तमान् ।
यस् त्व् अर्चयेत् सकृल् लिङ्गं समम् एतन् न संशयः ॥ इति ।

तथाकरणे ऽपि दोषः कूर्मपुराणे दर्शितः ।

यो मोहाद् अथ वालस्याद् अकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकान् सूकरेष्व् इह जायते ॥

इति स्मृतिचन्द्रिकायां देवतार्चनम्