५६ भीष्मतर्पणम्

भीष्मतर्पणम्

अथ माधशुक्लाष्टम्यां भीष्मतर्पणं स्मरन्ति । तथा च पुराणम् ।

शुक्लाष्टम्यां तु माघस्य दद्याद् भीष्माय यो ऽञ्जलिम् ।
संवत्सरकृतं पापं तत्क्षणाद् एव नश्यति ॥

तत्रायं मन्त्रः ।

वैयाघ्रपादगोत्राय सङ्कृतिप्रवराय च ।
गङ्गापुत्राय भीष्माय प्रदास्ये ऽहं तिलोदकम् ।
अपुत्राय ददाम्य् एतत् सलिलं भीष्मवर्मणे ॥ इति ।

इति स्मृतिचन्द्रिकायां भीष्मतर्पणविधिः