५५ यमतर्पणम्

अथ यमतर्पणम्

तत्र स्कन्दपुराणे ।

कृष्णपक्षचतुर्दश्याम् अङ्गारकदिनं यदा ।
तदा स्नात्वा शुभे तोये तर्पयेद् यमनामभिः ॥ इति ।

तानि नामानि वृद्धमनुना दर्सितानि ।

यां कांचित् सरितं प्राप्य कृष्णपक्षे चतुर्दशीम् ।
यमुनां च विशेषेण नियतो नियतेन्द्रियः ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय ते नमः ॥ इति ।

तर्पयेद् इति शेषः । अत्र यमाय नम इत्य् एवं प्रयोगः । कृष्णत्रयोदश्यां चतुर्दश्यां वा,

“यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ।

एभिः सप्तभिर् नमस्कारमन्त्रैः सप्तोदकाञ्जलीन् दद्यात् सर्वपापैः प्रमुच्यते” इति गद्यव्यासस्मरणात् । अत्र विशेषम् आह वृद्धमनुः ।

एकैकस्य तिलैर् मिश्रांस् त्रींस् त्रीन् कृत्वा जलाञ्जलीन् ।
यावज्जन्मकृतं पापं तत्क्षणाद् एव नश्यति ॥

स्कन्दपुराणे ।

दक्षिणाभिमुखो भूत्वा निलैः स्वयं समाहितः ।
देवतीर्थेन देवत्वात् तिलैः प्रेताधिपाय च ॥

एवं कुर्वतः फलम् आह वृद्धमनुः ।

इहजन्मकृतं पापम् अन्यजन्मकृतं च यत् ।
अङ्गारकचतुर्दश्यां तर्पयंस् तद् व्यपोहति ॥

यमो ऽपि ।

यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम् ।
संतर्प्य धर्मराजं च मुच्यते सर्वकिल्बिषैः ॥ इति ।

इति स्मृतिचन्द्रिकायां यमतर्पणम्