५४ तर्पणम्

अथ तर्पणम्

तत्र शातातपः ।

तर्पणं तु ततः कुर्यात् प्रत्यहं स्नातको द्विजः ।
देवेभ्यश् च ऋषिभ्यश् च पितृभ्यश् च यथाक्रमम् ॥ इति ।

एतच् च जपानन्तरं कार्यम् । तथा च वसिष्ठः ।

ऋक्सामाथर्ववेदोक्तान् जपेन् मन्त्रान् यजूंषि च ।
जपित्वैवं ततः कुर्याद् देवर्षिपितृतर्पणम् ॥ इति ।

यत् तु योगयाज्ञवल्क्येन्,

जपेद् वेदादिम् एकाग्रस् तटे बद्धाञ्जलिः शनैः ।
ब्रह्मयज्ञप्रसिद्ध्यर्थं ब्रह्मविद्याम् अथापि वा ॥
जप्त्वा वा प्रणवं शक्त्या ततस् तर्पणम् आचरेत् ॥

इति ब्रह्मयज्ञानन्तरं तर्पणम् उक्तम्, तत् प्रातराहुतेर् अनन्तरं ब्रह्मयज्ञकरणविxअयम्, तत्रापि तस्य विधानात् । तथा च बृहस्पतिः ।

स चार्वाक् तर्पणात् कार्यः पश्चाद् वा प्रातराहुतेः ।
वैश्वदेवावसाने वा नानयद् अर्ते (?) निमित्ततः ॥ इति ।

वैश्वदेवावसाने मनुष्ययज्ञान्ते । तथा च कूर्मपुराणे ।

यदि स्यात् तर्पणाद् अर्वाग् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायम् आचरेत् ॥ इति ।

तर्पणं प्रकृत्य शातातपः ।

देवर्षिपितृमनुष्यादीन् स्वशाखाविधिचोदितान् ।
एकैकाञ्जलिना तृप्तिं प्रथमान्तेन वाचयेत् ॥ इति ।

श्रीविष्णुपुराणे ऽपि ।

शुचिर् वस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।
तेषाम् एव तु तीर्थेन कुर्वीत सुसमाहितः ॥
त्रिर् अपः प्रीणनार्थाय देवानाम् अपवर्जयेत् ।
अथर्षीणां यथान्याय्यं सकृच् चापि प्रजापतेः ॥
पितॄणां प्रीणनार्थाय त्रिर् अपः पृथिवीपते ।

व्यासो ऽपि ।

एकैकम् अञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अश्नन्ति पितरः त्रींस् त्रियस् त्व् एकैकम् अञ्जलिकम् ॥ इति ।

अत्र यथास्वशाखं व्यवस्था । येषां तु शाखिनामनाम्ना तं तेषां विकल्प एव । यत् तु कूर्मपुराणे,

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षींस् तर्पयेद् धीमान् उदकाञ्जलिभिः पितॄन् ॥

इति, तत् पूर्वोकाञ्जलिकरणेन विकल्पार्थम् । अत एव योगयाज्ञवल्क्यः ।

उभाभ्याम् अपि हस्ताभ्याम् अपराजितदिङ्मुखः ।
संपृक्ताङ्गुष्ठकाभ्यां तु सव्योपक्रमम् एव वा ॥
तृप्यन्त्व् इति समुच्चार्य तृप्यन्ताम् अप्य् अथापि वा ।
विधिज्ञः प्रक्षिपेत् तोयं देवादीनां अशेषतः ॥ इति ।

अपराजिता दिग् ऐशानी । यत् तु व्याघ्रेणोक्तम्,

उभाभ्याम् अपि हस्ताभ्याम् उदकं यः प्रयच्छति ।
स मूढो नरकं याति कालसूरम् अवाक्छिराः ॥

इति, तच् छ्राद्धादिविषयम् । अत एव कार्ष्णाजनिः ।

श्राद्धे विवाहकाले च पाणिनैकेन दीयते ।
तर्पणे तूभयेनैव विधिर् एव पुरातनः ॥ इति ।

एतच् च तर्पणम् उदकादौ च कार्यम् । तथा च गोबिलः ।

नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।
नोपतिष्ठति तत् तोयं यन् न भूमौ प्रदीयते ॥

अतो भूमाव् एव देयम् इत्य् अभिप्रायः । शङ्खो ऽपि ।

उदके नोदकं कुर्यात् पितृभ्यस् तु कदाचन ।
उत्तीर्य च शुचौ देशे कुर्याद् उदकतर्पणम् ॥ इति ।

अत्र विशेषम् आह हारीतः ।

वसित्वा वसनं शुष्कं स्थले विस्तीर्णबर्हिषि ।
विधिज्ञस् तर्पणं कुर्यान् न पात्रेषु कदाचन ॥
पात्राद् वा जलम् आदाय शुभे पात्रान्तरे क्षिपेत् ।
जलपूर्णे ऽथ वा गर्ते न स्थले तु विवर्हिषि ॥ इति ।

पात्रं चात्र पितामहेनोक्तम् ।

हेमरूप्यमयं पात्रं ताम्रं कांस्यसमुद्भवम् ।
प्तॄणां तर्पणे चात्र मृन्मयं तु परित्यजेत् ॥

आस्तरणे तु विशेषो योगयाज्ञवल्क्येन दर्शितः ।

आवाह्य पूर्ववन् मन्त्रैर् आस्तीर्य च कुशान् बहून् ।
प्रागग्रेषु सुरान् सम्यग् दक्षिणाग्रेषु वै पितॄन् ॥

तर्पयेद् इति शेषः । यत्र पुनर् अशुचि स्थलं तत्र जले दद्याद् इत्य् आह विष्णुः ।

स्थले स्थित्वा जले यस् तु प्रयच्छेद् उदकं नरः ।
नोपतिष्ठति तद् वारि पितॄणां तन् निरर्थकम् ॥
यत्राशुचिस्थले वा स्याद् उदके देवताः पितॄन् ।
तर्पयेत् तु यथाकामम् अप्सु सर्वं प्रतिष्ठितम् ॥ इति ।

अनेनैवाभिप्रायेण कार्ष्णाजनिर् अपि ।

देवतानां पितॄणां च जले दद्याज् जलाञ्जलिम् ।
असंस्कृतप्रमीतानां स्थले दद्याज् जलं पुनः ॥ इति ।

अत्राञ्जलिनियमम् आह बोधायनः ।

जलाञ्जलित्रयं दद्याद् ये चान्ये संस्कृता भुवि ।
असंस्कृतप्रमीतानाम् एकम् एव तटे क्षिपेत् ॥

अत्रायं मन्त्रः ।

अग्निदग्धाश् च ये जीवा ये ऽप्य् अदग्धाः कुले मम ।
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ इति ।

अत्राधिकारिभेदेन स्थाननियमो ऽपि हारीतेन दर्शितः ।

आर्द्रवासा जले कुर्यात् तर्पणाचमनं जपम् ।
शुष्कवासाः स्थले कुर्यात् तर्पणाचमनं जपम् ॥

जले स्थित्वेति शेषः । अत एव सुमन्तुः ।

जलार्द्रवासाः स्थलगो यः प्रयच्छेज् जलाञ्जलिम् ।
वस्त्रनिश्च्योतितं प्रेता अपवार्य पिबन्ति ते ॥

अपवार्य तद्भागिनं वारयित्वेत्य् अर्थः । लिखितो ऽपि ।

शुष्केणान्तर्जले चैव बहिर् अप्य् आर्द्रवाससा ।
स्नानं दानं जपो होमो निष्फलं पितृतर्पणम् ॥

स्नानं ब्राह्मम् । अत एव हारीतः ।

ब्राह्मं स्नानं तथा दानं देवतापितृतर्पणम् ।
जलमध्ये तु कुर्वाणः शुष्कवस्त्रो ऽपि दुष्यति ॥

अत्र स्मृत्यन्तरम् ।

खड्गमौक्तिकहस्तेन कर्तव्यं पितृतर्पणम् ।
मणिकाञ्चनदर्भैर् वा नाशुद्धेन कदाचन ॥

योगयाज्ञवल्क्यो ऽपि ।

अनामिकाधृतं हेम तर्जन्यां रूप्यम् एव च ।
कनिष्ठिकाधृतं खड्गं तेन पूतो भवेन् नरः ॥

मरीचिर् अपि ।

विना रूप्यसुवर्णेन विना ताम्रतिलैस् तथा ।
विना मन्त्रैश् च दर्भैश् च पितॄणां नोपतिष्ठति ॥ इति ।

नैतद् रजतादिसमुच्चयार्थं वचनम् । यत् आहतुर् मरीचियोगयाज्ञवल्क्यौ ।

तिलानाम् अप्य् अभावे तु सुवर्णं रजतान्वितम् ।
तदभावे निषिञ्चेत् तु दर्भैर् मन्त्रेण वा पुनः ॥ इति ।

अनेन पितृतर्पणे तिलानाम् आवश्यकत्वम् उक्तं भवति । अत एव वृद्धमनुः ।

यथा योधसहस्रेभ्यः राजा गच्छति धार्मिकः ।
एवं तिलसमायुक्तं जलं प्रेतेषु गच्छति ॥

यत् तु रामायणे,

पादशौचम् अनभ्यङ्गं तिलहीनं तु तर्पणम् ।
सर्वं तत् त्रिजटे तुभ्यं यच् च श्राद्धम् अदक्षिणम् ॥

इति, तत् तिललाभे ऽपि तद्विहीनतर्पणाभिप्रायम्, अन्यथा मरीचिवचनविरोधात् । तिलग्रहणे विसेषम् आह मरीचिः ।

मुक्तहस्तेन दातव्यं न मुद्रां तत्र दर्शयेत् ।
वामहस्ते तिला ग्राह्या मुक्तहस्तस् तु दक्षिणः ॥ इति ।

मुद्रा प्रेदेशिन्यङ्गुष्ठयोः संयोगः । एतद् अनुद्धृतोदकतर्पणाभिप्रायम् उद्धृते विशेषाभिधानात् । तथा च योगयाज्ञवल्क्यः ।

यद्य् उद्धृतं निषिञ्चेत् तु तिलान् संमिश्रयेज् जले ।
अतो ऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः ॥ इति ।

अन्यथानुद्धृते । एतद् अप्य् अलोमकाङ्गाभिप्रायम्, अन्यथा दोषश्रवणात् । तथा च गोबिलः ।

रोमसंस्थांस् तिलान् कृत्वा यस् तु तर्पयते पितॄन् ।
पितरस् तर्पितास् तेन रुधिरेण जलेन च ॥
शुक्लैस् तु तर्पयेद् देवान् मनुष्यान् शबलैस् तिलैः ।
पितॄंस् तु तर्पयेत् कृष्णैस् तर्पयन् सर्वदा द्विजः ॥ इति ।

कूर्मपुराणे देवर्षिपितृतर्पणे विशेषो दर्शितः ।

देवान् ब्रह्मऋषींश् चैव तर्पयेद् अक्षतोदकैः ।
पितॄन् भक्त्या तिलैः कृष्णैः स्वसूत्रोक्तविधानतः ॥ इति ।

उक्ततिलतर्पणस्य क्वचिद् अपवादम् आह मरीचिः ।

सप्तम्यां रविवारे च गृहे जन्मदिने सदा ।
भृत्यपुत्रकलत्रार्थी न कुर्यात् तिलतर्पणम् ॥

पुराणे ऽपि ।

पक्षयोर् उभयो राजन् सप्तम्यां निशि संध्ययोः ।
विद्यापुत्रकलत्रार्थी तिलान् पञ्चसु वर्जयेत् ॥
निम्बस्य भक्षणं तैलं तिलैस् तर्पणम् अञ्जनम् ।
सप्तम्यां नैव कुर्वीत ताम्रपात्रे च भोजनम् ॥ इति ।

अत्र तर्पणीयान् आह सत्यव्रतः ।

कृतोपवीती देवेभ्यो निवीती च भवेत् ततः ।
मनुष्यांस् तर्पयेद् भक्त्या ब्रह्मपुत्रान् ऋषींस् तथा ॥
अपसव्यं ततः कृत्वा सव्यं जान्व् आच्य भूतले ।
दर्भपाणिस् तु विधिना प्रेतान् संतर्पयेत् ततः ॥

पुराणे ऽपि ।

देवान् देवगणांश् चैव सुनीन् मुनिगणान् अपि ।
पितॄन् पितृगणांश् चैव नित्यं संतर्पयेत् ततः ॥

मत्स्यपुराणे ऽपि ।

देवा यक्षास् तथा नागा गन्धर्वाप्सरसो ऽसुराः ।
सर्पाः क्रूराः सुपर्णाश् च तरवो जम्भकाः खगाः ॥
वाय्वाधारा जलाधारास् तथैवाकाशगामिनः ।
निराधाराश् च ये जीवा ये च धर्मरतास् तथा ॥
तेषाम् आप्यायनायैतद् दीयते सलिलं मया ।
कृतोपवीति देवेभ्यो निवीती च भवेत् ततः ।
मनुष्यांस् तर्पयेद् भक्त्या ब्रह्मपुत्रान् ऋषींस् तथा ॥
सनकश् च सनन्दश् च तृतीयश् च सनातनः ।
कपिलश् चासुरिश् चैव वोढः पञ्चशिखस् तथा ॥
सर्वे ते तृप्तिम् आयान्तु मद्दत्तेनाम्बुनाखिलाः ।
मरीचिम् अत्रिम् अङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥
प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ।
देवब्रह्मऋषीन् सर्वांस् तर्पयेद् अक्षतोदकैः ॥
अपसव्यं ततः कृत्वा सव्यं जान्व् आच्य भूतले ।
अग्निष्व् आत्तास् तथा सौम्या हविष्मन्तस् तथोष्मपाः ॥
पिनाकिनो बर्हिषदस् तथान्ये कामचारिणः ।
तर्पयेत् तान् पितॄन् भक्त्या सतिलोदकचन्दनैः ॥
दर्भपाणिस् तु विधिना प्रेतान् संतर्पयेत् ततः । इति ।

योगयाज्ञवल्क्यो ऽपि ।

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् ।
देवान् छन्दांसि वेदांश् च ऋषींश् चैव तपोधनान् ॥
आचार्यांश् चैव गन्धर्वान् आचार्यतनयांस् तथा ।
संवत्सरं सावयवं देवीर् अप्सरसस् तथा ॥
तथा देवानुगान् नागान् सागरान् पर्वतान् अपि ।
सरितो ऽथ मनुष्यांश् च यक्षान् रक्षांसि चैव हि ॥
पिशाचांश् च सुपर्णांश् च भूतान्य् अथ पशूंस् तथा ।
वनस्पतीन् औषधीश् च भूतग्रामं चतुर्विधम् ॥
सव्यं जानु ततो ऽन्वाच्य पाणिभ्यां दक्षिणामुखः ।
तल्लिङ्गैस् तर्पयेन् मन्त्रैः सर्वान् पितृगणांस् तथा ॥
मातामहांश् च सततं श्रद्धया तर्पयेद् बुधः ॥ इति ।

अत्र ब्रह्मा तृप्यताम् इति प्रयोगः,

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
तृप्यताम् इति सेक्तव्यं नाम्ना तु प्रणवादिना ॥

इति तेनैव देवतातर्पणानन्तरम् अभिधानात् । शौनको ऽपि ।

अग्निर् विष्णुः प्रजापतिः ब्रह्मा वेदा देवा ऋषयः छन्दांसि ॐकारो ऽथ वष्ट्कारो व्याहृतयः सावित्री यज्ञा द्यावापृथिवी अनत्रिक्षम् अहोरात्राणि सांख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसो नागा वयांसि गावः साध्या विप्रा यक्षा रक्षांसि भूतान्य् एवमन्तानि । अथ ऋषयः - शतर्चिनो मध्यमा गृत्समदो विश्वामित्रो वामदेवो ऽत्रिर् भरद्वाजो वसिष्ठः प्रगाधाः पावमान्यः क्षुद्रसूक्ता महासूक्ता इति । प्राचीनावीती - सुमन्तुजैमिनि-वैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्याः, जानन्तिवाहविगार्ग्यगौतमशाकल्यवाभ्रव्यमाण्डव्यमाण्डूकेयाः, गर्गी वाचक्नवी वडवा प्राचिथेयी सुलभा मैत्रेयी कहोलं कौषीतकं महाकौषीतकं भरद्वाजं पैङ्गं सुयज्ञं सङ्ख्यायनं ऐतरेयं महैतरेयं बाष्कलं गार्ग्यं सुजातवक्त्रम् औदवाहिं महौदवाहिं सौजामिं शौनकम् आश्वलायनं ये चान्ये आचार्यास् ते सर्वे तृप्यन्त्व् इति प्रतिपूरुषं पित्रॄंस् तर्पयित्वा । इति ।

अत्रापि पूर्ववद् अग्निस् तृप्यताम् इति प्रयोगः । अथ वा कूर्मपुरानोक्तम् ।

ततः संतर्पयेद् देवान् ऋषीन् पितृगणांस् तथा ।
आदाव् ॐकारम् उच्चार्य नाम्नो ऽन्ते तर्पयामि च ॥ इति ।

अथ वा स्मृत्यन्तरोक्तम् ।

तृप्यन्त्व् इति समुच्चार्य तृप्यताम् इत्य् अथापि वा ।
विधिज्ञः प्रक्षिपेत् तोयं देवादीनाम् अशेषतः ॥ इति ।

अत्र तर्पणीयेषु यथास्वशाखं व्यवस्था । अत एव सत्यव्रतः ।

जप्त्वानेन विधानेन देवर्षिपितृतर्पणम् ।
स्वशाखाविहितं कुर्यात् स्नानाङ्गं पृथग् एव हि ॥

यजुःशाखिनां तु काण्डानुक्रमण्यां काण्डर्षितर्पणम् उक्तम् ।

अथ काण्डऋषीन् एतान् उद्काञ्जलिभिः शुचिः ।
अव्यग्रस् तर्पयेन् नित्यं मन्त्रैः पर्वाष्टमीषु च ॥ इति ।

पितृतर्पणं प्रकृत्य पैठीनसिः ।

अपसव्यं ततः कृत्वा स्थित्वा च पितृदिङ्मुखः ।
पितॄन् दिव्यान् अदिव्यांश् च पितृतीर्थेन तर्पयेत् ॥ इति ।

दिव्या वस्वादयः । अदिव्याः स्वपित्रादयः । ते च द्विव्यास् तेनैव दर्शिताः ।

ध्रुवो धरश् च सोमश् च आपश् चैवानिलो ऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥
अजैकपाद् अहिर्बुध्न्यो विरूपाक्षश् च रैवतः ।
हरश् च बहुरूपश् च त्र्यम्बकश् च सुरेश्वरः ॥
सावित्रश् च जयन्तश् च पित्नाकी चापराजितः ।
एते रुद्राः समाख्याता एकादश सुरोत्तमाः ॥
इन्द्रो धाता भगः पूषा मित्रो ऽथ वरुणो ऽर्यमा ।
अर्चिर् विवस्वान् त्वष्टा च सविता विष्णुर् एव च ॥
एते च द्वादशादित्या देवानां प्रवरा मताः ।
एते ऽथ दिव्याः पितरः पूज्याः सर्वे प्रयत्नतः ॥ इति ।

अत्र ध्रुवाय नम इत्य् एवं प्रयोगः । अत एव योगयाज्ञवल्क्यः ।

वसून् रुद्रांस् तथादित्यान् नमस्कारसमन्वितान् ।

तर्पयेद् इति शेषः । ततः स्वपित्रादींस् तर्पयेत् । तत्र विशेषम् आह सत्यव्रतः ।

अपसव्यं ततः कृत्वा सव्यं जान्व् आच्य भूतले ।
दर्भपाणिस् तु विधिना प्रेतान् संतर्पयेत् ततः ॥

कात्यायनो ऽपि ।

अथाद्भिस् तर्पयेद् देवान् सतिलाभिः प्तॄन् अपि ।
नमो ऽन्ते तर्पयामीति आदाव् ओम् इति च ब्रुवन् ॥

पैठीनसिर् अपि ।

सनामगोत्रग्रहणं पुरुषं पुरुषं प्रति ।
तिलोदकाञ्जलींस् त्रींस् त्रीन् उच्चैर् उच्चैर् विनिक्षिपेत् ॥

योगयाज्ञवल्क्यो ऽपि ।

दक्षिणे पितृतीर्थेन जलं सिञ्चेद् यथाविधि ।
दक्षिणेनैव गृह्णीयात् पितृतीर्थं समाहितः ॥
सवर्णेभ्यो ऽञ्जलिर् देयो वासवर्णेभ्य एव च ।
नामगोत्रस्वधकारैस् तर्पयेद् अनुपूर्वशः ॥ इति ।

नामादिग्रहणे विशेषम् आह बोधायनः ।

शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु ।
गुप्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः ॥
चतुर्णाम् अपि वर्णानां पितॄणां पितृगोत्रतः ।
पितृगोत्रं कुमारीणाम् ऊढानां भर्तृगोरतः ॥

एवं चैवं प्रयोगो भवति — ओम् पितॄन् श्रीवत्सगोरान् विष्णुशर्मनः स्वधा नमस् तर्पयामीति । एवं पितामहादींश् च तर्पयेत् । एवम् एकैकस्याञ्जलित्रयप्रसेकः । ततो मातॄश् श्रीवत्सगोत्रा गङ्गा दायीः स्वधा नमस् तर्पयामीति । एवं पितामहीप्रपितामह्यौ । ततो मातामहादीनाम् । तद् उक्तं सत्यव्रतेन ।

पितृभ्यः प्रत्यहं दद्यात् ततो मातृभ्य एव च ।
ततो मातामहादीनां पितृव्यस्य सुतस्य च ॥

बोधायनो ऽपि ।

प्राचीनावीती — ओम् पितॄन् स्वधा नमस् तर्पयामि । पितामहान् स्वधा नमस् त- । मातॄः स्वधा नमस् त- । पितामहीः स्वधा नमस् त- । प्रपितामहीः स्वधा नमस् त- । मातामहान् स्वधा नमस् त- । मातुः पितामहान् स्वधा नमस् त- । मातुः प्रपितामहान् स्वधा नमस् त- । मातामहीः स्वधा नमस् त- । मातुः पितामहीः स्वधा नमस् त- । मातुः प्रपितामहीः स्वधा नमस् त- । ओम् आचार्यान् स्वधा नमस् त- । आचार्यपत्नीः स्वधा नमस् त- । गुरून् स्वधा नमस् त- । गुरुपत्नीः स्वधा नमस् त- । सखीन् स्वधा नमस् त- । सखिपत्नीः स्वधा नमस् त- । ज्ञातीन् स्वधा नमस् त- । ज्ञातिपत्नीः स्वधा नमस् त- । अमात्यान् स्वधा नमस् त- । अमात्यपत्नीः स्वधा नमस् त- । सर्वान् स्वधा नमस् तर्पयामि ।

अत्र सर्वत्र नामगोत्राद्यनुसंधेयम् । उक्तम् अत्र योगयाज्ञवल्क्येन ।

तल्लिङ्गैस् तर्पयेन् मन्त्रैः सर्वान् पितृगणांस् तथा ।

ते च मन्त्रा तेनैव दर्शिताः ।

उदीरताम् अङ्गिरस आयन्त्व् इत्य् ऊर्जम् इत्य् अपि ।
पितृभ्य इति ये चेह मधु वाता इति तृचम् ॥
पितॄन् ध्यायन् प्रसिञ्चेद् वै जपेन् मन्त्रान् यथाक्रमम् ।
तृप्यध्वम् इति च त्रिर् वै ततः प्राञ्जलिर् आनतः ॥
नमो व इत्य् उक्त्वा वै ततो मातामहान् अपि ।
तर्पयेद् आनृशंस्यार्थं धर्मं परमम् आस्थितः ॥ इति ।

अस्यार्थः - उदीरताम् इति मन्त्रान्ते पितरो ऽमुकगोत्रा अमुकशर्माणस् तृप्यध्वं स्वधेति प्रथमं तिलोदकाञ्जलिं निनयेत् । एवम् अङ्गिरस आयन्तु न इति द्वितीयतृतीयमन्त्रान्ते ऽपि । तत ऊर्जं वहन्तीः, पितृभ्यः स्वधाविभ्यो, ये चेह पितरः इत्य् एकैकमन्त्रान्ते पितामहा अनुकगोत्रा अमुकशर्माणस् तृप्यध्वं स्वधेति पृथक् पृथग् अञ्जलिं दद्यात् । तत एवम् “मधु वाताः” इत्य् एकैकमन्त्रान्ते प्रपितामहस्य । एवं मातामहादिष्व् अपि । मन्त्रस् तु “नमो वः” इत्य् एक एव पुनः पुनर् आवर्तते । मातृप्रभृतीनां तु नामादिभिर् एव दद्याद् इत्य् एवं कैश्चिद् व्याख्यातम् । जीवपितृकस्य तु विशेषम् आह योगयाज्ञवल्क्यः ।

कव्यवाहो ऽनलः सोमो यमश् चैवार्यमा तथा ।
अग्निष्वात्ताः सोमपाश् च तथा बर्हिषदो ऽपि च ॥
यदि स्याज् जीवपितृक एतान् विद्यात् ततः पितॄन् ।
येभ्यो वापि पिता दद्यात् तेभ्यो वापि प्रदापयेत् ।
एतांश् चैव प्रमीतांश् च प्रमीतपितृको द्विजः ॥

अत्र कव्यवाहं अत्पयामीति प्रयोगः, “नामान्ते तर्पयामि च” इति स्मरणात् । अत्र पुराणम् ।

प्रेतेभ्यश् च पृथग् दद्यान् मनसा तत्पदं स्मरन् ।
आत्मनो ऽपि जलं दद्याद् इति द्वैपायनो ऽब्रवीत् ॥

अत्रावसानाञ्जलिम् आह कात्यायनः - “पितृवंश्या मातृवंश्या ये चान्ये मत्त उदकम् अर्हन्ति तांस् तर्पयामीत्य् अवसानाञ्जलिः” इति । तत काम्योदकं दद्यात् । विष्णुपुराणे ।

इदं वापि जपेद् अप्सु दद्याद् आत्मेच्छया नृप ।
उपकाराय भूतानां कृतदेवादितर्पणः ॥
देवासुरास् तथा यक्षा गन्धर्वोरगराक्षसाः ।
पिशाचा गुह्यकाः सिद्धाः कूश्माण्डास् तरवः खगाः ॥
जलेचरा भूनिलया वाय्वाधाराश् च जन्तवः ।
तृप्तिम् एतेन यान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः ॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥
ये ऽवान्धवा वान्धवा ये ये ऽन्यजन्मनि बान्धवाः ।
ते तृप्तिम् अखिला यान्तु ये चास्मत्तो ऽम्बुकाङ्क्षिणः ॥

पुराणे ऽपि ।

यत्र क्वचन संस्थनां (?) क्षुत्तृष्णोपहतात्मनाम् ।
तेषां हि दत्तम् अक्षय्यम् इदम् अस्तु तिलोदकम् ॥
ये मत्कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
तेषां हि दत्तम् अक्षय्यम् इदम् अस्तु तिलोदकम् ॥
मातृवंश्या मृता ये च पितृवंश्यास् तथैव च ।
तेषां हि दत्तम् अक्षय्यम् इदम् अस्तु तिलोदकम् ॥ इति ।

श्रीविष्णुपुराणे तु विस्तारासमर्थस्य संक्षेपतर्पणम् उक्तम् ।

आब्रह्मस्तम्बपर्यन्तं जगत् तृप्यत्व् इति ब्रुवन् ।
क्षिपेत् पयो ऽञ्जलींस् त्रींस् तु कुर्वन् संक्षेपतर्पणम् ॥

एवं कुर्वतः फलम् आह शङ्खः ।

स्नातः संतर्पणं कृत्वा पितॄणां तु तिलाम्भसा ।
पितृलोकम् अवाप्नोति प्रीणाति च तथा पितॄन् ॥

पुराणे ऽपि ।

एवं यः सर्वभूतानि तर्पयेद् अन्वहं द्विजः ।
स गच्छेत् परमं स्थानं तेजोमूर्तिम् अनामयम् ॥ इति ।

तथाकरणे ऽपि दोषस् तत्रैव दर्शितः ।

देवताश् च मुनींश् चैव पितॄन् वै यो न तर्पयेत् ।
देवादीनाम् ऋणी भूत्वा नरकं स व्रजत्य् अधः ॥

योगयाज्ञवल्क्यो ऽपि ।

नास्तिक्यभावाद्यस् तांस् तु न तर्पयति वै पितॄन् ।
पिबन्ति देहनिःस्रावं पितरो ऽस्य जलार्थिनः ॥ इति ।

देहनिःस्रावं रुधिरम् । कात्यायनो ऽपि ।

छायां यथेच्छेच्छरदातपार्तः पयः पिपासुःक्षुधितो ऽलम् अन्नम् ।
बालो जनित्रीं जननी च बालं योषित् पुमांसं पुरुषश् च योषाम् ॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च ।
विप्राद् उदकम् इच्छन्ति सर्वे ऽभ्युदयकाङ्क्षिणः ॥
तस्मात् सदैव कर्तव्यम् अकुर्वन् महतैनसा ।
युज्यते ब्राह्मणः कुर्वन् विश्वम् एतद् बिभर्ति हि ॥

तत्र पितृगाधाम् आह यमः ।

अपि नस्खकुले (?) भूयाद् यो नो दद्याज् जलाञ्जलिम् ।
नदीषु बहुतोयासु शीतलासु विशेषतः ॥ इति ।

विष्णुर् अपि ।

कुले ऽस्माकं स जन्तुः स्याद् यो नो दद्याज् जलाञ्जलिम् ।
नदीषु बहुतोयासु शीतलासु विशेषतः ॥ इति ।

अत एव हारीतः न स्रवन्तीर् वृथातिक्रामेद् एवं ह्य् आह ।

देवाश् च पितरश् चैव काङ्क्षन्ति सलिलाञ्जलिम् ।
अदत्ते तु निराशास्ते प्रयान्ति हि यमालयम् ॥

अत्र योगयाज्ञवल्क्यः ।

यावद् देवान् ऋषींश् चैव पितॄंश् चापि न तर्पयेत् ।
तावन् न पीडयेद् वस्त्रं यो न स्नातो भवेद् द्विजः ॥
निष्पीडयति यो वस्त्रं स्नानवस्त्रम् अतर्पिते ।
निराशाः पितरो यान्ति शापं दत्वा सुदारुणम् ॥ इति ।

अतस् तर्पणानन्तरं निष्पीषयेद् इति भावः । अत्र विशेषः स्मृत्यन्तरे दर्शितः ।

वस्त्रनिष्पीडितं तोयं श्राद्धे चोच्छिष्टभोजनम् ।
भागधेयं श्रुतिः प्राह तस्मान् निष्पीडयेत् स्थले ॥ इति ।

निष्पीडनानन्तरं योगयाज्ञवल्क्यः ।

निष्पीड्य स्नानवस्त्रं तु आचम्य प्रयतः शुचिः ।
देवानाम् अर्चनं कुर्याद् ब्रह्मादीनाम् अमत्सरः ॥ इति ।

आचम्य सूर्यायार्घ्यं दत्वेति शेषः । तथा च विष्णुपुराणम् ।

दत्वा काम्योदकं सम्यग् एतेभ्यः श्रद्धयान्वितः ।
आचम्य च ततो दद्यात् सूर्याय सलिलाञ्जलिम् ॥ इति ।

अत्र विशेषो नृसिंहपुराणे दर्शितः ।

ततो ऽर्घ्यं भानवे दद्यात् तिलपुष्पजलान्वितम् ।
उत्थाप्य मूर्धपर्यन्तं हंसः शुचिषद् उच्चरन् ॥
जले देवं नमस्कृत्य ततो गच्छेद् गृहं बुधः ।
पौरुषेण च सूक्तेन ततो विष्णुं समर्चयेत् ॥ इति ।

गृहं गच्छेद् अभ्युक्षणम् आदायेति शेषः,

त्रिसंध्यं वाग्यतो वारि गुप्तम् आहृत्य शोधयेत् ।
होमोपहारभूगेह (?) द्रव्यात्मपरिचारकान् ॥

इति गर्गस्मरणात् ॥

इति स्मृतिचन्द्रिकायां तर्पणनिर्णयः