५३ ब्रह्मयज्ञः

अथ ब्रह्मयज्ञः

तत्र मनुः ।

अपां समीपे नियतो नैत्यकं विधिम् आस्थितः ।
सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥ इति ।

यथा छदींषि (?) न दृश्यन्ते तथारण्यं गत्वेत्य् अर्थः । तथा च श्रुतिः - “ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामाद् अछदिर्दर्श (?) उदीच्यां प्रागुदीच्यां वोदित आदित्ये” इति । आदित्योदयाद् ऊर्धं नोदितमात्र इत्य् अर्थः । अत एव बृहस्पतिः ।

स चार्वाक् तर्पणात् कार्यः पश्चाद् वा प्रातर् आहुतेः ।
वैश्वदेववसाने वा नान्यद् अर्ते निमित्तितः ॥ इति ।

वैश्वदेवशब्देनात्र मनुष्ययज्ञान्तं कर्म लक्ष्यते, न वैश्वदेवमात्रं तत्रैव तस्य विधानात् । तथा च श्रुतिः - “पञ्च वा एते महायज्ञाः सतति प्रतायन्ते सतति संतिष्ठन्ते देवयज्ञः पितृयज्ञो भुतयज्ञो मनुष्ययज्ञो ग्रहयज्ञः” इति । सतति संततम् अन्वहम् इत्य् अर्थः । कूर्मपुराणे ऽपि ।

यदि स्यात् तर्पणाद् अर्वाग् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञ्ं वै ततः स्वाध्यायम् आरभेत् ॥ इति ।

“ऋते निमित्तितः” इत्य् अनेन सति निमित्ते कालान्तरे ऽप्य् अविरुद्ध इत्य् उक्तं भवति । अत एव श्रुतिः - “ग्रामे मनसा स्वाध्ययम् अधीयीत दिवा नक्तं वेति ह स्माह शौच आह्नेय उतारण्ये बल उत वाचोत तिष्ठन्न् उत व्रजण्ण् उतासीन उत शयानो ऽधीयीतैव स्वाध्यायं तस्पस्वी पुण्यो भवति” इति अत्राह्नेयः शौच इत्य् आह स्मेति संबन्धः । अध्ययने तु विशेषम् आह योगयाज्ञवल्क्यः ।

प्रदक्षिणं समावृत्य नमस्कृत्योपविश्य च ।
दर्भेषु दर्भपाणिभ्यां संहताभ्यां कृताञ्जलिः ॥
स्वाध्यायं तु यथाशक्ति ब्रह्मयज्ञार्थम् आचरेत् ॥

शौनको ऽपि ।

प्राणायामैर् दग्धदोषः शुक्लाम्बरधरः शुचिः ।
यथाविध्य् अप आचम्य आहरेद् दर्भसंस्तरम् ॥
पवित्रपाणिः कृत्वा तु उपस्थं दक्षिणोत्तरम् । इति ।

अधीयीतेति शेषः । तच् चाचमनं तैत्तिरीयकश्रुतौ दर्शितम् - “उदित आदित्ये दक्षिणत उपवीयोपविश्य हस्ताव् अविनिज्य त्रिर् आचामेद् द्विः परिमृज्य सकृद् उपस्पृश्य शिरश् चक्षुषी नासिके श्रोत्रे हृदयम् आलभ्य यत् त्रिर् आचामति तेन ऋचः प्रीणाति यद् द्विः परिमृजति तेन यजूंषि यत् सकृद् उपस्पृशति तेन सामानि यत् सव्यं पाणिं पादौ प्रोक्षति यच् छिरश् चक्षुषी नासिके श्रोत्रे हृदयम् आलभते तेनाथर्वाङ्गिरसो ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसी प्रीणाति दर्भाणां महद् उपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायम् अधीयीतापां वा एष ओषधीनां रसो यद् दर्भाः सरसम् एव ब्रह्म कुरुते दक्षिणोत्तरौ पाणी पादौ कृत्वा सपविराव् ओम् इति प्रतिपद्यते” इति । ततो व्याहृतीर् अनूच्य सावित्रीं पच्छो ऽर्धर्चशः सर्वाम् इति ब्रूयात् । तद् आह शौनकः - “ॐपूर्वा व्याहृतयः सवित्रीम् अन्वाह पच्छो ऽर्धर्चशः सर्वाम्” इति । तिस्र एव व्याहृतयः । तथा च श्रुतिः - “त्रीन् एव प्रायुङ्क्त भूर् भुवः स्वर् इत्य् आहैतद् वै वाचः सत्यं यद् एव वाचः सत्यं तत् प्रायुङ्क्ताथ सावित्रीं गायत्रीं त्रिर् अन्वाह पच्छो ऽर्धर्चशो ऽनवानं सविता श्रियः प्रसविता श्रियम् एवाप्नोत्य् अथो प्रज्ञातयैव प्रतिपदा छन्दांसि प्रतिपद्यते” इति । प्रतिपदारम्भः । अनेन वेदादिम् आरभ्य क्रमाद् उपर्युपर्य् एवाधीयीतेत्य् उक्तं भवति । उक्तं च योगयाज्ञवल्क्येन ।

आदाव् आरभ्य वेदं तु स्नात्वोपर्य् उपरि क्रमात् ।
यद् अधीते ऽन्वहं शक्त्या स स्वाध्याय इति स्मृतः ॥ इति ।

स्वाध्यायो ब्रह्मयज्ञः, “अथ ब्रह्मयज्ञः स्वाध्यायो ब्रह्मयज्ञः” इति वजसनेयकश्रुतेः । अत्र विशेषम् आह शौनकः ।

मन्द्रम् एव भवेत् प्रातर् उच्चैर् मन्ध्यन्दिने स्थिते ।
उच्चैर् एवापराह्णे तु संध्याकाल उपारबेत् ॥

औरसं मन्द्रम् । गृह्यशौनको ऽपि - “द्व्यावापृथिव्योः संधिम् ईक्षमानः संमील्य वा यथा युक्तम् आत्मानं मन्येत तथा युक्तो ऽधीयीत” इति । विष्णुर् अपि ।

ॐकारं व्याहृतीस् तिस्रः सावित्रीं च तद् इत्य् ऋचम् ।
मनसैतान् अनुस्मृत्य वेदादीन् समुपक्रमेत् ॥ इति ।

अत्रादिशब्देन पुराणादीनां ग्रहणम् । अत एव योगयाज्ञवल्क्यः ।

वेदार्थर्वपुराणानि सेइहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥

जपयज्ञो ब्रह्मयज्ञः । श्रुतिर् अपि - “यद् ऋचो ऽधीते पय आहुतिभिर् एव तद् देवांस् तर्पयति य्द् यजूंषि घृताहुतिभिर् यत् सामानि सोमाहुतिभिर् यद् अथर्वाङ्गिरसो मध्वाहुतिभिर् यद् ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसीर् मेदाहुतिभिर् एव तद् देवांस् तर्पयति त एनं तृप्ता आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन च तर्पयन्ति” इति । अत्र लिङ्गगुप्राणे विशेषो दर्शितः ।

स्वशाखाध्ययनं विप्र ब्रह्मयज्ञ इति स्मृतः । इति ।

यत् तु श्रुतौ - “यत् स्वाध्यायम् अधीयीतैकाम् अप्य् ऋचं यजुः साम वा तद् ब्रह्मयज्ञः संतिष्ठते” इति, तद् अनध्यायविषयम् । अत एव आपस्तम्बः - “अथ यदि वातो वा वायात् स्तनयेद् वा विद्योतेत वावस्फूर्जेद् वा एकां वर्चम् एकं वा यजुर् एकं वा सावाभिव्याहरेत् भूर् भुवः सुवः सत्यं तपः श्रद्धायां जुहोमीति वैतत् तेनोर्हवास्यैतद् (?) अहः स्वाध्याय उपात्तो भवति” इति । एतद् अप्य् अनध्यायमात्रोपलक्षणार्थम् । अत एव मनुः ।

नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ।
ब्रह्माहुतिहुतं पुण्यम् अनध्यायवषट्कृतम् ॥

नैत्यके नित्यस्वाध्याये ब्रह्मयज्ञ इत्य् अर्थः । श्रुतिर् अपि - “तस्य वा एतस्य यज्ञस्य द्वाव् अनध्यायौ यद् आत्माशुचिर् यद् देशः” इति । द्वाव् एवानध्यायौ नान्य इत्य् अर्थः । एवम् अधीत्य “नमो ब्रह्मणे” इत्य् परिधानीयां त्रिर् ब्रूयात् । तथा च श्रुतिः - “स वा एष यज्ञः सद्यः प्रतायते सद्यः संतिष्ठते तस्य प्राक् सायम् अवभृथो नमो ब्रह्मण इति परीधानीयां त्रिर् अन्वाहाय उपस्पृश्य गृहाणेति ततो यत् किंच ददाति सा दक्षिणा” इति । एवं कुर्वतः फलम् आह याज्ञवल्क्यः ।

यं यं क्रतुम् अधीयीत तस्य तस्याप्नुयात् फलम् ।
त्रिवृत्तपूर्णपृथिवीदानस्य फलम् अश्नुते ॥

श्रुतिर् अपि - “यावन्तं ह वा इमां वित्तस्य पूर्णां ददत् स्वर्गं लोकं जयति तावन्तं लोकं जयति भूयांसं चाक्षय्यं चापपुनर्मृत्युं जयति ब्रह्मणः सायुज्यं गच्छति” इति ।

इति स्मृतिचन्द्रिकायां ब्रह्मयज्ञः