४३ आदर्शावेक्षणादि

अथादर्शावेक्षणादि

तत्र दक्षः ।

देवकर्यं ततः कृत्वा गुरुं मङ्गलवीक्षणम् । इति ।

मङ्गलवीक्षणम् आदर्शाद्यवेक्षणम् । पुराणे ऽपि ।

रोचने चन्दनं हेम मृदङ्गं दर्पणं मणिम् ।
गुरून् अग्नींश् च सूर्यं च प्रातः पश्येत् सदा बुधः ॥ इति ।

नारदो ऽपि ।

लोके ऽस्मिन् मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः ।
हिरण्यं सर्पिर् आदित्यः आपो राजा तथाष्टमः ॥
एतानि सततं पश्येन् नमस्येद् अर्चयेच् च यः ।
प्रदक्षिणं च कुर्वीत तथास्यायुर् न हीयते ॥

मनुर् अपि ।

अन्गिचित् कपिला सत्री राजा भिक्षुर् महोदधिः ।
दृष्टमात्राः पुनन्त्य् एते तस्मात् पश्येत नित्यशः ॥

कात्यायनो ऽपि ।

श्रोत्रियं सुभगाम् अग्निं गाम् अग्निचितम् एव च ।
प्रातर् उत्थाय यः पस्येद् आपद्भिः स प्रमुच्यते ॥
पापिष्ठं दुर्भगाम् अन्त्यं नग्नम् उत्कृत्तनासिकाम् ।
प्रातर् उत्थाय यः पश्येत् तत् कलेर् उपलक्षणम् ॥

वामपुराणे ऽपि ।

होमं च कृत्वालभनं (?) शुभानां ततो बहिर् निर्गमनं प्रशस्तम् ।
दूर्वां च सर्पिर् दधि सोदकुम्भम् धेनुं सवत्साम् ऋषभं सुवर्णम् ॥
मृद् गोमयं स्वस्तिकम् अक्षतांश् च तैलं मधु ब्राह्मणकन्यकाश् च ।
श्वेतानि पुष्पाणि तथा शमीं च हुताशनं चन्दनम् अर्कबिम्बम् ॥
अश्वत्थवृक्षं च समालभेत ततश् च कुर्यान् निजजातिधर्मम् ।

ब्रह्मपुराणे ऽपि ।

स्वम् आत्मानं घृते पश्येद् यदीच्छेच् चिरजीवितम् ।

भरद्वाजो ऽपि ।

कण्डूयन् पृष्ठतो गां तु कृत्वा चाश्वत्थवन्दनम् ।
उपगम्य गुरून् सर्वान् विप्रांश् चैवाभिवादयेत् ॥ इति ।

इति स्मृतिचन्द्रिकयाम् आदर्शावेक्षणादि