३५ अभ्युक्षणाहरणम्

अथाभ्युक्षणाहरणम्

तत्र शाट्यायनिः ।

ततः सूर्यम् उपस्थाय सम्यग् आचम्य च स्वयम् ।
अभ्युक्षणं समादाय संयतात्मा गृहं व्रजेत् ॥ इति ।

आचम्य द्विर् इति शेषः । तया च वृद्धशातातपः ।

ततः सम्यग् द्विर् आचम्य अभ्युक्षणम् अथाहरेत् ।
न विनाभ्युक्षणं जातु विधिज्ञः किंचिद् आचरेत् ॥

आहरणे विशेषम् आह शाट्यायनिः ।

सोपानत्कः सदर्भश् च पात्रस्थं सदशोत्तरः ॥ इति ।

अभ्युक्षण्म् आहरेद् इति शेषः । सदश्म् उत्तरीयं यस्यासौ सदशोत्तरः । प्रचेता अपि ।

अनुगुप्ता अपो गृह्य प्रचारार्थं गृहं व्रजेत् ।
सवने प्रोक्षणं कुर्याद् गृही तेन सदा शुचिः ॥ इति ।

अनुगुप्ताः केनाप्य् अदृष्टाः । सवने प्रातरादौ । अत एव गर्गः ।

त्रिसंध्यं वाग्यतो वारि गुप्तम् आहृत्य शोधयेत् ।

शोधयेत् सम्यक् परीक्षेत् । अत्र कालनियमम् आह गोबिलः - “पुरा प्रादुष्करणवेलायाः सायं प्रातर् अनुगुप्ता अप आहरेत् परिचरणीयाः” इति । प्रादुष्करणं विहरणम् । अत्र पात्रनियमम् आह योगयाज्ञवल्क्यः ।

सौवर्णं राजतं ताम्रं मुख्यं पात्रं प्रकीर्तितम् ।
तदलाभे तु मृत्पात्रं स्रवते यन् न धारितम् ॥

शाठ्यायनिर् अपि ।

आश्मं हिरण्मयं रौप्यं दारवं मृन्मयं दृढम् ।
ताम्रम् पत्रपुटं पुण्यं पात्रम् अभ्युक्षणाय वै ॥

पत्रपुटं पात्रान्तरालाभविषयम् । यद् आह आपस्तम्बः ।

सर्वालाभे तु पात्राणां पर्णपात्रं विधीयते ।
पात्रं तद् अपि विज्ञेयं स्रवते यन् न धारितम् ॥

तथा वर्ज्यान्य् अपि स एवाह ।

शैलालवालुकादूर्वातृणपर्णायसैर् अपि ।
अभ्युक्षणं न गृह्णीयाद् आपस्तम्बो ऽब्रवीन् मुनिः ॥ इति ।
नालिकाभिन्नपात्रेण कांस्यपात्रेण चैव हि ।
प्राण्यङ्गफलजेनापि कुर्यान् नाभ्युक्षणं द्विजः ॥ इति ।

नालिका वेणुमयी । प्राण्यङ्गं शङ्खशुक्त्यादि । फलजं नारिकेलबिल्वादिमयम् । वृद्धशातातपो ऽपि ।

शैवालतृणपर्णाद्यैर् असंस्काराम्बुभाजनैः ।
सिकतावस्त्रलेपैश् च न कुर्यात् प्रोक्षणं बुधः ॥

असंस्काराम्बुभाजनैः उक्तसंमार्जनादिसंस्काररहितैर् इति यावत् । यमो ऽपि ।

पात्राद् विरहितं तोयम् उद्धृतं सव्यपाणिना ।
न तेन प्रोक्षणं कुर्याद् वस्त्रनिष्पीडनेन च ॥ इति ।

पात्राद् विरहितं पाण्यादिनाहृतम् । अत एव शाठ्यायनिः ।

नाहरेद् एकपात्रस् तु नाव्रतो न च कन्यका ।
न पाणिना न वस्त्रेण तोयम् अभ्युक्षणाय वै ॥

एकपात्रः पिधानरहितः । अव्रतो ऽनुपनीतः । अत एव प्रचेताः ।

नाहरेद् एकजातिस् तु न बटुर् न च कन्यका ।
नानुपेतो नैकवस्त्रस् तोयम् अभ्युक्षणाय वै ॥

एकजातिः शूद्रः । तथा च मनुः ।

ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ इति ।

अभ्युक्षणानन्तरं प्रचेताः ।

अभ्युक्षणोदपात्रं तु न तावत् स्थाप्यते क्वचित् ।
यावन् नाचमनं दत्तं प्रोक्षिता न गलन्ति याः ॥

अनेनाहृताभ्युक्षणम् अनिधायैवाचम्य प्रोक्ष्य निदध्याद् इत्य् उक्तं भवति । शाठ्यायनिर् अपि ।

प्रोक्षणग्रहणं पात्रं निदधद् गृहम् आगतः ।
अकृत्वाचमनं भूमाव् आचान्तः प्रयतो भवेत् ॥ इति ।

आचमनम् अकृत्वा प्रोक्षणपात्रं भूमाव् अनिदधद् आचान्तः प्रयतो भवेद् इत्य् अर्थः । आचमनानन्तरं पुलस्त्यः ।

तेन द्रव्याण्य् अशेषाणि प्रोक्ष्याचम्य पुनर् गृहे ।
ततः कर्माणि कुर्वीत सत्क्रियाश् च द्विजोत्तमः ॥ इति ।

अत्र गृहे पुनर् आचम्य तेन द्रव्याणि प्रोक्षयेद् इत्य् अन्वयः । द्रव्याण्य् अपि गर्गेण दर्शितानि ।

त्रिसंध्यं वाग्यतो वारि गुप्तम् आहृत्य शोधयेत् ।
होमोपहारभूगेहद्रव्यात्मपरिचारकान् ॥

यमो ऽपि ।

अभ्युक्षेत् तु प्रयत्नेन प्रातः पर्युषितं गृहम् ।
मध्याह्ने चैव संध्यायां न चानभ्युक्षिते यजेत् ॥

अत्र गर्गः ।

गोचर्ममात्रम् अब्बिन्दुर् गां शोधयति पातितः ।
समूढाम् असमूढां वा यत्र लेपो न विद्यते ॥

उक्ताभ्युक्षणासमर्थं प्रकृत्य शाठ्यायनिः ।

नद्यादौ सम्यग् आचान्तः संयतो गृहम् आगतः ।
उद्धृत्य मणिकात् तोयम् अथाभ्युक्षणम् आचरेत् ॥
गृहे वा समुपस्पृश्य कृत्वा स्वर्णकुशोदकम् ।
कृत्वाचमनम् आचान्तः पुनः प्रोक्षणम् आचरेत् ॥

मणिकम् उदपात्रम् । प्रचेता अपि ।

वैश्वानरेण यत् किंचित् कुरुते प्रोक्षणं द्विजः ।
गङ्गातोयसमं सर्वं वदन्ति ब्रह्मवादिनः ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अभ्युक्षणाहरणम्