१० ऊर्ध्वपुण्ड्रविधिः

अथ ऊर्ध्वपुण्ड्रविधिः

अत्र ब्रह्माण्डपुराणे ब्रह्माणं भगवान् आह ।

ऊर्ध्वपुण्ड्रप्रमाणानि द्रव्याण्य् अङ्गुलिभेदतः ।
वर्णानि मन्त्रभेदांश् च प्रवक्ष्यामि फलानि च ॥
पर्वताग्रे नदीतीरे मम क्षेत्रे विशेषतः ।
सिन्धुतीरे च वल्मीके तुलसीमूलम् आश्रिते ॥
मृद एतास् तु संग्राह्या वर्जयेद् अन्यमृत्तिङाः ।
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्युकरं भवेत् ॥
श्रीकरं पीतम् इत्य् आहुः वैष्णवं श्वेतम् उच्यते ।
अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यम् आयुष्करं भवेत् ॥
अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ।
एतैर् अङ्गुलिभेदस् तु कारयेन् न नखैः स्पृशेत् ॥
वर्तिदीपाकृतिं चापि वेणुपत्राकृतिं तथा ।
पद्मस्य मुकुलाकारं तथैव कुमुदस्य च ॥
मत्स्यकूर्माकृतिं वापि शङ्खाकारम् अतः परम् ।
दशाङ्गुलप्रमाणं तद् उत्तमोत्तमम् उच्यते ॥
नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम् ।
सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् ॥
चतुस्त्रिद्व्यङ्गुलं पुण्ड्रं कनिष्ठं त्रिविधं भवेत् ।
ललाटे केशवं विद्यान् नारायणम् अथोदरे ॥
माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ।
उदरे दक्षिणे पार्श्वे विष्णुर् इत्य् अभिधीयते ॥
तत्पार्श्वे बाहुमध्ये तु स्मरेत् तु मधुसूदनम् ।
त्रिविक्रमं कण्ठदेशे वामे कुक्षौ तु वामनम् ॥
श्रीधरं बाहुके वामे हृषीकेशं तु कण्ठके ।
पृष्ठे तु पद्मनाभं तु ककुद्दामोदरं स्मरेत् ॥
द्वादशैतानि नामानि वासुदेवेति मूर्धनि ।
पूजाकाले च होमे च सायंप्रातः समाहितः ॥
नामान्य् उच्चार्य विधिना धारयेद् ऊर्ध्वपुण्ड्रकम् ।
अशुचिर् वाप्य् अनाचारो मनसा पापम् आचरन् ।
शुचिर् एव भवेन् नित्यम् ऊर्ध्वपुण्ड्राङ्कितो नरः ॥
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाको ऽपि विमानस्थो मम लोके महीयते ॥ इति ।

सत्यव्रतो ऽपि ।

ऊर्ध्वपुण्ड्रो मृदा शुद्धो ललाटे यस्य दृश्यते ।
स चण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः ॥

व्यासो ऽपि ।

जाह्नवीतीरसंभूतां म्र्दं मूर्ध्ना बिभर्ति यः ।
बिभर्ति रूपं सो ऽर्कस्य तमोनाशाय केवलम् ॥ इति ।