०९ वासोविषयः

अथान्यान्य् अपि कानिचिद् वासोविषयाणि वचनानि लिख्यन्ते

तत्र भृगुः ।

ब्राह्मणस्य सितं वस्त्रं नृपते रक्तम् उल्बणम् ।
पीतं वैश्यस्य सूद्रस्य नीलं मलवद् इष्यते ॥ इति ।

उल्बणं निबिडम् । रक्तं धातुरक्तम्, “न वेष्टितसिराः कृष्णकाषायवासा वा देवपितृकार्याणि कुर्यात्” इत्य् उशनसा काषायरञ्जितस्य निषेधस्मरणात्,

अहतं धातुरक्तं च तत् पवित्रम् इति स्थितिः ।

इति तस्यानुग्रहस्मरणात् । अनेनैवाभिप्रायेण गौतमो ऽपि - “न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात्” इति । अहतस्य लक्षणम् आह पुलस्त्यः ।

ईषद्धौतं नवं श्वेतं सदशं यन् न धारितम् ।
अहतं तद् विजानीयात् सर्वकर्मसु पावनम् ॥ इति ।

धौतं प्रक्षालितम् । अत्र विशेषम् आह देवलः ।

स्वयं धौतेन कर्तव्या क्रिया धर्म्या विपश्चिता ।
न तु नेजकधौतेन नाहतेन च कर्हिचित् ॥ इति ।

नाहतेनाधौतेन, तत्राप्य् अहतशब्दप्रयोगात् । यथोक्तं सत्यतपसा ।

अहतं यन्त्रनिर्मुक्तम् उक्तं वासः स्वयंभुवा ।
शस्तं तन् माङ्गलिक्येषु तावत् कालं न सर्वदा ॥ इति ।

माङ्गलिक्यं विवाहादि । अत्र पुराणम् ।

अन्यद् एव भवेद् वासः शयनाय नराधिप ।
अन्यद् रथ्यासु देवानाम् अर्चायाम् अन्यद् एव हि \
अन्यच् च लोकयात्रायाम् अन्यद् ईश्वरदर्शने ॥

बोधायनो ऽपि ।

उत्तरं वासः कर्तव्यं पञ्चस्व् एतेषु कर्मसु ।
स्वाध्यायोत्सर्गदानेषु भुक्ताचमनयोस् तथा ॥ इति ।

उत्सर्गो मूत्रादेः । भुक्तं भोजनम् । एतद् विहितसकलकर्मोपलक्षणार्थम्,

विकच्छो ऽनुत्तरीयश् च नग्नश् चावस्त्र एव च ।
श्रौतं स्मार्तं तथा कर्म न नग्नश् चिन्तयेद् अपि ॥

इति अनुत्तरीयस्य कर्ममात्रनिषेधात् । योगयाज्ञवल्क्यो ऽपि ।

स्नानं दानं जपं होमं स्वाध्यायं पितृतर्पणम् ।
नैकवस्त्रो द्विजः कुर्याच् छ्राद्धभोजनसत्क्रियाः ॥

विष्णुपुराणे ऽपि ।

होमदेवार्चनाद्यासु क्रियासु पटने तथा ।
नैकवस्त्रः प्रवर्तेत द्विजो नाचमने जपे ॥

गोबिलो ऽपि ।

एकवस्त्रो न भुञ्जीत न कुर्याद् देवतार्चनम् ।
न चार्चयेद् द्विजान् नाग्नौ कुर्याद् एवंविधो नरः ॥ इति ।

एकवस्त्रस्य लक्षणम् आह स एव ।

सव्याद् ईषत्परिभ्रष्टकटिदेशधृताम्बरः ।
एकवस्त्रं तु तं विद्याद् दैवे पित्र्ये च वर्जयेत् ॥ इति ।

सव्याद् बाहुमूलात् परिभ्रष्टं कटिदेसधृतम् अम्बरं यस्य स तथोक्तः । एवं द्वितीयवासोविहीनस्यापि वेदितव्यम्, “विकच्छो ऽनुत्तरीयश् च” इत् तस्यापि निषेधस्मरणात् । अत्र वासःपरिधाने च पारस्करेण मन्त्रो दर्शितः ।

परिधास्ये यशो धास्ये दीर्घायुत्वाय जरदष्टिर् अस्मि ।
शतं च जीवामि शरदः पुरूची रायस्योपम् अभिसंव्ययिष्ये ॥ इति ।

तथा चोत्तरीये ऽपि ।

यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती ।
यशो भगश् च मा विदद् यशो मां प्रतिपद्यताम् ॥ इति ।

एतच् च मन्त्रद्वयं पूर्वम् अविवसितवासोविषयम्, “वासश् छत्रोपानहश् चापूर्वाणि चेन् मन्त्रः” इति तेनैवोक्तत्वात् । अत्र वर्ज्यान्य् आह भृगुः ।

न रक्तम् उल्बणं वासो न नीलं च प्रशस्यते ।
दशाहीनं मलाक्तं च वर्जयेद् अम्बरं बुधः ॥ इति ।

जातूकर्णो ऽपि ।

काषायं कृष्णवस्त्रं वा मलिनं केशदूषितम् ।
छिन्नाग्रं चोपवस्त्रं च कुत्सितं धर्मतो विदुः ॥ इति ।

भृगुर् अपि ।

नग्नो मलिनवस्त्रः स्यान् नग्नश् चार्द्रपटः स्मृतः ।
नग्नस् तु दग्धवस्तः स्यान् नग्नः स्यूतपटस् तथा ॥
विकच्छो ऽनुत्तरीयश् च नग्नश् चावस्त्र एव च ।
श्रौतं स्मार्तं तथा कर्म न नगश् चिन्तयेद् अपि ।
मोहात् कुर्वन्न् अधो गच्छेत् तद् भवेद् आसुरं कृतम् ॥ इति ।

अयं च मलिनादिवासोनिषेधः सति सामर्थ्ये वेदितव्यः । यद् आह गौतमः - “सति विभवे न जीर्णमलवद्वासाः स्यात्” इति । अत्रानुकल्पम् आह वसिष्ठः ।

अभावे धौतवस्त्रस्य शाणक्षौमाविकानि च ।
कुतपं योगपट्टं वा द्विआसो ऽपि न वै भवेत् ॥

कुतपः पार्वतीयाजरोमनिर्मितः कम्बलः । स्मृत्यन्तरे ऽपि ।

यज्ञोपवीते द्वे धार्ये श्रौते स्मार्ते च कर्मणि ।
तृतीयम् उत्तरीयर्थं वस्त्राभावे तद् इष्यते ॥ इति ।

उत्तरीयस्य लक्षणम् आह जातूकर्णः - “वस्त्रोत्तरीयाभावे द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा मूत्रैर् वस्त्राकृति परिमण्डलं तद् उत्तरीयं कुर्यात्” इति ।

**इति स्मृतिचन्द्रिकायां वासोविषयाः **