०६ कुशमहिमा

अथ कुशमहिमा

अत्र गोबिलः ।

कुशमूले स्थितो ब्रह्मा कुशमध्ये तु केशवः ।
कुशाग्रे शङ्करं विद्यात् सर्वे देवाः समन्ततः ॥

हारीतो ऽपि ।

कुशहस्तेन यज् जप्तं दानं चैव कुशैः सह ।
कुशहस्तस् तु यो भुङ्क्ते तस्य संख्या न विद्यते ॥

पुराणे ऽपि ।

**********पगे २८३ मिस्सिन्ग्

कुशोत्पाटनविधिः

तत्र कौशिकः ।

शुचौ देशे शुचिर् भूत्वा स्थित्वा पूर्वोत्तरामुखः ।
ॐकारेणैव मन्त्रेण कुशाः स्पृश्या द्विजोत्तमैः ॥

उत्पाटनमन्त्रो ऽपि ।

विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज ।
नुद सर्वाणि पापानि दर्भ स्वस्तिकरो मम ॥

अत्र कालनियमम् आह हारीतः ।

मासे नभस्य् अमावास्या (?) तस्यां दर्भोच्चयो मतः ।
अयातयामास् ते दर्भा नियोज्याः स्युः पुनः पुनः ॥ इति ।

नभाः श्रावणः । अत एव यातयामाः कालान्तरे लूना इत्य् अर्थः । अनेनैवाभिप्रायेण शङ्खो ऽपि ।

दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश् च विशेषतः ।
अयातयामास् ते सर्वे नियोज्याः स्युः पुनः पुनः ॥ इति ।

पुनः पुनर् विनियोगयोग्या इत्य् अर्थः । अत एव मार्कण्डेयः ।

सपवित्रेण हस्तेन कुर्याद् आचमनक्रियाम् ।
नोच्छिष्टं तत् पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ॥ इति ।

एतद् ग्रन्थिविहीनदर्भाभ्प्रायम्,

ग्रन्थिर् यस्य पवित्रस्य न तेनाचमनं चरेत् ।

इति हारीतस्मरणात् । अत्र शातातपः ।

जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।
अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः ॥

मार्कण्डेयो ऽपि ।

कुशपाणिः सदा तिष्ठेद् ब्राह्मणो दम्भवर्जितः ।
स नित्यं हन्ति पापानि तूलराशिम् इवानलः ॥

पुराणे ऽपि ।

कौशेयं बिभृयान् नित्यं पवित्रं दक्षिणे करे ।
भुञ्जानस् तु विशेषेण गर्हितान्नविशोधनम् ॥

अत्रिर् अपि ।

उभाभ्याम् अपि पाणिभ्यां विप्रैर् दर्भपवित्रके ।
धारणीये प्रयत्नेन ब्रह्मग्रन्थिसमन्विते ॥
ब्रह्मयज्ञे जपे चैव ब्रह्मग्रन्थिर् विधीयते ।
भोजने वर्तुलः प्रोक्तः एवं धर्मो न हीयते ॥ इति ।

अत्राङ्गुलिनियमो मत्स्यपुराणे दर्शितः ।

धार्यो ऽनामिकया दर्भो ज्येष्ठानामिकयापि वा ।
उभयानामिकाभ्यां तु धार्ये दर्भपवित्रके ॥

अनामिका उपकनिष्ठिका । पवित्रलक्षणम् अपि ततैवोक्तम् ।

संत्यज्य वैष्णवं मार्गं ब्रह्ममार्गविनिःस्रुतम् ।
सकृत् प्रदक्षिणीकृत्य पवित्रम् अभिधीयते ॥
सप्तभिर् दर्भपुञ्जीलैः कुर्याद् ब्राह्मं पवित्रकम् ।
पञ्चभिः क्षत्रियस्यैव चतुर्भिश् च तथा विशः ॥
द्वाभ्यां शूद्रस्य विहितम् अन्तराणां तथैव च ।

मार्कण्डेयो ऽपि ।

चतुर्भिर् दर्भपुञ्जीलैः ब्राह्मणस्य पवित्रकम् ।
एकैकं न्यूनम् उद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥
त्रिभिर् दर्भैः शान्तिकर्म पञ्चभिः पौष्टिकं तथा ।
चतुर्भिर् आभिचाराख्यं कुर्वन् कुर्यात् पवित्रकम् ॥ इति ।

स्थालीपाकादौ तु कात्यायनोक्तं द्रष्टव्यम् ।

अनन्तर्गर्हितं साग्रं कौशं द्विदलम् एव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ इति ।

गोवालपवित्रं प्रकृत्य कौशिकः ।

गवां वालपवित्रेण धर्यमाणेन नित्यशः ।
न स्पृशन्ति हि पापानि श्रीश् च गात्रेषु तिष्ठति ॥
गवां वालपवित्रेण वह्न्युपासितं (?) करोति यः ।
पञ्चाग्नयो हुतास् तेन यावज्जीवं न संशयः ॥
गवां वालपवित्रेण संध्योपास्तिं करोति यः ।
स वै द्वादश वर्षाणि कृतसंध्यो भवेन् नरः ॥ इति ।

तथा दर्भलक्षणम् अपि तेनैवोक्तम् ।

सप्तपत्राः शुभा दर्भाः तीरक्षेत्रसमुद्भवाः ।
ते प्रशस्ता द्विजातीनां दैवे पित्र्ये च कर्मणि ॥
अप्रसूताः स्मृता दर्भाः प्रसूताश् तु कुशाः स्मृताः ।
समूलाः कुतपाः सागाः छिन्नाग्रास् तृणसंज्ञिताः ॥

हारीतो ऽपि ।

अच्छिन्नाग्रान् सपत्रांश् च समूलान् कोमलान् शुभान् ।
पितृदेवजपार्थं च समादध्यात् कुशान् द्विजः ॥

एतत् प्रस्तरादिव्यतिरिक्तविषयम् । तथा च ब्रह्माण्डपुराणम् ।

छिन्नमूला गृहितव्याः (?) प्रस्तरार्थं कुशोत्तमाः ।
अग्निकार्ये च यागे च समूलान् परिवर्जयेत् ॥

अत्र विशेषम् आह कात्यायनः ।

हरिता यज्ञिया दर्भाः सिताग्राः पाकयज्ञियाः ।
समूलाः पितृदैवत्याः कल्माषा वैश्वदैविकाः ॥ इति ।

पितृदैवत्याः पित्र्या इत्य् अर्थः । तथा च यमः ।

समूलस् तु भवेद् दर्भः पितॄणां श्राद्धकर्मणि ।
मूलेन लोकान् जयति शक्रस्य च महात्मनः ॥ इति ।

एतद् एकोद्दिष्टश्राद्धविषयम्, यतः स एवाह ।

एकोद्दिष्ठे कुशाः कार्याः समूलाः श्राद्धकर्मणि ।
बहिर्लूनाः सकृल् लूनाः सर्वत्र पितृकर्मसु ॥ इति ।

बहिर्लूनाः उपमूललूनाः । एवं च यद् उक्तं ब्रह्माण्डपुराणे,

उपमूले तथा लूनाः श्राद्धार्थे तु कुशाः स्मृताः ।
तथा श्यामाकनीवारा दूर्वा च समुदाहृता ॥

इति, यद् अपि गोबिलेन - “उपमूले लूनाः पितृकार्येषु” इति, तद् एकोद्दिष्टश्राद्धेतरविषयम् इत्य् अवगन्तव्यम् । अत्र पुराणम् ।

सपिण्डीकरणं यावद् एकदर्भैः पितृक्रिया ।
सपिण्डीकरणाद् ऊर्ध्वं द्विगुणैर् विधिवद् भवेत् ॥
तिलक्षेत्रोद्भवैर् दर्भैः प्रयत्नाद् द्विगुणीकृतैः ।
पितिॠणां तर्पणं कुर्याद् देवानां तु यदृच्छया ॥
पित्र्यं मूलेन मध्येन स्नानं दानं प्रयत्नतः ।
दैवं कर्म कुशाग्रेण कर्तव्यं भूतिम् इच्छता ॥ इति ।

यदृच्छयापि अनियमेनेत्य् अर्थः । उक्तकुशालाभे शङ्खः ।

कुशालाभे द्विजश्रेष्ठः काशैः कुर्वीत यत्नतः ।
तर्पणादीनि कर्माणि काशाः कुससमाः स्मृताः ॥ इति ।

विष्णुर् अपि - “कुशालाभे कुशस्थान काशान् दूर्वा वा दध्यात्” इति । बर्हिषि तु यमोक्तो विशेषः ।

कुशाः काशास् तथा दूर्वा यवा व्रीहय एव च ।
बल्वजान् पुण्डरीकाणि सप्तधा बर्हिर् उच्यते ॥

अत्र वर्ज्यान् आह हारीतः ।

पथि दर्भाश् चितौ दर्भा ये दर्भा यज्ञभूमिषु ।
स्तरणासनपिण्डेषु षट्कुशान् परिवर्जयेत् ॥
ब्रह्मयज्ञे च ये दर्भा ये धर्भाः पितृतर्पणे ।
हता मूत्रपुरीषाभ्यां तेषां त्यागो विधीयते ॥
अपूता गर्हिता दर्भा ये च छिन्ना नखैस् तथा ।
क्वथितान् अग्निदग्धांश् च कुशान् यत्नेन वर्जयेत् ॥
नीवीमध्ये तु ये दर्भा ब्रह्मसूत्रे च ये कृताः ।
पवितांस् तान् विजानीयाद् यथा काशस् तथा कुशः ॥ इति ।

क्वथिताः हिंसिताः ।

इति स्मृतिचन्द्रिकायां कुशोत्पाटनविधिः