०४ आचनम्

आचमनविधिः

अथाचमनविधिः

तत्र वृद्धपराशरः ।

कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ च मृज्जलैः ।
निबद्धशिखकच्छस् तु द्विज आचामम् आचरेत् ॥

अत्र विशेषम् आह मार्कण्डेयः।

सपवित्रेण हस्तेन कुर्याद् आचमनक्रियाम् ।
नोच्छिष्टं तत् पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ॥ इति ।

एतद् दक्षिणहस्ताभिप्रायम्, वामे निषेधश्रवणात् । तद् आह हारीतः ।

वामहस्ते कुशान् कृत्वा समाचामति यो द्विजः ।
उपसृष्टं भवेत् तेन रुधिरेण मलेन च ॥ इति ।

एतद् अपि केवलवामहस्तविषयम्, उभयोः फलविशेषश्रवणात् । तथा च गोबिलः ।

उभयत्र स्थितैर् दर्भैः समाचामति यो द्विजः ।
सोमपानफलं तस्य भुक्त्वा यज्ञफलं लभेत् ॥ इति ।

अत्र दिङ्नियमम् आह हारीतः ।

ऐषान्याभिमुखो भूत्वोपस्पृशेत् तु यथाविधि ।

ऐशान्य् उत्तरपूर्वा । उपस्पृशेत् आचामेद् इत्य् अर्थः । याज्ञवल्क्यो ऽपि ।

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृसेत् ॥

अन्तर्जानु जान्वोर् अन्तरा अरत्निं कृत्वेत्य् अर्थः, “अन्तर् ऊर्वोर् अरत्निं कृत्वा त्रिर् अपो हार्दं पिबेत्” इति हारीतस्मरणात् । ब्राह्मग्रहणं कायदैवयोर् अपि प्रदर्शनार्थम् । अत एव मनुः ।

ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ इति ।

विप्रग्रहणम् इतरयोर् अपि प्रदर्शनार्थम्, “द्विजो नित्यम् उपस्पृशेत्” इत् स्मरणात् । कायं प्राजापत्यम् । त्रैदशिकं दैवम् । अत्र तीर्थस्वीकरणम् आचमनस्याद्यप्रयोगे वेदितव्यम् । न प्रतिप्रयोगम् । तथात्वे नित्यकालम् इत्य् अघटनात् । तीर्थान्य् अपि याज्ञवल्क्येन दर्शितानि ।

कनिष्ठादेशिन्यङ्गुष्ठमूलान्य् अग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्य् अनुक्रमात् ॥

देशिन्य् उपाङ्गुष्ठिका । अत्र विशेषम् आहतुः शङ्खलिखितौ - “अङ्गुष्टमूलस्योत्तरतः प्रागग्रायां रखायाम् ब्राह्मं तीर्थं देशिन्यङ्गुष्ठयोर् अन्तरा पित्र्यं कनिष्ठिकातलयोर् अन्तरा प्राजापत्यम्” इति । तत्रोदकनियमम् आह शाङ्कः ।

अद्भिः समुद्धृताभिस् तु हीनाभिः फेनबुद्बुदैः ।
वह्निना च न तप्ताभिर् अक्षाराभिर् उपस्पृशेत् ॥

आचामेद् इत्य् अनुवृत्तौ याज्ञवल्क्यो ऽपि ।

अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ।

प्रकृतिस्थाभिः अविकृताभिः । हारीतो ऽपि ।

विवर्णं गन्धवत् तोयं फेनिलं च विवर्जयेत् ॥

वसिष्ठो ऽपि ।

न वर्णरसदुष्टास् तु याश् च स्युर् अशुभागमाः ।

प्रचेता अपि ।

अनुष्णाभिर् अफेनाभिः पूताभिर् वस्त्रचक्षुषा ।
हृद्गताभिर् अशब्दाभिस् त्रिचतुर् वा द्विर् आचमेत् ॥

अनुष्णाबिर् इत्य् अनातुर्विषयम् । अत एव यमः ।

रात्राव् अनीक्षितेनैव शुद्धिर् उक्ता मनीषिणाम् ।
उदकेनातुराणां च तथोष्णेनोष्णपायिनाम् ॥

उष्णपायिनाम् आतुराणां न पुनर् आतुरमात्राणाम् इत्य् अर्थः । आपस्तम्बो ऽपि - “न वर्षधारास्व् आचामेत् तथा न प्रदरोदके तप्ताभिश् चाकारणात्” इति । प्रदरो गर्तः । न प्रदरोदक इति गोर् अपर्याप्तोदकविषयम्, “प्रदाराद् अपि या गोस् तर्पणाय स्युः” इति वसिष्ठस्मरणात् । यत्र पुनर् उक्तलक्षणा आपो न लभ्यन्ते तत्र कथम् इत्य् अपेक्षिते देवलः ।

येषु देशेषु ये देवा येषु देशेषु ये द्विजाः ।
येषु देशेषु यत् तोयं या च यत्रैव मृत्तिका ॥
येषु स्थानेषु यच् छौचं धर्माचारश् च यादृशः ।
तत्र तान् नावमन्येत धर्मस् तत्रैव तादृशः ॥ इति ।

एतच् चोदकं यावद् वामेन न संस्पृशति तावन् नाचामेद् इत्य् आह यमः ।

तावन् नोपस्पृशेद् विद्वान् यावद् वामेन न स्पृशेत् ।
वामे हि द्वादशादित्या वरुणश् च जलेश्वरः ॥ इति ।

अत्र दक्षः ।

प्रक्षाल्य पादौ हस्तौ च त्रिः पिबेद् अम्बु वीक्षितम् । इति ।

वीक्षितम् इत्य् अहर्विषयम्,

रात्राव् अवीक्षितेनैव शुद्धिर् उक्ता मनीषिणाम् ।

इति यमस्मरणात् । प्रक्षालने विशेषम् आह हारीतः - “आ मणिबन्धनात् पाणी प्रक्षाल्य आ जङ्घात् पादौ” इति । मणिबन्धः करबाहुसंधिदेशः । देवलो ऽपि ।

इत्य् एवम् अद्भिर् आजानु प्रक्षाल्य चरणौ पृथक् ।
हस्तौ चा मणिबन्धाभ्यां पश्चाद् आसीत संयतः ॥
अथाम्बु प्रथमात् तीर्थाद् दक्षिणात् त्रिः पिबेत् समम् । इति ।

प्रथमाद् ब्राह्माद् इत्य् अर्थः । प्रक्षालनानन्तरं विष्णुपुराणम् ।

निष्पादिताङ्घ्रिशौचस् तु पादाव् अभ्युक्ष्य वै पुनः ।
त्रिः पिबेत् सलिलं तेन तथाद्भिः परिमार्जयेत् ॥ इति ।

त्रिः पिबेद् इत्य् अर्वाङ् निषेधपरं न पुनर् ऊर्ध्वम्, “शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्य् आ मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतो हृदयस्पृषस् त्रिश् चतुर् वाप आचामेत्” इति गौतमस्मरणात् (ग्ध् १।३६) । आत्मतुष्ट्यभिप्रायेण चायं विकल्पः । हृदयस्पृशो हृदयंगमा इत्य् अर्थः । तथा च देवलः ।

अप्सु पीतासु हृदयं प्राप्तासु ब्राह्मणः शुचिः ।
राजन्यः कण्ठम् आस्यं वै विट् छूद्रः स्पर्शनाच् छुचिः ॥ इति ।

स्पर्शनात् तालुनेत्य् शेषः । शूद्रग्रहणं स्त्रीणाम् अपि प्रदर्शनार्थम् । अत एव याज्ञवल्क्यः ।

हृत्कण्ठतालुगाभिस् तु यथासङ्ख्यं द्विजातयः ।
शुध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ इति ।

सकृद् एकवारम् । अन्ततस् तेन तालुना स्पृष्टाभिर् इत्य् अर्थः,

अप्सु प्राप्तासु हृदयं ब्राह्मणः शुद्धिम् आप्नुयात् ।
राजन्यः कण्ठतालू च वैश्यः शूद्रः स्त्रियो ऽपि च ॥

इति स्मरणात् । हृदयंगमानां परिमाणम् आह उशना - “माषमज्जनमात्रा हृदयंगमा भवन्ति” इति । भारद्वाजो ऽपि ।

माषमज्जनमात्रास् तु संगृह्य त्रिः पिबेद् अपः । इति ।

ग्रहणे ऽपि विशेषम् आह स एव ।

आयतं पूर्वतः कृत्वा गोकर्माकृतिवत् करम् ।
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥
मुक्ताङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत् ॥ इति ।

पाणिना दक्षिणेनेति शेषः । तथा च पुराणम् ।

दक्षिणं तु करं कृत्वा गोकर्नाकृतिवत् पुनः ।
त्रिः पिबेद् दक्षिणेनाम्बु द्विर् आस्यं परिमार्जयेत् ॥ इति ।

तत्परिमार्जनम् अङ्गुष्ठमूलेनैव कार्यम् । तथा च दक्षः ।

संमृज्याङ्गुष्ठमूलेन द्विः प्रमृज्यात् ततो मुखम् । इति ।

संमृज्यालोमकं देशम् इति शेषः । आपस्तम्बस् तु त्रिः परिमृज्येद् इत्य् आह - “त्रिर् ओष्ठौ परिमृजेद् द्विर् इत्य् एके । सकृद् उपस्पृशेद् द्विर् इत्य् एके । दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश् चेन्द्रियाण्य् उपस्पृशेत्” इति । ओष्ठौ चात्र सलोमकौ, “अथर्ववेदेतिहासुपुराणानीति ध्यायन् ब्राह्मेण तीर्थेनोष्ठयोः सलोमदेशम् उन्मृजेत्” इति कण्वस्मरणात् । सकृद् उपस्पृशेन् मुखम् इति शेषः, “ओष्ठौ परिमृज्य ततो मुखं परिमृजेद् अग्निं ध्यायन्” इति भार्गवस्मरणात् । इन्द्रियाणि शीर्षण्यानि चोपस्पृशेत्, “खानि चोपस्पृशेच् छीर्षण्यानि” इति गौतमस्मरणात् । तदुपस्पर्शनम् आह दक्षः ।

संहृत्य तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ॥
अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे पुनः पुनः ।
नाभिं कनिष्ठाङ्गुष्ठाभ्यां हृदयं तु तलेन वै ॥
सर्वाभिश् च शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥ इति ।

तिसृभिर् मध्यमाभिर् इति शेषः,

मध्यमाभिर् मुखं पूर्वं तिसृभिः समुपस्पृशेत् ।

इति योगयाज्ञवल्क्यस्मरणात् । प्रदेशिन्युपाङ्गुष्ठिका । अनामिकोपकनिष्ठिका । पुनः पुनर् उदकम् आलभ्येति शेषः,

प्राणस्थानानि सर्वाणि स्पृष्ट्वा जलम् उपस्पृशेत् ।
आचामन् ब्राह्मणो नित्यम् इत्य् आह भवान् भृगुः ॥

इति वैयाघ्रपादस्मरणात् । शिरःशब्दो ऽत्र मूर्धानम् आह, “मूर्धानं हृदयं स्पृशेत्” इति विष्णुस्मरणात् । अग्रेण कराग्रेणेत्य् अर्थः । तथा च वैयाघ्रपादः ।

अंसौ स्पृष्ट्वा कराग्रेण तोयं स्पृष्ट्वा समाहितः ।
संस्मृत्य पद्मनाभं च विप्रः सम्यग् विशुद्ध्यति ॥ इति ।

अत्र “ओङ्कारेण सह यज्ञपुरुषं मनसा स्मरेत्” इति नारायणीये विशेषः । अत्र पैठीनसिः - “सव्ये पाणौ शेषा अपो निनयेत्” इति । शेषा आचमनशिष्टाः । वृद्धशङ्खस् त्व् अन्यथोपस्पर्शनम् आह ।

तर्जन्यङ्गुष्ठयोगेन स्पृशेन् नासापुटद्वयम् ।
मध्यमाङ्गुष्ठयोगेन स्पृशेन् नेत्रद्वयं ततः ॥
अङ्गुष्ठस्व्यानामिकया योगेन श्रवेणे स्पृशेत् ।
कनिष्टाङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयं नरः ॥
नाभिं च हृदयं तद्वत् स्पृशेत् पानितलेन तु ।
संस्पृशेत् तु ततः शीर्षम् अयम् आचमने विधिः ॥ इति ।

शङ्खो ऽपि ।

ततो ऽङ्गुलिचतुष्केन स्पृशेन् मूर्धानम् आदितः ।
तर्जन्यङ्गुष्ठयोगेन स्पृशेन् नेत्रद्वयं पृथक् ॥
मध्यमानामिकाभ्यां तु स्पृशेन् नासापुटे क्रमात् ।
अङ्गुष्ठेन कणियस्याः कर्णे संयोगतः स्पृशेत् ॥
तर्जन्यङ्गुष्ठयोगेन नाभिं हृदि तलं स्पृशेत् ॥

पाइठीनसिर् अपि - “अग्निर् अङ्गुष्ठस् तस्मात् तेनैव सर्वाणि स्थानानि स्पृशेत्” इति । अत्र यथास्वशाखं व्यवस्था । येषां तु शाखिनाम् अङ्गोपस्पर्शनम् अनाख्यातं तेषां विकल्प एव । यत्र पुनः कतिपयाङ्गोपस्पर्शनम् उक्तं तत्राविरोधाद् वचनानुसाराद् वाङ्गानन्तरोपस्पर्शनम् अस्तीत्य् अवगन्तव्यम् । अत एव संवर्तः ।

परिमृज्याद्भिर् आस्यं तु द्वादशाङ्गानि चालभेत् । इति ।

एवं कुर्वतः फलम् आह वैयाघ्रपादः ।

एवं यो ब्राह्मणो नित्यम् उपस्पर्शनम् आचरेत् ।
ब्रह्मादिस्तम्बपर्यन्तं जगत् सपदि तर्पयेत् ॥

वृद्धशङ्खो ऽपि ।

त्रिः प्राश्नीयाद् यद् अम्भस् तु प्रीता तेनास्य देवताः ।
ब्रह्मा विष्णुश् च रुद्रश् च भवन्तीत्य् अनुशुश्रुमः ॥
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।
पादाभ्यां प्रीयते विष्णुः ब्रह्मा शिरसि कीर्तितः ॥
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।
स्पृष्टे लोचनयुग्मे तु प्रीयेते शशिभास्करौ ॥
कर्णयुग्मे तथा स्पृष्टे प्रीयेते त्व् अनलानिलौ ।
स्कन्धयोः स्पर्शनाद् एव प्रीयन्ते सर्वदेवताः ॥
नाभिस्पर्शेन देवेशाः प्रीयन्ते चास्य नित्यशः ।
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ॥
मूर्ध्नि संस्पर्शनाद् देवः प्रीतस् तु पुरुषो भवेत् ।
भूम्यम्बुपर्वता नागा अंसयोस् तु चराचरम् ॥ इति ।

अथाकरणे दोषः पुराणे दर्शितः ।

यः क्रियाः कुरुते मोहाद् अनाचम्यैव नास्तिकः ।
भवन्ति हि वृथ तस्य किर्याः सर्वा न संशयः ॥ इति ।

इति स्मृतिचन्द्रिकायाम् आचमनविधिः

आचमननिमित्तानि

अथाचमननिमित्तानि

तत्र मनुः ।

कृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत् ।
वेदम् अध्येष्यमाणश् च अन्नम् अश्नंश् च सर्वदा ॥

खाणीन्द्रियाणि । आचान्तस् त्रिर् अपः पीत्वेत्य् अर्थः । आपस्तम्बो ऽपि - “स्वप्ने क्षवथौ शिङ्खाणिकाश्र्वालम्भे लोहितस्य केशानाम् अग्नेर् गवां ब्राह्मणस्य स्त्रियाश् चालम्भे महापथं च गत्वामेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत्” इति । क्षवथूः क्षुतम् । शिङ्खाणिका नासामलम् । अश्रु नेत्रजलम् । नीवीशब्देनात्राधोवासो लक्ष्यते । अधोवस्त्रग्रथनं नीवी । कूर्मपुराणे ऽपि ।

चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभोजने ।
उच्छिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथाविधम् ॥
आचामेद् अश्रुपाते वा लोहितस्य तथैव च ।
अग्नेर् गवाम् अथालम्भे स्पृष्ट्वाप्रयतम् एव च ॥
स्त्रीणाम् अथात्मनः स्पर्शे नीवीं विपरिधाय च ।

हारीतो ऽपि - “सुषुप्सुर् भोक्ष्यन् वाचामेत्” इति । प्रजापतिर् अपि ।

उपक्रमे विशिष्टस्य कर्मणः प्रयतो ऽपि सन् ।

आचामेद् इति शेषः । मार्कण्डेयपुराणे ऽपि ।

देवार्चनादिकार्याणि तथा गुर्वभिवादनम् ।
कुर्वीत सम्यग् आचम्य तद्वद् एव भुजिक्रियाम् ॥

वसिष्ठो ऽपि ।

आचामेच् चर्वणे नित्यं मुक्त्वा ताम्बूलचर्वणम् ।
ओष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥
सुप्त्वा क्षुत्त्वा च भुक्त्वा च ष्ठीवित्वोक्त्वानृतं वचः ।
रथां श्मशाने वाक्रम्य आचामेत् प्रयतो ऽपि सन् ॥

बृहस्पतिर् अपि ।

अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसंभवे ।
मार्जारमूषकस्पर्शे प्रहासे ऽनृतभाषणे ॥
निमित्तेष्व् एषु सर्वेषु कर्म कुर्वन्न् उपस्पृशेत् ।

हारीतो ऽपि - “देवता (?) अभिगन्तुकाम आचामेत्” इति । यमो ऽपि ।

उत्तीर्योदकम् आचामेद् अवतीर्य तथैव च ।
एवं स्याच् छ्रेयसा युक्तो वरुणाश् चैव पूजितः ॥

अवतीर्य प्रविश्येत्य् अर्थः । हारीतो ऽपि - “नोत्तरेद् अनुपस्पृश्य” इति । जलम् इति शेषः। उपस्पर्शनम् आचमनम् । ब्रह्माण्डपुराणे ऽपि ।

संदेहेषु च सर्वेषु शिखामोक्षे तथैव च ।
विना यज्ञोपवीतेन नित्यम् एवम् उपस्पृशेत् ॥

मनुर् अपि ।

आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।

अशुच्य् अमेध्यादि । पद्मपुराणे ।

चण्डालादीन् जपे होमे दृष्ट्वाचामेद् द्विजोत्तमः ।
श्वादीन् दृष्ट्वा तथैवापि कर्णं वा दक्षिणं स्पृशेत् ॥

वसिष्ठो ऽपि ।

क्षुते निष्ठीवने सुप्ते प्रिहासे ऽश्रुपातने ।
पञ्चस्व् एतेषु चाचामेच् छ्रोत्रं वा द्क्षिणं स्पृशेत् ॥ इति ।

अत्राथवदम् आह पराशरः ।

प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस् तथा ।
विप्रस्य दक्षिणे कर्णे सन्तीति मनुर् अब्रवीत् ॥
आदित्यो वरौणः सोमो वह्निर् वायस् तथैव च ।
विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ॥ इति ।

एतच् च दक्षिणकर्णस्पर्शनम् आचमनासंभवे वेदितव्यम् । तथा च मार्कण्डेयपुराणम् ।

सम्यग् आचम्य तोयेन क्रियाः कुर्वीत वै शुचिः ।
देवानाम् ऋषीणां च पितॄणां चैव यत्नतः ॥
कुर्वीतालम्भनं वापि दक्षिणश्रवणस्य वै ।
यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् ॥
न विद्यामाने पूर्वोक्त उत्तरप्राप्तिर् इष्यते । इति ।

अथ वा बोधायनोक्तं द्रष्टव्यम् - “नीवीं विप्रः परिधायाप उपस्पृशेद् आर्द्रतृणं भूमिं गोमयं वा स्पृशेत्” इति । उपप्ēशेद् आचामेद् इत्य् अर्थः । आपस्तम्बो ऽपि - “नीवीं च परिधायाप उपस्पृशेद् आर्द्रां वा शकृद् ओषधीर् भूमिं वा” इति । शकृद् गोमयम् । अत्र बोधायनः - “शक्तिविषये मुहूर्तम् अपि नाप्रयतः स्यात्” इति ।

इति स्मृतिचन्द्रिकायाम् आचमननिमित्तानि

द्विराचमननिमित्तानि

अथ द्विराचमननिमित्तानि

तत्र याज्ञवल्क्यः ।

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथापसर्पणे ।
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥

विष्णुर् ऽपि - “रथाम् आक्रम्य कृतमूत्रपुरीषः पञ्चनखास्थिस्नेहं स्पृष्ट्वाचान्तः पुनर् आचामेच् चण्डालम्लेच्छभाषणे च” इति । बोधायनो ऽपि ।

भोजने हवने दाने उपहारे प्रतिग्रहे ।
हविर्भक्षणकाले च द्विर् आचमनम् इष्यते ॥

शङ्खो ऽपि - “स्नाने भोजनलालेष्व् आचान्तः पुनर् आचामेत्” इति । व्यासो ऽपि ।

होमे भोजनकाले च संध्ययोर् उभयोर् अपि ।
आचान्तः पुनर् आचामेज् जपहोमार्चनेषु च ॥

होमे दान इत्य् अर्थः । कूर्मपुराणे ऽपि ।

प्रक्षाल्य पाणी पादौ च भुञ्जानो द्विर् उपस्पृशेत् ।
ओष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥
रेतोमूत्रपुरीषाणाम् उत्सर्गे शुक्तभाषणे ।
ष्ठीवित्वाध्ययनारम्भे खासश्वासागमे तथा ॥
चत्वरं वा श्मशानं वा समागम्य् समाहितः ।
संध्ययोर् उभयोस् तद्वद् आचान्तो ऽप्य् आचमेत् पुनः ॥ इति ।

शुक्तं निपुर(?)वाक्यम् ।

इति स्मृतिचन्द्रिकायां द्विराचमननिमित्तानि

आचमनापवादः

अथाचमनापवादः

तत्र याज्ञवल्क्यः ।

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥

अस्यार्थः - मुखनिःसृताः श्लेष्मबिन्दवो मेध्याः, नोच्छिष्ठं कुर्वन्ति न चेद् अङ्गे निपतन्ति । तथा च गौतमः - “न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेद् अङ्गे निपतन्ति” इति । अतो नाचामेद् इति भावः । अङ्ग्स्पर्शे तु स्पर्शनिमित्तम् आचमनं भवत्य् एव । आपस्तम्बस् त्व् अङ्गास्पर्शे ऽप्य् आचमनम् आह - “य आस्यात् पतन्तो बन्दव उपलभ्यन्ते तेष्व् आचमनं विहितम् । ये भूमौ न तेष्व् आचामेद् इत्य् एके” इति । अत्र देशकालविभेदेन व्यवस्था । आचमनबिन्दवस् त्व् अङ्गस्पृष्टा अपि मेध्या नोच्छिष्टं कुर्वन्ति । तथा च मनुः ।

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस् तैः समा ज्ञेया नैतैर् अप्रयतो भवेत् ॥ इति ।

अत्र “परान् आचामयतः पादौ” इति संबन्धः । भौमिकर् अनुपहतदेशस्थैर् इत्य् अर्थः । दातुः पदग्रहणम् अवयवान्तरस्यापि प्रदर्शनार्थः, “भौमिकैस् तैः समा ज्ञेयाः” इति हेत्वभिधानात्,

प्रयाचामयतो याश् च शरीरे विप्रुषो नृणाम् ।
उच्छिष्टदोषो नास्त्य् अत्र भूमितुल्यास् तु ताः स्मृताः ॥

इति यमस्मरणाच् च । तथास्यगतं श्मश्रु च मेध्यं नोच्छिष्टं करोति । तद् आह देवलः ।

श्मश्रुभिश् च मुखाविष्टैर् आशौचं नोपदिश्यते । इति ।

अत्र वेशेषम् आह आपस्तम्बः - “न शम्श्रुभिर् उच्छिष्ठो भवत्य् अन्तरास्ये सद्भिर् यावन् न हस्तेनोपस्पृशति” इति । हस्तग्रहणम् अङ्गान्तरस्यापि प्रदर्शनार्थम्, “न चेद् अङ्गे निपतन्ति” इति गौतमस्मरणात् । दन्तसक्तं दन्तलग्नम् अन्नादि । अच्युतं तु दन्तवन् नोच्छिष्टं करोति यदि न जिह्वास्पृष्टम् । तथा च मनुः ।

दन्तवद् दन्तलग्नेषु जिह्वास्पर्शे शुचिर् न तु ।
परिच्युतेषु तत्स्थानान् निगिरन्न् एव तच् छुचिः ॥

निगिरन्न् अन्तःप्रवेशयन्न् इत्य् अर्थः । एवकारस् त्व् आचमननिवृत्त्यर्थम् । एतच् च निगिरणं याज्ञवल्क्येनोक्तत्यागेन विकल्प्यते । “दन्तवद् दन्तलग्नेषु” इत्य् एतद् रसानुपलब्धौ वेदितव्यम् । यथाह शङ्खः - “दन्तवद् दन्तलग्नेषु रसवर्जम् अन्यत्र जिह्वाभिमर्शनात्” इति । रसवर्जं रसानुपलब्धाव् इत्य् अर्थः । केचिज् जिह्वाभिमर्शने ऽपि यावत् परिच्युतिर् न भवति तावच् छुचिर् इत्य् आहुः । तथा च गौतमः - “दन्तशिलिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् प्राक् च्युतेर् इत्य् एके । च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच् छुचिः” इति । आस्रावो मुखोदकम् । तद् यथाशुचिर् न भवति तथेत्य् अर्थः । दन्तश्लिष्टेषु दन्तवद् इत्य् अनिर्हार्यलेपाभिप्रायम् । तथा च देवलः ।

भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् ।
दन्तलग्नम् असंहर्यं लेपं मन्येत दन्तवत् ॥
न तत्र बहुशः कुर्याद् यत्नम् उद्धरणे पुनः ।
भवेद् अशौचम् अत्यर्थं तृणवेधाद् व्रणे कृते ॥ इति ।

एवं च यद् रसहीनम् अजिह्वास्पृष्टम् अनिर्हार्यं च तद् दन्तवद् इत्य् उक्तं भवति । अत्र शातातपः ।

दन्तलग्ने फले मूले भुक्तस्नेहे तथैव च ।
ताम्बूले चेक्षुदण्डे च नोच्छिष्टो भवति द्विजः ॥ इति ।

भुक्तस्नेहो ऽत्यन्तानिर्हार्यः,

भुक्त्वाचामेद् विधानेन तथोक्तेन समाहितः ।
शोधयेन् मुखहस्तौ च मृद्भिर् घर्षणैर् अपि ॥

इति देवलस्मरणात् । षट्त्रिंशन्मते ऽपि ।

अद्भिः पत्रैर् मूलपुष्पैस् तृणकाष्टमयैस् तथा ।
सुगन्धिभिस् तथा द्रव्यैर् नोच्छिष्टो भवति द्विजः ॥

अत्रिर् अपि ।

मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च ।
नोच्छिष्टस्य भवेद् दोषस् त्व् अत्रेस् तु वचनं यथा ॥

अप्सु अमृतापिधानम् असीत्यादिषूच्छिष्टस्य मन्त्रोच्चारणे दोषो नास्तीत्य् अर्थः । वसिष्ठो ऽपि ।

प्राणाहुतिषु सोमेषु मधुपर्के तथैव च ।
आस्यहोमेषु सर्वेषु नोच्छिष्टो भवति द्विजः ॥ इति ।

इति स्मृतिचन्द्रिकायाम् आचनापवादः

आचमनप्रतिषेधः

अथाचमनप्रतिषेधः

तत्र देवलः ।

सोपानत्को जलस्थो वा मुक्तकेसो ऽपि वा पुनः ।
उष्णीषी वापि नाचामेद् वस्त्रेणावेष्ट्य वा शिरः ॥

श्मश्रुदेशे ऽपि वेष्टितवान् उष्णीषी । विष्णुर् अपि ।

न गच्छन् न शयानश् च न चेलं न परं स्पृशन् ।
न हसन् नैव संजल्पन् नात्मानं चापि वीक्षयन् ॥
केशान् नीवीम् अधःकायं न स्पृशन् धरणीं अपि ।
यदि स्पृशति चैतानि भूयः प्रक्षाऌअयेत् करम् ॥

गोबिलो ऽपि ।

नान्तरीयैकदेशस्य कृत्वा चैवोत्तरीयताम् । इति ।

अन्तरीयम् अधोवासः । प्रचेता अपि - “नान्तर्वासा न निर्वासा नान्यत् कुर्वन् नासमपाद आचामेत्” इति । आपस्तम्बो ऽपि - “नाग्न्युदकशेषेण वृथ कर्माणि कुर्वीताचामेद् वा । पाणिसङ्क्षुब्धेनोदकेन” इति । विष्णुर् अपि - “पादप्रक्षालनोच्छेषेण नाचामेत् । भूमौ स्रावयित्वाचामेत्” इति । संवर्तो ऽपि ।

शूद्राशुच्येकहस्तैस् तु दत्ताद्भिर् न कदाचन ।
आरूढपादुको वापि न शुद्ध्येत द्विजोत्तमः ॥

मरीचिर् अपि ।

न बहिर्जानु त्वरया नासनस्थो न चोत्तिथितः ।
न पादुकास्थो नाचित्तः शुचिः प्रयतमानसः ॥
भुक्त्वासनस्थो ऽप्य् आचामेन् नान्यकाले कदाचन ॥

भृगुर् अपि ।

विना यज्ञोपवीतेन तथाधौतेन वाससा ।
मुक्त्वा शिखां वाप्य् आचान्ते कृतस्यैव पुनःक्रिया ॥
सोष्णीषो बद्धपर्यङ्कः प्रौढपादश् च यानगः ।
दुर्देशप्रपदस्थश् च नाचामञ् छुद्धिम् आप्नुयात् ॥

कृतस्य आचमनस्येति शेषः । प्रौढपाद आसनाद्यारूढपादः,

आसनारूढपादो वा जान्वोर् वा जङ्घयोस् तथा ।
कृतावसक्थिको यश् च प्रौढपादः स उच्यते ॥

इति गोबिलस्मरणात् । प्रपदं पादाग्रम् । पुलहो ऽपि ।

शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखो ऽपि वा ।
अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत् ॥ इति ।

ब्रह्माण्डपुराणे ऽपि ।

कण्ठं शिरो वा प्रावृत्य रथापणगतो ऽपि वा ।
अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत् ॥ इति ।

आपणः क्रयविक्रयभूमिः । कौशिको ऽपि ।

अपवित्रकरः कश्चिद् ब्राह्मणो य उपस्पृशेत् ।
अपूतं तस्य तत् सर्वं भवत्य् आचमनं तथा ॥

गौतमो ऽपि - “नाञ्जलिना पिबेन् न तिष्ठन्न् उद्धृतोदकेनाचामेत्” इति । उद्धृतोदकेनैवाचामेन् न पशुवन् मिखेन पिबेद् इत्य् अर्थः । न तिष्ठन्न् इति स्थलविषयम् । जले तु तिष्ठन्न् अप्य् आचामेद् एव । तथा च विष्णुः ।

जान्वोर् ऊर्ध्वं जले तिष्ठन्न् आचान्तः शुचिताम् इयात् ।
अधस्ताच् छतकृत्वो ऽपि समाचान्तो न शुद्ध्यति ॥ इति ।

जान्वोर् अधस्ताद् इत्य् अनेन जानुमात्रे ऽप्य् अविरुद्धम् इत्य् आह । तथा च स्मृतिः ।

जानुमात्रे जले तिष्ठन्न् आसीनः प्राङ्मुखः स्थले ।
सर्वतः सुचिर् आचान्तस् तयोस् तु युगपत् स्थितः ॥ इति ।

तयोर् जलस्थयोर् इत्य् अर्थः । तथा च हारीतः ।

जलस्थो वा स्थलस्थो वा द्वयोर् वा समवस्थितः ।
जलस्थो जलकृत्येषु स्थलस्थः स्थलकर्मसु ॥
उभयोर् उभयस्थस् तु कर्मस्व् अधिकृतो भवेत् ॥ इति ।

अस्यार्थ - यदि जलस्थ आचामति तदा जलकृत्य एवाधिकृतो भवति । यदा तु स्थलस्थस् तदापि स्थकृत्य एव । यदि पुनर् उभयत्र तदोभयोर् अपि क्रियमाणेषु कर्मस्व् अधिकृतो भवतीति । तथा च पैठीनसिः - “अन्तरुदकम् आचान्तो ऽन्तर् एव शुध्यति । बहिर् उदकम् आचान्तो बहिर् एव शुध्यति । तस्माद् बहिर् एकम् अन्तर् एकं च कृत्वा पादम् आचमने सर्वत्र शुद्धो भवति” इति । अत्र दक्षः ।

स्नात्वाचामेद् यदा विप्रः पादौ कृत्वा जले स्थले ।
उभयोर् अप्य् असौ शुद्धस् ततः कर्मक्षमो भवेत् ॥ इति ।

अन्यत्र तु हारीतेनोक्तं द्रष्टव्यम् ।

आर्द्रवासा जले कुर्यात् तर्पणाचमनं जपम् ।
शुष्कवासाः स्थले कुर्यात् तर्पणाचमनं जपम् ॥
आर्द्रवासाः स्थलस्थस् तु यद्य् आचामेन् नराधमः ।
वस्त्रनिश्च्योतनं तस्य प्रेतास् तत्र पिबन्ति हि ॥ इति ।

अत्र व्यासः ।

अपः पाणिनखाग्रेषु आचामेद् यस् तु ब्राह्मणः ।
सुरापानेन तत् तुल्यम् इत्य् एवम् ऋषिर् अब्रवीत् ॥

यमो ऽपि ।

अपः करनखस्पृष्टा य आचामति वै द्विजः ।
सुरां पिबति सुव्यक्तं समस्य वचनं यथा ॥
उद्धृत्य वामहस्तेन यः पिबेद् ब्राह्मणो जलम् ।
सुरापानेन तत् तुल्यं मनुः स्वायंभुवो ऽब्रवीत् ॥

अत्र विशेषः कूर्मपुराणे दर्शितः ।

न वामहस्तेनोद्धृत्य पिबेद् वक्त्रेण वै जलम् । इति ।

अत्र स्मृत्यन्तरम् ।

अलाबु ताम्रपात्रं च करकं च कमण्डलुम् ।
गृहीत्वा स्वयम् आचामेन् न तेनाप्रयतो भवेत् ॥
करकालाबुकांस्येन ताम्रपर्णपुटेन च ।
स्वहस्ताचमनं कार्यं स्नेहलिप्तानि वर्जयेत् ॥
कांस्यपात्रे च यत् तोयं यत् तोयं ताम्रभाजने ।
सौवर्णे राजते चैव नैवाशुद्धं तु कर्हिचित् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् आचमनप्रतिषेधाः

आचमनविषयान्तरम्

अथान्यद् अप्य् आचमनविषयं किंचिद् उच्यते

तत्र गौतमः - “द्रव्यहस्त उच्छिष्टो निधायाचमेत्” इति । अस्यार्थः - यदि ब्राह्मणभोजनादौ प्रवृत्ते द्रव्यहस्तः कथंचिद् उच्छिष्टस्पर्शनाद् अप्रयतो भवति तदा तद् द्रव्यं भूमौ निधायाचामेद् इति । द्रव्यम् अत्राभ्यवहार्यम् । तथा च वसिष्ठः ।

प्रचरन्न् अभ्यवहार्येषूच्छिष्टं यदि संस्पृशेत् ।
भूमौ निकिष्प्य तद् द्रव्यम् आचम्य प्रचरेत् पुनः ॥

अभ्यवहारेष्व् अन्नपानादिषु प्रचरन् परिवेषणं कुर्वन्न् इत्य् अर्थः । बृहस्पतिर् अपि ।

प्रचरन्न् अन्नपानेषु यदोच्छिष्टम् उपस्पृशेत् ।
भूमौ निधाय तद् द्रव्यम् आचान्तः प्रचरेत् पुनः ॥ इति ।

अत्र विशेषम् आहतुः शङ्खलिखितौ - “द्रव्यहस्त उच्छिष्टो निधायाचम्याभ्युक्षेत् तद् द्रव्यम्” इति । एवं द्रव्यहस्तस्याचमनाच् छुद्धिः द्रव्यस्य तु निधानाभ्युक्षणाभ्याम् इत्य् अनुसंधेयम् । यदा तु द्रव्यस्यैव साक्षाद् उच्छिष्टस्पर्शनं तदा तत्परित्याज्यम् एव । यद् आह वसिष्ठः - “उच्छिष्ठम् अगुरोर् अभोज्यं स्वयम् उच्छिष्टम् उच्छिष्टोपहतं च” इति । यत् पुनर् मनुनोक्तम्,

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥

इति, तद् अनभ्यवहार्यवस्त्रादिविषयम्, इतरत्र निधानविधानात् । मार्कण्डेयो ऽत्र विकल्पम् आह ।

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तो निधाय वा ।
आचम्य द्रव्यम् अभ्युक्ष्य पुनर् आदातुम् अर्हति ॥ इति ।

कूर्मपुराणे ऽपि ।

तैजसं वा समादाय यद् उच्छिष्टो भवेद् द्विजः ।
भूऔ निक्षिप्य तद् दर्वयम् आचम्याभ्युक्षयेत् तु तत् ॥
यद् यमत्रं (?) समादाय भवेद् उच्छेषणान्वितः ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥
वस्त्रादिषु विकल्पः स्यात् तत् स्पृष्टाव् एवम् एव हि ।

तत् स्पृष्टौ उच्छिष्टस्पृष्टौ । निधानम् अनिधानं वा कार्यम् इत्य् अर्थः । अनभ्यवहार्यं प्रकृत्य बोधायनो ऽपि - “तैजसं चेद् आदायोच्छिष्ठः स्यात् तद् उदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेद् अथ चेद् अन्नेनोच्छिष्टः स्यात् तद् उदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेद् एतद् एव विपरीतम् अमत्रे” इति । उदस्य निधायेत्य् अर्थः । विपरीतम् अनुदस्येति यावत् । पक्वान्नम् आदाय मूत्रादिकरणे श्लोक आपस्तम्बोक्तो द्रष्टव्यः ।

भूमौ निक्षिप्य तद् द्रव्यं शौचं कृत्वा यथाविधि ।
उत्सङ्गोपात्तपक्वान्न उपस्पृश्य ततः शुचिः ॥ इति ।

एतद् आपद्य् अशक्यनिधानद्रव्यविषयम्,

अरण्ये ऽनुदके रात्रौ चोरव्याघ्राकुले पथि ।
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ॥

इति बृहस्पतिस्मरणात् । मार्कण्डेयस् तु शौचम् अप्य् अनिधायैव कार्यम् इत्य् आह ।

पक्वान्नेन गृहीतेन मूत्रोच्चारं करोति यः ।
अनिधायैव तद् द्रव्यम् अङ्गे कृत्वा समाश्रितम् ॥
शौचं कृत्वा यथान्यायम् उपस्पृश्य यथाविधि ।
अन्नम् अभ्युक्षयेच् चैवम् उद्धृत्यार्कस्य दर्शयेत् ॥
त्यक्त्वाग्रमात्रं वा तस्माच् छेषं शुद्धिम् अवाप्नुयात् । इति ।

इति स्मृतिचन्द्रिकायाम् आचमनप्रकरणम्