०५ दन्तधावनविधिः

अथ दन्तधावनविधिः

अत्र शातातपः ।

सुखे पर्युषिते नित्यं भवत्य् अप्रयतो नरः ।
तस्मात् सर्वप्रयत्नेन भक्षयेद् दन्तधावनम् ॥

कात्यायनो ऽपि ।

उत्थाय नेत्रे प्रक्षाल्य शुचिर् भूत्वा समाहितः ।
परिजप्य च मन्त्रेण भक्षयेद् दन्तधावनम् ॥

मन्त्रो ऽपि ।

आयुर् बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥

अत्र कालनियमम् आह मार्कण्डेयः ।

प्रातर् उत्थाय यतवाग् भक्षयेद् दन्तधावनम् ।
प्रक्षाल्य भक्षयेत् पूर्वं प्रक्षाल्यैव च संत्यजेत् ॥

शुचौ देश इति शेषः । तथा च व्यासः ।

प्रक्षाल्य तु शुचौ देशे दन्तधावनम् उत्सृजेत् ।
पतिते ऽभिमुखे सम्यग् भोज्यम् आप्नोत्य् अभीप्सितम् ॥ इति ।

अत्र विष्णुः ।

प्रक्षाल्य भुक्त्वा तज् जह्यान् नाद्याद् इन्दुक्षये च तत् ।

इन्दुक्षये ऽमावास्यायाम् । एतन् निषिद्धतिथ्याद्युपलक्षणम् । अत एव यमः ।

चतुर्दश्य् अष्टमी दर्शः पूर्णिमा संक्रमो रवेः ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठं च वर्जयेत् ॥
श्राद्धे जन्मदिने चैव विवाहे ऽजीर्णदूषितः ।
प्रेते चैवोपवासे च वर्जयेद् दन्तधावनम् ॥ इति ।

विष्णुर् अपि ।

प्रतिपद्दर्शषष्ठीषु चतुर्दश्यष्टमीषु च ।
नवम्याम् भानुवारे च दन्तकाष्ठं विवर्जयेत् ॥

पैठीनसिर् अपि ।

प्रतिपद्दर्शषष्ठीषु नवम्यां चैव भारत ।
दन्तानां काष्ठसंयोगो दहत्या सप्तमं कुलम् ॥

व्यासो ऽपि ।

श्राद्धे यज्ञे च नियमे पत्यौ च प्रोषिते तथा ।
वारे पाते च संक्रान्त्यां नन्दाभूताष्तपर्वसु ॥
तैलाभ्यङ्गं रतिं मांसं दन्तकाष्ठं च वर्जयेत् । इति ।

वारे भानुवारे । तत्र दिङ्नियमम् आह मार्कण्डेयः ।

उदङ्मुखः प्राङ्मुखो वा कषायं तिक्तकं कटुम् ।

दन्तधावनं भक्षयेद् इति शेषः । उदङ्मुखः प्राङुदङ्मुख (?) इत्य् अर्थः, अत्र दोषशवणात् । तद् आह कात्यायनः ।

पूर्वामुखो धृतिं विन्द्याच् छरीरारोग्यम् एव च ।
दक्षिणेन तथा क्रौर्यं पश्चिमेन पराजयम् ॥
उत्तरेण गवां नाशः स्त्रीणां परिजनस्य च ।
पूर्वोत्तरे तु दिग्भागे सर्वान् कामान् अवाप्नुयात् ॥

अत्र काष्ठलक्षणम् आह विष्णुः ।

कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसंमितम् ।
कनिष्ठिकाग्रवत् स्थूलं पूर्वार्धकृतकूर्चकम् ॥
दन्तधवनम् उद्दिष्टं जिह्वालेखनिका तथा ।
सुसूक्ष्मं सूक्ष्मदन्तस्य समदन्तस्य मध्यमम् ॥
स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् ॥
द्वादशाङ्गुलकं विप्रे काष्ठम् आहुर् मनीषिणः ।
क्षत्रविट्छूद्रजातीनां नवषट्चतुरङ्गुलम् ॥

कूर्मपुराणे ऽपि ।

मध्याङ्गुलसमस्थौल्यं द्वादशाङ्गुलसंमितम् ।
सकूर्चं दन्तकाष्ठं स्यात् तद् अग्रेण तु धावयेत् ॥

गर्गो ऽपि ।

दशाङ्गुलं तु विप्राणां क्षत्रियाणां नवाङ्गुलम् ।
अष्टाङ्गुलं तु वैश्यानां शूद्राणां सप्तसंमितम् ।
चतुरङ्गुलमानं तु नारीणां नात्र संशयः ॥

व्यासो ऽपि ।

वर्जयेद् दन्तकाष्ठानि वर्जनीयानि नित्यशः ।
भक्xअयेच् छास्त्रदृष्टानि पर्वस्व् अपि वर्जयेत् ॥

कानि पुनः शास्त्रदृष्टानीत्य् अपेक्षित आह अङ्गिराः ।

आम्रपुन्नागबिल्वानाम् अपामार्गशिरीषयोः ।
भक्षयेत् प्रातर् उत्थाय वाग्यतो दन्तधावनम् ॥

नारदो ऽपि ।

सर्वे कण्टकिनः पुण्याः क्षीरिणस् च यशस्विनः ।

वृद्धमनुर् अपि ।

खदिरस्य करञ्जस्य कदंबस्य तथैव च ।
अर्कस्य करवीरस्य कुटजस्य विशेषतः ॥

विष्णुर् अपि - “वटाश्वत्थार्कखदिरकरञ्जककरवीरजात्यपामार्गमालतीककुभबिल्वानाम् अन्यतमम्” इति । मार्कण्डेयो ऽपि ।

वटाश्वत्थार्कखदिरकरवीरांश् च भक्षयेत् ।
जात्यं च बिल्वं खदिरं मूलं तु ककुभस्य च ॥
अरिमेदं प्रियङ्गुं च कण्टकिन्यस् तथैव च ॥ इति ।

एतेषु फलम् अह गर्गः ।

सर्जे धर्यं वटे दीप्तिः कर्ञ्जे विजयो रणे ।
प्लक्षे चैवार्थसंपत्तिर् वदर्यां मधुरस्वरः ॥
खदिरे चैव सौगन्ध्यं बिल्वे तु विपुलं धनम् ।
औदुम्बरे वाक्यसिद्धिर् बन्धूके च दृडा श्रुतिः ॥
सैघ्रे च कीर्तिसौभाग्यं पालाशे सिद्धिर् उत्तमा ।
कदम्बे सकला लक्ष्मीर् आम्रे चारोग्यम् एव च ॥
अपामार्गे धृतिर् मेधा प्रज्ञा शक्तिर् वपुः श्रुतिः ।
आयुः शीलं यशो लक्ष्मीः सौभाग्यं चोपजायते ॥
अर्केण दन्तरोगांस् तु बीजपूरेण तु व्यथाम् ।
ककुभेन तथायुष्मान् भवेत् पलितवर्जितः ॥
दाडिमे सिन्धुवारे च करञ्जे कुटजे तथा ।
जात्यां च करमर्दे च दुःस्वप्नं चैव नाशयेत् ॥ इति ।

“वर्जनीयानि वर्जयेत्” इत्य् उक्तम् । तान्य् आह मार्कण्डेयः ।

शाल्मल्यश्वत्थहव्यानां धवकिंशुकयोर् अपि ।
कोविदारशमीपीलुश्लेष्मान्तकविभीतकान् ।
वर्जयेद् दन्तकाष्ठेषु गुग्गुलं क्रमुकं तथा ॥

हारीतो ऽपि - “कालेयपालाशकोविदारश्लेष्मातकबिल्वकण्टकिवृक्षनिर्गुण्डीशिखण्डिशिरीषपमालती-करवीरबदरीकरञ्जवेणुवर्जम्” इति । मार्कण्डेयो ऽपि ।

त्याज्यं सपत्रम् अज्ञातम् ऊर्ध्वशुष्कं च पाटिलम् ।
त्वग्घीनं ग्रन्थिसंयुक्तं तथा पालाशशिंशुपे ॥

उशनापि ।

तिन्दुकेङ्गुदबन्धूकमोचामरजबल्वजम् ।
कार्पासं दन्तकाष्ठं च विष्णोर् अपि हरेच् छ्रियम् ॥

गर्गो ऽपि ।

कुशं काशं पालाशं च शिंशुपां यस् तु भक्षयेत् ।
तावद् भवति चण्डालो यावद् गां नैव पश्यति ॥ इति ।

एतेषु केषुचिद् विधिप्रतिषेधाभ्यां विकल्पो वेदितव्यः । अत्र उशना - “न दन्तकाष्ठान् पाठयेन् नाङ्गुलीभिर् दन्तान् प्रक्षालयेत्” इति । एतद् अनामिकाङ्गुष्ठव्यतिरिक्तविषयम् । यद् आह वृद्धयाज्ञवल्क्यः ।

इष्टकालोष्ठपाषाणैर् इतराङ्गुलिभिस् तथा ।
मुक्त्वा चानामिकाङ्गुष्ठौ वर्जयेद् दन्तधावनम् ॥ इति ।

अत्र विशेषः कूर्मपुराणे दर्शितः ।

नोत्पाटयेद् दन्तकाष्ठं नाङ्गुल्यग्रेण धावयेत् । इति ।

एवं च यद् उक्तं पैठीनसिना - “तृणपर्णोदकेनाङ्गुल्या वा दन्तान् धावयेत् प्रदेशिनीवर्जम्” इति, अत्र प्रदेशिनीग्रहणं निषिद्धाङ्गुल्युपलक्षणार्थम् इत्य् अविरोधः । अत्र व्यवस्थाम् आह व्यासः ।

प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् ।
पर्णैर् अन्यत्र काष्ठैस् तु जिह्वोल्लेखः सदैव तु ॥
अलाभे दन्तदाष्ठानां निषिद्धायां तिथौ तथा ।
अपां द्वादशगण्डूषैर् विदध्याद् दन्तधावनम् ॥ इति ।

यत् तु तेनैवोक्तम्,

यो मोहात् स्नानवेलायां भक्षयेद् दन्तधावनम् ।
निराशास् तत्र गच्छन्ति देवताः पितृभिः सह ॥

इति, तन् मध्याह्नस्नानविषयम्,

प्रातःस्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ।

इति दक्षस्मरणात् ।

इति स्मृतिचन्द्रिकायां दन्तधावनविधिः