०३ शारीरमलशौचम्

अथ शारीरमलशौचम्

तत्र मनुः ।

ऊर्ध्वं नाभेत् यानि खानि तानि मेध्यानि सर्वशः ।
यान्य् अधस्तान्य् अमेध्यानि देहाच् चैव मलाश् च्युताः ॥ इति ।

खानीन्द्रियछिद्राणि । मला अपि तेनैवोक्ताः ।

वसा शुक्रम् असृङ् मज्जा मूरविड्घ्राणकर्णविट् ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ इति ।

वसा कायस्नेहः । असृक् शोणितम् । मज्जा शिरसो मेदः । कर्णविट् कर्णमलम् । अश्रु नेत्रजलम् । एतैर् उपहतस्य शुद्धिम् आह बोधायनः ।

आददीत मृदो ऽपश् च षट्सु पूर्वेषु शुद्धये ।
उत्तरेषु तु षट्स्व् अद्भिः केवलाभिर् विशुद्ध्यति ॥ इति ।

मनुस् तूत्तरेष्व् अपि मृज्जलाभ्यां शुद्धिर् इत्य् आह ।

विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥

विण्मूत्रम् उत्सृज्यते येन तत् तथोक्तम् । तच्छुद्ध्यर्थम् इत्य् अर्थः । एतच् च पूर्वोक्तेन विकल्प्यमानं देशकालाद्यपेक्षया व्यवस्थापनीयम् । इदं च बोधायनोक्तम् ।

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥ इति ।

एतत् स्वकीयमलसंस्पर्शने । परकीयमलसंस्पर्शे तु देवलोक्तं द्रष्टव्यम् ।

मानुषास्थि वसां विष्ठाम् अर्तवं मूत्ररेतसी ।
मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ॥
स्नात्वापमृज्य चेलादीन् आचम्य स शुचिर् भवेत् ।
तान्य् एव स्वानि संस्पृश्य पूतः स्यात् परिमार्जनात् ॥ इति ।

परिमार्जनं प्रक्षालनम् । अत्र विशेषम् आह विष्णुः - “नाभेर् अधस्ताद् बाहुषु च कायिकैर् मलैः सुरादिभिर् मद्यैर् वोपहतो मृत्तोयैस् तद् अङ्गं प्रक्षाल्य स्नानेनेन्द्रियेषूपहतस् तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहत्श् चेति ॥ अत्र यमः ।

गात्रे तिस्रः पादयोस् तु हस्तयोस् तिस्र एव तु ।
मृदः पञ्च दशामेध्ये हस्तादीनां विशेषतः ॥
एतद् आत्मीयमूत्रादिस्पर्शे शौचम् उदाहृतम् ।
उत्सर्गकालाद् अन्यत्र परकीये तु पठ्यते ॥
परस्य शोणितस्पर्से रेतोविण्मूत्रयोस् तथा ।
चतुर्णाम् अपि वर्णानां द्वात्रिंशन् मृत्तिकाः स्म्र्ताः ॥ इति ॥

इति स्मृतिचन्द्रिकायां शारीरमलशौचम्