०२ शौचविधिः

अथ शौचविधिः

तत्र याज्ञवल्क्यः ।

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपकषयकरं शौचं कुर्याद् अतन्द्रितः ॥

उद्धृतैः कमण्डल्वादिभिः । अतन्द्रितो ऽनलस इत्य् अर्थः । देवलो ऽपि ।

आ शौचान् नोत्सृजेच् छिश्नं प्रस्रावोच्चारयोर् अपि ।
गुदं हस्तौ च निर्णिज्य मृदम्भोभ्यां मुहुर् मुहुः ॥ इति ।

एतच् च जलाशयाद् अन्यत्र कार्यम् । तथा च पैठीनसिः ।

मूत्रोच्चारे कृते शौचं न स्याद् अन्तर्जलाशये ।
अन्यत्रोद्धृत्य तत् कुर्यात् सर्वदैव समाहितः ॥

दक्षो ऽपि ।

तीर्थे शौचं न कुर्वीत कुर्वीतोद्धृत्य वारिणा ।
मृत्तिका वारि चैवास्य शौचाय परिचारकौ ॥ इति ।

यदा तूद्धरणम् उदकस्य न संभवति तदा विशेषम् आह विवस्वान् ।

अरत्निमात्रं जलं त्यक्त्वा कुराच् छौचम् अनुद्धृते ।
पश्चात् तच्छोदयेत् तीर्थम् अन्यथा ह्य् अशुचिर् भवेत् ॥

तीर्थम् अत्र शौचस्थलम् । अत एव ऋश्यशृङ्गः ।

यस्मिन् स्थाने कृतं शौचं वारिणा तत् तु शोधयेत् ।
न शुद्धिस् तु भवेत् तस्य मृत्तिकां यो न शोधयेत् ॥

तत्र मृत्स्वरूपम् आह यमः ।

आहरेन् मृत्तिकां प्राज्ञः कूलात् ससिकता तु या ।

कूलग्रहणम् अनुपहतदेशोपलक्षणार्थम् । मरीचिर् अपि ।

विप्रे तु शुक्ला मृच्छौचे रक्ता क्षत्रे विधीयते ।
हरिद्रवर्णा वैश्ये तु शूद्रे कृष्णा विनिर्दिशेत् ॥ इति ।

अत्र, “कृष्णा स्त्रीशुद्रयोस् तथा” इति काश्यपीये विशेषः । यत्र पुनर् उक्तलक्षणा मृन् न लभ्यते तत्र कथम् इत्य् अपेक्षिते मनुर् आह ।

यस्मिन् देशे तु यत् तोयं या च यत्रैव मृत्तिका ।
सैव तत्र प्रशस्ता स्यात् तथा शौचं विधीयते ॥ इति ।

अत्र वर्ज्या यमेन दर्शिताः ।

नाखुकृष्टान् न वल्मीकात् पांसुलान् न च कर्दमात् ।
न मार्गान् नोषरान् नैव शौचशिष्टात् परस्य च ॥
एतास् तु वर्जयेन् नित्यं वृथा शौचं हि तत् स्मृतम् ।

देवलो ऽपि ।

अङ्गारतुषकीटास्थिशर्करावालुकान्विताम् ।
वल्मीकोषरतोयान्तः कुड्याघातश्मशानजाम् ।
आहृताम् अन्यशौचार्थम् आददीत न मृत्तिकाम् ।

विष्णुपुराणे ऽपि ।

वल्मीकान् मूषिकोत्खातान् मृदं नान्तर्जलात् तथा ।
शौचावशिष्टां गेहाच् च नादद्यात् कूपसंभवाम् ॥
अन्तः प्राण्युपपन्नां च हलोत्खातां तथा नृप ।
परित्यजेन् मृदस् त्व् एताः सकलाः शौचसाधनाः ॥ इति ।

नान्तर्जलाद् इति वाप्यादिव्यतिरिक्तविषयम् । अत एव यमः ।

वापीकूपतटाकेषु बाह्यतो नाहरेन् मृदम् ।
आहरेज् जलमाध्यात् तु परतो मणिबन्धनात् ॥ इति ।

वापी दीर्घिका । मणिबन्धनं करबाहुसंधिदेशः । एवम् आहृत्योदकं मृदं चाहनि शौचम् उदङ्मुखः कुर्यात् । तथा च ब्रह्माण्डपुराणम् ।

उद्धृत्योदकम् आदाय मृत्तिकां चैव वाग्यतः ।
उदङ्मुखो दिवा कुर्याद् रात्रौ चेद् दक्षिणामुखः ॥ इति ।

अत्र मृत्संख्याम् आह दक्षः ।

एका लिङ्गे करे तिस्र उभयोर् मृद्द्वयं स्मृतम् ।

एतन् मूत्रशौचविषयम् । यद् आह शातातपः ।

एका लिङ्गे करे सव्ये तिस्रो द्वे हस्त्योर् द्वयोः ।
मूत्रशौचं समाख्यातं शुक्ले तु त्रिगुणं भवेत् ॥ इति ।

अत्र मृत्परिमाणम् आह विवस्वान् ।

पर्वमात्रप्रमाणास् तु लिङ्गशौचे मृदः स्मृताः ।

दक्षो ऽपि ।

लिङ्गे तु मृत् समाख्याता त्रिपर्व पूर्यते यया ।
दातव्यम् उदकं तावद् यावत् स्यात् मृत्तिकाक्षयः ॥ इति ।

अत्र विशेषम् आह ब्रह्माण्डपुराणे ।

आद्यन्तयोस् तु शौचानाम् अद्भिः प्रक्षालनं स्मृतम् ।
सुनिर्णिक्ते मृदं दद्यान् मृदन्ते जलम् एव च ॥ इति ।

यत् तु विवस्वद्वचनम्,

तिस्रो मृदो लिङ्गशौचे ग्राह्याः सान्तरमृत्तिकाः ।
वामपाणौ मृदः पञ्च तिस्रः पाण्योर् द्वयोर् अपि ॥

इति, तल् लेपभूयस्त्वाभिप्रायम्, दक्षोक्ताल्पपरिमाणाभिप्रायं वा । सान्तरा जलेन व्यवहिता इत्य् अर्थः । दक्षो ऽपि शौचम् आह ।

तिस्रो ऽपाने दशैकस्मिन्न् उभयोः सप्त मृत्तिकाः । इति ।

मनुर् अपि ।

एका लिङ्गे गुदे तिस्रस् तथैकस्मिन् करे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिम् अभीप्सता ॥ इति ।
ननु किम् इदं केवलविट्छौचविषयम् आहो स्वित् सहकरणशौचविषयं वा । न तावद् आद्यम्, लिङ्गशौचस्यादृष्टार्थत्वप्रसङ्गात्, परस्परानपेक्षशौचद्वयविधानघटनाच् च । नापि द्वितीयम्, मूतशौचान्तःपातिनो हस्तशौचस्य लोपप्रसङ्गात् । न चात्र लोपो ऽस्त्व् इति वाच्यम्, प्रमाणाभावात्, मूत्रशौचप्रतिपादकवचनविरोधाच् च । नापि तन्त्रम्, गुदशौचव्यवायेनानेककालत्वात् । नापि प्रसङ्गः प्रयोजनान्तरसंभवात् । ननु च यदि सहकरणविषयत्वम्, तर्हि पृथक्करणे मनुना मूत्रशौचम् अनुक्तम् एव स्यात् । अतः किंविषयम् एतद् इति न विद्मः ।
उच्यते । सत्यं न विट्छौचविषयत्वम्, किं तु “एका लिङ्गे” इत्य् एतदुक्तन्यायेन पूर्वोक्तमूत्रशौचोपलक्षणार्थम् । एवं च तस्मिंस् तस्मिन् निमित्ते तत् तच् छौचम् अनुष्ठेयम् इत्य् उक्तं भवति । यत्र क्रमेण निमित्तद्वयसंनिपातस् तत्र तेनैवोक्तक्रमेण नैमित्तिकानुष्ठानम् । यत्र पुनः सहनिमित्तद्वयम्, तत्राप्य् उक्तन्यायेन नैमित्तिकम् अनुष्ठेयम् इत्य् उक्तं भवतीत्य् अनवद्यम् ।
अत्र मृत्परिमाणम् आह अङ्गिराः ।
प्रथमा प्रसृतिर् ज्ञेया द्वितीया च तदर्धिका ।
तृतीया मृत्तिका ज्ञेया त्रिभागकरपूरणा ॥ इति ।

हस्तशौचे तु विशेषम् आह हारीतः - “एका लिङ्गे तिस्रो ऽपाने दद्याद् दश सव्ये षट् पृष्ठे सप्त पद्भ्याम्” इति । पृष्ठे सव्यस्य पश्चाद्भागे, तस्यैव प्रकृतत्वात् । दक्षो ऽपि ।

षड् अन्या नखशुद्धौ तु देयाः शौचेप्सुना मृदः ।
न शौचं वर्षधाराभिर् आचरेत् तु कदाचन ॥ इति ।

नखशौचानन्तरं शङ्खः ।

तिस्रस् तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।
तिस्रस् तु पादयोर् देयाः शौचमाकस्य नित्यशः ॥ इति ।

अत्र विशेषम् आह मरीचिः ।

तिसृभिश् चा तलात् पादौ शोध्यौ गुल्फौ तथैव च ।
हस्तौ त्व् आ मणिबन्धाच् च लेपगन्धापकर्षणात् ॥

एतच् च शौचद्वयं गृहस्थस्य वेदितव्यम् । तथा च मनुः ।

एतच् छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद् वनस्थानां यतीनां च चतुर्गुणम् ॥ इति ।

यत् तु वसिष्ठेनोक्तम्,

पञ्चापाने दशैकस्मिन्न् उभयोः सप्त मृत्तिकाः ।

इति, यद् अपि यमेन,

द्वे लिङ्गे मृत्तिके देये गुदे पञ्च करे दश ।
उभयोः सप्त दातव्याः पुनर् एका गुदे तथा ॥

इति, अत्रापि,

अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका भवेत् ।
पूर्वपूर्वार्धमात्रास् तु चतस्रो ऽन्याः प्रकीर्तिताः ॥

इति वृद्धवसिष्ठेनाल्पपरिमाणविधानाद् अविरोधः । “द्वे लिङ्गे” इति लेपभूयस्त्वाभिप्रायम्,

विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ॥

इति मनुस्मरणात् । गुदे पुनर् दानं तु सर्वत्र विट्छौचे संबध्यते, विरोधाभावात् । यद् अपि शङ्खेनोक्तम्,

मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते ।
एकस्मिन् विंशतिर् हस्ते द्वयोर् ज्ञेयाश् चतुर्दश ॥
तिस्रस् तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।
तिस्रस् तु पादयोर् ज्ञेयाः शौचकामस्य नित्यशः ॥
एतच् छौचं गृहस्थानां तथा गुरुनिवासिनाम् ।
द्विगुणं स्याद् वनस्थानां यतीनां त्रिगुणं भवेत् ॥

इति, अत्रापि, “अवदानसमा मृत् स्यात्” इति मरीच्युक्ताल्पपरिमाणाश्रयणाद् अविरोधः । अङ्गुष्ठपर्वमात्रम् अवदानम् । मेहनम् अत्र पायुः । यत् तु शातातपेनोक्तम्,

आर्द्रामलकमात्रास् तु ग्रासा इन्दुव्रते स्मृताः ।
तथैवाहुतयः सर्वाः शौचार्थे याश् च मृत्तिकाः ॥

इति, तद् धस्तशौचाभिप्रायं गुदलिङ्गयोः परिमाणान्तरविधानात् । इन्दुव्रतं चान्द्रायणम् । एवम् उक्तशौचकरणे ऽपि यत्र गन्धो लेपश् च नापैति तत्र संख्यातिरेके ऽप्य् अविरोध इत्य् आह मनुः ।

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।
तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥

देवलो ऽपि ।

यावत् तु शुद्धिं मन्येत तावच् छौचं विधीयते ।
प्रमाणं शौचसंख्याया न शिष्टैर् उपदिश्यते ॥ इति ।

यत् तु दक्षेणोक्तम्,

न्यूनाधिकं न कर्तव्यं शौचं शुद्धिम् अभीप्सता ।
प्रायश्चित्तेन शुद्ध्येत विहितातिक्रमे कृते ॥

इति, तत् संकल्पितसंख्याया अर्वाक् तत्समाप्तौ वा गन्धाद्यपगमे वेदितव्यम् । एवं चोक्तसंख्याया अर्वाग् एव यत्र गन्धाद्यपगमस् तत्र संख्यानियमो ऽदृष्टार्थ इत्य् अनुसंधेयम् । एवम् उक्तशौचकरणे ऽपि यस्य भावशुद्धिर् नास्ति न तस्य शुद्धिर् इत्य् आह व्याघ्रपादः ।

शौचं तु द्विविधं प्रोक्तं बाह्यम् आभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस् तथान्तरम् ॥
गङ्गातोयेन कृत्स्नेन मृद्भारैश् च नगोपमैः ।
आ मृत्योर् आचरेच् छौचं भावदुष्टो न शुद्ध्यति ॥ इति ।

भोजने तु गुदस्रावे शुद्धौ विशेषम् आह बृहस्पतिः ।

भुञ्जानस्य तु विप्रस्य कदाचित् स्रवते गुदः ।
उच्छिष्टम् अशुचित्वं च तस्य शौचं कथं भवेत् ॥
पूर्वं कृत्वा तु शौचं तु ततः पश्चाद् उपस्पृशेत् ।
ततः कृतोपवासश् च पञ्चगव्येन शुद्ध्यति ॥

अनुपनीतानां तु पितामहोक्तं द्रष्टव्यम् ।

न यावद् उपनीयन्ते द्विजाः शूद्रास् तथाङ्गनाः ।
गन्धलेपक्षयकरं शौचम् एषां विधीयते ॥ इति ।

स्त्रीशूद्रयोस् त्व् आदिपुराणे विशेषो दर्शितः ।

स्त्रीशूद्रयोर् अर्धमानं प्रोक्तं शौचं मनीषिभिः । इति ।

यस् तु विण्मूत्रोत्सर्जनायोपविष्टस् तन् न करोति तस्याप्य् अर्धशौचम् एव । तथा च वृद्धपराशरः ।

उपविष्टस् तु विण्मूत्रं कर्तुं यस् तु न विन्दति ।
स कुर्याद् अर्धशौचं तु स्वस्य शौचस्य सर्वदा ॥ इति ।

एवं रात्राव् अपि द्रष्टव्यम् । तद् उक्तं चतुर्विंशतौ ।

यद् दिवा विहितं शौचं तद् अर्धं निशि कीर्तितम् ।
तदर्धम् आतुरे प्रोक्तम् आतुरस्यार्धम् अध्वनि ॥

एतच्छौचसामर्थ्याभावातुरविषयम् । अन्यथा तु यथासामर्थ्यम् एव शौचम् । तथा च आदिपुराणम् ।

दिवा शौचस्य निश्य् अर्धं पथिकादौ विधीयते ।
आर्तः कुर्याद् यथाशक्ति स्वस्थः कुर्याद् यथोदितम् ॥

बोधायनो ऽपि ।

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥ इति ।

अत्र दक्षः ।

शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ।
शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ।
यस्य शौचे ऽपि शैथिल्यं वृत्तं तस्याप्य् अरक्षितम् ॥

देवलो ऽपि ।

धर्मविद् दक्षिणं हस्तम् अधःशौचे च योजयेत् ।
तथैव वामहस्तेन नाभेर् ऊर्ध्वं न शोधयेत् ॥

आपस्तम्बो ऽपि - “शक्तिविषये न मुहूर्तम् अप्य् अप्रतः स्यात्” इति ।

इति स्मृतिचन्द्रिकायां शौचविधिः