०१ मूत्रपुरीषोत्सर्जनविधिः

मूत्रपुरीषोत्सर्जनविधिः

उक्ताः संस्काराः । इदानीम् अवसरप्राप्तम् आह्निकं प्रस्तूयते । तत्र मनुः ।

ब्राह्मे मुहूर्त उत्थाय धर्मार्थाव् अनुचिन्तयेत् ।
कायक्लेशांश् च तन्मूलान् वेदतत्त्वार्थम् एव च ॥

वेदतत्त्वार्थः प्रमात्मा । तथा च कूर्मपुराणे ।

ब्राह्मे मुहूर्त उत्थाय धर्मार्थाव् अनुचिन्तयेत् ।
कायक्लेशं तद् उद्भूतं ध्यायीत मनसेश्वरम् ॥

याज्ञवल्क्यो ऽपि ।

ब्राह्मे मुहूर्त उत्थाय चिन्तयेद् आत्मनो हितम् ।
धर्मार्थकामाण् स्वे काले यथाशक्ति न हापयेत् ॥

धर्मादिषु यो यस्मिन् काले विहितः स तस्मिन्न् एव कर्तव्य इत्य् अर्थः । अत्र यत् कर्तव्यं तद् आह विष्णुः - “ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात्” इति । ब्राह्ममुहूर्तो रात्रेः पश्चिमो यामः,

रात्रेस् तु पश्चिमे यामे रात्रेर् आचम्य चोदकम् ।
अन्तर्धाय तृणैर् भूमिं शिरः प्रावृत्य वाससा ॥
वाचं नियम्य यत्नेन ष्ठीवनोच्छ्वासवर्जितः ।
कुर्याण् मूत्रपुरीषे तु शुचौ देशे समाहितः ॥ इति ।

अनेन यत्र स्वप्नादिना निमित्तेनाचमनप्राप्तिः तत्राचम्यैव मूत्रपुरीषे कुर्याद् इत्य् उक्तं भवति । तृणान्य् अयज्ञियानि । तथा च यमः ।

शिरः प्रावृत्य कुर्वीत शकृन् मूत्रविसर्जनम् ।
अयज्ञियैर् अनार्द्रैश् च तृणैः संछाद्य मेदिनीम् ॥ इति ।

तृणग्रहणं काष्ठादेर् अपि प्रदर्शनार्थम् । अत एव मनुः ।

निरस्कृत्योच्चरेत् काष्ठं पत्रं लोष्टं तृणानि वा ।
नियम्य प्रयतो वाचं संवीताङ्गो ऽवकुण्ठितः ॥ इति ।

तिरस्करणम् अन्तर्धानम् । संवीताङ्गः आच्छादितदेहः । अवकुण्ठितः प्रच्छन्नशिराः । अत्र विशेषम् आह विष्णुः - “घ्राणास्ये वाससा वेष्टयित्वा मृद्धानीं ग्रीवायाम् आसज्योच्चरेत्” इति । मृद्धानीं मृद्बन्धनार्थं शाटीम् । आपस्तम्बो ऽपि ।

नोर्ध्वं नाधो न तिर्यक् च किंचिद् ईक्षेत बुद्धिमान् ।
नभोभूम्यन्तरं पश्यन् कृत्वा मूर्ध्नि च वस्त्रकम् ॥

अङ्गिरा अपि ।

कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रं तु गृही कुर्याद् यद् वा कर्णे समाहितः ॥ इति ।

कर्णे निधानम् एकवस्त्रविषयम् । तथा च साङ्ख्यायनगृह्यम् - “यद्य् एकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा मूत्रपुरीषोत्सर्गं कुर्यात्” इति । देवलो ऽपि ।

सदैवोदङ्मुखः प्रातः सायाह्ने दक्षिणामुखः ।
विण्मूत्रम् आचरेन् नित्यं संध्यासु परिवर्जयेत् ॥

मनुर् अपि ।

मूत्रोच्चारसमुत्सर्गं दिवा कुर्याद् उदङ्मुखः ।
दाक्षिणाभिमुखो रात्रौ संध्ययोस् तु यथा दिवा ॥ इति ।

अत्रैषां विकल्पो वेदितव्यः । यत् तु देवलेनोक्तम्,

विण्मूत्रम् आचरेन् नित्यं संध्यासु परिवर्जयेत् ।

इति, तन् निरुद्धेतरविषयम्, “न वेगं धारयेन् नोपरुद्धः क्रियां कुर्यात्” इति गौतमस्मरणात् । यद् अपि मनुना,

छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः ।
यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ॥

इति, तद् अपि रात्राव् अहनि वा नीहाराद्यन्धकारजनितदिङ्मोहनविषयम् । एतच् चावस्थाद् दक्षिणस्यां दिशि दक्षिणापरस्यां दिशि वा कार्यम् । तथा च आपस्तम्बः - “आराच् चावसथान् मूत्रपुरीषे कुर्याद् दक्षिणां दिशं दक्षिणापरां वा” इति । गत्वेति शेषः । आराद् दूराद् इत्य् अर्थः । तथा च मनुः ।

दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् ।
उच्छिष्टान्ननिषेकं च दूराद् एव समाचरेत् ॥

अत्र ब्रह्माण्डपुरानम् ।

प्रतिश्रयाद् दक्षिणपश्चिमेन क्षिप्रं गत्वा क्षेत्रमात्रं शरस्य ।
कुर्यात् पुरीषं हि शिरो ऽवकुण्ठ्य न च स्पृशेज् जातु शिरः करेण ॥

प्रतिश्रयो निकेतनम् । एतद् अहर्विषयम् । यद् आह आपस्तम्बः - “अस्तम् इते च बहिर् ग्रामाद् आराद् अवस्थाद् वा मूत्रपुरीषयोः कर्म वर्जयेत्” इति । अत्र मनुः ।

न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ।
न फालकृष्टे न जले न चित्यां न च पर्वते ॥
न जीर्णदेवायतने न वल्मीके कदाचन ।
न ससत्त्वेषु गर्तेषु न गच्छन् नापि च स्थितः ॥
न नदीतीरम् आसाद्य न च पर्वतमस्तके ।
वाय्वग्निविप्रान् आदित्यम् अपः पश्यंस् तथैव गाः ॥
न कचाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ इति ।

चितिः हविःप्रक्षेपादिकरणेष्टकासमूहः । ससत्वेषु सप्राणिष्व् इत्य् अर्थः । पर्वतग्रहणेनैव तत्र निषेधे सिद्धे पुनः पर्वतमस्तकग्रहणम् अत्यन्तार्तस्य पर्वते न दोष इति वक्तुम् इत्य् उक्तं तद्भाष्ये । यमो ऽपि ।

तुषाङ्गारकपालानि देवतायतनानि च ।
राजमार्गश्मशानानि क्षेत्राणि च च बिलानि च ॥
उपरुद्धो न सेवेत छायां दृश्यं चतुष्पथम् ।
उदकं चोदकान्तं च पन्थानं च विवर्जयेत् ॥
वर्जयेद् वृक्षमूलानि चैत्यश्वभ्रबिलानि च ॥

हारीतो ऽपि - “न चत्वरोपद्वारयोर् मूत्रपुरीषे कुर्यात् न गोमये न गोष्ठे न तीर्थे न सस्यपूर्णे न यज्ञभूमौ न यज्ञियानां वृक्षाणाम् अधस्तात्” इति । चत्वरम् अङ्गणम् । उपद्वारं द्वारसमीपम् । आपस्तम्बो ऽपि - “न सोपानत्को मूत्रपुरीषे कुर्यात्” इति । विष्णुर् अपि - “नाप्रच्छदितायां भूमौ नोषरे न शाद्वले नोद्यानोदकसमीपयोर् नाकाशे” इति । शाद्वलो हरिततृणप्रदेशः । गौतमो ऽपि - “न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रतिपश्यन् वा मूत्रपुरीषामेधान्य् उदस्येत्” इति । प्रतिशब्द आभिमुख्ये । यमो ऽपि ।

प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत् ।
दृष्ट्वा सूर्यं निरीक्षेत गाम् अग्निं ब्राह्मणं तथा ॥

विष्णुर् अपि - “न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणान्” इति । व्यासो ऽपि ।

पुरीषं यदि वा मूरं ये न कुर्वन्ति मानवाः ।
राजमार्गे गवां मध्ये धान्यमध्ये च् ये शुभाः ॥

मूत्रपुरीषाधिकारे शङ्खः - “नानुदको नामृत्को नागप्रिवेष्टितशिराः” इति । एतद् विप्रकृष्टोदकमृत्तिकाभिप्रायम् । अत एव आपस्तम्बः - “शिरःपरिवेष्टनं प्रथमं निवीतं द्वितीयं दिशाम् अवलोकनं तृतीयम् अन्तर्धानं चतुर्थं मौनं पञ्चमं पुरीषं षष्ठं मृत्तिकाग्रहणं सप्तमम् उदकम् अष्टमम्” इति । ततो लोष्टादिना परिमृष्टगुदमेहनो गृहीतशिश्नश् चोत्तिष्ठेत् । तथा च भरद्वाजः ।

अथापकृष्य विण्मूत्रं लोष्टकाष्टतृणादिना ।
उदस्तवासा उत्तिष्ठेद् दृढं विधृतमेहनः ॥ इति ।

उदस्तवासा उत्क्षिप्तवाहाः । मेहनं लिङ्गम् । अत्र विशेषम् आह हारीतः ।

लोष्टेन परिमृज्यात् तु शुष्ककाष्ठेन वा गुदम् । इति ।

पुराणे ऽपि ।

मार्जनं वामहस्तेन वीरणाद्यैर् अयाज्ञियैः ।
कुर्यान् मूत्रपुरीषाणाम् एवम् आयुर् न हीयते ॥ इति ।

यत् तु गौतमेनोक्तम् - “न पर्णलोष्टाश्मभिर् मूत्रपुरीषापकर्षणं कुर्यात्” इति, तद् उक्तकाष्ठासंभवविषयम् इत्य् अनवद्यम् । अत्र जाबालिः ।

स्नानं कृत्वार्द्रवासास् तु विण्मूत्रं कुरुते यदि ।
प्राणायामत्रयं कृत्वा पुनः स्नानेन शुध्यति ॥

हारीतो ऽपि ।

आहारं तु रहः कुर्याद् विहारं चैव सर्वदा ।
सुप्ताभ्यां लक्ष्मीयुक्तः स्यात् प्राकाशे हीयते श्रिया ॥ इति ।

इति स्मृतिचन्द्रिकायां मूत्रपुरीषोत्सर्जनविधिः