१६

सप्तदशः सर्गः

विश्वास-प्रस्तुतिः

इदानीं तारकवधं चिकीर्षुस्तत्रभवान्कालिदासः सप्तदशतमं सर्गमारभते–
दृष्ट्वाभ्युपेतमथ (1)दैत्यपतिं पुरस्ता-
त्सङ्ग्रामकेलिकुतुकेन घन(2)प्रमोदम् ।
योद्धुं मदेन मिमिलुः ककुभामधीशा
बाणान्धकारितदिगम्बरगर्भमेत्य(3) ॥ 17.1 ॥
{1.तं च पतिम्.2.प्रसादम्.3.भक्तिम्.}

मूलम्

इदानीं तारकवधं चिकीर्षुस्तत्रभवान्कालिदासः सप्तदशतमं सर्गमारभते–
दृष्ट्वाभ्युपेतमथ (1)दैत्यपतिं पुरस्ता-
त्सङ्ग्रामकेलिकुतुकेन घन(2)प्रमोदम् ।
योद्धुं मदेन मिमिलुः ककुभामधीशा
बाणान्धकारितदिगम्बरगर्भमेत्य(3) ॥ 17.1 ॥
{1.तं च पतिम्.2.प्रसादम्.3.भक्तिम्.}

अन्वयः

अथ ककुभाम् अधीशाः संग्रामकेलिकुतुकेन घनप्रमोदं भाणाऽन्धकारितादिगम्बरगमंम् (तथा) अम्युपेतं दैत्यपतिं पुरस्तात् दृष्ट्वा योद्धुम् एत्य मदेन मिमिलुः ।

सीतारामः

दृष्ट्वेति । अथ तारकसंमुखगमनानन्तरम् । एते ककुभामधीशा इन्द्रादयोऽटौ दिक्पालाः । संग्रामः समरः स एव केलिः क्रीडा । न तु प्रयत्नसाध्यं कर्मेति भावः । तत्र यत्कुतुकं कौतूहलम् । तदनुभवहेतुक उत्साह इति यावत् । तेन घनः सान्द्रः बहल इति यावत् । यः प्रमोद आनन्दः स यस्य । तथा बाणैरन्धकारितः संजातान्धकारीकृतो दिशामम्बरस्य च गर्भः कुक्षिः । मध्य इति यावत् । येन । तथाभ्युपेतं संमुखमागतं दैत्यपतिं तारकं दृष्ट्वा विलोक्य योद्धुं संप्रहतुं मदेन गर्वेण । वीररसानुभावेनेति यावत् । मिमिलुः संयुयुजुः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम्– ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इति लक्षणात् ॥ 17.1 ॥

विश्वास-प्रस्तुतिः

देवद्विषां परिवृढो विकटं विहस्य
बाणावलीभि(4)रमरान्विकटान्ववर्ष ।
शैलानिव (5)प्रवरवारिधरलो गरिष्ठा-
नद्भिः पराभिरथ गाढमनारताभिः ॥ 17.2 ॥
{4.अभितः कुपितो ववर्ष.5.प्रबलवारिधरो गरिष्ठानम्भस्ततीभिः,प्रचुरवारिधरो गरिष्ठानम्भस्तनीभिः.}

मूलम्

देवद्विषां परिवृढो विकटं विहस्य
बाणावलीभि(4)रमरान्विकटान्ववर्ष ।
शैलानिव (5)प्रवरवारिधरलो गरिष्ठा-
नद्भिः पराभिरथ गाढमनारताभिः ॥ 17.2 ॥
{4.अभितः कुपितो ववर्ष.5.प्रबलवारिधरो गरिष्ठानम्भस्ततीभिः,प्रचुरवारिधरो गरिष्ठानम्भस्तनीभिः.}

अन्वयः

अथ देवद्विषां परिवृढ विकटं विहस्य प्रवरवारिधरः गरिष्ठान् शैलान् पराभिः अनारता भिः अद्भिः इव विव्यहान् अमरान् बाणावलीभिः गाढं ववर्ष ।

सीतारामः

देवेति । अथानन्तरं देवद्विषामसुराणां परिवृढो नायकस्तारको विकटं यथा स्यत्तथा । ‘वकटः सुन्दरे प्रोक्तो विशालविकरालयोः’ । इति विश्वः । विहस्य हसित्वा । अट्टाट्टहासं कृत्वेत्यर्थः । अट्टाट्टहासोऽत्र रुडभिव्यञ्जकः. न तु सुरसैन्यविषयिणोऽवहेलनस्य । तत्र शाङ्करैरधिष्ठितत्वात् । विहस्येत्यत्र वेर्व्यथंत्वं नाशङ्कनीयम् । विकटत्वेऽपि विशेषाधानात् । प्रवरः प्रकर्षेण श्रेष्ठः । वर्षाकालिक इति यावत् । स चासौ वारिधरो मेघो गरिष्ठानतिशयगुरुञ्शैलान् । उद्दिश्येति शेषः । पराभिरूत्कृष्टाभिरनारताभिर्निरन्तरं पतन्तीभिरद्भिर्जलैरिव विकटान्करालानमरानिन्द्रादिदेवान् । उद्दिश्येति शेषः । बाणावलीभिः शरपंक्तिभिः कृत्वा ववर्ष वृष्टिमकार्षीत् ॥ 17.2 ॥

विश्वास-प्रस्तुतिः

जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता
बाणाः शिताः(1) (2)दनुजनायकबाणसङ्घान् ।
अह्नाय तार्क्ष्यनिवहा इव नागपूगा-
न्सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥ 17.3 ॥
{1.शिताम्.2.असुरराजकबाण.}

मूलम्

जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता
बाणाः शिताः(1) (2)दनुजनायकबाणसङ्घान् ।
अह्नाय तार्क्ष्यनिवहा इव नागपूगा-
न्सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥ 17.3 ॥
{1.शिताम्.2.असुरराजकबाण.}

अन्वयः

दनुजनायकबाणसङ्घान् जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ताः शिताः बाणाः नागपूगान् अह्नाय तार्क्ष्यनिवहा इव रणाऽन्ते सद्यः अलं कणशः विचिच्छिदुः ।

सीतारामः

जम्भद्विषदिति । दनुजानां दैत्यानां नायकस्य स्वामिनस्तारकस्य सम्बन्धिनो बाणसङ्घाञ्शरसमूहान्कर्मभूतान् । जम्भद्विषत्प्रभृतयो महेन्द्रादयो ये दिक्पतयो दिगधिपास्तैः कर्तृभिः । चापेभ्यो मुक्ता विसृष्टाः शितास्तीक्ष्णा बाणाः शराः । नागपूगान्सपंव्रजान् । ‘नागः पन्नगमातङ्गक्रूरचारिषु तोयदे’ । इति । ‘पूगस्तुक्रमुके वृन्दे’ । इति च विश्वः । अह्नाय शीघ्रम् । ‘द्राग्झटित्यञ्जसाह्नाय’ इत्यमरः । तार्क्ष्यनिवहा गरुडसमूहा इव । ‘तार्क्ष्यं रसाञ्जने ताक्ष्यों गरुडे गरुडाग्रजे’ । इति विश्वः । रणान्ते संग्राममध्ये सद्यः सपद्यलमतिशयेन कणशो विचिच्छिदुर्बिभिदुः । कणश इति ‘बह्वल्पे-’ ति शस् ॥ 17.3 ॥

विश्वास-प्रस्तुतिः

(1)तान्प्रज्वलत्फलमुखैर्विषमैः(2) सुरारि-
नामाङ्कितैः पिहितदिग्गगनान्तरालैः ।
(3)आच्छादितस्तृणचयानिव (4)हव्यवाह-
श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः ॥ 17.4 ॥
{1.ते,तैः.2.विशिखैः सुरारिम्,समरेऽसुरारिम्.3.प्राच्छादयंस्तृणचयैस्वि.4.हव्यवाहम्.}

मूलम्

(1)तान्प्रज्वलत्फलमुखैर्विषमैः(2) सुरारि-
नामाङ्कितैः पिहितदिग्गगनान्तरालैः ।
(3)आच्छादितस्तृणचयानिव (4)हव्यवाह-
श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः ॥ 17.4 ॥
{1.ते,तैः.2.विशिखैः सुरारिम्,समरेऽसुरारिम्.3.प्राच्छादयंस्तृणचयैस्वि.4.हव्यवाहम्.}

अन्वयः

सः अपि प्रज्वलत्फलमुखैः विषमैः सुराऽरिनामाऽङ्कितैः पिहितदिग्गगनाऽन्तरालैः शरौघैः तान् सुरसैन्यशरान् आच्छादितः हव्यवाहः तृणचयान् इव चिच्छेद ।

सीतारामः

तानिति । सोऽपि तारकोऽपि प्रकर्षेण ज्वलन्ति दीप्यमानानि फलानां फलकानाम् । अयोनिर्मितपुरोभागानामिति यावत् । ‘फलं हेतुकृते जातीफले फलकसस्ययोः’ इति मेदिनी । मुखान्यप्राणि येषाम् । अथ ऐव विषमैर्दुःसहैः । तथा सुराऽरिनाम्ना तारक इति व्रगपाट्याङ्किवैपुंक्तैः । तथा पिहितमाच्छादितं दिशां गगनस्याम्बरस्य चान्तरालं मध्यं यैस्तयाभूतैः शरौघैर्बाणसङ्घैः कृत्वा तानद्विवीयान्सुरसैन्यस्य देवसैन्यस्य शरान् । आच्छादित उपर्यावृतो हव्यवाहोऽग्निस्तृणवयानिव धासराशीनिव । चिच्छेद ज्वालयति स्मेत्यर्थः । हव्यवाहस्य तृणवयमस्मीकरणे यावान्प्रयत्न उद्भवति तावानेव सुरशरभस्मसात्करणे । इत्यतोऽसुरबाणानां सामर्थ्यातिशयो ध्वन्यत इत्यलंकारेण वस्तुध्वनिः ॥ 17.4 ॥

विश्वास-प्रस्तुतिः

दैत्येश्वरो ज्वलितरोषविशेषभीमः
सद्यो मुमोच युधि यान्विशिखान्सहेलः(5) ।
ते प्रापुरुद्भटभुजङ्गमभीमभावं
(6)गाढं बबन्धुरपि तां(7)स्त्रिदशेन्द्रमुख्यान् ॥ 17.5 ॥
{5.सहेलम्.6.वाढम्.7.त्रिदिवेन्द्र.}

मूलम्

दैत्येश्वरो ज्वलितरोषविशेषभीमः
सद्यो मुमोच युधि यान्विशिखान्सहेलः(5) ।
ते प्रापुरुद्भटभुजङ्गमभीमभावं
(6)गाढं बबन्धुरपि तां(7)स्त्रिदशेन्द्रमुख्यान् ॥ 17.5 ॥
{5.सहेलम्.6.वाढम्.7.त्रिदिवेन्द्र.}

अन्वयः

ज्वलितरोषविशेषभीमः दैत्येश्वरः युधि सहेलः यान् विशिखान् मुमोच, ते सद्यः उद्भटभुजङ्गमभीमभावं प्रापुः । (अथ च) त्रिदशेन्द्रमुख्यान् तान् गाढं बबन्धुओः अपि ।

सीतारामः

दैत्येश्वर इति । ज्वलितः प्रदीप्तो यो रोषः क्रोधः । ‘कोपक्रोधामर्षरोषप्रतिघाः’ इत्यमरः । तस्य विशेष आधिक्यं तेन भीमो घोरो दैत्येश्वरस्तारकः । युधि युद्धविषये सहेलः किमेतद्युद्धमित्यनादरसहितः सन् । यान्विशखान्बाणान् । ‘विशिखो लोमश शरे’ इति विश्वः । मुमोच विससर्ज । तेशराः सद्यः सपद्युद्भटा विकटा ये भुजंगमाः सर्पाः, भीमा भयानकास्तदुभयभावं तदुभयत्वं प्रापुः । सत्यपि भुजंगमत्वे भीमत्वस्यैच्छिकत्वात्पृथग्व्यपदेशः । अथ च त्रिदशेन्द्रमुख्यानिन्द्रप्रभृतींस्तान्देवान्गाढं दृढं यथा तथा बबन्धुरपि । अपिरत्र प्राप्तिक्रियापेक्षया समुच्छयार्थः । ‘अपिः संभावनाप्रश्नशङ्कागर्हासमुच्चये’ । इति विश्वः । इन्द्रप्रभृतयो देवास्तारकोन्मुक्तनागपाशबद्धा बभूवुरित्यर्थः ॥ 17.5 ॥

विश्वास-प्रस्तुतिः

ते नागपाशविशिखैरसुरेण बद्धाः
(1)श्वासानिलाकुलमुखा विमुखा (2)रणस्य ।
दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
सूनोः समीपमगमन्विपदन्तहेतोः ॥ 17.6 ॥
{1.श्वासाकुल.2.रणान्तात्.}

मूलम्

ते नागपाशविशिखैरसुरेण बद्धाः
(1)श्वासानिलाकुलमुखा विमुखा (2)रणस्य ।
दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
सूनोः समीपमगमन्विपदन्तहेतोः ॥ 17.6 ॥
{1.श्वासाकुल.2.रणान्तात्.}

अन्वयः

असुरेण नागपाशविशिखैः बद्धाः श्वासाऽनिलाकुलमुखाः (अत एव) रणस्य विमुखाः बलरिपुप्रमुखाः दिङ्नायकाः विपदन्तहेतोः स्मराऽरिसूनोः समीपम् अगमन् ।

सीतारामः

त इति । असृरेण तारकेण नागपाशविशिखैर्नागपाशरुपबाणैः कृत्वा बद्धाः । अत एव श्वासानिलैर्निःश्वासपवनैराकुलानि व्यप्तानि मुखानि येषाम् । अथ एव रणस्य विमुखाः पराङ्मुखाः । भीतस्य च रणवैमुख्यं नानुचितमिति भावः बलरिपुप्रमुखा इन्द्रप्रभृतदयो दिङ्नायका अष्टदिगधिपाः कर्तारः विपदोऽन्तो नाशः स एव हेतुः कारणं तस्मात्स्मरारिसनोः कुमारस्य समीपं संनिधिमगमन्प्रापुः ॥ 17.6 ॥

विश्वास-प्रस्तुतिः

दृष्टिप्रपातवशतोऽपि पुरारिसूनो-
स्ते नागपाशघनबन्धविपत्तिदुःखात् ।
इन्द्रादयो मुमुचिरे स्वयमस्य देवाः
सेवां (1)व्यधुर्निकटमेत्य महाजिगीषोः ॥ 17.7 ॥
{1.व्यघुश्च पुनरेत्य.}

मूलम्

दृष्टिप्रपातवशतोऽपि पुरारिसूनो-
स्ते नागपाशघनबन्धविपत्तिदुःखात् ।
इन्द्रादयो मुमुचिरे स्वयमस्य देवाः
सेवां (1)व्यधुर्निकटमेत्य महाजिगीषोः ॥ 17.7 ॥
{1.व्यघुश्च पुनरेत्य.}

अन्वयः

ते इन्द्रादयः देवाः पुराऽरिसूनोः दृष्टिप्रपातवशतः अपि नागपाशघनबन्धविपत्तिदुःखात् मुमुचिरे (अथ) महाजिगीषोः स्वयं विकटम् एत्य सेवां व्यधुः ॥ 17.7 ॥

सीतारामः

दृष्टीति । त इन्द्रादयो देवाः पुरारिसूनोस्त्रिपुरशत्रुपुत्रस्य दृष्टिर्नेत्रम् । ‘स्त्रियां दृष्टिः स्त्रियां बुद्धो लोचने दर्शनेऽपि च’ इति विश्वः । तस्य प्रपातः पतनं तस्य वशतो वशेन प्रभुत्त्वेन । प्रभावेणेति यावत् । ‘वशं मिथ्याप्रभुत्वयोः’ इति विश्वः । नागपाशेन घनो दृढो बन्धो बन्धनमेव विपत्तिस्तेन यद्धुःखं ततस्तस्मान्मुमुचिरे मुक्ताः अथ च महाजिगीषोरस्य कुमारस्य स्वयमात्मना न तु परोक्षेण निकटं सांनिध्यमेत्यगत्य सेवां सेनवम् । स्तुतिमिति फलितोऽर्थः व्यधुश्चक्रुः ॥ 17.7 ॥

(2)उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु-
रह्नाय सारथिमवोचत चण्डबाहुः ।
बद्धा मया सुरपतिप्रमुखाः प्रसह्य
बालस्य धूर्जटिसुतस्य निरीक्षणेन ॥ 17.8 ॥
मुक्ता बभूवुरधुना तदिमान्विहाय
कर्तारम्यमुं (3)समरभूमिपशूपहारम् ।
तत्स्यन्दनं सपदि वाहय शंभुसूनुं
द्रष्टास्मि दर्पितभुजाबलमाहवाय ॥ 17.9 ॥
{2.उद्यत्प्रकोपदहनोऽथ सुरेन्द्रः शत्रुः,उद्दण्डकोपदहनोऽप्यसुरेनद्रसूनुः.3.अहम्.}
अथ युग्मेनाह–

अन्वयः

अथ उद्दीप्तकोपदहनः चण्डबाहुः सुरेन्द्रशत्रुः अह्नाय (भो सारथे !) मया प्रसह्य बद्धाः सुरपतिप्रमुखाः बालस्य धूर्जटिसुतस्य निरीक्षणेन मुक्ताः बभूवुः । तत् अधुना इमान् विहाय आहवाय दर्पितभुजाबलम् अमुं शम्मुसूनुं द्रष्टास्मि । (अथ च) समरभूमिं पशूपहारं कर्तास्मि तत् सपदि स्पन्दनं वाह्य इति सारथिम् अवोचत ॥ 17.8 - 17.9 ॥

सीतारामः

उद्दीप्तेति । मुक्ता इति च । अथ नागापाशविमोचनानन्तरम् । उद्दीप्तः प्रदीप्तः कोप एव दहनोऽग्निर्यस्य । तथा चण्डौ प्रचण्डौ बाहू यस्य । एवंभूतः सुरेन्द्रशात्रुस्तारकोऽह्नाय झटिति ‘भो सारथे’ मया प्रसह्य बलाद्वद्धा नागपाशवशीकृताः सुरपतिप्रमुखा इन्द्रादयो देवा बालस्य शिशोः, न तु यूनः धूर्जटिसुतस्य शिवपुत्रस्य निरोक्षणेन दर्शनमात्रेण, न तु प्रत्यस्त्रादिप्रयत्नेन, मुक्ता बभूवुः । अनेन शिशुनात्मनिराक्षणेनैव स्वपक्षवर्तिनो देवा मोचिता अतो महाधन्योऽयमिति भावः । तत्तस्मान्मदोवशत्रूणां पक्षवृत्तित्वेन कृतनागपाशमोवनरुपापराओधादिमान्पुरोवर्तिन इन्द्रादिदेवान्विहाय पिरत्यज्य । आहवाय । मया सहाहवं कर्तुपित्यर्थः । दर्पितमभिमानमूलकं भुजाबलं बाहुबलं बाहुवीर्य यस्य न तु तत्वतः, तथाभूतममुं पुरोवर्तिनं शम्भुसूनुं द्रष्टास्मि द्क्ष्यामि । लुट उतमैकवचनम् । अथ च समरभमौ संग्रामभुवि ये पशवो गृध्रादयस्तेषामुपहारमुपदारूपं कर्तास्मि करिष्यामि । प्रगवलोकितमेनमत्र हत्वा संङ्ग्रामभूमिस्थेभ्यो विहङ्गेभ्योऽत्तुं विभज्य दास्यामीत्यर्थः । तत्तस्मादेवंकार्यत्वात्सपदि सद्य एव स्यन्दनं रथं वाहय प्रापय । अवश्यकर्तव्ये विलम्बानौचित्यादिति भावः । इति सार्धैकपद्योक्तं सारथिमवोचत जगाद । ‘नियन्ता प्राजिता यन्ता सूतः क्षता च सारथिः’ इत्यमरः ॥ 17.8 - 17.9 ॥

विश्वास-प्रस्तुतिः

तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः
(1)प्रक्षुब्धवारिधरधीरगभीरघोषः ।
(2)चण्डश्चचाल दलिताखिलशत्रुसैन्य-
मांसास्थिशोणित(3)विपङ्कविलुप्तचक्रः ॥ 17.10 ॥
{1.प्रारब्ध.2.चण्डं.3.शोणितसुपङ्कविलुप्तवेगः,शोणितपङ्कविलुप्तचक्रः.}

मूलम्

तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः
(1)प्रक्षुब्धवारिधरधीरगभीरघोषः ।
(2)चण्डश्चचाल दलिताखिलशत्रुसैन्य-
मांसास्थिशोणित(3)विपङ्कविलुप्तचक्रः ॥ 17.10 ॥
{1.प्रारब्ध.2.चण्डं.3.शोणितसुपङ्कविलुप्तवेगः,शोणितपङ्कविलुप्तचक्रः.}

अन्वयः

प्रक्षुब्धवारिधरधीरगभीरषोषः (तथा) दलिताऽखिलशत्रुसैन्यमांसाऽस्थिशोणितविपङ्कविलुप्तचक्रः चण्डः तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः चचाल ।

सीतारामः

तत्स्यन्दन इति । प्रक्षुब्धः कोपाविष्टः । अनेन प्रलयकालीन इति व्यज्यते प्रायस्तत्रैव तस्य क्रोधाविष्टत्वदर्शनात् । यो वारिधरो मेधस्तस्य घोष इव धीरो गभीरो धनश्च घोषो यस्य तथोक्तः । तथा दलितं चूर्णीकृतमखिलं समस्तं यच्छत्रसैन्यं तस्य मांसमस्थीनि शोणितविपङ्को रुधिरकर्दमश्चेत्येतैर्विलुप्तानि चक्राणि चरणानि यस्य । अथ एव चण्डः प्रचण्डस्तत्स्यन्दनस्तारकरथः सपदि स्वामिनो।ञनुशासनक्षण एव न तु मुहूर्तमात्रं स्थित्वेति भावः । सारथिना संप्रणुन्नश्चलितुं नोदितः सन् चचाल ॥ 17.10 ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा रथं प्रलयवातचलद्गिरीनद्र-
कल्पं दलद्वलविराव(1)विशेषरौद्रम् ।
अभ्यागतं सुररिपोः सुरराजसैन्यं
क्षोभं जगाम परमं भयवेपमानम् ॥ 17.11 ॥
{1.विराम.}

मूलम्

दृष्ट्वा रथं प्रलयवातचलद्गिरीनद्र-
कल्पं दलद्वलविराव(1)विशेषरौद्रम् ।
अभ्यागतं सुररिपोः सुरराजसैन्यं
क्षोभं जगाम परमं भयवेपमानम् ॥ 17.11 ॥
{1.विराम.}

अन्वयः

प्रलयवातचलद्गिरीन्द्रकल्पं (तथा) दलाकालविरावविशेषरौद्रम् अभ्यागतं सुररिपोः रथं दृष्ट्वा भयवेपमानं सुरेराजसैन्यं परमं क्षोभं जगाम ।

सीतारामः

दृष्ट्वा । प्रलयवातेन युगान्तकालप्रभञ्जनेन चलतोड्डीयमानेन गिरीन्द्रकल्पं गिरीन्द्रेण हिमालयेनेषन्न्यूनम् । हिमालयौपम्यं धवलवसनवेष्टितत्वात् । ‘ईषदसमाप्तौ कल्पप्’ इति कल्पप्प्रत्ययः । तथा दलतामुपरि वेगपूर्वकवशाच्चूर्णीभवतं बलानां देवसैन्यानां यो विरावो हाहाहाहेति रुदितं तेन कृत्वा विशेषरौद्रमतिशयभयानकमात्मीयघोरारवरौद्रत्वाश्रयीभूत्वेऽप्यतिजवप्रपतनचूर्णीकृतसकलसुरसैन्यविहितमहाघोरविरावधारणाजनितरौद्रत्वधारणानुकूलव्यापाराश्रयीभूतमित्यर्थः । तथाभ्यागतं संमुखमागतं सुररिपोस्तारकस्य रथं दृष्ट्वा भयेन वेपमानं कम्पमानं सुरराजस्य महेन्द्रस्य सैन्यं सेनाजसमूहः कर्तृ । परममतुलं क्षोभं व्यथां जगाम प्राप । तदीयरथावलोकनादेव क्षोभप्राप्तिः किं पुनस्तदीयाकृतिविलोकनादिति भावः ॥ 17.11 ॥

विश्वास-प्रस्तुतिः

प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं
शंभोः सुतं (2)कलहकेलिकुतूहलोत्कम् ।
उद्दामदोःकलितकार्मुकदण्डचण्डः
प्रोवाच वाचमुपगम्य स कार्त्तिकेयम् ॥ 17.12 ॥
{2.शम्भुतान्तव शिशो.}

मूलम्

प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं
शंभोः सुतं (2)कलहकेलिकुतूहलोत्कम् ।
उद्दामदोःकलितकार्मुकदण्डचण्डः
प्रोवाच वाचमुपगम्य स कार्त्तिकेयम् ॥ 17.12 ॥
{2.शम्भुतान्तव शिशो.}

अन्वयः

स दिगीशसैन्यं प्रक्षुभ्यमाणम् अवलोक्य उद्दामदोःकलितकार्मुक दण्डचण्डः कलहकेलिकुतूहलोत्कं शम्भोः सुतं कार्त्तिकेयम् उपगम्य वाचं प्रोवाच ।

सीतारामः

प्रक्षुभ्यमाणमिति । स तारको दिगीशसैन्यं देवसैन्यं प्रकर्षेण क्षुभ्यमाणं क्षोभं प्राप्नुवत् । विभ्यदिति यावत् । क्षुभ्यतेर्दैवादिकत्वं तदाकृतिगणत्वाद्धोध्यम् । तथाभूतमवलोक्य दृष्ट्वोद्दामदोरुद्भटयोर्दोष्णोर्बाह्वोः कलितेन निहितेन कार्मुकरुपदण्डेन चण्डः सन् । कलहः संग्रामरुपो विग्रहः स एव केलिः, न तु प्रयत्नसाध्यं कर्म, तत्र यत्कुतूहलं तत्रोत्कम् । तदभिलाषुकमित्यर्थः । तथा शंभोः शिवस्य सुतं पुत्रम् । अनेन तारकवीररसस्यानुभाव उक्तः । कार्त्तिकेयं कुमारमुपगम्य समीपं गत्वा वाचं प्रोवाचावोचत् ॥ 17.12 ॥

विश्वास-प्रस्तुतिः

इतः परम् ‘रे’ इत्यादिभिस्त्रिभिः श्लोकैर्वाचमेव प्रपञ्चयति -
रे (1)शंभुतापसशिशो ! बत मुञ्च मुञ्च
दोर्दर्पमत्र(2) विरम (3)त्रिदिवेन्द्रकार्यात् ।
(4)शस्त्रैः किमत्र भवतोऽनुचितै(5)रतीव
(6)बालत्वकोमलभुजातुलभारभूतैः ॥ 17.13 ॥
{1.शम्भुतान्तव शिशौ.2.दोहृद्यम्.3.त्रिदिवेश.4.शश्वत्.5.असारैः,चरित्रैः.6.बालत्वकोमलभुजाक्लमभारभूतैः,बालाब्जकोमलभुजाक्रमभीरुभूतैः.}

मूलम्

इतः परम् ‘रे’ इत्यादिभिस्त्रिभिः श्लोकैर्वाचमेव प्रपञ्चयति -
रे (1)शंभुतापसशिशो ! बत मुञ्च मुञ्च
दोर्दर्पमत्र(2) विरम (3)त्रिदिवेन्द्रकार्यात् ।
(4)शस्त्रैः किमत्र भवतोऽनुचितै(5)रतीव
(6)बालत्वकोमलभुजातुलभारभूतैः ॥ 17.13 ॥
{1.शम्भुतान्तव शिशौ.2.दोहृद्यम्.3.त्रिदिवेश.4.शश्वत्.5.असारैः,चरित्रैः.6.बालत्वकोमलभुजाक्लमभारभूतैः,बालाब्जकोमलभुजाक्रमभीरुभूतैः.}

अन्वयः

रे शम्भुतापसशिशो ! अत्र दोर्दर्प मुञ्च मुञ्च (अथ च) त्रिदिवेन्द्रकार्यात् विरम । अतीव बालत्वकोमलभुजाऽतुलभारभूतैः अत्र भवतः अनुचितैः शस्त्रैः किम् ?

सीतारामः

रे इति । रे इति नीचोक्तिसंबोधने । भोः शंभुतापसशिशो शंभुः शिवः स एव तापसस्तपस्त्री । अनेन महाकृपणत्वं व्यज्यते । तस्य शिशो ! कौमारवस्थानुभवरासक, अत्र मयि विषये । विधीयमानमिति शेषः । दोर्दर्प भुजदण्डगतवीर्यहेतुकमभिमानम् । ‘दर्पोऽहंकारकस्तूर्योः’ इति विश्वः । मुञ्च मुञ्च, सर्वथैव मुञ्चेत्यर्थः । अथ च त्रिदिवेन्द्रकार्यान्मदीयवधरुपमहेन्द्रविधेयाद्विरमम् । अनुद्युक्तो भवेत्यर्थः । ‘व्याङ्परिभ्यो रमः’ इति परस्मैपद । नन्वनेकसाधनकर्माश्रयीभूतत्वेन त्वदीयवधं चिकीर्षुरहं कथं विरमामीत्याशङ्क्य न हि तव साधनानि मयि विषये परिपक्वि माणि भवि ष्यन्तीत्याह-अतीव बालस्य भवतः सबन्धिनोः कोमलभुजबोर्बालत्वादतिशयपेलवबाह्वोरतुलं बहुभारभूतैः । दुर्वहैरित्यर्थः । अथ एवात्र मय्यनुचितै रयोग्यैः शस्त्रै कृपाणप्रभृतिभिः किम् अपि तु न किमपीति भावः ॥ 17.13 ॥

विश्वास-प्रस्तुतिः

(4)एवं त्वमेव(5) तनयोऽसि गिरीशगौर्योः
किं यासि कालिविषयं विषमैः शरैर्मे ।
(6)सङ्ग्रामतोऽपसर जीव पितुर्जनन्या
(7)स्तूर्ण प्रविश्य वरमङ्कतलं विधेहि ॥ 17.14 ॥
{4.एकः.5.एकतनयः.6.तत्रासनः.7.पूर्णम्.}

मूलम्

(4)एवं त्वमेव(5) तनयोऽसि गिरीशगौर्योः
किं यासि कालिविषयं विषमैः शरैर्मे ।
(6)सङ्ग्रामतोऽपसर जीव पितुर्जनन्या
(7)स्तूर्ण प्रविश्य वरमङ्कतलं विधेहि ॥ 17.14 ॥
{4.एकः.5.एकतनयः.6.तत्रासनः.7.पूर्णम्.}

अन्वयः

(रे शिशो !) एवं विषमैः मे शरैः कालिविषयं किं यासि ? (यतः) किरीशगौर्योः त्वम् एव तनयः असिं । (रे शिशो! संग्रामतः) अपसर, जीव । पितुः जनन्या अङ्कतलं तूर्ण प्रविश्य वरं विधेहि ।

सीतारामः

एवमिति । रे शिशो, एवं नाम मद्विषयको यो दोर्दर्पस्तस्याङ्गीकारे रसिकः । त्वमिति शेषः । ‘एवं प्रकारोपमयोरङ्गीकारावधारणे’ इति विश्वः । विषमैदुःसहैर्मे मम शरैर्बाणैः कृत्वा कालविषयं दण्डधरदेशं संयमिनीं पुरीमित्यर्थः । किं किमर्थं यासि प्राप्नोषि । ‘नीवृज्जनपदो देशविषयौ तूपवर्तनम्’ इत्यमरः । ननु कालिविषयप्राप्तौ कैव नः खलु वीराणां हानिरित्याशङ्क्याह-यतो गिरीशगौर्योः शिवपार्वत्योः । अत्र गिरीशस्याभ्यर्हितत्वाद्वह्वचोऽपि पूर्वनिपातः । त्वमेव तनयोऽसि पुत्रोऽसि । अथ कृच्छ्रलब्धैकपुत्रस्य वृद्धस्य तनयकर्मककालविषयप्राप्तिरतिदुःखावहा भवतीति भावः । एतेन मया सह भवता न कदापि योद्धव्यमिति व्यज्यते । तर्हि किं कर्तव्यं मयेत्यत्राह-संग्रामत इति । रे शिशो! संग्रामतः समरसकाशादपसर पलायस्व । मदर्गे मा तिष्ठेत्यर्थः । अथ एव जीव प्राणान्धरस्व । इथः पलायनमेव तव परमे जीवातुरिति भावः । ननु पलायनपूर्वकजीवनेन कः पुरुषार्धो भविष्यतीत्यत आह-पितुरिति । पितुर्जनकस्य । तथा जनन्या मातुश्च । अङ्कतलमुत्सङ्गतलं तूर्ण शीघ्रं प्रविश्योपविश्य वरं श्रेष्ठम् । कृतार्थमिति यावत् । विधेहि कुरु । पुत्रस्यायमेव परमो धर्मः, यन्मातापित्रोर्येन केनापि सद्व्यपारेण चित्तस्य परितोषकृत्याश्रयो भवति । कथं संग्रामतः पलायनं सद्व्यापारपदवाच्यमित्यस्याः शङ्कायाः पूर्वश्लोके तापसपदेन निवर्तितत्वात् ॥ 17.14 ॥

विश्वास-प्रस्तुतिः

सम्यक्स्वयं किल विमृश्य गिरीशपुत्र !
जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु ।
एष स्वयं पयसि मज्जति (1)दुर्विगाह्ये
पाषाणनौरिव निमञ्जयते पुरा त्वाम् ॥ 17.15 ॥
{1.दुर्विगाहे,दुर्हिगाढे.}

मूलम्

सम्यक्स्वयं किल विमृश्य गिरीशपुत्र !
जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु ।
एष स्वयं पयसि मज्जति (1)दुर्विगाह्ये
पाषाणनौरिव निमञ्जयते पुरा त्वाम् ॥ 17.15 ॥
{1.दुर्विगाहे,दुर्हिगाढे.}

अन्वयः

हे गिरीशपुत्र ! (त्वम्) सम्यक् विमृश्य अस्य जभ्यद्विषः प्रतिपक्षं (माम्) स्वयं किल आशु जहिहि । (रे शिशो !) एषः पुरा दुर्बिगाह्ये पयसि पाषाणनौः इव स्वयं मज्जति, त्वां च विमज्जयते ।

सीतारामः

सम्यगिति । भो गिरीशपुत्र शिवपुत्र ! त्वं सम्यक्साधु यथा स्यात्तथा विमृश्य विचार्य । साधुविचारणमत्रोदर्कविचारणम् । तत्कृत्वास्य पुरोवर्तिनो जम्भद्विष इन्द्रस्य प्रतिपक्षं मां स्वयं किलात्मनैव, न तु परोक्षेण । प्रयोज्यकर्त्रेति यावत् । आशु सत्वरं जहिहि नाशय । साधु विचार्यैव मदीयहननकृत्याश्रयो भव । ‘सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृस्यकारिणं गुणलुब्धाः स्वयमेव संपदः ।’ न्यायादिति भावः । प्रस्तुतेर्विमृश्य करणेन कैव विपत्तिरित्याशङ्क्याह– एष इति । रे शिशो, एष जम्भद्विट् पुरोऽग्रे दुःखेन कृच्छ्रेण विगाह्य उत्तार्य पयसि नीरे । मदीयनाराचवर्षणरुप इत्यर्थः । पाषाणनौरिव प्रस्तरतरिरिव स्वयं मज्जति मङ्क्ष्यति । त्वां च निमज्जयते । निमज्जयिष्यत इत्यर्थः । ‘यावत्पुरे-’ ति भविष्यदर्थे लट् । यथा पाषाणघटिता नौका पयः- पतिता मज्जति, आत्मोपर्यारुढांश्च निमज्जयति । स्वात्माश्रयीभूतं त्वामपि तत्र पातयिष्यतीति वाच्यार्थः । अथ आत्मजीवनाभिलाषुकत्वपक्ष एतदाश्रयीभूतत्वं विहाय वृद्धयोर्मातापुत्रोः समीपमेव गन्तव्यम् । तेनेहामुत्र च महान्ति श्रैयांसि भविष्यन्तीति व्यङ्ग्यार्थः । तेनात्रालङ्कारेण वस्तुध्वनिः ॥ 17.15 ॥

विश्वास-प्रस्तुतिः

इत्थं निशम्य वचनं युधि तारकश्च
कम्प्राधरो विकचकोकनदारुणाक्षः ।
(1)क्षोभात्त्रिलोचनसुतो धनुरीक्षमाणः
प्रोवाच वाचमुचितां (2)परिमृश्च शक्तिम् ॥ 17.16 ॥
{1.कोपात्.2.परिमृज्य.}

मूलम्

इत्थं निशम्य वचनं युधि तारकश्च
कम्प्राधरो विकचकोकनदारुणाक्षः ।
(1)क्षोभात्त्रिलोचनसुतो धनुरीक्षमाणः
प्रोवाच वाचमुचितां (2)परिमृश्च शक्तिम् ॥ 17.16 ॥
{1.कोपात्.2.परिमृज्य.}

अन्वयः

युधि तारकस्य इत्थं वचनं निशम्य क्षोभात् कम्प्राऽधरः विकचकोकनदाऽरुणाक्षः त्रिलोचनसुतः शक्तिं परिमृश्य धनुः ईक्षमाणः (सन्) उचितां वाचं प्रवोच ।

सीतारामः

इत्थमिति । युधि संग्रामे स्थितस्य तारकस्य संबन्धीत्थमेवंभूतं वचनं निशम्य श्रुत्वा क्षोभात्क्रोधाद्धोतोः कम्प्रः कम्पनशीळोऽधरोऽधरोष्ठो यस्य । क्रोधवशादधरविस्फुरणं लोकप्रसिद्धमेव । तथा विकचकोकनदवद्विलसद्रक्तोत्पलवदरुणे शोणिते अक्षिणी नेत्रे यस्य । क्रोधवशादरुणनेत्रत्वमपि प्रसिद्धमेव । एवंभूतस्त्रिलोचनसुतः कुमारः शक्तिमात्मीयवीर्यवैभवं परिमृश्य तुलयित्वा । मदीयवीर्यापेक्षया किमेतदीयवीर्यमित्यनादरपूर्वकमात्मीयशक्तेराधिक्यं परामृश्येत्यर्थः । धनुरीक्षमाणः पश्यन्सन् । अनेन त्वां क्षणादेव निहन्मि, सावधानो भव, मदीयैतद्धनुरग्रे कुतो यास्तसीति व्यज्यते । तेन वस्तुना वस्तुध्वनिः । उचितां योग्यां वाचं वचनं प्रोवाच प्रोचे ॥ 17.16 ॥

विश्वास-प्रस्तुतिः

दैत्याधिराज भवता (1)यदवादि गर्वा-
त्तत्सर्वमप्युचितमेव तवैव किं तु ।
द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठं
शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ 17.17 ॥
{1.यदवोचि.}

मूलम्

दैत्याधिराज भवता (1)यदवादि गर्वा-
त्तत्सर्वमप्युचितमेव तवैव किं तु ।
द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठं
शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ 17.17 ॥
{1.यदवोचि.}

अन्वयः

हे दैत्याऽधिराज ! भवना गर्वात् यत् अवादि, तत् सर्वम् अपि तव उचितम् एव । किन्तु वरिष्ठं ते प्रवरबाहुबलं द्रष्टास्मि । (अतः) शस्त्रं गुहाण, कार्मुकम् आततज्यं कुरु ।

सीतारामः

दैत्त्येति । भो दैत्यानामधिराज तारकसंज्ञक महाराज ! भवता त्वया गर्वाद्धेतोर्यदवादि ‘रे शंभुतापस-’ (13) इत्यादिना युदुक्तं तत्सर्वमपि तवोचितमेव योग्यमेव । अभिमानिनो महाराजस्य तव बालत्वाद्वराकीभूतमदवज्ञा योग्यैव । ननु मदुक्त्यौचित्याज्ञानवतस्तत्र कथमर्य संग्रामकरणसमारम्भ इति चेत्तत्राह-किं त्विति । किंतु वरिष्ठमतिशयश्रेष्ठं ते त्वत्संबन्धिप्रवरौ प्रकृष्टश्रेष्ठौ यौ बाहू भुजौ तयोर्बलं वीर्यमेव द्रष्टास्मि द्रक्ष्यामि । त्वदीयपराजयं कृत्वा मदीयो विजयः स्यादित्यभिलाषे न मम तात्पर्यम्, किंतु लोकारोप्यमाणवीरताश्रयीभूतेन मया त्वदीयवीरतावलोकनमेव युद्धकरणे तात्पर्यम् । वस्तुतस्तु मयि वीरत्वासम्भवात्त्वया सह युद्धकरणानौचित्येऽपि तत्र प्रवृत्तिः केवलं बालत्वजनितबालिशत्वमेवोद्भावयति । अथोऽपि भवता क्षन्तव्यम् । ‘जनक इव शिशुत्वेऽसुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः’ इत्यादिन्यायादिति भावः । अतो युद्धकरणपक्षे शस्त्रं कृपाणादिकं गृहाणादत्स्व । कार्मुकं धनुराततज्यं विस्तृतमौर्वीकं कुरु । युद्धार्थं शस्त्रसंधानेन सज्जो भवेति वाच्यार्थः ॥ 17.17 ॥

विश्वास-प्रस्तुतिः

इत्युक्तवन्तमवदत्त्रिपुरारिपुत्रं
दैत्यः क्रुधौष्ठमधरं किल निर्विभिद्य(1) ।
युद्धार्थमुद्भट(2)भुजाबलदर्पितोऽसि
बाणान्सहस्व मम (3)सादितशत्रुपृष्ठान् ॥ 17.18 ॥
{1.निर्विभुज्य.2.भुजावलिदर्पितः.3.शातितशत्रुपृष्ठान्,शोणितरक्तपृष्ठान्.}

मूलम्

इत्युक्तवन्तमवदत्त्रिपुरारिपुत्रं
दैत्यः क्रुधौष्ठमधरं किल निर्विभिद्य(1) ।
युद्धार्थमुद्भट(2)भुजाबलदर्पितोऽसि
बाणान्सहस्व मम (3)सादितशत्रुपृष्ठान् ॥ 17.18 ॥
{1.निर्विभुज्य.2.भुजावलिदर्पितः.3.शातितशत्रुपृष्ठान्,शोणितरक्तपृष्ठान्.}

अन्वयः

इति उक्तवन्तं त्रिपुराऽरिपुत्रं दैत्यः क्रुधा अधरम् ओष्ठम् निर्विभिद्य (रे बाल !) सादितशत्रुपृष्ठान् मम बाणान् सहस्व । (यतः त्वम्) युद्धाऽर्थम् उद्भटभुजाबलदर्पितः असि (इति) अवदत् ।

सीतारामः

इतीति । इत्युक्तवन्तं निगदितवन्तं त्रिपुरारिपुत्रं कुमारं कर्म । दैत्यस्तारकः क्रुधा निमित्तेनाधरं नीचैरोष्ठम् । अधरोष्ठमित्यर्थः । निर्विभिद्य दन्तैश्चर्वयित्वा रे बाल, सादितं विभिन्नम् शत्रुपृष्ठं यैर्न तु मुखम् । मदीयबाणानां तदुद्देशेनाभिगच्छतां प्रहृतिसहनासमर्थतया पलायमानत्वात् । एवंभूतान्मम बाणान्सहस्व । अपि तु त्वया न सहिष्यन्ते इति ध्वन्यते । ननु बालत्वात्कथमहं सहे इत्याह–यतस्त्वं युद्धार्थ युद्धकरणायोद्भटे विपरीतलक्षणयानुद्भटे ये भुजे बाहू तयोर्बलं वार्य तेन दर्पितोऽसि संजातगर्वोऽसि । विपरीतलक्षणापन्नभुरजानुद्भटत्वमेव न सहिष्यन्त इति व्यङ्ग्येहेतुः । अतो मया सह कथंचिदपि त्वयान योद्धव्यमिति फलितोऽर्थः । ‘द्वौ परौ द्वयोः । भुज बाहू’ इत्यमरः ॥ 17.18 ॥

विश्वास-प्रस्तुतिः

दुष्प्रेक्षणीयमरिभिर्धनुरातज्यं
सद्यो विधाय विषमान्विशिखान्न्यधत्त ।
स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
(4)चण्डं प्रपञ्चयति जैत्रशरैः कुमारे ॥ 17.19 ॥
{4.चण्डं प्रपञ्चयति जैत्रशरे,चण्डयभं यशसि जैत्रशरं कुमारः,कुमारे.}

मूलम्

दुष्प्रेक्षणीयमरिभिर्धनुरातज्यं
सद्यो विधाय विषमान्विशिखान्न्यधत्त ।
स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
(4)चण्डं प्रपञ्चयति जैत्रशरैः कुमारे ॥ 17.19 ॥
{4.चण्डं प्रपञ्चयति जैत्रशरे,चण्डयभं यशसि जैत्रशरं कुमारः,कुमारे.}

अन्वयः

स कुमारे क्रोधभीमभुजगेन्द्रनिमं चण्डं स्वचापं जैवशरैः प्रपञ्चयति (सति) अरिभिः दुष्प्रेक्षणीयं धनुः सद्यः आततज्यं विषमान् विशिखान् न्यधत्त ।

सीतारामः

दुरिति । स तारकः कुमारे क्रोधेन भीमो यो भुजगेन्द्रस्तेन निभं सदृशम् अत एव चण्डं प्रचण्डं स्वचापमात्मधनुर्जैत्रशरैर्जयसाधनबाणैः प्रपञ्चयति संदघति सति । अरिभिर्वैरिभिदुष्प्रेक्षणीयं दुरवलीकनीयं धनुः सद्यः सः सपद्याततज्यं विस्तृतप्रत्यञ्चं विधाय कृत्वा विपमानतितीक्ष्णान्विशिखान्बाणान्न्यधन निदधे । कुमारं सज्जमवलोक्य स्वयमपि तथाभूदिति भावः ॥ 17.19 ॥

विश्वास-प्रस्तुतिः

कर्णान्तमेत्य दितिजेन विकृष्यमाणं
(1)कोदण्डमेतदभित (2)सुषुवे शरौघान् ।
व्योमाङ्गणे लिपिकरान्कि(3) रणप्ररोहैः
(4)सान्द्रैरशेषककुभां (5)पलितं करिष्णून् ॥ 17.20 ॥
{1.कोदण्डदण्डम्.2.शुशुभे.3.स्वकरप्रहासान्.4.अग्नै.5.पतिवत्करिष्यत्.}

मूलम्

कर्णान्तमेत्य दितिजेन विकृष्यमाणं
(1)कोदण्डमेतदभित (2)सुषुवे शरौघान् ।
व्योमाङ्गणे लिपिकरान्कि(3) रणप्ररोहैः
(4)सान्द्रैरशेषककुभां (5)पलितं करिष्णून् ॥ 17.20 ॥
{1.कोदण्डदण्डम्.2.शुशुभे.3.स्वकरप्रहासान्.4.अग्नै.5.पतिवत्करिष्यत्.}

अन्वयः

दितिजेन कर्णान्तम् एत्य विकृष्यमाणम् एतत् कोदण्डं सान्द्रैः किरणप्ररोहैः व्योमाङ्गणे लिपिकरान् (तथा) अशेषककुभा पलितं करिष्णून् शरौघान् अभितः सुषुवे ।

सीतारामः

कर्णान्तमिति । दितिजेन तारकेण कर्णान्तं श्रवणप्रान्तमेत्य प्रापय्य । अन्तर्भावितणिजर्थः । आकर्णान्तमित्यर्थः । विकृष्यमाणं विस्तार्यमाणमेतत्कोदण्डं धनुः सान्द्रैः सघनैः किरणप्रोहैर्मयूखाङ्कुरैः कुत्वा व्योमाङ्गण आकाशचत्वरे लिपिकरांल्लेपनकर्तृन् । तथा अशेषककुभां समस्तदिशां सम्बन्धि पलितंकरिष्णूञ्जराजनितशैक्ल्यं कर्तु शीलं येषाम् । ‘अलंकृञ्-’ इत्यादिना खिष्णुच् । एवंभूताञ्शरौघान्बाणंसंघानभितः सर्वतः सुषुवे प्रासूत । कुमारोद्देशेन तारकनिःक्षिप्तविशिखसमूहैर्व्योभदिशश्च व्याप्ता बभूवुरित्यर्थः । अनेन वाच्यार्थेन मदीयविशिखनिचयव्याप्यमानोऽयं बाल इतिकर्तव्यताहीनः सन्नन्तरेव निरुद्धश्वासतया प्रयत्नमन्तरैव मरिष्यति किं पुनरायोधनप्रयत्नेनेति व्यङ्क्यार्थस्य प्रतीयमानत्वाद् गम्योत्प्रेक्षोत्थापिततद्गुणालङ्कारेण वस्तुध्वनिः ॥ 17.20 ॥

विश्वास-प्रस्तुतिः

बाणैः सुरारिधनुषः प्रसृतैरनन्तै-
र्निर्धोषभीषितभटो(1) लसदंशुजालैः ।
अन्धीकृताखिलसुरेश्वरसैन्य(2) ईश-
सूनुः कुतोऽपि विषयं न जगाम दृष्टेः ॥ 17.21 ॥
{1.भटैः.2.सैन्यकोऽसौ छन्नाकृतिः सः,सैन्यकैः स छन्नः कुतोपि.}

मूलम्

बाणैः सुरारिधनुषः प्रसृतैरनन्तै-
र्निर्धोषभीषितभटो(1) लसदंशुजालैः ।
अन्धीकृताखिलसुरेश्वरसैन्य(2) ईश-
सूनुः कुतोऽपि विषयं न जगाम दृष्टेः ॥ 17.21 ॥
{1.भटैः.2.सैन्यकोऽसौ छन्नाकृतिः सः,सैन्यकैः स छन्नः कुतोपि.}

अन्वयः

सुराऽरिधनुषः प्रसृतैः अनन्तैः लसदंशुजालैः बाणैः अन्धीकृताऽखलसुरेश्वरसैन्ये निर्धोषभीषितभटः ईशसूनुः कुतः अपि दृष्टेः विषयं न जगाम ।

सीतारामः

बाणैरिति सुरारेस्तारकस्य धनुषः कार्मुकसकाशात्प्रसृतैः निःसृतैरिति फलितोऽर्थः । तथानन्तैरपारैः । असंख्यैरिति यावत् । लसद्दीप्यदंशुजालं किरणजालं येषाम् अनेन सोल्का बाणा निःक्षिप्ता इति व्यज्यते । तथाभूतैर्बाणैः कर्तृभिः । अन्धीकृतं सर्वत आच्छादितत्वात्प्रतिरिद्धविलोचनीकृतसकलजनम् । अशिलं सर्वं यत्सुरेश्वरसैन्यमिन्द्रसैन्यं तत्र मध्ये । ‘यतश्च निर्धारणम्’ इति सप्तमी । निर्धोषेण निर्ह्रादेन भीषिता भयं प्रापिता भटा योधास्तारकपक्षवर्तिनो येन एवंभूत ईशसूनुः कुमारः कुतोऽपि कुत्राऽपि । सप्तम्यर्थे तसिः दृष्टेर्विषयं गोचरं न जगाम । तारकपरिक्षिप्तशितशतशरगणैः सर्वत आच्छादितत्वात्कुत्रासौ कुमारो गत इति चिन्तयतां सैनिकानां दृगिन्द्रियग्रहणविषयतासम्बन्धावच्छिन्नकोटिगणनाबहिर्भूतोऽभूदिति भावः । ‘विषयो गोचरे देशे’ इति मेदिनो ॥ 17.21 ॥

विश्वास-प्रस्तुतिः

देवेन मन्मथरिपोस्तनयेन गाढ-
माकर्णकृष्टमभितो धनुराततज्यम् ।
बाणानसूत निशितान्युधि(3) यान्सुजैत्रां(4)-
स्तैः सायका (5)बिभिदिरे सहसा सुरारेः ॥ 17.22 ॥
{3.विविधान्.4.विजैत्रैः,विजैत्रान्.5.विविदिरे.}

मूलम्

देवेन मन्मथरिपोस्तनयेन गाढ-
माकर्णकृष्टमभितो धनुराततज्यम् ।
बाणानसूत निशितान्युधि(3) यान्सुजैत्रां(4)-
स्तैः सायका (5)बिभिदिरे सहसा सुरारेः ॥ 17.22 ॥
{3.विविधान्.4.विजैत्रैः,विजैत्रान्.5.विविदिरे.}

अन्वयः

मन्मथरिपोः तनयेन देवेन गाढम् आकर्णकृष्टम् आततज्यं धनुः युधि अभितः सुजैत्रान् निशितान् यान् बाणान् असूत, तैः सुराऽरेः सायकाः सहसा विभिदिरे ।

सीतारामः

देवेनेति । मन्मथरिपोः शिवस्य तनयेन पुत्ररुपेण देवेन कुमारेण गाढं दृढं यथा तथा कर्णकृष्टं कर्णं मर्यादीकृत्य कृष्टमाकृष्टम् । तथाततज्यं विस्तृतमौर्वीकं धनुः कर्तृ । युध्यायोधनेऽभितः सर्वतः जैत्राञ्जयनशीलान्निशितांस्तीक्ष्णान्बाणानसूत । कुमाराकृष्टाद्धनुषः सकाशान्निशिता ये बाणा निःसृता इत्यर्थः । तैर्बणैः कतृभिः । सुरारेस्तारकस्य सायका बाणाबिभिदिरे भिन्नाः । कर्मणि लुट् । अनेन वाच्येन यथा यामिनीनामन्धतमसमम्बरमणिकिरणसमूहेन दूरीक्रियते, तथा कुमारनिक्षिप्तप्रज्वलद्धोरायमाणसायकनिकरेण तारकनिक्षिप्तसायकजनितमन्धतमसंनिराकृतमित्युपमा व्यज्यते । अतोऽत्र वस्तुनालंकारध्वनिः ॥ 17.22 ॥

विश्वास-प्रस्तुतिः

रेजे सुरारिशरदुर्दिनके निरस्ते
(1)सद्यस्तरां निखिलखेतचरखेद(2)हेतौ ।
देवः(3) प्रभाप्रभुरिव स्मरशत्रुसूनुः
प्रद्योतनः सुघनदुर्धरधामधामा(4) ॥ 17.23 ॥
{1.सद्यः स्वयम्.2.खिन्नदेहे.3.देवप्रभोः प्रभुः.4.धाम.}

मूलम्

रेजे सुरारिशरदुर्दिनके निरस्ते
(1)सद्यस्तरां निखिलखेतचरखेद(2)हेतौ ।
देवः(3) प्रभाप्रभुरिव स्मरशत्रुसूनुः
प्रद्योतनः सुघनदुर्धरधामधामा(4) ॥ 17.23 ॥
{1.सद्यः स्वयम्.2.खिन्नदेहे.3.देवप्रभोः प्रभुः.4.धाम.}

अन्वयः

निशिलखेचरखेदहेतौ सुराऽरिशरदुर्दिनके सद्यस्तरां निरस्ते (सति) सुघनदुर्धरधामधामा प्रद्योतनः स्मरशत्रुसूनुः प्रभाप्रभुः देवः इव रेजे ।

सीतारामः

रेज इति । निखिलाः समस्ता ये खेचराः सूर्यादयस्तेषां खेदस्य शरीरसंबन्धजनितदहनहेतुकदुःखस्य हेतौ निदाने सुरारेस्तारकस्य शरास्तैर्यद्दुनकं मेघच्छन्नदिवसस्तस्मिन्सद्यस्तरामतिसत्वंरं निरस्ते दूरीकृते सति । सुतरां घनं सान्द्रं दुर्धरं दुर्द्धर्षणीयम् । दुःसहमिति यावत् । तथभूतं यद्धाम तेजस्तस्य धाम स्थानम् । अत एव प्रकर्षेण द्योतते शोभते । कर्तरि ल्युट् । अथवा नन्द्यादित्वाल्ल्युः । तथाभूतः स्मरशत्रुसूनुः कुमारः । प्रभायाः कान्त्याः प्रभुर्देवः सूर्य इव । रेजे बभौ । यथा मेघजनितदुर्दिनोन्मुक्तोऽम्बरमणिः शोभते, तथा तारकविकीर्णसायकजनितदुर्दिनोन्मुच्यमानोन्मुच्यमानोऽसौ कुमारो रराजेत्यर्थः ॥ 17.23 ॥

विश्वास-प्रस्तुतिः

तत्राथ दु सहतरं समरे (1)तरस्वी
(2)धामाधिकं दधति धीरतरं कुमारे ।
मायामयं समरमाशु महासुरेन्द्रो
माया(3)प्रचारचतुरो रचयांचकार ॥ 17.24 ॥
{1.तरसा.2.धामाधिकं दधतिधीरतरे,धामादधादधिकधीरतरः.3.प्रपञ्च.}

मूलम्

तत्राथ दु सहतरं समरे (1)तरस्वी
(2)धामाधिकं दधति धीरतरं कुमारे ।
मायामयं समरमाशु महासुरेन्द्रो
माया(3)प्रचारचतुरो रचयांचकार ॥ 17.24 ॥
{1.तरसा.2.धामाधिकं दधतिधीरतरे,धामादधादधिकधीरतरः.3.प्रपञ्च.}

अन्वयः

अय तत्र कुमारे धीरतर धाम अधिकं दुःसहतर दधति (सति) समरे तरस्वी भायप्रचारचतुरः महासुरेन्द्रः मायामयं समरम् आशु रचयाञ्चकार ।

सीतारामः

तत्रेति । अथानन्तरं तत्र कुमारे धीरतरं गम्भीरतातिशयशालि धाम तेजोऽधिकं दुःसहतरं दधति सति । ‘अयं बालोऽपि मदपेक्षयाधिकतरधामवान् अथः शस्त्रयुद्धेन नैव धर्षणीय इति मनोविषयविचारकर्तृकता व्यज्यते । समरे युद्धे तरस्वी बलवान्महानसुराणामिन्द्रस्तारको मायामयं मायारूपं समरं युद्धमाशु सत्वरं रचयांचकार निर्ममे । शस्त्रेरधर्षणीयोऽयं मायाप्रधानैरस्त्रैः पराजयं प्राप्स्यतीति बुद्ध्या मायारचनापरो बभूवेत्यर्थः ।’ यतो मायाप्रचारे मायानिर्माणे चतुरः कुशलः ॥ 17.24 ॥

विश्वास-प्रस्तुतिः

अह्नाय कोपकलुषो विकटं विहस्य
(4)व्यर्थां समर्थ्य वरशस्त्रयुधं कुमारे ।
जिष्णु(5)र्जगद्विजयदुर्ललितः सहेलं
वायव्यमस्त्रमसुरो धनुषि न्यधत्त ॥ 17.25 ॥
{4.व्यर्थम्.5.जिष्णीः.}

मूलम्

अह्नाय कोपकलुषो विकटं विहस्य
(4)व्यर्थां समर्थ्य वरशस्त्रयुधं कुमारे ।
जिष्णु(5)र्जगद्विजयदुर्ललितः सहेलं
वायव्यमस्त्रमसुरो धनुषि न्यधत्त ॥ 17.25 ॥
{4.व्यर्थम्.5.जिष्णीः.}

अन्वयः

जिष्णुः जगद्विजयदुर्ललितः (तथा) कोपकलुषः असुरः विकटं विहस्य (वथा) कुमारे वरशस्त्रयुधं व्यर्था समर्थ्य सहेलं वायव्यम् अस्त्रम् अह्नाय धनुषि न्यधत्त ।

सीतारामः

अह्नायेति । जिष्णुर्जयनशीलः, अत एव जगतां विजयेन दुर्ललित उद्भटः । तथा कोपेन क्रोधेन निमित्तेन कलुषोऽनच्छः । आविल इति यावत् । ‘कलुषोऽनच्छ आविलः’ । इत्यमरः । असुरस्तारको विकटं करालं यथा स्यात्तथा विहस्य । इदानीं त्वां जेष्यामीति कुतो गमिष्यसीति विकटहासेन व्यज्यते । तथा कुमारे विषये वरैः श्रेष्ठैः शस्त्रैः कृत्वा युधं युद्धम् । ‘समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः’ इत्यमरः । व्यर्थां फलराहित्येन निरर्थकां समर्थ्यं सिद्धान्तयित्वा । निश्चित्येति यावत् । सहेलं सानादरम् । अयं मायोचितो नास्ति व्यर्थमेवात्र मायायुद्धमित्यवहेलनासहितं यथा स्यात्तथा । वायव्यं वायुदेवताकमस्त्रमह्नाय झटिति धनुषि न्यधत्त निदधे ॥ 17.25 ॥

विश्वास-प्रस्तुतिः

(1)संधानमात्रमपि यस्य युगान्तकाल-
(2)भूतभ्रमं पुरुषभीषणधोरघोषः ।
उद्धूतधूलिपटलैः(3) पिहिताम्बराशः
प्रच्छन्नचण्डकिरणो (4)व्यसरत्समीरः ॥ 17.26 ॥
{1.संधानमात्रसममस्यः,सन्धानकालसममस्यः.2.भूतभ्रामः.3.पटलीपिहिताम्बरान्तः,पटलीपिहिताम्बराशः,पटलीपिहिताम्बराङ्गः.4.व्यहरत्.}

मूलम्

(1)संधानमात्रमपि यस्य युगान्तकाल-
(2)भूतभ्रमं पुरुषभीषणधोरघोषः ।
उद्धूतधूलिपटलैः(3) पिहिताम्बराशः
प्रच्छन्नचण्डकिरणो (4)व्यसरत्समीरः ॥ 17.26 ॥
{1.संधानमात्रसममस्यः,सन्धानकालसममस्यः.2.भूतभ्रामः.3.पटलीपिहिताम्बरान्तः,पटलीपिहिताम्बराशः,पटलीपिहिताम्बराङ्गः.4.व्यहरत्.}

अन्वयः

यस्य सन्धानमात्रम् अपि युगाऽन्तकालभूतभ्रमं परुषभीषणघोरधोष- उद्धतधूलिपटलैः पिहिताऽम्बराशः (तथा) प्रच्छन्नचण्ड किरणःसमीरः व्यसरत् ।

सीतारामः

संधानमिति । यस्य वायव्यास्त्रस्य संधानमात्रमपि कोदण्डे प्रक्षेपणार्थमारोपणमात्रमपि युगान्तकाल इव भूतानां प्राणिनां भ्रमो भ्रान्तिरोगो येन तथाभूतम् । यस्य प्रक्षेपणेनेति शेषः । परुषः कठोरो भीषणो भयदायी घोरो महान् । परुषेण भयदत्वं दीर्घत्वेन भयदत्वं चेत्युभयविधस्य भयदायित्वस्य विवक्षणत्वान्न पौनरुवत्यम् । तथाविधो घोष आरवो यस्य । तथोद्धूतान्युपर्युत्पातितानि यानि धूलिपटलानि रजोमण्डलानि तैः कृत्वा पिहिता आच्छादिता अम्बरं व्योमदिशश्च येन । तथा प्रच्छन्नः पिहितश्चण्डकिरणो रविर्येन तथाभूतः । एवंभूतश्च समीरो वायुर्व्यसरत्प्रससार । प्रचचालेति यावत् ॥ 17.26 ॥

विश्वास-प्रस्तुतिः

कुन्दोज्जवलानि सकलातपवारणानि
धूतानि तेन मरुता सुरसैनिकानाम् ।
उड्डीयमान(1)कलहंसकुलोपमानि
(2)मेघाभधूलिमलिने नभसि प्रसस्त्रुः ॥ 17.27 ॥
{1.वरहंस.2.संग्रामधूलिमलिने,मेवाभ्रवूलिमिलिते.}

मूलम्

कुन्दोज्जवलानि सकलातपवारणानि
धूतानि तेन मरुता सुरसैनिकानाम् ।
उड्डीयमान(1)कलहंसकुलोपमानि
(2)मेघाभधूलिमलिने नभसि प्रसस्त्रुः ॥ 17.27 ॥
{1.वरहंस.2.संग्रामधूलिमलिने,मेवाभ्रवूलिमिलिते.}

अन्वयः

कुन्दोज्जवलेन तेन मरुता धूतानि उड्डीयमानकलहंसकुलोपमानि सुरसैनिकानां सकलातपवारणनि मेघाभधूलिमलिने नभसि प्रसस्त्रुः ।

सीतारामः

कुन्दोज्जवलानीति । कुन्दपुष्पवदुज्जवलानि विमलानि । श्वेतानीति फलितोऽर्थः । तथा तेन वायव्यास्त्रप्रभूतेन मरुता धूतानि कम्पितानि । उपर्युड्डीयितानीति यावत् । अथ एवोड्डीयमाना उत्पतन्तो ये कलहंसा राजहंसास्तेषां कुलेन समुदायेनोपमा सादृश्यं येषाम् । उत्पतत्कलहंससदृशानीत्यर्थः । सुरसैनिकानां देवरुपसेनालोकानां सकलातपवारणानि समस्तानि छत्राणि मेघाभा वर्षाकालीनपयोदसदृशमासो या धूलयः सेनोत्पातितरजांसि ताभिर्मलिने मेचके नभसि प्रसस्त्रुः । प्रभञ्जनवेगोड्डीयितानि विशदघर्मवारणान्युत्पतत्कलहंसकुलानीव रेजुरित्यर्थः ॥ 17.27 ॥

विश्वास-प्रस्तुतिः

विध्वस्य तेन सुरसैन्यमहापताका
नीता (3)नभस्थलमलं नवमल्लिकाभाः ।
स्वर्गापगाजलमहौघसहस्रलीलां
व्यातेनिरे दिवि(4) सिताम्बरकैतवेन ॥ 17.28 ॥
{3.नभस्तलम्.4.दिविचरी चिरविभ्रपेण,दिवि चराचरबि भ्रमेण.}

मूलम्

विध्वस्य तेन सुरसैन्यमहापताका
नीता (3)नभस्थलमलं नवमल्लिकाभाः ।
स्वर्गापगाजलमहौघसहस्रलीलां
व्यातेनिरे दिवि(4) सिताम्बरकैतवेन ॥ 17.28 ॥
{3.नभस्तलम्.4.दिविचरी चिरविभ्रपेण,दिवि चराचरबि भ्रमेण.}

अन्वयः

तेन अलं विध्वस्यनभः स्थलं नीताः (तथा) नवमल्लिकाभाः सुरसैन्यमहापताकाः सिताऽम्बरकैतवेन स्वर्गापगाजलमहौधसहस्रलीलां दिवि व्यातेनिरे ।

सीतारामः

विध्वस्येति । तेन प्रभञ्जनेन कर्त्रा विध्वस्य भञ्जयित्वा नभः- स्थलमाकशतलं नीताः प्रापिताः । तथा नवमल्लिकाभा नूतनविदलन्मल्लिकाकुसुमसदृशभासः सुरसैन्यस्य महान्त्यः पताकाः सिताम्बरकैतवेन श्वेतवस्त्रव्याजेन स्वर्गापगाया जलस्य महतामोघानां पूराणां सहस्रस्य लीलां शोभां व्यातेनिरे वितस्तरिरे । उत्पतन्त्या व्योमनि स्थिताः श्वेताः पताका अतिविदूरदोषेण अलघवोऽपि लघव इव प्रतीयमाना नभोगतगगनवाहिनीनिर्झरा इव रेजुरिति भावः । अत्र कैतवापह्नुतिनिदर्शनालंकारयोः संसृष्टिः ॥ 17.28 ॥

विश्वास-प्रस्तुतिः

धूतानि तेन सुरसैन्यमहागजानां
सद्यः(1)शतानि विधुराणि (2)दलत्कुथानि ।
पेतुः क्षितौ कुपितवासववज्रलून-
पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ 17.29 ॥
{1.कुलानि.2.गलत्कुथानि.}

मूलम्

धूतानि तेन सुरसैन्यमहागजानां
सद्यः(1)शतानि विधुराणि (2)दलत्कुथानि ।
पेतुः क्षितौ कुपितवासववज्रलून-
पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ 17.29 ॥
{1.कुलानि.2.गलत्कुथानि.}

अन्वयः

तेन धूतानि विधुराणि दलत्कुथानि कुपितवासववज्रलूनपक्षस्य मूधरकुलस्य तुलां वहन्ति सुरसैन्यमहागजानां शतानि सद्यः क्षितौ पेतुः ।

सीतारामः

धूतानोति । तेन वायुना । धूतानि कम्पितानि । नभसि भ्रामितानीति यावत् । अत एव विधुराणि पीडितानि । तथा दलन्तः ‘चरड् चरड्’ इति मेदिनी । अत एव कुपितस्य वासवस्य वज्रेण पविना लूनपक्षस्य छिन्नपत्त्रस्य भूधरकुलस्य पर्वतसमूहस्य तुलां साम्यं वहन्ति दधति सुरसैन्यमहागजानां देवसैन्यबृहद्दन्तिनां शतानि शतसंख्याककुलानि क्षितौ भुवि पेतुः पतितवन्ति ॥ 17.29 ॥

विश्वास-प्रस्तुतिः

(3)तास्ताः खरेण मरुता रथराजयोऽपि
दोधूयमाननिपतिष्णुतुरंगमाश्च(4) ।
(5)विस्त्रस्तसारथिकुलप्रवराः समन्ताद्
(6)व्यावृत्य पेतुरवनौ सुरवाहिनीनाम् ॥ 17.30 ॥
{3.भ्रष्टाः.4.तुरङ्गमध्ये.5.वित्रस्तसारथिवरप्रकराः,विध्वस्तसारथिरथप्रवराः.6.व्यावृत्तिमापुः.}

मूलम्

(3)तास्ताः खरेण मरुता रथराजयोऽपि
दोधूयमाननिपतिष्णुतुरंगमाश्च(4) ।
(5)विस्त्रस्तसारथिकुलप्रवराः समन्ताद्
(6)व्यावृत्य पेतुरवनौ सुरवाहिनीनाम् ॥ 17.30 ॥
{3.भ्रष्टाः.4.तुरङ्गमध्ये.5.वित्रस्तसारथिवरप्रकराः,विध्वस्तसारथिरथप्रवराः.6.व्यावृत्तिमापुः.}

अन्वयः

ताः ताः सुरवाहिनीनां रथराजयः अपि खरेण मरुता दोधूयमाननिपतिष्णुतुरङ्गमाः (तथा) विस्त्रस्तसारथिकुलप्रवराः समन्तात् व्यावृत्य अवनो पेतुः ।

सीतारामः

ता इति । तास्ताः सुरवाहिनीनां देवसेनानां रथराजयोऽपि स्यन्दनपंक्तयोऽपि खरेण तीक्ष्णेन मरुता वायुना दोधूयमानाः पुनःपुनरतिशयेन वा कम्प्यमाना अत एव निपतिष्णवः पतनशीलास्तुरङ्गमा अश्वा यासाम् । तथा विस्त्रस्ता अधः पतिताः सारथय एव कुलप्रवराः कुलश्रेष्ठाः कुलीना इति याव्त् । यासाम् । तथाभूताः सत्यो नभसि समन्ताद् व्यावृत्त्य परिभ्रम्यावनौ पेतुः ॥ 17.30 ॥

विश्वास-प्रस्तुतिः

हित्वायुधानि सुरसैन्य(1)तुरंगवाहा
वातेन तेन (2)विधुराः सुरसैन्यमध्ये ।
(3)शस्त्राभिघातमनवाप्य निपेतुरुर्व्यां
स्वीयेषु वाहनवरेषु पतत्सु सत्सु ॥ 17.31 ॥
{1.तुरङ्गधारावेगेन तुरङ्गधारा दैत्येन.2.विधुता विधुरा रणान्ते.3.शस्त्राभिघातमथिताः परिपेतुः.}

मूलम्

हित्वायुधानि सुरसैन्य(1)तुरंगवाहा
वातेन तेन (2)विधुराः सुरसैन्यमध्ये ।
(3)शस्त्राभिघातमनवाप्य निपेतुरुर्व्यां
स्वीयेषु वाहनवरेषु पतत्सु सत्सु ॥ 17.31 ॥
{1.तुरङ्गधारावेगेन तुरङ्गधारा दैत्येन.2.विधुता विधुरा रणान्ते.3.शस्त्राभिघातमथिताः परिपेतुः.}

अन्वयः

तेन वातेन विधुराः सुरसैन्यतुरङ्गवाहाः सुरसैन्यमध्ये आयुधानि हित्वा स्वीयेषु वाहनवरेषु पतत्सु (सत्सु) शस्त्राऽभिघातम् अनवाप्य उर्व्यां निपेतुः ।

सीतारामः

हित्वेति । तेन वातेन विधुराः पीडिताः सुरसैन्यस्य तुरङ्गवाहा अस्ववाहाः । अश्वारोहा इति यावत् । सुरसैन्यमध्य आयुधानि भल्लादीनि हित्वा परित्यज्य स्वीयेष्वात्मीयेषु वाहनवरेषु श्रेष्ठवाहनेषु पतत्सु सत्सु शस्त्राभिघातं शस्त्रप्रहारमनवाप्यापि न प्राप्याप्युर्व्यां भूमौ निपेतुः ॥ 17.31 ॥

विश्वास-प्रस्तुतिः

तेनाहतास्त्रिदशसैन्यपदातयोऽपि
(4)स्त्रस्तायुधाः सुविधुराः परुषं रसन्तः ।
(1)वात्साविवर्तदलवद्भ्रममेत्य दूरं
निष्पेतुरम्बरतलाद्वसुधातलेऽस्मिन्(2) ॥ 17.32 ॥
{4.वारणवरेषु.1.वात्या विधूतदलवद्भ्रमम्,वायोर्द्विवृन्तदलवृन्दमिव.2.अपि,ते.}

मूलम्

तेनाहतास्त्रिदशसैन्यपदातयोऽपि
(4)स्त्रस्तायुधाः सुविधुराः परुषं रसन्तः ।
(1)वात्साविवर्तदलवद्भ्रममेत्य दूरं
निष्पेतुरम्बरतलाद्वसुधातलेऽस्मिन्(2) ॥ 17.32 ॥
{4.वारणवरेषु.1.वात्या विधूतदलवद्भ्रमम्,वायोर्द्विवृन्तदलवृन्दमिव.2.अपि,ते.}

अन्वयः

तेन आहताः स्त्रस्तायुधाः सुविधुराः परुषं रसन्तऋः त्रिदशसैन्यपदात्तयः अपि वात्याविवर्तदलवत् भ्रमं दूरम् एत्य अम्बरतलात् अस्मिन् वसुधातले निष्पेतुः ।

सीतारामः

तेनेति । तेन प्रभञ्जनेनाहताः पीडिताः । अत एव स्त्रस्तान्यधः पतितान्यायुधानि शस्त्राणि येषाम् । अत एव सुतरां विधुरा दुःखिताः । करेभ्यः शस्त्रगलने वीराणामतिदुःखावहं भवतीति भावः । तथा परुषं कठोरं यथा स्यात्तथा रसन्तः क्राशन्तः । रुदन्तः इति यावत् । त्रिदशसैन्यपदातयोऽपि देवसैन्यपादचारिणो योधा अपि । पूर्वोक्तानां गजादीनामपेक्षया समुच्चयार्थकोऽपिशब्दः । ‘अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये’ । इति विश्वः । वात्यया वातसमूहेन विवर्तं भ्रान्तं यद्दलं पत्त्रं तद्वद् दूरमतिशयेन भ्रमं भ्रान्तिमेत्य प्राप्याम्बरतलादाकाशमध्यादस्मिन्वसुधातले भूतले निष्पेतुः । वातसमूहविवर्तितानि वृक्षशुष्कपत्राणि यथाधः पतन्ति, तथा देवसैन्यपत्तयोऽपि वायव्यास्त्रजनितप्रभञ्जनवशादम्बरमभित उड्डीयमानाः कियन्तमपि कालं तत्र रथचक्रवत्परिभ्रम्य प्रतिक्षणभ्रमणजाः सन्तोऽघः पेतुरिति वाच्यार्थः । यथा पतितमपि दलं न चूर्णोभवति, तथाघः पतन्तोऽपि सैनिका न चूर्णीभूता इत्यभिहितयोपमया व्यज्यते । सति पतनेऽपि चूर्णत्वाभावे देवत्वादिति गूढो हेतुः । अतोऽलङ्कारेण वस्तुध्वनिः ॥ 17.32 ॥

विश्वास-प्रस्तुतिः

इत्थं विलोक्य सुरसैन्यमथो (3)अशेषं
दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् ।
स्वर्लोकनाथ(4)कमलाकुशलैकहेतु-
र्दिव्यं प्रभावमतनोदतनुः(5) स देवः ॥ 17.33 ॥
{3.अशेषमेव.4.कमलालकनैऽहेतुम्;कमलाकुशलैकहेतुम्.5.अतनुम्.}

मूलम्

इत्थं विलोक्य सुरसैन्यमथो (3)अशेषं
दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् ।
स्वर्लोकनाथ(4)कमलाकुशलैकहेतु-
र्दिव्यं प्रभावमतनोदतनुः(5) स देवः ॥ 17.33 ॥
{3.अशेषमेव.4.कमलालकनैऽहेतुम्;कमलाकुशलैकहेतुम्.5.अतनुम्.}

अन्वयः

अथो अतनुः स देवः अशेषं सुरसैन्यं दैत्येश्वरेण इत्थम् अस्त्रयोगात् विधुरीकृतं विलोक्य स्वर्लोकनाथकमलाकुशलैकहेतुः (सन्) दिव्यं प्रभावम् अतनोत् ।

सीतारामः

इत्थमिति । अथो तारकप्रयोजितवायव्यास्त्रकृतसैन्यविप्लवानन्तरम् । अतनुर्महान् । महत्त्वं च विद्यया, विद्या चास्त्रशस्त्रनैपुण्यम् । स देवः षाण्मातुरः । अशेषं सकलं सुरसैन्यं देवसैन्यं कर्म, दैत्येश्वरेण तारकेणेत्थं पूर्वोक्तप्रकारेण अस्त्रयोगाद्वायव्यास्त्रप्रयोगान्निमित्ताद्विधुरीकृतं पीडितं विलोक्य दिव्यं लोकोत्तरं प्रभावं सामर्थ्यंमतनोत् । अनेन वायव्यप्रतिरोधकं पवननाशनास्त्रमक्षिपदिति व्यज्यते । यतः स्वर्लोकनाथस्येन्द्रस्य कमलाया लक्ष्म्याः कुशले श्रेयस्येक एव हेतुर्निदानम् ॥ 17.33 ॥

विश्वास-प्रस्तुतिः

(1)तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं
स्वास्थ्यं प्रपद्य पुनरेव (2)युधि प्रवृत्तम् ।
दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-
(3)मुद्दीप्तकोपदहनः सहसा सुरारिः ॥ 17.34 ॥
{1.उद्गतम्;अन्वितम्.2.युधे.3.उच्चैःप्रकोपदहनः.}

मूलम्

(1)तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं
स्वास्थ्यं प्रपद्य पुनरेव (2)युधि प्रवृत्तम् ।
दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-
(3)मुद्दीप्तकोपदहनः सहसा सुरारिः ॥ 17.34 ॥
{1.उद्गतम्;अन्वितम्.2.युधे.3.उच्चैःप्रकोपदहनः.}

अन्वयः

तेन सकलम् एव उज्झितं सुरेन्द्रसैन्यं स्वास्थ्यं प्रपद्य पुनः युधि एव प्रवृत्तं दृष्ट्वा उद्दीप्तकोपदहनः सुराऽरिः सहसा इद्धं दहनदैवतम् अस्त्रम् असृजत् ।

सीतारामः

तेनेति । तेन कुमारप्रभावेण सकलमेव, न तु त्यक्तभागम् । उज्झितं वायव्यास्त्रनिर्मुक्तं सुरेन्द्रसैन्यं इन्द्रसैन्यं कर्म, स्वास्थ्यमविक्लत्वं प्रपद्य प्राप्य पुनर्युध्येव, न त्वन्यकार्ये पलायनरुपे । एवंविधास्त्रप्रयोक्तासौ दुर्जेय इति बुद्ध्या पलायनप्रसक्तिशङ्कानिरासार्थमेवकारः । प्रवृत्तं व्यापाराश्रयीभूतं दृष्ट्वा । उद्दीप्तोऽनुभावसान्निध्यात्प्रदोप्तः कोप एव दहनोऽग्निर्यस्यैवंभूतः सुरारिस्तारकः सहसा झटिति, न तु विलम्बेन । इद्धं सिद्धम् न तु तत्कालसाधनीयम् । प्रदीप्तमिति वा । दहनदैवतमग्निदेवताकमस्त्रमसृजद् व्यसृजत् । ‘सृज विसर्गे’ इत्यस्मात्तौ दादिकाल्लङ् । वायव्यास्त्रपरिहारानन्तरं वह्न्यस्त्रमक्षिपदित्यर्थः ॥ 17.34 ॥

विश्वास-प्रस्तुतिः

(1)वर्षातिकालजलदद्युतयो नभोऽन्ते
(2)गाढान्धकारितदिशो घनधूमसंघाः ।
सद्यः प्रसस्त्रुरसितोत्पलदामभासो
दृग्गोचरत्वमखिलं नश्(3) हि सन्नयन्तः ॥ 17.35 ॥
{1.तत्कालजातजलद.2.तत्र.3.द्युसदां हरन्तः.}

मूलम्

(1)वर्षातिकालजलदद्युतयो नभोऽन्ते
(2)गाढान्धकारितदिशो घनधूमसंघाः ।
सद्यः प्रसस्त्रुरसितोत्पलदामभासो
दृग्गोचरत्वमखिलं नश्(3) हि सन्नयन्तः ॥ 17.35 ॥
{1.तत्कालजातजलद.2.तत्र.3.द्युसदां हरन्तः.}

अन्वयः

वर्षाऽतिकालजलदद्युतयः असितोत्पलदामभासः गाढाऽन्धकारितदिशः घनधूमसह्घाः अखिलं दृग्गोचरत्वं नहि सन्नयन्तः सद्यः प्रसस्त्रुः ।

सीतारामः

वर्षेति । वर्षास्वतिकाला मेचकतरा ये जलदा मेघास्तेषां द्युतिः कान्तिरेव कान्तिर्येषाम् । वर्षाकालीनमेघसदृशमेचकितभास इत्यर्थः । श्यामत्वे द्वितीयविशेषणेनोपमिमीते । अशितानां नीलानामुत्पलानां दाम्नः स्त्रजो भा इव भा रुग्येषामत एव गाढं नितरामन्धकारिता अन्धकारी कृता दिशो यैरेवंभूता घनधूमसंधा निविडधूमसमूहा अखिलं धटादिवस्तु दृग्गोचरत्वं दृष्टिविषयत्वं न हि नैव । ‘हि पादपूरणे हेतौ विशेष्येऽप्यवधारणे’ इति विश्वः । नयन्तः प्रापयन्तः सन्तः । धनधूमसंधव्याप्तयेव न हि किंचिदपि वस्तु लक्षणीयं बभूवेति भावः । सद्यः सपदि प्रसस्त्रुः । प्रज्वलिद्दहनप्राग्भावित्वेन धूमप्रसरणस्योचितत्वाद् धूमप्रसरणमुक्तम् । प्रपूर्वात् ‘सृ गतौ’ इत्यतो लिट् ॥ 17.35 ॥

विश्वास-प्रस्तुतिः

दिक्चक्रवाल(4)गिलनैर्मलिनैस्तमोभि-
र्लिप्तं (5)नभःस्थलमलं घनवृन्दसान्द्रैः ।
धूमैर्विलोक्य (6)मुदिताः खलु राजहंसा
गन्तुं सरः सपदि मानसमीषुरुच्चैः ॥ 17.36 ॥
{4.मिलितैः.5.नभस्तलम्.6.पिहिताः.}

मूलम्

दिक्चक्रवाल(4)गिलनैर्मलिनैस्तमोभि-
र्लिप्तं (5)नभःस्थलमलं घनवृन्दसान्द्रैः ।
धूमैर्विलोक्य (6)मुदिताः खलु राजहंसा
गन्तुं सरः सपदि मानसमीषुरुच्चैः ॥ 17.36 ॥
{4.मिलितैः.5.नभस्तलम्.6.पिहिताः.}

अन्वयः

दिक्चक्रवालगिलनैः (तथा) मलिनैः (अत एव) घनवृन्दसान्दैः धूमैः तमोभिः अलं लिप्तं नभःस्थलं विलोक्य मुदिताः राजहंसाः मानसं सरः गन्तुम् ईषुः खलु ।

सीतारामः

दिगिति । दिशां चक्रवालस्य मण्डलस्य गिलनैराच्छादकैः । ‘गृ निगरणे’ इत्यतः कर्तरि ल्युट् । ‘अचि विभाषा’ इति रेफस्य लत्वम् । मलिनैर्मेचकैः, अत एव घनवृन्दमिव मेघमण्डलमिव सान्द्रैः सघनैर्धूमैर्धूमरुपस्तमोभिर्लुप्तं व्याप्तं नभःस्थलं गन्तुमीषुरैच्छन् । दहनास्त्रप्रभूतधूमावलीव्याप्तनभोदर्शनजनितमेघागमभ्रान्तिमतां कलहंसानांमानससरोजिगमिषोचितैवेति भावः ॥ 17.36 ॥

विश्वास-प्रस्तुतिः

जज्वाल वह्निरतुलः सुरसैनिकेषु
कल्पान्तकालदहनप्रतिमः समन्तात् ।
आशामुखानि (1)विमलान्यखिलानि कीला-
जालैरलं (2)कपिलयन्सकलं नभोऽपि ॥ 17.37 ॥
{1.अपिहन्निखिलानि.2.कपिशयन्.}

मूलम्

जज्वाल वह्निरतुलः सुरसैनिकेषु
कल्पान्तकालदहनप्रतिमः समन्तात् ।
आशामुखानि (1)विमलान्यखिलानि कीला-
जालैरलं (2)कपिलयन्सकलं नभोऽपि ॥ 17.37 ॥
{1.अपिहन्निखिलानि.2.कपिशयन्.}

अन्वयः

कल्पाऽन्तकालदहनप्रतिमः अतुलः वह्निः कीलाजालैः अखिलानि विमलानि आशामुखानि (तथा) सकलं नभः अपि कपिलयन् सुरसंनिकेषु समन्तात् जज्वाल ।

सीतारामः

जज्वालेति । कल्पान्तकालस्य प्रलयकालस्य दहनोऽग्निस्तस्य प्रतिमेव प्रतिमा स्वरूपं यस्य । तथातुलो बहुलो वह्निः कीलाजालेर्ज्वालासमूहैः । ‘वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः । शखा स्त्रियाम्’ इत्यमरः । अखिलानि समस्तानि विमलानि शुद्धान्याशामुखानि दिगग्राणि । तथा सकलं नभोऽपि व्योम च कपिलयन्पिशङ्गीकुर्वन्सुरसैनिकेषु मध्ये । ‘यतश्च निर्धारणम्’ इति सप्तमी । समन्तात्परितो जज्वाल दिदीपे ॥ 17.37 ॥

विश्वास-प्रस्तुतिः

उज्जागरस्य दहनस्य निरर्गलस्य
ज्वालावलीभिरतुलाभिरनारताभिः ।
कीर्णं पयोदनिवहैरिव धूमसंघै-
र्व्योमाभ्यलक्ष्यत कुलैस्तडितामिवोच्चैः ॥ 17.38 ॥

मूलम्

उज्जागरस्य दहनस्य निरर्गलस्य
ज्वालावलीभिरतुलाभिरनारताभिः ।
कीर्णं पयोदनिवहैरिव धूमसंघै-
र्व्योमाभ्यलक्ष्यत कुलैस्तडितामिवोच्चैः ॥ 17.38 ॥

अन्वयः

उज्जागरस्य निरर्गलस्य दहनस्य अतुलाभिः अनारताभिः ज्वालावलीभिः (तथा) पयोदनिवहैः इव धूमसङ्घैः (व्याप्तम्) व्योम उच्चैः तडितां कुलैः कीर्णम् इव अभ्यलक्ष्यत ।

सीतारामः

उज्जागरस्येति । उज्जागरस्योद्दीप्तस्य । जागर्तेः ‘ॠदोरप्’ इति भावेऽप् । निरर्गलस्य निर्गतप्रतिबन्धस्य दहनस्य वह्नेरतुलाभिर्बहुलाभिः अनारताभिरक्षणिकाभिः ज्वालावलीभिः कीलपङ्क्तिभिः ।तथा पयोदनिवहैरिव मेघसमूहैरिव धूमसङ्घैः व्याप्तमिति शेषः । तथाभूतं व्योम नभः, कर्तृ । उच्चैर्महद्भिस्तडितां विद्युतां कुलैर्गणैः कीर्णं वृतमिवाभ्यलक्ष्यत दर्शनीयं बभूव । मेघमण्डलान्तरे चमत्कारकारिणीभिर्क्षणदाभिर्नभो यथा राजति, तथा मेघमण्डलसदृशधूमसङ्घमण्डलान्तर्गतक्षणदासदृशज्वालावलीभिरपि बभावित्यर्थः । भानिक्रियाकर्तोभयत्राप्येक एव, अतो ज्वालावलीषु क्षणदात्वेनोत्प्रेक्षितम् ॥ 17.38 ॥

विश्वास-प्रस्तुतिः

(1)गाढाद्भयाद्वियति (2)विद्रुतखेचरेण
दीप्तेन(3) तेन दहनेन सुदुःसहेन ।
दन्दह्यमानमखिलं(4) सुरराजसैन्य-
मत्याकुलं शिवसुतस्य समीपमाप(5) ॥ 17.39 ॥
{1.तद्भीतितः,तत्प्रान्ततः.2.चाद्भुतसंचरेण.3.धीर्घेण.4.अनिशम्.5.आगात्.}

मूलम्

(1)गाढाद्भयाद्वियति (2)विद्रुतखेचरेण
दीप्तेन(3) तेन दहनेन सुदुःसहेन ।
दन्दह्यमानमखिलं(4) सुरराजसैन्य-
मत्याकुलं शिवसुतस्य समीपमाप(5) ॥ 17.39 ॥
{1.तद्भीतितः,तत्प्रान्ततः.2.चाद्भुतसंचरेण.3.धीर्घेण.4.अनिशम्.5.आगात्.}

अन्वयः

गाढात् भयात् वियति विद्रुतखेचरेण दीप्तेन सुदुःसहेन तेन दहनेन दन्दह्यमानम् अत्याकुलम् अखिलं सुरराजसैन्यं शिवसुतस्य समीपम् आप ।

सीतारामः

गाढादिति । गाढाद्भयाद्धेतोर्वियति नभसि विद्रुता विद्राविताः पलायिता इति यावत् । खेचरा रव्यादयो येन । रव्यादयो ग्रहा अपि यद्भयाद् दुद्रुवुरित्यर्थः । तथा दीप्तेन । तथा सुतरां दुःसहेन सोढुमशक्येन तेन दहनेन कर्त्रादन्दह्यमानं पुनरतिशयेन वा दह्यते भस्मीक्रियते तथाभूतम्, अत एवात्याकुलमतिपीडितमखिलं समस्तं सुरराजसैन्यं, कर्तृं शिवसुतस्य कुमारस्य समीपं सन्निधिमाप । अतो नः पाहीति निवेदयितुं जगामेति व्यज्यते । तेन वस्तुना वस्तुध्वनिः ॥ 17.39 ॥

विश्वास-प्रस्तुतिः

इत्यग्निना घनतरेण (1)ततोऽभिभूतं
तद्देवसैन्यमखिलं विकलं विलोक्य ।
सस्मेरवक्त्रकमलोऽन्धकशत्रुसूनु-
र्बाणासनेन(2) समधत्त स वारुणास्त्रम॥ 17.40 ॥
{1.तदा.2.बाणासनेऽथ.}

मूलम्

इत्यग्निना घनतरेण (1)ततोऽभिभूतं
तद्देवसैन्यमखिलं विकलं विलोक्य ।
सस्मेरवक्त्रकमलोऽन्धकशत्रुसूनु-
र्बाणासनेन(2) समधत्त स वारुणास्त्रम॥ 17.40 ॥
{1.तदा.2.बाणासनेऽथ.}

अन्वयः

ततः सः अन्धकशत्रुसूनुः इति घनतरेण अग्निना अभिभूतम् अखिलं तत् देवसैन्यं विकलं विलोक्य सस्मेरवक्त्रकमलः बाणासनेन वारुणास्त्रं समधत्त ।

सीतारामः

इतीति । ततः सैन्यागमनानन्तरम् । सोऽन्धकशत्रुसूनुः कुमारः । इति पूर्वोक्तप्रकारेण घनतरेणातिसान्द्रेणाग्निनाभिभूतं पराभूतमखिलं समस्तं तद्देवसैन्यं विकलं विधुरं विलोक्य सस्मेरं समन्दहासं वक्त्रकमलं यस्य । किञ्चिद्विहस्येत्यर्थः । अनेनात्मोत्कर्षव्यञ्जक उपहासो व्यज्यते । बाणासनेन घनुषा वारुणास्त्रमग्न्यस्त्रप्रतिरोधकं वरुणदेवताकमस्त्रं समधत्त संदध इत्यर्थः ॥ 17.40 ॥

विश्वास-प्रस्तुतिः

घोरान्धकारनिकरप्रतिमो युगान्त-
कालानलप्रबलधूमनिभो नभोन्ते ।
गर्जारवैर्वि(3)घटयन्नवनीधराणां
श्रृङ्गाणि मेघनिवहो घनमुज्जगाम ॥ 17.41 ॥
{3.विधमयन्.}

मूलम्

घोरान्धकारनिकरप्रतिमो युगान्त-
कालानलप्रबलधूमनिभो नभोन्ते ।
गर्जारवैर्वि(3)घटयन्नवनीधराणां
श्रृङ्गाणि मेघनिवहो घनमुज्जगाम ॥ 17.41 ॥
{3.विधमयन्.}

अन्वयः

घोराऽन्धकारनिकरप्रतिमः युगाऽन्तकालाऽनलप्रबलधूमनिभः गर्जारवैः अवनीधराणां श्रृङ्गाणि विघटयन् मेघनिवहः नभोऽन्ते घनम् उज्जगाम ।

सीतारामः

घोरेति । घोराणि भयनकानि यान्यन्धकाराणि तमांसि तेषां निकरस्य समूहस्य प्रतिमेव प्रतिमा स्वरूपं यस्य । गाढान्धकारसदृशकान्तिरित्यर्थः । तथा युगान्तकालस्य योऽनलोऽग्निस्तस्य प्रबलोऽधिको वो धूमस्तेन सदृशः । तथा गर्जारवैर्गर्जनाघोषैः कृत्वाऽवनीधराणां पर्वंतानां श्रृङ्गाणि सानूनि विघटयन् स्फोटयन्मेघनिवहः पयोधरसमुदायो नभोऽन्ते व्योममध्ये घनं सान्द्रम्, नतु विरलतया । उज्जगामोदियाय ॥ 17.41 ॥

विश्वास-प्रस्तुतिः

विद्युल्लता वियति वारिदवृन्दमध्ये(1)
गम्भीरभीषणरवैः(2) कपिशीकृताशा ।
घोरा युगान्तचलितस्य (3)भयंकराऽथ
कालस्य लोलरसनेव चमच्चकार ॥ 17.42 ॥
{1.वृन्दवर्ग,वृन्दवर्गे.2.रवे.3.भयंकरस्य.}

मूलम्

विद्युल्लता वियति वारिदवृन्दमध्ये(1)
गम्भीरभीषणरवैः(2) कपिशीकृताशा ।
घोरा युगान्तचलितस्य (3)भयंकराऽथ
कालस्य लोलरसनेव चमच्चकार ॥ 17.42 ॥
{1.वृन्दवर्ग,वृन्दवर्गे.2.रवे.3.भयंकरस्य.}

अन्वयः

अथ वियति गम्भीरभीषणरवैः कपिशीकृताशा युगाऽन्तचलितस्य कालस्य भयङ्करा लोलरसना इव धोरा विद्युल्लता वारिदवृन्दमध्ये चमच्चकार ।

सीतारामः

विद्युदिति । अथ मेघोदयानन्तरं वियति नभसि गम्भीराः सान्द्रा अत एव भीषणा भयदा ये रवा धोषास्तैरुपलक्षिता । तथा कपिशीकृताः पिशङ्गिता आशा दिशो यया । तथा युगान्तचलितस्य प्रलयकाले लोकादनाय प्रस्थितस्य कालस्य यमस्य भयंकरा भयदा लोलरसना चपलजिह्वेव घोरा भीमा विद्युल्लता तडिद्रूपिणी हाटकलता वारिदवृन्दमध्ये जलदमण्डलान्तराले चमच्चकार । प्रतिक्षणव्यक्तीकृतात्मरोचिरासीदित्यर्थः । अनेन उपमालंकारेण तारकासुरसैनिकानामियमिव चमत्कुर्वन्ती वैवस्वतरसना नोऽभ्यवहरिष्यतीति बुद्धिरुत्पन्नेति ध्वन्यते । अतोऽलङ्कारेण वस्तुध्वनिः ॥ 17.42 ॥

विश्वास-प्रस्तुतिः

कादम्बिनी विरुरुचे (4)विषकण्ठिकाभि-
रुत्तालकाल(5)रजनीजलदावलीभिः ।
व्योम्न्युच्चकै(6)रचिररुक्परिदीपिताशाऽ-
(7)दृष्टिच्छदा (8)विषमघोषविभीषणा च ॥ 17.43 ॥
{4.बिस.5.रजनीव रदावलीभिः.6.अचिररोचिररोचताग्रे.7.दृष्टिच्छलात्,दृष्टिच्छदा.8.विषमकोपविभीषणेव,विषमरोषविभीषणेव.}

मूलम्

कादम्बिनी विरुरुचे (4)विषकण्ठिकाभि-
रुत्तालकाल(5)रजनीजलदावलीभिः ।
व्योम्न्युच्चकै(6)रचिररुक्परिदीपिताशाऽ-
(7)दृष्टिच्छदा (8)विषमघोषविभीषणा च ॥ 17.43 ॥
{4.बिस.5.रजनीव रदावलीभिः.6.अचिररोचिररोचताग्रे.7.दृष्टिच्छलात्,दृष्टिच्छदा.8.विषमकोपविभीषणेव,विषमरोषविभीषणेव.}

अन्वयः

अचिररुक्परिदीपिताशा (तथा) अदृष्टिच्छदा विषमघोषविभीषण च उच्चकैः व्योम्नि विषकण्ठिकाभिः उत्तालकालरजनींजलदावलीभिः कादम्बिनी विरुरुचे ।

सीतारामः

कादम्बिनीति । अचिररुग्भिर्विद्युद्भिः प्रयोज्यकर्त्रोभिः परिदीपिताः प्रकाशिता आशा यया प्रयोजकर्त्र्या । तथा दृष्टिच्छदा नेत्रावरणकर्त्री सा न भवतीति, किंतु नेत्रप्रकाशिका । ‘पुंसु संज्ञायां घः’ इति घः । ‘छादेर्घ’ इति ह्रस्वः । तथा विषमेण करालेन घोषेण विभीषणा भयदा ।उच्चकैर्महति व्योम्न्यन्तरिक्षे विषं जलम् । ‘विषं तुङ्गवले तोये’ इति विश्वः । कण्ठे मध्ये यासाम् । जलपूर्णमध्याभिरित्यर्थः । उत्तालो विकरालेऽपि स्यादुत्तालाः प्लवंगमे’। इति विश्वः । तथा कालाः कृष्णपक्षीयाः । ‘कालश्यामलमेचकाः’ इत्यमरः । एवंभूता या रजन्यो रात्रयः । ‘रजनीथामिनी तमी’ इत्यमरः । ता इव या जलदावल्यो मेघपंक्तयः । ‘मयूरव्यंसकादयश्च’ इति समासः । ताभिरुपलक्षिता कादम्बिनीमाला विरुरुचे बभौ । अत्र कादम्बिनोशब्दः केवलमालापरः । तदुक्तम्- ‘विशिष्टवाचकानां पदानां सति हि पृथग्विशेषणसमवधाने विशेष्यमात्रपरता’ इति ॥ 17.43 ॥

विश्वास-प्रस्तुतिः

व्योम्नस्तलं पिदधतां ककुभां मुखानि
गर्जारवैर(1)विरतैस्तुदतां मनांसि ।
अम्भोभृतामतितरामनणीयसीभि-
र्धाराबलीभिरभितो ववृषे समूहैः ॥ 17.44 ॥
{1.अविततैः.}

मूलम्

व्योम्नस्तलं पिदधतां ककुभां मुखानि
गर्जारवैर(1)विरतैस्तुदतां मनांसि ।
अम्भोभृतामतितरामनणीयसीभि-
र्धाराबलीभिरभितो ववृषे समूहैः ॥ 17.44 ॥
{1.अविततैः.}

अन्वयः

व्योम्नः तलं ककुभां मुखानि पिदघताम् अविरतैः गर्जारवैः मनांसि तुदताम् अम्भोबृतां समूहैः अनणीयसीभिः धारावलीभिः अभितः अतितरां ववृषे ।

सीतारामः

व्योम्न इति । व्योम्न आकाशस्य तलं स्वरूपम् । ‘तलं स्वरुपाथरयोः खड्गमुष्टिचपेटयोः’ इति विश्वः । तथा ककुभां दिशां मुखान्यग्राणि च पिदधतामाच्छदयताम् । ‘पिघानाच्छादनानि च’ इत्यमरः । तथा अविरतैर्निरन्तरभवद्भिर्गर्जारवैर्गर्जनाधोषैः कृत्वा मनांसि तुदतां व्यथयतामम्भोभृतां जलधराणां समूहैः कर्तृभिः । अनणीयसीभिरणीयस्योऽतिलध्व्यो न भवन्ति तथोक्ताभिः । महतीभिरित्यर्थः । धारावलीभिः संपातपंक्तभिः कृत्वाऽतितरां ववृषे वृष्टम् । भावे लिट् ॥ 17.44 ॥

विश्वास-प्रस्तुतिः

{44-45 श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते–
‘(1)बह्वीयसाधिकतराः सहसा रसेन ध्वन्त्यस्तटे निजकुले(2)ऽप्यसुरप्ररुढे ।
मेधान्धकारपटलीपिहिते नभोन्ते नद्यः प्रचेलुपभितः प्रमदा इवाढ्याः(3)॥’
(1.वहीयसा.2.इव सुप्ररुढे.3.प्रमदाहवाय.)}
(1)घोरान्धकारपटलैः पिहिताम्बराणां
गम्भीरगर्जनरवैर्व्यथितासुराणाम् ।
वृष्ट्याऽनया जलमुचां वरुणास्त्रजानां
विश्वोदरंभरिरपि(2) प्रशशाम वह्निः ॥ 17.45 ॥
{1.‘आप्लावितो बहुभवोऽपिहिताम्बराणां गम्भीरगजंनिपतद्विधुरासुराणाम्,आप्लाविताहवभुवा पिहिताम्बराणां गम्भीरगर्जितपतद्विधुरासुराणाम्॥’.2.अथ.}

मूलम्

{44-45 श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते–
‘(1)बह्वीयसाधिकतराः सहसा रसेन ध्वन्त्यस्तटे निजकुले(2)ऽप्यसुरप्ररुढे ।
मेधान्धकारपटलीपिहिते नभोन्ते नद्यः प्रचेलुपभितः प्रमदा इवाढ्याः(3)॥’
(1.वहीयसा.2.इव सुप्ररुढे.3.प्रमदाहवाय.)}
(1)घोरान्धकारपटलैः पिहिताम्बराणां
गम्भीरगर्जनरवैर्व्यथितासुराणाम् ।
वृष्ट्याऽनया जलमुचां वरुणास्त्रजानां
विश्वोदरंभरिरपि(2) प्रशशाम वह्निः ॥ 17.45 ॥
{1.‘आप्लावितो बहुभवोऽपिहिताम्बराणां गम्भीरगजंनिपतद्विधुरासुराणाम्,आप्लाविताहवभुवा पिहिताम्बराणां गम्भीरगर्जितपतद्विधुरासुराणाम्॥’.2.अथ.}

अन्वयः

घोराऽन्धकारपटलैः पिहिताऽम्बराणां गम्भीरगर्जनरवैः व्यथिताऽसुराणां वरुणाऽस्त्रजानां तथा जलमुचां वृष्ट्या विश्वोदरम्भरिः वह्निः अपि प्रशशाम ।

सीतारामः

घोरेति । घोराणि भयदानि यान्यन्धकारपटलान्यन्धतमसपटलानि तैः कृत्वा पिहिताम्बराणामावृतगगनानाम् । तथा गम्भीरगर्जनरवैः कृत्वा व्यथिताः पीडिता असुरा यैस्ते वरुणास्त्रजानां वरुणदैवतास्त्रोत्पन्नानां जलमुचां मेघानाम् । तथा द्वितीयया वृष्ट्या वर्षेण विश्वेन समस्तजगता कृत्वोदरं भरतीति तथोक्तोऽपि समस्तलोकव्याप्यमानीऽपिवह्निरग्निः प्रशशाम । कुमारकृतवारुणास्त्रप्रयोगेण आग्नेयास्त्रमप्यनशदिति भावः ॥ 17.45 ॥

विश्वास-प्रस्तुतिः

दैत्योऽपि (3)रोषकलुषो निशितैः क्षुरप्रै-
राकर्णकृष्टधनुरुत्पतितैः स भीमैः ।
तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यं(4)
गाढं जघान मकरध्वजशत्रुसूनुम् ॥ 17.46 ॥
{3.कोपकलुषः.4.सैन्यैः.}

मूलम्

दैत्योऽपि (3)रोषकलुषो निशितैः क्षुरप्रै-
राकर्णकृष्टधनुरुत्पतितैः स भीमैः ।
तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यं(4)
गाढं जघान मकरध्वजशत्रुसूनुम् ॥ 17.46 ॥
{3.कोपकलुषः.4.सैन्यैः.}

अन्वयः

रोषकलुषः सः दैत्यः अपि निशितैः भीमैः आकर्णकृष्टधनुरुत्पतितैः क्षुरप्रैः तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यं गाढं मकरध्वजशत्रुसूनुं जघान ।

सीतारामः

दैत्य इति । रोषेण क्रोधेन कलुष आविलः । ‘कलुषं त्वाविले पापे’ इति मेदिनी । सदैत्योऽपि निशितैः खरैः । अथ एव भीमैर्भयदैः । तथाकर्णमाश्रवणं कृष्टाद्धनुषः सकाशादुत्पतितैर्निःसृतैः क्षुरप्रैः शरविशेषैः कृत्वा । तेभ्यः क्षुरप्रेभ्यो भीत्या निमित्तेन विद्रुतं विद्रावितं समस्तं सुरेन्द्रसैन्यं पुरंदरबलं येन । ‘सैन्यं क्लीबं बले सेनासमवेते तु वाच्यवत्’ । इति मेदिनी । तथाभूतः सन् । गाढं दृढं यथा स्यात्तथा मकरध्वजस्य कामस्य शत्रोः शंभो सूनुं पुत्रं जघान । प्राणापहरणकरणाभिप्रायेण हिनस्ति स्मेत्यर्थः । ‘पुनस्तत्रैवावलम्बितो वेतालः’ इति न्यायेन मायया सुखेन जेय एवेति मन्यमानेन तारकेण बाणसमरं हित्वा मायासमरं कुर्वाणेन तत्र सत्यपि दुर्जेयताबुद्ध्या पुनर्बाणयुद्धमक्रियतेतद्यर्थः । अनेन वाच्यार्थेन ‘अप्रतिहतप्रचारा मदीया मायाप्यनेन वीरेण प्रतिहता’ इति शोकग्रस्तेन दैत्येन यथा पराजितेनापि विदुषा युक्त्या विवाद्यते तथा युध्यते, न तु वीररसानुगतत्वेनेति ध्वन्यते ॥ 17.46 ॥

विश्वास-प्रस्तुतिः

देवोऽपि दैत्यविशिख(1)प्रकरं सचापं
बाणैश्चकर्त कणशो (2)रणकेलिकारी ।
योगीव योगविधि(3)शुष्कमना यमाद्यौः
सांसारिकं (4)विषयसङ्घममोघवीर्यम्(5) ॥ 17.47 ॥
{1.प्रवरम्.2.रणकेलिकारः.3.विनिषक्तमनाः.4.विषयवर्गम्.5.वीर्ये.}

मूलम्

देवोऽपि दैत्यविशिख(1)प्रकरं सचापं
बाणैश्चकर्त कणशो (2)रणकेलिकारी ।
योगीव योगविधि(3)शुष्कमना यमाद्यौः
सांसारिकं (4)विषयसङ्घममोघवीर्यम्(5) ॥ 17.47 ॥
{1.प्रवरम्.2.रणकेलिकारः.3.विनिषक्तमनाः.4.विषयवर्गम्.5.वीर्ये.}

अन्वयः

रणकेलिकारी देवः अपि बाणैः सचापं दैत्यविशिखप्रकरं योगविधिशुष्कमनाः योगी यभाद्यैः अमोघवीर्यं सांसारिकं विषयसङ्घम् इव कणशः चर्त ।

सीतारामः

देवोऽपीति । रण एव केलिः क्रीडा तां करोति । संग्रामरुपक्रीडाविधायीत्यर्थः । देवोऽपि कुमारोऽपि बाणैः शरैः सचापं सकोदण्डं दैत्यस्य तारकस्य विशिखानां शराणां प्रकरं समूहं योगविधिना योगाभ्यासविधानेन शुष्कमना नीरसमनाः । निःस्पृहचेताइति तात्पर्यार्थः । योगी यमाद्यैर्यमनियमप्रभृतिभिर्योगसाधनैः कृत्वामोघवीर्यं योगिनामपि मनः संभ्रान्तिकरणे सफलप्रभावं सांसारिकं संसारः प्रयोजनमस्येति तथोक्तम् । प्रयोजने ठक् । विषयसङ्घं यक्षुरादिकरणोपभोग्यसमाहारमिव कणशश्चकर्त विभेद । यथा योगाभ्यासनिरतो यमनियमपूर्वैश्चक्षुरादिकरणभोग्यं दर्शनीयादिकरणवस्तु कृन्तति, तथा कुमारोऽपि यमनियमवत्तीव्रैर्बाणैर्विषयसङ्घमिव सकललक्ष्यभेदनक्रियोचितत्वमपि शरनिकरमभनगिति भावः ॥ 17.47 ॥

विश्वास-प्रस्तुतिः

भ्रूभह्गभीषणमुखोऽसुरचक्रवर्ती
संदीप्तकोपदहनोऽथ रथं विहाय
क्रीडत्करालकरवालकरोऽ(1)सुरेन्द्र-
स्तं प्रत्यधावदभितस्त्रिपुरारि(2) सूनुम् ॥ 17.48 ॥
{1.कधानश्चर्मभ्यधावत्.2.पुत्रम्.}

मूलम्

भ्रूभह्गभीषणमुखोऽसुरचक्रवर्ती
संदीप्तकोपदहनोऽथ रथं विहाय
क्रीडत्करालकरवालकरोऽ(1)सुरेन्द्र-
स्तं प्रत्यधावदभितस्त्रिपुरारि(2) सूनुम् ॥ 17.48 ॥
{1.कधानश्चर्मभ्यधावत्.2.पुत्रम्.}

अन्वयः

अथ सन्दीप्तकोपदहनः भ्रूभङ्गभीषणामुखः असुरचक्रवर्ती असुरः रथं विहाय क्रीडत्करालकरवालकरः । (सन्) तं त्रिपुराऽरिसूनुम् अभित्तः अत्यधावत् ।

सीतारामः

भ्रूभङ्गेति । अथ शस्त्रास्त्रयुद्धानन्तरं सम्यगधिकं यथा तथा दीप्तः कोष एव दहनोग्निर्यस्य अत एव भ्रुवोर्भ्रुकुट्योर्भङ्गेन वक्रत्वेन भीषणं विलोकयितॄणां भयदं मुखं वदनं यस्य तथोक्तोऽसुराणां दैत्यानां चक्रवर्ती सम्राट् । सार्वभौम इत्यर्थः । ‘राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो वृपोऽन्यो मण्डलेश्वरः’ इत्यमरः । असुरेन्द्रस्तारको रथं स्यन्दनं विहाय परित्यज्य क्रीडन्नूर्ध्वदिशि कम्पमानस्तथा करालो भीषणः करवालः खड्गः स करे पाणौ यस्य । धारितविकटकृपाणः सन्नित्यर्थः । तं त्रिपुरारिसूनुं शिवपुत्रमभितः संमुखं प्रत्यधावत् । कुर्ण्ठितसर्वशस्त्रास्त्रत्वात्करवालेन शिरोनालजिहीर्षया प्रतिदुद्रावेत्यर्थः । ‘धावु गतौ’ इत्यस्मात्कर्तरि लङ् ॥ 17.48 ॥

विश्वास-प्रस्तुतिः

अभ्यापतन्तमसुराधिपमी(1)शपुत्रो
दुर्वारबाहुविभवं सुरसैनिकैस्तम्(2) ।
दृष्ट्वा युगान्तदहनप्रतिमां मुमोच
शक्तिं प्रमोदविकसद्वदनारविन्दः ॥ 17.49 ॥
{1.असुरेश्वरम्.2.तैः.}

मूलम्

अभ्यापतन्तमसुराधिपमी(1)शपुत्रो
दुर्वारबाहुविभवं सुरसैनिकैस्तम्(2) ।
दृष्ट्वा युगान्तदहनप्रतिमां मुमोच
शक्तिं प्रमोदविकसद्वदनारविन्दः ॥ 17.49 ॥
{1.असुरेश्वरम्.2.तैः.}

अन्वयः

सुरसैनिकैः दुर्वारबाहुविभवं तम् असुराऽधिपम् अभ्यापतन्तं दृष्ट्वा ईशपुत्रः प्रमोदविकसद्वदनाऽरविन्दः युगाऽन्तदहनप्रतिमां शक्तिं मुमोच ।

सीतारामः

अभ्यापतन्तमिति । सुरसैनिकैर्देवसेनाजनैर्दुर्वारो दुःसह्यो बाहुविभवो भुजवीर्यं यस्य । सुरसैनिकैरजेयमित्यर्थ । तमसुराधिपं दैत्यराजमभ्यापतन्तं संमुखामागच्छन्तं दृष्ट्वा विलोक्येशपुत्रो महेशतनयः कुमारः प्रमोदेन तदीयवशंगतत्वजनितानन्देन विकसद्विदलद्वदनारविन्दं मुखकमलं यस्य । किंचिद्विहस्येत्यर्थः । युगान्तदहनस्य प्रलयकालीनानलस्य प्रतिमेव प्रतिमा प्रतियातना यस्याः । प्रज्वलद्दहनकीलाजालपरिवृतामित्यर्थः । शक्तिमायुधविशेषं मुमोच । ‘शक्तिः प्रहरणान्तरे’ इति विश्वः ॥ 17.49 ॥

विश्वास-प्रस्तुतिः

उद्द्योतिताम्बरदिगन्तरमंशुजालैः
शक्तिः पपात हृदि तस्य महासुरस्य ।
हर्षाश्रुभिः सह (3)समस्तदिगीश्वराणां
शोकोष्ण(4)बाष्पसलिलैः सह दानवानाम् ॥ 17.50 ॥
{3.समग्र.4.शोकोत्थ.}

मूलम्

उद्द्योतिताम्बरदिगन्तरमंशुजालैः
शक्तिः पपात हृदि तस्य महासुरस्य ।
हर्षाश्रुभिः सह (3)समस्तदिगीश्वराणां
शोकोष्ण(4)बाष्पसलिलैः सह दानवानाम् ॥ 17.50 ॥
{3.समग्र.4.शोकोत्थ.}

अन्वयः

(सा) शक्तिः समस्तदिगीश्वराणां हर्षाश्रुभिः सह दानवानां शोकोष्णबाष्पसलिलैः सह अंशुजालैः उद्योतिताऽम्बरदिगन्तरं तस्य महासुरस्य हृदि पपात ।

सीतारामः

उद्द्योतितेति । अत्र सेति शेषः । सा कुमारमुक्ता शक्तिः समस्ता दिगीश्वरा इन्द्रादयोऽष्टदिक्पालास्तेषां हर्षाश्रुभिरानन्दबाष्पैः सह । तेषामभिलषितत्वाद्युक्तमेव तदीयहृदयशक्तिपतनजनित आनन्दो यदासीत् । दानवानां तदीयपक्षपातिनां रक्षसां शोकेन भर्तृमरणजनितेनोष्णानि यानि बाष्पसलिलानि तैः सह । अंशुजालैः किरणसमूहैः कृत्वाद्द्योति प्रकाशितमम्बरस्य दिशां चान्तरं मध्यं यत्र यस्यां क्रियायां यथा भवति तथा । उज्ज्वालितसकलदिगम्बरमध्यं तस्य महासुरस्य तारकस्य हृदि हृदये पपात पतितवती ॥ 17.50 ॥

विश्वास-प्रस्तुतिः

शक्तया (1)हृतासुमसुरेश्वरमापतन्तं
कल्पान्तवातहत(2)भिन्नमिवाद्रिश्रृङ्गम् ।
दृष्ट्वा (3)प्ररुढपुलकाञ्चितचारुदेहा
देवाः प्रमोदमगमं(4)स्त्रिदशेन्द्रमुख्याः ॥ 17.51 ॥
{1.हतासुम्,अथ तारम्.2.हति.3.प्ररुढपुलकाङ्कित,अवरुढपुलकाञ्चित.4.त्रिदिवेशमुख्याः.}

मूलम्

शक्तया (1)हृतासुमसुरेश्वरमापतन्तं
कल्पान्तवातहत(2)भिन्नमिवाद्रिश्रृङ्गम् ।
दृष्ट्वा (3)प्ररुढपुलकाञ्चितचारुदेहा
देवाः प्रमोदमगमं(4)स्त्रिदशेन्द्रमुख्याः ॥ 17.51 ॥
{1.हतासुम्,अथ तारम्.2.हति.3.प्ररुढपुलकाङ्कित,अवरुढपुलकाञ्चित.4.त्रिदिवेशमुख्याः.}

अन्वयः

शक्त्या हृताऽसुम् असुरेश्वरं कल्पाऽन्तवातहतभिन्नम् अद्रि श्रृङ्गम् इव आपतन्तं दृष्ट्वा प्ररुढपुलकाऽञ्चितचारुदेहाः त्रिदशेन्द्रमुख्याः देवाः प्रमोदम् अगमन् ।

सीतारामः

शक्त्येति । शक्त्या कर्त्र्या हृता अपगमिता असवः प्राणा यस्य । शक्तिप्रहारेण गतप्राणमित्यर्थः । एवंभूतमसुरेश्वरं तारकं कल्पान्तवातेन प्रलयकालीनप्रभञ्जनेन हतमास्फोटितमत एव विभिन्नं विदीर्णमद्रिश्रृङ्गमिव पर्वतसान्विवापतन्तं मूर्च्छन्तं दृष्ट्वा प्ररुढैः प्रोद्गतैः पुलकैः रोमभिरञ्चिता व्याप्ता अत एव चारवो मनोहरा देहा गात्राणि येषां प्रफुल्लितरोमाञ्चितविग्रहास्त्रिदशेन्द्रमुख्याः पुरंदरप्रभृतयो देवाः प्रमोदमानन्दमगमन् प्रापुः ॥ 17.51 ॥

विश्वास-प्रस्तुतिः

यत्रापतत्स दनुजाधिपतिः परासुः
(5)सर्वतकालनिपतच्छिखरीन्द्(6)रतुल्यः ।
तत्रादधात्फणिपतिर्धरणीं फणाभि-
स्तद्भूरिभारविधुराभिरधो व्रजन्तीम् ॥ 17.52 ॥
{5.संवर्तवात.6.कल्पः.}

मूलम्

यत्रापतत्स दनुजाधिपतिः परासुः
(5)सर्वतकालनिपतच्छिखरीन्द्(6)रतुल्यः ।
तत्रादधात्फणिपतिर्धरणीं फणाभि-
स्तद्भूरिभारविधुराभिरधो व्रजन्तीम् ॥ 17.52 ॥
{5.संवर्तवात.6.कल्पः.}

अन्वयः

पराऽसुः संवर्तकालनिपतच्छिखरीन्द्रतुल्यः स दनुजाऽधिपतिःयत्र अपतत्, यत्र फणिपतिः अधः व्रजन्तीं धरणीं तद्भरिभारविधुराभिः फणाभिः अदधात् ।

सीतारामः

यत्रेति । परासुर्गतप्राणः मृत इति यावत् । अत एव संवर्तकालः प्रलयकालस्तत्र निपतता शखरीन्द्रेण पर्वतराजेन तुल्यः समानः स दनुजानां दैत्यानामधिपतिस्तारको यत्र भूमिदेशेऽपतन्मूच्छितस्तत्र भूमिदेशे फणिपतिः शेषोऽधोव्रजन्तीं नीचैर्गन्तुं प्रवर्तमानां धरणीं फणाभिस्तस्य तारकस्य भूरिभारेण विधुराभिर्भुग्नीभवन्तीभिरदधादधः पतनान्निवर्तयांचक्रे । अनेन तारकविग्रहस्यातिभारवत्त्वं ध्वनितम् ॥ 17.52 ॥

विश्वास-प्रस्तुतिः

स्वर्गापगासलिलसीकरिणी समन्तात्
सौरभ्यलुब्धमधुपावलिसेव्यमाना ।
कल्पद्रुमप्रसववृष्टिरभून्नभस्तः
शंभोः सुतस्य शिरसि त्रिदशारिशत्रोः ॥ 17.53 ॥

मूलम्

स्वर्गापगासलिलसीकरिणी समन्तात्
सौरभ्यलुब्धमधुपावलिसेव्यमाना ।
कल्पद्रुमप्रसववृष्टिरभून्नभस्तः
शंभोः सुतस्य शिरसि त्रिदशारिशत्रोः ॥ 17.53 ॥

अन्वयः

त्रिदशाऽरिशत्रोः शम्भोः सुतश्य सिरसि नभस्तः स्वर्गापगासलिलसीकरिणी सौरभ्यलुब्धमधुपावलिसेव्यमाना कल्पद्रुमप्रसववृष्टिः समन्तात् अभूत् ।

सीतारामः

स्वर्गापगेति । त्रिदशानां देवानामरेस्तारकस्य शत्रोः शातयितुः हन्तुरिति यावत् । ‘शंभोः सुतस्य कुमारस्य शिरसि शीर्षे ।’ ‘उत्तमाङ्गं शिरः शीर्षम्’ । इत्यमरः । नभस्तः आकाशसकाशात् । पञ्चम्यास्तसिल् । स्वर्गापगाया गङ्गायाः सलिलस्य सीकराः सृताम्बुकणाः । ‘सीकरोऽम्बुकणाः सृताः’ इत्यमरः । ते विद्यन्ते यस्याम् । तथा सौरभ्बे सौगन्ध्ये लुब्धया मदुपानां भ्रमराणामावल्या पङ्क्त्या कर्त्र्या सेव्यमानासल्पद्रुमस्य कल्पवृक्षस्य प्रसवानां पुष्पाणाम् । ‘प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने’ । इति । विश्वः । वृष्टिरभूत् । तारकवधजनितानन्दार्णवमग्ना व्योमस्थिता विष्वादयो देवाः कुमारमस्तकोपरि कल्पद्रुमपुष्पाणि विचकरुरित्यर्थः ॥ 17.53 ॥

विश्वास-प्रस्तुतिः

पुलकभरविभिन्नवार(1)बाणा
भुजविभवं बहु तारकस्य शत्रोः ।
(2)सकलसुरगणा महेन्द्रमुख्याः
प्रमदमुख(3)च्छविसंपदोऽभ्यनन्दन् ॥ 17.54 ॥
{1.चारुदेहा.2.ससुरपरगणा.3.द्युति.}

मूलम्

पुलकभरविभिन्नवार(1)बाणा
भुजविभवं बहु तारकस्य शत्रोः ।
(2)सकलसुरगणा महेन्द्रमुख्याः
प्रमदमुख(3)च्छविसंपदोऽभ्यनन्दन् ॥ 17.54 ॥
{1.चारुदेहा.2.ससुरपरगणा.3.द्युति.}

अन्वयः

प्रमदमुखच्छधिसम्पदः पुलकभरविभिन्नवारबाणाः महेन्द्रमुख्याः सकलसुरगणाः बहु तारकस्य शत्रोः भुजविभवम् अभ्यनन्दन् ।

सीतारामः

पुलकेति । प्रमदा उत्कृष्टा या मुखच्छविर्वदनकान्तिः सैव संपद्वैभवं येषां ते तारकवधजनितमानन्दमेव महतीं संपद मन्यमानाः । अत एव पुलकभरेण रोमाञ्चभारेण विभिन्नानि स्फुटितानि वारबाणानि कवचानि येषाम् । ‘कञ्चुको वारबाणोऽस्त्री’ इत्यमरः । प्रथमविग्रहप्रमाणनिर्मितानां कवचानामिदानीमानन्दवशात्प्रफुल्लत्वाद्विग्रहेषु संकीर्णतया विदलनमुचितमेवेति भावः । एवंभूता महेन्द्रमुख्याः पुरंदरप्रभृतयः सकलसुरगाणाः समस्तवृन्दारकसंघा बहु महत्तारकस्य शत्रोः कुमारस्य भुजविभवं बाहुपराक्रममभ्यनन्दन् ‘साधुस्ते विक्रमः’ इति तुष्टुवुः । पुष्पिताग्रा वृत्तम् । 17.54 ॥

विश्वास-प्रस्तुतिः

इति विषमशरारेः सूनुना जिष्णुनाजौ
त्रिभुवन(4)वरशल्ये (5)प्रोद्धृते दानवेन्द्रे ।
बलरिपुरथ(6) नाकस्याधिपत्यं प्रपद्य
व्यजयत सुरचूडारत्नघृष्टाग्रपादः ॥ 17.55 ॥
{4.खलशल्ये.5.प्रेरिते,पातिते.6.अपि.}

मूलम्

इति विषमशरारेः सूनुना जिष्णुनाजौ
त्रिभुवन(4)वरशल्ये (5)प्रोद्धृते दानवेन्द्रे ।
बलरिपुरथ(6) नाकस्याधिपत्यं प्रपद्य
व्यजयत सुरचूडारत्नघृष्टाग्रपादः ॥ 17.55 ॥
{4.खलशल्ये.5.प्रेरिते,पातिते.6.अपि.}

अन्वयः

जिष्णुना विषमशराऽरेः सूनुना त्रिभुवनवरशल्ये दानवेन्द्रे प्रोद्धृते वलरिपुः नाकस्य आधिपत्यं प्रपद्य सुरचूडारत्नघृष्टाऽग्रपादः (सन्) व्यजयत ।

सीतारामः

इतीति । जिष्णुना जयशीलेन विषमशरारेः पञ्चशरशत्रोर्हरस्य सूनुना कुमारेण त्रिभुवनस्य भुवनत्रयस्य वरे श्रेष्ठे शल्ये शत्रौ । ‘शल्यश्च कथितः शत्रौ मदनद्रुमयोरपि’ । इति विश्वः । दानवेन्द्रे तारके इत्येवंप्रकारेण प्रोद्धृत उत्खनिते । मारिते सतीत्यर्थः । अथ तारकवधानन्तरं बलरिपुः पुरंदरी नाकस्य स्वर्गस्याधिपत्वं राज्यं प्रपद्य प्राप्य सुराणां चूडारत्नैर्मुकुटमणिभिर्धृष्टावग्रपादौ पादाग्रे यस्य । षष्ठीसमासे राजदन्तादित्वादग्रस्य पूर्वनिपातः । तथाभूतः सन् । व्यजयत । सर्वोत्कर्षेण वर्वृत्त इत्यर्थः । स स्वर्गराज्यं प्राप्य निष्कण्टकतया भुनगिति भावः । व्यजयतेति ‘विपराभ्यां जेः’ इत्यात्मनेपदम् । मालिनी वृत्तम् । लक्षणं तूक्तप्रायम् ॥ 17.55 ॥

विश्वास-प्रस्तुतिः

यं प्रासूत सुतं पुरा च जननी नाम्ना सुहीरेति सा
ख्यातो यस्य बुधेन्द्रमस्तकमणिः श्रीलक्ष्मणाख्यः पिता।
यद्भातृद्वितयं महद्विजयते विद्वत्तया मण्डितं
तेनासौ रचिता कुमारविवृतिः संजीविनी जीवदा ॥
संवत्सरेऽङ्काद्रिपुराण (1870) तुल्ये नभस्यमासे बहुले दले च ।
तिथावनङ्गस्य सजीववारे टीका कुमारस्य समापदेषा ॥
शुद्धं त्वशुद्धं च विवेचनीयं सर्वत्र विद्यार्णवपारगेण ।
मयोक्तमेतद्विदुषा परेण पक्षेऽपरस्मिन्ननुकम्पनीयः ॥
टीकासंयुतकाव्यपञ्चकमथ स्तोत्राणि दिक्संख्यका-
न्येकश्छन्दसि चैक एव गणिते साहित्यशास्त्रे त्रयः ।
प्राक्काव्यद्वयटिप्पणीद्वयमिति ग्रन्थावलीसंगता
सीतरामकवेः कृतिः कृतिगले वक्षत्रमालायताम् ॥

मूलम्

यं प्रासूत सुतं पुरा च जननी नाम्ना सुहीरेति सा
ख्यातो यस्य बुधेन्द्रमस्तकमणिः श्रीलक्ष्मणाख्यः पिता।
यद्भातृद्वितयं महद्विजयते विद्वत्तया मण्डितं
तेनासौ रचिता कुमारविवृतिः संजीविनी जीवदा ॥
संवत्सरेऽङ्काद्रिपुराण (1870) तुल्ये नभस्यमासे बहुले दले च ।
तिथावनङ्गस्य सजीववारे टीका कुमारस्य समापदेषा ॥
शुद्धं त्वशुद्धं च विवेचनीयं सर्वत्र विद्यार्णवपारगेण ।
मयोक्तमेतद्विदुषा परेण पक्षेऽपरस्मिन्ननुकम्पनीयः ॥
टीकासंयुतकाव्यपञ्चकमथ स्तोत्राणि दिक्संख्यका-
न्येकश्छन्दसि चैक एव गणिते साहित्यशास्त्रे त्रयः ।
प्राक्काव्यद्वयटिप्पणीद्वयमिति ग्रन्थावलीसंगता
सीतरामकवेः कृतिः कृतिगले वक्षत्रमालायताम् ॥

विश्वास-प्रस्तुतिः

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
तारकासुरवधो नाम स्पतदशः सर्गः ॥

मूलम्

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
तारकासुरवधो नाम स्पतदशः सर्गः ॥