१४

.

पञ्चदशः सर्गः

विश्वास-प्रस्तुतिः

सेनापतिं नन्दनमन्धकद्विषो (1)युधे पुरस्कृत्य बलस्य शात्रवः ।
सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती (2)हृदयप्रकम्पिनी ॥ 15.1 ॥
{1.युद्धे.2.हृदयस्य कम्पिनी.}

मूलम्

सेनापतिं नन्दनमन्धकद्विषो (1)युधे पुरस्कृत्य बलस्य शात्रवः ।
सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती (2)हृदयप्रकम्पिनी ॥ 15.1 ॥
{1.युद्धे.2.हृदयस्य कम्पिनी.}

अन्वयः

बलस्य शात्रवः सेनापतिम् अन्धकद्विषः नन्दनं पुरस्कृत्य सैन्यैः (सह) युधे उपैति इति हृदयप्रकम्पिनी किंवदन्ती सुरद्विषां पुरः अभूत् ।

सीतारामः

सेनापतिमिति । बलस्य बलनामकराक्षसस्य शात्रवः शत्रुरेव शात्रवः । प्रज्ञादित्वात्स्वार्थेऽण् । इन्द्रः । सेनापतिं पृतनाधिपम् । अन्धकद्विषो हरस्य नन्दनं पुत्रं कार्तिकेयं पुरस्कृत्याग्रे कृत्वा सैन्यैः सह युधे युद्धाय । युद्धं कर्तुमिति यावत् । ‘क्रियार्थं-’ इत्यादिना चतुर्थी । उपैत्यायाति । इत्येवंभूता हृदयप्रकम्पिनी हृदयं वेपयन्ती र्किवदन्ती जनश्रुतिः । ‘किंवदन्ती जनश्रुतिः’ इत्यमरः । सुरद्विषां दैत्यानां तारकनगरनिवासिनां पुरोऽग्रेऽभूत् । सर्गऽस्मिन्निन्द्रवंशोपजाती वृत्ते ॥ 15.1 ॥

विश्वास-प्रस्तुतिः

(3)चमूप्रभुं मन्मथमर्दनात्मजं (4)विजित्वरीभिर्विजयश्रियाश्रितम् ।
श्रुत्वा सुराणां पृतनाभिरा(5)गतं चित्ते(6) चिरं चुक्षुभिरे महासुराः ॥ 15.2 ॥
{3.चमूपतिम्.4.विजित्वराभिः.5.आवृतम्,आगमम्.6.स्वान्ते.}

महासुराः विजयश्रियाश्रितं चमूप्रभुं मन्मथमर्दनात्मजं विजित्वरीभिः सुराणां पृतनाभिः (सह) आगतं श्रुत्वा चिरं चित्ते चुक्षुभिरे ।

सीतारामः

चमूप्रभुमिति । महासुरास्तारकनगरनिवासिनो दैत्या विजयश्रिया विजयलक्ष्म्या श्रियं सेवितम् । एतेनास्य कादाचित्कोऽपि पराभवो न भवतीति ध्वनितम् । अत एव चमूप्रभुं सेनाधिपं मन्मथमर्दनस्य शिवस्यात्मजम् । अनेन यदीयः पिता सकलभुवनजेतुर्मकरध्वजस्यापि प्लोषिता, अतोऽस्य किं वक्तव्यम् । ‘कार्यं निदानाद्धि गुणानधीते’, ‘प्रवर्तितो दीप इव प्रदीपात्’ इत्यादिन्यायेन तारकेणाप्ययं दुर्जेय इति ध्वनितम् । तं कार्तिकेयं विजित्वरीभिर्जंयशीलाभिः । जयतेः ‘इण्नशजिसर्तिभ्यः क्वरप्’ इति क्वरपि परे ‘ह्रस्वस्य पिति’ इति तुकि कृते ‘टिड्ढा-’ इत्यनेन ङीप् । सुराणां देवानां पृतनाभिः सहागतमायातं श्रुत्वा चिरं बहुकालपर्यन्तं चित्ते मनसि चुक्षुभिरे संचेलुः । बिभ्युरित्यर्थः । ‘क्षुभ संचलने’ कर्तरि लिट् । अत्र वाच्यापेक्षया व्यङ्ग्यार्थस्य अधिकचमत्कृतिजनकत्वाद् ध्वनिः ॥ 15.2 ॥

विश्वास-प्रस्तुतिः

समेत्य दैत्याधिपतेः (1)पुरे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते ।
न्यवेदयन्मन्मथ(2)शत्रुसूनुना युयुत्सुना (3)जम्भजितं (4)सहागतम् ॥ 15.3 ॥
{1.पुरः.2.दूनसूनुना,शत्रुसूनुम्.3.जम्भजिता.4.समागतम्.}

दैत्याऽधिपतेः पुरे स्थिताः ते समेत्य किरीटबद्धाऽञ्जलयः प्रणम्य युयुत्सुना मन्मथशत्रुसूनुना सह आगतं जम्भजितं न्यवेदयन् ।

सीतारामः

समेत्येति । दैत्याधिपतेस्तारकस्य पुरे नगरे स्थितास्ते महामहासुराः समेत्य समुदित्य । संघीभूयेति यावत् । तथा किरीटेषु मुकुटेषु बद्धेञ्जलिर्यैस्तथा सन्तः प्रणम्य युयुत्सुना योद्धुमिच्छुना मन्मथशत्रोः शिवस्य सूनुना पुत्रेण कुमारेण सहागतं जम्भजितमिन्द्रं न्यवेदयन् । शंभुपुत्रो महेन्द्र आगत इति निवेदितवन्त इत्यर्थः ॥ 15.3 ॥

विश्वास-प्रस्तुतिः

दासीकृताशेषजगत्त्त्रयं (5)न मां जिगाय युद्धे कतिशः शचीपतिः ।
गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं (6)विजेतेति (7)स काकुतोऽहसत् ॥ 15.4 ॥
{5.तु,नु.6.इव,एव.7.सकाकु सोऽहसत्.}

मूलम्

दासीकृताशेषजगत्त्त्रयं (5)न मां जिगाय युद्धे कतिशः शचीपतिः ।
गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं (6)विजेतेति (7)स काकुतोऽहसत् ॥ 15.4 ॥
{5.तु,नु.6.इव,एव.7.सकाकु सोऽहसत्.}

अन्वयः

‘दासीकृताऽशेषजगत्त्रयं मां शचीपतिः कतिशः युद्धे न जिगाय । साम्प्रतं गिरीशपुत्रस्य बलेन ध्रुवं विजेता’ इति स काकुतः अहसत् ।

सीतारामः

दासीकृतेति । दासीकृतं भृत्यीकृतम् । ‘दासो भृत्ये च शूद्रे च’ इति मेदिनी । अशेषजगत्त्रयम् समस्तलोकत्रितयं येन तथाभूतं मां शचीपतिरिन्द्रः कतिशः कतिवारं युद्धे न जिगाय जयति स्म । अपि त्वमेकवारं जिगायेति काकुः । जयनिषेधस्य काक्वाश्रितत्वाज्जयनिषेध एव ध्वन्यते । सांप्रतं वर्तमानकाले गिरीशपुत्रस्य कुमारस्य बलेन वीर्येण तदाश्रयेणेत्यर्थः । ध्रुवं निश्चयेन विजेता विजेष्येत इति स तारकः काकुतः काक्वाहसज्जहास । कदाचिदपि न विजेष्यत इति ध्वन्यते ॥ 15.4 ॥

विश्वास-प्रस्तुतिः

ततः क्रुधा विस्फुरिता(1)धराधरः स तारको दर्पितदोर्बलोद्धतान्(2) ।
युधे (3)त्रिलोकीजयकेलिलालसः सेनापतीन् संनहनार्थमादिशत् ॥ 15.5 ॥
{1.अधरच्छदः.2.बलात् निजान्.3.युद्ध.}

मूलम्

ततः क्रुधा विस्फुरिता(1)धराधरः स तारको दर्पितदोर्बलोद्धतान्(2) ।
युधे (3)त्रिलोकीजयकेलिलालसः सेनापतीन् संनहनार्थमादिशत् ॥ 15.5 ॥
{1.अधरच्छदः.2.बलात् निजान्.3.युद्ध.}

अन्वयः

ततः क्रुधा विस्फुरिताऽधरः (तथा) त्रिलोकीजयकेलिलालसः स तारकः दर्पितदोर्बलोद्धतान् सेनापतीन् युधे सन्नहनाऽर्थम् आदिशत् ।

सीतारामः

तत इति । ततोऽनन्तरं क्रुधा क्रोधेन निमित्तेन विस्फुरित उच्छ्वसितोऽधरोऽनूर्ध्वं ओष्ठो यस्य । प्रसिद्धं चैतद्यत्क्रोधवशादधरविस्फुरणम् । तथाऽधरो हीनः । नीच इति यावत् । ‘अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वं च वाच्यवत्’ । इति मेदिनी । विस्फुरिताधरश्चासावधरश्चेति विशेषणसमासः । तथा त्रिलोक्या जय एव केलिः क्रीडा,तस्यां । लालसेच्छा यस्य । अनायासेनैव त्रिलोकीं जेष्यामीत्यभिमानवानित्यर्थः । एवंभूतः स तारकोऽसुरो दर्पिताः संजातदर्पास्तथा दोर्बलेन भुजबलेनोद्धतान् प्रगल्भान्सेनापतीन् सेनाधिपान्युधे युद्धाय । युद्धं कर्तुमित्यर्थः । संनहनार्थं संनद्धीभवनार्थंमादिशदाजज्ञे । ‘युद्धे’ इति पाठे युद्धे विषये त्रिलोकीजयकेलि विलास इत्यन्वयितव्यम् ॥ 15.5 ॥

विश्वास-प्रस्तुतिः

महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः ।
तस्युर्विनम्रक्षितिपालसंकुले (4)तदङ्गनद्वारवरप्रकोष्ठके ॥ 15.6 ॥
{4.तदङ्गणद्वारि बहिः प्रकोष्ठके,तदङ्गणद्वारबहिःप्रकोष्ठके.}

मूलम्

महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः ।
तस्युर्विनम्रक्षितिपालसंकुले (4)तदङ्गनद्वारवरप्रकोष्ठके ॥ 15.6 ॥
{4.तदङ्गणद्वारि बहिः प्रकोष्ठके,तदङ्गणद्वारबहिःप्रकोष्ठके.}

अन्वयः

उदायुधाः महाचमूनाम् अधिपाः सद्यः सुतरां सन्नह्य विनम्रक्षितिपालसङ्कुले तदङ्गनद्वारप्रकोष्ठके समन्ततः तस्थु ।

सीतारामः

महेति । उदायुधा उद्धतान्यायुधानि शस्त्राणि यैरेवंभूता महाचमूनां महतीनां महतीनां सेनानामधिपाः स्वामिनः स्दयस्त्वरितं सुतरां संनह्य संनद्धा भूत्वा विनम्रा ये क्षितिपाला राजानस्तैः संकुले व्याप्ते तस्य तारकस्य यदङ्गनद्वारं चत्वरप्रवेशद्वारं चत्वरप्रवेशद्वारं तस्य वरः श्रेष्ठो यः प्रकोष्ठोऽन्तम् । मध्यमिति यावत् । ‘प्रकोष्ठो मणिबन्धे स्यात्कूर्परस्यान्तरेऽपि च’ । इति मेदिनी । तत्र समन्ततः सर्वतस्तस्थुः । नृपं प्रतीक्षमाणा इति शेषः । ‘समन्ततस्तु परितः सर्वतो विष्वगित्यपि’ । इत्यमरः ॥ 15.6 ॥

विश्वास-प्रस्तुतिः

स द्वारपालेन पुरः प्रदर्शितान्कृतानतीन्बाहुवरान(1)धिष्ठितान् ।
महाहवाम्भोधिविधूननोद्धतान्ददर्श(2) (3)राजा (4)पृतनाधिपान्बहून्(5) ॥ 15.7 ॥
{1.वाहवरान्.2.ननन्द.3.दैत्यः,पश्यन्.4.पृतनायुधान्.5.निजान्.}

स राजा पुरः द्वारपालेन प्रदर्शितान् कृतानतीन् बाहुवरान् अधिष्ठितान् महाहवाऽम्भोधिविधूननोद्धतान् बहून् पृतनाऽदिपतीन् ददर्श ।

सीतारामः

स इति । स राजा तारकः पुरोऽग्रे द्वारपालेन प्रदर्शितान्कृतानतीन् बाहुवरान्बाहवो वराः श्रेष्ठा येषां तथोक्तानधिष्ठितान् । द्वार इति शेषः । महाहवरुपिणोऽम्भोधेः समुद्रस्य विधूनने कम्पन उद्धतान्प्रगल्भान् । महावीरानित्यर्थः । ‘संव्रामाब्यागमाहवाः’ इत्यमरः । बहून् पृतनाधिपान् सेनापतीन्ददर्श दृष्टवान् । ‘अदभ्रं बहुलं बहु’ इत्यमरः ॥ 15.7 ॥

विश्वास-प्रस्तुतिः

बली(6) बलारातिबलातिशातनं दिग्दन्तिनादद्रवनाशनस्वनम्(7) ।
महीधराम्भोधिन(8)वारितक्रमं ययौ रथं घोरमथाधिरुह्य सः ॥ 15.8 ॥
{6.ततः.7.दानद्रवनाशनस्वनम्,दानद्रवदाननिःस्वनम्.8.अम्भोध्यनिवारित,अम्भोधिनिवारितः.}

अत बली स बलाऽरातिबलातिशातनं दिग्दन्तिनादद्रवनाशनस्वनं महीधराऽभोधिम् अवारितक्रमं घोरं रथम् अधिरुह्य ययौ ।

सीतारामः

बलीति । अथानन्तरं बली वीर्यवान्स तारको बलारातोरिन्द्रस्य सम्बन्धिनो बलस्य सैन्यस्य । ‘बलं गन्धरसे रुपे स्थामनि स्थौल्यसैन्ययोः’ । इति मेदिनी । अतिशातनं तनूकर्तारम् । हन्तारमित्यर्थः । दिग्दन्तिनामैरावतादीनां नादद्रवयोर्घोषमदयोर्नाशनो नाशकः स्वनो घोषो यस्य तम् । यदोयधाषवशाद्दिग्दन्तिनोऽपि तूष्णीं शुष्कमदाश्व भवन्तीति भावः । महीधरेषु पर्वतेष्वम्भोधिषु च नवारितसंचारम् । न शब्देन सह ‘सप्सुपा’ इति समासः । घोरं भीमं रथमधिरुह्य ययौ जगाम । प्रतस्य इति यावत् ॥ 15.8 ॥

विश्वास-प्रस्तुतिः

युगक्षयक्षुब्धपयोधिनिःस्वनाश्चलत्पताकाकुलवारितातपाः ।
धरारजोग्रस्तदिगन्तभास्कराः (1)पतिं प्रयान्तं पृतनास्तमन्वयुः ॥ 15.9 ॥
{1.प्रति प्रयातुम्,प्रतिप्रयातम्.}

मूलम्

युगक्षयक्षुब्धपयोधिनिःस्वनाश्चलत्पताकाकुलवारितातपाः ।
धरारजोग्रस्तदिगन्तभास्कराः (1)पतिं प्रयान्तं पृतनास्तमन्वयुः ॥ 15.9 ॥
{1.प्रति प्रयातुम्,प्रतिप्रयातम्.}

अन्वयः

युगक्षयक्षुब्धपयोधिनिःस्वनाः चलत्पताकाकुलवारितातपाः धरारजोग्रस्तदिगन्तभास्कराः पृतनाः ; प्रयान्तं पतिं तम् अन्वयुः ।

सीतारामः

युगेति । युगक्षये प्रलयकाले क्षुब्धः संचलितोः यः पयोधिः समुद्रस्तस्य निः स्वना यासाम् । प्रलयकालाद्रेलीभूतसागरसदृशघोरघोषा इत्यर्थः । चलन्तीनां पताकानां वैजयन्तीनाम् । ‘पताका वैजयन्त्यां स्यात्सौभाग्ये नाटकाङ्कयोः’ । इति मेदिनी । कुलेन समूहेन वारितातपा दूरीकृतधर्मा धराया भूमे रजोभिर्ग्रस्ता दिगन्तानि दिक्प्रान्तानि भास्करश्च याभिस्तथाभूताः पृतनाः सेनाः, कर्त्र्यः । प्रयान्तं प्रतिष्ठमानं तं पतिं तारकासुरमन्वयुः अनुजग्मुरित्यर्थः ॥ 15.9 ॥

विश्वास-प्रस्तुतिः

चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं (2)प्रसर्पिणः ।
दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दानाम्बुघनेषु(3) पङ्कताम् ॥ 15.10 ॥
{2.प्रसर्पतः.3.दानाम्बुधरेषु.}

मूलम्

चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं (2)प्रसर्पिणः ।
दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दानाम्बुघनेषु(3) पङ्कताम् ॥ 15.10 ॥
{2.प्रसर्पतः.3.दानाम्बुधरेषु.}

अन्वयः

अभिसुरं प्रसर्पिणः महासुरस्य चमूरजः दिगन्तदन्तिनां सितेषु दन्तप्रकाण्डेषु शुभ्रतां दानाऽम्बु घनेषु कुम्भेषु पङ्कतां आप ॥

सीतारामः

चमूरज इति । अभिसुरं सुरसंमुखं प्रसर्पिणः प्रतिष्ठमानस्य महासुरस्य तारकस्य सम्बन्धिनीनां चमूनां रजो रेणुः । दिगन्तदन्तिनामैरावतादीनां सितेषु शुभ्रषु दन्तप्रकाण्डेषु । दन्तरुपासु शाखास्वित्यर्थः । ‘प्रकाण्डो न स्त्री विटपेमूलशाखान्तरे तयोः’ इति मेदिनी । शुभ्रतां दानाम्बुना मदजलेन घनेषु सघनेषु कुम्भेषु मूर्घान्तरेषु । गण्डस्थलेष्विति यावत् । ‘कुम्भो राश्यन्तरे हस्तिमूर्धान्ते राक्षसान्तरे’ । इति मेदिनी । पङ्कतां कर्दमताम् । ‘पङ्कोऽस्त्री कर्दमे पाप’ । इति मेदिनी । प्राप । धवलिमाश्रयीभूतसम्बन्धेन युक्तं हि धवलत्वमिति भावः । अन्यत्स्फुटम् ॥ 15.10 ॥

विश्वास-प्रस्तुतिः

महीभृतां कन्दरदारणोल्वणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
(1)उद्वेलिताश्चुक्षुभिरे महार्णवा नभःस्त्रवन्ती सहसाऽभ्यवर्धत(2) ॥ 15.11 ॥
{1.उद्वेजिताः.2.व्यवर्धत.}

मूलम्

महीभृतां कन्दरदारणोल्वणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
(1)उद्वेलिताश्चुक्षुभिरे महार्णवा नभःस्त्रवन्ती सहसाऽभ्यवर्धत(2) ॥ 15.11 ॥
{1.उद्वेजिताः.2.व्यवर्धत.}

अन्वयः

महीभृतां कन्दरदारणोल्बणैः घनैः तद्वाहिनीनां पटहस्वनैः उद्वेलिताः महार्णवा चुक्षुभिरे (तथा) नभःस्त्रवन्ती सहसा अभ्य वर्द्धत ।

सीतारामः

महीभृतामिति । महीभृतां पर्वतानां सम्बन्धिनो ये कन्दरा दर्यः, तेषां दारणे स्फोटन उल्बणैरुद्भटैः । आत्मव्याप्तिवशात्स्फीटद्भिरिव भासमानैरित्यर्थः । तथा घनैर्द्दढैः । कठोरैरिति यावत् । ‘वनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनाद्येषु विस्तारे लिहिमुद्गरे । त्रिषु सान्द्रे दृढे च’ इति मेदिनी । तद्वाहिनीनां तारकसेनानां सम्बन्धिनो ये पटहा आनकाः । ‘पटहो ना समारम्भ आनके पुंनपुंसकम्’ इति मेदिनी । तेषां स्वनैः कर्तृभिः उद्वेलिता वेलामतिक्रमिता महार्णवा महान्तः समुद्राश्चुक्षुभिरे संचेलुः । पटहध्वनिजनितभयादिति भावः । तथा नभःस्त्रवन्त्याकाशगङ्गा च सहसाऽकस्मादभ्यवर्धत । अतिवेला बभूवेत्यर्थः ॥ 15.11 ॥

विश्वास-प्रस्तुतिः

सुरारिनाथस्य महाचमूस्वनैविगाह्यमाना तुमुलैः सुरापगा ।
अभ्युच्छ्रितै(3)रुर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेतनावलीम्(4) ॥ 15.12 ॥
{3.ऊर्मिशतैरवारितैः.4.निवेतनावलीः.}

मूलम्

सुरारिनाथस्य महाचमूस्वनैविगाह्यमाना तुमुलैः सुरापगा ।
अभ्युच्छ्रितै(3)रुर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेतनावलीम्(4) ॥ 15.12 ॥
{3.ऊर्मिशतैरवारितैः.4.निवेतनावलीः.}

अन्वयः

तुमुलैः सुराऽरिनाथस्य महाचमूस्वनैः विगाह्यमाना सुरापगा अभ्युच्छ्रितैः वारिजैः ऊर्मिशतैश्च नाकनिकेतनोवलीम् अक्षालयत् ।

सीतारामः

सुरारिनाथस्येति । तुमुलैः संकुलैः ‘तुमुलः कलिवृक्षे ना तुमुलं रणसंकुले’ । इति मेदिनी । सुरारिरेव नाथो राजा तस्य । यद्वा सुरारीणां नाथो राजा तस्य । सम्बन्धिनां महाचमूनां स्वनैः शब्दैर्विगाह्यमाना व्याप्यमाना सुरापगा मन्दाकिनी । अभ्युच्छ्रितैरध्युत्पतितैर्वारिजैर्वारिजानि कमलानि विद्यन्ते येषु तैः ।कमलसहितैरित्यर्थः । ‘अर्शआदिभ्यः-’ इत्यच् । ऊर्मिशतैस्तरङ्गशतकैश्च । ‘भङ्गस्तरङ्ग ऊर्मिर्वा’ । इत्यमरः । नाकनिकेतनाकलीं स्वर्गवेश्मपङ्क्तिमक्षालयन्ममार्ज ॥ 15.12 ॥

विश्वास-प्रस्तुतिः

अथ प्रयाणाभिमुखस्य नाकिनां (1)द्विषः पुरस्तादशुभोपदेशिनी ।
(2)अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातपरम्परा तव ॥ 15.13 ॥
{1.द्विषः पुरस्तादशुभौघदायिनी;पताकिनीं प्रत्यसुरेश्वरस्य हि.2.अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातततिर्विशंसती;मुहुर्महारिष्टपरम्परा परापतन्मृत्युमहापताकिनी.}

अथ प्रयाणाऽभिमुखस्य नाकिनां द्विषः पुरस्तात् ‘तव अगाधदुःखाऽम्बुधिमध्यमज्जनम् अशुभोपदेशिनी उत्पातिपरम्परा बभूव ।’

सीतारामः

अथेति । अतानन्तरं प्रयाणाभिमुखस्य प्रस्थानसंमुखस्य नाकिनां देवानां द्विषो वैरिणस्तारकस्य पुरस्तादग्रे भो तारक, तव त्वत्कर्मकम् । अगाधोऽतलस्पर्शः । ‘अगाधमतलस्पर्शै त्रिषु श्वभ्रे नपुंसकम्’ इति मेदिनी । यो दुःखाम्बुधिर्दुःखसमुद्रस्तन्मध्ये मज्जनं भविष्यति ’ इत्येवमशुभोपदेशिन्यशुभवादिन्युत्पातपरम्परा दुःशकुनपंक्तिर्बभूव ॥ 15.13 ॥

विश्वास-प्रस्तुतिः

इतः परम् ‘आगामिदैत्याशने -’ त्यादिभिरेकादशभिरुत्पातपरम्परामेव प्रपञ्चयति-
(3)आगामिदैत्याशनकेलिकाङ्क्षिणीं (4)कुपक्षिणां घोरतरा परम्परा ।
दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा ॥ 15.14 ॥
{3.भविष्यदैत्याशनकेलिकामिनी.4.द्युपक्षिणाम्.}

घोरतरा कुपक्षिणां परम्परा आगामि दैत्याऽशनकेलिकाङ्क्षिणी सुराऽरिवाहिनीः उपर्युपरि एत्य निवारितातपा (सती) व्योम्नि पदं दधौ ।

सीतारामः

आगामीति । घोरतरातिशयभयानका कुपक्षिणां गृघ्रादीनां कपोतादीनां वा परम्परा । आगामि भविष्यद्यद्दैत्यस्याशनकेलिर्भोजनक्रीडा तत्कांक्षतीति तथाभूता । तथा सुरारिवाहिनीस्तारकसेना उपर्युपरि । ‘उपर्यध्यधसः सामीप्ये’ इति द्विर्भावः । तद्योगे द्वितीया । तदुक्तं वामनेन- ‘उपर्यादिषु सामीप्यं द्विरुक्तेषु द्वितीयया’ । इति । अनिवारितातपा न निवारितघर्मा च सती व्योम्न्याकाशे पदं स्थानं दधौ दृतवती । अनेन पद्येन प्रयाणानौचित्यद्योतकमुत्पातद्वयं वर्णितम् । तथाहि-आकस्मिकोपरि वृत्तिः आतपानिवृत्तिश्च । तस्मात्सवंथैवास्य मरणं भविष्यतीति सूच्यते ॥ 15.14 ॥

विश्वास-प्रस्तुतिः

मुहु(1)र्विभग्नातपवारणध्वजश्चलद्धराधूलिकुलाकुलेक्षणः ।
(2)धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः ॥ 15.15 ॥
{1.विभिन्न.2.धूताश्वमातङ्गमहारथव्रजोऽनवक्षणोऽभूत्;जनाश्वमातङ्गमहारथव्रजानवेक्षमाणः.}

विभग्नातपवारणध्वजः चलद्धराधूलिकुलाकुलेक्षणः धूताऽश्वमातङ्गमहारथाकराऽनवेक्षणः प्रसभं प्रभञ्जमः अभूत् ।

सीतारामः

मुहुरिति । विभग्ना त्रोटिता आतपवारणसहिता ध्वजा येन । चलन्त्यो विसरन्त्यो या धराधूलयः पृथिवीरजांसि तासां कुलेन साधनीभूतेनाकुलानि व्याकुलीकृतानीक्षणानि लाकनेत्राणि येन । तथा धूतस्य कम्पितस्य । नभसि भ्रमितस्येति यावत् । अश्वानां मातङ्गानां महारथानां चाकरस्य निकरस्य । ‘आकरो निकरे रत्नस्थाने श्रेष्ठे च कथ्यते’ इति मेदिनी । अनवेक्षणमदर्शनं येन । आच्छादितसकलसेनाङ्गः प्रभञ्जनो वायुः । ‘पवमानप्रभञ्जनाः’ इत्यमरः । अभूदुत्पन्नः । ‘मुहु’ ‘प्रसभम्’ इत्यस्य विशेषणत्रयेऽपि सम्बन्धः । अयं तृतीय उत्त्पातः ॥ 15.15 ॥

विश्वास-प्रस्तुतिः

सद्यो विभिन्नाञ्जनपुञ्ज(3)तेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
पुरः (4)पथोऽतीत्य महाभुजङ्गमा भयंकराकारभृतो भृशं ययुः ॥ 15.16 ॥
{3.संनिभाः.4.परोत्पात.}

मूलम्

सद्यो विभिन्नाञ्जनपुञ्ज(3)तेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
पुरः (4)पथोऽतीत्य महाभुजङ्गमा भयंकराकारभृतो भृशं ययुः ॥ 15.16 ॥
{3.संनिभाः.4.परोत्पात.}

अन्वयः

सद्यो विभिन्नाऽञ्जनपुञ्जतेजसः उच्चकैः भृशं भयङ्कराकारभृतः महाभुजङ्गमा पुरः मुखैः विषाऽग्निं विकिरन्तः पथः अतीत्य ययुः ।

सीतारामः

सद्य इति । सद्यो विभिन्नं तत्क्षणपतितं यदञ्जनं कज्जलम् । ‘अञ्जनं कज्जले चाक्तौ सौवीरे च रसान्तरे’ । इति मेदिनी । तस्य पुञ्ज इव निकर इव तेजो धाम येषाम् । नूतनपातितकज्जलसमूहश्यामभास इत्यर्थः । उच्चकैर्महान्तः । विस्तीर्णा इति यावत् । तथा भृशं भयकराकारभृतः । अतिभीषणस्वरुपधारिण इत्यर्थः । महाभुजंगमा महान्तः सर्पाः पुरोऽग्रे विषाग्निं गरलरुपमग्निम् । ‘क्ष्वेडस्तु गरलं विषम्’ इत्यमरः । विकिरन्तो विक्षिपन्तः सन्तः पथः सैन्यगन्तव्यमार्गानतीत्य पूर्वविहितात्मसम्बन्धेन वियोज्य ययुः । चतुर्थोऽयमुत्पातः ॥ 15.16 ॥

विश्वास-प्रस्तुतिः

मिलन्महाभीमभुजङ्गभूषणं प्रभुर्दिनानां परिवेषमादधौ ।
महासुरस्य द्विषतोऽति(1)मत्सरादि(2) वान्तमासूचयितुं भयङ्करः ॥ 15.17 ॥
{1.नुमत्सरात्;नमत्सरात्.2.आत्तमास्यं प्रयतुर्भयंकरम्;आत्तमास्वप्रयतुर्भयंकराः.}

दिनानां प्रभुः द्विषतः महासुरस्य अन्तम् आसूचयितुं मिलन्महाभीमभुजङ्गभीषणं परिवेषम् अतिमत्सरात् इव भयङ्करः आदधौ ।

सीतारामः

मिलदिति । दिनानां प्रभुः सूर्यो द्विषतः शत्रुभूतस्य ‘द्विषद्द्वेषणदुर्हृदः’ इत्यमरः । महासुरस्य तारकस्यार्न्त विनाशम् । मरणमिति यावत् । ‘अन्तःस्वरुपे नाशे ना स्त्री शेषे चान्तिके त्रिषु’ । इति मेदिनी । आसूचयितुं ज्ञापयितुं मिलन्तः संयुजन्तः । तथा महाभीमा अतिभयंकरा ये भूजङ्गाः सर्पास्तैर्भीषणं भयदं परिवेषं परिधिं कुण्डलाकारम् । ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’ इत्यमरः । अतिमत्सरादिवादधौ धृतवान् । विनाशरुपफलसूचकपरिवेषाधाने मत्सरस्य हेतुत्वाभावेऽपि हेतुत्वकल्पनाद्धेतूत्प्रेक्षा । अत एव भयंकरो विभीषकः । ‘मेघर्ती-’ ति खश् । पञ्चमोऽयमुत्पातः ॥ 15.17 ॥

विश्वास-प्रस्तुतिः

त्विषामधीशस्य पुरोऽ(3)धिमण्डलं शिवाः समेताः परुषं ववाशिरे ।
(4)सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ॥ 15.18 ॥
{3.अभिमण्डलम्.4.सुराधिराजस्य.}

मूलम्

त्विषामधीशस्य पुरोऽ(3)धिमण्डलं शिवाः समेताः परुषं ववाशिरे ।
(4)सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ॥ 15.18 ॥
{3.अभिमण्डलम्.4.सुराधिराजस्य.}

अन्वयः

त्विषाम् अधीशस्य अधिमण्डलं समेताः शिवाः सुराऽरिराजस्य रणाऽन्तशोणितं द्रुतं प्रसह्य पातुम् उत्सुका इव परुषं ववाशिरे ।

सीतारामः

त्विषामिति । त्विषां तेजसामधीशस्य रवेरधिमण्डला इत्यर्थः । विभवत्यर्थेऽव्ययीभावः । समेताः समुदिताः शिवाः क्रोष्ट्र्यः । ‘शिवा झाटामलौषधौ । अभयामलकी गौरी क्रोष्ट्रीशक्रफलासु च’ । इति विश्वः । सुरारिराजस्य तारकस्य सम्बन्धिनि रणान्ते संग्रामसमीपे यच्छोणितं रक्तं द्रुतं शीघ्रं प्रसह्य बलात्पातुं पानं कर्तुमुत्सुका इव परुषं कठोरं यथा ववाशिरे चुक्रुशुः । अत्रोत्पातद्वयम् । मार्तण्डलाधिकरणकं शिवासमुदितत्वं तत्कर्तृककठोररुदितं चेति । षष्ठसप्तमावेतावुत्पातौ ॥ 15.18 ॥

विश्वास-प्रस्तुतिः

दिवापि तारास्तरला(1)स्तरस्विनीः परापतन्तीः परितोऽथ(2) वाहिनीः ।
विलोक्य (3)लोको मनसा (4)व्यचिंन्तयत्प्राणव्ययान्तं(5) व्यसनं सुरद्विषः ॥ 15.19 ॥
{1.तदानिशम्.2.अभिवाहिनीम्.3.लोकाः.4.व्यचिन्तयन्.5.प्राणात्ययान्तं व्यसनम्.}

अत दिवा अपि तरलाः तरस्विनीः ताराः वाहिनीः परितः परापतन्तीः विलोक्य लोकः मनसा सुरद्विषः प्राणव्ययाऽन्तं व्यसन्नम् अचिन्तयत् ।

सीतारामः

दिवापीति । अथ दिवापि दिनेऽपि तरलाश्चञ्चलाः तरस्विनीर्वेगवतीः । ‘रंहस्तरसी तु रयः स्यदः’ इत्यमरः । तारा नक्षत्राणि, वाहिनीः परितः ‘अभितः परितः समये-’ त्यादिना द्वितीया । परापतन्तीर्विलोक्य लोको मनसा सुरद्विषः सम्बन्धि प्राणव्ययान्तं प्राणनाशावधिव्य सनं व्यचिन्तयत् । प्राणनाशावधि राज्ञो दुःखं भविष्यतीति चिन्तयामासेत्यर्थः । अष्टमोऽयमुत्पातः ॥ 15.19 ॥

विश्वास-प्रस्तुतिः

(6)ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
रवेण रौद्रेण (7)हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ॥ 15.20 ॥
{6.चलद्भिः.7.दिगन्तदारणम्.}

मूलम्

(6)ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
रवेण रौद्रेण (7)हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ॥ 15.20 ॥
{6.चलद्भिः.7.दिगन्तदारणम्.}

अन्वयः

निरम्बुदात् नभसः अभितः ज्वलद्भिः प्रभारभरैः उच्चैः उद्भासिताऽऽशेषदिगन्तराऽम्बरं रौद्रेण रवेण हृदन्तदारणं वज्रं पपात ।

सीतारामः

ज्वलद्भिरिति । निरम्बुदादनुद्भूतमेघान्नभसो व्योम्नः सकाशादभितो ज्वलद्भिः प्रस्फुरद्भिः प्रभाभरैः कान्तिसमूहैः कृत्वा । उच्चैरतिशयितं यथा तथोद्भासितानि प्रकाशितान्यशेषदिगन्तराणि समस्तदिशां प्रान्तगतानि येन । तथा रौद्रेण भयानकेन रवेण घोषेण हृदन्तस्योरोमध्यस्य दारणं विदारकं वज्रं स्फूर्जथुः पपात । ‘स्फुर्जथुर्वज्रनिर्घोषः’ इत्यमरः । अत्राप्युत्पातद्वयं अम्बुदसांनिध्याभावेऽपि वज्रदर्शनं तत्पातश्चेति । एवं नवमदशमावुत्पातावुक्तौ ॥ 15.20 ॥

विश्वास-प्रस्तुतिः

(1)ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
(2)धूमं ज्वलन्त्यो व्यसृजन्मुखै(3) रजो दधुर्दिशो रासभकण्ठधूसरम् ॥ 15.21 ॥
{1.अङ्गारभर.2.धूम्रम्.3.मुखे.}

मूलम्

(1)ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
(2)धूमं ज्वलन्त्यो व्यसृजन्मुखै(3) रजो दधुर्दिशो रासभकण्ठधूसरम् ॥ 15.21 ॥
{1.अङ्गारभर.2.धूम्रम्.3.मुखे.}

अन्वयः

नभस्तलं ज्वलद्भिः अङ्गारचयैः (तथा) शोणिताऽस्थिभिः सह गाढं ववर्ष । ज्वलन्त्यश्च दिशः रासभकण्ठधूसरं रजः दधुः, मुखैः धूमं व्यसृजन् ।

सीतारामः

ज्वलद्भिरिति । नभस्तलम् । निरम्बुदं सदिति शेषः । ज्वलद्भिरङ्गारचयैः काष्ठशकलसमूहैः । तथा शोणितास्थिभिश्च सह गाढं दृढम् । बह्खिति यावत् । ववष । ज्वलदङ्गाररुधिरास्थिगभिंतं जलं ववर्षेत्यर्थः । अम्बुदसांनिध्याभावेऽपि वृष्ठिरेकादशतमोऽयमुत्पातः । साप्यङ्गारादिमिश्रितेति द्वादशतमः । अत एव ज्वलन्त्यो दिशो रासभकण्ठधूसरं खरगलसदृशधूसरवर्णम् । ‘रासभो गर्दभे क्षुद्रजन्तुरोगप्रभेदयोः’ । इति मेदिनी । धूमं धूमरूपं रजोरेणुं रजोरेणुं मुखैः प्रारम्भप्रदेशैर्व्यसृर्जस्तत्यजुः । त्रयोदशतमोऽयमुत्पातः ॥ 15.21 ॥

विश्वास-प्रस्तुतिः

निर्घातघोषो (4)गिरिश्रृङ्गशातनो (5)घनोऽम्बराशाकुहरोदरम्भरिः ।
बभूव (6)भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जित(7)गर्जितर्जनः ॥ 15.22 ॥
{4.गिरिश्रृङ्गघातनैः,गिरिश्रृङ्गशातनैः.5.धराम्बराशाकुहरोदरंभरिः.6.भूमा.7.गर्जितस्वनः,गर्जतर्जनः.}

प्रकोपिकालाऽर्जितगर्जितर्जनः अम्बराशाकुदुहुरोदरम्भरिः गिरिश्रृङ्गशातनः घनः निर्घातकोषः भूम्ना श्रुतिभित्तिभेदनः बभूव ।

सीतारामः

निर्धातेति । प्रकोपिना प्रकृष्टरोषेण कालेन यमेनार्जितोत्पादिता गर्जिना गर्जनां कुर्वती तर्जनापकारगीर्यंत्र । अत एवाम्बरस्याशानां च कुहरेणान्तरेणोदरंभरिः, अत एव गिरीणां श्रृङ्गस्य शातनो भेदकः तथा घनः सान्द्रो निर्घातश्चासौ घोषश्च स भूम्ना बाहुल्येन श्रुतिभित्तिभेदनः कर्णकुड्यताडनो बभूव । चतुर्दशतमोऽयमुत्पातः ॥ 15.22 ॥

विश्वास-प्रस्तुतिः

(1)रखलन्महेभं (2)प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः ।
(3)प्रक्षुभ्यदंभोधिविभिन्नभूधराद्(4) बलं(5) द्विषोऽभूदवनि(6) प्रकम्पात् ॥ 15.23 ॥
{1.चलन्.2.प्रणयत्तुरंगमम्.3.संक्षुभ्यत्.4.भूधरम्.5.पुरः.6.प्रकम्पनम्;प्रकम्पत.}

द्विषः बलं प्रक्षुभ्यदम्भोधिविभिन्नभूधरात् अवनिप्रकम्पात् स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः अभूत् ।

सीतारामः

स्खलदिति । द्विषस्तारकस्य बलं सैन्यम् । ‘बलं गन्धरसे रुपे स्थामनि स्थौल्यसैन्ययोः’ इति विश्वः । प्रक्षुभ्यद्भिरुन्मथ्यमानैरम्भोधिभिर्विभिन्ना विदीर्णा भूधराः पर्वता यत्र । प्रोत्पद्यमानविकटतरधरणिकम्पप्रोच्छलत्समुद्वेलज्जलधिघोरतरप्रवाहस्फुटन्तो धराधरा बभूवुरिति भावः । एवंभूतादवनिप्रकम्पात्भूकम्पाद्धेतोः स्खलन्महेभं मूर्च्छद्बृहत्करीन्द्रं प्रपतत्तुरङ्गमं प्रकृष्टपतद्वाजिराजं परस्पराश्लिष्टोभयवदन्योन्योन्यासंसक्ताननो यत्र तथाभूतं बभूव । पञ्चदशतमोऽयमुत्पातः ॥ 15.23 ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वोकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
श्वानः स्वरेण श्रवणान्तशातिना(7) मिथो रुदन्तः करुणेन निर्ययुः ॥ 15.24 ॥
{7.पातिना.}

मूलम्

ऊर्ध्वोकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
श्वानः स्वरेण श्रवणान्तशातिना(7) मिथो रुदन्तः करुणेन निर्ययुः ॥ 15.24 ॥
{7.पातिना.}

अन्वयः

सर्वे श्वानः समेत्य उर्ध्वीकृतास्याः रविदत्तवृष्टयः करुणेन श्रवणाऽन्तशातिना स्वरेण मिथः रुदन्त सुरविद्विषः पुरः निर्ययुः ।

सीतारामः

उर्ध्वीकृतास्या इति । सर्वे श्वानः समेत्य समुदेत्योर्ध्वीकृतास्या उर्ध्वदिशाविहितवदनाः । तथा रविदत्तदृष्टयः सूर्यनिबद्धलोचनाः । तथा करुणेन करुणरसपूरितेनात एव श्रवणान्तशातिना कर्णमध्यतनूकारिणा स्वरेण शब्देन कृत्वा रुदन्तः क्रोशन्तः सन्तः सुरविद्विषस्तारकस्य पुरोऽग्रे निर्ययुर्निरगच्छन् । षोडशतमोऽयमुत्पातः ॥ 15.24 ॥

विश्वास-प्रस्तुतिः

(1)अपीति पश्यन्परिणामदारुणां (2)महत्तमां गाढमरिष्टसंततिम् ।
दुर्दैददष्टेन(3) (4)खलु (5)न्यवर्तत क्रुधा प्रयाणव्यवसायतो सुरः ॥ 15.25 ॥
{1.इति प्रपश्यन्.2.महत्तरम्.3.दष्टः.4.खलः.5.निर्वर्तते.}

मूलम्

(1)अपीति पश्यन्परिणामदारुणां (2)महत्तमां गाढमरिष्टसंततिम् ।
दुर्दैददष्टेन(3) (4)खलु (5)न्यवर्तत क्रुधा प्रयाणव्यवसायतो सुरः ॥ 15.25 ॥
{1.इति प्रपश्यन्.2.महत्तरम्.3.दष्टः.4.खलः.5.निर्वर्तते.}

अन्वयः

इति गाढ परिणामदारुणां महत्तमाम् अरिष्टसन्ततिं पश्यन् अपि असुरः दुधैवदष्टः (सन्) क्रुधा प्रयाणव्यवसायतः न न्यवर्तत ।

सीतारामः

अपीति । गाढं दृढं यथा तथा परिणाम उत्तरकाले दारुणां भयप्रदां महत्तमामतिशयमहतीमरिष्टसंततिमुत्पातपरम्परां पश्यन्नपि असुरस्तारकः क्रुधाऽमर्षेण प्रयाणव्यवसायतः प्रस्थानोद्योगान्न न्यवर्तत न निवृत्तः खलु । यतो दुर्दैवेन दुरदृष्टेण दष्टो हतः । ‘विनाशकाले विपरीतबुद्धिः’ इति न्यायादिति भावः ॥ 15.25 ॥

विश्वास-प्रस्तुतिः

अरिष्टमाशङ्क्य विपाकदारुणं (6)निवार्यमाणोऽपि(7) बुधैर्महा(8)सुरः ।
पुरः प्रतस्थे महतां वृथा भवेदन्सद्ग्रहान्धस्य (9)हितोपदेशनम् ॥ 15.26 ॥
{6.निवार्यमाणः.7.विबुधै,विबुधैः,विविधैः.8.महासुरैः.9.हितोपदेशनाः,हितोपदेशिता.}

महासुरः विपाकदारुणम् अरिष्टम् आशङ्क्य निवार्यमाणः अपि पुरः (एव) प्रतस्थे ; असद्ग्रहाऽन्धस्य महतां हितोपदेशनं वृथा भवेत् ।

सीतारामः

अरिष्टेति । महासुरस्तारकोऽरिष्टं विपाक उत्तरकाले दारुणं भयदमाशङ्क्य तर्कयित्वा निवार्यमाणो निषिध्यमानोऽपि पुर एव प्रतस्थे, न तु पश्चान्निववृते । तथाहि । असद्ग्रहेणनधस्याविवेकिनः हितस्योपदेशनं वृथा व्यर्थं भवेत् । दुराग्रहशीलस्य सम्यगुपदेशोऽपि तदमततया व्यथः, स्यादिति भावः ॥ 15.26 ॥

विश्वास-प्रस्तुतिः

इदानीं पञ्चभिः पञ्चमहोत्पातानाह–
क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरघर्मवारणम् ।
रराज मृत्योरिव पारणविधौ प्रकल्पितं(10) हाटकभाजनं महत् ॥ 15.27 ॥
{10.राजतपानभाजनम्.}

मूलम्

इदानीं पञ्चभिः पञ्चमहोत्पातानाह–
क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरघर्मवारणम् ।
रराज मृत्योरिव पारणविधौ प्रकल्पितं(10) हाटकभाजनं महत् ॥ 15.27 ॥
{10.राजतपानभाजनम्.}

अन्वयः

प्रतिकूलवायुना क्षितौ निरस्तं तदीयचामीकरघर्मवारणं मृत्योः पारणाविधौ प्रकल्पितं महत् हाटकभाजनम् इव रराज ।

सीतारामः

क्षिताविति । प्रतिकूलवायुना प्रतीपपवनेन क्षितौ पृथिव्यां निरस्तं निक्षिप्तम् । ‘असु क्षेपणे’ इत्यतः कर्मणि निष्ठा । तदीयं तारकसम्बन्धिनो चामीकरस्य हेम्नः । ‘चामीकरं जातरूपं महारजतकाञ्चने’ । इत्यमरः । घर्मवारणं छत्त्रं मृत्योर्यमस्य सम्बन्धिनि पारणाविधौ । भोजनक्रियानिमित्तमित्यर्थः । ‘निमित्तात्कर्मयोगे’ इति सप्तमी । योगोऽत्र संयोगः । प्रकल्पितं निर्मितं महद्विशालं हाटकभाजनं सुवर्णपात्रमिवेत्युत्प्रेक्षा । रराज शुशुभे ॥ 15.27 ॥

विश्वास-प्रस्तुतिः

विजानता भावि शिरो(1) निकृन्तनं (2)प्रज्ञेन शोकादिव तस्य मौलिना ।
मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलवाष्पबिन्दुभिः ॥ 15.28 ॥
{1.विकर्तनम्.2.स्त्रस्तेन,प्रश्नेन.}

मूलम्

विजानता भावि शिरो(1) निकृन्तनं (2)प्रज्ञेन शोकादिव तस्य मौलिना ।
मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलवाष्पबिन्दुभिः ॥ 15.28 ॥
{1.विकर्तनम्.2.स्त्रस्तेन,प्रश्नेन.}

अन्वयः

प्रज्ञेन भावि शिरोनिकृत्तनं विजानता तस्य मौलिना शोकात् मुहुः गलद्भिः तरलै मुक्ताफलबाप्पबिन्दुभिः अलन्तराम् अरोदि ॥

सीतारामः

विजानतेति । प्रज्ञेन । बुधेन । ‘प्रज्ञस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु योषिति’ । इति मेदिनो । अत एव भावि भविष्यच्छिरोनिकृन्तनं मस्तकच्छेदनं विजानता बुध्यमानेन तस्य तारकस्य मौलिना किरीटेन । ‘मौलिः किरीटे श्रृङ्गारे धम्मिल्ले द्रुमचूडयोः’ इति विश्वः । शोकाद्धेतोर्मुहुर्गलद्भिर्निःसहद्भिस्तरलैश्चञ्चलैः । ‘तरलं चञ्चले खड्गे हारमध्यमणावपि’ । इति विश्वः । मुक्तफलान्येव बाष्पबिन्दवोऽश्रुबिन्दवः । ‘बिन्दुस्तुदन्तनाले स्यात्तथा वेदितृविप्लुषोः’ इति विश्वः । तैः कृत्वालंतरामतिशयपर्याप्तं यथा । ‘अलं भूषणपर्याप्तिवारणेषु निरर्थके’ इति विश्वः । अरोदीव रुदितमिवेत्युत्प्रेक्षा । मुकुटखचितमणिनिचयसाहसिकभूपतनरुप उत्पातोऽयमिति भावः ॥ 15.28 ॥

विश्वास-प्रस्तुतिः

निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रै(3)रभिमौलिमाकुलै(4)र्भविष्यदेतन्मरणोपदेशिभिः ॥ 15.29 ॥
{3.अभिमौलि चाकुलैः.4.तस्यातनुच्छयामपायदर्शिभिः.}

मूलम्

निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रै(3)रभिमौलिमाकुलै(4)र्भविष्यदेतन्मरणोपदेशिभिः ॥ 15.29 ॥
{3.अभिमौलि चाकुलैः.4.तस्यातनुच्छयामपायदर्शिभिः.}

अन्वयः

भविष्यदेतन्मरणोपदेशिभिः (तथा) आकुलं गृध्रैः अभितः अनुयायिभिः मुहुर्महुः निवार्यमाणैः अपि तं ग्रहीतुकामैः इव मौलिम् अभि अपाति ।

सीतारामः

निवार्यमाणैरिति । भविष्यति एतस्य तारकस्य मरणमुपदिशन्ति बोधयन्ति तथाभूतैः तथाकुलैर्भक्षणक्रियासम्भ्रमितैर्गृध्रैः पक्षिविशेषैः ‘गृध्रः खगान्तरे गृध्रो वाच्यवच्चाथ लुब्धके’ इति विश्वः । अभितः सर्वतोऽनुयायिभिरनुगच्छद्भिः । अत एवोत्प्रेक्षते मुहुर्मुहुरनेकवेलं निवार्यमाणैरपि तं ग्रहीतुकामैरिव मौलिं किरीटमभि संमुखमपाति पतितम् । भावे लुङ् । पुनःपुनर्निवार्यमाणा अपि तद्बुभुक्षया मौलिमुद्दिश्यैव पेतुरिति भावःर । अयमपि महोत्पातः ॥ 15.29 ॥

विश्वास-प्रस्तुतिः

सद्यो निकृत्ताञ्जनसोदर(1)द्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषो(2)ल्कानलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमैक्षत ॥ 15.30 ॥
{1.सोदरं क्वचित्.2.उल्कात.}

मूलम्

सद्यो निकृत्ताञ्जनसोदर(1)द्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषो(2)ल्कानलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमैक्षत ॥ 15.30 ॥
{1.सोदरं क्वचित्.2.उल्कात.}

अन्वयः

जनः तस्य ध्वजे सद्योनिकृत्ताञ्जनसोदरद्युतिं फणामणिप्रज्वलदंशुमण्डलं निर्यद्विषोल्काऽनलगर्मफूत्कृतिं महाहिम् ऐक्षत ॥

सीतारामः

सद्य इति । जनो लोकस्तस्य ताररकस्य ध्वजे । तदुपरीत्यर्थः । सद्यो निकृत्तस्य तत्कालपातितस्याञ्जनस्य कज्जलस्य सोदरा समाना द्युतिः शोभा यस्य । अञ्जनसदृशश्यामलिमित्यर्थः । तथा फणामणिभिः स गर्भे मध्ये येषां तादृशानि फूत्कृतानि यस्य तथाभूतं महाहिं महान्तं सर्पमैक्षत ददर्श । अयमपि महोत्पातः ॥ 15.30 ॥

विश्वास-प्रस्तुतिः

(3)रथाश्वकेशावलिकर्ण(4)चामरं ददाह बाणासन(5)बाणबाणधीन् ।
(6)अकाण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दन(7)धूर्यगोचरः ॥ 15.31 ॥
{3.रथस्य.4.चामरान्.5.बालवालवीन्.6.अखण्डेन.7.धूर्युगोद्गतः.}

मूलम्

(3)रथाश्वकेशावलिकर्ण(4)चामरं ददाह बाणासन(5)बाणबाणधीन् ।
(6)अकाण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दन(7)धूर्यगोचरः ॥ 15.31 ॥
{3.रथस्य.4.चामरान्.5.बालवालवीन्.6.अखण्डेन.7.धूर्युगोद्गतः.}

अन्वयः

अकाण्डतः तस्य अतनुस्यन्दनधुर्यगोचरः चण्डतरः हुताऽशनः रथाऽश्वकेशावलिकर्शचामरं बाणासनबाणबाणाधीन् ददाह ।

सीतारामः

रथेति । अकाण्डतोऽसमये सार्वविभक्तिकस्तसिल् । तस्य तारकस्य सम्बन्धी योऽतनुस्यन्दनो महान् रथस्तस्य धुर्योऽग्रभागस्तस्य गोचरः । तल्लग्न इत्यर्थः । चण्डतरोऽतिशयप्रचण्डो हुताशनोऽग्निः । रथाश्वसम्बन्धिनी या केशावलिः कर्णचामराणि च तेषां समाहारस्तत् । प्राण्यङ्गत्वादेकवद्भावः । तथा बाणासनं बाणक्षेपक्रियासाधनम् । करेणे ल्युट् । धनुर्बाणः बाणधिस्तूणीरश्चेत्येतानित्यर्थः । ददाह । अयमपि महोत्पातः ॥ 15.31 ॥

विश्वास-प्रस्तुतिः

(1)इत्याद्यरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः ।
यदा मदान्धो (2)न गतात्न्यवर्तता(3)म्बरात्तदाभून्मरुतां सरस्वती ॥ 15.32 ॥
{1.इत्याद्यनिष्टैः,इत्यादिरिष्टैः.2.न च त; विन्यवर्तत न गतः सवर्त्मना.3.अम्बरे.}

मदाऽन्धः असुरः अशुभोपदेशिभिः इत्याघरिष्टैः पुनः विहन्यमानः अपि यदा गतात् न न्यवर्तत, तदा अम्बरात् मरुतां सरस्वती अभूत् ।

सीतारामः

इत्यादीति । मदान्धोऽसुरस्तारकोऽशुभोपदेशिभिरमङ्गलसूचकैरित्याद्यरिष्टैः पूर्वोक्तमहोत्पातैः पुनः पुनर्विहन्यमानोऽपि विध्नितः क्रियमाणोऽपि यदा गताद् गमनात् । भावे निष्ठा । न न्यवर्ततत न निवृत्तः । तदाऽम्बराद् व्योम्नः सकाशान्मरुतां देवानां सरस्वती वाण्यभूत् ॥ 15.32 ॥

विश्वास-प्रस्तुतिः

मदान्ध मा गा भुजदण्डचण्डिमावलेपतो (4)मन्मथहन्तृसूतुना ।
सुरैः (5)सनाथैन पुरंदरादिभिः समं समन्तात्स(6 मरं विजित्वरैः ॥ 15.33 ॥
{4.मन्मथशत्रु.5.सनाथैस्त्रिदशेश्वररादिभिः.6.समरे.}

मूलम्

मदान्ध मा गा भुजदण्डचण्डिमावलेपतो (4)मन्मथहन्तृसूतुना ।
सुरैः (5)सनाथैन पुरंदरादिभिः समं समन्तात्स(6 मरं विजित्वरैः ॥ 15.33 ॥
{4.मन्मथशत्रु.5.सनाथैस्त्रिदशेश्वररादिभिः.6.समरे.}

अन्वयः

‘हे मदाऽन्ध ! भुजदण्डऽचण्डिमाऽवलेपतः विजित्वरैः पुरन्दरादिभिः सुरैः समन्तात् सनाथेन मन्मथहन्तृसूनुन समं सङ्गर मा गाः’ ।

सीतारामः

मदान्धेति । भो मदान्ध ! भुजदण्डयोर्यंश्चण्डिमा प्रचण्डत्वं तेन योऽवलेपो गर्वः । ‘अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च’। इति मेदिनी विश्वश्च । तस्मात् । पञ्चम्यास्तसिल् । हेत्वर्थे पञ्चमी । विजित्वरैर्जयनशीलैः पुरंदरादिभिः सुरैः समन्तात्परितः सनाथेन सहितेन मन्मथहन्तृसूनुना शिवपुत्रेण समं सह समरं युद्धम् । कर्तुमिति शेषः । मा गा मा याहि ॥ 15.33 ॥

विश्वास-प्रस्तुतिः

अथ ‘गुहः-’ इत्यादिभिस्चतुर्भिः कुमारविषये तारककर्तृकसमरानौचित्यमेव दर्शयति-
(1)गुहोऽसुरैः षड्दिनजातमात्रको निदाघधामेव निशातमोभरैः ।
(2)विषह्यते नाभिमुखो(3) हि(4) संगरे कुतस्त्वया(5) (6)तस्य समं विरोधिता ॥ 15.34 ॥
{1.महासुरैः सुरासुरैः.2.विमुह्यते.3.सोऽभिमुखम्.4.न.5.त्वियम्.6.तेन.}

(हे मदाऽन्ध !) सङ्गरे अभिमुखः षड्दिनजातमात्रकः गुहः असुरैः निशातमोभरैः निदाघधामा इव नहि विषह्यते, त्वया समं तस्य विरोधिता कुतः (स्यात्) ?

सीतारामः

गुहेति । भो मदान्ध ! संगरे युद्धेऽभिमुखः संमुखः षड्दिनानि जाताति व्यतीतानि यस्य । जन्मदिनादारभ्यातिक्रान्तषड्दिनं इत्यर्थः । गुहः सेनानीः । ‘गुहः षाण्मातुरे गुह्ये’ इति मेदिनी । असुरैर्देत्यैः कर्तृभिः । निशातमोभरै रात्र्यन्धतमससमूहैर्निदाघधामा उष्णतेजाः सूर्य इव न हि नैव विषह्यते विमृष्यते । त्वया समं सह तस्य सम्बन्धिनी विरोधिता वैरं कुतः कारणात्स्यात् । कुमारवषयकभवत्कृतवैरनिमित्तसमरोऽनुचित एवेति भावः ॥ 15.34 ॥

विश्वास-प्रस्तुतिः

अभ्रंलिहैः श्रृङ्गशतैः समन्ततो (7)दिक्चक्रवालैः स्थगितस्य भूभृतः ।
क्रौञ्चस्य रन्ध्रं विशि(8)खेन निर्ममे येनाहवस्तस्य सह त्वया कुतः ॥ 15.35॥
{7.दिक्चक्रवालस्थगितस्य;दिक्चक्रवालस्थगतस्य.8.स्वशरैर्विनिर्ममे;येनाहवे तेन कुतः समो भवान्.}

(हे मदाऽन्ध !) अभ्रंलिहैः श्रृङ्गशतैः दिक्चक्रवालैः समन्ततः स्थगितस्य क्रौञ्चस्य भूभृतः रन्ध्रं विशिखेन निर्ममे । तस्य आहवः त्वया सह कुतः ?

सीतारामः

अभ्रंलिहैरिति । भो मदान्ध ! येन सेनान्या कर्त्रा । अभ्रंलिहैराकाशस्पृग्भिः श्रृङ्गशतैः सानुशतैः । तथा दिक्चक्रवालैः । ‘चक्रवालं तु मण्डलम्’ इत्यमरः । समन्ततः परितः स्थगितस्याच्छादितस्य क्रौञ्चस्य क्रौञ्चसंज्ञकस्य भूभृतः पर्वतस्य सम्बन्धि रन्ध्रं छिद्रम् । जातावेकवचनम् । विशिखेन बाणेन निर्ममे निर्मितम् । कर्मणि लिट् । तस्याहवः सङ्ग्रामस्त्वया सह कुतः कारणात्स्यात् । अपि तु नेदमुचितमिति भावः ॥ 15.35 ॥

विश्वास-प्रस्तुतिः

अथ युग्मेनाह-
लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्व समरे महीभुजाम् ।
(1)कृत्वाभिषेकं रुधिराम्बुभिर्घनैः स्वक्रोधवह्निं शमयांबभूव यः ॥ 15.36॥
{1.कृताभिषेकः.}

मूलम्

अथ युग्मेनाह-
लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्व समरे महीभुजाम् ।
(1)कृत्वाभिषेकं रुधिराम्बुभिर्घनैः स्वक्रोधवह्निं शमयांबभूव यः ॥ 15.36॥
{1.कृताभिषेकः.}

अन्वयः

यः अनङ्गविद्विषः धनुर्वेदं लब्ध्वा समरे महीभुजां घनैः रुधिराऽम्वुभिः त्रिःसप्तकृत्वः अभिषेकं कृत्वा स्वक्रोधवह्निं शमायाम्बभूव ।

सीतारामः

लब्ध्वेति । यो जामदग्न्यः परशुरामोऽनङ्गविद्विषो हरसकाशाद्धनुर्वेदं लब्ध्वा प्राप्य । अधीत्येति यावत् । अतः समरे युधि महीभुजां राज्ञां सम्बन्धिनी रुचिराम्बुभिः शोणितजलैस्त्रिःसप्तकृत्वस्त्रिगुणसप्तवारम् । एकविंशतिवारमिति यावत् । अभिषेकं स्नानं कृत्वा स्वक्रोधवह्निमात्मीयकोपाग्निं शमयांबभूव । एकविंशतिवारं क्षत्रियान्हत्वा शान्तोऽभूदितिः भावः ॥ 15.36 ॥

विश्वास-प्रस्तुतिः

न जामदग्न्यः क्षयकालरात्रिकृत्स क्षात्रियाणां समराय वल्गति ।
येन त्रिलोकी(2)सुभटेन तेन कुतोऽ(3)वकाशः सह (4)विग्रहग्रहे ॥ 15.37 ॥
{2.तिलकेन.3.अवकाशी,अवकेशी.4.विग्रहग्रहः.}

मूलम्

न जामदग्न्यः क्षयकालरात्रिकृत्स क्षात्रियाणां समराय वल्गति ।
येन त्रिलोकी(2)सुभटेन तेन कुतोऽ(3)वकाशः सह (4)विग्रहग्रहे ॥ 15.37 ॥
{2.तिलकेन.3.अवकाशी,अवकेशी.4.विग्रहग्रहः.}

अन्वयः

क्षत्रियाणां क्षयकालरात्रिंकृत् स जामदग्न्यः त्रिलोकीसुभटेन येन समराय न वल्गति । तेन सह विग्रहग्रहे कुतः अवकाशः (स्यात्) ?

सीतारामः

नेति । क्षत्रियाणाम् । ‘क्षत्राद्धः’ इति धप्रत्ययः । आयनेयी-’ ति तस्येयादेशः । क्षयसम्बन्धिनी कालरात्रिं करोति यः स जामदग्न्यो जमदग्नेरपत्यं रामस्त्रिलोक्यां सुभटेन सुतरां योद्ध्रा येन सेनान्या सह समराय समरं कर्तुं न वल्गति न चलति । नैवोद्युङ्क्त इत्यर्थः । तेन सकलराजकुलजिघत्सद्रामविभीषकेन सेनान्या सह तव त्वत्कर्तृके विग्रहग्रहे रणव्रहे । ‘विग्रहः कायविस्तारविभागे ना रणे स्त्रियाम्’ । इति मेदिनी । कुतः कस्मादवकाशोऽवसरः स्यात् । अपि तु न स्यादिति काक्वा व्याख्येयम् । अतः सर्वथैवामुना सह त्वया न योद्धव्यं किं तु निवर्तनीयमेवेति भावः ॥ 15.37 ॥

विश्वास-प्रस्तुतिः

ननु निवर्तने पुनरपि वधशङ्केति चेत्तत्राह-
त्यजाशु (1)गर्वं मदमूढ मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम् ।
तमेव नूनं शरणं व्रजाधुना (2)जगत्सुवीरं (3)स चिराय जीव तत् ॥ 15.38 ॥
{1.दर्पम्.2.जगत्प्रवीरम्.3.सुचिराय.}

(हे मदमूढे !) आशु गर्वं त्यज, स्मराऽरिसूनोः वरशक्तिगोचरं मा गाः । अधुना नूनं जगत्सु वीरं तम् एव शरणं व्रज । स (त्वम्) चिरायजीव ।

सीतारामः

त्यजेति । भो मदमूढ उन्मादमूर्ख, आशु शीघ्रं गर्वंमभिमानं त्यज । स्मरारिसूनोः सेनान्याः सम्बन्धिनी या वरा श्रेष्ठा शक्तिरायुधं तस्या गोचरं विषयं मास्म गा मा स्म याहि । तर्हि किं कर्तव्यमित्याह- अधुनेदानीं नूननेव निश्चयेनैव । ‘नूनमवश्यं निश्चये द्वयम्’ इत्यमरः । शरणं रक्षितारम् । ‘शरणं गृहरक्षित्रोर्वधरक्षणयोरपि’ । इति मेदिनी । तं जगत्सुवीरं सेनान्यं व्रज गच्छ । तत्तस्माद् गमनाद्धेतोः स त्वं चिराय जीव बहुकालं प्राणान्धारय । कुमारगमनं विना न तवान्यज्जीवातुरिति भावः ॥ 15.38॥

विश्वास-प्रस्तुतिः

श्रुत्वेति वाचं वियतो (4)गरीयसीं क्रोधादहंकारपरो महासुरः ।
प्रकम्पिताशेषजगत्त्रयोऽपि (5)सन्न(6)कम्पतोच्चैर्दिप(7)मभ्यधाच्च सः ॥ 15.39 ॥
{4.वरीयसीम्.5.सः.6.नाकम्पत,प्राकम्पत.7.अभ्यधात्ततः.}

मूलम्

श्रुत्वेति वाचं वियतो (4)गरीयसीं क्रोधादहंकारपरो महासुरः ।
प्रकम्पिताशेषजगत्त्रयोऽपि (5)सन्न(6)कम्पतोच्चैर्दिप(7)मभ्यधाच्च सः ॥ 15.39 ॥
{4.वरीयसीम्.5.सः.6.नाकम्पत,प्राकम्पत.7.अभ्यधात्ततः.}

अन्वयः

वियत इति गरीयसीं वाचं श्रुत्वा क्रोधात् अहङ्कारपरः स महासुरः प्रकम्पिताऽशेषजगत्यः सन् अपि अकम्पत, दिवम् उच्चैः अभ्यधात् च ।

सीतारामः

श्रुत्वेति । वियत आकाशस्येत्येवंभूतां गरीयसीमतिशयगुर्वी वाचं श्रृत्वा क्रोधाद्धोतोरहंकारेऽभिमाने । ‘गर्वोऽभिमानोऽहंकारः’ । इत्यमरः । परः सक्तः । ‘परः श्रेष्ठादिदूरान्योत्तरे क्लीबं तु केवले’ । इति मेदिनी । आदिशब्दसंगृहीतत्वेन शक्तिवाचकत्वं विवेचनीयम् । सोऽसुरस्तारकः प्रकर्षेण कम्पितं वेपितमशेषं समस्तं जगतां त्रयं येन तथाभूतः सन्नप्यकम्पत चकम्पे । भारत्या अत्याप्तत्वादिति भावः । अथ च दिव स्वर्गमुच्चैरुच्चैः स्वरेणाभ्यधादचकथत् ॥ 15.39 ॥

विश्वास-प्रस्तुतिः

अथ ‘किम्’ इत्यादिभिस्त्रिभिस्तदुक्तिमाह-
किं ब्रूथ रे(1) व्योमचरा महासुराः (2)स्मरारिसूनुप्रतिपक्षवर्तिनः ।
मदीयबाणव्रणवेदना(3) हि साधुना कथं (4)विस्मृतिगोचरीकृता ॥ 15.40 ॥
{1.हे.2.मखारि.3.वेपन महोनेवऽधु.4.विस्मृत्य गताः;स्वपृष्ठतः.}

‘हे व्योमचरा महासुराः ! स्मराऽरिसूनुप्रतिपक्षवर्तिनः सन्तः किं ब्रूथ ? सा मदीयबाणव्रणवेदना अधुना कथं विस्मृतिगोचरीकृता ?’

सीतारामः

किमिति । रे व्योमचराः ! रे इति नीचसंबोधने । महासुरा महान्तः सुरा यूयं स्मरारिसुनोः कुमारस्य प्रतिपक्षे कोटौ वर्तन्ते तथाभूताः सन्तः किं ब्रूथ वदथ । नेदं वाच्यमिति ध्वनिः । ननु वादे त्वया किं कृतमित्याह-सा पूर्वतरा मदीयानां बाणानां संबन्धिनां रन्धाणां वेदना पीडाधुना हीदानीमेव कथं केन प्रकारेण विस्मृतिगोचरीकृता विस्मरणविषयीकृता । अपि त्विदानीमपि सैव स्मर्तव्या, अग्रे भोक्ष्यमाणत्वात् ॥ 15.40 ॥

विश्वास-प्रस्तुतिः

(5)कटुस्वरैः प्रालपथाम्बरस्थिताः शिशोर्बलात्षड्दिनजातकस्य किम् ।
श्वानः (6)प्रमत्ता इव (7)कार्तिके निशि स्वैरं वनान्ते मृगाधूर्तका इव ॥ 15.41 ॥
{5.कटुस्वरैरारटथ,कटुस्वरैरीरयथ.6.प्रवृत्ताः.7.कार्त्तिकी निशा.}

(हे देवाः !) अम्बरास्थिताः षड्दिनजातकस्य शिशोः बलात् कार्त्तिके प्रमेत्ताः श्वान इव निशि वनाडन्ते मृगधूर्तका किं स्वैरं प्रालपथ ?

सीतारामः

कटुस्वरैरिति । भो देवाः । यूयमम्बरस्थिता आकाशवर्तिनः सन्तः षड्दिनजातकस्य षड्दिनजन्मनः शिशोर्बालस्य बलाद्विर्याद्धेतोः कार्तिके बहुले मासि प्रमत्ता उन्मत्ताः श्वान इव निशि वनान्ते वनमध्ये मृगधूर्त्तका मृगा एव धूर्तकास्त इव किं प्रालपथ प्रलापं कुरुथ ? अपि तु मदपेक्षया निर्वीर्यैर्भवद्भिः प्रलापो न विधेय इति भावः ॥ 15.41 ॥

विश्वास-प्रस्तुतिः

सङ्गेन वो (1)गर्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम् ।
(2)अतस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽप्य(3) मुम् ॥ 15.42 ॥
{1.भर्गतपस्विनः.2.अतस्करम्.3.तु.}

मूलम्

सङ्गेन वो (1)गर्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम् ।
(2)अतस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽप्य(3) मुम् ॥ 15.42 ॥
{1.भर्गतपस्विनः.2.अतस्करम्.3.तु.}

अन्वयः

हे देवा ! वः सङ्गेन वराकः (अपि) एष गर्भतपस्विनः सुतः तस्करसङ्गतः अतस्करः यथा ध्रुवम् अन्तम् अवाप्स्यति । तत् वः प्रथमं निहन्मि, ततः अमुम् अपि निहन्मि ॥

सीतारामः

सङ्गेनेति । भो देवाः । वो युष्माकं सङ्गेन सम्बन्धेन निमित्तेन वनकोऽतिकृपणत्वाच्छोचनीयः । ‘वराकः शंकरे पुंसि शोचनीयेऽभिधेयवत् । इति मेदिनी । एष पुरोवर्ती गर्भतपस्विनः अत्र गर्भशब्देन गर्भत्वं तदस्यास्तीति गर्भः । अशं आद्यच् । ततो गर्भत्ववानिति निष्पन्नम् । गर्भत्वं चात्र बालत्वम् । ‘गर्भो भ्रूणेऽर्भके कुक्षौ’ । इति मेदिनी । एवं च बाल इति निष्कर्षः । स चासौ तपस्वी च । बालत्वेऽपि तपस्वित्वकथनाद्वार्धक्ये त्वर्थात्सिद्धम् । एवं च बालकत्वमारभ्य तपस्वित्वेन निष्किंचनस्येति तात्पर्यार्थः । अथवा गर्भत्वादिति ल्यब्द्योतनिका या पञ्चमी तदन्तेन तपस्वीत्यर्थः । तथाभूतस्य शिशुर्बालः कुमारः । तस्करसङ्गतश्चौरसङ्गेनातस्करो यथा चौर इव । ध्रुवं निश्वयेनान्तं मरणमवाप्स्यति । त्ततस्माद्वो युष्मान्प्रथमं प्राङ् निहन्मि । ‘वर्तमानसामीप्ये वर्तमानवद्धा’ इति भविष्यत्कालेऽपि वर्तमानप्रयोगः । ततो भवद्धननानन्तरममुं कुमारमपि निहन्मि निहनिष्यामि ॥ 15.42 ॥

विश्वास-प्रस्तुतिः

इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं (4)क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवः ॥ 15.43 ॥
{4.ध्रुवम्.}

मूलम्

इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं (4)क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवः ॥ 15.43 ॥
{4.ध्रुवम्.}

अन्वयः

इति ईरयति महासुरे क्रुधा उग्रतरं महाकृपाणम् अलं कलयति नभश्चराः भयात् परस्परोत्पीडितजानवः (सन्तः) दूरतरं विदुद्रुवुः ।

सीतारामः

इतीति । इति पूर्वोक्तमीरयति वदति महासुरे तारके क्रुधा हेतुनोग्रतरमत्यन्तभयानकं महाकृपाणं महान्तं खड्गम् । अलं पर्याप्तत्वेन । अनेन प्रथमं स्पर्शमात्र एवेति व्यज्यते । ‘अलं भूषणपर्याप्तिवारणेषु निरर्थके’ । इति विश्वः । कलयति बिभ्रति सति । नभश्चरा देवा भयाद्धेतोः परस्परमन्योन्यमुत्पीडिता अति सङ्कीर्णतया धृष्टत्वाद् व्यथिता जानव ऊरुपर्वाणि येषाम् । ‘जङ्घा तु प्रसृता जानूरुपर्वाष्टीवदस्त्रियाम्’ । इत्यमरः । तथाभूताः सन्तो दूरतरमतिदूरम् । ‘दूरान्तिकार्थेभ्यो द्वितीया च’ इति प्रातिपदिकार्थमात्रे द्वितीया । विदुद्रुवः पलायांचक्रिरे । ‘द्रु गतौ’ इत्यस्मात्कर्तरि लिट् ॥ 15.43 ॥

विश्वास-प्रस्तुतिः

ततोऽवलेपाद्विकटं (1)विहस्य स (2)व्यवत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं (3)नन्वित्यवोचन्नि(4)जसारथिं रथी ॥ 15.44 ॥
{1.विकृष्य.2.अभिकोशमाधादसिमंशुभासरम्.3.बत.4.प्रति.}

मूलम्

ततोऽवलेपाद्विकटं (1)विहस्य स (2)व्यवत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं (3)नन्वित्यवोचन्नि(4)जसारथिं रथी ॥ 15.44 ॥
{1.विकृष्य.2.अभिकोशमाधादसिमंशुभासरम्.3.बत.4.प्रति.}

अन्वयः

ततः स विकटं विहस्य उत्तमम् असिम् कोशात् बहिः व्यधत्त । (अथ च) रथी (सन्) ननु ! ‘रथं द्रुतवासवाऽन्तिकं प्रापय’ इति निजसारथिम् अवोचत् ।

सीतारामः

तत इति । ततोऽनन्तरं स तारको विकटं करालं यथा तथा । वक्ष्यमाणस्यासेर्विशेषणं वा । ‘विकटा वज्रवाराह्यां त्रिषु रुचिकरालयोः’ । इति मेदिनी । विहस्याट्टहासं कृत्वा । उत्तममसिं करवालं कोशाद्विहिर्व्यधत्त कृतवान् । अथ च रथी सः ‘रथं वासवान्तिकमिन्द्रसमीपं द्रुतम् । ननु निश्चयेन । प्रापय’ इति निजं स्वीयं सारथि सूतमबोचत् । ‘ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारण’ इति निजं स्वीयं सारथि सूतमबोचत् । ‘ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे’ । इति विश्वः ॥ 15.44 ॥

विश्वास-प्रस्तुतिः

मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः ।
(5)ततः प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः ॥ 15.45 ॥
{5.द्रुतम्.}

मूलम्

मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः ।
(5)ततः प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः ॥ 15.45 ॥
{5.द्रुतम्.}

अन्वयः

ततः मनोऽतिवेगेन सारथिप्रणोदितेन रथेन प्रचलन् महासुरः अग्रतः अपारं भयङ्कराकारं प्रपेदे ।

सीतारामः

मन इति । ततोऽनन्तरं मनोतिवेगेनान्तः करणादपि बहुलगतिजवेन सारथिना प्रणोदितेन प्रेरितेन रथेन प्रचलन्गच्झन्महासुरस्तारकोऽग्रतः । पुरतः । स्थितमिति शेषः । अपारमनवधिकं भयंकराकारम् । विभीषकाकृतिमत्पुरुषमित्यर्थः । सुरसैन्यसागरं देवसेनासमुद्रं प्रपेदे प्राप ॥ 15.45 ॥

विश्वास-प्रस्तुतिः

पुरः सुराणां (1)पुतनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार (2)भूम्नाथस बाहुदण्डयोः प्रचण्डयोः सङ्गरकेलिकौतुकी ॥ 15.46 ॥
{1.पृतनाः पथीयसीः.2.भूम्ना बहु.}

मूलम्

पुरः सुराणां (1)पुतनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार (2)भूम्नाथस बाहुदण्डयोः प्रचण्डयोः सङ्गरकेलिकौतुकी ॥ 15.46 ॥
{1.पृतनाः पथीयसीः.2.भूम्ना बहु.}

अन्वयः

अथ वीरः स सङ्गरकेलिकौतुकी (सन्) प्रयीयसीं सुराणां पृतनां पुरः विलोक्य प्रचण्डयोः बाहुदण्डयोः प्रमोदडं पुलकं भूम्ना बभार ।

सीतारामः

पुर इति । वीरः शूरः । ‘वोरो रसविशेषे पुंस्युत्तरे सुभटे त्रिषु’ । इति मेदिनी । स तारकः प्रथोयसीमतिपृथुलां सुराणां देवानां सम्बन्धिनीं पृतनां सेनां पुरोग्रे विलोक्य प्रचण्डयोर्बाहुदण्डयोर्भुजदण्डयोः । ‘दण्डोऽस्त्री लगुडे पुमान्’ इति मेदिनी । प्रमोदजमानन्दजनितं पुलकं रोमाञ्चं भूम्ना बाहुल्येन बभार धृतवान् । यतः सङ्गरकेलौ संग्रामक्रीडायां कौतुक्युत्साहवान् । वीराणां सेनादर्शनमेव महान्मुदो हेतुरिति भावः ॥ 15.46 ॥

विश्वास-प्रस्तुतिः

ततो (3)महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ॥ 15.47 ॥
{3.असुरेन्द्रानुचरा;सुरेनद्रस्य चराः.}

मूलम्

ततो (3)महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ॥ 15.47 ॥
{3.असुरेन्द्रानुचरा;सुरेनद्रस्य चराः.}

अन्वयः

र ततः मनसः (अपि) अतिवेगिनः (तथा) भूयसा रणाऽन्तलीलारभसेन चमूचरा महेन्द्रस्य चराः, समरे युयुत्सुभिः किं विलम्ब्यते (इति वक्तुम्) पुरः प्रचेलुः ।

सीतारामः

तत इति । ततोऽनन्तरं मनसः सकाशादप्यतिवेगिनोऽत्यन्तजववन्तः । तथा भूयसातिशयेन रणान्ते संग्राममध्ये या लीला विलासः । विलासोऽत्र समराङ्गणाधिकरणकमात्मीयभूजदण्डगतपराक्रमचमत्कृतिदर्शनम् । तत्र रभसेन वेगेन । ‘लीलां विदुः केलिविलासखेलाश्रृङ्गारभावप्रभवक्रियासु’ इति विश्वः । चम्वां सेनायां चरन्तीति विग्रहे ‘चरेष्टः’ इति टप्रत्ययः । तथाभूता महेन्द्रस्येन्द्रस्य चराश्चाराः दूता इति यावत् । ‘चरो द्युतप्रबन्धे स्याच्चारजह्गमयोश्चले’ । इति विश्वः । समरे संग्रामे युयुत्सुभिर्योद्धुमिच्छुभिः । भवद्भिरित्यर्थः । किं विलम्ब्यते किं विलम्बः क्रियते । अपि तु सत्वरमेव युध्यतामिति प्रतिपक्षान्वक्तुमित्यपि शेषः । पुरोऽग्रे प्रचेलुः ॥ 15.47 ॥

विश्वास-प्रस्तुतिः

(1)पुरःस्थितं देवरिपोश्चमूचरा (2)बलद्विषः सैन्यसमुद्रम(3)भ्ययुः ।
भुजं समुत्क्षिप्य (4)परेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ॥ 15.48 ॥
{1.पुरःपरा.2.सुरद्विषः.3.अभ्यगुः.4.सहेलमात्मनः.}

मूलम्

(1)पुरःस्थितं देवरिपोश्चमूचरा (2)बलद्विषः सैन्यसमुद्रम(3)भ्ययुः ।
भुजं समुत्क्षिप्य (4)परेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ॥ 15.48 ॥
{1.पुरःपरा.2.सुरद्विषः.3.अभ्यगुः.4.सहेलमात्मनः.}

अन्वयः

देवारिपोः चमूचराः पुरः स्थितं बलद्विषः सैन्यसमुद्रम् अभ्ययुः (अथ च) अभितः भुजं समुत्क्षिप्य आत्मनः अभिधानम् उच्चैः परेभ्यः न्यवेदयत् ।

सीतारामः

पुर इति । देवरिपोस्तारकस्य चमूचराः सेनाचराः पुरःस्थितमग्रस्थितं बलद्विष इन्द्रस्य सम्बन्धिनं सैन्यसमुद्रं सेनासागरमभ्ययुः संमुखत्वेन जग्मुः । अथ चाभितः संमुखम् । ‘अभितः शीघ्रसाकल्यसंमुखोभयतोऽन्तिके’ इति विश्वः । भुजं बाहुं समुत्क्षिप्योत्थाप्य आत्मनोऽभिधानं नाम । ‘आख्याह्वे अभिधानं च नामधेयं च नाम च’ । इत्यमरः । उच्चैः स्वरेण परेभ्यः शत्रुभ्यो न्यवेदयन्वयममुकनामानो वयममुकनामान इति निवेदितवन्तः ॥ 15.48 ॥

विश्वास-प्रस्तुतिः

पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा (5)परं चुक्षुभिरे (6)महासुराः ।
(7)पुरारिसूनोर्नयनैककोणके (8)ममुर्भटा(9)स्तस्य(10) रणेऽवहेलया ॥ 15.49 ॥
{5.अभितः.6.अखिलाः सुरः,अखिलाः स तु.7.स्मरारिसूनोः.8.ममौ.9.भटः,पुरः.10.भावि रणे हि हेलया.}

महासुराः पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा चुक्षुभिरे, रणे अवहेलया तस्य पुरऽरिसूनोः नयनैककोणके भटा ममुः ।

सीतारामः

पुर इति । महासुरा महान्तः सुरा इन्द्रादयः पुरोगतमग्रे प्राप्तं दैत्यस्य तारकस्य चमूरेव महानर्णवः समुद्रस्तं दृष्ट्वा परं केवलम् । ‘परमव्ययमिच्छन्ति-’ । इति विश्वः । चुक्षुभिरे संचेलुः विव्यथुरिति यावत् । रणे सङ्गरेऽवहेलया मदपेक्षया केयं वराकिका सेनेत्यनादरेणोपलक्षितस्य तस्य पुरारिसूनोः शिवपुत्रस्य नयनैककोणके नेत्रैकदेश एव । ‘कोणोवाद्यप्रभेदे स्यात्कोणोऽब्धौ लगुडेऽर्कजे । वीणादिवादनोपायेऽप्येकदेशे गृहस्य च ।’ इति विश्वः । अत्र गृहस्यैव कोण इत्यविवक्षितम् । किंत्त्वन्यसाधारणत्वेन प्रकृत इष्टसिद्धर्थमुपलक्षितत्वेन गमनीय इत्यलम् । भटा योद्धारो ममुः संविविशुः ॥ 15.49 ॥

विश्वास-प्रस्तुतिः

द्विषद्वलत्रासवि(1) भीषिताश्चमूर्दिवौकसामन्थकशत्रुनन्दनः ।
अपश्यदुद्दिश्य (2)महारणोत्सवं प्रसादपीयूषधरेण चक्षुषा ॥ 15.50 ॥
{1.विसंकुलाश्चमूम्.2.महाहवोत्सवम्,महाहवे बलम्.}

मूलम्

द्विषद्वलत्रासवि(1) भीषिताश्चमूर्दिवौकसामन्थकशत्रुनन्दनः ।
अपश्यदुद्दिश्य (2)महारणोत्सवं प्रसादपीयूषधरेण चक्षुषा ॥ 15.50 ॥
{1.विसंकुलाश्चमूम्.2.महाहवोत्सवम्,महाहवे बलम्.}

अन्वयः

महारणोत्सवम् उद्दिश्य अन्धकशत्रुनन्दनः द्विषद्वलत्रासविभीषिताः दिवौकसां चमूः प्रसादपीयूषधरेण चक्षुषा अपश्यत् ।

सीतारामः

द्विषदिति । महारणोत्सवमुद्दिश्य स्थितोऽन्धकशत्रुनन्दनः कार्त्तिकेयो द्विषद्वलत्रासेन तारकसैन्यशासनेन विभीषिता भीता दिवौकसां देवानां चमूः सेनाः कर्म । प्रसादोऽनुग्रहः स एव पीयूषममृतं तद्धरति तथाभूतेन चक्षुषापश्यद्ददर्श । अनेन ‘यूयं मा भैष्ट प्रसन्ना भवत, निःशङ्कं युध्यध्वं चेति व्यज्यते ॥ 15.50 ॥

विश्वास-प्रस्तुतिः

(3)उत्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा (4)मखाशनाः ।
(5)अहं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य सङ्गतिः ॥ 15.51 ॥

मूलम्

(3)उत्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा (4)मखाशनाः ।
(5)अहं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य सङ्गतिः ॥ 15.51 ॥

अन्वयः

शक्तिधरस्य मृधे दर्शनात् उत्साहिताः महेन्द्रप्रमुखाः मखाऽशनाः मृधे अहम् (एव) अरीन् जेतुम् (समर्थः अस्मि नाऽन्यः) इति वदन्तः सन्तः अरीरमन् ‘वरस्य सङ्गतिः कस्य वीर्याय’ ?

{3.उत्साहितः.4.सुधाशिनः.5.अहजुष,आयत्नतः.}
सीतारामः

उत्साहिता इति । शक्तिधरस्यायुधविशेषस्य धारिणः । ‘शक्तिर्बले प्रभावादौ शक्तिः प्रहरणान्तरे’। इति विश्वः । अत एव मृधे सङ्ख्ये । ‘मृधमास्कन्दनं सङ्ख्यम्’ इत्यमरः । तस्य कुमारस्य दर्शनाद्धेतोरुत्साहिता उत्साहं प्राप्ता महेन्द्रप्रमुखा इन्द्रपूर्वा मखाशना यज्ञहविर्भोंक्तारो देवाः मृधे सङ्गरे ‘अहमेवारीञ्शत्रूञ्जेतुं समर्थोऽस्मि नान्यः’ इति वदन्तः सन्तोऽरीरमन्रेमिरे । तथाहि । वरस्य श्रेष्ठस्य सङ्गतिः सम्बन्धः कस्य पुरुषस्य वीर्याय वीर्य कर्तुं न भवति ? अपि तु सर्वस्यापीत्यर्थः । गतवीर्यस्य वीर्यकरणे महदाश्रय एव निदानं नान्यदिति काक्वा ध्वन्यते ॥ 15.51 ॥

विश्वास-प्रस्तुतिः

परस्परं वज्रधरस्य सैनिका द्विषोऽपि योद्धुं (1)स्वकरोद्धृतायुधाः ।
(2)वैतालिकश्राविततारविक्रमाभिधानमीयुर्विजयैषिणो रणे ॥ 15.52 ॥
{1.प्रवरोद्धृतायुधाः प्रचुरोद्धृतायुधाः.2.वैमानिकैः श्रावितमानसत्क्रमाभिधानम्,वैतालिकैः श्रावितानामविक्रमाः सोत्साहम्, वैतालिकश्रावितनामविक्रमाभिधानम्.}

रणे विजयैषिणः योद्धुं स्वकरोद्धृतायुधाः वज्रधरस्य द्विषः अपि सैनिका वैतालिकश्राविततारविक्रमाऽभिधानं (यथा तथा) परस्परम् ईयुः ।

सीतारामः

परस्परमिति । रणे युद्धे विजयैषिणो विजयं प्राप्तुमिच्छवः । अत एव योद्धुं युद्धं कर्तुं स्वकरैरात्मोयपाणिभिरुद्धृतानि गृहीतान्यायुधानि खड्गादीनि यैस्तथाभूता वज्रधरस्येन्द्रस्य द्विषोऽपि तारकस्य च । अपिरत्र समुच्चसार्थः । ‘अपिः संभाक्नाप्रश्नशङ्कागर्हासमुच्चये’। इति विश्वः । सैनिकाः सेनाचराः । ‘चरति’ इति ठक् । वैतालिकैर्बन्दिभिः श्रावितान्याकर्णितानि तार उच्चैर्विक्रमोऽभिधानानि नामानि च यस्मिन्कर्मणि यथा तथा परस्परमन्योन्यमीयुः प्रापुः । मिमिलुरितियावत् ॥ 15.52 ॥

विश्वास-प्रस्तुतिः

(3)सङ्ग्रामं प्रलयाय संनिपततो वेलामतिक्रामतो
वृन्दारासुरसैन्यसागरयुगस्या(4)शेषदिग्व्यापिनः ।
(5)कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोष(6)णः
शैलोत्तालतटीविघट्टनपटुर्ब्रह्माण्डकुक्षिंभरिः ॥ 15.53 ॥
{3.संग्रामप्रलयाय,संग्रामे प्रलयाय.4.आरोहदिग्व्यापिनः.5.कालातिथ्यपृथुप्रदानवहलः,कालातिथ्यपृथूच्चच्चाल बहलः.6.क्रोधिनः क्रोधिलः.}

प्रलयाय संग्रामं सन्निपततः वेलाम् अतिक्रामतः अशेषदिग्व्यापिनः कालातिथ्यभुजः वृन्दारासुरसैन्यसागरयुगस्य क्रोषणः कोलाहलः बहलः शैलोत्तालतटीविघट्टनपटुः ब्रह्मण़डकुक्षिम्भरिः बभूव ।

सीतारामः

संग्राममिति । प्रलयाय नष्टचेष्टतायै । तां कर्तुमित्यर्थः । संग्रामं समरं संनिपततः समुदितवतः । अन्यत्र प्रलयाय लोकसंहाराय संनिपततो वर्धमानस्य । अत एव वेलां मर्यादाम् । एकत्र न्यायाचरणम्, अन्यत्रावधिम् । सोमानमिति यावत् । ‘वेलाकाले च जलधौ तीरे नीरविकारयोः । क्लिष्टरसने रोगे च सोम्नि वाचि युधि स्त्रियाम्’ इति विश्वः । अतिक्रामत उल्लङ्घयतः । निर्मर्यादत्वेन युध्यमानस्य सीमानमुल्लङ्ध्य चलत इत्यर्थः । अत एवाशेषासु दिक्षु व्यापिनो व्याप्नुवतः । उभयत्रापि समानमेतत् । तथा कालस्य यमस्य सम्बन्ध्यातिथ्यमतिथ्युचितसत्कारं भुनक्ति भोक्ष्यति तथोक्तस्य । ‘वर्तमानसामीप्ये-’ इति लट् । अन्यत्र कालं कृष्णमातिथ्यमतिथिसत्कारं भुनक्ति भोजयति । अन्तर्भावितणिजर्थः । प्रलये वर्धमानसमुद्रनीरे केवलं तस्यैव वर्तमानत्वात् । वृन्दाराणां देवानामसुराणां च सैन्ये ते एव सागरलौ समुद्रौ तयोर्युगस्य युग्मस्य । ‘युग्मं तु युगलं युगम्’ । इत्यमरः । तत्सम्बन्धी क्रोषणो मुखरः कोलाहलः कलकलो बहलः । अत एव शैलसम्बन्धिनीनामुत्ताला उच्चतालवृक्षसहिता यास्तट्यः सैकतानि । श्रृङ्गाणीति यावत् । तासां विघट्टने स्फोटने पटुः समर्थः । अथ एव ब्रह्माण्डेन कुक्षिं भरति तथोक्तश्च बभूव । शार्दूलविक्रीडितं वृत्तम् । ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ इति लक्षणात् ॥ 15.53 ॥

विश्वास-प्रस्तुतिः

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसम्भवे सुरासुरसैन्यसंघट्ट
नाम पञ्चदशः सर्गः ॥

मूलम्

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसम्भवे सुरासुरसैन्यसंघट्ट
नाम पञ्चदशः सर्गः ॥