१२

.

त्रयोदशः सर्गः

विश्वास-प्रस्तुतिः

प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।
ततः कुमारः शिरसा नतेन (1)त्रैलोक्यभर्तुः प्रणनाम पादौ ॥ 13.1 ॥
{1.त्रिलोक.}

मूलम्

प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।
ततः कुमारः शिरसा नतेन (1)त्रैलोक्यभर्तुः प्रणनाम पादौ ॥ 13.1 ॥
{1.त्रिलोक.}

अन्वयः

ततः स कुमारः प्रस्थानकालोचितचारुवेषः स्वर्गिवर्गैः अनुगम्यमानः (सन्) नतेन शिरसा त्रैलोक्यभर्तुः पादौ प्रणनाम ।

सीतारामः

प्रस्थानेति । ततोऽनन्तरं स कुमारः कार्तिकेयः प्रस्थानकाल उचितो योग्यश्चारुश्व वेषो यन्य । तथा स्वर्गिवर्गैरिन्द्रादिदेवगणैरनुगम्यमानः सन् । नतेन शिरसा त्रैलोक्यभर्तुः शिवस्य पादौ प्रणनाम नमश्चके । ‘उपसर्गादसमासेऽपि’ इति णत्वम् ॥ 13.1 ॥

विश्वास-प्रस्तुतिः

जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर वत्स ।
इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ॥ 13.2 ॥

मूलम्

जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर वत्स ।
इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ॥ 13.2 ॥

अन्वयः

प्रणमन्तं तम् ईशो मुदा मूर्ध्नि उपाघ्राय ‘हे वीर ! हे वत्स ! समरे इन्द्रशत्रुं जहि, अमरेशपदं स्थिरत्वं नय’ इति आशिषा अभ्यनन्दत् ।

सीतारामः

जहीति । प्रणमन्तं नमस्कुर्वन्तं तं कुमारमीशो हरो मुदा प्रीत्या मूर्धन्युपाघ्राय गन्धमुपादाय ‘हे वीर, हे वत्स, समरे युधीन्द्रशत्रुंतारकं जहि मारय । अतामरेशपदमिन्द्रपदं स्वर्ग स्थिरत्वं स्थैर्यं नय प्रापय’ । उभयत्राप्याशिषि लोट् । इत्येवंभूतयाशिषाशोर्वादेनाभ्यनन्ददस्तौषीत् ॥ 13.2 ॥

विश्वास-प्रस्तुतिः

प्रह्वीभवन्नम्रतरेण मूर्ध्ना मनश्चकाराङ्घ्रियुगं(2) स्वमातुः ।
तस्याः प्रमोदाश्रुपयः (3)प्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ॥ 13.3 ॥
{2.युगं सः,युगाय.3.प्रपूरः,प्रवर्षः.}

मूलम्

प्रह्वीभवन्नम्रतरेण मूर्ध्ना मनश्चकाराङ्घ्रियुगं(2) स्वमातुः ।
तस्याः प्रमोदाश्रुपयः (3)प्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ॥ 13.3 ॥
{2.युगं सः,युगाय.3.प्रपूरः,प्रवर्षः.}

अन्वयः

(सः) प्रह्वीभवन् नम्रतरेण मूर्ध्ना स्वमातुः अङ्घ्रियुगं नमश्चकार । तस्याः प्रमोदाऽश्रुपयः प्रवृष्टिः तस्य वीरवराऽभिषेकः अभवत् ।

सीतारामः

प्रह्वीति । स कुमारः प्रह्वीभवन्नम्रीभवन्सन्नम्रतरेण मूर्ध्ना । अत्र प्रह्वीभर्वान्नत्यनेनैव मूर्ध्नो नम्रत्वे सिद्धे पुनर्विशेषणोपादानं सामान्यतोऽन्येषामङ्गानां नम्रत्वोक्त्यपेक्षया मूर्ध्नि क्रियातिशयद्योतनार्थम् । पुनरुपादानेन तरब्ग्रहणलिङ्गाच्च । स्वमातुरङ्घ्रियुगं चरणद्वन्द्वं नमश्चकार । तस्याः पार्वत्याः सम्बन्धीनि यानि प्रमोदाश्रुपयांसि तेषां प्रवृष्टिर्वर्षणं तस्य कुमारस्य वीरेषु वरस्य श्रेयसः । सेनापतेरित्यर्थः । तस्याभिषेक इव योऽभिषेकः सोऽभवत् । तस्य यादृगभिषेकी भवति स मात्रश्रुपयोवृष्टिराशिश्चरणनखपर्यन्तं प्लावयन्त्यभूदिति भावः ॥ 13.3 ॥

विश्वास-प्रस्तुतिः

तमङ्कमारोप्य सुता (1)हिमाद्रेराश्लिष्य(2) गाढं सुतवत्सला सा ।
शिरस्युपाघ्राय जगाद शत्रुं जित्वा (3)कृतार्थिकुरु वीरसूं माम् ॥ 13.4 ॥
{1.महाद्रेः.2.आश्लिष्टगात्रम्.3.कृतार्थां कुरु.}

मूलम्

तमङ्कमारोप्य सुता (1)हिमाद्रेराश्लिष्य(2) गाढं सुतवत्सला सा ।
शिरस्युपाघ्राय जगाद शत्रुं जित्वा (3)कृतार्थिकुरु वीरसूं माम् ॥ 13.4 ॥
{1.महाद्रेः.2.आश्लिष्टगात्रम्.3.कृतार्थां कुरु.}

अन्वयः

सुतवत्सला सा तम् अङ्कम् आरोप्य गाढम् आश्लिष्य शिरसि उपाघ्राय ‘(हे वत्स ! त्वम्) शत्रुं जित्वा वीरसूं मां सृतार्थीकुरु’ (इति) जगाद ।

सीतारामः

तमिति । सुते पुत्रे वत्सला कृपावती सा हिमाद्रेः सुता पार्वती तं पुत्रम् । अस्य ल्यबन्तत्रयेण सम्बन्धो विधेयः । अङ्कमुत्सङ्गम् । ‘अङ्को रूपकभेदाङ्गचिह्ने रेखाजिभूषणे । रूपकाण्डान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः’ इति मेदिनी । आरोप्य संस्थाप्य । तथा गाढं दृढं यथा तथा । ‘प्रगाढः कृच्छ्रदृढयोः’ इति मेदिनी । प्रेति त्रित्वसंधातनिवेशनायैव । एवं विना तदलाभात् । आश्लिष्यालिह्ग्य । तथा शिरस्युपाघ्राय च । ‘हे वत्स, त्वं शत्रुं तारकं जित्वा वीरं सूते सा वीरसूस्तथोक्तां मां कृतार्थीकुरु’ इति जगाद । एवंविधे महति कार्ये भवता प्रतिपादिते सति त्रैलोक्यप्रसृतिशीलेन यशसा धवलीकृतं सत् ‘एष यदीयः पुत्रः सा कृतार्थैव’ इति वर्णयिष्यतीत्यतो मत्कृतार्थत्वं सिद्धमेवेति भावः ॥ 13.4 ॥

विश्वास-प्रस्तुतिः

उद्दाम (4)दैत्येशविपत्तिहेतुः श्रद्धालुचेताः (5)समरोत्सवस्य ।
आपृच्छ्य भक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः ॥ 13.5 ॥
{4.दैतेय.5.समरोद्धुरः सः.}

मूलम्

उद्दाम (4)दैत्येशविपत्तिहेतुः श्रद्धालुचेताः (5)समरोत्सवस्य ।
आपृच्छ्य भक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः ॥ 13.5 ॥
{4.दैतेय.5.समरोद्धुरः सः.}

अन्वयः

ततः उद्दामैदैत्येशविपत्तिहेतुः समरोस्सवस्य श्रद्धालुचेताः कुमारे भक्त्या गिरिजागिरीशौ आपृच्छ्य दिवम् अभिप्रतस्थे ।

सीतारामः

उद्दामेति । ततोऽनन्तरमुद्दाम उद्भटो यो दैत्येशस्तारकस्तस्य विपत्तिर्मृत्युस्तस्याः हेतुः कारणम् । तत्कर्तेत्यर्थः । तथा समरोत्सवस्य संग्रामरूपस्योत्सवस्य ‘मह उद्धव उत्सवः’ इत्यमरः । इयं कर्मणि षष्ठी । सम्बन्धमात्रविवक्षितत्वात् इह षष्ठ्यन्तस्य वृत्तिगतेनापि श्रद्धाशब्देन नित्यसम्बन्धवशात्सम्बन्धं कृत्वा कृद्योगलक्षणा षठी समर्थनोया । केचित्तु ‘समरोत्सवे सः’ इति विषयलक्षणसप्तम्यन्तत्वमङ्गीत्य पठन्ति । तत्रापि समासवृतिगतस्य श्रद्धालुशब्दस्य सम्बन्धो दुर्घट इत्यलम् । श्रद्धालु भक्तिशीलं चेतो यस्य । सङ्ग्रामश्रद्धाधायक इत्यर्थः । एवंभूतः कुमारो भक्त्या भक्तिपूर्वकं गिरिजागिरीशौ पितरावापृच्छ्य । मया गम्यत इत्युक्त्वेत्यर्थः । दिवमभि प्रतस्थे चचाल । ‘समवप्रे’- त्यात्मनेपदम् ॥ 13.5 ॥

विश्वास-प्रस्तुतिः

देव महेशं गिरीजां च देवीं ततः प्रमम्य त्रिदिवौकसोऽपि ।
प्रदक्षिणीकृत्य (1)च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः(2) ॥ 13.6 ॥
{1.सुरेशमुख्याः सुराः.2.अभिजग्मुः.}

मूलम्

देव महेशं गिरीजां च देवीं ततः प्रमम्य त्रिदिवौकसोऽपि ।
प्रदक्षिणीकृत्य (1)च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः(2) ॥ 13.6 ॥
{1.सुरेशमुख्याः सुराः.2.अभिजग्मुः.}

अन्वयः

ततो नाकनाथपूर्वाः समस्ताः त्रिदिवौकसोऽपि महेशं देवं गिरिजां देवीं च प्रणम्य अथ प्रदक्षिणीकृत्य तम् अनुययुः ।

सीतारामः

देवमिति । ततोऽनन्तरम् । नाकनाथपूर्वा इन्द्रप्रमुखाः समस्तास्त्रिदिवौकसो देवा अपि पूर्वोक्तकुमारप्रस्थानसमुच्चायकोऽपिशब्दः ‘अपि सम्भावनाप्रश्नाश्ङ्कागर्हासमुच्चये’ इति विश्वः । महेशं देवं गिरीजां देवीं च प्रणम्य । अथ प्रदक्षिणौ परिक्रमणवशात्सव्यभागस्थौ कृत्वेत्यर्थः । ‘ऊर्यादिच्विडाचश्च’ इति गतिसंज्ञकतया ‘कुगतिप्रादयः’ इति समासत्वात् ‘समासेऽनञ्पूर्वे-’ इति क्त्वो ल्यबादेशः । कुमारमनु पश्चाज्जग्मुरित्यर्थः ॥ 13.6 ॥

विश्वास-प्रस्तुतिः

अथ व्रजद्भिस्त्रिदशै (1)रशेषैः स्फुरत्प्रभा(2) भासुरमण्डलैस्तैः ।
(3)नभो बभासे (4)परितो विकीर्मं दिवापि नक्षत्रगणैरिवोग्रैः ॥ 13.7 ॥
{1.सरोषैः.2.मण्डलभासुरैः.3.ततः.4.हरितोऽवकाशः.}

मूलम्

अथ व्रजद्भिस्त्रिदशै (1)रशेषैः स्फुरत्प्रभा(2) भासुरमण्डलैस्तैः ।
(3)नभो बभासे (4)परितो विकीर्मं दिवापि नक्षत्रगणैरिवोग्रैः ॥ 13.7 ॥
{1.सरोषैः.2.मण्डलभासुरैः.3.ततः.4.हरितोऽवकाशः.}

अन्वयः

अथ व्रजद्भिः स्फुरत्प्रभाभासुरमण्डलैः तैः अशेषैः त्रिदशैः विकीर्णं नभो दिवा अपि उग्रैः नक्षत्रवणैः विकीर्णम् इव परितो बभासे ।

सीतारामः

अथेति । अथानन्तरं व्रजद्भिर्गच्छद्भिरत एव स्फुरत्प्रसरत्प्रभायाः कान्त्याः सम्बन्धि भासुरं दीप्यमानं मण्डलं चक्रवालं येषाम् । ‘चक्रवालं तु मण्डलम्’ इत्यमरः । तैरशेषेः संपूर्वणैस्त्रिदशैर्देवैर्विकीर्ण व्याप्तं नभोऽन्तरिक्षं दिवापि दिनेऽपि । उग्रैर्भासुरैर्नक्षत्रगणैर्विकीर्णमिव । बभासे भासुरत्वरूपसाधारणधर्मण त्रिदशविकिरणविशिष्टे नभसि नक्षत्रविकिरणविशिष्टत्वोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । ननु ‘उग्रः शूद्रासुते क्षत्राद्रुदे पुंसि त्रिषूत्कटे’ इति कोशोक्त्योत्कटवाचिनोऽप्युग्रशब्दस्य कथं भासुरवाचकतेति चेत्, सत्यम् । अत्रोत्कट्यम् केनचिद्विर्मेण विवक्षितं न तु तेजसैव । कान्त्या तापेन वा सौन्दर्यादिना वोत्कटोऽधिक इत्यर्थप्रमयतात्प्रकृते समाधेयम् ॥ 13.7 ॥

विश्वास-प्रस्तुतिः

रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः(5) ।
नक्षत्रताराग्रहमण्डलानामिव (6)त्रियामारणो नभोन्ते(7) ॥ 13.8 ॥
{5.अधिककान्तकान्तः.6.दयितः.7.अन्तः.}

मूलम्

रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः(5) ।
नक्षत्रताराग्रहमण्डलानामिव (6)त्रियामारणो नभोन्ते(7) ॥ 13.8 ॥
{5.अधिककान्तकान्तः.6.दयितः.7.अन्तः.}

अन्वयः

नभोऽन्ते व्रजतां सुराणां मध्ये कुमारः नक्षत्रताराग्रहमण्डलानां मध्ये त्रियामारमण इव रराज ।

सीतारामः

रराजेति । नभोऽन्तेऽन्तरिक्षमध्ये व्रजतां तेषां सुराणां मध्ये कुमारः कार्त्तिकेयः । अग्रेऽपि नभोन्त इत्यस्य सम्बन्धः कार्यः । नक्षत्राण्यश्विन्यादीनि, ताराः सप्तविंशतिव्यातिरिक्ताः ग्रहाः सूर्यादयो नव तेषां मण्डलानां गोलानां मध्ये त्रियामारमणश्चन्द्र इव रराज । यतोऽधिककान्त्या कान्तो मनोहरः । नक्षत्राणां मध्ये यथा चन्द्र एव शोभते तथा देवानां मध्ये कुमार एव शुशुभ इत्यर्थः । पूर्णोपमालंकारः ॥ 13.8 ॥

विश्वास-प्रस्तुतिः

गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
उत्तीर्य नक्षत्रपथं (1)मुहूर्तात्प्रपेदिरे लोक(2) मथात्मनीनम् ॥ 13.9 ॥
{1.मुहूर्तम्.2.अथो मुनीनाम्.}

मूलम्

गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
उत्तीर्य नक्षत्रपथं (1)मुहूर्तात्प्रपेदिरे लोक(2) मथात्मनीनम् ॥ 13.9 ॥
{1.मुहूर्तम्.2.अथो मुनीनाम्.}

अन्वयः

अथ पुलोमपुत्रीदयितादयः ते गिरीशगौरीतनयेन सार्धं मुहूर्तात् नक्षत्रपथम् उत्तीर्य आत्मनीनं लोकं प्रपेदिरे ।

सीतारामः

गिरीशेति । अथ पुलोमपुत्री शची तस्या दयित इन्द्रः स आदिर्येषां तथाभूतास्ते देवा गिरीशगौरीतनयेन ननु गिरीशगौर्योरेकतरेम सिद्धिरिति चेत्, सत्यम् । उभयगतवीर्याश्रयीभूतत्वेन कुमारवीर्याधिक्यस्य द्योतनार्थमुभयोर्ग्रहणमिति समाधातव्यम् । सार्धं मुहूर्तात्क्षणमात्रैणैवः नक्षत्रपथमाकाशमुत्तीर्योल्लङ्ध्यात्मनीनमात्मने हितम् । ‘तस्मै हितम्’ इत्यधिकारस्थेन ‘आत्मन्विश्वजने-’ त्यादिना खः । तथाभूतं लोकं स्वर्गं प्रपेदिरे प्रापुः । ‘लोकस्तु भुवने जने’ इत्यमरः ॥ 13.9 ॥

विश्वास-प्रस्तुतिः

ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
सद्यः प्रवेष्टुं न विषेहिरे (3)तं क्षणं व्यलम्बन्त सुराः (4)समग्राः ॥ 13.10 ॥
{3.तत्.4.समस्ताः.}

मूलम्

ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
सद्यः प्रवेष्टुं न विषेहिरे (3)तं क्षणं व्यलम्बन्त सुराः (4)समग्राः ॥ 13.10 ॥
{3.तत्.4.समस्ताः.}

अन्वयः

ते समग्राः सुरा महासुरत्रासवशंवदत्वात् चिरकालदृष्टं तं स्वर्गलोकं सद्यः प्रवेष्टुं न विषेहिरे, तत् व्यलम्बन्त !

सीतारामः

ते इति । समग्राः सुरा महासुरात्तारकाद्यस्त्रासो भयं तस्य वशंवदत्वादधीनत्वाद्धेतोः चिरकालेन बहुसमयेन दृष्टं तं स्वर्गलोकं सद्यः सहसा प्रवेष्टुं न विषेहिरे न शेकुः । किंतु क्षणं व्यलम्बन्त । कालं चिक्षिपुरित्यर्थः । अन्योऽपि समये स्वगृहेऽपि सद्यः प्रवेष्टुं न शक्नोति किंतु विलम्बते तद्वदिति भावः ॥ 13.10 ॥

विश्वास-प्रस्तुतिः

(1)पुरो भव त्वं, न पुरो भवामि, (2)नाहं पुरोगोऽस्मि, (3)पुरः सरस्त्वम् ।
इत्थं (4)सुरास्तत्क्षणमेव भीताः स्वर्ग प्रवेष्टुं कलहं वितेनु ॥ 13.11 ॥
{1.पुरोडतत्तत्वम्.2.नव.3.पुरःसरत्वम्.4.द्विषा तेन कृते स्ववश्ये स्वर्गे,द्विषा तेन हता मिथस्ते स्वर्गे.}

तत्क्षणम् एव भीताः स्वर्गं प्रवेष्टुं त्वं पुरो भव, अहं पुरो न भवामि, अहं पुरोगो न अस्मि, त्वं पुरःसरः (भव), इत्थं कलहं वितेनुः ।

सीतारामः

पुर इति । तत्क्षणम् । ‘कालाध्वनोः-’ इति द्वितीया । प्रवेशसमय इत्यर्थः । भीता अतस्तारकावस्थानशङ्क्या सभयाः सुराः स्वर्गं प्रवेष्टुम् ‘त्वं पुरोऽग्रे भव । अङं पुरो न भवामि, किं तु त्वमेव भव । अहं पुरोगो नास्मि न भवामि । त्वं पुरः सुरो भव’ इत्थंमेवंभूतं कलहं विग्रहं वितेनुः । चक्रुरित्यर्थः । अस्मीत्यहमर्थकमव्ययम् । सर्वेषां त्रिधाभूततया न कोऽप्यन्तः प्रवेष्टुं शशाक । किंतु तत्रैव कलहायमानास्तस्थुरिति भावः ॥ 13.11 ॥

विश्वास-प्रस्तुतिः

(5)सुरालयालोकनकौतुकेन मुदा (6)शुचिस्मेरविलोचनास्ते ।
दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वस (7)कातरान्ताम् ॥ 13.12 ॥
{5.सुरत्वरा.6.सुविस्मरेविलोचनस्य,सुविस्मरेविलोचनान्तः.7.कामरास्ते,कामरान्ते.}

सुरालयालोकनकौतुकेन शुचिस्मेरबिलोचनाः ते द्विषत्साध्वसकातराऽन्तां दृष्टिं मुदा कुमारस्य मुखाऽरविन्दे दधुः ।

सीतारामः

सुरालयेति । सुरालयस्य स्वर्गस्य यदालोकनं तेन यत्कौतुकमानन्दस्तेन निमित्तेन शुचीनि शुद्धानि स्मेराणि समन्दहासानि च विलोचनानि येषां तथाभूतास्ते देवा द्विषत्साध्वसेन तारकशत्रुभयेन कातरान्तां भीतप्रान्ताम् । भयचिह्नतरलत्वादियुतामित्यर्थः । तथाभूतां दृष्टिं नेत्रं मुदा प्रीत्या । प्रसादेनेति यावत् । उपलक्षिते कुमारस्य मुखारविन्दे वदनकमले दधुः । दुर्धटप्रवेशोपायोपदेशापेक्षयेति भावः । कुमारो बालोऽपि सन् न भीत इति मुदेति विशेषणेन व्यज्यते ॥ 13.12 ॥

विश्वास-प्रस्तुतिः

सहेलहास(1)च्छुरिताननेन्दुस्ततः कुमारः पुरतो (2)भविष्णुः ।
स तारकापात(3)मपेक्षमाणो रणप्रवीरो (4)हि सुरानवोचत् ॥ 13.13 ॥
{1.उश्चिरित;उच्छुरित.2.निविष्टः.3.अवेक्षणः.4.अभि.}

मूलम्

सहेलहास(1)च्छुरिताननेन्दुस्ततः कुमारः पुरतो (2)भविष्णुः ।
स तारकापात(3)मपेक्षमाणो रणप्रवीरो (4)हि सुरानवोचत् ॥ 13.13 ॥
{1.उश्चिरित;उच्छुरित.2.निविष्टः.3.अवेक्षणः.4.अभि.}

अन्वयः

ततो रणप्रवीरः तारकापातम् अपेक्षमाणः पुरतो भविष्णुः स कुमारः सहेलहासच्छुरिताननेन्दुः हि सुरान् अवोचत् ।

सीतारामः

सहेलेति । ततो दृष्टिपातानन्तरं रणे प्रकृष्टं वीरोऽत एव तारकस्यापातं युद्धार्थमागमनमपेक्षते सोऽपेक्षमाणः । प्रतीच्छन्नित्यर्थः । अत एव पुरतोऽग्रतो भविष्णुः स कुमारः कात्तिकेयः सहेलः सक्रीडो यो हासस्तेन छुरिताननेन्दुर्मिश्रितमुखचन्द्रः सन् । किंचिद्विहस्येत्यर्थः । हि निश्चितम् । सुरानवोचज्जगाद ॥ 13.13 ॥

विश्वास-प्रस्तुतिः

भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्गं भवन्तः प्रविशन्तु सद्यः ।
अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो (5)वः खलुः (6)दृष्टपूर्वः ॥ 13.14 ॥
{5.यः.6.कालदृष्टः.}

मूलम्

भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्गं भवन्तः प्रविशन्तु सद्यः ।
अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो (5)वः खलुः (6)दृष्टपूर्वः ॥ 13.14 ॥
{5.यः.6.कालदृष्टः.}

अन्वयः

‘हे स्त्रिदिवौकसः !’ अद्य भीत्या अलं (किन्तु) अमी भवन्तः सद्यः स्वर्ग प्रविशन्तु । सद्यः दृष्टपूर्वः वः शत्रुः महामुरः अत्र एव मे दृक्पथम् एतु ।

सीतारामः

भीत्येति । भो त्रिदिवौकसो देवाः, अद्य संप्रति भीत्या भयेनालम् । न भेतव्यमित्यर्थः । किं त्वमी भवन्त सद्यः सहसैव स्वर्ग प्रविशन्तु । स्वर्गप्रवेशे भयहेतुको विलम्बो न विधेय इति तात्पर्यम् । सद्यः सपदि । तत्क्षणमित्यर्थः । अथ रोषादाह-पूर्व दृष्टपूर्वः । ‘राजदन्तादिषु’ इति प्राक्प्रयोगार्हस्य पूर्वशब्दस्य परः प्रयोगः । संभवानुरोधाद्भरिति लभ्यते । ननु व इत्यनेनैव सिद्धिरिति चेन्न । ‘नलोके-‘ति षष्ठीनिषेधात् । तथा वो युष्माकं शत्रुर्द्वेष्टा महासुरस्तारकोऽत्रैव स्वर्गं एव मे मम दृक्पथं दृग्गोचरत्वमेतु प्राप्नोतु । दृक्पथमिति । ‘ऋक्पूरब्धूः-’ इति समासान्तोऽप्रत्ययः ॥ 13.14 ॥

विश्वास-प्रस्तुतिः

continue to august
(1)स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं (2)वल्गति यस्य चण्डम् ।
इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ॥ 13.15 ॥
{1.स्वर्गैकलक्ष्मी.2.यस्य बलातिचण्डम्.}

मूलम्

continue to august
(1)स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं (2)वल्गति यस्य चण्डम् ।
इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ॥ 13.15 ॥
{1.स्वर्गैकलक्ष्मी.2.यस्य बलातिचण्डम्.}

अन्वयः

स्वर्लोकलक्ष्मीकचकर्षणाय चण्डं यस्य दोर्मण्डलं वल्गति । तच्छोणितपानकेलिम् एते मम शराः अह्नाय इह एव कुर्वन्तु ।

सीतारामः

स्वर्लोकेति । स्वर्लोकस्य लक्ष्म्याः कचाः केशास्तेषां कर्षणाय । लक्ष्मीकेशानां हरणं कर्तुमित्यर्थः । ‘तुमर्थात्’ इति चतुर्थी । चण्डं प्रचण्डं यस्य तारकस्य दोर्मण्डलं वल्गति चलति । तस्य तारकस्य यच्छोणितं रुधिरं तस्य पानं तदेव केलिः क्रीडा तां कर्मभूतामेते मम शरा अह्नाय झटिति । ‘द्राग्झटित्यञ्जसाह्नाय’ इत्यमरः । इहैव कुर्वन्तु । तं विनाशयन्त्वित्यर्थः ॥ 13.15 ॥

विश्वास-प्रस्तुतिः

शक्तिर्ममासावहतप्रचारा प्रभावसारा (3)सुमहःप्रसारा ।
(4)स्वर्लोकलक्ष्म्या विपदावहारेः (5)शिरो हरन्ती दिशन्तान्मुदं(6) वः ॥ 13.16 ॥
{3.सुमहाप्रसारा.4.लक्ष्मीः.5.सहारिशिरः,सहारेः शिरः.6.दिशतां मुखम्.}

अहतप्रचारा प्रभावसारा सुमहःप्रसारा स्वर्लोकलक्ष्भ्या विपदावहा (तथा) अरेः शिरो हरन्ती असौ मम शक्तिः वो मुदं दिशतात् ।

सीतारामः

शक्तिरिति । अहतप्रचाराविध्नितगतिः । तथा प्रभावः सामर्थ्यं स एव सारो यस्याः । सुतरां महसस्तेजसः प्रसारो मण्डलं यस्याः । अति तेजस्विनीत्यर्थः । स्वर्लोकलक्ष्म्या या विपदा तस्या अवहा । सुखदेत्यर्थः । तथारेः प्रतिकूलस्य शिरः शिर्ष हरन्ती । असौ मम शक्तिरायुधं वो युष्माकं मुदं प्रीतिं दिशताद्दत्तात् । आशिषि लोट् ॥ 13.16 ॥

विश्वास-प्रस्तुतिः

इत्यन्धकारातिसुतस्य दैत्यवधाय (7)युद्धोत्सुकमानसस्य ।
सर्वं (8)शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं (9)वचसां ननन्द ॥ 13.17 ॥
{7.बद्धोत्सवमानसस्य.8.सविस्मेर.9.ननन्द.}

मूलम्

इत्यन्धकारातिसुतस्य दैत्यवधाय (7)युद्धोत्सुकमानसस्य ।
सर्वं (8)शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं (9)वचसां ननन्द ॥ 13.17 ॥
{7.बद्धोत्सवमानसस्य.8.सविस्मेर.9.ननन्द.}

अन्वयः

दैत्यवधाय यद्धोत्सुकमानसस्य अन्धकाऽरातिसुतस्य इति वचसा सर्वं गीर्वाणवृन्दं शुचिस्मेरमुखाऽरविन्दं (सत्) ननन्द ।

सीतारामः

इतीति । देत्यवधाय दैत्यवधं कर्तुं युद्ध उत्सुकमानसस्योत्कण्ठितचेतसोऽन्धकारातिसुतस्य शिवपुत्रस्य कुमारस्य सम्बन्धिना । इति पूर्वोक्तेन वचसा सर्वं गीर्वाणवृन्दं देवसमूहः शुचि शुद्धं स्मेरं समन्दहासं मुखारबिन्दं मुखकमलं यस्य तथाभूतं सन् ननन्द जहर्ष ॥ 13.17 ॥

विश्वास-प्रस्तुतिः

(1)सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्ग(2)संफुल्लसहस्रनेत्रः ।
तस्योत्तरीयेण निजाम्बरेण (3)निरुञ्छनचारु चकार शक्रः ॥ 13.18 ॥
{1.सान्द्रप्रमोदः.2.संलग्न.3.निर्मञ्छनम्,निरुहणम्,निरुञ्छनम्.}

मूलम्

(1)सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्ग(2)संफुल्लसहस्रनेत्रः ।
तस्योत्तरीयेण निजाम्बरेण (3)निरुञ्छनचारु चकार शक्रः ॥ 13.18 ॥
{1.सान्द्रप्रमोदः.2.संलग्न.3.निर्मञ्छनम्,निरुहणम्,निरुञ्छनम्.}

अन्वयः

सान्द्रप्रमोदात् पुलकोपगूढः सर्वांऽङ्गसंफुल्लसहस्रनेत्रः शक्रः तस्य उत्तरीयेण निजाऽम्बरेणा निरुञ्छनं चारु चकार ।

सीतारामः

सान्द्रेति । सान्द्रप्रमोदाद्धनानन्दाद्धेतोः पुलकै रोमाञ्चैरूपगूढ आश्लिष्टः । ‘पुलकः कृमिभेदेऽश्मभेदे च मणिदोषके । रोमाञ्चै हरिताले गजात्तपिण्डे च गन्धके । इति मेदिनी । तथा सर्वेष्वङ्गेषु संफुल्लानि सहस्रनेत्राणि यस्य । यतः । सहस्राक्षस्तथाभूतः शक्र इन्द्रस्तस्य कुमारस्योत्तरीयेण संव्यानेन । संव्यानमुत्तरीयं स्यात्’ इत्यमरः । तथा निजाम्बरेण निरुञ्छनं परिवर्तनं चारु चकार । भ्रातृभावायान्योन्यवस्त्रग्रहणं चक्रतुरित्यर्थः । तदुक्तं मेदिन्याम्- ‘निरुञ्छनं बन्धुतायै वाससः परिवर्तनम्’ इति । लोकेऽपि भ्रातृतायै परस्योष्णिग्बन्धनव्यवहारस्तद्वदत्रापीति अनुशासने सामान्यतो वासोग्रहणेन प्रकृत उत्तरीयग्रहणं सङ्गच्छते । लोकव्यवहारस्तु संप्रदायसिद्धः । उष्णिहि विशेषश्रैष्ठ्योपलम्भ एव व्यवहारमूलमिति मन्तव्यम् ॥ 13.18 ॥

विश्वास-प्रस्तुतिः

घनप्रमोदाश्रुत(4)रङ्गिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः(5) ।
(6)अथो अचुम्बद्विधिरादिवृद्धः षडाननं षट्सु (7)शिरःसु (8)चित्रम् ॥ 13.19 ॥
{4.परिप्लवाक्षैः.5.प्रमोदः.6.क्रमाच्चुचुम्बे.7.मुखेषु.8.हर्षात्.}

अथो आदिवृद्धः विधिः घनप्रमोदाऽश्रुतरङ्गिताक्षैः प्रचुरप्रसादैः चतुर्भिः मुखैः षट्सु शिरःसु षडाननं अचुम्बत् चित्रम् ।

सीतारामः

धनेति । अथो अनन्तरमाद्योर्हरिहरयोर्वृद्धो महान्विधिर्ब्रह्मा । घनः सान्द्रः । ‘घनं स्यात्कांस्यतालादिवाद्यमध्यमवृत्ययोः । ना मुस्तादौ घनाद्येषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे च दृष्टार्थ’ इति मेदिनी । यः प्रमोदो हर्षस्तेन निमित्तेन यदश्रु नेत्रपयस्तेन तरङ्गितानि सजाततरङ्गाणि तारकादिभ्य इतच् । अक्षोणि नेत्राणि येषां तैः । हर्षवशादुद्गताश्रुभिरित्यर्थः । तथा प्रचुरप्रसादैरधिकप्रपन्नतायुक्तैश्चतुर्भिर्मुखैः षट्षु शिरःसु षडाननं कुमारम् अचुम्बदस्पृशत् । इति चित्रं विस्मयः । चतुर्भिर्मुखैः षण्णां मुखानां यौगपद्येन स्पर्शासम्भवात् । परिहारस्तु प्रत्येकं षट्सु चतुर्भिश्चुम्बनेन सन्धेयः ॥ 13.19 ॥

विश्वास-प्रस्तुतिः

(1)तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्वसङ्घाः ॥ 13.20 ॥
{1.सुसाधुः.}

मूलम्

(1)तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्वसङ्घाः ॥ 13.20 ॥
{1.सुसाधुः.}

अन्वयः

गन्धर्वविधाघरसिद्धसङ्घाः तं त्रिपुराऽसुराऽरेः कुपारं मुदा ‘साधु साधु’ इति अभितः प्रशस्य ‘हे वीर ! (त्वम्) जय’ इति वाचा आनन्दयन् ।

सीतारामः

तमिति । गन्धर्वा देवगायकाः, विद्याधराः, सिद्धाश्च देवविशेषाः, एषां सङ्घाः समुदायाः कर्तारः तं त्रिपुरासुरस्यारेः शिवस्य कुमारं पुत्रं मुदा प्रीत्या निमित्तेन साधुसाध्विवत्यभितः संमुखत्वेन प्रशस्य स्तुत्वा ‘हे वीर, त्वं जय शत्रोः सकाशाज्जयं प्राप्नुहि’ इत्येवंभूतया वाचानन्दयन्नानन्दिमकुर्वन् ॥ 13.20 ॥

विश्वास-प्रस्तुतिः

दिव्यर्षयः (2)शत्रुविजेष्यमाणं (3)तमभ्यनन्दन्किल नारदाद्याः ।
(4)निरुञ्छनं (5)चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च ॥ 13.21 ॥
{2.तस्य वची वरार्थम्.3.समभ्यनन्दन्,तदध्यनन्दन्.4.निर्मञ्छनम्,निमञ्छनम्.5.नववल्कः.}

नारदाद्या दिव्यर्षयः शत्रुविजेष्यमाणां तम् अभ्यनन्दन्, अथ चामीकरीयैः उत्तरीयैः निजल्वकलैश्य निरुञ्छनं चक्रुः ।

सीतारामः

दिव्यर्षय इति । नारदाद्या नारदप्रमुखा दिव्या दिवि भवा ऋषयः । ‘द्युप्रागपागुदक्-’ इति यत् । शत्रुं तांरकं विजेष्यमाणां जेष्यन्तं तं कुमारमभ्यनन्दंस्तुष्टुवुः किल । अथानन्तरं चामोकरीयैः सौवर्णेरुत्तरोयैर्वस्त्रैः । तथा निजवल्कलैश्च निरुञ्छनं बन्धुतायै वासः परिवर्तनं चक्रुः निरुञ्छनं पूर्वमेव निर्णीतम् ॥ 13.21 ॥

विश्वास-प्रस्तुतिः

ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः(1) ।
उत्सेहिरे स्वर्गमनन्तशक्ते(2) र्गन्तुं वनं यूथपतेरिवेभाः ॥ 13.22 ॥
{1.उत्यजन्तः.2.अनन्तशक्यै.}

मूलम्

ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः(1) ।
उत्सेहिरे स्वर्गमनन्तशक्ते(2) र्गन्तुं वनं यूथपतेरिवेभाः ॥ 13.22 ॥
{1.उत्यजन्तः.2.अनन्तशक्यै.}

अन्वयः

ततः अनन्तशक्तेः शक्तिघरस्य तस्य अवष्टम्मतः साध्वसम् उत्सृजन्तः सुराः अनन्तशक्तेः यूथपतेः (अवष्टम्मतः) इमा वनम् इव स्वर्गं गन्तुम् उत्सेहिरे ।

सीतारामः

तत इति । ततोऽन्तरं शक्तिरायुधविशेषस्तां धरतीति तथोक्तस्य तस्य कुमारस्य । ‘शक्तिरस्त्रान्तरे शौर्ये उत्साहादौ बले स्त्रियाम्’ इति मेदिनी । अवष्टम्भत आश्रयतः । ‘अवष्टम्भः सुवर्णो च स्तम्भप्रारम्भयोरपि’ इति मेदिनी । अत्र स्तम्भशब्देनाश्रयो लक्षितः । स्तम्भस्याश्रयमिति तत्त्वात् । साध्वसं भयम् । ‘भीतिर्भीः साध्वसं भयम्’ इत्यमरः । उत्सृजन्तः सुरा देवाः । अनन्तशक्तेरपारशौर्यस्य यूथपतेर्गजराजस्यावष्टम्भत इभा गजा वनमिव । स्वर्गं गन्तुं प्रवेष्टुमुत्सेहिर उत्साहं चक्रुः । अनन्तशक्तेरिति विशेषण कुमारेऽपि योजनीयम् ॥ 13.22 ॥

विश्वास-प्रस्तुतिः

(3)अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं(4) चिकीर्षोः ।
सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथः समन्तात् ॥ 13.23 ॥
{3.अभिपृष्ठे.4.जयम्.}

मूलम्

(3)अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं(4) चिकीर्षोः ।
सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथः समन्तात् ॥ 13.23 ॥
{3.अभिपृष्ठे.4.जयम्.}

अन्वयः

अथ सुराः पुरन्दराऽरातिवधं चिकीर्षोः गिरिजासुतस्य अभिपृष्ठं त्रिपुरं दिधक्षोः स्मराऽरेः (अभिपृष्ठम्) प्रमथा इव समन्तात् निरीयुः ।

सीतारामः

अथेति । अथोत्साहानान्तरं सुराः पुरंदरस्योन्द्रस्यारातेस्तारकस्य वधं मृत्युं चिकीर्षोः कर्तुमिच्छोर्गिरिजासुतस्य कुमारस्याभिपृष्ठं पृष्ठसंमुखं त्रिपुरं दैत्यं दिधक्षोर्दग्धुमिच्छोः ‘दह भस्मकरणे’ इति धातोरिच्छार्थे सनि ‘सन्यङोः’ इति द्वित्वे ‘सनाशंसभिक्ष उः’ इत्युप्रत्ययः । स्मरारेः शिवस्याभिपृष्ठं प्रमथा इव स्थिताः समन्तान्निरीयुर्निर्जग्मुः । अन्तर्विविशुरित्यर्थः ॥ 13.23 ॥

विश्वास-प्रस्तुतिः

(1)सुराङ्गनानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः ।
प्रपेदिरे पिञ्जरवारिपूरां स्वर्गैकसः स्वर्गधुनीं पुरस्तात् ॥ 13.24 ॥
{1.सुराङ्गणानाम्.}

मूलम्

(1)सुराङ्गनानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः ।
प्रपेदिरे पिञ्जरवारिपूरां स्वर्गैकसः स्वर्गधुनीं पुरस्तात् ॥ 13.24 ॥
{1.सुराङ्गणानाम्.}

अन्वयः

स्वर्गैकसः पुरस्तात् जलकेलिभाजां सुराऽङ्गनानां संततं प्रक्षालितैः अङ्गरागैः पिञ्जरवारिपूरां स्वर्गधुनीं प्रपेदिरे ।

सीतारामः

सुराङ्गनानामिति । स्वर्गैकसो दवाः पुरस्तादग्रे जलकेलिभाजां जलक्रीडासक्तानां सुराङ्गनानामप्सरसां सन्ततं निरन्तरं प्रक्षलितैरङ्गरागौः कुङ्कुमादिरचितैः पिञ्जरवारिपूरां पीतजलप्रवाहां स्वर्गधुनीं मन्दाकिनीं प्रपेदिरे प्रापुः । सुराङ्गणानामिति ‘कुमति च’ इति णत्वम् ॥ 13.24 ॥

विश्वास-प्रस्तुतिः

दिग्दन्तिनां वारिविहारभाजां(2) कराहतै(3)र्भीमतरैस्तरङ्गैः ।
आप्लावयन्तीं मुहुरालबालश्रोणिं(4) तरुणां (5)निजतीरजानाम् ॥ 13.25 ॥
{2.विहारलीलाम्.3.भीमवराहयूथैः.4.श्रेणीः श्रेणीम्.5.गुरुतीरजानाम्.}

(स्वर्गैकसः) वारिविहारभाजां दिग्दन्तिकां कराहतैः भीमतरैः तरङ्गैः निजतीरभाजां तरुणाम् आलवालश्रेणीं मुहुः आप्लावयन्तीम् (स्वर्गधुनींप्रपेदिरे) ।

सीतारामः

दिग्दन्तीनामिति । किंभूतां स्वर्गधुनीम् । वारिणि विहारभाजां क्रीडतां दिग्दान्तनामैरावतादीनां करैः शुण्डादण्डैः । ‘करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोः’ इति भेदिनी । आहतैस्ताडितैरत एव भीमतरैरतिशयभयानकैस्तरङ्गैः कल्लोलैः कृत्वा निजतीरजानामात्मीयतटोत्पन्नानां तरूणां वृक्षाणां सम्बन्धिनीमालवालानां मूलस्थलीनां श्रेणिम् । ‘श्रेणिः स्त्रीपुंसयोः पङ्क्तौ समाने शिल्पिसंहतौ’ । इति मेदिनी । मुहुर्वारंवारम् । ‘मुहुः पुनः पुनः शश्वत्’ इत्यमरः । आप्लावयन्तीं सेचयन्तीम् ॥ 13.25 ॥

विश्वास-प्रस्तुतिः

(1)लीलारसाभिः सुरकन्यकाभि(2) र्हिरण्मयीभिः सिकताभिरुच्चैः ।
माणिक्यगर्भाभि(3)रुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः ॥ 13.26 ॥
{1.लालालसामिः.2.हिरण्यहसाभिरुतीभिः,हिरण्यजाभिः,सिकताभिः.3.उपोहिताभिः.}

(स्वर्गैकसः) लीलारसाभिः सुरत्र्यकाभिः हिरण्मयोभिः सिकतार्भिः माणिक्यगर्भाभिः उपाहिताभिः उच्चैः वरवेदिकाभिः प्रकीर्णतीराम् (स्वर्गधुनीं प्रपेदिरे) ।

सीतारामः

लीलेति । पुनः किंभूताम् । लीलायां क्रीडायां रसः प्रीतिर्यासां ताभिः सुराणां कन्यकाभिः पुत्रीभिः । तथा हिरण्मयोभिः सौवर्णीभिः सिकताभिवार्लुकाभिः तथा माणिक्यगर्भाभिर्मणिखचितमध्याबिः तथोपाहिताभिर्निर्मिताभिः न त्वकृत्रिमाभिः । तथोच्चैर्महतोभिर्वराः श्रेयस्यो या वेदिकास्ताभिश्च प्रकीर्णतीरां व्याप्तसैकताम् ॥ 13.26 ॥

विश्वास-प्रस्तुतिः

सौरभ्यलुब्धभ्रमरोप(4)गीतैर्हिरण्यहंसावलिकेलिलौलेः ।
चामीकरीयैः कमलैर्विनिद्रैश्च्युतैः परागैः (5)परिपिङ्गतोयाम् ॥ 13.27 ॥
{4.अवकीर्णेः.5.परिपिञ्जतोयाम्.}

मूलम्

सौरभ्यलुब्धभ्रमरोप(4)गीतैर्हिरण्यहंसावलिकेलिलौलेः ।
चामीकरीयैः कमलैर्विनिद्रैश्च्युतैः परागैः (5)परिपिङ्गतोयाम् ॥ 13.27 ॥
{4.अवकीर्णेः.5.परिपिञ्जतोयाम्.}

अन्वयः

(स्वर्गैकसः) सौरभ्यलुब्बभ्रमपरोपगीतैः हिरण्महंसावलिकेलिलोलैः चामोकरीयैः विनिद्रैः कमलैः च्युतैः परागैः परिपिङ्गतोयाम् (स्वर्गधुनीं प्रपेदिरे) ।

सीतारामः

सौरभ्येति । पुनः किंभूताम् । सीरभ्ये सोगन्ध्ये लुब्धा लम्पटा ये भ्रमरा द्विरेफास्तैरुपगीतैः मुखरितैरित्यर्थः । हिरण्यस्य सुवर्णस्य ये हंसा मरालास्तेषामावलयः पङ्क्तयरतासां केलिः क्रीडा तया निमित्तेन लोलैश्चञ्चलैश्चामीकरीयैः सौवर्णैर्विनिद्रैर्विदलितैः कमलैरुपलक्षिताम् । अत एव च्युतैः कमलेभ्यो भ्रष्टैः परागैः सुमनोरजोभिः । ‘परागः सुमनोरजः’ इत्यमरः । परिपिङ्गं परितः तोयं जलं यस्यास्तथोक्ताम् ॥ 13.27 ॥

विश्वास-प्रस्तुतिः

कुतूहलात्प्रप्टुमुपागताभि (1)स्तीरस्थिताभिः (2)सुरसुन्दरीभिः ।
(3)अभ्यूर्मिराजिप्रतिबिम्बिताभिर्मुदं दिशन्तीं व्रजतां जनानाम् ॥ 13.28 ॥
{1.तीरे स्थिताभिः.2.पुरकन्यकाभिः.3.अभ्यूमिराजी,अत्यूर्मिराजि.}

(स्वर्गैकसः) द्रष्टुं कुतूहलात् उपागताभिः तीरस्थितभिः (अत एव) अभ्यूर्मिराजिप्रतिबिम्बिताभिः सुरसुन्दरीभिः व्जतां जनानां मुदं दिशन्तीम् (स्वर्गधुनीं प्रपेदिरे) ।

सीतारामः

कुतूहलादिति । द्रष्टुं कुतूहलात्कौतुकात् । आनन्दादिति यवत् । उपागताभिरागताभिः अत एव तीरस्थिताभिः अत एव तीरस्थिताभिः । अत एवाभ्यूर्मिराज । ऊर्मिराजावित्यभ्यूर्मिराजि तरङ्गमध्ये प्रतिबिम्बिताभिः सुरसुन्दरीभिर्देवाङ्गनाभिर्निमित्तेन व्रजतां गच्छतामपि जनानां मुदं दिशन्तीं ददतीम् । एकासामप्यप्सरसां प्रतिबिम्बवशादनेकधादृश्यमानत्वाद्युक्ता प्रीतिजनकतेति भावः ॥ 13.28 ॥

विश्वास-प्रस्तुतिः

ननन्द (4)सद्यश्चिरकालदृष्टां विलोक्य (5)शक्रः सुरदीर्घिकां ताम ।
(6)अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय (7)ततः पुरोगः ॥ 12.29 ॥
{4.शक्रः.5.सद्यः.6.आशंसयन्सादरमद्रिपुत्रीमहेशपुत्राय पुरः पुरोगाः.7.रः.}

शक्रः चिरकालदृष्टां तां सुरदीर्घिकां विलोक्य सद्यो ननन्द, ततः अद्रिपुत्रीमहेशपुत्राय सादरं पुरोगः (सन्) अदर्शयत् ।

सीतारामः

ननन्देति । शक्र इन्द्रश्चिरकालेन बहुकालेन दृष्टां तां सुरदीर्घिकां मन्दाकिनीं विलोक्य सद्यो झटिति ननन्द जहर्ष । अतिरमणीयं वस्तु चिरकालदृष्टं सद्वहुप्रीतिजनकं भवतीति भावः । ततोऽनन्तरमद्रिपुत्रीमहेशयोः पुत्राय कुमाराय सादरं यथा तथा पुरोगः सन्नदर्शयत् ॥ 13.29 ॥

विश्वास-प्रस्तुतिः

स (1)कार्त्तिकेयः पुरतः (2)परीतः सुरै समस्तैः सुरनिम्नगां ताम् ।
अपूर्वदृष्टा(3)मवलोकमानः (4)सविस्मयः स्मेरविलोचनोऽभूत् ॥ 13.30 ॥
{1.स कार्त्तिकेयः पुरतः परीतो वियच्चरैर्लोतरैस्तरंगैः.2.पुरोजः.3.इवलोकमानः.4.सविस्मय.}

समस्तैः सुरैः परीतः कार्त्तिकेयः अदृष्टपूर्वा तां सुरनिम्नगां पुरतः अवलोकमानः (सन्) सविस्मयः स्मेरविलोचनः अभूत् ।

सीतारामः

स इति । समस्तैः सुरैः परीतो व्याप्तः स कार्त्तिकेयः कुमारः । अपूर्वदृष्टाम् । अधुनैव दृष्टामित्यर्थः । तां सुरनिम्नगां पुरतोऽग्रे वलोकमानः सन्सविस्मयः साश्चर्यः स्मेरविलोचनः समन्दहासनेत्रचाभूत् ॥ 13.30 ॥

विश्वास-प्रस्तुतिः

उपेत्य तां (5)तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः ।
गीर्वाणवृन्दैः (6)प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना (7)मुदितो ववन्दे ॥ 13.31 ॥
{5.रत्नकिरीट.6.प्रणताम्.7.नमितः,प्रणतः.}

मूलम्

उपेत्य तां (5)तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः ।
गीर्वाणवृन्दैः (6)प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना (7)मुदितो ववन्दे ॥ 13.31 ॥
{5.रत्नकिरीट.6.प्रणताम्.7.नमितः,प्रणतः.}

अन्वयः

भक्तिपरः कुमारः गीर्वाणवृन्दैः प्रणुतां तत्र उपेत्य किरीटकोटिन्यस्ताऽञ्जलिः (सन्) प्रणुत्य मुदुतः नम्रण मूर्ध्ना ववन्दे ।

सीतारामः

उपेत्येति । भक्तिपरो भक्तिप्रवणः कुमारः कार्त्तिकेयो गीर्वाणवृन्दैर्देवसमूहैः प्रणुतां प्रकर्षेण स्तुताम् । ‘णु स्तुतौ’ इति धातोः कर्मणि क्तः । तां मन्दाकिनीं तत्रोपेत्य । तत्समीपं गत्वेत्यर्थः । किरीटकोटौ मुकुटाग्रे । ‘कोटिः स्त्री धनुषोऽग्रेऽस्त्रौ’ इति मेदिनी । अत्राग्रशब्दस्य धनुःशब्दोपलक्षिततया सर्वेषामग्रवाचकत्वं बोध्यम् । न्यस्तोऽञ्जलिर्येन तथाभूतः सन् । प्रणुत्येडयित्वा मुदितो मुमुदे । इदं कृदन्तरूपं क्रियापदम् । तथा नम्रेण मूर्ध्ना शिरसा ववन्दे नमश्चक्रे ॥ 13.31 ॥

विश्वास-प्रस्तुतिः

(1)प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
कपोलपालिश्रमवारिहारी भेजे गुहं (2)तं सरितः समीरः ॥ 13.32 ॥
{1.प्रपाटित.2.सरितः.}

मूलम्

(1)प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
कपोलपालिश्रमवारिहारी भेजे गुहं (2)तं सरितः समीरः ॥ 13.32 ॥
{1.प्रपाटित.2.सरितः.}

अन्वयः

प्रणर्तितस्मेरसरोजराजिः परीरम्भमिलन्महोर्मिः कपोलपालिश्रमवारिहारी सरितः समीरः तं पुरः गुहं भेजे ।

सीतारामः

प्रणर्तितेति । प्रणर्तिता कम्पिता स्मेरसरोजानां विकसितकमलानां राजिर्माला येन । अनेन सौगन्ध्योक्तिः । तथा परीरम्भेणाश्लेषेण मिलन्ति आत्मनि मिश्रीभवन्तो महोर्मयो यस्य । अनेन शैत्योक्तिः । कपोलपाल्याः । कपोलरुपलताग्रस्येत्यर्थः । ‘पालिः कर्णे लताग्रेऽश्रौ’ इति विश्वः । श्रमेण यद्वारि स्वेदस्तस्य हारी । अनेन माद्योक्तिः । अन्यथा श्रमहृतेरसम्भवः । एवंभूतः सरितो मन्दाकिन्याः समीरः पवनः पुरोऽग्रे स्थितं तं गुहं स्वामिकार्त्तिकेयम् । यद्वा । पुरोऽग्रे भेजे सिषेवे ॥ 13.32 ॥

विश्वास-प्रस्तुतिः

ततो (3)व्रजन्नन्दननामधेयं लीलावनं (4)जम्भजितः पुरस्तात् ।
विभिन्नभग्नोद्(5)धृतशालसङ्घं प्रेक्षांचकार स्मरशत्रुसूनुः ॥ 13.33 ॥
{3.जपात्.4.वज्रभूतः.5.उन्नतशाखि.}

मूलम्

ततो (3)व्रजन्नन्दननामधेयं लीलावनं (4)जम्भजितः पुरस्तात् ।
विभिन्नभग्नोद्(5)धृतशालसङ्घं प्रेक्षांचकार स्मरशत्रुसूनुः ॥ 13.33 ॥
{3.जपात्.4.वज्रभूतः.5.उन्नतशाखि.}

अन्वयः

ततो व्रजन् स्मरशत्रुसूनुः पुरस्तात् विभिन्नभानोद्धृतशालसङ्घं नन्दननामधेयं जम्भजितो लीलावनं प्रेक्षाञ्चकार ।

सीतारामः

तत इति । ततो गङ्गावलोकनानन्तरं व्रजंश्चलन्स्मरशत्रुसूनुः कुमारः पुरस्तादग्रे विभिन्नो विदारितः । बाणैः शतरन्ध्रीकृत इति तात्पर्यार्थः । तथा भग्न आमर्दितो मूलं विनोपर्येव शतशकलीकृत उद्धृत उत्पाटितश्च शालसङ्घो यस्य तत् । ‘शालो हाले मत्स्यभेदे शालौकस्तत्प्रभेदयोः । शालद्रुस्कन्धशाखायां शालेति परिकीर्तिता ॥’ इति मेदिनी । नन्दननामधेयं नन्दनसंज्ञकम् । ‘नन्दनं वनम् ।’ इत्यमरः जम्भजित इन्द्रस्य लीलावनमुपवनं प्रेक्षांचकार ददर्श । इजादेश्चेत्याम्’॥ 13.33 ॥

विश्वास-प्रस्तुतिः

सुरद्विषोपप्लुतमेवमे(1)तद्वनं बलस्य द्विषतो गतश्रि ।
इत्थं विचिन्त्यारुणलोचनोऽभूद् भ्रुभङ्गदुष्प्रेक्ष्यमुखः(2) (3)स कोपात् ॥ 13.34 ॥
{1.एव.2.दुष्प्रेक्षमुखः.3.च.}

मूलम्

सुरद्विषोपप्लुतमेवमे(1)तद्वनं बलस्य द्विषतो गतश्रि ।
इत्थं विचिन्त्यारुणलोचनोऽभूद् भ्रुभङ्गदुष्प्रेक्ष्यमुखः(2) (3)स कोपात् ॥ 13.34 ॥
{1.एव.2.दुष्प्रेक्षमुखः.3.च.}

अन्वयः

स एतत् बलस्य द्विषतो वनं सुरद्विषा एवम् उपप्लुतम् (अत एव) गतश्रि इत्यं विचित्त्य कोपात् अरुणलोचनः भ्रूमङ्गदुष्प्रेक्ष्यमुखः अभूत् ।

सीतारामः

सुरद्विषेति । स कुमारः । एतत्पुरोवर्ति बलस्य द्विषत इन्द्रस्य । अत्र ‘नलोके-’ त्यादिना षष्ठीनिषेधेऽपि ‘द्विषः शतुर्वा’ इति विकल्पात्षष्ठी । वनमुपवनं सुरद्विषा तारकेणैव न केनापि । यथा तारकेणोपद्रुतं तथा न केनापीत्यवधारणार्थमेवकारेण ध्वन्यते । ‘एवः प्रकारोपमयोरङ्गीकाराऽवधारणे’ । इति विश्वः । अभितः सर्वतः । उपप्लुतमुपद्रुतमत एव गतिश्रि नष्टशोभमित्थं विचिन्त्य कोपादरुणे लोचने यस्य तथा भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दशं मुखं यस्य तथोक्तश्चाभूत, महतां सति स्वस्मिन्परदुःखं महादुःखावहं भवतीति भावः ॥ 13.34 ॥

विश्वास-प्रस्तुतिः

निर्लूनलीलोपवनामपश्यद्(4)दुःसञ्चरीभूतविमानमार्गाम् ।
विध्वस्त(5)सौधप्रचयां (6)कुमारो विश्वैकसाराममरावतीं सः ॥ 13.35 ॥
{4.असंचरी.5.सौख्यप्रचयाम्.6.प्रमृष्टविश्वौकसाराम्,प्रमृष्टवस्त्वेकसाराम्.}

स कमारः निर्लूनलीलोपवनां दुःसञ्चरीभूतविमानमार्गां विध्वस्तसौधप्रचयां विश्वैकसाराम् अमरावतीम् अपश्यत् ।

सीतारामः

निर्लूनेति । स कुमारः कार्त्तिकेयः निर्लूनानि कर्तितानि लीलायाः क्रीडाया उपवनानि यस्याम् । तथा दुःखेन संचरः संवारो येषु तथाभूता विमानमार्गा विमानसंचारपथा यस्याम् । तथा विध्वस्ताः खण्डिताः । स्फोटिता इति यावत् । सौधप्रचया राजसदनसमीहा यस्याम् । ‘सौधोऽस्त्री राजसदनम्’ इत्यमरःर । तथा विश्वस्मिन्नेकवै सारां तत्त्वभूतां ताममरावतीमिन्द्रपुरीमपश्यत् । ‘नगरी त्वमरावती’ इत्यमरः ॥13.35 ॥

विश्वास-प्रस्तुतिः

(1)गतश्रियं (2)वैरिवराभिभूतां दशां सुदीनामभितो दघानाम् ।
नारीमवीरामिव तामवेक्ष्य (3)स वाढमन्तः करुणापरोऽभूत् ॥ 13.36 ॥
{1.गर्भश्रियम्,2.वैरिपराभिभूताम्.3.सगाढम्,सवाष्पम्.}

मूलम्

(1)गतश्रियं (2)वैरिवराभिभूतां दशां सुदीनामभितो दघानाम् ।
नारीमवीरामिव तामवेक्ष्य (3)स वाढमन्तः करुणापरोऽभूत् ॥ 13.36 ॥
{1.गर्भश्रियम्,2.वैरिपराभिभूताम्.3.सगाढम्,सवाष्पम्.}

अन्वयः

स वैरिवराऽभिभूतां गतश्रियं सुदीनां दशाम् अभितो दधानाम् अवीरा नारीम् इव ताम् अवेक्ष्य बाढम् अन्तःकरुणापरः अभूत् ।

सीतारामः

गतश्रियमिति । स कुमारः वैरिवरेण तारकेणाभिभूतां पूर्वोक्तविधिना पराभूताम् । पराभवोऽत्र विध्वंसनक्रियानुकूलो व्यापारो ग्राह्यः । अत एव गतश्रितं भ्रष्टशोभाम् । अत एव सुतरां दीनानां कृपणाम् । अनुकम्प्यामिति यावत् । दशामवस्थामभितो दधानाम् । अथ एवावीरां नपुंसकभर्तृकां नारीमिव स्थितां ताममरावतीमवेक्ष्यान्तर्मनसि बाढं बहु यथातथा करुणायां पर आसक्तोऽभूत् ॥ 13.36 ॥

विश्वास-प्रस्तुतिः

दुश्चेष्टिते देवरिपौ सरोषस्तस्या(4)विषण्णः समराय चोत्कः ।
तथाविधां तां (5)स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ॥ 13.37 ॥
{4.तस्यां विषष्णः.5.च.}

मूलम्

दुश्चेष्टिते देवरिपौ सरोषस्तस्या(4)विषण्णः समराय चोत्कः ।
तथाविधां तां (5)स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ॥ 13.37 ॥
{4.तस्यां विषष्णः.5.च.}

अन्वयः

दुश्चेष्टिते देवरिपौ सरोषः (तथा) तस्य समराय उत्कः अविषण्णः स तथाविधां तां सुराऽधीश्वरराजधानीं पश्यन् (सन्) सुरैः (सह) विवेश ।

सीतारामः

दुश्चेष्टित इति । दुश्चेष्टिते दुष्कर्मणि देवरिपौ तारके विषये सरोषः । सक्रोधः । तथा तस्य तत्कर्तृकाय समराय समरं युद्धं कर्तुमुत्कश्च तथाविषण्णोऽनलसः स कुमारः तथाविधां पूर्वोक्तप्रकारां तां सुराधीश्वरस्येन्द्रस्य राजधानीं पुरीं पश्यन्सन् विवेश । तदन्तरिति शेषः ॥ 13.37 ॥

विश्वास-प्रस्तुतिः

(6)दैतेयदन्त्यावलिदन्तघातैः (7)क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः ।
महाहिनिर्मोकपिनद्धजालाः (8)स वीक्ष्य तस्यां विषसाद सद्यः ॥ 13.38 ॥
{6.दैत्येन्द्रदन्तावलः,दैतेयदन्तावल.7.क्षुण्णान्तर.8.संवीक्ष्य.}

दैतेयदन्त्यावलिदन्तघातैः क्षुण्णाऽन्तराः महाहिनिर्मोकिपिनद्धजालाः स्फाटिकहर्म्यपङ्क्ती वीक्ष्य स तस्यां विषसाद ।

सीतारामः

दैतेयेति । दैतेयानां दैत्यानां दन्त्याबलिर्गजावलिस्तस्यास्त त्कर्तृका ये दन्तघाता रदनताडितानि तैः क्षुण्णान्तराः क्षोदितमध्या अत एव महाहीनां महासर्पाणां निर्मोकाः कञ्चुकाः । ‘समौ कञ्चुकनिर्मोकौ’ इत्यमरः । तैः पिनद्धानि जालानि सौधजालानि यासु ताः सफाटिकहर्म्यपङ्क्तीः सफटिकनिर्मितसौधनिचयान्वीक्ष्य स सद्यस्तस्यां विषसाद । खिद्यति स्मेत्यर्थः ‘सद्यः सपदि तत्क्षणे’ इत्यमरः ॥ 13.38 ॥

अथ युग्मेनाह-
उत्कीर्णचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूषितानाम् ।
हिरण्यहंसव्रजवर्जितानां (1)विदीर्णवैदूर्यमहाशिलानाम् ॥ 13.39 ॥
आविर्भवद्वालतृणाञ्चितानां(2) तदीयलीलागृहदीर्घिकाणाम् ।
(3)स दुर्दशां वीक्ष्य (4)विरोधिजातां विषादवैलक्ष्यभरं बभार ॥ 13.40 ॥
{1.तदीय.2.तृणावृतानाम्.3.सुदुर्दशाम्.4.विरोधिजां ताम्.}
अथ युग्मेनाह-

अन्वयः

स उत्कीर्णचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूषितानां हिरण्यहंसव्रजवर्जितानां विदीर्णवैदूर्यमहाशिलानाम् ॥ 13.39 ॥ आविर्भवद्वालतृराणाऽञ्चितानां तदीयलीलागृहदीर्घिकाणां विरोधिजातां दुर्दशां वीक्ष्य विषादवैलक्ष्यभरं बभार ।

सीतारामः

उत्कीर्णेति । आविर्भवदिति च । स कुमारः । उत्कीर्णान्युत्खनितानि चामीकरस्य सुवर्णस्य पङ्कजानि कमलानि यासाम् । उत्खनितसुवर्णकमलानामित्यर्थः । तथा दिग्दन्तिनामैरावतादीनां दानाः खण्डनाः तज्जेतारस्तारकगजाः । कर्तरि ल्युटृ । तेषां द्रवो मदजलं तेन दूषितानां म्लानीकृतानाम् । तारककुम्भीन्द्रमदकलुषीकृतजलानामित्यर्थः । हिरण्यप्रचुरा ये हंसास्तेषां व्रजेन वर्जितानां रहितानाम् । दैत्योपद्रवादिति भावः । तथा विदीर्णाः स्फोटिता वैदूर्याणां रत्नविशेषाणां महत्यः शिला यासाम् । तथाविर्भवन्त्युदयमानानि कानि बालतृणानि शष्पाणि तैरञ्चितानां व्याप्तानाम् । तदीया ऐन्द्र्यो या लीलार्थं गृहदीर्घिका गृहवापिकास्तासां सम्बन्धिनीम् । विरोधिभ्योऽरिभ्यो जातां दुर्दशां दुष्टावस्थां वीक्ष्य विषादवैलक्ष्ययोः खेदलज्जयोर्भरम् । वह्व्यौ विषादलज्जा इत्यर्थः । बभार दुर्दशादर्शनजनितकरुणाबीजां दुःखं मयि सत्यपि सुदुर्दशेति लज्जाहेतुरित्यर्थः ॥ 13.39-13.40 ॥

विश्वास-प्रस्तुतिः

तद्दन्तिदन्तक्षतहेमभित्ति(1) सुतन्तुजालाकुलरत्नजालाम् ।
निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ॥ 13.41 ॥
{1.हेमभित्तिम्,गेहभित्ति.}

मूलम्

तद्दन्तिदन्तक्षतहेमभित्ति(1) सुतन्तुजालाकुलरत्नजालाम् ।
निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ॥ 13.41 ॥
{1.हेमभित्तिम्,गेहभित्ति.}

अन्वयः

स सुरेन्द्रेण पुरोगतेन (सता) तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालं वैजयन्ताऽभिधम् आत्मसौधं निन्ये ।

सीतारामः

तद्दन्तीति । स कुमारः । सुरेन्द्रेणेन्द्रेण पुरोगतेनाग्रण्या सता तस्य तारकस्य दन्तिनां गजानां दन्तैः क्षुण्णा हैम्यो भित्तयः कुड्यानि यस्मिन्यस्य वा । सुतन्तवो लूतानां शोभनानि सूत्राणि तेषां जालेनाकुलं व्याकुलं रत्नजाल रत्नसमूहो यस्मिन् तथा वैजयन्ताभिधं वैजयन्तसंज्ञकम् । ‘स्यात्प्रसादो वैजयन्तः’ इत्यमरः । आत्मसौधं स्वराजसदनं निन्ये प्रापितः । कर्मणि लिट् ॥ 13.41 ॥

विश्वास-प्रस्तुतिः

निर्दिष्टवर्त्मा बिवुधेश्वरेम सुरैः समग्रैरनुगम्यमानः ।
स (2)प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ॥ 13.42 ॥
{2.तद्विविधात्मरश्मिच्छन्नेन,तं विविधेन रत्नाच्छन्नेन.}

मूलम्

निर्दिष्टवर्त्मा बिवुधेश्वरेम सुरैः समग्रैरनुगम्यमानः ।
स (2)प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ॥ 13.42 ॥
{2.तद्विविधात्मरश्मिच्छन्नेन,तं विविधेन रत्नाच्छन्नेन.}

अन्वयः

स विबुधेश्वरेण निर्दिष्टवर्त्मा, समग्रैः सुरैः अनुगम्यमानः (सन्) विविधाऽश्मरश्मिच्छिन्नेन सोपानपथेन तं सौधं प्राविशत् ।

सीतारामः

निर्दिष्टेति । स कुमारः । विवुधेश्वरेणेन्द्रण कर्त्रा । निर्दिष्टवर्त्मेतो गमनं विधेयमित्युक्तिपूर्वकप्रदर्शितमार्गः तथा समग्रैः सुरैर्देवैरनुगम्यमानोऽऽनुस्त्रियमाणः सन् । विविधा अनेकवर्णा येऽश्मनो रत्नानि तेषां रश्मिभिः किरणैश्छिन्नेन भिन्नेन रहितेनेति यावत् । तारककृतसोपानखचितरत्नोत्पाटनादिति भावः । सोपानथेनारोहणमार्गेण । ‘आरोहणं स्यात्सोपानम्’ इत्यमरः । तं सौधं प्राविशत् ॥ 13.42 ॥

विश्वास-प्रस्तुतिः

निसर्गकल्पद्रुमतोरणं(1) तं (2)स पारिजातप्रसवस्त्रगाढ्यम्(3) ।
दिव्यैः (4)कृतस्वस्त्ययनं मुनीन्द्रैरन्तः(5)प्रविष्टप्रमदं प्रपेदे ॥ 13.43 ॥
{1.तोरणान्तम्,तोरणाङ्कम्.2.सुपारिजात.3.स्त्रजाढ्यम्.4.कृतस्वस्त्ययनः.5.कुमारः,प्रविश्य.}

सः निसर्गकल्पद्रुमतोरणं परिजातप्रसवस्त्रगाढ्यं दिव्यैः मुनीन्द्रैः कृतस्वस्त्ययनम् अन्तःप्रविष्टप्रमदं तं प्रपेदे ।

सीतारामः

निसर्गेति । स कुमारः । निसर्गेण स्वभावेन । अनायासेनेति यावत् । ‘निसर्गः शीलसर्गयोः’ इति विश्वः । कल्पद्रुमा एव तोरणानि यत्र । तथा पारिजातस्य देववृक्षविशेषस्य प्रसवानां पत्रपुष्पाणां स्त्रजा मालयाढ्यम् युक्तम् । पूजनार्थंमनेकपत्रपुष्पसहितमित्त्यर्थः । तथा दिव्यैः स्वर्गीयमुनीन्द्रैः कश्यपादिभिः कृतस्वस्त्ययनं विहितस्वस्तिवाचनम् । तथान्तःप्रविष्टा मध्यं प्रविश्य स्थिताः प्रमदाः स्त्रियो यत्र तं सौधं प्रपेदे प्राप ॥ 13.43 ॥

विश्वास-प्रस्तुतिः

पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
प्रदक्षिणीकृत्य कृताञ्जलिः (6)सन्षङ्भिः शिरोभिः (7)स नतैर्ववन्दे ॥ 13.44 ॥
{6.सः.7.विनतैः.}

मूलम्

पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
प्रदक्षिणीकृत्य कृताञ्जलिः (6)सन्षङ्भिः शिरोभिः (7)स नतैर्ववन्दे ॥ 13.44 ॥
{6.सः.7.विनतैः.}

अन्वयः

स सुराऽसुराणां कुलादिवृद्धस्य कश्ययस्य महर्षेः पादौ प्रदक्षिणीकृत्य कृताऽञ्जलिः (सन्) नतैः षङ्भिः शिरोभिः ववन्दे किल ।

सीतारामः

पादाविति । स कुमारः । सुरासुराणां देवदैत्यानां कुल आदि वृद्धस्य कश्यपस्य महर्षेः पादौ चरणौ कर्मभूतौ । प्रदक्षिणोकृत्य कृताञ्जलिः सन् । नतैः षङ्भिः शिरोभिर्ववन्दे नमश्चक्रे । किलेत्यैतिह्ये ॥ 13.44 ॥

विश्वास-प्रस्तुतिः

स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवञ्शैलसुतातनूजः ॥ 13.45 ॥

मूलम्

स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवञ्शैलसुतातनूजः ॥ 13.45 ॥

अन्वयः

स शैलसुतातनूजः भक्त्या प्रह्वीभवन्, तस्य मुनेः कलत्रस्य देवमानुः अगदकवन्द्यौ पादौ तथैव काम प्रणनाम ।

सीतारामः

स इति । स शैलसुतातनूजः पार्वतीनन्दनो भक्त्या निमित्तेन प्रह्वीभवन्नम्रीभवन्सन् । मुनेश्च तस्य कलत्रस्य पत्न्याश्च देवानां मातुर्जनन्या अदितेः । जगत एकवन्द्यौ केवलनमस्करणीयौ पादौ तथैव मुनिनमस्कारप्रकारेणैव कामं यथायोग्यं प्रणनाम नमश्चक्रे ॥ 13.45 ॥

विश्वास-प्रस्तुतिः

स कश्यपः सा जननी सुराणां तमेधयामासतुराशिषा (1)द्वौ ।
(2)तया (3)यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम्(4) ॥ 13.46 ॥
{1.द्वे.2.यथा तथा.3.अनया,यथा.4.उग्रवीर्यः.}

मूलम्

स कश्यपः सा जननी सुराणां तमेधयामासतुराशिषा (1)द्वौ ।
(2)तया (3)यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम्(4) ॥ 13.46 ॥
{1.द्वे.2.यथा तथा.3.अनया,यथा.4.उग्रवीर्यः.}

अन्वयः

स कश्यपः सा सुराणां जननी (च) द्वौ तं तया आशिषा एधयामासतुः यया उग्रवीर्यं नैकजगज्जिषुं तारकं मृधे जेता ।

सीतारामः

स इति । स कश्चपो मुनिः सा सुराणां जनन्यदितिः, एतौ द्वौ तं कुमारं तयाशिषाशीर्वादेनैधयामासतुर्वर्धयतः स्म । ययाऽऽशिषा निमित्तेनोग्रवीर्यमत एव नैकजगन्त्यनेकजगन्ति । त्रीणि जगन्तीत्यर्थः । जिगीषुं जेतुमिच्छुम् । ‘न लोके’- ति षष्ठीनिषेधः । तारकं दैत्यं मृधे सङ्गरे जेता । जेष्यतीत्यर्थः । कर्तरि लुट् ॥ 13.46 ॥

विश्वास-प्रस्तुतिः

(5)स्वदर्शनार्यं समुपेयुषीणां (6)सुदेवताना(7)मदितिश्रितानाम् ।
पादौ ववन्दे (8)पतिदेवतास्तमाशीर्वंचोभिः (9)पुनरभ्यनन्दन् ॥ 13.47 ॥
{5.तइर्शनार्थम्.6.स देवतानाम्.7.अदितेः सुतानाम्.8.विनयेन ताः.9.गुहम्.}

(सः) स्वदर्शनाऽर्थम् समुपेयुषीणांम्, अदितिश्रितानां सुदेवतानां पादौ ववन्दे (अथ च) पतिदेवताः, (ताः) आशीर्ववोभिः पुनः तम् अभ्यनन्दन् ।

सीतारामः

स्वेति । स कुमारः स्वदर्शनार्थं स्वावलोकनार्थ समुपेयुषीणां प्राप्नुवतीनाम् । तथादिति देवमातरं श्रितानाम् । देवमातुराश्रयेण ववन्दे प्रणनाम । अथ च पतिरेव देवता यासां ताः पतिव्रतास्ता देवता आशीर्वचोभिः ‘त्वं जय’ इत्यादिभिः । पुनस्तं कुमारमभ्यनन्दन् । अस्तुवतेत्यर्थः ॥ 13.47 ॥

विश्वास-प्रस्तुतिः

पुलोमपुत्रीं विबुधाधिभर्तुस्तत (1)शचीं नाम (2)कलत्रमेष ।
नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा (3)समुपाचरच्च ॥ 13.48 ॥
{1.शची.2.अत्र.3.समुपाचचार.}

मूलम्

पुलोमपुत्रीं विबुधाधिभर्तुस्तत (1)शचीं नाम (2)कलत्रमेष ।
नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा (3)समुपाचरच्च ॥ 13.48 ॥
{1.शची.2.अत्र.3.समुपाचचार.}

अन्वयः

ततो नाम एव स्मरशत्रुसूत्रः विबुधाऽधिभर्तुः कलत्रं पुलोमपुत्रीं शचीं नमश्चकार । सा आशिषा तं समुपाचरत् च ।

सीतारामः

पुलोमपुत्रीमिति । ततोऽनन्तरम् । नामेति योग्यताप्रतिपादकमव्ययम् । अव्ययानामनेकार्थत्वात् । ततश्च प्रणामकर्तृत्वयोग्य इत्यर्थः । न च पुलोमपुत्र्या एव प्रणामार्हत्वविवक्षाया विशेषणता स्यादिति वाच्यम् । विबुधाधिभर्तृसम्बन्धोद्घाटनेनैव ध्वनितत्वात् । एष स्मरशत्रुसूनुः कुमारो विबुधानां देवानामधिभर्तुरिन्द्रस्य कलत्रं स्त्रीभूतां शचीं शचीसंज्ञिकां पुलोमपुत्रीं नमश्चकार । अथ च सेन्द्राण्याशिषाशोर्वादेन तं कुमारं समुपाचरत् । अवर्धयदित्यर्थः ॥ 13.48 ॥

विश्वास-प्रस्तुतिः

(4)अथादितीन्द्रप्रमदाः समेतास्ता(5) (6)मातरः सप्त घनप्रमोदाः ।
उपेत्य भक्त्या (7)नमते महेशपुत्राय(8) तस्मै ददुराशिषः (9)प्राक् ॥ 13.49 ॥
{4.अदितिप्राग्रमुखाः समेताः,अदितीन्द्रप्रमदासमेताः,अदितीन्द्रप्रमुखाः समेताः.5.सः,तम्.6.मातृकाः.7.नमति.8.स्म शर्वपुत्राय.9.ताः.}

अथ घनप्रमोदाः समेताः ता अदितीन्द्रप्रमदाः सप्त मातरः भक्त्या उपेत्य नमते तामै महेशपुत्राय अशिषः प्राक् ददुः ।

सीतारामः

अथेति । अथानन्तरं घनप्रमोदाः कुमारावलोकनादिति भावः । अत एव समेता एकत्रभूतास्ता अदितीन्द्रस्य कश्यपस्य प्रमदाः स्त्रियः सप्तमातरो ब्राह्मीप्रभृतयो भक्त्या निमित्तेनोपेत्य समीपमागत्य नमते नमस्कुर्वते तस्मै महेशपुत्राय कुमाराय तारकविजयसाधनाय आशिष आशीर्बादान्प्रङ्नमस्कारात्पूर्वमेव ददुः ॥ 13.49 ॥

विश्वास-प्रस्तुतिः

समेत्य सर्वेऽपि (1)मुदं दधाना (2)महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
आनन्दकल्लोलितमानसं (3)तं (4)समभ्यषिञ्चन्पृतनाधिपत्ये ॥ 13.50 ॥
{1.मुदमादधानाः.2.अत्र.3.ते.4.तमभ्यषिञ्चन्.}

मूलम्

समेत्य सर्वेऽपि (1)मुदं दधाना (2)महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
आनन्दकल्लोलितमानसं (3)तं (4)समभ्यषिञ्चन्पृतनाधिपत्ये ॥ 13.50 ॥
{1.मुदमादधानाः.2.अत्र.3.ते.4.तमभ्यषिञ्चन्.}

अन्वयः

अथ मुदं दधानाः महेन्द्रमुख्याः सर्वेऽपि विदिवौकसः आनन्दकल्लोलितमानसं तं पृतनाऽऽधिपत्ये समभ्यषिञ्चन् ।

सीतारामः

समिति । अथानन्तरं मुदं दधानाः महेन्द्रमुख्या इन्द्रप्रभृतयः सर्वेऽपि त्रिदिवौकसो देवा आनन्देन भावितारकयुद्धकर्तृत्वजन्मना कल्लोलितं तरङ्गितं मानसं सर एव मानसं चेतो यस्य तम् । महानन्दमित्यर्थः । तं कुमारं पृतनाधिपत्ये सैनापत्ये समभ्यषिञ्चन्नभिषिक्तमकुर्वन् ॥ 13.50 ॥

विश्वास-प्रस्तुतिः

सकलविबुधलोकः स्त्रस्तनिःशेषशोकः
कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
अजनि हरसुतेनानन्तवीर्येण तेना-
खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ॥ 13.51 ॥

मूलम्

सकलविबुधलोकः स्त्रस्तनिःशेषशोकः
कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
अजनि हरसुतेनानन्तवीर्येण तेना-
खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ॥ 13.51 ॥

अन्वयः

अनन्तवीर्येण अनूनाम् अखिलविबुधचमूनां लक्ष्मीं प्राप्य तेन हरसुतेन सकलविबुधलोकः स्त्रस्तनिःशेषशोकः कृतरिपुविजयाशः प्राप्तयुद्धाऽवकाशः अजनि ।

सीतारामः

सकलेति । अनन्तवीर्येणापारपराक्रमेणात एवानूनां महतीमखिला या विबुधचम्वो देवसेनास्तासां लक्ष्मीं वैभवं प्राप्य स्थितेन तेन हरसुतेन । हरसुतसाहाय्येनेत्यर्थः । सकलविबुधलोकः समस्तवृन्दारकनिचयः । स्त्रस्ता ध्वस्ताः । नष्टा इति यावत् । निःशेषाः समग्राः शोका यस्य तथा कृता रिपोस्तारकस्य विजय आशा येन तथा प्राप्तो युद्धायावकाशोऽऽवसरो येन । तथाभूतश्चाजनि जातः । कुण्ठितवीर्याणां सवीर्यंसाहाय्यकमेव कार्यसिद्धिहेतुर्भवतीति भावः । मालिनीवृत्तमेतत् । लक्षणं तु पूर्वमेवोक्तम् ॥ 13.51 ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्री-
सीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः ।