११

.

द्वादशः सर्गः

विश्वास-प्रस्तुतिः

अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरो(1)पप्लवदुःखितात्मा ।
पुलोमपुत्रीदयितोऽन्धकारिं (2)पत्त्रीव तृष्णातुरितः पयोदम् ॥ 12.1 ॥
{1.उपद्रव.2.पक्षावतृष्णव्यथितः तृष्णातुरश्चातकवत्.}

मूलम्

अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरो(1)पप्लवदुःखितात्मा ।
पुलोमपुत्रीदयितोऽन्धकारिं (2)पत्त्रीव तृष्णातुरितः पयोदम् ॥ 12.1 ॥
{1.उपद्रव.2.पक्षावतृष्णव्यथितः तृष्णातुरश्चातकवत्.}

अन्वयः

अथ क्रूराऽसुरोपप्लवदुःखितात्मा पुलोमपुत्रीदयितः अशेषैः त्रिदशैः (सह) तृष्णाऽऽतुरितः पत्त्री पयोदम् इव अन्धकारिं प्रपेदे ।

सीतारामः

अथेति । अथानन्तरं क्रूरस्तीव्रो योऽसुरस्तारकसंज्ञकस्तस्य तत्कर्तृको य उपप्लव उपद्रवः स्वस्थानोच्चाटनादिकस्तेन दुःखितः क्लिष्ट आत्मा यस्य तथाभूतः पुलोमपुत्र्याः शच्या दयितः प्रिय इन्द्रोऽशेषैः समस्तैस्त्रिदर्शैरात्मभृत्यभूतवृन्दारकैः सह तृष्णातुरितस्तृष्णाया तृषया कर्त्र्या आतुरित आतुरीकृतः । ‘तत्करोति-’ इति णिचि कृते ‘णाविष्ठवत्’ इति टिलोपः । ततः कर्तरि क्तः । पत्त्री चातकः पयोदमिव । अन्धकारिं हरं प्रपेदे प्राप । अत्र पूर्णोपमालंकारः । सर्गेऽस्मिन्वृत्तमुपजातिः ॥ 12.1 ॥

विश्वास-प्रस्तुतिः

(3)दृप्तारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात् ।
अवातताराभिगिरिं (4)गिरीशगौरीपदन्यासविशुद्धमिन्द्रः ॥ 12.2 ॥
{3.दृप्तासुरत्रास.4.गिरीशं.}

मूलम्

(3)दृप्तारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात् ।
अवातताराभिगिरिं (4)गिरीशगौरीपदन्यासविशुद्धमिन्द्रः ॥ 12.2 ॥
{3.दृप्तासुरत्रास.4.गिरीशं.}

अन्वयः

स इन्द्रः दृप्ताऽरिसंत्रासखिलीकृतात् अम्मोदविहारमार्गात् गिरीशगौरीपदन्यासविशुद्धं गिरिम् अभि कथञ्चित् अवाततार ।

सीतारामः

दृप्तेति । स इन्द्रः । दृप्तोऽभिमानी योऽरिस्तारकस्तस्माद्यः संत्रासो भयं तेन खिलीकृताद् दुरवगाह्यमानीकृतादम्भोदानां मेघानां विहारो यत्र स चासौ मार्गश्च । आकाशमित्यर्थः । तस्मात् गिरीशसहिता या गौरी भवानी तस्याः पदे चरणे तयोर्न्यासो निधानं तेन विशुद्धं पवित्रं गिरिं कैलासमभि संमुखं कथंचित्केनापि प्रकारेण । कष्टेनेत्यर्थः । अवाततारोत्ततार । गिरीशगौरीति गिरीशस्याभ्यर्हितत्वाद्वह्खचोऽपि पूर्वनिपात इति वा ॥ 12.2 ॥

विश्वास-प्रस्तुतिः

संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः ।
(1)पिनाकिनोऽथालयमुच्चचाल शुचौ(2)पिपासाकुलितो यथाम्भः ॥ 12.3 ॥
{1.पिनाकिरम्यालयम्.2.पिपासाकुलवज्जलौधम्.}

मूलम्

संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः ।
(1)पिनाकिनोऽथालयमुच्चचाल शुचौ(2)पिपासाकुलितो यथाम्भः ॥ 12.3 ॥
{1.पिनाकिरम्यालयम्.2.पिपासाकुलवज्जलौधम्.}

अन्वयः

अथ संक्रन्दनः मातलिदत्तहस्तः मेघात्मनः स्यन्दनः अवतीर्य शुचौ पिपासाऽऽकुलितः अम्भः यथा पिनाकिन आलयम् उच्चचाल ।

सीतारामः

संक्रन्दन इति । अथानन्तरं संक्रन्दन इन्द्रः । ‘संक्रन्दनो दुश्च्यवनः’ इत्यमरः । मातलिना सारथिना दत्त आश्रयीकरणार्थमग्रेकृतो हस्तो यस्मै सः । अवलम्बितमातलिहस्तः सन्नित्यर्थः । मेघस्वरूपधारिणे मेघरूपादित्यर्थः । स्यन्दनतो रथात् । पञ्चम्यास्तसिल् । अवतीर्योत्तीर्य शुचौ ग्रीष्मे पिपासया तृष्णया तृषेति यावत् । आकुलित आतुरः पुरुषोऽम्भो यथा जलमिव पिनाकिनो हरस्यालयं निलयमुच्चचाल । उद्दिश्य चलति स्मेत्यर्थः । ‘निकाय्यनिलयालयाः’ । इत्यमरः । पिपासेति ‘अप्रत्ययात्’ इत्यकारप्रत्यये टाप् । अत्रापि पूर्णोपमालङ्कारः । सामान्यधर्मस्त्वाकुलितत्वमित्याकुलितत्वे निमित्तभूतौ पिपासोपप्लवौ । अनयोर्बिम्बप्रतिबिम्बभावेन सादृस्यम् ॥ 12.3 ॥

विश्वास-प्रस्तुतिः

इतस्ततोऽथ(3) प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ ।
आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद ॥ 12.4 ॥
{3.अपि.}

मूलम्

इतस्ततोऽथ(3) प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ ।
आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद ॥ 12.4 ॥
{3.अपि.}

अन्वयः

(अथ व्रजन् सः) स्फटिकाऽद्रिभूमौ इतस्ततः प्रतिबिम्बभाजम् एकम् अपि आत्मानम् अनेकधा विलोकमानः विभोः आस्पदम् आससाद ।

सीतारामः

इतस्तत इति । अथानन्तरं व्रजन्गच्छन्स इन्द्रः स्फटिकाद्रिः कैलासस्तस्य भूमौ पृथिव्यामितस्ततौ यत्र तत्र प्रतिबिम्बभाजं प्रतिबिम्बितमेकमप्यात्मानं शरीरमनेकसंख्यं विलोकमानः पश्यन्सन् । विभोर्महेश्वरस्यास्पदं स्थानमाससाद ॥ 12.4 ॥

विश्वास-प्रस्तुतिः

विचित्रचञ्चन्मणिभङ्गि(1)सङ्गं सौवर्णदण्डं दधतातिचण्डम् ।
स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ॥ 12.5 ॥
{1.सङ्गि.}

मूलम्

विचित्रचञ्चन्मणिभङ्गि(1)सङ्गं सौवर्णदण्डं दधतातिचण्डम् ।
स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ॥ 12.5 ॥
{1.सङ्गि.}

अन्वयः

स विचित्रचञ्चन्मणिभङ्गिसङ्गम् अतिचण्डं सौवर्णदण्डं दधता नन्दिना अधिष्ठितम् अनङ्गशत्रोः सौधाऽङ्गणाद्वारम् अध्यतिष्ठत् ।

सीतारामः

विचित्रेति । स इन्द्रः विचित्रा अनेकवर्णाश्चञ्चन्तो दीव्यमाना ये मण्यो रत्नानि तेषां तत्कर्मिका या भङ्ग्यो रचनाविशेषास्तेषां सङ्गः सम्बन्धो यस्य । अनेकवर्णमणिखचितमित्यर्थः । तथातिचण्डमतिभीषणं सौवर्णदण्डं सुवर्णमयवेत्रं दधता विभ्रता नन्दिना गणेनाधिष्ठितं द्वारपालतयाधिश्रितमनङ्गशत्रोः शिवस्य सौधस्य राजसदनसंबन्धिनोऽङ्गणस्याजिरस्य । ‘अङ्गणं चत्वराजिरे’ । इत्यमरः । द्वारं प्रतीहारम् । ‘स्त्री द्वार्द्वारं प्रतीहारः’ इत्यमरः । अध्यतिष्ठदधितस्थौ । ‘अधिशीङ्स्थासा-’ मिति कर्मत्वम् । अन्तःप्रवेशे भगवदाज्ञानुपालर्न कुर्वन् द्वार एव तस्थावित्यर्थः ॥ 12.5 ॥

विश्वास-प्रस्तुतिः

ततः (2)स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः ।
प्रतोषयामास (3)सुगौरवेण गत्वा (4)शशंस स्वयमीश्वरस्य ॥ 12.6 ॥
{2.स्वकक्षा.3.स गौरवेण.4.सदोमण्डलम्.}

मूलम्

ततः (2)स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः ।
प्रतोषयामास (3)सुगौरवेण गत्वा (4)शशंस स्वयमीश्वरस्य ॥ 12.6 ॥
{2.स्वकक्षा.3.स गौरवेण.4.सदोमण्डलम्.}

अन्वयः

ततः स नन्दी सुरेन्द्रं सद्यः प्रतिपद्य सुगौरवेण प्रतोषयामास स्वयं गत्वा कक्षाऽऽहितहेमदण्डः ईश्वरस्य शशंस ।

सीतारामः

तत इति । ततोऽनन्तरं स नन्दी गणः सुरेन्द्रमिन्द्रं सद्य आशु प्रतिपद्य समीपं प्राप्य सुतरां गौरवेणादरेण स्वगतादिना प्रतोषयामास संतोषितवान् । अथ च स्वयं गत्वा कक्षायां हर्म्यप्रकोष्ठे । ‘कक्षा प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने’ । इत्यमरः । आहितः स्थापितो हेमदण्डः सुवर्णवेत्रो येन तथोक्तः सन् । ईश्वरस्य । ईश्वरमित्यर्थः । सम्बन्धविवक्षायां षष्ठी । शशंस कथयामास । ससुरो महेन्द्र आगत इति निवेदितवानित्यर्थः ॥ 12.6 ॥

विश्वास-प्रस्तुतिः

भ्रूसंज्ञयानेन(1) कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण ।
प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं (2)सदस्य ॥ 12.7 ॥
{1.तेन.2.हरस्य.}

मूलम्

भ्रूसंज्ञयानेन(1) कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण ।
प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं (2)सदस्य ॥ 12.7 ॥
{1.तेन.2.हरस्य.}

अन्वयः

अनेन जगदीश्वरेण भ्रूसंज्ञया कृताऽभ्यनुज्ञः स नन्दी पुरोगः (सन्) तं सुरेश्वरं सत् अस्म सदनं सुरैः समं प्रवेशयामास ।

सीतारामः

भ्रूसंज्ञयेति । अनेन जगतामीश्वरेण महेश्वरेण भ्रूसंज्ञया । भ्रूकुटीचमत्कृतिसंकेतेनेत्यर्थः । कृताभ्यनुज्ञः सुरेन्द्रागमनार्थं कृतानुशासनः स नन्दी गणः पुरोगोऽग्रगामी सन् । तं सुरेश्वरमिन्द्रं सच्छोभनमस्य महेश्वरस्य सदनं गृहं सुरैः समं प्रवेशयामास । प्रवेशितवानित्यर्थः ॥ 12.7 ॥

स चण्डिभृङ्गिप्रमुखैर्गरिष्ठैर्गणैरनेकैर्विविधस्वरूपैः ।
(3)अधिष्ठितं संसदि (4)रत्नमय्यां सहस्रनेत्रः(5) शिवमालुलोके ॥ 12.8 ॥
(3.अधिष्ठितायां यदि.4.रत्नवत्याम्.5.सहस्रलोकः.)

अन्वयः

स सहस्रनेत्रो गरिष्ठैः अनेकैः विविधस्वरूपैः चण्‍डिभृङ्गिप्रमुखैः गणैः रत्नमय्यां संसदि अधिष्ठितं शिवम् आलुलोके ।

सीतारामः

स इति । स सहस्रनेत्र इन्द्रो गरिष्ठैरतिशयेन गुरुभिः । ‘प्रियस्थिरे-’ त्यादिना गुरुशब्दस्य गरादेशः । अनेकैर्बहुभिर्विविधस्वरूपैर्नानाकृतिभिश्चण्डिभृङ्गिप्रमुखैर्गणैः रत्नमय्यां रत्नप्रचुरायाम् । प्राचुर्ये मयट् । ‘टिड्ढे-‘ति ङीप् । संसदि सभायामधिष्ठितमुपविष्टं शिवमालुलोके ददर्श । इह ‘अधिशीङ्-’ इत्याधारस्य कर्मत्वप्रसङ्गो दुर्निवारः । अत एव रत्नमयीं सभां तामिति प्रतिष्ठितमिति वा पठनीयम् । यथास्थितविन्यासे दूषणोद्धारं सुधियो विभावयन्त्विति ॥ 12.8 ॥

(6)कपर्द(7)मुद्वद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः ।
दधानमुच्चैस्तरमिद्धधातोः सुमोरुश्रृङ्गस्य समत्वमाप्तम् ॥ 12.9 ॥
{6.कदर्पम्.7.उर्ध्वस्थमहाहि,उद्बन्धमहाहि.}
अथ त्रयोदशभिर्महेश्वरं विशिनष्टि-

अन्वयः

उद्बद्धुम् उल्लसद्भिः अहीनमूर्धरत्नांऽशुभिः भासुरम् उच्चैस्तरं कपर्दं दधानम् इद्धधातोः सुमेरुश्रृङ्गस्य समत्वम् आप्तम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

कपर्दमिति । किंभूतं शिवम् । उद्बद्धं भुजंगरज्जुभिर्दृढीकृतमुल्लसद्भिः शोभमानैरत एवाहीनामिनाः स्वामिनस्तेषां वासुकिप्रभृतिमहासर्पाणां मूर्धसु शिरःसु यानि रत्नानि मणयस्तेषामंशुभिर्मयूखैर्भासुरं दीप्यमानम् । ‘भञ्जभासे-’ ति धुरच् । उच्चैस्तरं महान्तं कपर्दं जटाजूटं दधानं बिभ्रतम् । ‘कपर्दोऽस्य जटाजूटः’ इत्यमरः । अथ एव पुनः किंभूतम् इद्धाः प्रवृद्धा धातवो गैरिकादयो यत्र तथाभूतं यत्सुमेरोः स्वर्णाद्रैः श्रृङ्गम् तस्य समत्वं सादृश्यमाप्तं प्राप्तम् ॥ 12.9 ॥

विश्वास-प्रस्तुतिः

बिभ्राणमुत्तुङ्गतरङ्ग(1)मालां गङ्गां जटाजूटतटं(2) भजन्तीम् ।
गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभ्रैः ॥ 12.10 ॥
{1.कपाल.2.तलम्.}

मूलम्

बिभ्राणमुत्तुङ्गतरङ्ग(1)मालां गङ्गां जटाजूटतटं(2) भजन्तीम् ।
गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभ्रैः ॥ 12.10 ॥
{1.कपाल.2.तलम्.}

अन्वयः

उत्तुङ्गतरङ्गमालां जटाजूटतटं भजन्तीं शरदभ्रसुभ्रैः स्वफेनैः तदुत्सङ्गजुषं गौरीं हसन्तीम् इव गङ्गां बिभ्राणम् (शिवं सहस्रनेत्र आलुलोके ।)

सीतारामः

बिभ्राणमिति । पुनः किंभूतम् । उत्तुङ्गोन्नतगामिनी । उत्प्लवनरीतिगामिनीत्यर्थः । तथाभूता तहङ्गमाला कल्लोलपंक्तिर्यस्याः जटाजूटस्य कपर्दस्य तटं समीपभागं भजन्तीम् । तत्र स्थितामित्यर्थः । तथा शरद्भ्रवच्छरत्कालिकमेघवच्छुभ्रैर्विशदैः स्वफेनैस्तस्य हरस्योत्सङ्गम् जुषते सेवते ताम् । हराङ्कस्थितामित्यर्थः । गौरीं पार्वतीं हसन्तीमिवोपहास्यं कुर्वतीमिव । सापत्न्यप्रयुक्तमनःसंतापं हास्येन स्फुटीकुर्वाणामिवेत्युत्प्रेक्षा । गङ्गां बिभ्राणं दधानम् ॥ 12.10 ॥

विश्वास-प्रस्तुतिः

(1)गङ्गातरङ्गप्रतिबिम्बितैः (2)स्वैर्बहू(3)भवन्तं शिरसा शुधांशुम् ।
चलन्मरीचिप्रचयै(4)स्तुषारगौरैर्हिमद्योतितमुद्वहन्तम् ॥ 12.11 ॥
{1.तरङ्गः.2.तैः.3.बभ्रुभवन्तम्.4.तुषारगौरैर्दिग्द्योतितम्.}

मूलम्

(1)गङ्गातरङ्गप्रतिबिम्बितैः (2)स्वैर्बहू(3)भवन्तं शिरसा शुधांशुम् ।
चलन्मरीचिप्रचयै(4)स्तुषारगौरैर्हिमद्योतितमुद्वहन्तम् ॥ 12.11 ॥
{1.तरङ्गः.2.तैः.3.बभ्रुभवन्तम्.4.तुषारगौरैर्दिग्द्योतितम्.}

अन्वयः

गङ्गातरङ्गप्रतिबिम्बितैः स्वैः बहूभवन्तं सुधांऽशुं शिरसा उद्वहन्तं तुषारगौरैः चलन्मरीचिप्रचयैः हिमद्यौतितम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

गङ्गेति । पुनः किंभूतम् । गङ्गातरंगेषु जाह्नवीकल्लोलेषु प्रतिबिम्बितैः स्वैरात्मभिः । शरीरैरिति यावत् । बहूभवन्तमनेकीभवन्तं सुधांशुं चन्द्रं शिरसा मूर्ध्नोद्वहन्तं दधानम् । अत एव पुनः किंभृतम् । तुषारवत्तुहिनवद् गौरैः सितैः । ‘गौरोऽरुणे सिते पीते’ इति विश्वः । चलन्तः प्रसरन्तो ये मरीचिप्रचयाः किरणसंघातास्तैर्हिमद्योतितम् । द्योतते शोभते स द्योती । शोभावानित्यर्थः । तस्य भावो द्योतिता । द्युतिरित्यर्थः । हिमवद्धिमसंघातवद्धिमसंघातवद्द्योतिता द्युतिर्यस्य तम् । पूर्वं धवलाङ्गमप्यनेकचन्द्रशोभाभिरधिकधवलीभूतमित्यर्थः ॥ 12.11 ॥

विश्वास-प्रस्तुतिः

भालस्थले लोचन(5)मेधमानधामाधरीभूतरवीन्दुनेत्रम् ।
युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् ॥ 12.12 ॥
{5.एधमाननम्.}

मूलम्

भालस्थले लोचन(5)मेधमानधामाधरीभूतरवीन्दुनेत्रम् ।
युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् ॥ 12.12 ॥
{5.एधमाननम्.}

अन्वयः

भालस्थले एधमानधामाऽधरीभूतरवीन्दुनेत्रं, युगाऽन्तकालोचितहव्य वाहं मीन ध्वजप्रोषणं लोचनम् आदधानम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

भालस्थल इति । भालस्थले ललाटदेश एधमानं वर्धमानं यद्धाम तेजस्तेन निमित्तेनाधरीभूते परिभावमुपागते रवीन्दू एव नेत्रै तस्मात् । ताभ्यामधिकतेजस्कमित्यर्थः । यद्वा । एधमानधाम अधरीभूतं चेति पदद्वयम् तत्रैवं व्याख्येम् । एधमानं धाम तेजो यस्य । वर्धिष्णुतेजस्कमित्यर्थः । तथोन्नतानतस्थानभेदेनाधरीभूते भालस्थनेत्रापेक्षया नीचैर्भूते रवीन्दू एव नेत्रे यस्य । तथा युगान्तकाले प्रलयकाल उचितं परिचितं हव्यवाहमग्निरूपम् । प्रलयकालिकानलरूपमित्यर्थः । अत एव मीनध्वजस्य कामस्य प्लोषणं दाहकम् । ‘प्लुष दाहे’ कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट् । एवंभूतं लोचनमादधानम्बिम्राणमित्यर्थः ॥ 12.12 ॥

विश्वास-प्रस्तुतिः

महार्हरत्नाञ्चितयो (1)रुदारं स्फुरत्प्रभामण्डलयोः समन्तात् ।
कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन ॥ 12.13 ॥
{1.उदार.}

मूलम्

महार्हरत्नाञ्चितयो (1)रुदारं स्फुरत्प्रभामण्डलयोः समन्तात् ।
कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन ॥ 12.13 ॥
{1.उदार.}

अन्वयः

महार्हरत्नाऽञ्चितयोः समन्तात् उदारं स्फुरत्प्रभामण्डलयोः कुण्डलयोः छलेन कर्णस्थिताभ्यां शशिभास्कराभ्याम् उपासितम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

महेति । पुनः किंभूतम् । महार्हाणि बहूमूल्यानि यानि रत्नानि मणयस्तैरञ्चितयोः खचितयोरत एवं समन्तात्सर्वत उदारमधिकं यथा स्यात्तथा स्फुरत्प्रसरत्प्रभामण्डलं कान्तिवितानं, ययोस्तथाभूतयोः कुण्डलयोः कर्णभूषणयोश्छलेन कैतवेन कर्णयोः श्रवणयोः स्थिताभ्यामुपविष्टाभ्यां शशिभास्कराभ्यां चन्द्रसूर्याभ्यामुपासितं सेवितम् । कुण्डलविषये कैतवात्सूर्याचन्द्रमसोरारोप्यमाणत्वात्ताद्रूप्यरूपकं कैतवापह्नुतिश्चेत्युभयोः संसृष्टिः ॥ 12.13 ॥

विश्वास-प्रस्तुतिः

(2)स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन (3)गौर्याः ।
नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या (4)सुविराजमानम् ॥ 12.14 ॥
{2.सुवृद्धया.3.गौर्या.4.च विराजमानम्.}

मूलम्

(2)स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन (3)गौर्याः ।
नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या (4)सुविराजमानम् ॥ 12.14 ॥
{2.सुवृद्धया.3.गौर्या.4.च विराजमानम्.}

अन्वयः

परिस्फुरन्त्या नीलस्य कण्ठस्य महत्या कान्त्या कुतुकेन स्वबुद्धया नीलमाणिक्यमय्या गौर्याः कण्ठिकया इव सुविराजमानम् (शिवं सहस्रनेत्र आलुलोक) ॥

सीतारामः

स्वबद्धयेति । पुनः किंभूतम् । परिस्फुरन्त्या परितः प्रसरन्त्या नीलस्य श्यामस्य कण्ठस्यात्मगलस्य महत्या कान्त्या प्रभया सुतरां विराजमानं शोभमानम् । कयेवेत्युत्प्रेक्षते-कुतुकेन कौतुकेन स्वस्मिन्नात्मीयकण्ठे बद्धया निहितया नीलमाणिक्यमय्या नीलरत्नविशेषप्रचुरया गौर्याः कण्ठभूषयेव । ‘कण्ठिका कण्ठभूषणम्’ । इति मेदिनी ॥ 12.14 ॥

विश्वास-प्रस्तुतिः

कालार्दितानां त्रिदशासुराणां चितारजोभिः (1)परिपाण्डुरंगम् ।
महन्महेभाजिन(2)मुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम् ॥ 12.15 ॥
{1.परिपाण्डुरागम्.2.उन्नत.}

मूलम्

कालार्दितानां त्रिदशासुराणां चितारजोभिः (1)परिपाण्डुरंगम् ।
महन्महेभाजिन(2)मुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम् ॥ 12.15 ॥
{1.परिपाण्डुरागम्.2.उन्नत.}

अन्वयः

कालार्दितानां त्रिदशाऽमुराणां चितारजोभिः परिपाण्डुरङ्गं, महन्महेभाऽजिनं दधानम् उद्गताऽभ्रप्रालेयशैलश्रियम् उद्वहन्तम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

कालेति । पुनः किंभूतम् । कालेनावसानकालिकमृत्युनार्दितानां पीडितानाम् । मृतानामिति यावत् । त्रिदशासुराणां देवदैत्यानां चिताया मृतमण्डपस्य रजोभिर्भस्मभिः परितः पाण्डुहङ्गं शुभ्रमङ्गम् यस्य विहितमृतमण्डपभस्मोद्धूलनमित्यर्थः । इह देवानाममरत्वाभावो दुर्घटः । तत्र ज्ञानाभावेन निहितपदस्य कवेः प्रमाद इत्याहुः । केचित्पुनः । ‘मनुजाऽसुराणाम्’ इति पाठान्तरं कल्पयन्ति । अथ यद्यपि कालार्दितानामिति विशेषणमुभयविशेष्यान्वयित्वेन द्वितीयविशेष्ये विवक्षितमप्यकालार्दितत्वविशेषणस्य व्यभिचारनियमने नियमनान्निषिद्धं भवति, तथापि प्रथमविशेष्ये लोकोपकारकतापक्षेऽपि व्यभिचरितार्थसम्भवेन विशेषणानुपयोगात्संभवप्रयुक्तप्रधानभूतद्वितीयविशेष्यसम्बन्धन प्रथमविशेष्यान्वयित्वनिरासः एवं चोपकार्यमनुजसहचरितत्वेन लोकोपकारकतापक्षावलम्बेन च विवक्षितार्थस्याविवक्षितत्वात् । संहारकतापक्षे तु प्रायो गतिरन्वेषणोयेत्यलम् । तथा महत्परिणाहि महेभस्य महतो गजस्याजिनं चर्मं परिदधानमिति पूर्वेण सम्बन्धः । अत एवोद्गतमुदितमभ्रं मेघो यत्र स चासौ प्रालेयशैलो हिमवांस्तस्य श्रियं शोभामुद्वहन्तं दधानम् । निदर्शनालंकारः ॥ 12.15 ॥

विश्वास-प्रस्तुतिः

पाणिस्थितब्रह्मकपालपात्रं (3)वैकुण्ठभाजापि निषेध्यमाणाम् ।
(4)नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः ॥ 12.16 ॥
{3.वैकुण्ठकङ्कालकरालकाथम्.4.सुरास्थिकण्ठाभरणम्;सुरास्थिखण्डाभरणम्.}

मूलम्

पाणिस्थितब्रह्मकपालपात्रं (3)वैकुण्ठभाजापि निषेध्यमाणाम् ।
(4)नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः ॥ 12.16 ॥
{3.वैकुण्ठकङ्कालकरालकाथम्.4.सुरास्थिकण्ठाभरणम्;सुरास्थिखण्डाभरणम्.}

अन्वयः

पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाजा अपि निषेव्यमाणं, नराऽस्थिखण्डाभरणं रणाऽन्तमूलं त्रिशूलम् उच्चैः कलयन्तम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

पाणीति । पुनः र्किभूतम् । पाणौ स्थितं ब्रह्मकपालमेव पात्रं यस्य । पाणिना ब्रह्मकरोटिपात्रं बिभ्राणमित्यर्थः । पुनः किंभूतम् । वैकुण्ठभाजापि हरिणापि निषेव्यमाणम् । सेवनमत्र कादाचित्कं नत्विदानींतनमेव, त्रयाणामभेदस्यैवेष्टार्थकरत्वात् । एकैव मूर्तिरिति सप्तमसर्गोक्तेरिति भावः । हरापेक्षया हरेरपि लघुत्वसंभावनया संभवत्येव कदाचित्सेवनम् । तथा नराणामस्थिखण्डान्येवाभरणानि यस्य । हिंसाकालसंलग्नस्वशूलत्रितयास्थिकमित्यर्थः । तथा रणे योऽन्तो रिपूणामवसानं तस्य मूलं कारणं ‘मूलं कारणमूल्ययोः’ इति मेदिनी । उच्चैर्महत्त्रिशूलमायुधविशेषं कलयन्तं दधानम् ॥ 12.16 ॥

विश्वास-प्रस्तुतिः

पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
(1)उद्गीतवेदां मुकुटेन्दुवर्षत्सुधा(2) भरौघाप्लवलब्धसंज्ञाम् ॥ 12.17 ॥
{1.उद्गार्णवेदीम्;,उद्गीर्णवेदाम्.2.सुधौघसंप्ल्लावन.}

मूलम्

पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
(1)उद्गीतवेदां मुकुटेन्दुवर्षत्सुधा(2) भरौघाप्लवलब्धसंज्ञाम् ॥ 12.17 ॥
{1.उद्गार्णवेदीम्;,उद्गीर्णवेदाम्.2.सुधौघसंप्ल्लावन.}

अन्वयः

मुकुटेन्दुवर्षत्सुधाभरौधाप्लवलब्धसंज्ञाम् (अत एव) आश्वसन्तीं पुनः उद्गीतवेदां पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

पुरातनीमिति । पुनः किंभूतम् । मुकुटे य इन्दुश्चन्द्रस्तस्माद्वर्षन्गलन्यः सुधाभरौघोऽमृतसमूहप्रवाहस्तत्र य आप्लवः स्नानं तेन निमित्तेन लब्धसंज्ञां प्राप्तचेतनामत एवाश्वसन्तीमुज्जीवन्तीम् । अत एव पुनर्भूयोऽप्युद्गीतवेदां पठितश्रुतिकाम् । ब्रह्मत्वादिति भावः । पुरातनीं प्राक्तनीम् । ‘सायंचिरम्-’ इत्यादिना पुराव्ययाट्ट्युतुटौ । टित्वान्ङीप् । ब्रह्मकपालानां मालां स्त्रजं कण्ठे गले वहन्तम् । दधानमित्यर्थः ॥ 12.17 ॥

विश्वास-प्रस्तुतिः

सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापद(3)वल्लिभासा ।
विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव ॥ 12.18 ॥
{3.तुल्यभासा.}

मूलम्

सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापद(3)वल्लिभासा ।
विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव ॥ 12.18 ॥
{3.तुल्यभासा.}

अन्वयः

नवाऽष्टापदवल्लिभासा सलीलम् अङ्कस्थितया गिरीन्द्रपुत्र्या परिस्फुरन्त्या अचिररोचिषा शरदभ्रखण्डम् इव विराजमानम् (शिवम् सहस्रनेत्र आलुलोके) ।

सीतारामः

सलीलमिति । पुनः किंभूतम् । नवं यदष्टापदं हेंम । ‘हेमन्यष्टापदं वरे’ इति मेदिनी । तस्य वल्ली लता । ‘वल्ली तु व्रततिर्लता’ इत्यमरः । प्रकृत्या तु वल्लीशब्दस्य ह्रस्वत्वमेव । ‘कृदिकारादक्तिनः’ इति दीर्घत्वम् तस्या भा इव भा यस्याः । तद्वच्छोभमानयेत्यर्थः । तथा सलीलं सक्रीडमङ्कस्थितयाङ्कमारुढया गिरीन्द्रपुत्र्या हिमालयकन्यया परितः स्फुरन्त्या प्रसरन्तयाचिररोचिषा चलप्रभया विद्युता शरदभ्रस्य शरत्कालिकमेघस्य खण्डं शकलमिव विराजमानं शोभमानम् । महेश्वरस्य शुभ्रत्वं भस्मोदधूलनादिति विराजमानं शोभमानम् । महेश्वरस्य शुभ्रत्वं भस्मोदधूलनादिति विवेचनीयम्, खण्डौपम्यं च शुभ्रत्वमात्रतात्पर्येण न विरुध्यते ॥ 12.18 ॥

विश्वास-प्रस्तुतिः

दृप्ताऽन्धकप्राणहरं पिनाकं (1)महासुरस्त्री(2)विधवत्वहेतुम् ।
करेण गृह्णान्त(3)महृह्यमन्यैः (4)पुरास्मरप्लोषणकेलिकारम् ॥ 12.19 ॥
{1.गजासुर.2.विवधात्वहेतुम्.3.असह्यशूलम्.4.सुर.}

मूलम्

दृप्ताऽन्धकप्राणहरं पिनाकं (1)महासुरस्त्री(2)विधवत्वहेतुम् ।
करेण गृह्णान्त(3)महृह्यमन्यैः (4)पुरास्मरप्लोषणकेलिकारम् ॥ 12.19 ॥
{1.गजासुर.2.विवधात्वहेतुम्.3.असह्यशूलम्.4.सुर.}

अन्वयः

दृप्ताऽन्धकप्राणहरं महाऽसुरस्त्रीविधवत्वहेतुं पुरास्मरप्लोषणकेलिकारम् अन्यैः अगृह्यं पिनाकं करेण गृह्णान्तम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

दृप्तेति । दृप्तोऽभिमानी योऽन्धकोऽसुरस्तस्य प्राणानां हरमपहारकम् । तद्धननसाधनमित्यर्थः तथा महासुरास्त्रिपुरादयस्तेषां याः स्त्रियस्तासां विधवत्वं वैधव्यम् । मृतभर्तृकत्वमिति यावत् । तस्य हेतुं कारणम् । महासुरविनाशकमित्यर्थः । तथा पुरा पूर्वस्मरस्य कामस्य प्लोषणं दाहं केल्यानायासेन करोतीति तथा । अन्यैः शिवातिरिक्तैरगृह्यं ग्रहीतुमशक्यं पिनाकं धनुः करेण पाणिना गृह्णान्तं दधानम् ॥ 12.19 ॥

विश्वास-प्रस्तुतिः

भद्रासनं काञ्चनपादपीठं (5)महार्हमाणिक्यविभङ्गिचित्रम् ।
अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम् ॥ 12.20 ॥
{5.महार्व्यम्.}

मूलम्

भद्रासनं काञ्चनपादपीठं (5)महार्हमाणिक्यविभङ्गिचित्रम् ।
अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम् ॥ 12.20 ॥
{5.महार्व्यम्.}

अन्वयः

महार्हमाणिक्यविभङ्गिचित्रं भद्रासनं काञ्चनपादपीठम् अधिष्ठितम् पुनः चन्द्रमरीचिगौरैः चमरैः गणाभ्याम् उद्वीज्यमानम् (शिवं सहस्रनेत्र आलुलोके)।

सीतारामः

भद्रासनमिति । महार्हाणां बहुमूल्यानां माणिक्यानां विभङ्गिभू रचनाभिश्चित्रं विचित्रम् । भद्रं शुभमासनं पट्टादिनिर्मितं यत्र तादृशम् । बध्नन्तमिति पदमध्याहार्यं भद्रासनमासनविशेषणमिति केचिद् व्याचक्षते, तत्त्वध्याहारदोषद्योगाभ्याससमयाभावेन तदसंभावाच्चोपेक्षणीयमिति । काञ्चनपादपीठं सौवर्णसिंहासनमधिष्ठितम् । तत्रोपविष्टमित्यर्थः । ‘अधिशीङ्स्थासाम्-’ इति कर्मत्वम् । पुनश्च । चन्द्रमरीचिवद्गौरैर्विशदैश्चमरैः कृत्वा गणाभ्यां कर्तृभ्यामुद्वीज्यमानं प्रेङ्ख्यमानम् । कर्तृद्वित्वे चमरबहुत्वं प्रतिक्षणनूतनग्रहणात्संगमनीयम् ॥ 12.20 ॥

विश्वास-प्रस्तुतिः

शस्त्रास्त्रविद्याभ्यसनै(1)कसक्ते सविस्मयैरेत्य गणैः (2)सुदृष्टे ।
(3)नीराज्यमाने (4)स्फटिकाचलेन सानन्दनिर्दिष्टदृशं कुमारे ॥ 12.21 ॥
{1.अवसक्तेः,कसंक्तैः.2.सुदृष्टम्.3.संवीज्यमाने.4.अम्बिकयाञ्जलेन.}

शस्त्राऽस्त्रविद्याऽभ्यसनैकसक्ते गणैः एत्य सविस्मयैः (सद्भिः) सुदृष्टे (तथा) स्फटिकाऽचलेन नीराज्यमाने कुमारे सानन्दनिर्दिष्टदृशम् (शिवं सहस्रनेत्र आलुलोके) ।

सीतारामः

शस्त्रास्त्रेति । शस्त्राणि धनुरादीनि । अस्त्राणि मोहनादीनि तान्येव विद्यास्तासामभ्यसन एवैकं केवलं सक्तेऽनुरक्ते । तथा गणैः प्रमथप्रभृतिभिरेत्य तत्समीपं प्राप्य सविस्मयैः साश्चर्यैः सद्भिः सुतरां दृष्टे । साभिलाषमवलोकित इत्यर्थः । तथा स्फटिकाचलेन कैलासेन । जङ्गमात्मकेन सतेति शेषः । नीराज्यमाने । आर्तिक्येनेति शेषः । एवंभूते कुमारे पुत्रे सानन्दं सामोदं निर्दिष्टा सन्निहिता दृग्दृष्टिर्येन तम् । सानन्दतया कुमारमवलोकयन्तमित्यर्थः ॥ 12.21 ॥

विश्वास-प्रस्तुतिः

तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य ।
आसीत्क्षणं क्षोभपरो (1)नु कस्य मनो न हि क्षुभ्यति धामधाम्नि ॥ 12.22 ॥
{1.अथ कस्य;अत्र कस्य;अन्तकस्य.}

मूलम्

तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य ।
आसीत्क्षणं क्षोभपरो (1)नु कस्य मनो न हि क्षुभ्यति धामधाम्नि ॥ 12.22 ॥
{1.अथ कस्य;अत्र कस्य;अन्तकस्य.}

अन्वयः

पुलोमपुत्रीदयितः तथाविधं शैलसुताऽधिनाथं निरीक्ष्य क्षणं क्षोभपरः आसीत् । हि धामधाम्नि कस्य मनो न क्षुभ्यति ?

सीतारामः

तथाविधमिति । पुलोमपुत्री पुलोमजा शचीति यावत् । ‘पुलोमजा शचीन्द्राणी’ इत्यमरः । तस्या दयितः प्रियः पुरंदरः । तथाविधं पूर्वोक्तविशेषणविशिष्टं शैलसुतायाः पार्वत्या अधिनाथं महेश्वरं निरीक्ष्य क्षणं मुहूर्तं क्षोभे चित्तसंचलने पर आसक्तः संचलनेन व्याकुल आसीत् । ननु महेश्वरदर्शनेन कथं व्याकुल आसीदित्यर्थान्तरं न्यस्यति-हि यतः, धामधाम्नि तेजोराशौ कस्य मनश्चेतो न क्षुभ्यति क्षोभं न प्राप्नोति । अपि तु सर्वस्यापीत्यर्थः ॥ 12.22 ॥

विश्वास-प्रस्तुतिः

विकरस्वराभ्भोजवनश्रिया तं दृशं सहस्रेण (2)निरीक्षमाणः ।
(3)रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्ण(4)इवाम्रशाखी ॥ 12.23 ॥
{2.निरीक्ष्यमाणः.3.सर्वांगनेत्रो द्युपति;सर्वांजनेन द्युपतिः.4.अग्रशाखी.}

स्वर्गपतिः विकास्वराऽभ्भोजवनश्रिया दृशां सहस्रेण तं निरीक्षमाणः (सन्) रोमालिभिः पुष्पोत्कराकीर्णः आम्रशाखी इव बभासे ।

सीतारामः

विकस्वरेति । स्वर्गपतिर्महेन्द्रः । विकस्वराणां प्रफुल्लानामम्भोजानां वनस्य श्रीरिव श्रीः शोभा यस्य तथाभूतेन दृशां नेत्राणां सहस्रेण तं महेश्वरं निरीक्षमाणो विलोकमानः सन् । रोम्णामालिभिः समूहैर्निमित्तैः पुष्पाणामुत्करेण समूहेनाकीर्ण आसमन्तादव्याप्त आम्रशाख्याम्रवृक्ष इव बभासे शुशुभे । उपमालंकारः ॥ 12.23 ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽति(5)तरां महेन्द्रः ।
(6)सर्वाङ्गजातं तदथो (7)विरूपमिव(8) (9)प्रियाकोपकरं विवेद ॥ 12.24 ॥
{5.खलु तेन शक्रः.6.सर्वाङ्ग जातं विकलम्;सर्वाङ्गजानेतदनम्.7.विपूरम्.8.पुरा.9.प्रियालोकपरम्;प्रियाकोपपरः.}

मूलम्

दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽति(5)तरां महेन्द्रः ।
(6)सर्वाङ्गजातं तदथो (7)विरुपमिव(8) (9)प्रियाकोपकरं विवेद ॥ 12.24 ॥
{5.खलु तेन शक्रः.6.सर्वाङ्ग जातं विकलम्;सर्वाङ्गजानेतदनम्.7.विपूरम्.8.पुरा.9.प्रियालोकपरम्;प्रियाकोपपरः.}

अन्वयः

दृशां सहस्रेण महेशं दृष्ट्वा महेन्द्रः अतितरां कृताऽर्थः अभूत् । अथो तत् सर्वाऽङ्गजातं विरूपं प्रियाकोपकरम् इव विवेद ।

सीतारामः

दृष्ट्वेति । दृशां सहस्रेण महेशं शिवं दृष्ट्वा महेन्द्र इन्द्रोऽतितरामतिशयं कृतार्थः कृतकृत्योऽभूत् । अथोऽनन्तरं तत्सर्वाङ्गजातं सर्वेष्वङ्गेषु भूतं विरूपं रोमाञ्चजनितवैरुप्यं प्रियायाः शच्याः कोपकरं क्रोधविधायीव विवेद जज्ञे । सपत्नीसम्बन्धजनितत्वशङ्काकुलत्वादिति भावः ॥ 12.24 ॥

विश्वास-प्रस्तुतिः

ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् ।
महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध ॥ 12.25 ॥

मूलम्

ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् ।
महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध ॥ 12.25 ॥

अन्वयः

ततः पुरन्दरः कनकाऽद्रिसारं धृताऽस्त्रशस्त्रं महेश्वरोपान्तिकवर्तमानं कुमारं प्रेक्ष्य शत्रोः जयाशां मनसां बबन्ध ।

सीतारामः

तत इति । ततोऽनन्तरम् । पुरंदर इन्द्रः कनकाद्रेः सुमेरोः सार इव सारो वीर्य यस्य तम् । महाबलीयांसमित्यर्थः । अत एव धृतान्यस्त्राणि शस्त्राणि च येन तथा महेश्वरस्य पितुरुपान्तिके समीपे वर्तमानं तिष्ठन्तं कुमारं प्रेक्ष्य विलोक्य शत्रोस्तारकस्य जय आशां मनसा बबन्ध धृतवान् । एवंभूतोऽयं कुमारो मच्छत्रूञ्जेष्यत्येवेति पुरंदरस्य प्रतीतिरभूदित्यर्थः ॥ 12.25 ॥

विश्वास-प्रस्तुतिः

अथ युग्मेनाह-
श्रीनीलकण्ठ द्युपतिः पुरोऽस्ति (1)त्वयि प्रणामावसरं (2)प्रतीच्छन् ।
(3)सहस्रनेत्रेऽत्र भव त्रिनेत्र (4)दृष्ट्या प्रसाद(5) प्रगुणो (6)महेश ॥ 12.26 ॥
इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभिः हेम(7) नेत्रम् ।
प्रसादपात्रं पुरतो (8)भविष्णुरथ स्मरारातिमुवाच वाचम् ॥ 12.27 ॥
{1.तय.2.च पृच्छन्,प्रतीक्षन्.3.सहस्रनेत्रोऽत्र भव त्रिनेत्र,सहस्रनेत्रं प्रसर त्रिनेत्र.4.दृष्ट्वा.5.प्रणवः.6.महेशः.7.हेमदण्डम्.8.भविष्णुमन्धन्धकारातिम्,भविष्णुरधिस्मरारातिम्.}

अथ नन्दी पुरतः प्रसादपात्रं भविष्णुः एत्य कक्षाम् अभि हेमवेत्रं निधाय प्रबद्धाऽञ्जलिः (सन्) स्मराऽरातिं श्रीनीलकण्ठ ! द्युपतिः त्वयि प्रणामाऽवसरं प्रतीच्छन् पुरः अस्ति (अतः) हे त्रिनेत्र ! हे महेश ! अत्र सहस्रनेत्रे दृष्ट्या प्रसादप्रगुणो भव इति वाचम् उवाच ।

सीतारामः

श्रीति । इतीति । अथ नन्दी गणः पुरतः सर्वेभ्योऽग्रगामितयेन्द्राधिष्ठितकक्षामारभ्य महेश्वराधिश्रितमन्दिरपर्यन्तमहंपूर्विकया । बहुविधगणगणसुरगणावृत्ते मध्यगतदेशेऽहंपूर्विकावलम्बेनेति तात्पर्यार्थः । प्रसादस्येन्द्रागमनिवेदनमुदन्धेनान्धकारिणा दत्तपारितोषिकरुपस्य पात्रं योग्यो भविष्णुर्भवितुमिच्छुः सन्नेत्य । अन्तरिति शेषः । तथा कक्षां द्वारमभि संमुखं हेमवेत्रं सौवर्णयष्टिकां निधाय संस्थाप्य । इयं वेत्रधारिणो रीतिर्वर्णिता । प्रबद्धाञ्जलिः सन्स्मरारातिं महेश्वरम् । भो श्रीयुक्तनीलकण्ठ सपार्वतीक महेश्वर । द्युपतिरिन्द्रस्त्वयि भवति प्रणामावसरं प्रणतिसमयं प्रतीच्छन्प्रतीक्षमाणः पुरोऽग्रेऽस्ति विद्यते । महेश्वरं प्रणिनंसुः सन्बहिरास्त इत्यर्थः । अतो हे त्रिनेत्र, भो महेश, अत्र पुरोवतिंनि सहस्रनेत्र इन्द्रे दृष्ट्या दर्शनेन प्रसादप्रगुणः प्रसादविधानानुकूलो भव । आत्मीयदर्शनरूपं प्रसादं तदुपरि कुर्वित्यर्थः । इत्येवंभूतां वाचमुवाचोक्तवान् ॥ 12.26 - 12.27 ॥

विश्वास-प्रस्तुतिः

(1)पुरा (2)सुरेन्द्रं सुरसङ्घसेव्यं (3)त्रिलोकसेव्यस्त्रिपुरासुरारिः ।
प्रीत्या (4)सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन ॥ 12.28 ॥
{1.मुदा.2.असुरारिम्.3.त्रैलोक्यसेव्यः,त्रैलोकसेव्यः.4.सुधासारविसारिणा,सुधासारविधारिणा.}

ततः त्रिलोकसेव्यः त्रिपुराऽसुराऽरिः सुरसङ्घसेव्यं सुरेन्द्रं पुरा प्रीत्या सुधासारनिधारिणा इव विलोकनेन अनुजग्राह ।

सीतारामः

पुरेति । ततोऽनन्तरं निवेदनानन्तरं त्रिलोकसेव्यस्त्रैलोक्यपूजनीयस्त्रिपुरासुरस्यारिः शत्रुर्महेश्वरः सुरसङ्घेन देवसमूहेन सेव्यं पूज्यं सुरेन्द्रमिन्द्रं पुरा प्रथमं प्रीत्या निमित्तेन सुधासारम् । अमृततुल्यमित्यर्थः । निधारयति नितरां धारारूपं करोति । ‘तत्करोति-’ इति करोत्यर्थे णिच् । सुधासारधारां वर्षतेत्यर्थः । एवंभूतेनेव विलोकनेन दर्शनेनः नुजग्राह । तदुपर्यनुग्रहमकार्षीदित्यर्थः स्वामिनां प्रसादपूर्वकमलोकनमेव भृत्यानामुपरि महानुग्रह इति भावः ॥ 12.28 ॥

विश्वास-प्रस्तुतिः

किरीटकोटिच्युतपारिजात (1)पुष्पोत्करेणानमितेन मूर्ध्ना ।
(2)स्वर्गैकवन्द्यो (3)जगदेकवन्द्यं तं देवदेवं प्रणनाम देवः ॥ 12.29 ॥
{1.पुष्पेण भक्त्या.2.स्वर्गौकवन्द्यः.3.जगदेकदेवं ननाम देवः स सहस्रनेत्रः.}

स्वर्गैकवन्द्यो देवः आनमितेन किरीटकोटिच्युतपरिजातपुष्पोत्करेण मूर्ध्ना जगदेकवन्द्यं तं देवदेवं प्रणनाम ।

सीतारामः

किरीटेति । स्वर्ग एवैकं केवलं वन्द्यो नमस्करणीयो देव इन्द्रः । आनमितेनात एव किरीटकोट्याश्च्युतोऽधःपतितः पारिजातपुष्पाणां मन्दारकुसुमानामुत्करः समूहो यस्मात्तथाभूतिन मूर्ध्ना शिरसा जगतामेकमेव वन्द्यं नमस्करणीयम् । एतत्सदृशो जगतां वन्द्यतयान्यो न विद्यत इत्यर्थः । तं देवदेवं महेश्वरं प्रणनाम नमश्चक्रे ॥ 12.29 ॥

विश्वास-प्रस्तुतिः

अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं (4)त्रिदशेश्वरः स ।
भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव ॥ 12.30 ॥
{4.त्रिदेवेश्वरः.}

मूलम्

अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं (4)त्रिदशेश्वरः स ।
भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव ॥ 12.30 ॥
{4.त्रिदेवेश्वरः.}

अन्वयः

स त्रिदशेम्वरी भक्त्या अनेकलोककैनमस्क्रियाऽर्हं तं महेश्वरं नमस्कृत्य कृताऽर्थतायाः परमं पवित्रं पात्रं बभूव ॥

सीतारामः

अनेकेति । स त्रिदशेश्वर इन्द्रो भक्त्या । भक्तिपूर्वकमित्यर्थः । अनेके त्रयो ये लोकास्तेषामेक एव नमस्क्रियायामर्हं उचितस्तथोक्तं तं महेश्वरं नमस्कृत्य ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी’ इत्युक्तेर्द्वितीया, परममत्यन्तं पवित्रं विशदं कृतार्थतायाः कृतकृत्यत्वस्य पात्रं स्थानं बभूव । महेन्द्रा महेश्वरं प्रणम्य कृतकृत्योऽभूदित्यर्थः ॥ 12.30 ॥

सुभक्तिभाजामधि (1)पादपीठं प्रान्तक्षितिं नम्रतरैः शिरोभिः ।
ततः प्रणेमुः पुरतो (2)गणानां गणाः (3)सुराणां क्रमतः पुरारिम् ॥ 12.31 ॥
(1.पदापीठं प्रीताक्षिभिः,पादपीठ प्रान्तीकृतैः.2. सुराणाम्.3.सशक्राः क्रमतः स्मरारिम्, सुरेन्द्रक्रमतः पुरारिम्.)

अन्वयः

ततः सुभक्तिभाजां सुराणां गणाः गणानां पुरतः पादपीठं प्रान्तक्षितिम् अधि नम्रतरैः शिरोभिः पुराऽरिं क्रमतः प्रणेमुः ।

सीतारामः

सुभक्तीति । ततोऽनन्तरम् । सुभक्तिं भजन्ति तेषाम् । ‘भजोण्विः’ इति ण्विः । सुराणामिन्द्रातिरिक्तानां सुराणां गणाः । गणानां प्रमथप्रभृतीनां पुरतोऽग्रे । अनेन मर्यादातिरिक्तकरणस्य दुर्विधेयत्वमुक्तम् । पादपीठस्य चरणाधारपीठबिशेषस्य प्रान्तक्षितिः समीपभूमिस्तामध्यधिकृत्य । आधारभूतां कृत्वेत्यर्थः । अत्राधिशब्देनाधिकरणमाधारः । स चौपश्लेषिकः । अध्यानामाकृतिगणत्वादिधिशब्दोऽत्राधिकरणपर्यायोऽव्ययम् । अन्यथामन्तत्वमन्वेषणीयम् । नम्रतरैः शिरोभिः पुरारिं महेश्वरं क्रमतः क्रमेण प्रणेमुर्नमश्चक्रुः ॥ 12.31 ॥

विश्वास-प्रस्तुतिः

गणोपनीते प्रभुणोपदिष्टः(4) (5)शुभासने हेममये पुरस्तात् ।
प्रापोपविश्य (6)प्रमुदं सुरेन्द्रः (7)प्रभुप्रसादो हि मुदे न कस्य ॥ 12.32 ॥
{4.उपदिष्टे.5.नृपासने,भ्रुवासने.6.प्रभवम्.7.प्रभोः प्रसादः.}

सुरेन्द्रः गणोपनीते हेममये शुभासने प्रभुणा उपदिष्टः (सन्) पुरस्तात् उपविश्य प्रमुदं प्राप, हि प्रभुप्रसादः कस्य मुदे न ?

सीतारामः

गणेति । सुरेन्द्रः । गणेन केनचिदुपनीते । प्रभुशासनेनेति शेषः । तथा हेममये सुवर्णमये शुभासने प्रभुणा हरेणोपदिष्ट आरोढुमाज्ञप्तः सन् । पुरस्तात्प्रभोरग्रत एवोपविश्य स्थित्वा प्रकृष्टां मुदं हर्ष प्राप । तथा हि । प्रभुप्रसादः प्रभुकर्तृकोऽनुग्रहः कस्यानुगतस्य मुदे प्रीत्यै न भवति । अपि तु सर्वस्यापीति काक्वा व्याख्येयम् ॥ 12.32 ॥

विश्वास-प्रस्तुतिः

क्रमेण (1)चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण ।
(2)उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य (3)सुराः समग्राः ॥ 12.33 ॥
{1.अन्येन.2.उपाविशुः.3.पुरःसमेताः.}

मूलम्

क्रमेण (1)चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण ।
(2)उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य (3)सुराः समग्राः ॥ 12.33 ॥
{1.अन्येन.2.उपाविशुः.3.पुरःसमेताः.}

अन्वयः

ईश्वरेण क्रमेण अन्ये अपि समग्राः सुराः, सस्मितं विलोकनेन संभाविताः (अत एव) तोषविशेषम् आप्ताः तस्य दृग्गोचरे उपाविशन् ।

सीतारामः

क्रमेणेति । ईश्वरेण महेश्वरेण क्रमेणानुक्रमतोऽन्येऽपि च समग्राः सुराः सस्मितं सप्रसादव्यञ्जकहासं यथा तथा विलोकनेन सम्भाविता आदृता अत एव तोषविशेषं संतोषाधिक्यमाप्ताः प्राप्ताः सन्तस्तस्य प्रभोर्द्दग्गोचरे दृष्टिविषय उपाविशंस्तस्थुः । यथा युगपदेव भगवान्सर्वानवलोकयेत्तथैव सर्वे तस्थुरित्यर्थः ॥ 12.33 ॥

विश्वास-प्रस्तुतिः

अथाह देवो बलवैरिमुख्यान् (4)गीर्वाणवर्गान्करुणार्द्रचेताः ।
कृताञ्जलीकान(5)सुराभिसूता(6)न्ध्वस्तश्रियः (7)श्रान्तमुखानवेक्ष्य ॥ 12.34 ॥
{4.गोर्वाणमुख्यान्.5.असुरावधूतान्.6.ध्वस्तप्रियान्.7.गर्विणमुखान्.}

अथ देवो बलवैरिमुख्यान् गीर्वाणवर्गान् असुराऽभिभूतान् (अत एव) ध्वस्तश्रियः श्रान्तमुखान् कृताऽञ्जलीकान् अवेक्ष्य करुणाऽऽर्द्रचेताः (सन्) आह ।

सीतारामः

अथेति । अथ देवो हरो बलवैरीन्द्रः स मुख्यो येषु तथाभूतान्गीर्वाणवर्गान्देवसमूहान् । असुरेण तारकेणाभिभूताञ्जितानत एव ध्वस्तश्रियो नष्टलक्ष्मीकानत एव श्रान्तं खिन्नं मुखं येषाम् । नष्टमुखतेजस इत्यर्थः । अत एव कष्टनिवृत्त्यर्थ कृतोऽञ्जलिर्यैस्तानवेक्ष्य दृष्ट्वा करुणयार्द्रं स्निग्धं चेतो यस्य तथा भूतः सन्नाहोवाच ॥ 12.34 ॥

विश्वास-प्रस्तुतिः

अहो बतानन्तपराक्रमाणां (8)दिवौकसो वीरवरायुधानाम् ।
हिमोदबिन्दुग्लपितस्य किं यः पद्मस्य दैन्यं दधते मुखानि ॥ 12.35 ॥
{8.दिवौकसाम्.}

मूलम्

अहो बतानन्तपराक्रमाणां (8)दिवौकसो वीरवरायुधानाम् ।
हिमोदबिन्दुग्लपितस्य किं यः पद्मस्य दैन्यं दधते मुखानि ॥ 12.35 ॥
{8.दिवौकसाम्.}

अन्वयः

अहो दिवौकसः ! अनन्तपराक्रमाणां वीरवरायुधानां वः मुखानि हिमोदबिन्दुग्लपितस्य पद्मस्य दैन्यं किं दधते ?

सीतारामः

अहो इति । अहोशब्दोऽत्र हेशब्दपर्यायः । हे दिवौकसो देवाः, अनन्तपराक्रमाणामपारविक्रमाणाम् । तथा वीरन्वृणतेऽभिलषन्ति । वीरवरास्तज्जिगमिषाशालीनीत्यर्थः । एवं भूतान्यायुधानि येषां तथाभूतानां वो युष्माकं मुखानि हिमस्य यदुदमुदकं तस्य यो बिन्दुस्तेन ग्लपितस्य क्षीणहर्षीकृतस्य । ‘उदकस्योदः संज्ञायाम्’ इत्युदादेशः । तथाभूतस्य पद्मस्य दैन्यं दीनतां किं कुतो दधते बिभ्रति । यूयं कुतः कारणतो भ्रष्टलक्ष्मीका इति प्रश्नाशयः ॥ 12.35 ॥

विश्वास-प्रस्तुतिः

स्वर्गैकसः स्वर्गपरिच्युताः किं (1)स्वपुण्यराशौ (2)सुमहत्तमेऽपि ।
चिह्नं चिरोढं (3)न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम् ॥ 12.36 ॥
{1.सुपुण्यराशौ.2.सुमहत्तरे.3.बत,ननु.}

मूलम्

स्वर्गैकसः स्वर्गपरिच्युताः किं (1)स्वपुण्यराशौ (2)सुमहत्तमेऽपि ।
चिह्नं चिरोढं (3)न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम् ॥ 12.36 ॥
{1.सुपुण्यराशौ.2.सुमहत्तरे.3.बत,ननु.}

अन्वयः

हे स्वर्गैकसः ! स्वपुण्यराशौ सुमहत्तमे अपि किं स्वर्गपरिच्युताः एते यूयं चिरोढं निजाधिपत्यस्य चिह्नं तु न परित्यजध्वम् ।

सीतारामः

स्वर्गैकस इति । हे स्वर्गैकसः स्वपुण्यराशौ स्वर्गप्राप्तिनिमित्तपुण्यव्रजे सुतरां महत्तमेऽपि । अक्षयेऽपीत्यर्थः । किं कुतः स्वर्गुपरिच्युताः स्वस्थानभ्रष्टाः । भ्रंशे किं कारणमिति प्रश्नाशयः । अथ चाश्वासयति- एते यूयं चिरोढं बहुकालमूढं निजाधिपत्यस्य स्वीयस्वामितायाश्चिह्नं छत्रचामरादि तु न परित्यजध्वं मा परित्यजत । विध्यर्थे लोट् । त्यजध्वमित्यात्मनेपदं चिन्त्यम् ॥ 12.36 ॥

विश्वास-प्रस्तुतिः

(4)दिवौकसो देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः ।
यूयं कुतः (5)कारणतश्चरध्वं (6)महीतले (7)मानभूतो महान्तः ॥ 12.37 ॥
{4.स्वर्गौकसः.5.चरध्वे.6.महीभृतः.7.मानधनाः.}

मूलम्

(4)दिवौकसो देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः ।
यूयं कुतः (5)कारणतश्चरध्वं (6)महीतले (7)मानभूतो महान्तः ॥ 12.37 ॥
{4.स्वर्गौकसः.5.चरध्वे.6.महीभृतः.7.मानधनाः.}

अन्वयः

हे दिवौकसः ! महान्तो मानमृतो यूयं कुतः कारणतः देवगृहं विहाय मनुष्यसाधारणताम् अवाप्ताः (सन्तः) महीतले चरध्वम् ।

सीतारामः

दिवौकस इति । हे दिवौकसः महान्तोऽत एव मानभृतो मनस्विनो यूयं कुतः कारणतः कारणाद्देवगृहं स्वर्ग विहाय परित्यज्य मनुष्यसाधारणतां मानवसाम्यमवाप्ताः सन्तो महीतले चरध्वम् । संप्रश्ने लोट् । अत्राप्यात्मनेपदं चिन्त्यम् ॥ 12.37 ॥

विश्वास-प्रस्तुतिः

अनन्यसाधारणसिद्धमुच्चै(1)स्तद्दैवतं धाम (2)निकामरम्यम् ।
कस्माद (3)कस्मान्निरगा(4)द्भवद्भ्यश्चिरार्जितं पुण्यमिवा(5) पचारात् ॥ 12.38 ॥
{1.सुदैवतम्,तदैव तम्.2.निकामकामम्;निकामकाम्यम्.3.यमाद्यैः.4.अगाधम्.5.अपवादाम्.}

(हे देवाः !) अनन्यसाधारणसिद्धं निकामरम्यम् उच्चैः तत् दैवतं धाम अकस्मात् कस्मात् चिराऽर्जितं पुण्यम् इव निरगात् ?

सीतारामः

अनन्येति । हे देवाः, अन्यसाधारणेनान्यदीयदेशतुल्यत्वेन सिद्धं साधितम् । रचितमित्यर्थः । तन्न भवतीति तथोक्तमत एव निकामं बहु रम्यं मनोहरमुच्चैर्महतत्प्रसिद्धं दैवतं धाम स्वर्गमकस्मात्सहसैव कस्माद्धेतोः भवद्भ्योऽपचारात्पापोद्धेतोस्चिरार्जितं बहुकालेन सम्पादितं पुण्यमिव निरगान्निर्गतम् । ‘तुह्मांपासून स्थल कसे जाहाले’ इति लोकोक्तिरीतिरनुसंधेया ॥ 12.38 ॥

विश्वास-प्रस्तुतिः

(6)दिवौकसो वो हृदयस्य कस्मात्तयाविधं धैर्यमहार्यमार्याः ।
अगादगाधस्य जलाशयस्य (7)ग्रीष्मातितापादिवशादिवाम्भः ॥ 12.39 ॥
{6.विरुद्धतः.7.ग्रीष्मातपापत्तिवशात्.}

मूलम्

(6)दिवौकसो वो हृदयस्य कस्मात्तयाविधं धैर्यमहार्यमार्याः ।
अगादगाधस्य जलाशयस्य (7)ग्रीष्मातितापादिवशादिवाम्भः ॥ 12.39 ॥
{6.विरुद्धतः.7.ग्रीष्मातपापत्तिवशात्.}

अन्वयः

हे दिवौकसः ! आर्याः तथाविधम् अहार्य हृदयस्य धैर्य कस्मात् ग्रीष ्मातितापादिवशात् अगाधस्य जलाशयस्य अम्भ इव अगात् ।

सीतारामः

दिवौकस इति । हे दिवौकसो हे आर्याः, तथाविधं तादृशामहार्यमनिर्वचनीयं वो युष्माकं हृदयस्य मनसी धैर्य कस्माद्धेतोग्रीष्मेण योऽतितापादिः संतापादिः तस्य वशाद्धेतोः अगाधस्य जलाशयस्य अम्भ इव । अगादनशत् । अन्यत्र शुष्यतीत्यर्थः । धैर्य न हेयमिति भावः ॥ 12.39 ॥

विश्वास-प्रस्तुतिः

संप्रति स्वयमेव भयनिमित्तं दर्शयतिः
सुराः (1)सुराधीशपुरःसराणां (2)समीयुषां वः सममातुराणाम् ।
(3)तद्ब्रूत लोकत्रयजित्वरात्किं (4)महासुरात्तारकतो विरुद्धम् ॥ 12.40 ॥
{1.पुरारातिपुरोविवर्णम्,पुरारातिपुरः सुवर्णम्;सुनासीरपुरःसराणाम्.2.समीयिवांसं सममातुराणाम्,समीरितं यत्सममातुराणाम्,समीयुषां सामसमातुराणाम्.3.ब्रुत लोकत्रयजित्वरा,भूतलोकत्रयजित्वराः.4.महासुरप्रायकतः.}

हे सुराः ! तत् आतुराणां समं समीयुषां सुराऽधीशपुरःसराणां वः लोकत्रयदजित्वरात् तारकतो महाऽमुरात् विरुद्धं किम् ? ब्रुत ।

सीतारामः

सुरा इति । हे सुराः, तत्तस्मादातुराणामत एव समं सह समीयुषामागतानां तथा सुराधीशपुरः सराणामिन्द्रप्रमुखानां वो युष्माकं लोकत्रयजित्वरात्त्रैलोक्यजेतुस्तारकतस्तारकसंज्ञकान्महासुराद्विरुद्वं वैरं किम् । स भवतां वैरी किमिति प्रश्नः । ब्रूत वदत ॥ 12.40 ॥

विश्वास-प्रस्तुतिः

पराभवं तस्य महासुरस्य (5)निषेद्धुमेकोऽहमलंभविष्णुः ।
दावानलप्लोषविपत्तिमन्यो (6)महाम्बुदात्किं हरते वनानाम् ॥ 12.41 ॥
{5.निषेद्धकामः.6.अरण्यस्य हर्तुं जलदात्प्रभुः किम्.}

मूलम्

पराभवं तस्य महासुरस्य (5)निषेद्धुमेकोऽहमलंभविष्णुः ।
दावानलप्लोषविपत्तिमन्यो (6)महाम्बुदात्किं हरते वनानाम् ॥ 12.41 ॥
{5.निषेद्धकामः.6.अरण्यस्य हर्तुं जलदात्प्रभुः किम्.}

अन्वयः

(हे देवाः !) तस्य महाऽसुरस्य पराभवं निषेद्धम् अहम् एकः अलं गतिष्णुः, (तथाहि) बनानां दावाऽनलप्लोषविपत्तिं महाऽबुदात् अन्यः हरते किम् ?

सीतारामः

पराभवमिति । भो देवाः । तस्य महासुरस्य तारकस्य तत्कर्तृकम् । ‘कर्तृकर्मणोः कृति’ इति कर्तरि षष्ठी । पराभवं पराजयम् । अर्थाद्यौष्माकीणमित्यर्थः । निषेद्धुं निवारयितुमहमेक एवालम्भविष्णुः । समर्थोऽस्मीत्यर्थः । तथा हि । वनानां सम्बन्धिनीं दावानलस्य दावानलकर्तृको यः प्लोषो दाहः स एव विपत्तिस्तां महाम्बुदान्महतो मेघादन्योऽपरः । ‘अन्यारात्-’ इत्यादिना पञ्चमी । हरते किम् । अपि तु नैवेति काक्वा व्याख्येयम् ॥ 12.41 ॥

विश्वास-प्रस्तुतिः

इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु ।
(1)सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः ॥ 12.42 ॥
{1.सान्द्रप्रमोदाः सुचिरस्मितेषु.}

मूलम्

इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु ।
(1)सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः ॥ 12.42 ॥
{1.सान्द्रप्रमोदाः सुचिरस्मितेषु.}

अन्वयः

मन्मथमर्दनेन इति ईरिते सुरेन्द्रप्रमुखाः सुराः आश्वसन्तः सान्द्र प्रमोदाऽश्रुतरङ्गितेषु मुखेषु सत्वरं श्रियं दधुः ।

सीतारामः

इतीति । मन्मथमर्दनेन महेश्वरेण इतीत्थमीरित उक्ते सति सुरेन्द्रप्रमुखाः सुरा देवा आश्वसन्तो विश्वसन्तः सन्तः । उज्जीवन्त इति यावत् । सान्द्राणि सधनानि यानि प्रमोदाश्रूण्यानन्दवाष्पाणि तैस्तरङ्गितेषु तरङ्गयुक्तेषु मुखेषु सत्वरं शीघ्रम् । महेश्वरवाक्यस्यात्यानन्दहेतुत्वाच्छैघ्र्यम् । श्रियं शोभां दधुर्बभ्रुः ॥ 12.42 ॥

विश्वास-प्रस्तुतिः

ततो गिरीशस्य गिरां (2)विरामे जगाद (3)लब्धेऽवसरे (4)सुरेन्द्रः ।
भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं (5)फलाविष्टमहोदयाया ॥ 12.43 ॥
{2.विताने.3.लब्धावसरे.4.सुरेशः.5.अविस्पष्टफलोदयाय,प्रभाविष्टफलोदयाय.}

ततो गिरीशस्य गिरां विरामे (सति) लब्धे अवसरे सुरेन्द्रः जगाद, (तथा हि) अवसरे प्रयुक्ताः वाचः फलाविष्टमहोदयाय भवन्ति घ्रुवम् ॥

सीतारामः

तत इति । ततोऽनन्तरं गिरीशस्य हरस्य गिरां वाचां विरामे सति लब्धे प्राप्तेऽवसरे समये सुरेन्द्र इन्द्रो जगादोवाच । तथा हि अवसरे काले प्रयुक्ताः प्रेरिताः । उक्ता इति यावत् । वाचो गिरः फलेनाविष्टः पूर्णो यो महोदयो महर्द्धिस्तस्मै तदर्थ भवन्ति ध्रुवम् । क्रियाग्रहणात्संप्रदानत्वम् । तादर्थ्ये वा चतुर्थी ॥ 12.43 ॥

विश्वास-प्रस्तुतिः

ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रभेण ।
भूतं भवद्भावि च यच्च (6)किंचित्सरर्वज्ञ सर्व तव (7)गोचरं तत् ॥ 12.44 ॥
{6.सर्वत्र.7.गोचर.}

मूलम्

ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रभेण ।
भूतं भवद्भावि च यच्च (6)किंचित्सरर्वज्ञ सर्व तव (7)गोचरं तत् ॥ 12.44 ॥
{6.सर्वत्र.7.गोचर.}

अन्वयः

हे सर्वज्ञ ! तमोऽपहेन अविनश्वरेण अस्खलितप्रभेण ज्ञानप्रदीपेन भूतं, भवत् भावि च यत् किञ्चित् तत् सर्वं तव गोचरम् ।

सीतारामः

ज्ञानेति । हे सर्वज्ञ, तमोपहेनाज्ञानहन्त्राविनश्वरेणाक्षयेणास्खलितप्रभेणास्खलितकान्तिना । अनेन विशेषणेनामन्दकान्तित्वं हि बोद्धव्यम् । अतो न पौनरुक्त्यम् । तथाभूतेन ज्ञानप्रदीपेनात्मज्ञानरुपदीपकेन भूतं व्यतीतं भवद्वर्तमानं भावि भविष्यच्च यत्किंचित्तत्सर्वमेव तव गोचरं ज्ञानविषयम् । अस्तीत्यर्थः । आत्मज्ञानेन त्रैकालिकस्यापि कर्मादिकस्य ज्ञातासीति भावः ॥ 12.44 ॥

विश्वास-प्रस्तुतिः

दुर्वार(1)दोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण ।
(2)तदीशतामाप्तवता निरस्ता वयं दिवोऽमी (3)वद किं न वेत्सि ॥ 12.45 ॥
{1.दोर्दुर्मद.2.तदीश नन्वात्मपदान्निरस्ताः,तदीश वामाप्लवता निरस्ताः.3.वत.}

मूलम्

दुर्वार(1)दोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण ।
(2)तदीशतामाप्तवता निरस्ता वयं दिवोऽमी (3)वद किं न वेत्सि ॥ 12.45 ॥
{1.दोर्दुर्मद.2.तदीश नन्वात्मपदान्निरस्ताः,तदीश वामाप्लवता निरस्ताः.3.वत.}

अन्वयः

(हे भगवन् !) दुर्वारदोरुद्यमदुःसहेन (अत एव) अमरघस्मरेण ईशताम् आप्तवता तारकेण यत् अमी वयं दिवो निरस्ताः (तत्) न वेत्सि किम् ? वद ।

सीतारामः

दुर्वारेति । हे भगवन् दुर्वारो दुर्धर्षणीयो यो दोरुद्यमो भुजदण्डबलं तेन कारणेन दुःसहेनात एवामराणां देवानां घस्मरेण वधकेन । ‘घस्मरो वधकेऽपि च’ इति मेदिनी । ‘सृघस्यदः क्मरच’ इति क्मरच्प्रत्ययः ईशतां स्वर्गाधीशतामाप्तवता तारकेणामी वयं दिवः स्वर्गसकाशाद्यन्निरस्ता निष्क्रामितास्तन्न वेत्सि किम् ? अपितु वेत्स्येव । वद । वाक्यार्थः कर्म ॥ 12.45 ॥

विश्वास-प्रस्तुतिः

विधेरमोघं स(4) वरप्रसादमासाद्य सद्यस्त्रिजगज्जिगीषुः ।
(5)सुरानशेषानहकप्रमुख्यान्दोर्दण्डचण्डो मनुते तृणाय ॥ 12.46 ॥
{4.सुवर.5.अस्मत्प्रमुख्यानमरावशेषान्,सुरान्स जम्भारिमुखान्प्रचण्डं,सुरान्स जम्भारिसुरारिमुख्यान्.}

(हे भगवन् !) स विधेः अमोधं वरप्रसादम् आसाद्य सद्यो दोर्दण्डचण्डः त्रिजगत् जिगीषुः (सन्) अहकप्रमुख्यान् अशेषान् सुरान् तृणाय मनुते ।

सीतारामः

विधेरिति । हे भगवन्, स तारको विधेर्ब्रह्मणः सकाशादमोघं सफलं वरप्रसादमभिलाषानुग्रहम् । ‘वरोऽभिलषिते वरे’ इति मेदिनी । आसाद्य प्राप्य सद्यः सहसैव दोर्दण्डाभ्यां भुजदण्डाभ्यां चण्डः प्रचण्डः । दुर्जय इति यावत् । अत एव त्रिजगतो जिगीषुर्जेता सन् । अहकप्रमुख्यानहं प्रमुखो ज्योष्ठो येषु तथाभूतानशेषान्सर्वान्सुरान् । तृणाय तृणं मनुते मन्यते । ‘मन्यकर्मण्यनादरे विभाषाप्राणिषु’ इति चतुर्थी सविकरणग्रहणात्तनोतियोगे चिन्त्या ॥ 12.46 ॥

विश्वास-प्रस्तुतिः

स्तुत्या पुरास्माभिरुपाभिरुपासितेन पितामहेनेति निरुपितं नः ।
सेनापतिः संयति दैत्यमेतं(1) (2)पुरः स्मरारातिसुतो निहन्ति ॥ 12.47 ॥
{1.एनम्.2.पुरास्मरारातिसुतः,पुरास्मरारेस्तनयः.}

मूलम्

स्तुत्या पुरास्माभिरुपाभिरुपासितेन पितामहेनेति निरुपितं नः ।
सेनापतिः संयति दैत्यमेतं(1) (2)पुरः स्मरारातिसुतो निहन्ति ॥ 12.47 ॥
{1.एनम्.2.पुरास्मरारातिसुतः,पुरास्मरारेस्तनयः.}

अन्वयः

(हे भगवन् !) पुरा अस्माभिः स्तुत्या उपासितेन पितामहेन नः (हे देवाः !) संयति स्मराऽरातिसुतः सेनापतिः एतं दैत्यं पुरो निहन्ति इति निरुपितम् ।

सीतारामः

स्तुत्येति । हे भगवन्, पुरा पूर्वमस्माभिः स्तुत्या श्लाघयोपासितेनानुकूलितेन पितामहेन ब्रह्मणा नोऽस्मान् हे देवाः, संयति संगरे स्मरारातिसुतः शांकरिः सेनापतिः सेनानीः सन्नेतं दैत्यं पुरोऽग्रे निहन्ति । निहनिष्यतीत्यर्थः । ‘यावत्पुरानिपातयोर्लट्’ इति निरुपितं कथितम् ॥ 12.47 ॥

विश्वास-प्रस्तुतिः

(3)अहो ततोऽनन्तरमद्ययाव (4)त्सुदुःसहां तस्य पराभवार्तिम् ।
विषेहिरे (5)हन्त हृदन्तशल्यमाज्ञानिवेशं(6) त्रिदिवौकसौऽमी ॥ 12.48 ॥
{3.अकामतः,अतस्ततः.4.सुराअदान्तस्य पराभवार्त्तिम्, सुदुःसहं तस्य पराभवं तम्,5.तस्य.6.नियोगम्.}

अहो ! ततः अनन्तरम् अद्य यावत् अमी त्रिदिवौकसः सुदुःसहां तस्य पराभवार्तिं हृदन्तशल्यम् आज्ञानिवेशं विषेहरे । हन्त !

सीतारामः

अहो इति । अहो भगवन्, ततः पितामहनिरुपणादनन्तरमद्यपर्यन्तममी त्रिदिवौकसो देवा सुदुःसहाम् । ‘ईषद्दुःसुषु-’ इति खल् । तस्य तत्कर्तृकां पराभवेन निमित्तेनार्तिं पोडां हृदन्ते मनोमध्ये शल्यं तद्वद्दुःसहमाज्ञाया अनुशासनस्य ‘भारं वहत’ इत्यादिकस्य निवेशं स्थापनं विषेहिरेऽसहन्त । हन्तेति दुःखे ॥ 12.48 ॥

विश्वास-प्रस्तुतिः

निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् ।
(1)सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं(2) स्वयमादिश त्वम् ॥ 12.49 ॥
{1.सन्नन्दनम्.2.एनम्.}

मूलम्

निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् ।
(1)सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं(2) स्वयमादिश त्वम् ॥ 12.49 ॥
{1.सन्नन्दनम्.2.एनम्.}

अन्वयः

(हे भगवन् !) त्वं स्वयम् (एव) निदाघधामक्लमविक्लवानाम् ओषधीनां सुनन्दनं नवीनम् अम्भोदम् इव नो नन्दनं सेनान्यम् एतम् आत्मनो नन्दनम् आदिश ।

सीतारामः

निदाघेति । हे भगवन्, त्वं स्वयमेव निदाधे ग्रीष्मे यद्धाम सौरं तेजस्तेन यः क्लमः खेदो दाहलक्षणस्तेन विक्लवानां मलिनानामोषधीनां सुतरां नन्दनमानन्दकारिणं नवीनमाषाढीयमम्भोदमिव नोऽस्माकं नन्दनमानन्दकारिणं तथा सेनान्यं सेनाधिपतिमेतं पुरोवर्तिनमात्मनो नन्दनं पुत्रम् । नन्द्यादित्वल्ल्युः । ‘युवोः’ इत्यनादेशः । आदिशानुशाधि । प्रार्थनायां लोट् । अस्मत्कार्यं कर्तुमिति शेषः ॥ 12.49 ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यलक्ष्मी(3)हृदयैकशल्यं समूलमुत्खाय महासुरं तम् ।
अस्माकमेषां पुरतो (4)भवन्स दुःखापहारं (5)युधि यो विधत्ते ॥ 12.50 ॥
{3.द्वितयैक,4.भविष्णुः.5.सुधिया विधाता.}

मूलम्

त्रैलोक्यलक्ष्मी(3)हृदयैकशल्यं समूलमुत्खाय महासुरं तम् ।
अस्माकमेषां पुरतो (4)भवन्स दुःखापहारं (5)युधि यो विधत्ते ॥ 12.50 ॥
{3.द्वितयैक,4.भविष्णुः.5.सुधिया विधाता.}

अन्वयः

यः त्रैलोक्यलक्ष्मीहृदयैकशल्यं तं महासुरं युधि एषाम् अस्माकं पुरतः भवन् (सन्) समूलम् उत्खाय दुःखाऽपहारं विधत्ते ।

सीतारामः

त्रैलोक्येति । यो भवन्नन्दनस्त्रैलोक्यस्य लक्ष्म्या हृदय एक मद्वितीयं शल्यं तद्वद्दुर्धर्ष तं महासुरं तारकं युधि संगर एषामस्माकं पुरतोऽग्रे भवन्सन् । अग्रेभूत्वेत्यर्थः । समूलं सकुटुम्बपरिवारमुत्खाय निहत्य दुःखापहारं दुःखविनाशं विधत्ते कुरुते । त्वन्नन्दनं विनास्माकं दुःखसमूहः केन निवार्यत इति भावः ॥ 12.50 ॥

विश्वास-प्रस्तुतिः

महाहवे नाथ तवास्य सूनोः (1)शस्त्रैः शितैः कृत्तशिरोधराणाम् ।
महासुराणां रमणीविलोपैर्दिशो दशैता मुखरीभवन्तु ॥ 12.51 ॥
{1.शरैः.}

मूलम्

महाहवे नाथ तवास्य सूनोः (1)शस्त्रैः शितैः कृत्तशिरोधराणाम् ।
महासुराणां रमणीविलोपैर्दिशो दशैता मुखरीभवन्तु ॥ 12.51 ॥
{1.शरैः.}

अन्वयः

हे नाथ ! महाहवे अस्य तव सूनोः शितैः शस्त्रैः कृतशिरोधराणां महासुराणां रमणीविलापैः एताः दश दिशो मुखरीभवन्तु ।

सीतारामः

महाहव इति । हे नाथ, महाहवे महति संग्रामेऽस्य पुरोवर्तिनस्तव सूनोः पुत्रस्य शितैस्तीक्ष्णैः शस्त्रैः करवालादिभिः कृत्तशिरोधराणां कर्तितग्रीवाणां महासुराणां दैत्यानां तारकपक्षाश्रयिणां रमणीनां विलापैर्वैधव्यप्रयुक्तप्रलापैरेता दश दिशो मुखरीभवन्तु वावदूका भवन्तु । ‘मुखरो वावदूकेऽपि’ इति मेदिनी । ‘खमुखकुञ्जेभ्यो रः’ इति रप्रत्ययः ॥ 12.51 ॥

विश्वास-प्रस्तुतिः

(2)महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन ।
बन्दिस्थितानां सुदृशां करोतु (3)वेणिप्रमोक्षं सुरलोक एषः ॥ 12.52 ॥
{2.क्षोणिपशूपहारे.3.वेणिप्रमोकम्.}

मूलम्

(2)महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन ।
बन्दिस्थितानां सुदृशां करोतु (3)वेणिप्रमोक्षं सुरलोक एषः ॥ 12.52 ॥
{2.क्षोणिपशूपहारे.3.वेणिप्रमोकम्.}

अन्वयः

(हे भगवन् !) तत्र असुरे तव आत्मजेन महारणक्षोणिपशूपहारीकृते (सति) एष सुरलोकः बन्दिस्थितानां सुदृशां वेणिप्रमोक्षं करोतु ।

सीतारामः

महेति । हे भगवन्, तत्रासुरे तारके तवात्मजेन पुत्रेण महती या रणक्षोणिः संग्रामभूमिस्तत्र ये पशवः क्रोष्ट्र्यादयस्तेषामुपहारीकृत उपकृते सति । ‘उपहारश्चोपदायाम्’ इति मेदिनी । एष सुरलोको बन्दिर्बन्धनागारं तत्र स्थितानां सुदृशां स्वरमणीनां वेणीप्रमोक्षं वेणीमोचनं करोतु ॥ 12.52 ॥

विश्वास-प्रस्तुतिः

इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः ।
कृतानुकम्पस्त्रिदशेषु तेषु भूयो(4)ऽपि भूताधिपतिर्बभाषे ॥ 12.53 ॥
{4.सः.}

मूलम्

इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः ।
कृतानुकम्पस्त्रिदशेषु तेषु भूयो(4)ऽपि भूताधिपतिर्बभाषे ॥ 12.53 ॥
{4.सः.}

अन्वयः

सुरेन्द्रे इत्थं वदति सति सुराऽरिदुश्चेष्टितजातरोषः स्मराऽरिः भूताऽधिपतिः त्रिदशेषु कृताऽनुकम्पः (सन्) भूयोऽपि बभाषे ।

सीतारामः

इत्थमिति । सुरेन्द्र महेन्द्रे इत्थं वदति सति सुरारिस्तारकस्तस्य दुश्चेष्टितमपराधजनकश्चेष्टाविशेषस्तेन हेतुना जातरोष उत्पन्नामर्षः । स्मरारेर्भूतानामधिपतिर्हरः । तेषु त्रिदशेषु कृतानुकम्पो विहितदयः सन् । कृपा दयानुकम्पा स्यात्’ इत्यमरः । भूयोपि पुनरपि बभाष उवाच ॥ 12.53 ॥

विश्वास-प्रस्तुतिः

अहो अहो देवगणाः (1)सुरेन्द्रमुख्याः श्रृणुध्वं वचनं (2)ममैते ।
विचेष्टते शंकर (3)एष देवः कार्याय सज्जो (4)भवतां सुताद्यैः ॥ 12.54 ॥
{1.सुरेन्द्रमुखाः.2.ममैतम्.3.एव.4.सकलं शुभाय,सकलैः शुभास्त्रैः.}

अहो अहो ! सुरेन्द्रमुख्या हे देवगणाः । एते (यूयम्) मम वचनं श्रृणुध्वम् । एष शङ्करो देवः सुताद्यैः भवतां कार्याय सज्जो विचेष्टते ।

सीतारामः

अहो इति । अहो अहो इति सम्बोधने । संभ्रमे द्विरुक्तिः । हे देवगणाः सुरेन्द्रमुख्याः पुरंदरप्रधाना एते यूयं मम वचनं श्रृणुत । तदेव सार्धद्वय्याह । एष शङ्करो देवः सुताद्यैः पुत्रभृतिभिः । पुत्रपौत्रादिभिरित्यर्थः । भवतां युष्माकं कार्याय कार्यं कर्तुमित्यर्थः । ‘क्रियार्थे-’ त्यादिना चतुर्थी । सज्जः सिद्धो विचेष्टते । वर्तत इत्यर्थः । मम पुत्रपौत्रजनकतायामपि भवत्कार्यमेव बीजमिति भावः ॥ 12.54 ॥

विश्वास-प्रस्तुतिः

पुरा मयाकारि (5)गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनापि ।
(6)तत्रैष हेतुः खलु तद्भवेन वीरेण यद्वध्यत(7) एष शत्रुः ॥ 12.55 ॥
{5.गिरीशपुत्र्याः.6.एक हेतुः.7.हन्यते.}

मूलम्

पुरा मयाकारि (5)गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनापि ।
(6)तत्रैष हेतुः खलु तद्भवेन वीरेण यद्वध्यत(7) एष शत्रुः ॥ 12.55 ॥
{5.गिरीशपुत्र्याः.6.एक हेतुः.7.हन्यते.}

अन्वयः

पुरा नियतत्मना अपि मया गिरीन्द्रपुत्र्या अयं प्रतिग्रहः अकारि, तत्र एष हेतुः खलु, यत् एषः शत्रुः तद्भवेन वीरेण वध्यते ।

सीतारामः

पुरेति । हे देवाः, परा पूर्वं नियतात्मनापि योगिनापि मया गिरीन्द्रपुत्र्या अयं प्रतिग्रह आदानम् । परिणयनमित्यर्थः । यदकारि कृतः । तत्रैष हेतुर्निमित्तम् । खलु निश्चितम् । यद्यस्मादेष शस्त्रुतारकसंज्ञकस्तद्भवेन पावतीजन्मना वीरेण वध्यते । अतस्तद्भवार्थं पार्वतीपरिग्रहः कृत इति भावः । अतोऽहं भवतामुपालम्भपात्रं नेति श्लोकतात्पर्यम् ॥ 12.55 ॥

विश्वास-प्रस्तुतिः

(1)अत्रोपपन्नं (2)तदमी नियुज्य कुमारमेनं पृतनापतित्वे ।
(3)निध्नन्तु शत्रुं सुरलोकमेष (4)भुनक्तु भूयोऽपि सुरैः (5)सहेन्द्रः ॥ 12.56 ॥
{1.अथ.2.इतः;अतः.3.निहन्तु;निहत्य.4.पुनातु,लभेत.5.सुरेन्द्रः.}

तत् अमी अत्र उपपन्नम् एनं कुमारं पृतनापतित्वे नियुज्ज शत्रुं निध्नन्तु । एष इन्द्रः सुरैः सह भूयोऽपि सुरलोकं भुनक्तु ।

सीतारामः

अत्रेति । तत्तस्मादमी भवन्तोऽत्र भवत्कार्यं उपपन्नं युक्तम् । योग्यमित्यर्थः । तथाभूतमेनं कुमारं पृतनापतित्वे सैनापत्ये नियुज्य नियुक्तं कृत्वा शत्रुं तारकं निध्नन्तु । एतत्साहाय्येन भवन्तस्तारकं मारयन्त्विति भावः । अत एष इन्द्रः सुरेन्द्रः सुरैः सह भूयोऽपि पुनरपि सुरलोकं स्वर्ग भुनक्तु पालयतु । आशिषि लोट् ॥ 12.56 ॥

विश्वास-प्रस्तुतिः

इत्युदीर्य भगवां(6)स्तमात्मजं घोरसंगरमहोत्सवोत्सुकम् ।
(7)नन्दनं हि (8)जहि (9)देवविद्विषं संयतीति निजगाद शंकरः ॥ 12.57 ॥
{6.स्वम्.7.नन्दनैहि.8.जय.9.देवविद्विषः.}

मूलम्

इत्युदीर्य भगवां(6)स्तमात्मजं घोरसंगरमहोत्सवोत्सुकम् ।
(7)नन्दनं हि (8)जहि (9)देवविद्विषं संयतीति निजगाद शंकरः ॥ 12.57 ॥
{6.स्वम्.7.नन्दनैहि.8.जय.9.देवविद्विषः.}

अन्वयः

भगवान् शङ्करः इति उदीर्य घोरसङ्गरमहोत्सवोत्सुकं नन्दनं तम् आत्मजं (हे पुत्र !) ‘सयंति देवविद्विषं जहि’ इति निजगाद हि ॥

सीतारामः

इतीति । शङ्करः शङ्करसंज्ञको भगवानिति पूर्वोक्तमुदीर्योच्चार्य घोरो भीमः ‘घोरं भीमं भयानकम्’ इत्यमरः । यः सङ्गरः संग्रामः स एव महेत्सवो महानानन्दस्तत्रोत्सुकमुत्कण्ठितमत एव नन्दनमानन्दकरम् । ‘नन्दिग्रही-’ ति ल्युः । तमात्मजं कुमारम् ‘हे पुत्र, संयति संग्रामे देवानामिन्द्रादीनां विद्विषं विशेषेण द्वेष्टारं तारकं जहि’ । ‘हन्तेर्जः’ इति हनो जादेशः । इति निजगादोक्तवान्हि । रथोद्धतावृत्तम् ॥ 12.57 ॥

विश्वास-प्रस्तुतिः

शासनं पशुपतेः (1)स कुमार शिरसावनतेन ।
सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ 12.58 ॥
{1.तु.}

मूलम्

शासनं पशुपतेः (1)स कुमार शिरसावनतेन ।
सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ 12.58 ॥
{1.तु.}

अन्वयः

स कुमारः पशुपतेः शासनम् अवनतेन शिरसा स्चोचकार । सर्वथा एव पितृभक्तिरतानां खलु एष एव परमो धर्मः ।

सीतारामः

शासनमिति । स कुमारः कार्त्तिकेयः पशुपतेः पितुर्हरस्य शासनमाज्ञामवनतेन नम्रीकृतेन शिरसा स्वीचकार । स्वीयं चकारेत्यर्थः । ‘कृभ्वस्तियोगे’ इति च्विः । ‘अस्य च्वौ’ इतीकारः । ‘च्वौ च’ इति दीर्घः । तथाहि । सर्वथैव सर्वप्रकारेणैव पितृभक्तौ जनकश्रद्धायां रतानां सक्तानां खल्वेष एव परमो धर्मः । यदाज्ञां झटित्येव स्वीकृर्वन्तीति । स्वागता वृत्तम् ॥ 12.58 ॥

विश्वास-प्रस्तुतिः

असुरयुद्धविधौ (2)विबुधेश्वरे पसुपतौ (3)वदतीति तवात्मजम् ।
गिरीजया मुमुदे सुतविक्रमे (4)सति न नन्दति (5)का खलु वीरसूः ॥ 12.59 ॥
{2.विबुधेश्वरः.3.वदति प्रियमात्मजम्;वदति प्रियपुत्रकम्;वदति प्रियमाकम्.4.न किमु.5.संयति.}

विबुधेश्वरे पशुपतौ असुरयुद्धविद्यौ तम् आत्मजम् इति वदति (सति) गिरिजया मुमुदे (तथा हि) खलु सुतविक्रमे सिति का वीरसूः न नन्दति ?

सीतारामः

असुरेति । विबुधेश्वरे सकलदेवस्वामिति पशुपतौ हरे । असुरस्य तारकस्य यो युद्धविधिः संग्रामकरणं तत्र । उक्तमिति शेषः । तमात्मजं पुत्रमिति वदति सति । गिरिजया पार्वत्या मुमुदे प्रसेदे । तथा हि खलु निश्चये । सुतविक्रमे पुत्रपराक्रमे सति का वीरसूर्वीरप्रसूतिः स्त्री नन्दति । अपि तु सर्वापि नन्दतीत्यर्थः । पुत्रविषये पराक्रमसत्तैव परममुत्कारणं वीरसूनां भवतीति भावः । ‘द्रुतविलम्बितं वृत्तम्- द्रुतविलम्बितमाह नभौ भरौ’ । इति लक्षणात् ॥ 12.59 ॥

विश्वास-प्रस्तुतिः

सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
?र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् ।
जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभवद्-
ध्रवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥ 12.60 ॥

मूलम्

सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
?र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् ।
जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभवद्-
ध्रवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥ 12.60 ॥

अन्वयः

सुरपरिवृढः प्रौढं वौरं बलवदमराऽरातिस्त्रीणां दृगञ्जनमञ्जनम्९ जगदभयदम् उमापतेः कुमारं प्राप्य सद्यः प्रमोदपरः अभवत्- (तथा हि) अभिमते पूर्णे (सति) मुदा को वा न माद्यति ?

सीतारामः

सुरेति । सुराणां परिवृढः परिशास्तेन्द्रः । ‘वृहू हिंसायाम्’ । कर्तरि क्तः । प्रौढमतिशयं वीरं पराक्रमशालिनं बलवान्योऽमरारातिस्तारकासुरस्तस्य स्त्रीणां दृगञ्जनस्य दृष्टिकज्जलस्य भञ्जनं भञ्जकम् । कर्तरि ल्युट् । मृतभर्तृकतया कड्डलधारणस्यानुचितत्वादिति भावः । अत एव जगद्भ्याऽभयदमभयदातारमुमापतेहंरस्य कुमारं पुत्रं प्राप्य सद्यः सहसा प्रमोदे प्रकृष्टोन्मोदे । पर आसक्तोऽभवज्जातः । तथा हि । अभिमते मनोरथे । पूर्णे सति मुदा प्रोत्या निमित्तेन को वा न माद्यति । अपि तु सर्व एवोन्मतेतो भवतीत्यर्थः । अत्र सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलङ्कारः इदं हरिणीछन्दः- ‘रसयुगहयैर्न्सौ म्नौ लो गो यदा हरिणी तदा’ । इति । लक्षणात् ॥ 12.60 ॥

विश्वास-प्रस्तुतिः

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदाससकृतौ कुमारसंभवे महाकाव्ये
कुमारसैनापत्यवर्णनं नाम द्वादशः सर्गः ॥

मूलम्

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदाससकृतौ कुमारसंभवे महाकाव्ये
कुमारसैनापत्यवर्णनं नाम द्वादशः सर्गः ॥