१०

.

एकादशः सर्गः

विश्वास-प्रस्तुतिः

(1)अभ्यर्थ्यमाना विबुधैः समग्रैः प्रह्वैः सुरेन्द्रप्रमुखैरुपेत्य ।
तं पाययामास (2)सुधातिपूर्ण (3)सुरापगा (4)स्वं स्तनमाशु (5)मूर्ता ॥ 11.1 ॥
{1.अभ्यर्थमाना.2.सुधाभिपूर्णम्.3.स्वर्गापगा.4.स्वस्तनम्.5.धात्रा.}

मूलम्

(1)अभ्यर्थ्यमाना विबुधैः समग्रैः प्रह्वैः सुरेन्द्रप्रमुखैरुपेत्य ।
तं पाययामास (2)सुधातिपूर्ण (3)सुरापगा (4)स्वं स्तनमाशु (5)मूर्ता ॥ 11.1 ॥
{1.अभ्यर्थमाना.2.सुधाभिपूर्णम्.3.स्वर्गापगा.4.स्वस्तनम्.5.धात्रा.}

अन्वयः

सुरेन्द्रप्रमुखैः समग्रैः विबुधैः उपेत्य प्रह्खैः (सद्भिः) अभ्यर्थ्यमाना सुरापगा आशु मूर्ता (सती) तं सुधाऽतिपूर्ण स्वं स्तनं पाययामास ।

सीतारामः

अभ्यर्थ्योति । सुरेन्द्रप्रमुखैरिन्द्रादिभिः समग्रैः समस्तैर्विबुधैर्दैवैरुपेत्य समीपमागत्य प्रह्खैर्नम्रैः सद्भिरभ्यर्थ्यमाना याच्यमाना सुरापगा मन्दाकिनी । आशु शीघ्रं मूर्ता मूर्तिमती सती । तं कुमारं सुधया दुग्धामृतेनातिपूर्णं बहुभृतं स्वमात्मीयं स्तनं पाययामास पानं कारितवती । सर्गेऽस्मिन्वृत्तमुपजातिः ॥ 11.1 ॥

विश्वास-प्रस्तुतिः

पिबन् स तस्याः स्तनयोः सुधौघं क्षणं क्षणं साधु समेधमानः ।
प्रापाकृतिं कामपि (6)षङ्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः ॥ 11.2 ॥
{6.एष.}

मूलम्

पिबन् स तस्याः स्तनयोः सुधौघं क्षणं क्षणं साधु समेधमानः ।
प्रापाकृतिं कामपि (6)षङ्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः ॥ 11.2 ॥
{6.एष.}

अन्वयः

स तस्याः स्तनयोः सुधौघं पिबन् क्षणं क्षणं साधु समेधमानः षङ्भिः कृत्तिकाभिः एत्य निषेव्यमाणश्च (सन्) काम् अपि आकृतिं प्राप खलु ।

सीतारामः

पिबन्निति । स कुमारस्तस्या मन्दाकिन्याः स्तनयोः सम्बन्धिनं सुधौधं दुग्धामृतसमूहं पिबन् अत एव क्षणंक्षणं प्रतिक्षणं साधु यथा स्यात्तथा समेधमानः सम्यग्वर्धमानः षङ्भिः कृत्तिकाभिरेत्य निषेव्यमाणः श्रियमाणश्च सन् । कामपि लोकोत्तरमाकृतिं प्राप्तवान्, खलु वाक्यालङ्कारे ‘खलु स्याद्वाक्यभूषायाम्’ इति विश्वः ॥ 11.2 ॥

विश्वास-प्रस्तुतिः

भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम् ।
तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः ॥ 11.3 ॥

मूलम्

भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम् ।
तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः ॥ 11.3 ॥

अन्वयः

आनन्दबाष्पाकुललोचनानां भागीरथीपावककृत्तिकानां दिव्यं तं नन्दनम् उपात्तुं परस्परं प्रौढतरो विवाद आसीत् ।

सीतारामः

भागीरथीति । आनन्दबाष्पैराकुललोचनानां व्याप्तनेत्राणाम् । पावकश्च कृत्तिकाश्च पावककृत्तिकाः । भाघीरथ्या गङ्गया सहिता याः पावककृत्तिकास्तासां सम्बन्धि दिव्यं लोकोत्तरस्वरूपं तं नन्दनं पुत्रमुपात्तुं ग्रहीतुं परस्परमन्योन्यं प्रौढतरोऽतिशयितो विवादः कलह आसीत् । ममायं ममायमिति प्रवादपूर्वकः कलिर्बभूवेत्यर्थः ॥ 11.3 ॥

विश्वास-प्रस्तुतिः

अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः ।
नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र ॥ 11.4 ॥

मूलम्

अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः ।
नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र ॥ 11.4 ॥

अन्वयः

अत्र अन्तरे शिवः पर्वतराजपुत्र्या समं स्वैरविहारहेतोः मनोऽतिवेगेन विमानेन नभो विगाहमानः (सन्) तत्र जगाम ।

सीतारामः

अत्रान्तर इति । अत्रान्तरे कलहावसरे शिवः पर्वतराजपुत्र्या पार्वत्या समं सह स्वैरविहारो यथेच्छविहारस्तस्माद्धेतोः कारणान्मनोतिवेगेन चेतसोऽप्यतिशयजवेन विमानेन नभोऽन्तरिक्षं विगाहमानोऽवलोडयंस्तत्र कलहस्थाने जगाम प्राप ॥ 11.4 ॥

विश्वास-प्रस्तुतिः

(1)निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ ।
अपश्यतां (2)तं गिरिजागिरीशौ षडाननं (3)षड्दिनजातमात्रम् ॥ 11.5 ॥
{1.निसर्गवात्सल्यरसाद्विवृद्धचेतःप्रमौदौ;निसर्गवात्सल्यविवृद्धचेतः पृथुप्रमोदौ.2.तौ.3.तद्दिन.}

मूलम्

(1)निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ ।
अपश्यतां (2)तं गिरिजागिरीशौ षडाननं (3)षड्दिनजातमात्रम् ॥ 11.5 ॥
{1.निसर्गवात्सल्यरसाद्विवृद्धचेतःप्रमौदौ;निसर्गवात्सल्यविवृद्धचेतः पृथुप्रमोदौ.2.तौ.3.तद्दिन.}

अन्वयः

गिरिजागिरीशौ विसर्गवात्सल्यवशात् विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ षड्दिनजातमात्रं षडाननं तम् अपश्यताम् ।

सीतारामः

निसर्गेति । गिरिजागिरीशौ निसर्गेण स्वभावेन यद्वात्सल्यं दयावत्त्वं तस्य वशाद्धेतोर्विवृद्धः प्रवृद्धश्चेतसः प्रमोदो हर्षो ययोस्तथाभूतौ । अत एव गलदश्रुणी प्रवहद्वाष्पे नेत्रे ययोस्तथाभूतौ सन्तौ । षङ्दिनादारभ्येत्यर्थः । जातानि व्यतीतानि यस्य स षड्दिनजातः स एव षड्दिनजातमात्रस्तं षडाननं षण्मुखं तं कुमारपश्यतां दृष्टवन्तौ ॥ 11.5 ॥

विश्वास-प्रस्तुतिः

अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ?
कस्याथवा धन्यतमस्य पुंसो मातास्य का भाग्यवतीषु धुर्या ॥ 11.6 ॥

मूलम्

अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ?
कस्याथवा धन्यतमस्य पुंसो मातास्य का भाग्यवतीषु धुर्या ॥ 11.6 ॥

अन्वयः

अथ देवी- ‘पुरस्तात् अयं कः ? अथ वा कस्य धन्यतमस्य पुंसः दिव्यावपुः शिशुः ? अस्य माता का (या) भाग्यवतीषु धुर्या ?’ इति शशिखण्डमौलिम् आह ।

सीतारामः

अथेति । अथ दर्शनानन्तरं देवी भवानी । पुरस्तदयं कः ? अथवा कस्य धन्यतमस्य पुंसो दिव्यवपुरादित्यसदृशविग्रहः शिशुबलिः । पुत्र इति यावत् । अस्य शिशोर्माता जननी का ? या भाग्यवतीषु धुर्याग्रगण्या । ‘धुरो यढ्ढकौ’ इति यत् । एतन्मातृत्वादिति भावः । इत्येवं प्रश्नभूतं वचः शशिखण्डमौलिं हरमाहोक्तवती । आहेति विभक्तिप्रतिरुपकमव्ययम् । तथा चोक्तम्- ‘अव्ययानामनन्तत्वाद् गणनाय न शक्यते । महाकविप्रयोगेषु यदि सिद्धात्परं च तत् ॥’ इति ॥ 11.6 ॥

विश्वास-प्रस्तुतिः

स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः ।
पुत्रो ममायं न तवायमित्थं (1)मिथ्येति (2)वैलक्ष्यमुदाहरन्ति ॥ 11.7 ॥
{1.मिश्रः.2.उदाहरन्ते.}

मूलम्

स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः ।
पुत्रो ममायं न तवायमित्थं (1)मिथ्येति (2)वैलक्ष्यमुदाहरन्ति ॥ 11.7 ॥
{1.मिश्रः.2.उदाहरन्ते.}

अन्वयः

असौ स्वर्गापगा, अयम् अनलः, एताः षट् कृत्तिकाः सलहायमानाः (सत्यः) अयं पुत्रो मम, अयं तव न, इत्थं मिथ्या, इति वैलक्ष्यं किम् उदाहरन्ति ।

सीतारामः

स्वर्गापगेति । किं चि । असौ स्वर्गापगा गङ्गा । अयमनलोऽग्निः । एताः षट् कृत्तिकाः कलहायमानाः कलहं कुर्वाणाः सत्यः । ‘शब्दवैरकलहे-’ त्यादिना करोत्यर्थे क्यङ् । अयं पुत्रो मम मत्सम्बन्धी इति गङ्गावाक्यम् । अयं तव न, किन्तु मम इत्यग्निवाक्यम् । इत्थं मिथ्योभयोर्युवयोर्मध्ये न कस्यापि किंत्वस्माकमिति सत्यम्, इति कृत्तिकावाक्यम् । इति परस्परं वैलक्षण्यं वैलक्ष्यं यथा तथा किं किमर्थमुदाहरन्ति विवदन्ते ॥ 11.7 ॥

विश्वास-प्रस्तुतिः

एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् ।
अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु ॥ 11.8 ॥

मूलम्

एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् ।
अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु ॥ 11.8 ॥

अन्वयः

‘हे ईश ! एतेषु कस्य इदम् अपत्यम् अथिलत्रिलोकीतिलकायमानम् अथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेधु अन्यस्य कस्य अपि (वद) ।’

सीतारामः

एतेष्विति । हे ईशा ! एतेषु स्वर्गापगादिषु मध्ये कस्येदमपर्त्य पुत्रः । किंभूतम् । अखिला या त्रिलोकी तत्र तिलकायमानं तिलक इवाचरत् । ‘कर्तुः क्यङ् सलोपश्च’ इत्याचारार्थे क्यङ् । तत आत्मनेपदित्वाच्छानच् । अथाथवा । सिद्धा देवविशेषाः । उरगाः सर्पाः । राक्षसा निशाचराः । देवदेत्यगन्धर्वसहिता ये सिद्धोरगराक्षसास्तेषु मध्येऽन्यतमस्य कस्यापीति वदेत्यर्थः ॥ 11.8 ॥

विश्वास-प्रस्तुतिः

श्रुत्वेति (1)वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः ।
सान्द्रप्रमोदोदयसैख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः ॥ 11.9 ॥
{1.वाचम्.}

मूलम्

श्रुत्वेति (1)वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः ।
सान्द्रप्रमोदोदयसैख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः ॥ 11.9 ॥
{1.वाचम्.}

अन्वयः

चन्द्रचूडः कौतूहलिन्याः हृदयप्रियायाः इति वाक्यं श्रुत्वा विमलस्मितश्रीः सान्द्रप्रमोदोदयसौख्यभूतं वचः अवोचत ।

सीतारामः

श्रुत्वेतीति । चन्द्रचूडो हरः कौतूहलिन्याः श्रवणे कौतुकवत्या हृदयप्रियायाः पार्वत्या इति पूर्वोक्तं वाक्यं वचः । ‘वच परिभाषणे’ ‘ऋहलोर्ण्यत्’ इति ण्यत् । श्रुत्वा विमला स्मितश्रीर्यस्य । किञ्चिद्विहस्येत्यर्थः । सान्द्रः सघनः बहुरिति यावत् । यः प्रमोदो हर्षः । ‘प्रमोदामोदसंमदाः’ इत्यमरः । तस्योदय उत्पतिस्तेन यत्सौख्यं तस्य हेतुभूतम् । तज्जनकमित्यर्थः । वचो वचनमवोचतोक्तवान् ॥ 11.9 ॥

विश्वास-प्रस्तुतिः

(1)जगत्त्रयीनन्दन एष वीरः प्रवीर(2)मातुस्तव नन्दनोऽस्ति ।
कल्याणि ! कल्याणकरः सुराणां (3)त्वत्तोऽपरस्याः(4) कथमेष सर्गः ॥ 11.10 ॥
{1.जगत्त्रयानन्दन.2.मातः.3.अयम्.4.परस्याः.}

मूलम्

(1)जगत्त्रयीनन्दन एष वीरः प्रवीर(2)मातुस्तव नन्दनोऽस्ति ।
कल्याणि ! कल्याणकरः सुराणां (3)त्वत्तोऽपरस्याः(4) कथमेष सर्गः ॥ 11.10 ॥
{1.जगत्त्रयानन्दन.2.मातः.3.अयम्.4.परस्याः.}

अन्वयः

‘हे कल्याणि ! जगत्रयीनन्दनो वीर एष प्रवीरमातुः तव नन्दनः अस्ति । सुराणां कल्याणकरः एष सर्गः त्वतः अपरस्याः कथम् (स्यात्) ?’

सीतारामः

जगत्त्रयीति । हे प्रिये ! जगत्त्रय्या नन्दन आनन्दकारकः । नन्द्यादित्वात् ‘नन्दिग्रही -’ ति ल्युः । वीरः पराक्रम्येष पुरोवर्ती शिशुः प्रवीरमातुः प्रकृष्टवीरजनन्यास्तव नन्दनः पुत्रोऽस्ति । ममैवायं नन्दन इत्यत्र किं मानमित्याशङ्क्याह-हे कल्याणि, सुराणामिन्द्रादीनां कल्याणकरः, शर्मकार्येषु पुरोवर्ती सर्गः सृष्टिः । पुत्र इति यावत् । त्वत्तोऽपरस्यास्त्वदन्यस्याः स्त्रियाः कथं केन प्रकारेण स्यात् ? तारकविनाशजनितकल्याणकरत्वे त्वज्जनितस्यैव शक्तिः । अतस्तवैवायं पुत्र इति भावः ॥ 11.10 ॥

विश्वास-प्रस्तुतिः

देवि त्वमेवास्य निदानमास्से(5) (6)सर्गे जगन्मङ्गलगानहेतोः ।
सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् ॥ 11.11 ॥
{5.आर्ये;आद्ये.6.स्वर्गे.}

मूलम्

देवि त्वमेवास्य निदानमास्से(5) (6)सर्गे जगन्मङ्गलगानहेतोः ।
सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् ॥ 11.11 ॥
{5.आर्ये;आद्ये.6.स्वर्गे.}

अन्वयः

हे देवि ! जगन्मङ्गलगानहेतोः अस्य सर्गे त्वम् एव निदानम् आस्से । त्वम् इति सत्यं विचारयस्व- ‘रत्नं रत्नाकरे एव युज्यते’ ।

सीतारामः

देवीति । हे देवि प्रये ! जगतां मङ्गलानि मङ्गलकर्माणि गानानि । गीतानि । मङ्गलप्रबन्धरुपाणीति यावत् । तेषां हेतोः कारणस्यास्य शिशोः सर्गे सृष्ठौ । उत्पत्ताविति यावत् । त्वमेव निदानमादिकारणमास्से उपविशसि । असीत्यर्थः । ‘निदानं त्वादिकारणम्’ इत्यमरः । ‘आस उपवेशने’, लटो मध्यमपुरुषैकवचनम् । नन्वहमेव कारणमित्यत्र किं मानमित्यत्र दृष्टान्तेन दर्शयति-त्वमेवेति सत्यम् । विचारयस्व । किमिति तत् । रत्नं रत्नाकरे समुद्र एव । अथ च रत्नखनावेव युज्यते युक्तं भवति । ‘खनिः स्त्रियामाकरः स्यात्’ इति, ‘रत्नाकरो जलनिधिः’ इति चामरः ॥ 11.11 ॥

अथ युग्मेनाह–
(1)अतः श्रृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहितं मया तत् ।
संक्रान्तमन्त(2) सित्रिदशापगायां ततोऽवगाहे(3) सति कृत्तिकासु ॥ 11.12 ॥
गर्भत्वमाप्तं (4)तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि ।
बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य ॥ 11.13 ॥
{1.अत्र.2.त्रिदिवापगायाम्.3.विगाहे.4.यत्.}
अथ युग्मेनाह-

अन्वयः

(हे प्रिये !) अत अवहितेन वृत्तं श्रृणुष्व- (तथाहि)-मया तत् बीजम् अग्नौ निहितं, तत् त्रिदशापगायाम्, अन्तः संक्रान्तम्, अवगाहे (सति) ततः कृत्तिकासु, गर्भत्वम् आप्तम् । ताथिः अमोघं तत् एतत् अधिशरस्तम्बं न्यधायि । तत्र अशेषचराऽचरस्य अभूतपूर्वो महोत्सवः अयं बभूव ।

सीतारामः

अत इति । गर्भत्वमिति । हे प्रिये, अतः कारणात् । अवहितेनावधानेन । सावधानतयेति यावत् । भावे निष्ठा । वृत्तं वृत्तान्तं शृणुष्व शृणु । तथाहि । मया यद् बीजं वीर्यमग्नौ निहितं स्थापितं तद्विजं त्रिदशापगायां गङ्गायामन्तर्मध्ये संक्रान्तं लग्नम् । अवगाहे स्नाने सति ततो गङ्गातः कृत्तिकासु च संक्रान्तं सद् गर्भत्वमाप्तं गर्भीभूतम् । अथ च ताभिः कृत्तिकाभिरमोघं तदेतच्छरस्तम्बमधि अधिशरस्तम्बम् । अधेर्व्यत्ययः प्रामादिक एव । न्यधायि निहितम् । धाञः कर्मणि लुङ् । तत्र शरस्तम्बेऽशेषचराचरस्य समस्तस्थावरजङ्गमस्य जगतोऽभूतपूर्वः पूर्वं भूतो भूतपूर्वस्तादृङ् न भवतीत्यभूतपूर्वो महोत्सवो महानुत्सवोऽयं शिशुर्बभूव । जन्यजनकयोरभेदविक्षयाऽऽयुर्घृतमितिवन्महोत्सवोऽयमिति प्रयोगः ॥ 11.12 - 11.13 ॥

विश्वास-प्रस्तुतिः

अशेषविश्वप्रियदर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम् ।
अलं विलम्ब्याचलराजपुत्रि ! (1)स्वपुत्रमुत्सङ्गतले(2) निधेहि(3) ॥ 11.14 ॥
{1.सुपूर्णम्.2.तलम्.3.विदेहि.}

मूलम्

अशेषविश्वप्रियदर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम् ।
अलं विलम्ब्याचलराजपुत्रि ! (1)स्वपुत्रमुत्सङ्गतले(2) निधेहि(3) ॥ 11.14 ॥
{1.सुपूर्णम्.2.तलम्.3.विदेहि.}

अन्वयः

हे अचलराजपुत्रि ! अशेषविश्वप्रियदर्शनेन एतेन त्वं सुपुत्रिणीनां धुर्या, विलम्ब अलम् । स्वपुत्रम् उत्सङ्गतले निधेहि ।

सीतारामः

अशेषेति । हे प्रिये ! अशेषविश्वस्य समस्तजातः प्रियं प्रीतिकारकम् । ‘इगुपधे-‘त्यादिना कः । तथाभूतं दर्शनं यस्य तथोक्तेनैतेन । अत्रान्वादेश एतच्छब्दस्य नित्यमेनादेशनियमात्कथमेनाभावः साधुः ? सत्यम् । अत्रान्वादेश ए नास्ति । तत्र किंञ्चिद्विधानोद्युक्त्याश्रयीभूतस्य पुनरुपादानाश्रयीभूतस्य च भेदाभाववत्त्वेन विवक्षितत्वात् । प्रकृते तु तदन्यथात्वादन्वादेशाभावेनैनादेशाभावसिद्धिरित्यलम् । त्व सुपुत्रिणीनां शोभनपुत्रवतीनां धुर्याग्रगण्या । श्रष्ठतमेति यावत् । असीति शेषः । हे अचलराजपुत्रि, विलम्ब्य विलम्बं कृत्वाऽलम् । विलम्बो न कर्तव्य इत्यर्थः । किन्तु स्वपुत्रमात्मतनूजमुत्सङ्गतलेऽङ्कतले निधेहि स्थापय ॥ 11.14 ॥

अथ युग्मेनाह-
(4)अथेति वादिन्यमृतांशुमौलौ शैलेन्द्रपुत्री रभसेन सद्यः ।
सान्द्रप्रमोदेन सुपीनगात्री धात्री समस्तस्य चराचरस्य ॥ 11.15 ॥
किरीटबद्धाञ्जलिभिर्नभःस्थैर्नमस्कृता सत्वर(5)नाकिलोकैः ।
विमानतोऽवातरदात्मजं तं ग्रहीतुमुत्कण्ठितमानसाभूत् ॥ 11.16 ॥
{4.तथा.5.नाक.}
अथ युग्नेनाह–

अन्वयः

अथ अमृतांऽशुमौलौ इति वादिनि (सति) समस्तस्य चराऽचरस्य धात्री सान्द्रप्रमोदेन सुपोनगात्री शैलेन्द्रपुत्री नभः स्थैः किरीटबद्धाऽञ्जलिभिः समस्तनाकिलोकैः नमस्कृता सद्यः रभसेन विमानतः अवातरत्, तम् आत्मजं ग्रहीतुम् उत्कण्ठितमानसा च अभूत् ।

सीतारामः

अथेति । किरीटेति । अथामृतांशुश्चन्द्रो मौलौ यस्य तथाभूते हरे इति पूर्वोक्तप्रकारेण । वादिनि भाषमाणे सति । समस्तस्य चराचरस्य जगतो धात्री परिपोषिका । ‘ऋन्नेभ्यः-’ इति ङीप् । तथा सान्द्रः सघनो यः प्रमोद आनन्दस्तेन सुतरां पीनं प्रफुल्लत्वात्पुष्टं गात्रं यस्यास्तथाभूता शैलेन्द्रस्य हिमालयस्य पुत्री कन्या पार्वती, नभःस्थैः । तत्काल आकाशमाश्रयद्भित्यर्थः । तथा सत्वरैश्च नाकिलोकैरिन्द्रादिलोकैः किरीटेषु बद्धा अञ्‍लयो यैस्तथाभूतैः सद्भिर्नमस्कृता वन्दिता सती सद्यो रभसेन वेगेन विमानतो विमानात् । पञ्चम्यास्तसिल् । अवातरदुत्ततार । अथ च तमात्मजं कुमारं ग्रहीतुत्कण्ठितमानसा चाभूत् । अहमेनं गृह्गामीति मनस्यैच्छदित्यर्थः ॥ 11.15 - 11.16 ॥

विश्वास-प्रस्तुतिः

स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि (3)भूयः ।
हित्वोत्सुका(4) तं सुतमाससाद पुत्रोत्सवं माद्यति का(5) न हर्षात् ॥ 11.17 ॥
{3.भूम्रा;मूर्ध्वा.4.मुकान्तम्.5.कः.}

मूलम्

स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि (3)भूयः ।
हित्वोत्सुका(4) तं सुतमाससाद पुत्रोत्सवं माद्यति का(5) न हर्षात् ॥ 11.17 ॥
{3.भूम्रा;मूर्ध्वा.4.मुकान्तम्.5.कः.}

अन्वयः

पुत्रोत्सवे उत्सुका (पार्वती) कृताऽञ्जलीन् भूय आनमतोऽपि स्वर्गापगापावक कृत्तिकादीन् हित्वा तं सुतम् आससाद, हर्षात् का न माद्यति ?

सीतारामः

स्वर्गेति । पुत्रोत्सव उत्सुकोत्कण्ठिता पार्वती । स्वर्गापगा गङ्गा तया सहिता याः पावककृत्तिकास्ता आदयो येषां तान् । अत्रादिशब्देनेन्द्रादयो ग्राह्याः । स्वर्गापगा च पावकश्च कृत्तिकाश्चेति द्वन्द्वसमासेऽल्पाच्तरत्वात्पावकशब्दस्य पूर्वनिपातः प्रसज्येतेति पूर्वरीतिरादृता । तान् कृताञ्जलीनत एव भूयोऽतिशयमानमतो नमस्कुर्वतोऽपि हित्वा परित्यज्य तं सुतमाससाद प्राप । तथाहि । हर्षादानन्दवशात्का न माद्यत्युन्मत्ता न भवति । पुत्रोत्सवेन सर्वासामुन्मत्तत्वं भवतीति भावः ॥ 11.17 ॥

विश्वास-प्रस्तुतिः

प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
गपरिस्पृशन्ती (1)करकुङ्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ 11.18 ॥
{1.करकुड्मलाभ्याम्.}

मूलम्

प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
गपरिस्पृशन्ती (1)करकुङ्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ 11.18 ॥
{1.करकुड्मलाभ्याम्.}

अन्वयः

सा अग्रतः अपि तं क्षणं न ददर्श, यत् प्रमोदबाष्पाकुलोचना (सती) करकुङ्मलेन परिस्पृशन्ती किमपि अपूर्वं सुखान्तरं प्राप ।

सीतारामः

प्रमोदेति । सा पार्वती । अग्रतः स्थितमपि तं पुत्रं क्षणं न ददर्श । यतः प्रमोदबाष्पैरानन्दाश्रुभिराकुले व्याप्तत्वाद्दर्शनाशक्ते लोचने यस्याः । आनन्दाश्रुभिरन्धीभूतेत्यर्थः । अथ च कर एव कुङ्मलं कलिका तेन परिस्पृशन्ती सती किमपि लोकोत्तरमपूर्वम् । अभूतपूर्वमित्यर्थः । शाकपार्थिवादीनामुत्तरपदलोपः । सुखान्तरम् । अन्यत्सुखमित्यर्थः । अन्तरशब्दोऽत्रोपमानाभावद्योतकः । प्राप प्राप्तवती ॥ 11.18 ॥

विश्वास-प्रस्तुतिः

(2)सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बाष्पतरङ्गिताकयाः ।
विवृद्धवात्सल्यरसोत्तराया देव्या (3)दृशोर्गोचरतां जगाम ॥ 11.19 ॥
{2.सविस्मय.3.दृशः.}

मूलम्

(2)सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बाष्पतरङ्गिताकयाः ।
विवृद्धवात्सल्यरसोत्तराया देव्या (3)दृशोर्गोचरतां जगाम ॥ 11.19 ॥
{2.सविस्मय.3.दृशः.}

अन्वयः

शिशुः सुविस्मयानन्दविकस्वरायाः गलद्वाष्पतरङ्गितायाः बिवृद्धवात्सल्यरसोत्तरायाः देव्याः गोचरतां जगाम ।

सीतारामः

सुविस्मयेति । शिशुः कर्ता । सुतरां यौ विस्मयानन्दावाश्चर्यहर्षौ ताभ्यां विकस्वरायाः प्रफुल्लीभूतायाः तथा गलद्वाष्पैस्तरङ्गितायाः संजाततरङ्गायाः । तारकादित्वादितच् । वपुषि गलद्भिर्बाष्पजलैरुद्भूतप्रवाहकल्लोलकलिताया इत्यर्थः । तथा विवृद्धं यद्वात्सल्यं दयावत्त्वम् । पुत्रत्वादिति भावः । तत्र यो रसः प्रीतिः स उत्तरः प्रधानं यस्यास्तथाभूताया देव्याः पार्वत्याः संबन्धिनोर्द्दशोर्विलोचनयोर्गोचरतां विषयतां जगाम प्राप । बाष्पनिर्मुक्ताभ्यां लोचनाभ्यां देवी तमपश्यदित्यर्थः ॥ 11.19 ॥

विश्वास-प्रस्तुतिः

तमीक्षणमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनेमेषमैच्छत् ।
सा नन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यति कस्य चेतः ? ॥ 11.20 ॥

मूलम्

तमीक्षणमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनेमेषमैच्छत् ।
सा नन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यति कस्य चेतः ? ॥ 11.20 ॥

अन्वयः

तं क्षणम् ईक्षमाणा सा विनिमेषम् ईक्षणानां सहस्रम् आप्तुम् ऐच्छत् । नन्दनालोकनमङ्गलेषु क्षणं क्षणं कस्य चेतः तृप्यति ?

सीतारामः

तमिति । तं बालं क्षणमीक्षमाणावलोकमाना सा देवी विनिमेषं निगंतनिमेषमीक्षणानां नेत्राणां सहस्रमाप्तुं मम सहस्रं नेत्राणि भवन्त्वित्यैच्छदियेष । द्वाभ्यां विलोचनाभ्यामाकण्ठदर्शनजननाभावादिति भावः । तथाहि । नन्दनस्यालोकनान्येवमङ्गलानि तेषु विषये क्षणं क्षणम् प्रतिक्षणमित्यर्थः । ‘नित्यवीप्सयोः’ इति वीप्सायां द्विर्भावः । कस्य चेतस्तृप्यति तृप्तिं प्राप्नोति ? अपि तु न कस्यापीत्यर्थः ॥ 11.20 ॥

विश्वास-प्रस्तुतिः

विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरीरुहाभ्याम् ।
(1)नवोदयं पार्वणचन्द्रचारुं गौरी (2)स्वमुत्सङ्गतलं निनाय ॥ 11.21 ॥
{1.नवोदयात्,महोदयात्.2.तम्.}

मूलम्

विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरीरुहाभ्याम् ।
(1)नवोदयं पार्वणचन्द्रचारुं गौरी (2)स्वमुत्सङ्गतलं निनाय ॥ 11.21 ॥
{1.नवोदयात्,महोदयात्.2.तम्.}

अन्वयः

गौरी नवोदयं पार्वणचन्द्रचारुं तं विनम्रदेवाऽसुरपृष्ठगाभ्यां पाणिसरोरुहाभ्याम् आदाय स्वम् उत्सङ्गतलं निनाय ।

सीतारामः

विनम्रेति । गौरी पार्वती । ‘षिद्गौरादिभ्यश्च’ इति ङीप् । नवोदयं नूतनोद्भवम् । तत्कालजातमित्यर्थः । अत एव पार्वणः पर्वणि भवः । ‘तत्र भवः’ इत्यण् । स चासौ चन्द्रश्च तद्वच्चारुं मनोहरम् । चन्द्रोऽपि नवोदय इति ज्ञेयम् । तथाभूतं तं तनूजं पुत्रम् कर्मभूतमित्यर्थः । आदाननयने उभे अपि प्रत्यस्तकर्मत्वं विवेचनीयम् । विनम्राः पादप्रणता ये देवा सुरास्तेषां पृष्ठेषु गच्छतः संचरतस्ताभ्याम् । अनेन तेभ्योऽभयदानमुद्रा कृतेति व्यज्यते । पाणिसरेरुहाभ्यां करकमलाभ्यामादाय गृहीत्वा स्वमात्मीयमुत्सङ्गतलं निनाय प्रापयामास । हस्ताभ्यामुत्थाप्य स्वाङ्क आरोपितवतीत्यर्थः ॥ 11.21 ॥

विश्वास-प्रस्तुतिः

स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्त्रा ।
(3)तमेकमेषा (4)जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् ॥ 11.22 ॥
{3.एकमेवम्,एकदेवम्.4.एकदेवी.}

मूलम्

स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्त्रा ।
(3)तमेकमेषा (4)जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् ॥ 11.22 ॥
{3.एकमेवम्,एकदेवम्.4.एकदेवी.}

अन्वयः

इन्दुवक्त्रा एषा एकं जगदेकवीरं तम् आत्मनो नन्दनं सुधानिधानम् इव स्वम् अङ्कम् आरोप्य पुत्रिणीनां धुरि पूज्या बभूव ।

सीतारामः

स्वमिति । इन्दुवक्त्रा चन्द्रमुख्येषा पार्वती । एकमद्वितीयं जगदेकवीरं जगत्स्वेकवीरं तमात्प्तनो नन्दनं पुत्रं सुधानिधानममृतपात्रमिव स्वमात्मीयमङ्कमारोप्य संस्थाप्य पुत्रिणीनां पुत्रवतीनां धुर्यग्रभागे पूज्या पूजयितुं योग्या बभूव । एतत्पुत्रस्य सर्वासामपि पुत्रेभ्योऽधिकत्वादग्रपूजयत्वमुचितमेवेति भावः ॥ 11.22 ॥

विश्वास-प्रस्तुतिः

निसर्गबात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।
तमेकपुत्रं जगदेकमाता(1)भ्युत्सङ्गिनं प्रस्त्रविणी बभूव ॥ 11.23 ॥
{1.सोत्सङ्गितम्,अभ्युत्सङ्गितम्.}

मूलम्

निसर्गबात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।
तमेकपुत्रं जगदेकमाता(1)भ्युत्सङ्गिनं प्रस्त्रविणी बभूव ॥ 11.23 ॥
{1.सोत्सङ्गितम्,अभ्युत्सङ्गितम्.}

अन्वयः

निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदाऽमृतपूरपूर्णा जगदेकमाता उत्सङ्गिनं तम् एकपुत्रम् अभि प्रस्त्रविणी बभूव ।

सीतारामः

निसर्गेति । निसर्गेण स्वभावेन । न तूपाधिनेत्यर्थः । ओ वात्सल्यरसो दयावत्त्वरसस्तस्यौघेन सिक्ता प्लाविता । तत्रातिवात्सल्यवतीत्यर्थः । तथा सान्द्रप्रमोदोऽतिशयहर्षः । स एवामृतं पूयूषं तस्य पूरेण प्रवाहेण पूर्णा भृता जगतामेकाद्वितीया माता परिपोषिका देव्युत्सङ्गिनमधिश्रितोत्सङ्गं तमेकपुत्रमभिसंमुखं प्रस्त्रविणी दुग्धस्त्राववती बभूव । पुत्रं दृष्ट्वा मातुः स्तनाभ्यां पयः पततीति युक्तमिति भावः ॥ 11.23 ॥

विश्वास-प्रस्तुतिः

अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत् ।
सुरस्त्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः ॥ 11.24 ॥

मूलम्

अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत् ।
सुरस्त्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः ॥ 11.24 ॥

अन्वयः

षाण्मातुरः सुरस्त्रवन्त्यो कृत्तिकाभिः सस्पृहं मुहुर्मुहुः ईक्ष्यमाणः (सन्) अशेषलोकत्रयमातुः अस्याः स्तनसुधाम् अधासीत् किल ।

सीतारामः

अशेषेति । षाण्मातुरः षण्णां मातृणामपत्यं षाण्मातुरः कार्त्तिकेयः । अत्र षण्मातृशब्दात् ‘मातुरुत्संख्ये’ त्यादिनाण् मातृश्ब्दस्योदादेश्च । ‘षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः’ । इत्यमरः । सुरस्त्रवन्त्या देवनद्याः । गङ्गाया इत्त्यर्थः । ‘स्त्रवन्ती निम्रगापगा’ इत्यमरः । तथा कृत्तिकाभिश्च सस्पृहं स्वेच्छं यथा तथा । ‘इच्छा काङ्क्षा स्पृहेहा तृट्’ इत्यमरः । अस्मदीयपयोधरस्त्रवदमृतपाताऽयमिदानीमेतदीयस्तनपयः- पिबन्फारप्यस्मदीयपयोधरपयोऽपि स्मरेदेवंभूतेच्छासहितमित्यर्थः । मुहुर्मुहुरनुवेलमीक्ष्यमाणोऽवलोक्यमानः सन्नशेषं सकलं यल्लोकत्रयं तस्य मातुः पोषिण्या अस्या देव्याः स्तन्या स्तने भवा । ‘धेट् पाने’ कर्तरि लुङ् । ‘विभाषा घ्राधेडि’ -ति सिज्लुग्न ॥ 11.24 ॥

विश्वास-प्रस्तुतिः

(1)सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन ।
तस्यैकनालो(2) द्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं (3)चुचुम्ब ॥ 11.25 ॥
{1.सुखास्त्रपूर्णेन.2.उद्रभ.3.चचम्बे.}

मूलम्

(1)सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन ।
तस्यैकनालो(2) द्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं (3)चुचुम्ब ॥ 11.25 ॥
{1.सुखास्त्रपूर्णेन.2.उद्रभ.3.चचम्बे.}

अन्वयः

मृगाऽङ्कमौलेः कलत्रम् एकनालोद्गतपञ्चपद्मलक्ष्मीं तस्य षड्वदनीं सुखाऽश्रुपूर्णेन एकेन मुखाऽम्बुजेन क्रमात् चुचुम्ब ।

सीतारामः

सुखेति । मृगाङ्कमौलेर्हरस्य कलत्रं भार्या । ‘कलत्रं श्रोणिभार्ययोः’ इत्यमरः । एकनाल एककाण्ड उद्रतान्युदितानि यानि पञ्चपद्मानि तेषां लक्ष्मीरिव शोभेव लक्ष्मीः शोभा यस्यास्तथाभूतां तस्य कुमारस्य षण्णां वदनानां समाहारं षड्वदनीम् । ‘द्विगोः’ इति ङीप् । इह संख्यासादृश्यमन्तरा न विरोधः । सुखाश्रपूर्णेनानन्दाश्रुजलपरिपूरितेनैकेन मुखाम्बुजेन वदनकमकलेन क्रमाद्यथाक्रमं चुचुम्ब स्पृष्टवती । अतिशयप्रेमवशादिति भावः ॥ 11.25 ॥

विश्वास-प्रस्तुतिः

(4)हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ 11.26 ॥
{4.हैमम्.}

मूलम्

(4)हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ 11.26 ॥
{4.हैमम्.}

अन्वयः

तं नन्दनम् आदधाना पार्वती फलं दधाना हेमगिरेः हैमी लता इव विकस्वरं पद्मं दधाना नाकनदी इव नूतनम् इन्दुं दधाना पूर्वा दिक् इव आभात् ।

सीतारामः

हैमीति । तं नन्दनं तनयमादधाना सा पार्वती । फलं दधानां हेमगिरेः सुमेरोः संबन्धिनी । तदुत्पन्नेत्यर्थः । हैमी हेमविकारा । विकारार्थकेऽपि ‘टिढ्ढे-’ ति ङीप् । लतेव । विकस्वरं प्रफुल्लं पद्मं कमलं दधाना नाकनदीव गङ्गेव । नूतनं नवोदयमिन्दुं दधाना पूर्वा पूर्वसंज्ञिका दिगिव । आभाच्छुशुभे । अत्र मालोपमालंकारः ॥ 11.26 ॥

विश्वास-प्रस्तुतिः

प्रीतात्मना (1)सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण ।
कुमारमुत्सङ्गतले दघाना विमानमभ्रंलिहमारुरोह ॥ 11.27 ॥
{1.सुप्रयतेन.}

मूलम्

प्रीतात्मना (1)सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण ।
कुमारमुत्सङ्गतले दघाना विमानमभ्रंलिहमारुरोह ॥ 11.27 ॥
{1.सुप्रयतेन.}

अन्वयः

कुमारम् उत्सङ्गतले दधाना सा प्रीतात्मना प्रयतेन शशिशेखरेण दत्तहस्ताऽवलम्बा (सती) अभ्रंलिहं विमानम् आरुरोह ।

सीतारामः

प्रीतेति । कुमारं पुत्रमुत्सङ्गतले दधाना बिभ्रती सा देवी प्रीतात्मना प्रसन्नीभूतमनसा प्रयतेन सावधानेन । न तु संभ्रमितेन । ‘नयवत्मंगाः प्रभवतां हि धियः’ इति न्यायादिति भावः । तथाभूतेन शशिशेखरेण शिवेन दत्तहस्तावलम्बा सती । अत्यतिप्रेमभरादिति भावः । अभ्रंलिहमाकाशस्पृशं । ‘वहाभ्रे लिहः’ इति खश् । विमानमारुरोहारुढा ॥ 11.27 ॥

विश्वास-प्रस्तुतिः

महेश्वरोऽपि प्रमदप्ररुढरोमोद्गमो भूधरनन्दनायाः ।
(2)अङ्कादुपादत्त (3)तदङ्कतः (4)सा तस्यास्तु (5)सोऽप्यात्मजवत्सलत्वात् ॥ 11.28 ॥
{2.अकाण्डमादृत्त.3.तमङ्कतः.4.सः.5.सौभ्यात्मज.}

मूलम्

महेश्वरोऽपि प्रमदप्ररुढरोमोद्गमो भूधरनन्दनायाः ।
(2)अङ्कादुपादत्त (3)तदङ्कतः (4)सा तस्यास्तु (5)सोऽप्यात्मजवत्सलत्वात् ॥ 11.28 ॥
{2.अकाण्डमादृत्त.3.तमङ्कतः.4.सः.5.सौभ्यात्मज.}

अन्वयः

प्रमदप्ररुढरोमोद्गमो महेश्वरोऽपि आत्मजवत्सलत्वात् भूधरनन्दनायाः अङ्कात् (तम्) उपादत्त, सोऽपि तस्याः (अङ्कात् उपादत्त) ।

सीतारामः

महेश्वर इति । प्रमदेनानन्देन प्ररुढा रोमोद्गमा यस्य तथाभूतो महेश्वरोऽप्यात्मजे पुत्रे वत्सलत्वाद् दयावत्त्वाद्धेतोर्भूधरनन्दनायाः पार्वत्या अङ्कादुत्सङ्गतस्तं पुत्रमुपादत्ताग्रहीत् । अथ च तदङ्कतो हरोत्सङ्गात्सा देव्युपादत्त । अथ च सोऽपि हरोऽपि तस्या देव्या अङ्कादुपादत्त । इत्यनुवेलमन्योन्यग्रहणं चक्रतुरित्यर्थः ॥ 11.28 ॥

विश्वास-प्रस्तुतिः

(6)दधानया नेत्रसुधैकसत्रं(7) पुत्रं पवित्रं सुतया (8)तयाद्रेः ।
संश्लिष्यमाणा शशिखण्डधारी(9) विमानवेगेन (10)गृहाज्जगाम ॥ 11.29 ॥
{6.दत्वानया.7.पाधम.8.तथा.9.मौलिः;वाही.10.गृहम्.}

मूलम्

(6)दधानया नेत्रसुधैकसत्रं(7) पुत्रं पवित्रं सुतया (8)तयाद्रेः ।
संश्लिष्यमाणा शशिखण्डधारी(9) विमानवेगेन (10)गृहाज्जगाम ॥ 11.29 ॥
{6.दत्वानया.7.पाधम.8.तथा.9.मौलिः;वाही.10.गृहम्.}

अन्वयः

शशिखण्डधारी नेत्रसुधैकसत्रं पवित्रं पुत्रं दधानया तया अद्रेः सुतया संश्लिष्यमाणः (सन्) विमानवेगेन गृहान् जगाम ।

सीतारामः

दधानेति । शशिखण्डधारी महेश्वरः । सुधाया अमृतस्यैकं केवलं सत्रं सदादानम् ‘सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च’ इत्यमरः । नेत्रयोः संबन्धि सुधैकसत्रं येन नेत्रयोरमृतवत्सुखदातारमित्यर्थः । तथा पवित्रं पूतम् । ‘पुवः संज्ञायाम्’ इति त्रन्प्रत्ययः । तथाभूतं पुत्रं सुतं दधानया बिभ्रत्या तयाद्रेर्हिमालयस्य सुतया कन्यया पार्वत्या कर्त्र्या । संश्लिष्यमाणः स्नेहवशादालिङ्ग्यमानः सन्विमानस्य वेगेन गृहञ्जगाम प्रययो । ‘गृहाः पुंसु च भूम्त्येव’ । इत्यमरः ॥ 11.29 ॥

विश्वास-प्रस्तुतिः

(1)अधिष्ठितः स्फाटिकशैलश्रृङ्गे तुङ्गे निजं(2) धाम(3) निकामरम्यम् ।
महोत्सवाय (4)प्रमथप्रमुख्यान् (5)पृथून्गणाञ्शंभुरथादिदेश ॥ 11.30 ॥
{1.अधिष्ठित.2.निजे.3.धामन् कामरम्ये;धाम्नि निकामरम्ये.4.प्रमथान्स नाथः.5.महिम्ना स्वमुदा;प्रथिम्नां पृथक्.}

मूलम्

(1)अधिष्ठितः स्फाटिकशैलश्रृङ्गे तुङ्गे निजं(2) धाम(3) निकामरम्यम् ।
महोत्सवाय (4)प्रमथप्रमुख्यान् (5)पृथून्गणाञ्शंभुरथादिदेश ॥ 11.30 ॥
{1.अधिष्ठित.2.निजे.3.धामन् कामरम्ये;धाम्नि निकामरम्ये.4.प्रमथान्स नाथः.5.महिम्ना स्वमुदा;प्रथिम्नां पृथक्.}

अन्वयः

अथ शम्भुः तुङ्गे स्फाटिक शैलश्रृङ्गे निकामरम्यं निजं धाम अधिष्ठितः (सन्) महोत्सवाय पृथून् प्रथमप्रमुख्यात् गणान् आदिदेश ।

सीतारामः

अधिष्ठित इति । अथानन्तरं शंभुर्महेश्वरस्तुङ्गे उन्नते स्फटिकमयः स्फाटिको यः शैलः कैलासस्तस्य श्रृङ्गे शिखरे । ‘श्रृङ्गं प्राधान्यसान्वोश्च’ इत्यमरः । निकामरम्यमतिमनोहरं निजं स्वीयम् । ‘स्वके नित्ये निजं त्रिषु’ इत्यमरः । अधिष्ठितः सन् । ‘अधिशीङ्-’ इत्यादिनाधारस्य कर्मसंज्ञा । महोत्सवाय महोत्सवं कर्तुम् ‘तुमर्थाच्चे’ति चतुर्थी । पृथून्महतः प्रमथप्रमुख्यान्प्रमथादीन्गणानादिदेशाज्ञापयामास ॥ 11.30 ॥

विश्वास-प्रस्तुतिः

(6)पृथुप्रमोदः (7)प्रगुणो गणानां गणः समग्रे वृषवाहनस्य ।
गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम् ॥ 11.31 ॥
{6.प्रमोद.7.प्रगुण.}

मूलम्

(6)पृथुप्रमोदः (7)प्रगुणो गणानां गणः समग्रे वृषवाहनस्य ।
गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम् ॥ 11.31 ॥
{6.प्रमोद.7.प्रगुण.}

अन्वयः

अथ पृथप्रमोदः प्रगुणः समग्रः गणानां गणः वृषवाहनस्य गिरीन्द्रपुत्र्याश्च तनयस्य जन्मनि उत्सवं विधातुं संववृते ।

सीतारामः

पृथ्विति । अथानन्तरं पृथुर्महान्प्रमोदो हर्षो यस्य । तथा प्रकृष्टा गुणा यस्यैवंविधः समग्रः संपूर्णो गणानां गणः प्रमथादीनां समूहो वृषवाहनस्य महेश्वरस्य गिरीन्द्रपुत्र्याः पार्वत्याश्च तनयस्य जन्मन्युत्सवं विधातुं कर्तुं संववृते संवृत्तः । उद्युक्त इति यावत् ॥ 11.31 ॥

विश्वास-प्रस्तुतिः

इतः परं सप्तभिरुत्सवानेवाह -
स्फुरन्मरीचिच्छुरिताम्बराणि संतानशाखिप्रसवाञ्चितानि ।
(1)उच्चिक्षिपुः काञ्चनतोरणानिगणा (2)वराणिस्फटिकालयेषु ॥ 11.32 ॥
{1.विचिक्षिपुः.2.क्षलानि.}

मूलम्

इतः परं सप्तभिरुत्सवानेवाह -
स्फुरन्मरीचिच्छुरिताम्बराणि संतानशाखिप्रसवाञ्चितानि ।
(1)उच्चिक्षिपुः काञ्चनतोरणानिगणा (2)वराणिस्फटिकालयेषु ॥ 11.32 ॥
{1.विचिक्षिपुः.2.क्षलानि.}

अन्वयः

गणाः स्फटिकालयेषु स्फुरन्मरीचिच्छुरिताऽम्बराणि सन्तानशाखिप्रसवाऽञ्चितानि वराणि काञ्चनतोरणानि उञ्चिक्षिपुः ।

सीतारामः

स्फुरदिति । गणाः प्रमथाः स्फटिकालयेषु स्फटिकगृहेषु स्फुरन्त्यो भासमाना या मरीचयः किरणास्ताभिश्छुरितं मिश्रीकृतमम्बरं यैस्तानि । संतानशाखिनां देववृक्षाणां प्रसवानि पत्त्राणि तैरञ्चितानि निर्मितानि वराणि श्रेष्ठानि काञ्छनं काञ्चनस्य विकारः काञ्चनं स्वर्णसूत्रं तदाधेयीभूतानि तोरणानि मालाविशेषनुच्चिक्षिपुरुच्चैश्चिक्षिपुः । बबन्धुरित्यर्थः ॥ 11.32 ॥

विश्वास-प्रस्तुतिः

दिक्षु प्रसर्पस्तदधीश्वराणामयामराणामिव (3)मध्यलोके ।
महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः (4)पटहः पटीयान् ॥ 11.33 ॥
{3.नाकिलोके.4.धीरम्.}

मूलम्

दिक्षु प्रसर्पस्तदधीश्वराणामयामराणामिव (3)मध्यलोके ।
महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः (4)पटहः पटीयान् ॥ 11.33 ॥
{3.नाकिलोके.4.धीरम्.}

अन्वयः

अथ दिक्षु प्रसर्पन् तदधीश्वराणाम् अमराणां पटीयान् धीरः पटहः अन्यैः आहतः (यन्) मध्यलोके महोत्सवं शंसितुम् इव दध्वान ।

सीतारामः

दिक्ष्विति । अथ तोरणोत्क्षेपानन्तरम् । दिक्षु दशसु दिशासु प्रसर्पन्प्रसिद्धो भवन् । आत्मनिनादेनेति शेषः । गम्यमानार्थत्वादप्रयीगः । तासां दिशामधीश्वराणां दिक्पालानाममराणां देवानामिन्द्रादोनां संबन्धी पटीयान्समर्थः । धोरनिनाद इति शेषः । धीरो गम्भीरः पटहोऽन्यैर्भृत्यभृतैरमरैराहतस्तडितः सन् मध्यश्चासौ लोकश्च मध्यलोकः । भूलोक इत्यर्थः । तस्मिन् महोत्सवम् । अत्रापि भवत्पुत्रजन्मनास्माकं महानुत्सवो जात इति शंसितुमिव कथयितुमिव । दध्वान ध्वनिं चकार । ध्वनिकरणे महोत्सवज्ञापनस्य फलत्वाभावेऽपि फलत्वकल्पनात्फलोत्प्रेक्षा ॥ 11.33 ॥

विश्वास-प्रस्तुतिः

महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् ।
संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि ॥ 11.34 ॥

मूलम्

महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् ।
संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि ॥ 11.34 ॥

अन्वयः

तत्र महोत्सवे समागतानां गृहे गिरिराजपुत्र्या संभावितानां गन्धर्वविद्याधर-सुन्दरीणां मङ्गलगीतकानि अभवन् ।

सीतारामः

महेति । तत्र महोत्सवे समागतानां प्राप्तानामत एव गृहे गिरिराजपुत्र्या भवान्या संभावितानां पूजितानाम् । सत्कृतानामित्यर्थः । गन्धर्वा विद्याधराश्च देवविशेशास्तेषां सुन्दरीणां स्त्रीणां स्त्रीणां स्त्रीकर्तृकाणि मङ्गलगीतकानि मङ्गलप्रयोजनगीतान्यभवन् जातानीत्यर्थः ॥ 11.34 ॥

विश्वास-प्रस्तुतिः

सुमङ्गलोपायन(1) पात्रहस्तास्तं मातरो मातृवदभ्युपेताः(2) ।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम् ॥ 11.35 ॥
{1.तूर्णम्.2.अभ्युपेताः.}

मूलम्

सुमङ्गलोपायन(1) पात्रहस्तास्तं मातरो मातृवदभ्युपेताः(2) ।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम् ॥ 11.35 ॥
{1.तूर्णम्.2.अभ्युपेताः.}

अन्वयः

सुमङ्गलोपायनपात्रहस्ताः अभ्युपेताः मातरः मूर्ध्नि दूर्वाक्षतकानि निधाय तं गिरिजातनूजं मातृवत् स्वम् अङ्कं निन्युः ।

सीतारामः

सुमङ्गलेति । सुमङ्गलानि यान्युपायनान्युपदासामग्र्यस्तेषां पात्रं तत्सहिता हस्ता यासामेवंभूताः सत्योऽभ्युपेताः प्राप्ता मातरो ब्राहयाद्याः । सप्तेति शेषः । ‘ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्रणौ चामुण्डा सप्त मातरः ॥’ इत्यमरः । मूर्ध्नि शिरसि दूर्वाक्षतानि निधाय संस्थाप्य तं गिरिजातनूजं कुमारं मातृवत्पार्वतीवत्तत्तुल्यं यथा तथा स्वं स्वीयमङ्कं निन्युः । स्वङ्के स्थापयामासुरित्यर्तः । मातृवदित्यनेन तासामप्यत्र महत्प्रेमास्तीति दर्शितम् ॥ 11.35 ॥

विश्वास-प्रस्तुतिः

ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन ।
सुसन्धिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम् ॥ 11.36 ॥

मूलम्

ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन ।
सुसन्धिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम् ॥ 11.36 ॥

अन्वयः

अङ्क्यालिङ्ग्योर्ध्वकेषु तूर्येषु सुमन्द्रं ध्वनत्सु अप्सरसः रसेन सुसन्धिबन्धं सुवृत्तगीताऽनुगं भावरसाऽनुविद्धं ननृतुः ।

सीतारामः

ध्वनत्स्विति । अङ्क्यालिङ्ग्योर्ध्वकेष्वेतत्संज्ञकेषु तूर्येषु वाद्येषु सुतरां मन्द्रं गम्भीरं यथा तथा । ‘कलो मन्द्रस्तु गम्भीरे’ इत्यमरः । ध्वनस्तु शब्दायमानेषु सत्सु । अप्सरसो रम्भादिका रसेन स्नेहेन शोभना मधुराः संधयः स्वरसंध्यादयो येषु तथाभूता बन्धाः गीतप्रबन्धा यत्र यस्मिन्कर्मणि । सुवृत्तानि शोभनच्छन्दांसि गीतानुगानि यत्र यस्मिन्कर्मणि । सुवृत्तानि शोभनच्छन्दांसि गीतानुगानि यत्र यस्मिन्कर्मणि । भावा रत्यादयरसाः श्रृङ्गारादयस्तैरनुविद्धं व्याप्तं यत्र यस्मिन् कर्मणि यथा तथा ननृतुर्गात्राणि विचिक्षिपुः ॥ 11.36 ॥

विश्वास-प्रस्तुतिः

वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग दिदीपे ।
जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षे प्रससाद सद्यः ॥ 11.37 ॥

मूलम्

वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग दिदीपे ।
जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षे प्रससाद सद्यः ॥ 11.37 ॥

अन्वयः

तत्र उत्सवे वाताः सौख्यकरा ववुः, आशाः प्रसेदुः, हुतभुक् विधूमो दिदीपे, जलानि विमलानि अभृवन् ; अन्तरिक्षं सद्यः प्रससाद ।

सीतारामः

वाता इति । तत्रोत्सवे । वाताः पवनाः सौख्यकरा ववुश्चेलुः । आशा दिशः प्रसेदुर्निर्मला बभूवुः । हुतभुगग्निर्विधूमो निर्धूमः सन्दिदीपे ज्वलति स्म । ‘दोपी दीप्तौ’ इति लिट् । जलानि विमलान्यभूवन् । ‘भवो हि लोकाभ्युदयाय तादृशाम्’ । इति न्यायादिति भावः ॥ 11.37 ॥

विश्वास-प्रस्तुतिः

गम्भीरशङ्ख(1)ध्वनिमिश्रमुच्चैर्गूहोद्भवा दुन्दुभयः प्रणेदुः ।
दिवौकसां व्योम्नि विमानसङ्घा (2)विमुच्य पुष्पप्रचयान्प्रसस्त्रुः ॥ 11.38 ॥
{1.शब्द.2.विमुञ्चता पुष्पचयान;विमुच्यते पुष्पचयान्.}

मूलम्

गम्भीरशङ्ख(1)ध्वनिमिश्रमुच्चैर्गूहोद्भवा दुन्दुभयः प्रणेदुः ।
दिवौकसां व्योम्नि विमानसङ्घा (2)विमुच्य पुष्पप्रचयान्प्रसस्त्रुः ॥ 11.38 ॥
{1.शब्द.2.विमुञ्चता पुष्पचयान;विमुच्यते पुष्पचयान्.}

अन्वयः

गृहेद्भवा दुन्दुभयो गम्भीरशङ्खध्वनिमिश्रम् उच्चैः प्रणेदुः । दिवौकसां विमानसङ्घाः व्योम्नि पुष्पप्रचयान् विमुच्य प्रसस्त्रुः ।

सीतारामः

गम्भीरेति । गृहोद्भवा महेश्वरनिकेतनीया दुन्दुभयो गम्भीरो मन्द्रो यः शङ्खध्वनिः पाञ्चजन्यशब्दस्तेन मिश्रं यथा स्थात्तथोच्चैः प्रणेदुः ‘उसर्गादसमासेऽपि’ इति णत्वम् । अथ च दिवौकसां देवानां विमानसङ्खा व्योम्नि पुष्पप्रचयान्विमुच्य विकोर्य प्रसस्त्रुः । प्रतस्यिर इत्यर्थः ॥ 11.38 ॥

विश्वास-प्रस्तुतिः

इत्थं महेशाद्रिसुतासुतस्य (3)जन्मोत्सवे संमदयांचकार ।
चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः ॥ 11.39 ॥
{3.जन्मीत्सवः.}

मूलम्

इत्थं महेशाद्रिसुतासुतस्य (3)जन्मोत्सवे संमदयांचकार ।
चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः ॥ 11.39 ॥
{3.जन्मीत्सवः.}

अन्वयः

महेशाऽद्रिसुतासुतस्य इत्थं जन्मोत्सवे अशेषं चराऽचरं विश्वं संमदयाञ्चकार । परं तारकश्रीः चकम्पे किल ।

सीतारामः

इत्थमिति । महेशो हरः । अद्रिसुता पार्वती तस्याः सुतस्य पुत्रस्येत्थमेवंभूते जन्मोत्सवेऽशेषं समस्तं चराचरं स्थारजङ्गममेतद्विश्वंजगत्संमदयांचकारोन्मत्तीचकार । उन्मादसाधनैरिति शेषः । परं केवलं तारकस्य तारकासुरस्य श्रीर्लक्ष्मीश्चकम्पे । बिभायेत्यर्थः ॥ 11.39 ॥

विश्वास-प्रस्तुतिः

ततः कुमारः (1)समुदां निदानैः (2)स बाललीलाचरितैर्विचित्रैः ।
गिरीशगौर्योहृदयं जहार मुदे न हृद्या किमु बालकेलि ॥ 11.40 ॥
{1.समुद्धः.2.स्वबाललीलाललितः.}

मूलम्

ततः कुमारः (1)समुदां निदानैः (2)स बाललीलाचरितैर्विचित्रैः ।
गिरीशगौर्योहृदयं जहार मुदे न हृद्या किमु बालकेलि ॥ 11.40 ॥
{1.समुद्धः.2.स्वबाललीलाललितः.}

अन्वयः

ततः स कुमार, विचित्रैः समुदां निदानैः बाललीलाचरितैः गिरीशगौर्योः हृदयं जहार । हृद्या बालकेलिः मृदे न किमु ?

सीतारामः

तत इति । ततोऽनन्तरं स कुमारो विचित्रैरनेकरुपैरत एव समुदां सुतरां प्रीतीनां निदानैरादिकारणैः । ‘निदानं त्वादिकारणम्’ इत्यमरः । बाललीलाचरितैः शिशुक्रीडाचरितैर्गिरीशगौर्योः शिवपार्वत्योः । अभ्यर्हितत्वाद्वह्वचोऽपि पूर्वनिपातः । हृदयं मनो जहार । प्रसादयामासेत्यर्थः । हृद्या मनोहरा बालकेलिर्मुदे न किमु भवतीति । किं तु भवत्येवेत्यर्थः ॥ 11.40 ॥

विश्वास-प्रस्तुतिः

महेश्वरः शैलसुता (3)च हर्षा(4)त्सतर्षमेकेन मुखेन गाढम् ।
अजातदन्तानि (5)मुखानि सूनोर्मनोहराणि (6)क्रमत(7)श्चुचुम्ब ॥ 11.41 ॥
{3.अपि.4.सहर्षम्.5.वक्त्राणि.6.क्रमशः.7.चुचुम्बे.}

मूलम्

महेश्वरः शैलसुता (3)च हर्षा(4)त्सतर्षमेकेन मुखेन गाढम् ।
अजातदन्तानि (5)मुखानि सूनोर्मनोहराणि (6)क्रमत(7)श्चुचुम्ब ॥ 11.41 ॥
{3.अपि.4.सहर्षम्.5.वक्त्राणि.6.क्रमशः.7.चुचुम्बे.}

अन्वयः

महेश्वरः शैलसुता च हर्षात् सतर्षम् अजातदन्तानि मनोहराणि सूनोः मुखानि क्रमतः चुचुम्ब ।

सीतारामः

महेश्वर इति । महेश्वरो हरः शैलसुता पार्वती च हर्षाद्धेतोः सतृष्णं यथा तथा जातदन्तान्युद्भूतदशनानि मनोहराणि सूनोः कुमारस्य मुखान्येकेन मुखेन गाढं दृढं यथा तथा क्रमतो यथाक्रमं चुचुम्ब पस्पर्श । अत्र कर्तृद्वयस्य पार्थक्येन क्रियान्वयो विधेयः । अन्यथा द्विवचनापत्तिरिति विवेचनीयम् ॥ 11.41 ॥

विश्वास-प्रस्तुतिः

क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः ।
बालः (8)स लीलाचलनप्रयोगैस्तयोर्मदं वर्धयति स्म पित्रोः ॥ 11.42 ॥
{8.सलीलम्.}

मूलम्

क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः ।
बालः (8)स लीलाचलनप्रयोगैस्तयोर्मदं वर्धयति स्म पित्रोः ॥ 11.42 ॥
{8.सलीलम्.}

अन्वयः

स बालः क्वचित् स्खलद्भिः क्वचित् अस्खलद्भिः क्वचित् प्रकम्पैः क्वचित् अप्रकम्पैः, लीलाचलनप्रयोगैः तयोः पित्रोः मुदं वर्धयति स्म ।

सीतारामः

क्वचिदिति । स बालः कुमारः क्वचित्प्रदेशे स्खलद्भिः पतद्भिः क्वचित्प्रदेशेऽस्खलद्भिः क्वचिद्देशे प्रकम्पैः प्रकृष्टकम्पैः क्वचित्प्रेदेशेऽप्रकम्पैर्लीलया ये चलनप्रयोगास्तैर्निमित्तभूतैस्तयोः पित्रोर्जननीजनकयोः । माता च पिता च पितरौ तयोः पित्रोः । ‘पिता मात्रा’ इत्येकशेषः । स मुदं प्रीतिं वर्धयति स्म । ‘कन्दलयांचकार’ इत्यपि पाठः । अर्थः स एव ॥ 11.42 ॥

विश्वास-प्रस्तुतिः

अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गण(1)क्रीडनधूलिधूम्रः ।
मुहुर्वदन्किचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ 11.43 ॥
{1.गोहाङ्गण.}

मूलम्

अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गण(1)क्रीडनधूलिधूम्रः ।
मुहुर्वदन्किचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ 11.43 ॥
{1.गोहाङ्गण.}

अन्वयः

गृहाऽङ्गणक्रीडनघूलिधूम्रः अङ्कगतः (कुमारः) अहेतुहासच्छुरिताननेन्दुः अलक्षिताऽर्थं मुहुः किञ्चित् वदन् तयोः मुदं ततान ।

सीतारामः

अहेत्विति । हृहाङ्गणे यत्क्रीडनं तेन निमित्तेन धूलिभी रजोभिर्धूम्रो धूसरः सन्नङ्कगत उत्सङ्गं प्राप्तः कुमारः । अहेतुरकारणो यो हासो हसितं तेन च्छुरितो मिश्रित आननेन्दुर्मुखचन्द्रो यस्य । अलक्षितार्थमव्यक्तार्थं मुहुः किंचिद्वदंस्तयोर्मुदं प्रीतिं ततान चकार ॥ 11.43 ॥

विश्वास-प्रस्तुतिः

गृङ्णान्विषाणे हरवाहनस्य स्पृशन्नुमा (2)केसरिणं सलीलम् ।
स भृङ्गिणः सूक्ष्मतरं शिखग्रं कर्षन्बभूव प्रमदाय पित्रोः ॥ 11.44 ॥
{2.केसरिणः सटालीः.}

मूलम्

गृङ्णान्विषाणे हरवाहनस्य स्पृशन्नुमा (2)केसरिणं सलीलम् ।
स भृङ्गिणः सूक्ष्मतरं शिखग्रं कर्षन्बभूव प्रमदाय पित्रोः ॥ 11.44 ॥
{2.केसरिणः सटालीः.}

अन्वयः

स हरवाहनस्य विषाणे गृह्णान् उमाकेसरिणं सलीलं स्पृशन् भृङ्गिणः सूक्ष्मतरं शिखाऽग्रं स्पृशन् पित्रोः प्रमदाय बभूव ।

सीतारामः

गृङ्णान्निति । स कुमारः । हरवाहनस्य वृषस्य विषाणे श्रृङ्गे गृङ्णान् । कराभ्यामिति शेषः । तथोमाकेसरिणं पार्वतीसिंहं सलीलमप्रयासं यथा तथास्पृशन् । तथा भृङ्गिणोगणस्य सूक्ष्मतरं शिखाग्रं कर्षन् । पित्रोर्जननीजनकयोः प्रमदाय हर्षाय बभूव । क्रियाग्रहणात्संप्रदानत्वम् ॥ 11.44 ॥

विश्वास-प्रस्तुतिः

एको नव द्वौ दशा पञ्च सप्तेत्यजीगणन्ना(1)त्ममुखं प्रसार्य ।
महेशकण्ठोरगदन्तपङ्क्तिं (2)तदङ्कगः शैशव(3)मौग्ध्यमैशिः ॥ 11.45 ॥
{1.मञ्जु.2.तदङ्गः.3.नुन्नमीतिः,मुग्धमैशिः.}

मूलम्

एको नव द्वौ दशा पञ्च सप्तेत्यजीगणन्ना(1)त्ममुखं प्रसार्य ।
महेशकण्ठोरगदन्तपङ्क्तिं (2)तदङ्कगः शैशव(3)मौग्ध्यमैशिः ॥ 11.45 ॥
{1.मञ्जु.2.तदङ्गः.3.नुन्नमीतिः,मुग्धमैशिः.}

अन्वयः

तदङ्कगः ऐशिः आत्ममुखं प्रसार्य महेशकण्ठोरगदन्तपङ्क्तिम् एको नव द्वौ दश पञ्च सप्त इति शैशवमौग्ध्यं (दधानः) अजीगणत् ।

सीतारामः

एव इति । तस्य पितुरङ्कग उत्सङ्गगत एशिः । ईशस्यापत्यमित्यर्थः । ‘अत इञ्’ इत्यपत्यार्थ इञ् । आत्ममुखंप्रसार्य महेशस्य ये कण्ठोरगाः सर्पास्तेषां दन्तपङ्क्तिम् । एको नव द्वौ दशा पञ्च सप्तेत्यजीगणत्संख्यातवान् । यतः शैशवमौग्ध्यं बालत्वनिमित्तमूढतां दधानः । अजीगणदिति गणतेर्लुङ् । ‘ई चगणः’ इत्यभ्यासाकारस्येकारः ॥ 11.45 ॥

विश्वास-प्रस्तुतिः

कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु ।
दन्तानुपात्तुं रभसी बभूव मुक्ताफलभ्रान्तिकरः(4) कुमारः ॥ 11.46 ॥
{4.करान,धरः.}

मूलम्

कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु ।
दन्तानुपात्तुं रभसी बभूव मुक्ताफलभ्रान्तिकरः(4) कुमारः ॥ 11.46 ॥
{4.करान,धरः.}

अन्वयः

कुमारः कपर्दिकण्ठाऽन्तकपालदाम्नः आननकोटरेषु अङ्गुलिं प्रवेश्य भुक्ताफलभ्रान्तिकरः दन्तान् उपात्तुं रभसी बभूव ।

सीतारामः

कपर्दीति । कुमारः कार्तिकेयः कपर्दिकण्ठान्ते शिवकण्ठमध्ये स्थितस्य कपालदाम्नो मृकरोटोस्त्रज आननकोटरेषु वदनकूपेषु । ‘कोटरो नागरे कूपे पुष्करिण्युच्चघाटके’ । इति मेदिनी । अङ्गुलिं प्रवेश्य दन्तानुपात्तुं ग्रहीतुं रभसी रभसो वेगोऽस्यास्तीति तथोक्तः । ‘रभसो वेगहर्षयोः’ । इति मेदिनी । बभूव । एतान्वेगेन गृङ्णामोत्यैच्छदित्यर्थः, यतो मुक्ताफलभ्रान्तिकरो मौक्तिकभ्रमकारी ॥ 11.46 ॥

विश्वास-प्रस्तुतिः

शंभोः शिरोऽन्तःसरितस्तरङ्गान्विगाह्य गाढं शिशिरान्नसेन ।
(1)स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ ॥ 11.47 ॥
{1.संजातजाड्यः.}

मूलम्

शंभोः शिरोऽन्तःसरितस्तरङ्गान्विगाह्य गाढं शिशिरान्नसेन ।
(1)स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ ॥ 11.47 ॥
{1.संजातजाड्यः.}

अन्वयः

स शिशिरान् शम्भोः शिरोऽन्तः सरितः तरङ्गान् रसेन गाढं विगाह्य जातजाड्यं निजपाणिपद्मं भालविलोचनाऽग्नौ अतापयत् ।

सीतारामः

शंभोरिति । स कुमारः । शिशिराञ्छीतलाञ्छंभोः संबन्धिनः शिरसोऽन्तर्मध्ये स्थितायाः सरितो गङ्गायास्तरङ्गान्रसेन स्वादेन । स्वादोत्र त्वगिन्द्रियग्राह्यत्वेन विवक्षितः । ‘रसो गन्धरसे जले । श्रृङ्गारादौ विषे वीर्ये तक्रादौ द्रव्यरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान्’ । इति मेदिनी । गाढं दृढम् । ‘गाढबाढदृढानि च’ । इत्यमरः । विगाह्यावगाह्य । अत एव जातजाड्यं जातशीतकृतजहत्वं निजपाणिपद्मं स्वीयकरकमलं भाले यद्विलोचनं तत्र योऽग्निस्तत्रातापयत् । अन्योऽपि शीतजडं हस्तमग्नौ तापयति तद्वदिति भावः ॥ 11.47 ॥

विश्वास-प्रस्तुतिः

किंचित्कलं (2)भङ्गुरकन्धरस्य नमज्जटाजूटधरस्य शंभोः ।
प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम् ॥ 11.48 ॥
{2.भङ्गुरकण्ठरम्य.}

मूलम्

किंचित्कलं (2)भङ्गुरकन्धरस्य नमज्जटाजूटधरस्य शंभोः ।
प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम् ॥ 11.48 ॥
{2.भङ्गुरकण्ठरम्य.}

अन्वयः

किञ्चित् भङ्गुरकन्धरस्य (स कुमारः) नमज्जटाजूटधरस्य शम्भोः प्रलम्बमान कलं मुकुटेन्दुखण्डं कौतुकेन चिरं चुचुम्बे किल ।

सीतारामः

किंचिदिति । किंचिद्भङ्गुरा पतनशीला । ‘भञ्जभासमिदो धुरच्’ इति घुरच् । ‘चजोः’ इति कुत्वम् । कन्धरा ग्रोवा यस्य । बालत्वात् स कुमारो नमज्जटाजूटस्य धरस्तस्य शंभोर्हरस्य शंभोर्हरस्य प्रलम्बमानमाश्रयमाणं कलं मधुरं मुकुटेन्दुखण्डं मुकुटचन्द्रशकलम् । ‘भिर्त्त शकलखण्डे वा’ इत्यमरः । कौतुकेनानन्देन चिरं बहुकालं चुचुम्बे । पस्पर्शेत्यर्थः ॥ 11.48 ॥

विश्वास-प्रस्तुतिः

इत्थं शिशोः (3)शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ ।
(4)मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥ 11.49 ॥
{3.कनव.4.मुदा.}

मूलम्

इत्थं शिशोः (3)शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ ।
(4)मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥ 11.49 ॥
{3.कनव.4.मुदा.}

अन्वयः

गिरिजागिरीशौ मनोऽभिरामैः इत्थं शिशोः शैशवकेलिवृत्तैः मनोविनोदैकरसप्रसक्तौ कदाचित् (अपि) दिवानिशं न अविरताम् ।

सीतारामः

इत्थमिति । गिरिजागिरीशौ मनोभिरामैर्मनोरमैरित्थमेवंभूतैः शिशोः कुमारस्य शैशवक्य बाल्यस्य याः केलयस्यासां वृत्तैश्चरित्रैः । ‘वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले’ इत्यमरः । मनसो विनोदस्तत्र य एको रसः प्रीतिस्तत्र प्रसक्तावासक्तौ सन्तौ कदाचिदपि दिवानिशमहर्निशं नाविदतां नाबुध्येताम् । अगाधपुत्रोत्सवार्णवमग्नत्वादिति भावः ॥ 11.49 ॥

विश्वास-प्रस्तुतिः

इति बहुविधं बालक्रीडाविचित्रविचेष्टितं
ललितललितंसान्द्रानन्दं मनोहरमाचरन् ।
अलभतपरां (1)बुद्धिं षष्ठे दिने नवयौवनं
स किल सकलं शास्त्रं शस्त्रं विवेद (2)विभुर्यया ॥ 11.50 ॥
{1.वृद्धिम्.2.विभोरपि.}

मूलम्

इति बहुविधं बालक्रीडाविचित्रविचेष्टितं
ललितललितंसान्द्रानन्दं मनोहरमाचरन् ।
अलभतपरां (1)बुद्धिं षष्ठे दिने नवयौवनं
स किल सकलं शास्त्रं शस्त्रं विवेद (2)विभुर्यया ॥ 11.50 ॥
{1.वृद्धिम्.2.विभोरपि.}

अन्वयः

इति बहुविधं ललितललितं सान्द्रानन्दं मनोहरं बालक्रीडाविचित्रविचेष्टितम् आचरन् विभुः स षष्ठे दिने परां बुद्धिं नवयौवनं च अलभत यया सकलं शास्त्रं-शस्त्रं (च) विवेद किल ।

सीतारामः

इतीति । इत्येवंभूतं बहुविधं नाना प्रकारकं ललितललितं ललितप्रकारमतिसुन्दरं सान्द्र आनन्दो येन । मनोहरं बालक्रीडाया विचित्रं विचेष्टितं चेष्टाम् । चरित्रमिति यावत् । आचरन्विदधद्विभुः स कुमारः षष्ठे दिने परामुत्कृष्टां बुद्धि धिषणां नवयौवनं तारुण्यं चालभत प्राप । यया बुद्ध्या सकलं समस्तं शास्त्रम् । सकलानि शास्त्राणीत्यर्थः । शस्त्रम् । शस्त्राणीत्यर्थः । उभयत्रापि जातावेकवचनम् । विवेद ज्ञातवान् । किलेति प्रसिद्धौ । प्राचीनसत्संस्काराणां किमिवाशक्यमिति भावः । हरिणीच्छन्दः– ‘रसयुगहयौर्न्सौ म्रौ म्लौ गो यदा हरिणी तदा’ । इति लक्षणात् ॥ 11.50 ॥

विश्वास-प्रस्तुतिः

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कुमारोत्पत्तिर्नामैकादशः सर्गः ॥

मूलम्

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कुमारोत्पत्तिर्नामैकादशः सर्गः ॥