०९

.

नवमः सर्गः

विश्वास-प्रस्तुतिः

तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः ।
संभोगवेश्म प्रविशन्तमन्तर्ददर्श (1)पारावतमेकमीशः ॥ 9.1 ॥
{1.पारापतम्.}

मूलम्

तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः ।
संभोगवेश्म प्रविशन्तमन्तर्ददर्श (1)पारावतमेकमीशः ॥ 9.1 ॥
{1.पारापतम्.}

अन्वयः

प्रियाया मुखाऽरविन्दे मधुप ईशः तथाविधे अनङ्गरसप्रसङ्गे संभोगवेश्म प्रविशन्तम् एकं पारावतं ददर्श ।

सीतारामः

तथाविध इति । प्रियायाः पार्वत्याः संबन्धिनि मुखारविन्दे वदनकमले मधुपो भ्रमरभूत ईशः शिवस्तथाविधे पूर्वोक्तप्रकारेऽनङ्गरसप्रसङ्गे कामरसावसरे संभोगस्य वेश्म गृहमन्तः प्रविशन्तमेकं पारावतं कपोतं ददर्श दृष्टवान् । सर्गेऽस्मिवृत्तमुपजातिः ॥ 9.1 ॥

विश्वास-प्रस्तुतिः

सुकान्तकान्तामणितानुकारं कूजन्तमाधूर्णितरक्तनेत्रम् ।
प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहु(2)र्न्यञ्चितचारुपुच्छम् ॥ 9.2 ॥
{2.नर्तित.}

मूलम्

सुकान्तकान्तामणितानुकारं कूजन्तमाधूर्णितरक्तनेत्रम् ।
प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहु(2)र्न्यञ्चितचारुपुच्छम् ॥ 9.2 ॥
{2.नर्तित.}

अन्वयः

(शिवः) सुकान्तकान्तामणिताऽनुकारं कूजन्तम् आघूर्णितरक्तनेत्रं प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहुः न्यञ्चितचारुपुच्छम् (रारावतं ददर्श) ।

सीतारामः

सुकान्तेति । कथंभूतं पारावतम् । सुकान्ममतिमनोहरं यत्कान्तामणितं रमणीरतिकूजितम् । ‘मणितं रतिकूजितम्’ इत्यमरः । तस्यानुकारोऽनुकरणं यत्र यस्मिन्कर्मणि यथा तथा कूजन्तं शब्दायमानम्, तथाघूर्णिते रक्तनेत्रे येन तथोक्तम् । तथा प्रस्फारितो विस्तारित उन्नम्र उच्चैस्तथा विनम्रः कण्ठो यस्य तम् । तथा मुहुर्मुहुर्वारंवारं न्यञ्चितः संकुचितश्चारुः पुच्छः पश्चाद्भागो येन तथोक्तमित्यर्थः । ‘पुच्छः पश्चात्प्रदेशे स्यात्’ इति विश्वः ॥ 9.2 ॥

विश्वास-प्रस्तुतिः

विशृङ्खलं पक्षतियुग्ममीषद्दधानमानन्दगतिं(3) मदेन ।
शुभ्रांशुवर्ण जटिलाग्रपादमितस्ततो मण्डलकैश्चरन्तम् ॥ 9.3 ॥
{3.आनन्दगतम्,आमन्दगतिम्.}

मूलम्

विशृङ्खलं पक्षतियुग्ममीषद्दधानमानन्दगतिं(3) मदेन ।
शुभ्रांशुवर्ण जटिलाग्रपादमितस्ततो मण्डलकैश्चरन्तम् ॥ 9.3 ॥
{3.आनन्दगतम्,आमन्दगतिम्.}

अन्वयः

(शिवः)विश्रृङ्खलं पक्षतियुग्मम् ईषन्मदेन आनन्दगतिं च दधानं शुभ्रांऽशुवर्ण जटिलाऽग्रपादं मण्‍डलकैः इतस्ततः चरन्तम् (तं ददर्श) ।

सीतारामः

विश्रृङ्खलमिति । पुनः कथंभूतम् । विशृङ्खलं विगतश्रृङ्खलाकम् । अनेन विशेषणेन कदाचित्कस्यापि बन्धनाभावस्य द्योतनात्स्वेच्छाविहारित्वं ध्वन्यते । ‘श्रृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च’ । इति विश्वः । पक्षात्योः पक्षमूलयोर्युग्मं द्वयम् । ‘पक्षात्तिः’ इति तिप्रत्ययः । तथेषन्मदेन हेतुनानन्दगर्ति च दधानम् । तथा शुभ्रांशोश्चन्द्रस्य वर्ण इव वर्णो यस्य तम् । ‘जटिलस्तु जटायुक्तः’ इति विश्वः । तथा मण्डलकैर्मण्डलाकारगतिविशेषैरितस्ततश्चरन्तं भ्रममाणम् । तं कपोतं ददर्शेति संबन्धः । ‘मण्डलके’ इति पाठे सुरतमण्डप इति व्याख्येयम् । त्रिभिरेत द्विशेषकम् ॥ 9.3 ॥

विश्वास-प्रस्तुतिः

रतिद्वितीयेन मनोभवेन ह्रदात्सुधाया प्रविगाह्यमानात् ।
तं वीक्ष्य फेनस्य चयं नवोत्थमिवाभ्यनन्दत्क्षणमिन्दुमौलिः ॥ 9.4 ॥

मूलम्

रतिद्वितीयेन मनोभवेन ह्रदात्सुधाया प्रविगाह्यमानात् ।
तं वीक्ष्य फेनस्य चयं नवोत्थमिवाभ्यनन्दत्क्षणमिन्दुमौलिः ॥ 9.4 ॥

अन्वयः

रतिद्वितीयेन मनोभवेन प्रविगाह्यमानात् सुधाया ह्रदात् नवोत्थं फेनस्य चयम् इव तं वीक्ष्य इन्दुमौलिः क्षणम् अभ्यनन्दत् ।

सीतारामः

रतीति । रत्या स्वपत्न्या द्वितीयेन । रतिसहायेनेत्यर्थः । मनोभवैन कर्त्रा । प्रविगाह्यमानादवलोड्यमानात्सुधाया ह्रदान्नवमुत्थमुत्पन्नं फेनस्य चयमिव स्थितं तं कपोतं वीक्ष्येन्दुमौलिः शिवः क्षणमभ्यनन्ददस्तौषीत् । कपोतरूपे वस्तुनि धवलिमरूपधर्मेण गम्यमानेन फेनचयरूपवस्तूत्प्रेक्षालंकारः ॥ 9.4 ॥

विश्वास-प्रस्तुतिः

(1)तस्यातृतिं कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्यविहंगमग्निम् ।
विचिन्तयन्संविविदे स देवो भ्रभङ्गभीमश्च रुषा बभूव ॥ 9.5 ॥
{1.तदाकृतिम्.}

मूलम्

(1)तस्यातृतिं कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्यविहंगमग्निम् ।
विचिन्तयन्संविविदे स देवो भ्रभङ्गभीमश्च रुषा बभूव ॥ 9.5 ॥
{1.तदाकृतिम्.}

अन्वयः

अन्तर्भवः स देवः दिव्यां काम् अपि तस्य आकृतिं वीक्ष्य छद्मविर्हगम् अग्निं विचिन्तयन् संविविदे रुषा भ्रूभङ्गभूमश्च बभूव ।

सीतारामः

तस्येति । अन्तर्भवतीत्यन्तर्भवः । सर्वान्तर्व्यापूत्यर्थः । स देवो हरऋः दिव्यां भव्यां कामपि लोकोत्तरां तस्य पारावतस्याकृतिं वीक्ष्य छद्मना कैतवेन विहंगं कपोतस्वरुपधारिणमग्निं विचिन्तयन्वितर्कयन्संविविदे विजज्ञे । निश्चयात्मकबुद्ध्याग्निरेवायमिति बुबुध इत्यर्थः । ‘समोगम्युच्छिभ्याम्-’ इत्यात्मनेपदम् । रुषा भ्रुवोर्भङ्गेन भीनो भयंकरश्च बभूव । असामयिकागमनकारित्वादिति भावः ॥ 9.5 ॥

विश्वास-प्रस्तुतिः

स्वरुपमास्थाय ततो हुता(1)शस्त्र(2)सन्वलत्कम्प(3) कृताञ्जलिः सन् ।
प्रवेपमानो (4)नितरां स्मरारिमिदं वचो व्यक्तमथाध्युवाच(5) ॥ 9.6 ॥
{1.स्त्रास,श्वास.2.कम्प्र,कण्ठः.4.अतितराम्.5.अभ्युवाचम्.}

मूलम्

स्वरुपमास्थाय ततो हुता(1)शस्त्र(2)सन्वलत्कम्प(3) कृताञ्जलिः सन् ।
प्रवेपमानो (4)नितरां स्मरारिमिदं वचो व्यक्तमथाध्युवाच(5) ॥ 9.6 ॥
{1.स्त्रास,श्वास.2.कम्प्र,कण्ठः.4.अतितराम्.5.अभ्युवाचम्.}

अन्वयः

ततो हुताशः त्रसन् स्वरूपम् आस्थाय अथ वलत्कम्पकृताऽञ्जलिः, (तथा) नितरां प्रवेपमानः (सन्) स्मराऽरिं व्यक्तम् इदं वचः अध्युवाच ।

सीतारामः

स्वरुपमिति । ततोऽनन्तरं हुताशोऽग्निस्त्रसन्बिभ्यत्सन् । ‘वा भ्रा-शे’ त्यादिना वैकल्पिकत्वान्न श्यन् । स्वरुपमाग्नेयं रुपमास्थायाश्रित्य । अथ स्वरुपाश्रयणानन्तरम् । वलन्नुद्भवन्कम्पो यथा तथा कृतो बद्धोऽञ्जलिर्येन । तथा नितरां प्रवेपमानः कम्पमानश्च सन् स्मरारिं शिवं व्यक्तं स्फुटमिदं वक्ष्यमाणं वचोऽध्युवाचोक्तवान् । ‘दुह्याच्’ इत्यादिना ब्रुवो द्विकर्मकत्वम् ॥ 9.6 ॥

विश्वास-प्रस्तुतिः

असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
(6)ततः सुरेन्द्रप्रमुखाः प्रभो त्वामुपासते दैत्यवरैर्विधूताः ॥ 9.7 ॥
{6.अतः.}

मूलम्

असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
(6)ततः सुरेन्द्रप्रमुखाः प्रभो त्वामुपासते दैत्यवरैर्विधूताः ॥ 9.7 ॥
{6.अतः.}

अन्वयः

‘हे प्रभो ! त्वम् एको जगताम् अधीशः असि (अतएव) स्वर्गौकसां विपदं त्वं निहन्सि, ततः सुरेन्द्रप्रमुखाः दैत्यवरैः विधूताः सन्तः त्वाम् उपासते ।

सीतारामः

असीति । हे प्रभो, त्वमेको जगतामधीशोऽसि त्वत्सदृशो जगतां पालयिता न कोऽप्यन्योऽस्तीत्यर्थः । अत एव स्वर्गौकसामिन्द्रादीनां विपदस्त्वं निहंसि दूरीकरोषि । ततः कारणात्सुरेन्द्रप्रमुखा देवास्त्वामुपासते । यतो दैत्यवरैर्विधूतास्तिरस्कृताः ॥ 9.7 ॥

विश्वास-प्रस्तुतिः

त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये (1)सुरतादृतूनाम् ।
(2)रहः स्थितेन (3)त्वदवीक्षणार्तो दैन्यं परं प्राप सुरैः सुरेन्द्रः ॥ 9.8 ॥
{1.अत्रभवन्.2.बहिस्थितोपि.3.त्वदवोक्षणेन.}

मूलम्

त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये (1)सुरतादृतूनाम् ।
(2)रहः स्थितेन (3)त्वदवीक्षणार्तो दैन्यं परं प्राप सुरैः सुरेन्द्रः ॥ 9.8 ॥
{1.अत्रभवन्.2.बहिस्थितोपि.3.त्वदवोक्षणेन.}

अन्वयः

(हे प्रभो !) प्रियाप्रेमवशंवदेन त्वया रहःस्थितेन सुरतात् ऋतूनां शतं व्यतीतम् । सुरेन्द्रः त्वदवीक्षणार्तः (सन्) सुरैः (सह) परं दैन्यं प्राप ।

सीतारामः

त्वयेति । हे प्रभो, प्रियायाः पार्वत्याः प्रेम्णा हेतुना वशंवदेन वशीभूतेन । ‘प्रियवशे वदः खच्’ । इति खच् । ‘अरुर्द्विषदे-’ त्यादिना मुम् । तेन त्वया रहःस्थितेन सता सुरताद्धेतोर्ऋतूनां शतं व्यतीतम् । इणः कर्मणि लिट् । अथ च सुरेन्द्रस्त्वदवीक्षणेन तवानवलोकनेनार्तः पीडितः सन्सुरैः सह परमत्यन्तं दैन्यं प्राप । त्वद्विरहासहत्वादिति भावः ॥ 9.8 ॥

विश्वास-प्रस्तुतिः

त्वदीयसेवावसरप्रतीक्षैरभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
उपागतोऽन्वेष्टुमहं विहंगरुपेण विद्वन्समयोचितेन ॥ 9.9 ॥

मूलम्

त्वदीयसेवावसरप्रतीक्षैरभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
उपागतोऽन्वेष्टुमहं विहंगरुपेण विद्वन्समयोचितेन ॥ 9.9 ॥

अन्वयः

हे विद्वन् ! त्वदीयसेवाऽवसरप्रतीक्षैः शक्रमुखैः सुरैः अभ्यर्थितोऽहं त्वाम् अन्वेष्टुं समयोचितेन विहङ्गरुपेण उपागतोऽस्मि ।

सीतारामः

त्वदीयेति । हे विद्वन् ! त्वदीया त्वत्कर्मिका या सेवा तस्या अवसरस्य प्रतीक्षा येषां तैः शक्रमुखैरिन्द्रादिभिः सुरैरभ्यर्थितोहं त्वामन्वेष्टुं मृगयितुं समयोचितेन विहंगरुपेण पाराक्तरुपेण । ‘जिह्रेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्चस्त्रपते न तेन’ । इति (नैषधीयचरिते 3/43) श्रीहर्षोक्तेरिति भावः । उपागतोऽस्मि ॥ 9.9 ॥

विश्वास-प्रस्तुतिः

इति प्रभो चेतसि संप्रधार्य (1)तन्नोपराधं भगवन् क्षमस्व ।
पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमी ॥ 9.10 ॥
{1.मम.}

मूलम्

इति प्रभो चेतसि संप्रधार्य (1)तन्नोपराधं भगवन् क्षमस्व ।
पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमी ॥ 9.10 ॥
{1.मम.}

अन्वयः

हे प्रभो ! हे भगवन् ! तत् इति चेतसि संप्रधार्य नः अपराधं क्षमस्व । पराऽभिभूताः शरणार्थिनः अमी कालाऽनिपातं किं क्षमन्ते ? वद ।

सीतारामः

इतीति । हे प्रभो, हे भगवन्, तत्तस्मात्कारणात् । इति चेतसि संप्रधार्यसंविचार्य नोऽस्माकमपराधं क्षमस्व । असमय इन्द्रप्रेरितस्य तवापराधः कथं सोढव्य इति चेत्तत्राह-परेति । परैरभिभूता पराभिभूता अत एव शरणार्थिनो रक्षितारं याचमानाः । ‘शरणं गृहरक्षित्रोः’ इत्यमरः । अमी इन्द्रादयः कालातिपातं कालविलम्बं किं कथं क्षमन्ते । आर्तैः कालविलम्बो न सह्यत इति भावः । ‘प्रतीक्षते जातु न कालमार्तः’ इति न्यायात् । वद । कथयेत्यर्थः ॥ 9.10 ॥

विश्वास-प्रस्तुतिः

(2)प्रभो प्रसीदाशु (3)सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः ।
(4)स्वर्लोकलक्ष्मीप्रभुतामवाप्य(5) जगत्त्रयं पाति तव प्रसादात् ॥ 9.11 ॥
{2.अथ.3.सृजामु पुत्रम्;सुजस्व पुत्रम्.4.स्वर्गेकलक्ष्मी.5.उपेत्य.}

हे प्रभो ! प्रसीद । आत्मपुत्रम् आशु सृज, यं सेनान्यं प्राप्य असौ सुरेन्द्रः तव प्रसादात् स्वलेकिलक्ष्मीप्रभुताम् अवाप्य जगत्र्यं पाति ।

सीतारामः

प्रभो इति । हे प्रभो ! प्रसीद प्रसन्नो भव । आत्मपुत्रमाशु सृजयमात्मपुत्रं सेनान्यं प्राप्यासौ सुरेन्द्रस्तव प्रसादात्स्वर्लोकलक्ष्मीप्रभुतामवाप्य जगत्त्रयं पाति रक्षिष्यति । ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इति लट् ॥ 9.11 ॥

विश्वास-प्रस्तुतिः

स शंकरस्तामिति जातवेदोदिज्ञापनामर्थवतीं निशम्य ।
अभूत्प्रसन्नः परितोषयन्ति गीर्भिर्गिरिशा रुचिराभिरीशम् ॥ 9.12 ॥

मूलम्

स शंकरस्तामिति जातवेदोदिज्ञापनामर्थवतीं निशम्य ।
अभूत्प्रसन्नः परितोषयन्ति गीर्भिर्गिरिशा रुचिराभिरीशम् ॥ 9.12 ॥

अन्वयः

स शङ्करः इति अर्थवतां जातवेदोविज्ञापनां निशम्य प्रसन्नोऽभूत् । गिरीशाः रुचिराभिः गीर्भिः ईशं परितोषयन्ति ।

सीतारामः

स इति । स शंकर इतीत्येवंभूतामर्थवतीं सार्थकाम् । योग्यामिति यावत् । तां जातवेदसौऽग्नेर्विज्ञापनां प्रार्थनां निशम्य श्रुत्वा प्रसन्नोऽभूत् । तथाहि । गिरीशा वाग्मिनः पुरुषा रुचिराभिर्गीर्भिरीशं स्वामिनं परितोषयन्ति । प्रसादयन्तीत्यर्थः ॥ 9.12 ॥

विश्वास-प्रस्तुतिः

प्रसन्नचेता मदनान्तकारः स तारकारेर्जयिनो भवाय ।
शक्रस्य सेनाधिपतेर्जयाय व्यचिन्तयच्चेतसि भावि किंचित् ॥ 9.13 ॥

मूलम्

प्रसन्नचेता मदनान्तकारः स तारकारेर्जयिनो भवाय ।
शक्रस्य सेनाधिपतेर्जयाय व्यचिन्तयच्चेतसि भावि किंचित् ॥ 9.13 ॥

अन्वयः

प्रसन्नचेताः स मदनाऽन्तकारः जयिनः जयाय शक्रस्य सेनाऽधिपतेः तारकाऽरेः भवाय भावि किञ्चित् चेतसि व्यचिन्तयत् ।

सीतारामः

प्रसन्नेति । प्रसन्नचेताः स मदनान्तकारो हरो जयिनो जयशीलस्य तथा जयाय शत्रुपराजयार्थं शक्रस्य सेमाधिपतेस्तारकारेस्तारकशत्रोः अपत्यस्येत्यर्थः । भवाय जन्मने । तत्कर्तुमित्यर्थः । भावि भविष्यत्किंचिच्चेतसि ब्यचिन्तयत् विचचारेत्यर्थः ॥ 9.13 ॥

विश्वास-प्रस्तुतिः

युगान्तकालाग्निमिवाविषह्यं परिच्युतं मन्मथरङ्गभङ्गात् ।
रतान्तरेतः स हिरण्यरेतस्यथोर्ध्वरेतास्तदमोघमाधात् ॥ 9.14 ॥

मूलम्

युगान्तकालाग्निमिवाविषह्यं परिच्युतं मन्मथरङ्गभङ्गात् ।
रतान्तरेतः स हिरण्यरेतस्यथोर्ध्वरेतास्तदमोघमाधात् ॥ 9.14 ॥

अन्वयः

अथ ऊध्वरिताः स युगाऽन्तकालाऽग्निम् इव अविबह्य मन्मथरङ्गभङ्गात् परिच्युतम् अमोधं तत् रताऽन्तरेतः हिरण्यरेतसि आधात् ।

सीतारामः

युगान्तेति । अथ स शिवः । युगान्तकालस्याग्निमिवाविषह्यं सोढुमशक्यं मन्मथरङ्गस्य कामक्रीडाया भङ्गाद्धेतोः परिच्युतं भ्रष्टं तथामोघं सफलं तत्प्रसिद्धं रतान्तस्य सुरतान्तस्य रेतो वीर्य हिरण्यरेतसि वह्नावाधान्निदधे । यत ऊर्ध्वरेताः ऊर्ध्वगामिवीर्यं इत्यर्थः ॥ 9.14 ॥

विश्वास-प्रस्तुतिः

(1)अथोष्णबाष्पानिलदूषितान्तं विशुद्धमादर्शमिवात्मदेहम् ।
बभार भूम्ना सहसा पुरारिरेतः (2)परिक्षेपकुवर्णमग्निः ॥ 9.15 ॥
{1.अथोष्मवाष्पानलदृषितान्तर,अत्युष्णबाष्पानिलदूषितान्तर.2.परिक्षिप्तकुवर्णम्.}

अथ अग्निः विशुद्धम् आत्मदेहम् उष्णबाष्पाऽनिलदूषिताऽन्तम् आदर्शम् इव सहसा भूम्नी पुराऽरिरेनः परिक्षेपकुवर्णं दधार ।

सीतारामः

अथेति । अथानन्तरमग्निर्विशुद्धमात्मदेहमुष्णवाष्पानिलेन मुखनिःश्वासेन दूषितं म्लानीकृतमन्तर्मध्यं यस्य तमादर्शमिव सहसा भूम्ना बाहुल्येन पुरारेः शिवसंबन्धिनो रेतसः परिक्षेपस्तेन कुवर्ण कुत्सितवर्ण बभार धृतवान् ॥ 9.15 ॥

विश्वास-प्रस्तुतिः

त्वं सर्वभक्षो भव भीमकर्मा कुष्ठाभिभूतोऽनल धूमगर्भः ।
इत्थं शशापाद्रिसुता हुताशं (3)रुष्टा रतानन्दसुखस्य भङ्गात् ॥ 9.16 ॥
{3.तथा.}

मूलम्

त्वं सर्वभक्षो भव भीमकर्मा कुष्ठाभिभूतोऽनल धूमगर्भः ।
इत्थं शशापाद्रिसुता हुताशं (3)रुष्टा रतानन्दसुखस्य भङ्गात् ॥ 9.16 ॥
{3.तथा.}

अन्वयः

रतानन्दसुखस्य भङ्गात् रुष्टा अद्रिसुना ‘हे अनल ! त्वं सर्वभक्षी भीमकर्मा कुष्ठाऽभिभूतः धूमगर्भो भव’ इत्थं शशाप ।

सीतारामः

त्वमिति । रतानन्दः सुरतानन्दस्तत्र यत्सुखं तस्य भङ्गादन्तरायाद्धेतो रुष्टाद्रिसुता पार्वती । हे अनल, त्वं सर्वं मेध्यममेध्यं वा भक्षति तथोक्तः । तथा भीमं भयानकं कर्म यस्य । तथा कुष्ठेनाभिभूतः पराभूतः । तथा धूमो गर्भो मध्ये यस्य तथोक्तश्च भव । इत्थं हुताशमग्निं शशाप । शपति स्मेत्यर्थः । अत्र ज्ञीप्स्यमानत्वाभावात् ‘श्लाघह्नुङ्स्था-’ इति न संप्रदानत्वम् ॥ 9.16 ॥

विश्वास-प्रस्तुतिः

दक्षस्य शापेन शशी (4)क्षयीव (5)प्लुष्टो हिमेनेव सरोजकोशः ।
वहन्विरूपं वपुरुग्ररेतश्चयेन वह्निः किल निर्जगाम ॥ 9.17 ॥
{4.क्षयाय,5.प्रुष्टः,आलोकनतः.}

मूलम्

दक्षस्य शापेन शशी (4)क्षयीव (5)प्लुष्टो हिमेनेव सरोजकोशः ।
वहन्विरूपं वपुरुग्ररेतश्चयेन वह्निः किल निर्जगाम ॥ 9.17 ॥
{4.क्षयाय,5.प्रुष्टः,आलोकनतः.}

अन्वयः

वह्निः धक्षस्य शापेन क्षयी शशी इव, हिमेन प्लुष्टः सरोजकोश इव, उग्ररेतश्चयेन विरूपं वपुः वहन् निजंगाम ।

सीतारामः

दक्षस्येति । वह्निरग्निर्दक्षस्य शापेन हेतुना क्षयी क्षयरोगवान् शशी चन्द्र इव । तथा हिमेन शीतेन प्लुष्टो दग्धः । ‘प्लुष दाहे’ कर्मणि निष्ठा । सरोजकोश इव । वपुः स्वशरीरमुग्रस्य शिवस्य । ‘उग्रः कपर्दी श्रीकण्ठः’ इत्यमरः । रेतश्चयेन वीर्यसङ्घातेन । ‘शुक्र तेजोरेतसी च’ इत्यमरः । हेतुभूतेन विरूपं भ्रष्टशोभमेतादृशं वहन्निर्जगाम सम्भोगवेश्मतो निःसृतवान् । किलेति प्रसिद्धे ॥ 9.17 ॥

विश्वास-प्रस्तुतिः

स पावकालोकरुषा विलक्षां स्मरत्रपास्मेरविनम्रवक्त्राम् ।
विनोदयामास (1)गिरीन्द्रपुत्रीं श्रृङ्गारगर्भैर्मधुरैर्वचोभिः ॥ 9.18 ॥
{1.नगेन्द्र.}

मूलम्

स पावकालोकरुषा विलक्षां स्मरत्रपास्मेरविनम्रवक्त्राम् ।
विनोदयामास (1)गिरीन्द्रपुत्रीं श्रृङ्गारगर्भैर्मधुरैर्वचोभिः ॥ 9.18 ॥
{1.नगेन्द्र.}

अन्वयः

स पावकालोकरुषा विलक्षां स्मरत्रपास्मेरविनम्रवक्त्रां गिरीन्द्रपुत्रीं श्रृङ्गारगर्भैः मधुरैः वचोभिः विनोदयामास ।

सीतारामः

स इति । पावकस्य वह्वैरालोकेन या रुट् क्रौधस्तया हेतुना विलक्षां विरुपो विकृतिमापन्नो लक्षो लक्षणं चिह्नं शरीरशोभा यस्यास्ताम् । तथा स्मरत्रपाभ्यां कामलज्जाभ्यां स्मेरं सस्मितं विनम्रं नतं च वक्रं यस्यास्तथोक्तां गिरीन्द्रपुत्रीं पार्वतीं स हरः श्रृङ्गारगर्भैरत एव मधुरैर्वचोभिर्विनोदयामास । प्रसादितवानित्यर्थः ॥ 9.18 ॥

विश्वास-प्रस्तुतिः

हरो विकीर्णं धनधर्मतोयैर्नेत्राञ्जनाङ्कं (2)हृदयप्रियायाः ।
(3)द्वितीयकौपीनचलाञ्चलेनाहरन्मुखेन्दोरकलङ्किनोऽस्याः(4) ॥ 9.19 ॥
{2.सदयं प्रियायाः.3.हरन्.4.अपि.}

मूलम्

हरो विकीर्णं धनधर्मतोयैर्नेत्राञ्जनाङ्कं (2)हृदयप्रियायाः ।
(3)द्वितीयकौपीनचलाञ्चलेनाहरन्मुखेन्दोरकलङ्किनोऽस्याः(4) ॥ 9.19 ॥
{2.सदयं प्रियायाः.3.हरन्.4.अपि.}

अन्वयः

हरो हृदयप्रियाया अस्या अकलङ्किनो मुखेन्दोः धनधर्मतोयैः विकीर्णं नेत्राऽञ्जनाऽङ्कं द्वितीयकौपीनचलाऽञ्चलेन अहरत् ।

सीतारामः

हर इति । हरो हृदयस्य प्रियाया अस्याः पार्वत्या अकलङ्किनो मुखेन्दोः सम्बन्धिनं तथा धनानि यानि धर्मतोयानि प्रस्वेदजलानि तैर्विकीर्ण व्याप्तं नेत्रयोरञ्जनमेवाङ्कः कलङ्कस्तं द्वितीयं यत्कौपीनं योगिनः स्कन्धलम्बि वस्त्रम् । ‘कौपीनं स्यादधोवस्त्रं योगिनः स्कन्धलम्बि च’। इति मेदिनी । तस्य चलं यदञ्चलं प्रान्तस्तेनाहरद्घृतवान् । अकलङ्कस्य कलङ्कानौचित्यादिति भावः ॥ 9.19 ॥

विश्वास-प्रस्तुतिः

मन्देन (1)खिन्नाङ्गुलिना करेण (2)कम्प्रेण तस्या वदनारविन्दात् ।
परामृशन्धर्मजलं जहार हरः सहेलं व्यजनानिलेन ॥ 9.20 ॥
{1.स्विन्नाङ्गुलिना.2.कम्पेन,प्रेम्णा च.}

मूलम्

मन्देन (1)खिन्नाङ्गुलिना करेण (2)कम्प्रेण तस्या वदनारविन्दात् ।
परामृशन्धर्मजलं जहार हरः सहेलं व्यजनानिलेन ॥ 9.20 ॥
{1.स्विन्नाङ्गुलिना.2.कम्पेन,प्रेम्णा च.}

अन्वयः

हरः मन्देन स्विन्नाऽङ्गुलिना कम्प्रेण करेण तस्या वदनाऽरविन्दात् धर्मजलं परामृशन् सहेलं व्यजनाऽजिलेन जहार ।

सीतारामः

मन्देनेति । हरः शिवः । मन्देन लघुप्रचारेण । तथा खिन्ना अलसप्रयोगेणोदासोना अङ्गुलयो यस्य । तथा कम्प्रेण कम्पशीलेन । ‘नमिकम्पिस्म्यजसकमे’- ति रः । करेण कृत्वा तस्याः पार्वत्या वदनारविन्दाद् धर्मस्य धर्मरूपं वा जलं परामृशन्विश्लेषयन्सहेलं सक्रीडं यथा तथा व्यजनस्यानिलेन कृत्वा जहार ॥ 9.20 ॥

विश्वास-प्रस्तुतिः

रतिश्यथं तत्कबरीकलापमंसावसक्तं विगलत्प्रसूनम् ।
स पारिजातोद्भवपुष्पमय्या स्त्रजा बबन्धामृतमूर्तिमौलिः ॥ 9.21 ॥

मूलम्

रतिश्यथं तत्कबरीकलापमंसावसक्तं विगलत्प्रसूनम् ।
स पारिजातोद्भवपुष्पमय्या स्त्रजा बबन्धामृतमूर्तिमौलिः ॥ 9.21 ॥

अन्वयः

अमृतमूर्तिमौलिः स रतिश्लथम् अंसाऽवसक्तं विगलत्प्रसूनं तत्कबरीकलापं पारिजातोद्भवपुष्पमय्या स्त्रजा बबन्ध ।

सीतारामः

रतिश्लथमिति । अमृतमूर्तिश्चन्द्रो मौलौ यस्य स हरो देवः । रतौ श्लथं शिथिलबन्धनमत एवांसयोः स्कन्धयोरवसक्तं लग्नमत एव विगलन्त्यधःपातुकानि प्रसूनानि यस्य तं तस्याः कबरीकलापं कचभारं पारिजातोद्भवपुष्पमय्या पारिजातोद्भवानि कल्पवृक्षजानि यानि पुष्पाणि तत्प्रचुरया स्त्रजा मालया बबन्ध । ‘तत्प्रकृतवचने-’ इति प्राचुर्ये मयट् । ततः ‘टिड्ढे-’ ति डीप् ॥ 9.21 ॥

विश्वास-प्रस्तुतिः

कपोलपाल्यां मृगनाभिचित्रपत्त्रावलीमिन्दुमुखः सुमुख्याः ।
स्मरस्य सिद्धस्य जगद्विमोहमन्त्राक्षरश्रेणिमिवोल्लिलेख ॥ 9.22 ॥

मूलम्

कपोलपाल्यां मृगनाभिचित्रपत्त्रावलीमिन्दुमुखः सुमुख्याः ।
स्मरस्य सिद्धस्य जगद्विमोहमन्त्राक्षरश्रेणिमिवोल्लिलेख ॥ 9.22 ॥

अन्वयः

इन्दुमुखः सुमुख्याः कपोलपाल्यां मृगनाभिचित्रपत्त्रावलीं सिद्धस्य स्मरस्य जगद्विमोहमन्त्राऽक्षरश्रेणिम् इव उल्लिलेख ।

सीतारामः

कपोलपाल्यामिति । इन्दुमुखो हरः सुमुख्याः पार्वत्याः सम्बन्धिन्यां कपोलपाल्यां मृगनाभ्याः कस्तूर्या या चित्रा पत्त्रावली पत्त्ररचना तां सिद्धस्य स्मरस्य कामस्य जगन्ति विमुह्यन्ति यैस्तेषां मन्त्राणां यान्यक्षराणि वर्णास्तेषां श्रेणिं पङ्क्तिमिबोल्लिलेख लिखितवान् । अत्र पत्त्ररचनारुपे वस्तुन्यक्षरश्रेणिरुपोत्प्रेक्षणाद्वस्तूत्प्रेक्षालङ्कार) ॥ 9.22 ॥

विश्वास-प्रस्तुतिः

रथस्य (1)कर्णावभि तन्मुखस्य ताटङ्कचक्रद्वितयं (2)न्यधात्सः ।
जगज्जिगीषुर्विषमेषुरेष ध्रुवं यमारोहति पुष्पचापः ॥ 9.23 ॥
{1.कर्णावलितं मुखस्य.2.व्यधात्.}

मूलम्

रथस्य (1)कर्णावभि तन्मुखस्य ताटङ्कचक्रद्वितयं (2)न्यधात्सः ।
जगज्जिगीषुर्विषमेषुरेष ध्रुवं यमारोहति पुष्पचापः ॥ 9.23 ॥
{1.कर्णावलितं मुखस्य.2.व्यधात्.}

अन्वयः

स कर्णौ अभि तन्मुखस्य रथस्य ताटङ्कचक्रद्वितयं न्यधात् । (यतः) विषमेषुः एष पुष्पचापः जगज्जिगीषुः (सन्) यम् आरोहति ध्रुवम् ।

सीतारामः

रथस्येति । स हरः । कर्णावभि कर्णसंमुखे तन्मुखस्य पार्वतीमुखरुपस्य रथस्य सम्बन्धि ताटङ्करूपं चक्रद्वितयं चक्रद्वियं न्यधात् । यतो विषमेपुरेष पुष्पचापः कामो जगज्जिगीषुस्त्रिभुवनविजयेच्छुः सन् यमारोहति । ध्रुवं निश्चितम् । मुखरुपिणं रथमारुह्य जगन्ति विजेतुमिच्छति काम इति भावः ॥ 9.23 ॥

विश्वास-प्रस्तुतिः

तस्याः स कण्ठे (3)पिहितस्तनाग्रां न्यधत्त मुक्ताफलहारवल्लीम् ।
(4)या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाङ्गौघयुगस्य लक्ष्मीम् ॥ 9.24 ॥
{3.अभिघनस्तनं याम्,अभिघलस्ताग्रम्.4.सा.}

मूलम्

तस्याः स कण्ठे (3)पिहितस्तनाग्रां न्यधत्त मुक्ताफलहारवल्लीम् ।
(4)या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाङ्गौघयुगस्य लक्ष्मीम् ॥ 9.24 ॥
{3.अभिघनस्तनं याम्,अभिघलस्ताग्रम्.4.सा.}

अन्वयः

स तस्याः कण्ठे पिहितस्तनाऽग्रां मुक्ताफलहारवल्लीं न्यधत्त । या मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गौघयुगस्य लक्ष्मीं प्राप ।

सीतारामः

तस्या इति । स हरस्तस्याः कण्ठे । पिहिते स्वप्रसारेणावृते स्तनाग्रे चूचुके यया तथोक्तां मुक्ताफलहार एव वल्ली तां न्यधत्त निदधे । या मुक्ताफलहारवल्ली मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गाया ओघयोः प्रवाहयोर्युगस्य लक्ष्मीं शोभां प्राप । तद्वच्छुशुभ इत्यर्थः । अभूतोपमा ॥ 9.24 ॥

विश्वास-प्रस्तुतिः

नखव्रणश्रेणिवरे(1) बबन्ध नितम्बबिम्बे रशनाकलापम् ।
(2)चलस्वचेतोमृगबन्धनाय मनोभुवः पाशमिव स्मरारिः ॥ 9.25 ॥
{1.श्रेणिकरे.2.चलत्.}

मूलम्

नखव्रणश्रेणिवरे(1) बबन्ध नितम्बबिम्बे रशनाकलापम् ।
(2)चलस्वचेतोमृगबन्धनाय मनोभुवः पाशमिव स्मरारिः ॥ 9.25 ॥
{1.श्रेणिकरे.2.चलत्.}

अन्वयः

स्मराऽरिः नखव्रणश्रेणिवरे (तस्याः) नितम्बबिम्बे रशनाकलापं चलस्वचेतोमृगबन्धनाय मनोभुवः पाशम् इव बबन्ध ।

सीतारामः

नखेति । स्मरारिर्हरः नखव्रणश्रेणिभिरात्मप्रयुक्ताभिर्वरे मनोहरे तस्या नितम्बबिम्बे रशनाकलापम् । चलं स्वं चेत एव मृगस्तस्य बन्धनाय मनोभुवः सम्बन्धिनं पाशमिव बबन्ध । मनोभूरस्यात्मनश्चेतोमृगस्य रशनाकलापरुपजालेन बन्धनं करिष्यत्यतो हरः स्वयमेव तत्र तं निदधावित्यर्थः । नहि कामलुब्धक आत्मनीनं गणयतीति भावः ॥ 9.25 ॥

विश्वास-प्रस्तुतिः

भालेक्षणाग्नौ स्वयमञ्जनं स (3)भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
नवोत्पलाक्ष्याः पुलकोपगूढे(4) कण्ठे (5)विनीलेऽङ्गुलिमुज्जघर्ष ॥ 9.26 ॥
{3.न्यक्त्वा.4.उपगूढः.5.विनीलाङ्गुलिम्.}

मूलम्

भालेक्षणाग्नौ स्वयमञ्जनं स (3)भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
नवोत्पलाक्ष्याः पुलकोपगूढे(4) कण्ठे (5)विनीलेऽङ्गुलिमुज्जघर्ष ॥ 9.26 ॥
{3.न्यक्त्वा.4.उपगूढः.5.विनीलाङ्गुलिम्.}

अन्वयः

स भालेक्षणाग्नौ अञ्जनं स्वयं भङ्क्त्वा (अथ च) नवोत्पलाक्ष्याः तस्याः दृशोः साधु निवेश्य पुलकोपगूढे विनीले कण्ठे अङ्गुलिम् उज्जघर्ष ।

सीतारामः

भालेक्षण इति । स हरः भाले यदीक्षणं नेत्रं तदेवाग्निः । दीपकरुप इत्यर्थः । तत्राञ्जनं स्वयं भङ्क्त्वा पातयित्वा । अथ च नवोत्पलाक्ष्यास्तस्याः पार्वत्यां दृशोः साधु निवेश्य सम्यगञ्जयित्वा । अथ च पुलकै रोमाञ्चैरुपगूढे व्याप्ते विनीले श्यामले कण्ठे । स्वीय इति शेषः । अङ्गुलिमुज्जघर्ष घृष्टवान् । यथान्योऽपि दीपकोपर्यङ्गुल्यैव कज्जलं पातयित्वा स्वस्त्रीनेत्रयोर्निवेश्य कुत्रचिदङ्गुलिमुद्धर्षति तद्वत् । अङ्गुलिलग्नकज्जलनिवारणार्थमिति भावः । स्वभावोक्तिरलङ्कारः ॥ 9.26 ॥

विश्वास-प्रस्तुतिः

अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य ।
स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः(1) ॥ 9.27 ॥
{1.इन्दुमौलिः.}

मूलम्

अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य ।
स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः(1) ॥ 9.27 ॥
{1.इन्दुमौलिः.}

अन्वयः

इन्दुचूडः सरोरुहाक्ष्याः पादसरोरुहाग्रे अलक्तकं संनिवेश्य स्वमौलिगङ्गासलिलेन हस्ताऽरुणत्वम् अक्षालयत् ।

सीतारामः

अलक्तकमिति । इन्दुचूडो हरः सरोरुहाक्ष्याः पार्वत्याः पादसरोरुहाग्रेऽलक्तकं संनिवेश्यानुलिप्य । करेणेति शेषः । स्वस्य मौलौ यद्गङ्गासलिलं तेन कृत्वा हस्तस्यारुणत्वमक्षालयन्ममार्ज ॥ 9.27 ॥

विश्वास-प्रस्तुतिः

भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य ।
नेपथ्यलक्ष्म्याः(2) परिभावनार्थमदर्शयज्जीवितवल्लभां सः ॥ 9.28 ॥
{2.लक्ष्मी.}

मूलम्

भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य ।
नेपथ्यलक्ष्म्याः(2) परिभावनार्थमदर्शयज्जीवितवल्लभां सः ॥ 9.28 ॥
{2.लक्ष्मी.}

अन्वयः

स आदर्शतलं भस्माऽनुलिप्ते स्वकीये वपुषि विमृज्य नेपथ्यलक्ष्म्याः परिभावनाऽर्थं सहेलं जीवतवल्लभाम् अदर्शयत् ।

सीतारामः

भस्मेति । स हरः । आदर्शतलं भस्मानुलिप्ते स्वकीये वपुषि विमृज्य शुद्धं कृत्वा नेपथ्यानामाकल्पवेषाणां लक्ष्म्याः शोभायाः परिभावनार्थमवलोकनार्थं सहेलं यथा तथा जीवितवल्लभां प्रियामदर्शयत् ॥ 9.28 ॥

विश्वास-प्रस्तुतिः

प्रियेण दत्ते मणिदर्पणे (3)सा (4)संभोगचिह्नं स्ववपुर्विभाव्य ।
त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार ॥ 9.29 ॥
{3.च.4.सयोगचिह्नम्.}

मूलम्

प्रियेण दत्ते मणिदर्पणे (3)सा (4)संभोगचिह्नं स्ववपुर्विभाव्य ।
त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार ॥ 9.29 ॥
{3.च.4.सयोगचिह्नम्.}

अन्वयः

प्रियेण दत्ते मणिदर्पणे संभोगचिह्नं स्ववपुः विभाव्य त्रपावती सा तत्र घनाऽनुरागं रोमाञ्चदम्येन बहिः बभार ।

सीतारामः

प्रियेणेति । प्रियेण हरेण दत्ते मणीनां आदर्शे सम्भोगस्य चिह्नानि नखक्षतादीनि यत्र तथोक्तं स्वं वपुर्विभाव्यावलोक्य । भावनात्र विलोकनपरिणता ज्ञेया । त्रपावती सलज्जा । एतानि चिह्नानि विलोक्यान्यः किं वदिष्यतीति विचारजनितया लज्जयान्धेत्यर्थः । सा पार्वती तत्र हरे घनमनुरागं प्रेम रोमाञ्चानां दम्भेन कैतवेन बहिर्बहिःस्थितत्ववैशिष्ट्यपूर्वकं बभार धृतवती । अन्तरस्या योऽनुरागोऽभूत्स एव बही रोमाञ्चत्वेन परिणत इति भावः ॥ 9.29 ॥

विश्वास-प्रस्तुतिः

नेपथ्यलक्ष्मीं दयितोपक्लृप्तां सस्मेरमादर्शतले विलोक्य ।
अमंस्त सौभाग्यवतीषु धुर्यमात्मानमद्धूतविलक्षभावा(1) ॥ 9.30 ॥
{1.विलक्षतां सा;विलक्षभावम्.}

मूलम्

नेपथ्यलक्ष्मीं दयितोपक्लृप्तां सस्मेरमादर्शतले विलोक्य ।
अमंस्त सौभाग्यवतीषु धुर्यमात्मानमद्धूतविलक्षभावा(1) ॥ 9.30 ॥
{1.विलक्षतां सा;विलक्षभावम्.}

अन्वयः

(सा) आदर्शतले दयितोपवलॄप्तां नेपथ्यलक्ष्मीं सस्मेरं विलोक्य उद्धूतविलक्षभावा (सती) आत्मानं सौभाग्यवतोषु धुर्यम् अमंस्त ।

सीतारामः

नेपथ्येति । सा पार्वती । आदर्शतले दयितेन हरेणोपक्लृप्तां रचितां नेपथ्यलक्ष्मीमाभूषणमण्डनं सस्मेरं सस्मितम् । अत्र स्मितस्यानुरागव्यञ्जकत्वम् । यथा तथा विलोक्योद्धूतस्त्यक्तो विलक्षभावः पूर्वसंजातवैलक्ष्यं यया । प्रसन्नेत्यर्थः तथोक्ता सती । आत्मानं सौभाग्यवतीषु सतीषु मध्ये धुर्यमग्रगण्यममंस्त मेने प्रियकृतनेपथ्यमक्ष्म्या अन्यदुर्लभत्वादिति भावः ॥ 9.30 ॥

विश्वास-प्रस्तुतिः

अन्तः प्रविश्यावसरेऽथ तत्र स्निग्धे वयस्ये विजया जया च ।
(2)सुसंपदोपाचरतां कलाना(3)मङ्के स्थितां तां शशिखण्डमौलेः ॥ 9.31 ॥
{2.उमां तदोपाचरतां कलाभाम्,स्वसम्पदोपाचरतां कलानाम्.3.दूरे स्थिताम्,अङ्कस्थिताम्.}

अथ तत्र अवसरे विजया जया च स्निग्धे वयस्यो अन्तः प्रविश्य तत्र शशिखण्डमौलेः अङ्के स्थितां तां कलानां सुसम्पदा उपाचरताम् ।

सीतारामः

अन्तरिति । अथानन्तरं तत्रावसरे समये विजया जया चेत्युभे स्निग्धे सार्द्रचित्ते वयस्ये सख्यौ । ‘आलिः सखी वयस्या च’ इत्यमरः । अन्तः प्रविश्य तत्र शशीनः खण्डं मौलौ यस्य तथोक्तस्य हरस्य सम्बधिन्यङ्के स्थितां तां पार्वतीं कलानां भूषणकरणचातुरीविशेषाणां सुसंपदा शोभनया संपदा । शोभयेत्यर्थः । उपाचरताम् । अलंचक्रतुरित्यर्थः । उपाचरतामिति लङः प्रथमपुरुषस्य द्विवचनम् ॥ 9.31 ॥

विश्वास-प्रस्तुतिः

व्यधुर्बहिर्मङ्गलगानमुच्चैर्वैतालिका(1)श्चित्रचरित्रचारु ।
जगुश्च गन्धर्वगणाः सशङ्खस्वनं(2) प्रमोदाय पिनाकपाणेः ॥ 9.32 ॥
{1.चित्रितचारुवेध्यम्.2.ध्वनिम्.}

मूलम्

व्यधुर्बहिर्मङ्गलगानमुच्चैर्वैतालिका(1)श्चित्रचरित्रचारु ।
जगुश्च गन्धर्वगणाः सशङ्खस्वनं(2) प्रमोदाय पिनाकपाणेः ॥ 9.32 ॥
{1.चित्रितचारुवेध्यम्.2.ध्वनिम्.}

अन्वयः

बहिः वैतालिकाः चित्रचरित्रचारु मङ्गलगानम् उच्चैः व्यधुः । गन्धर्वगणाः पिनाकपाणेः प्रमोदाय सशङ्खस्वनं जगुः ।

सीतारामः

व्यधुरिति । बहिः प्रदेशे वैतालिका बन्दिनश्चित्रेण चरित्रेण चारु मनोहरं मङ्गलरूपं गानम् गीतमित्यर्थः । उच्चैरुच्चस्वरेण व्यधुश्चक्रुः । तथा गन्धर्वगणाश्च पिनाकपाणेर्हरस्य प्रमोदायानन्दाय । ‘प्रमोदामोदसंमदाः’ इत्यमरः । सशङ्खस्वनं पाञ्चजन्यशब्दसहितं यथा तथा जगुः । गायन्ति स्मेत्यर्थः ॥ 9.32 ॥

विश्वास-प्रस्तुतिः

ततः स्वसेवावसरे सुराणां गणांस्तदालोकनतत्पराणाम् ।
द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् ॥ 9.33 ॥

मूलम्

ततः स्वसेवावसरे सुराणां गणांस्तदालोकनतत्पराणाम् ।
द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् ॥ 9.33 ॥

अन्वयः

ततः स्वसेवाऽवसरे तदालोकनतत्पराणां सुराणां गणान् नन्दी प्रणतः (सन्) द्वारि प्रविश्य कृताऽञ्जलिः सन् निवेदयामास ।

सीतारामः

तत इति । ततोऽनन्तरं स्वस्य स्वर्क्तृकायाः सेवाया अवसरे समये तस्य हरस्य यदालोकनं तत्र तत्पराणामासक्तानां सुराणां गणान्कर्मभूतान् । नन्दी कर्ता । प्रणतो नम्रीभूतः सन् द्वारि प्रविश्य । न त्वन्तरेवेत्यर्थः । कृताञ्जलिः सन् । निवेदयामास । देवा भवदवलोकने समुत्सुकाः सन्तीति हरं बोधयामासेत्यर्थः ॥ 9.33 ॥

विश्वास-प्रस्तुतिः

महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः ।
संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम ॥ 9.34 ॥

मूलम्

महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः ।
संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम ॥ 9.34 ॥

अन्वयः

महेश्वरो हरो मानसराजहंसीं हिमाद्रेः तनयां करे दधानः संभोगलीलाऽऽलयतः बहि तान् अभि सहेलं निर्जगाम ।

सीतारामः

महेश्वर इति । महानीश्वरः समर्थो हरो मानसस्य मनोरुपस्य सरसो राजहसीं हिमाद्रेस्तनयां पार्वतीं करे दधानः सन् । संभोगलीलाया आलयतो मन्दिरात् । ‘निकाय्यानिलयालयाः’ इत्यमरः । बहिस्तान्सुरानभि सहेल सलीलं यथा तथा निर्जगाम । निश्चक्रामेत्यर्थः ॥ 9.34 ॥

विश्वास-प्रस्तुतिः

क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम्(1) ।
प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते(2) ॥ 9.35 ॥
{1.गिरीशम्.2.ताम्.}

मूलम्

क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम्(1) ।
प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते(2) ॥ 9.35 ॥
{1.गिरीशम्.2.ताम्.}

अन्वयः

महेन्द्रप्रमुखाः ते शिरोनिबद्धाञ्जलयः महेशं प्रालेयशैलाऽधिपतेः तनूजां लोकत्रयमातरं देवीं च क्रमात् प्रणेमुः ।

सीतारामः

क्रमादिति । महेन्द्रप्रमुखास्ते देवाः शिरःसु निबद्धा अञ्जलयो यैस्तथोक्ताः सन्तो महेशं हरम् । तथा प्रालेयो हिमानोरुपो यः शैलाधिपतिः पर्वतराजो हिमालयस्तस्य तनूजां कन्यां लोकत्रयस्य मातरं जननीं देवीं पार्वतीं च क्रमात्प्रणेमुः । नमश्चक्रुरित्यर्थः । नमश्चक्रुरित्यर्थः । ‘उपसर्गादसमासेऽपि’ इति णत्वम् ॥ 9.35 ॥

विश्वास-प्रस्तुतिः

यथागतं तान्विबुधान्विसृज्य (3)प्रसाद्य मानक्रियया प्रतस्थे ।
स नन्दिना दत्तभुजोऽधिरुह्य वृषं वृषाङ्कः सह शैलपुत्र्या ॥ 9.36 ॥
{3.प्रसन्दमानक्रियया,प्रसाद्यमानः प्रियया.}

मूलम्

यथागतं तान्विबुधान्विसृज्य (3)प्रसाद्य मानक्रियया प्रतस्थे ।
स नन्दिना दत्तभुजोऽधिरुह्य वृषं वृषाङ्कः सह शैलपुत्र्या ॥ 9.36 ॥
{3.प्रसन्दमानक्रियया,प्रसाद्यमानः प्रियया.}

अन्वयः

स वृषाऽङ्कः तान् विबुधान् मानक्रियया प्रसाद्य यथागतं विसृज्य नन्दिना दत्तभुजः (सन्) शैलपुत्र्या सह वृषम् अधिरुह्य प्रतस्थे ।

सीतारामः

यथागतमिति । स वृषाङ्को हरस्तान्विबुधानिन्द्रादीन्मानक्रियय संमानविधानेनेत्यर्थः । प्रसाद्य प्रसन्नान्कृत्वा । तथा यथागतं विसृज्य च । नन्दिना दत्तो भुजो यस्मै तथोक्तः सन् । शैलपुत्र्या पार्वत्या सह वृषमधिरुह्यास्थाय प्रतस्थे । ‘समवप्रविभ्यः स्थः’ इत्यात्मनेपदम् । ‘साकंसार्ध समं सह’ इत्यमरः ॥ 9.36 ॥

विश्वास-प्रस्तुतिः

मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो (1)गगनाध्वनोऽन्तः ।
वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः ॥ 9.37 ॥
{1.गगनाध्वनीनः.}

मूलम्

मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो (1)गगनाध्वनोऽन्तः ।
वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः ॥ 9.37 ॥
{1.गगनाध्वनीनः.}

अन्वयः

मनोऽतिवेगेन ककुद्मता गगनाऽध्वनः अन्तः प्रतिष्ठमानः स गिरीशः विहारहेलागतिभिः साऽञ्जलिभिः वैमानिकैः ववन्दे ।

सीतारामः

मन इति । मनसोऽप्यत्यन्तं वेगो गतिर्जवो यस्य तेन ककुद्मता वृषेण गगनरुपिणोऽध्वनो मार्गस्यान्तर्मध्ये प्रतिष्ठते चलतीति प्रतिष्ठमानः स गिरीशो हरो विहारार्थं हेलया क्रीडया गतिर्येषां तैः । यदृच्छया संचरमाणैरित्यर्थः । वैमानिकैर्विमानैश्चरन्तीति वैमानिकाः ‘चरति’ इति ठक् । ‘ठस्येकः’ इतीकादेशः । ‘किति च’ इत्यादिवृद्धिः । तथोक्तैः । देवैरित्यर्थः साञ्जलिभिः सद्भिर्ववन्दे नमस्कृतः । कर्मणि लिट् ॥ 9.37 ॥

विश्वास-प्रस्तुतिः

स्वर्वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी ।
तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरीजागिरीशौ ॥ 9.38 ॥

मूलम्

स्वर्वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी ।
तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरीजागिरीशौ ॥ 9.38 ॥

अन्वयः

तौ गिरिजागिरीशौ स्वर्वाहिनीवारिविहाचारी रताऽन्तनारीश्रमशान्तिकारी पारिजातप्रसवप्रसङ्गो मरुत् सिषेवे ।

सीतारामः

स्वर्वाहिनीति । तौ गिरिजागिरीशौ गौरीहरौ । कर्मभूतावित्यर्थः । स्वर्वाहिन्या मन्दाकिन्याः संबन्धिनि वारिणि विहारं संचारं चरत्याचरति । करोतीति यावत् । मन्दाकिनीसीकरवाहीत्यर्थः । अनेन शैत्योक्तिः । तथा रतान्ते यो नारीणां सम्बन्धी श्रमः खेदस्तस्य शान्तिं करोति । अनेन मान्द्योक्तिः । तथा पारिजातस्य कल्पवृक्षस्य संबन्धिनां प्रसवानां पुष्पाणां प्रसङ्गः संबन्धो यस्य अनेन सौगन्ध्योक्तिः । शैत्यमान्द्यसौगन्ध्यरुपगुणत्रयविशिष्टो मरुत्समीरणः । कर्तृभूत इत्यर्थः । सिषेवे । आराधयामासेत्यर्थः ॥ 9.38 ॥

विश्वास-प्रस्तुतिः

पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बराशः ।
धृतार्धसोमोऽद्भुतभोगिभोगो(1) विभूतिधारी स्व इव प्रपेदे ॥ 9.39 ॥
{1.भृतभोगिभोगः.}

मूलम्

पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बराशः ।
धृतार्धसोमोऽद्भुतभोगिभोगो(1) विभूतिधारी स्व इव प्रपेदे ॥ 9.39 ॥
{1.भृतभोगिभोगः.}

अन्वयः

पिनाकिना अपि कलिताऽम्बरांशः, धृतार्द्धसोमः, अद्भुतभोगिभोगः, विभूतिधारी कैलासनामा स्व इव स्फटिकाऽचलेन्द्रः प्रपेदे ।

सीतारामः

पिनाकिनेति । पिनाकिनापि हरेणापि कलितः स्वमहत्त्वेनावृतोऽम्बरांश आकाशप्रान्तदेशो येन तथोक्तः । द्वितीयपक्षे कलिता वेष्टिता अम्बरस्यांशा दिग्रूपा येन । दिगम्बर इत्यर्थः । तथा अर्धो यः सोमश्चन्द्रः सोऽस्यास्तीत्यर्धसोमो हरः स धृतो येन । कैलासवासी हि भगवान्गिरीश इति भावः । द्वितीयपक्षे धृतोऽर्धः कलारुपश्चन्द्रो येन । चन्द्रशेखरो हि भगवान्गिरीश इति भावः । भोगिन्यश्च भोगिनश्च भोगिनः । ‘पुमान्स्त्रिया’ इत्येकशेषः । भोगिनः कामुका इत्यर्थः । तेषां तत्कृर्तृको यो भोगः संभोगः सोऽद्भुत आश्चर्यकारी यत्र । द्वितीयपक्षेऽद्भुता भोगिनां सर्पाणां भोगा देहा यत्र । सर्पभूषणो हि भगवानिति भावः । तथा विभूतिं धरतीति विभूतिधारी । संपद्वानित्यर्थः । द्वितीयपक्षे विभूतिं भस्य धरतीति तथा । भस्मौद्धूलनकारी हि भगवान्गिरीश इति भावः । तथा कैलासनामा स्फटिकानामचलेन्दो गिरीन्द्रः । कर्मभूत इत्यर्थः । स्व इवात्मेव प्रपेदे प्राप्तः । कर्मणि लिट् । पूर्णोपमालंकारः ॥ 9.39 ॥

विश्वास-प्रस्तुतिः

विलोक्य यत्र स्फटिकरय भित्तौ सिद्धाङ्गनाः (2)स्वं प्रतिबिम्बमारात् ।
भ्रान्त्या (3)परस्या विमुखीभवन्ति प्रियेषु मानग्रहिला (4)नमत्सु ॥ 9.40 ॥
{2.स्वप्रतिबिम्बम्.3.परस्याभिमुखीभवन्ति.4.मनःसु.}

यत्र स्फटिकस्य भित्तौ आरात् स्वं प्रतिबिम्बं विलोक्य परस्या भ्रान्त्या मानग्रहिलाः सिद्धा।़ङ्गनाः प्रियेषु नमत्सु (अपि) विमुखीभवन्ति ।

सीतारामः

विलोक्येति ॥ यत्र कैलासे स्फटिकस्य भित्तावारात्समीपम् । ‘आराद् दूरसमीपयोः’ इत्यमरः । पतितं स्वं स्वकीयं प्रतिबिम्बं विलोक्य परस्याः सपत्न्या भ्रान्त्या भ्रमेण मानग्रहिला माने प्रणयकलहे ग्रहिला आग्रहवत्यः । तुन्दादेराकृतिगणत्वाश्रयणादिलच् । सिद्धाङ्गनाः प्रियेषु नमत्स्वपि सत्सु विमुखीभवन्ति । पराङ्मुख्यो भवन्तीत्यर्थः ॥ 9.40 ॥

विश्वास-प्रस्तुतिः

सुबिम्बितस्य स्फटिकाशुगुप्तेश्चन्द्रस्य चिह्नप्रकरः करोति ।
गौर्यार्पितस्येव रसेन यत्र (1)कस्तूरिकायाः शकलस्य लीलाम् ॥ 9.41 ॥
{1.कस्तूरिकास्थासकुलस्य.}

मूलम्

सुबिम्बितस्य स्फटिकाशुगुप्तेश्चन्द्रस्य चिह्नप्रकरः करोति ।
गौर्यार्पितस्येव रसेन यत्र (1)कस्तूरिकायाः शकलस्य लीलाम् ॥ 9.41 ॥
{1.कस्तूरिकास्थासकुलस्य.}

अन्वयः

यत्र सुबिम्बितस्य स्फटिकांऽशुगुप्तेः चन्द्रस्य चिह्नप्रकरः गौर्या अर्पितस्य कस्तूरिकायाः साकलस्य लीलां करोति ।

सीतारामः

सुबिम्बितस्येति । यत्र स्फाटिकाचलेन्द्रे सुबिम्बितस्य प्रतिबिम्बस्यात एव स्फटिकाशुभिः । शुभ्रैरित्यर्थः । गुप्तिः प्रतिबिम्बगोपनेयस्य । उभयोः शुक्लत्वात्पृथग्भासमानस्येत्यर्थः । तथोक्तस्य च्न्द्रस्य सम्बन्धी चिह्नप्रकरः कलङ्कसंचयः । ‘चिह्नं लक्ष्म च लक्षणम्’ इत्यमरः । गौर्या पार्वत्यार्पितस्य निहितस्य कस्तूरिकायाः शकलस्य खण्डस्य । संचय इवेत्युत्प्रेक्षा । लीलां क्रीडाम् । शोभामिति । यावत् । करोति । निदर्शनाभेदः । स चोपमयोत्प्रेक्षया वा सङ्कोर्यत इति संदेहसङ्करोऽत्रालङ्कारः । यदि गौर्यार्पितं तर्ह्युपमा यदि नार्पित तर्ह्युत्प्रेक्षत्यवदेयम् ॥ 9.41 ॥

विश्वास-प्रस्तुतिः

यदीयभित्तौ प्रतिबिम्बिताङ्गमात्मानमालोक्य रुषा करीन्द्राः ।
(2)मत्तान्यकुम्भिभ्रमतोऽतिभीमदन्ताभिघातव्यसनं वहन्ति ॥ 9.42 ॥
{2.नाग.}

मूलम्

यदीयभित्तौ प्रतिबिम्बिताङ्गमात्मानमालोक्य रुषा करीन्द्राः ।
(2)मत्तान्यकुम्भिभ्रमतोऽतिभीमदन्ताभिघातव्यसनं वहन्ति ॥ 9.42 ॥
{2.नाग.}

अन्वयः

करीन्द्राः आत्मानं यदीयमित्तौ प्रतिबिम्बिताऽङ्गम् आलोक्य मत्ताऽन्यकुम्भिभ्रमतो रुषा अतिभीमदन्ताऽभिघातव्यसनं वहन्ति ।

सीतारामः

यदीयेति । करीन्द्रा आत्मानं शरीरम् । स्वीयमिति शेषः । यदीयभित्तौ प्रतिबिम्बिताङ्गं प्रतिबिम्बितावयवमालोक्य विलोक्य मत्ता येऽन्ये कुम्भिनो दन्तिनस्तेषां भ्रमतो भ्रमाज्जनितया रुषया क्रोधेन । ‘प्रतिघा रुट्क्रुधौ स्त्रियौ’ इत्यमरः । अतिभीमा ये दन्तास्तेषां योऽभिघात आघातस्तेन यद्व्यसनं दुःखं दन्तजर्जरितत्वलक्षणं वहन्ति प्राप्नुवन्ति । भ्रमात्मकं ज्ञानं दुःखावहं भवतीति भावः ॥ 9.42 ॥

विश्वास-प्रस्तुतिः

निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु ।
दृष्ट्वा (1)रतान्तच्युततारहारयुक्ताभ्रमं बिभ्रति सिद्धवध्वः ॥ 9.43 ॥
{1.रतान्ते.}

मूलम्

निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु ।
दृष्ट्वा (1)रतान्तच्युततारहारयुक्ताभ्रमं बिभ्रति सिद्धवध्वः ॥ 9.43 ॥
{1.रतान्ते.}

अन्वयः

यत्र स्फटिकाऽऽलयेषु प्रतिबिम्बितानि ताराकुलानि निशासु दृष्ट्वा सिद्धवध्वो रताऽन्तच्युततारहारमुक्ताभ्रमं बिभ्रति ।

सीतारामः

निशास्विति । यत्र स्फटिकाचले स्फटिकालयेषु प्रतिबिम्बितानि ताराकुलानि नक्षत्रकुलानि निशासु दृष्ट्वा सिद्धवध्वः किंनरनार्यो रतान्ते च्युतो भ्रष्टस्तारोऽत्युच्चैर्यो हारो मुक्ताहारः । ‘तारोऽत्युच्चैस्त्रयस्त्रिषु’ इत्यमरः । तस्य या मुक्ता मौक्तिकानि तासां भ्रमं बिभ्रति । स्फटिकालयप्रतिबिम्बितमुक्तासदृशनक्षत्रकुलमभिवीक्ष्य सुरतान्तकालीनहारभ्रंशोन्मुक्ताफलभ्रान्तिमत्यः सिद्धवध्वो भवन्तीति भावः ॥ 9.43 ॥

विश्वास-प्रस्तुतिः

नभश्चरीमण्डनर्दपणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
अनर्ध्यचूडामणितामुपैति (2)शैलाधिनाथस्य शिवालयस्य ॥ 9.44 ॥
{2.शैलाधिराजस्य.}

मूलम्

नभश्चरीमण्डनर्दपणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
अनर्ध्यचूडामणितामुपैति (2)शैलाधिनाथस्य शिवालयस्य ॥ 9.44 ॥
{2.शैलाधिराजस्य.}

अन्वयः

नभश्चरीमण्डनदर्पणश्रीः सुधानिधिः यस्य मूर्धनि तिष्ठन् शिवालयस्य शैलाऽधिनाथस्य अनर्ध्यचूजामणिताम् उपैति ।

सीतारामः

नभश्चरीति । नभसि चरतीति नभश्चरी । आकाशचारिणीत्यर्थः । ‘चरेष्टः’ इति टप्रत्यये टित्त्वात् ‘टिड्ढाणञी-’ ति ङीप् । तथोक्ता मण्डनस्य विलासस्य यो दर्पण आदर्शस्तस्य श्रीरिव श्रीर्यस्य तथोक्तः । अत्र श्रीशब्दस्य रुढत्वेन शोभेति संज्ञावाचकत्वात् ‘संज्ञापूरण्योश्च’ इति पुंवद्भावो न । सुधानिधिश्चन्द्रो यस्य कैलासस्य मूर्धनि श्रृङ्गेतिष्ठन् । शिवालयस्य शिवाः कल्याणकारिण आलया गृहा यत्र तस्य । शैलानामधिनाथस्य कैलासशिखरात्किंचिदधिकत्वम् । यदा कैलासमूर्धनि चन्द्रस्तदा हिमालयस्य मूर्ध्नोऽधः किंचिद्वर्तत इति भावः ॥ 9.44 ॥

विश्वास-प्रस्तुतिः

समीयिवांसो रहसि स्मरार्ता रिरंसवो यत्र सुराः प्रियाभिः ।
एकाकिनोऽपि प्रतिबिम्बभाजो विभान्ति भूयोभिरिवान्विताः स्वैः ॥ 9.45 ॥

मूलम्

समीयिवांसो रहसि स्मरार्ता रिरंसवो यत्र सुराः प्रियाभिः ।
एकाकिनोऽपि प्रतिबिम्बभाजो विभान्ति भूयोभिरिवान्विताः स्वैः ॥ 9.45 ॥

अन्वयः

यत्र सुराः स्मरार्ताः (अत एव) रिरंसवः प्रियाभिः (सह) प्रतिबिम्बभाजः एकाकिनः अपि सहसि समीयिवांसः भूयोभिः स्वैः अन्विता इव विभान्ति ।

सीतारामः

समीयिवांस इति । यत्र सुराः स्मरार्ता अत एव रिरंसवो रन्तुमिच्छन्तः । रमतेः सन्नन्तात् ‘सनाशंसभिक्ष उः’ इत्युप्रत्ययः । तथोक्ताः । अत एव प्रियाभिः सहैकाकिनोऽपि प्रत्येकमेकसंख्याका अपि रहसि समीयिवांसः प्राप्नुवन्तो भूयोभिः स्वैर्देहैरन्विता इव विभान्ति । यतः प्रतिबिम्बभाजः । प्रतिबिम्बवशादेक एवानेकधा दृश्यत एवेति युक्तमेवेति भावः ॥ 9.45 ॥

विश्वास-प्रस्तुतिः

(1)देवोऽपि गौर्या सह चन्द्रमौलिर्यदृच्छया स्फाटिकशैलश्रृङ्गे ।
श्रृङ्गारचेष्टाभिरनारताभिर्मनोहराभिर्व्यहरच्चिराय ॥ 9.46 ॥
{1.दिशः.}

मूलम्

(1)देवोऽपि गौर्या सह चन्द्रमौलिर्यदृच्छया स्फाटिकशैलश्रृङ्गे ।
श्रृङ्गारचेष्टाभिरनारताभिर्मनोहराभिर्व्यहरच्चिराय ॥ 9.46 ॥
{1.दिशः.}

अन्वयः

चन्द्रमौलिः देवोऽपि स्फाटिकशैलश्रृङ्गे गौर्या सह यदृच्छया मनोहराभिः अनारताभिः श्रृङ्गारचेष्टाभिः चिराय व्यहरत् ।

सीतारामः

देवोऽपीति । चन्द्रमौलिर्देवोऽपि हरोऽपि स्फाटिकशैलः कैलासस्तस्य श्रृङ्गेशिखरे । ‘श्रृङ्गं प्रभुत्वे शिखरे’ इति मेदिनो । गौर्या पार्वत्या सह यदृच्छया स्वेच्छया । यथाकाममित्यर्थः । मनोहराभिरत एवा नारताभिर्निरन्तरं भवन्तीभिः श्रृङ्गारचेष्टाभिश्चिराय व्यहरद्विजहार ॥ 9.46 ॥

विश्वास-प्रस्तुतिः

देवस्य तस्य स्मरसूदनस्य हस्तं (2)समालिङ्ग्य सुविभ्रमश्रीः ।
सा नन्दिना (3)वेत्रभृतोपदिष्टमार्गा पुरोगेण कलं चचाल ॥ 9.47 ॥
{2.समालम्ब्य.3.उपदिष्टं मार्गम्.}

मूलम्

देवस्य तस्य स्मरसूदनस्य हस्तं (2)समालिङ्ग्य सुविभ्रमश्रीः ।
सा नन्दिना (3)वेत्रभृतोपदिष्टमार्गा पुरोगेण कलं चचाल ॥ 9.47 ॥
{2.समालम्ब्य.3.उपदिष्टं मार्गम्.}

अन्वयः

सुविभ्रमश्रीः सा स्मरसूदनस्य तस्य देवस्य हस्तं समालिङ्ग्य वेत्रभृता पुरोगेण नन्दिना उपदिष्टमार्गा कलं चचाल ।

सीतारामः

देवस्येति । सुविभ्रमश्रीः शोभना विभ्रमस्य विलासस्य श्रीर्यस्याः सा पार्वती । स्मरसूदनस्य स्मरविनाशकस्य तस्य देवस्य हरस्य हस्तं समालिङ्ग्य । अवलम्ब्येत्यर्थः । वेत्रभृता यष्टिधारकेण तथा पुरोगेणाग्रगामिना नन्दिना गणेनोपदिष्टमार्गतो गमनं विधेयमिति प्रदर्शितमार्गा सती कलं मधुरं यथा तथा चचाल । मन्थरां गतिमकार्षिदित्यर्थः ॥ 9.47 ॥

विश्वास-प्रस्तुतिः

(1)चलच्छिखाग्रो विकटाङ्गभङ्गः (2)सुदन्तुरः (3)शुक्लसुतीक्ष्णतुण्डः ।
भ्रुवोपदिष्टः स (4)तु शङ्करेण तस्या विनोदाय ननर्त भृङ्गी ॥ 9.48 ॥
{1.चलद्विषाणः.2.सदन्तुरः.3.शुष्क.4.हि.}

मूलम्

(1)चलच्छिखाग्रो विकटाङ्गभङ्गः (2)सुदन्तुरः (3)शुक्लसुतीक्ष्णतुण्डः ।
भ्रुवोपदिष्टः स (4)तु शङ्करेण तस्या विनोदाय ननर्त भृङ्गी ॥ 9.48 ॥
{1.चलद्विषाणः.2.सदन्तुरः.3.शुष्क.4.हि.}

अन्वयः

चलच्छिखाऽग्रः विकटाऽङ्गभङ्गः सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः स भृङ्गी तस्या विनोदाय शङ्करेण भ्रुवा उपदिष्टः (सन्) ननर्त ।

सीतारामः

चलदिति । चलन्ति शिखाग्राणि चूडाग्राणि यस्य । ‘शिखा शाखा बर्हिचूडालाङ्गलिक्यग्रमात्रके । चूडामात्रं शिखायां च ज्वालायां प्रपदेऽपि च ॥’ इति मेदिनी । तथा विकटाः कराला अङ्गभङ्गा नृत्त्यचेष्टाविशेषा यस्य । ‘विकटा वज्रवाराह्यां त्रिषु रुचिरकालयोः’ । इति मेदिनी । तथा सुदन्तुर उन्नतः । ‘दन्तुरस्तून्नते त्रिषु’ इति मेदिनी । ‘दन्त उन्नत उरच्’ इत्युरच्प्रत्ययः । शुक्लं शुभ्रं सुतीक्ष्णं सुतरां तिग्मं तुण्डं मुखं यस्य । एतादृशः स प्रसिद्धो भृङ्गी गणविशेषस्तु । तस्या भवान्या विनोदायानन्दाय शङ्करेण भ्रुवोपदिष्टः प्रेरितः सन्ननर्त ॥ 9.48 ॥

विश्वास-प्रस्तुतिः

कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यमृत्यत् ।
प्रीतेन तेन प्रभुणा नियुक्ता(5) काली कलत्रस्य मुदे प्रियस्य ॥ 9.49 ॥
{5.प्रणुन्ना.}

मूलम्

कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यमृत्यत् ।
प्रीतेन तेन प्रभुणा नियुक्ता(5) काली कलत्रस्य मुदे प्रियस्य ॥ 9.49 ॥
{5.प्रणुन्ना.}

अन्वयः

कण्ठस्थलीलोलकपालमाला, दंष्ट्राकरालीननं (बिभ्रती) काली प्रियस्य कलत्रस्य मुदे तेन प्रीतेन प्रभुणा नियुक्ता अभ्यनृत्यत् ।

सीतारामः

कण्ठस्थलीति । कण्ठस्य स्थल्यां लोला कपालानां नृकपालानां माला यस्याः । तथा दंष्ट्राभिः करालं भयानकमाननं बिभ्रती काली कालिका । ‘काली तु कालिका क्षीरकीटेषु परिकीर्तिता’ । इति मेदिनी । प्रियस्य कलत्रस्य पार्वत्या मुदे प्रीत्यै तेन प्रभुणा हरेण प्रीतेन सता नियुक्ता प्रेरिता सती । अभ्यनृत्यन्ननर्त । नृत्यतेर्दैवादिकात्कर्तरि लङ् ॥ 9.49 ॥

विश्वास-प्रस्तुतिः

भयंकरौ तौ विकटं (1)नदन्तौ विलोक्य बाला भयविह्वलाङ्गी ।
(2)सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग ॥ 9.50 ॥
{1.नटन्तौ.2.सुरङ्गम्.}

मूलम्

भयंकरौ तौ विकटं (1)नदन्तौ विलोक्य बाला भयविह्वलाङ्गी ।
(2)सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग ॥ 9.50 ॥
{1.नटन्तौ.2.सुरङ्गम्.}

अन्वयः

विकटं नदन्तौ भयङ्करौ तौ विलोक्य भयविह्वलाङ्गी बाला प्रसह्य स्वयम् अनङ्गशत्रोः उत्सङ्गं सरागं गाढम् आलिलिङ्ग ।

सीतारामः

भयंकराविति । विकटं करालं यथा तथा नदन्तौ शब्दायमानौ । अत एव भयंकरौ तौ कालीभृङ्गिणौ विलोक्य भयेन विह्वलमङ्गं यस्याः सा बाला पार्वती प्रसह्य बलात्कारेण स्वयमात्मनैवानङ्गशत्रोर्हरस्योत्सङ्गं सरागं सानुरागं यथा तथा । ‘सरङ्गम्’ इति पाठे भावे नलोपश्चिन्त्यः । गाढमालिलिङ्ग । अन्योऽपि भीतः सन्कंचिदालिङ्गति तद्वदिति भावः ॥ 9.50 ॥

विश्वास-प्रस्तुतिः

उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः ।
प्रपद्य सद्य पुलकोपगूढः स्मरेण रुढप्रमदो ममाद ॥ 9.51 ॥

मूलम्

उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः ।
प्रपद्य सद्य पुलकोपगूढः स्मरेण रुढप्रमदो ममाद ॥ 9.51 ॥

अन्वयः

ईशः रुढप्रमदः उत्तुङ्गपीनस्तनपिण्डपीडं ससम्भ्रमं तत्परिरम्भं प्रपद्य स्मरेण सद्यः पुलकोपगूढः (सन्) ममाद ।

सीतारामः

उत्तुङ्गेति । ईशो हरो रुढोपर्यारुढा प्रमदा पार्वती यस्यात एवोत्तुङ्गमुच्चैः पीनं पुष्टं यत्स्तनपिण्टम् । उभयोरतिस्थूलतया परस्परसंयुक्तत्वात्पिण्डूभूतमिति भावः । तेन कृत्वा पीडा यत्र । तथा ससम्भ्रमं सभयं तस्यास्तत्कर्तृकं परिरम्भमाश्लेषं प्रपद्य प्राप्य स्मरेण कामेन हेतुना सद्यः सहसा पुलकैरुपगूढः सन्ममाद मत्तो बभूव ॥ 9.51 ॥

विश्वास-प्रस्तुतिः

इति गिरितनुजाविलासलीलाविविधविभङ्गिभिरेष तोषितः सन् ।
अमृतकरशिरोमणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द ॥ 9.52 ॥

मूलम्

इति गिरितनुजाविलासलीलाविविधविभङ्गिभिरेष तोषितः सन् ।
अमृतकरशिरोमणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द ॥ 9.52 ॥

अन्वयः

गिरीन्द्रे कृतवसतिः अमृतकरशिरोमणिः एषः इति गिरितनुजाविलासलीलाविभङ्गिभिः तोषितः (सन्) वशिभिः गणैः (सह) ननन्द ।

सीतारामः

इतीति । गिरीन्द्रे कैलासे कृता वसतिर्येन तथामृतकरश्चन्द्रः शिरसि मणिरिव यस्य स एष हर इत्येवंभूतैर्गिरितनुजायाः पार्वत्याः सम्बन्धिनी या विलासलीला सकामचेष्टक्रीडा तस्या विविधा नानाविधा या विभङ्गयो रचनास्ताभिस्तोषितः प्रीतः सन् । वशिभिः स्ववशंगतैर्गणैर्नन्दिप्रभृतिभिः सह ननन्द जहर्ष । तेषां हर्षोऽनयोरतलौकिकक्रीडादर्शनादिति भावोऽनुसंधेयः । पुष्पिताग्रा वृत्तम् । ‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ । इति लक्षणात् ॥ 9.52 ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्री-
सीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कैलासगमनो नाम नवमः सर्गः ॥
इति श्रीकालिदासकृते कुमारसम्भवे महाकाव्ये
कैलासगमनो नाम नवमः सर्गः ।

.##

.

दशमः सर्गः

विश्वास-प्रस्तुतिः

आससाद सुनासीरं सदसि त्रिदशैः सह ।
(1)एष त्रैयम्बकं तीव्रं वहन्बह्निमंहन्महः ॥ 10.1 ॥
{1.तच्च,मत्वा.}

मूलम्

आससाद सुनासीरं सदसि त्रिदशैः सह ।
(1)एष त्रैयम्बकं तीव्रं वहन्बह्निमंहन्महः ॥ 10.1 ॥
{1.तच्च,मत्वा.}

अन्वयः

एव वह्निः तीव्रं त्रैयम्बकं महो वहन् त्रिदशैः सह सुनासीरम् आससाद ।

सीतारामः

आससादेति । एष वह्लिः । तीव्रं दु)सहं महत्त्रैयम्बकं शैवम् । त्र्यम्बकशब्दात् इदमर्थकेऽणि ‘न य्वाभ्याम्’ इत्यैजादेशः । महो वीर्य वहन् । त्रिदशैर्देवैः सह सदसि सभायां स्थितं सुनासीरं महेन्द्रमाससाद प्राप । ‘वृद्धश्रवाः सुनासीरः’ इत्यमरः ॥ 10.1 ॥

विश्वास-प्रस्तुतिः

सहस्रेण दृशामीशो (2)कुत्सिताङ्गं च सादरम् ।
दुर्दर्शनं ददर्शाग्निं (3)धूम्रं धूमितमण्डलम् ॥ 10.2 ॥
{2.द्युसदां सोऽतिसादरम्,द्युसत्संसदि सादरम्.3.धूमिल.}

मूलम्

सहस्रेण दृशामीशो (2)कुत्सिताङ्गं च सादरम् ।
दुर्दर्शनं ददर्शाग्निं (3)धूम्रं धूमितमण्डलम् ॥ 10.2 ॥
{2.द्युसदां सोऽतिसादरम्,द्युसत्संसदि सादरम्.3.धूमिल.}

अन्वयः

कुत्सिताऽङ्गं दुर्दर्शनं धूम्रधूमितमण्डलं तम् अग्निम् ईशः दृशां सहस्रेण सादरं ददर्श ।

सीतारामः

सहेति । कुत्सिताङ्गमत एव दुर्दर्शनं धूम्रं धूम्रवर्णं धूमितं संजातधूमम् । तारकादित्वादितच् । मण्डलं यस्य तमग्निमीशो महेन्द्रो दृशां सहस्रेण सादरं यथा तथा ददर्श दृष्टवान् ॥ 10.2 ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तथाविधं वह्निमिन्द्रः (4)क्षुब्धेन चेतसा ।
व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेषिरोषजम् ॥ 10.3 ॥
{4.क्रुद्धेन.}

मूलम्

दृष्ट्वा तथाविधं वह्निमिन्द्रः (4)क्षुब्धेन चेतसा ।
व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेषिरोषजम् ॥ 10.3 ॥
{4.क्रुद्धेन.}

अन्वयः

इन्द्रो वह्नि तथाविधं दृष्ट्वा क्षुब्धेन चेतसा कन्दर्पद्वेषिरोषजं किञ्चित् चिरं व्यचिन्तयत् ।

सीतारामः

दृष्ट्वेति । इन्द्रो वह्निं तथाविधं दृष्ट्वा क्षुब्धेन संचलितेन चेतसा कन्दर्पद्वेषिणो हरस्य रोषाज्जातं किंचिदपराधलक्षणं चिरं व्यचिन्तयत् षष 10.3 ॥

विश्वास-प्रस्तुतिः

(1)स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम् ।
उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ॥ 10.4 ॥
{1.स्त्रवज्जलमुखैः, स विलक्षमुखैः.}

मूलम्

(1)स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम् ।
उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ॥ 10.4 ॥
{1.स्त्रवज्जलमुखैः, स विलक्षमुखैः.}

अन्वयः

स विलक्ष्यमुखैः देवैः क्षणं क्षणं वीक्ष्यमाणः (सन्) सुरेन्द्रेण सादरम् आदिष्टम् आसनम् उपाविशत् ।

सीतारामः

स इति । सोऽग्निर्विलक्ष्यमुखैर्म्लानमुखैर्देवैः क्षणं क्षणं प्रतिक्षणं वीक्ष्यमाणो दृश्यमानः सन् । सुरेन्द्रेण सादरमादिष्टमासनमुपाविशत् ॥ 10.4 ॥

विश्वास-प्रस्तुतिः

हव्यवाह ! त्वयासादि (2)दुर्दशेयं दशा कुतः ?
इति पृष्टः सुरेन्द्रण स निःश्वस्य वचोऽवदत् ॥ 10.5 ॥
{2.सुमहादुर्दशा;सुदर्दर्शा दशा.}

मूलम्

हव्यवाह ! त्वयासादि (2)दुर्दशेयं दशा कुतः ?
इति पृष्टः सुरेन्द्रण स निःश्वस्य वचोऽवदत् ॥ 10.5 ॥
{2.सुमहादुर्दशा;सुदर्दर्शा दशा.}

अन्वयः

‘हे हव्यवाह ! त्वया इयं दुर्दशा दशा कुत आसादि’ इति सुरेन्द्रेण पृष्टः (सन्) स निःश्वस्य वचः अवदत् ॥

सीतारामः

हव्यवाहेति । सोऽग्निः । हव्यवाह ! त्वया दुर्दशेयं दशावस्था कुतो हेतोरासादि प्रापोति सुरेन्द्रेण पृष्टः सन्निःश्वासं कृत्वा वचो वक्ष्यमाणमवदत् ॥ 10.5 ॥

अथ युग्मेनाह-
‘अनतिक्रमणीयात्ते शासनात्सुरनायक !
पारावत वपु प्राप्य वेपमानोऽतिसाध्वसात् ॥ 10.6 ॥
(3)अभिगौरि रतासक्तं जगामहं महेश्वरम् ।
कालस्येव स्मरारातेः (4)स्वं रुपमहमासद ॥ 10.7 ॥’
{3.अतिगौरी.4.उपान्तम्.}

अन्वयः

‘हे सुरनायक ! अहं पारावतं वपुः प्राप्य अनतिक्रमणीयात् ते शासनात् अभिगौरि रतासक्तं महेश्वरं जगाम । (अथ) अतिसाध्वसात् वेपमानः अहं कालस्य इव स्मरारातेः स्वं रूपम् आसदम्’ ।

सीतारामः

अनतीति । अभिगौरीति । हे सुरनायक, अहं पारावतं कापोतं वपुः प्राप्यानतिक्रमणीयादनुल्लङ्घनीयात्ते तव शासनाद्धेतोरभिगौरि गौर्यामित्यभिगौरि । ‘अव्ययं विभ्क्ति-’ इत्यादिना विभक्त्यर्थेऽव्ययीभावः । रतासक्तं महेश्वरं जगाम प्राप । जगामेति लिट् उत्तमपुरुषैकवचनम् । अथ चातिसाध्वसाद्वेपमानः कम्पमानोऽहं कालस्येव । तद्वद्भयानकस्येत्यर्थः । स्मरारातेर्हरस्य । पुर इति शेषः । स्वं रुपमाग्नेयस्वरुपमासदं प्रापम् । लङ उत्तमपुरुषैकवचनम् ॥ 10.6-10.7 ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय (1)जम्भभित् !
ज्वलद्भालानले होतुं (2)कोपनो (3)माममन्यत ॥ 10.8 ॥
{1.ज्ञानभृत्,यज्ञभित्.2.कोपतः.3.अयममन्यत,मामलोकयत्.}

मूलम्

दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय (1)जम्भभित् !
ज्वलद्भालानले होतुं (2)कोपनो (3)माममन्यत ॥ 10.8 ॥
{1.ज्ञानभृत्,यज्ञभित्.2.कोपतः.3.अयममन्यत,मामलोकयत्.}

अन्वयः

‘हे जम्भमित् ! सुज्ञो मां दृष्ट्वा छद्मविहङ्गं विज्ञाय कोपनः (सन्) मां ज्वलद्भालाऽनले होतुम् अमन्यत ।’

सीतारामः

दृष्ट्वेति । हे जम्भभिदिन्द्र ! सुज्ञो हरो मां दृष्ट्वा । अथ च छद्मना विहङ्गं विज्ञाय ज्ञात्वा । दर्शनमात्रादेव तु कापट्यानवगम एव किन्तु विलम्बोपस्थिततया । अतो ज्ञानदर्शनयोर्भिन्नकालीनत्वात्पृथग्व्यपदेशः । अतो ल्यब्द्वयस्य मननक्रियापेक्षया पूर्वत्वेनान्वयः । कोपनः क्रोधनः सन् । ‘क्रुधमण्डार्थेभ्यश्च’ इति युच् । मां ज्वलति भालस्थेऽनलेऽग्नौ होतुं दग्धुममन्यत मेने । मननमत्र विचारणं तद्धवनफलकमिति । अहमेनमग्नौ धक्ष्यामीति विचचारेत्यर्थः ॥ 10.8 ॥

विश्वास-प्रस्तुतिः

वचोभिर्मधुरैः (4)सार्थैर्वनम्रेण मया स्तुतः ।
प्रीतिमानभवद्दैवः ‘स्तोत्रं कस्य न तुष्टये’ ॥ 10.9 ॥
{4.सान्त्वैः.}

मूलम्

वचोभिर्मधुरैः (4)सार्थैर्वनम्रेण मया स्तुतः ।
प्रीतिमानभवद्दैवः ‘स्तोत्रं कस्य न तुष्टये’ ॥ 10.9 ॥
{4.सान्त्वैः.}

अन्वयः

मया सता विनम्रेण साऽर्थैः मधुरैः वचोभिः स्तुतो देवः प्रीतिमान् अभवत्; ‘स्तोत्रं कस्य तुष्टये न’ ।

सीतारामः

वचोभिरिति । मया विनम्रेण सता सार्थैरत एव मधुरैर्मनोहरैर्वचोभिः करणैः । स्तुत ईडितो देवो हरः प्रीतिमानभवत् । मदुपरिप्रससादेत्यर्थः । तथाहि । स्तोत्रं स्तुतिः । ‘स्तवः स्तोत्रं स्तुतिर्नुतिः’ इत्यमरः । कस्य तुष्टये संतोषाय न भवति । अपि तु सर्वस्यापीत्यर्थः । अत्र सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलंकारः ॥ 10.9 ॥

विश्वास-प्रस्तुतिः

शरण्यः सकलत्राता मामत्रायत शंकर) ।
क्रोधाग्नेर्ज्वलतो (1)ग्रासात्र्त्रासतो दुर्निवारतः ॥ 10.10 ॥
{1.ग्रासत्रासतः.}

मूलम्

शरण्यः सकलत्राता मामत्रायत शंकर) ।
क्रोधाग्नेर्ज्वलतो (1)ग्रासात्र्त्रासतो दुर्निवारतः ॥ 10.10 ॥
{1.ग्रासत्रासतः.}

अन्वयः

शरण्यः सकलत्राता शङ्करः ज्वलतो दुर्निवारतः क्रोधाऽनेः ग्रासात् त्रासतो माम् अत्रायत ।

सीतारामः

शरण्य इति । शरण्यः शरणे साधुः । ‘तत्र साधुः’ इति यत्प्रत्ययः । अत एव सकलत्राता सर्वेषां रक्षिता । एवंभूतः शंकरो हरो ज्वलतो दीप्यमानस्य दुर्निवारतो दुःखेन निवारयितुं शक्यस्य क्रोधाग्नेः क्रोधाग्निकर्तृकाद्ग्रासाद्यस्त्रासो भयं तस्मान्मामत्रायत ररक्ष । ‘त्रैङ् पालने’ लङ् ॥ 10.10 ॥

विश्वास-प्रस्तुतिः

परिहृत्य (2)परीरम्भरभसं दुहितुर्गिरेः ।
कामकेलिरसोत्सेकाद् व्रीडया विरराम सः ॥ 10.11 ॥
{2.परीरम्भं रभसात्.}

मूलम्

परिहृत्य (2)परीरम्भरभसं दुहितुर्गिरेः ।
कामकेलिरसोत्सेकाद् व्रीडया विरराम सः ॥ 10.11 ॥
{2.परीरम्भं रभसात्.}

अन्वयः

स गिरेः दुहितुः परीरम्भरभसं परिहृत्य व्रीडया कामकेलिरसोत्सेकात् विरराम ।

सीतारामः

परिहृत्येति । स हरो गिरेर्दिहितुः पार्वत्याः संबन्धिनं परीरम्भरभसं परिहृत्योत्सृज्य व्रीडया हेतुभूतया कामस्य केले रसस्योत्सेकान्मानसस्यासक्तेर्विरराम विरतोऽभूत् । ‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम् ॥ 10.11 ॥

विश्वास-प्रस्तुतिः

रङ्गभङ्गच्युतं (3)रेतस्तदामोघं (4)सुदुर्वहम् ।
त्रिजगद्दाहकं सद्यो मद्विग्रह(5)मधि न्यधात् ॥ 10.12 ॥
{3.तदमोघम्.4.सुदुर्धरम्.5.अभिन्यधात्.}

मूलम्

रङ्गभङ्गच्युतं (3)रेतस्तदामोघं (4)सुदुर्वहम् ।
त्रिजगद्दाहकं सद्यो मद्विग्रह(5)मधि न्यधात् ॥ 10.12 ॥
{3.तदमोघम्.4.सुदुर्धरम्.5.अभिन्यधात्.}

अन्वयः

तदा (सः) रङ्गभङ्गच्युतम् अमेघं त्रिजगद्दाहकं सुदुर्वहं रेतः मद्विग्रहम् अधि सद्यो न्यधात् ।

सीतारामः

रङ्गेति । तदा स हरो रङ्गस्य कामकेलर्भङ्गादन्तरायात् । अस्य हेतोः क्रोधाभिव्यञ्जकत्वे न दोषः । च्युतं पतितममोधं सफलं त्रिजगद्दाहकमत एव सुदुर्वहं सुतरां दुःखेन वोढुं शक्यं रेतः शुक्रं मद्विग्रहमधि । मम शरीर इत्यर्थः । सद्यो न्यधात् । ‘अधिमद्विग्रहम्’ इति वक्तव्ये मद्विग्रहमधीत्युक्तं महाकविप्रयोगान्न दोषाय ॥ 10.12 ॥

विश्वास-प्रस्तुतिः

दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
निर्दग्धमात्मनो देहं दुर्वहं वोहुमक्षमः ॥ 10.13 ॥

मूलम्

दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
निर्दग्धमात्मनो देहं दुर्वहं वोहुमक्षमः ॥ 10.13 ॥

अन्वयः

दहनात्मना दुर्विषह्येण तेन तेजसा निर्दग्धं दुर्वहम् आत्मनो देहं वोढुम् अहम् अक्षमः ।

सीतारामः

दुर्विषह्येणेति । दहनात्मनाग्निरुपेणात एव दुर्विषह्येण दुःखेन वोढुं शक्येन । ‘शकिसहोश्च’ इति यत् । तेन तेजसा वीर्येण निर्दग्धम् अत एव दुर्वहमात्मनो देहं वोढुमहमक्षमोऽस्मि । यथाहं क्षमा स्यां तथैव त्वयाशु विधेयमिति व्यज्यते ॥ 10.13 ॥

विश्वास-प्रस्तुतिः

रौद्रेण दह्यमानस्य महसातिमहीयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ! ॥ 10.14 ॥

मूलम्

रौद्रेण दह्यमानस्य महसातिमहीयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ! ॥ 10.14 ॥

अन्वयः

हे वासव ! अतिमहीयसा रौद्रेण महसा दह्यमानस्य मम प्राणपरित्राणप्रगुणो भव ।

सीतारामः

राद्रेणेति । हे वासव इन्द्र, अतिमहीयसा रौद्रेण शाम्भवेन महसा तेजसा दह्यमानस्य मम प्राणानां परित्राणेन प्रगुणो विख्यातो भव । मम प्राणत्राणे भवतो महद्यशो भविष्यतीति भावः ॥ 10.14 ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा वचो बह्नेः परितापोपशान्तये ।
हेतुं विचिन्तयामास मनसा विबुधेश्वरः ॥ 10.15 ॥

मूलम्

इति श्रुत्वा वचो बह्नेः परितापोपशान्तये ।
हेतुं विचिन्तयामास मनसा विबुधेश्वरः ॥ 10.15 ॥

अन्वयः

विबुधेश्वरः वह्नेः इति वचः श्रुत्वा परितापोपशान्तये मनसा हेतु विचिन्तयामास ।

सीतारामः

इतीति । विबुधानामीश्वरो महेन्द्रो वह्नेरितीत्येवंभूतं वचः श्रुत्वा परितापस्योपशान्तये । अर्थात्तस्यैवेत्यर्थः । मनसा हेतुं निदानं विचिन्तयामास । केनोपायेनास्य तापोपशान्तिर्भवेदिति विचारयामासेत्यर्थः ॥ 10.15 ॥

विश्वास-प्रस्तुतिः

तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
किंचित्कृपीटयोनिं तं दिवस्पतिरभावत ॥ 10.16 ॥

मूलम्

तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
किंचित्कृपीटयोनिं तं दिवस्पतिरभावत ॥ 10.16 ॥

अन्वयः

दिवस्पतिः तं कृपीटयोनिं तेजोदग्धानि अस्य गात्राणि पाणिना परामुशन् किञ्चित् अभाषत ।

सीतारामः

तेज इति । दिवस्पतिरिन्द्रस्तं कृपीटयोनिमग्निं कर्मभूतं तेजसा शाम्भवेन धाम्ना दग्धानि प्लुष्टान्यस्याग्नेर्गात्राणि पाणिना परामृश्न्स्पृशान्सन् । किंचिद्वक्ष्यमाणमभाषतोवाच । भाषतेर्द्विकर्मकत्वं हि व्रूञर्थनिबद्धत्वात् । ‘अर्थनिबन्धनेयं सज्ञा’ इति वार्तिकात् । ‘कृपूटयोनिर्ज्वलनः’ इत्यमरः । ‘शतमन्युर्दिवस्पतिः’ इति च ॥ 10.16 ॥

विश्वास-प्रस्तुतिः

अथेन्द्रोऽग्निं सप्तभिः स्तौति-
प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥ 10.17 ॥

मूलम्

अथेन्द्रोऽग्निं सप्तभिः स्तौति-
प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥ 10.17 ॥

अन्वयः

(भो अग्ने !) त्वं प्रीतः (सन्) स्वाहा-स्वधा-हन्तकारैः देवान् पितॄन् मनुष्यान् (च) स्वयं प्रीणयसे, यतः एकः (एव) तेषां मुखम् (असि) ।

सीतारामः

प्रीत इति । भौ अग्ने, त्वं प्रीतः सन् । स्वाहाकारः स्वधाकारो हन्तकार एतैः शब्दैः कृत्वा होतृभिः प्रक्षिप्तेन । हविषेति शेषः । देवानिन्द्रादीन्पिन्मनुष्यांश्च स्वयं प्रीणीयसे प्रसादयसि । कथमेतान्प्रसादयामीत्याह-यत एक एव त्वं तेषां देवादीनां मुखमसि ॥ 10.17 ॥

विश्वास-प्रस्तुतिः

त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
(1)भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ॥ 10.18 ॥
{1.भुञ्जते.}

मूलम्

त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
(1)भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ॥ 10.18 ॥
{1.भुञ्जते.}

अन्वयः

(भो अग्ने !) होतारो हवींषि त्वयि जुह्वति, (अत एव) ध्वस्तकल्मषाः (सन्तः) स्वर्ग भुञ्जन्ति । हि त्वम् एक एव स्वर्गप्राप्तौ कारणम् ।

सीतारामः

त्वयीति । होतारो हवींषि त्वयि जुह्वति । अत एव ध्वस्तकल्मषाः स्त्रस्तपापाः सन्तः स्वर्ग भुञ्जन्ति । हि यतस्त्वमेक एव स्वर्गप्राप्तौ कारणम् । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिश्रुत्युक्तयागफलस्वर्गप्राप्तौ यागस्य त्वदायत्ततया कारणत्वोक्तेरिति भावः ॥ 10.18 ॥

विश्वास-प्रस्तुतिः

हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
तपस्विनस्तपःसिद्धिं यान्ति, त्वं (2)तपसां प्रभुः ॥ 10.19 ॥
{2.तपसः.}

मूलम्

हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
तपस्विनस्तपःसिद्धिं यान्ति, त्वं (2)तपसां प्रभुः ॥ 10.19 ॥
{2.तपसः.}

अन्वयः

हे हुताश ! तपस्विनः मन्त्रपूतानि हवींषि त्वयि जुह्वतः (सन्तः) तपःसिद्धिं यान्ति, (यतः) त्वं तपसां प्रभुः ।

सीतारामः

हवींषीति । भो हुताश ! तपस्विनो मन्त्रपूतानि हवींषि त्वयि जुह्वतः सन्तः । ‘नाभ्यस्ताच्छतुः’ इति नुम्निषेधः । तपःसिद्धिं यान्ति प्राप्नुवन्ति । यतस्त्वं तपसां प्रभुः ॥ 10.19 ॥

विश्वास-प्रस्तुतिः

(3)निधत्से हुतमर्काय, स पर्जन्योऽभिवर्षति ।
ततोऽन्नानि, (4)प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ 10.20 ॥
{3.नयन.4.प्रजान्ते.}

मूलम्

(3)निधत्से हुतमर्काय, स पर्जन्योऽभिवर्षति ।
ततोऽन्नानि, (4)प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ 10.20 ॥
{3.नयन.4.प्रजान्ते.}

अन्वयः
विश्वास-प्रस्तुतिः

(हे अग्निदेव !) त्वम् अर्काय हुतं निधत्से (अतः) स पजन्यः (सन्) अभिवर्षति, ततः अन्नानि, तेभ्यः प्रजाः, तेन जगतः पिता (असि) ।

सींo- निधत्स इति । भो अग्ने ! त्वमर्काय देवान्तःपातिने सूर्याय हुतं हविर्निधत्से निधानरुपतया ददासि । अतः सोऽर्कः पर्जन्यः सन्नभिवर्षति । ततो वर्षणादन्नान्युत्पद्यन्ते । तेभ्योऽन्नेभ्यः प्रजा जायन्ते । तेन कारणेन जगतः पितासि । पातीति पितेति व्युत्पत्त्या साधारणरक्षकस्यापि पितृत्वम् । न केवलं जनकस्यैवेति भावः । अथ एकोक्तं नीतो- 'अन्नदाता भयत्राता यश्च कन्यां प्रयच्छति । जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥' इति ॥ 10.20 ॥ (1)अन्तश्चरोऽसि भूतानां, तानि (2)त्वत्तो भवन्ति च । (3)ततो (4)जीवितभूतस्त्वं जगतः प्राणदोऽसि च(5) ॥ 10.21 ॥ {1.अन्तश्चरास.2.त्वद्वलवन्ति.3.त्वत्ता.4.जीवितमय.5.तत्.}

(हे अग्निदेव !) त्वं भूतानाम् अन्तश्चरः असि । तानि त्वतो भवन्ति । ततः त्वं जीवितभूतो जगतः प्राणदश्च असि ।

सीतारामः

अग्तरिति । भो अग्ने ! त्वं भूतानां प्राणिनामन्तश्चरोऽन्तर्व्याप्यसि । तानि भूतानि च त्वतो भवन्त्युत्पद्यन्ते । तत उभयकारणतस्त्वं जीवितानि प्राणितानि भूतानि येन तथोक्ता जगतः प्राणदस्चासि । अग्नेरन्तराधेपतयैव प्राणिनां जीवनमतो जीवितभूतत्वम् । अग्नेरेव जगदुत्पादक तया प्राणदत्वं चार्थात्सिद्धम् । उतरवाक्यद्वयस्य पूर्ववाक्यद्वयान्तर्गतत्वात् पृथक्त्वेन ग्रहणं व्यर्यमिति चेन्न । अन्तर्व्यापित्वजीवितभूतत्वयोः साहचर्यप्रयुक्तं न सामानाधिकरण्यम् । यस्य यत्र यवान्तर्भावित्वं तस्य तत्रतत्र जीविभूतत्वमिति नियमाभावात् । न च वह्निसंबन्धावच्छिन्नतेवेन तयोः सामानाधिकरण्यमिति वाच्यम् । वह्निसंबन्धावच्छिन्नत्वमन्तर्व्याप्ते तप्तायःपिण्डे न तत्र जीवितभूतत्वम् । अतो वह्निसंबन्धावच्छिन्नत्वेनापि सामानाधिकरणतानियमः कर्तु न शक्यते । उत्पादकत्वप्राणदत्वयोः साहचर्यनियमाभावात् । कुलालस्य सत्यप्युत्पादकत्वे प्राणदत्वं नास्ति । घटमुत्पादयतोऽपि कुलालस्य न जीवनदातृस्वशक्तिरित्यलं विवादेन । अतिगहनोऽयं विवादः । ‘जगतः’ इति षष्ठी प्राणान्वयान्नतु दानान्वयात् । अन्यथा ‘कर्मणा यमभिप्रैति स संप्रदानम्’ इति संप्रदानत्वाच्चतुर्थी प्रसज्जयेतेति । ननु जगत इत्यस्य प्राणान्वये केवलसंबन्धवाचकत्वेन तस्य नित्यसंप्रदानविवक्षा केन निरास्यते । एवं च संप्रदानान्तरं मृग्यं स्यात् । अथवा जगत्संबन्धिनां प्राणानां दानं जगत्संप्रदानकमेवेत्यर्थात् संप्रदानसिद्धिः ॥ 10.21 ॥

विश्वास-प्रस्तुतिः

जगतः सकलस्यास्य त्वमेकोऽस्तुपकारकृत ।
कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ॥ 10.22 ॥

मूलम्

जगतः सकलस्यास्य त्वमेकोऽस्तुपकारकृत ।
कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ॥ 10.22 ॥

अन्वयः

(हे अग्ने !) त्वम् एकः (एव) अस्य सकलस्य जगतः उपकारकृत् असि । (अस्माकम्) तत्र कार्योपपादने त्वत्तः अन्यः कः प्रगल्भते ?

सीतारामः

जगत इति । भो अग्ने ! त्वमेक एवास्य सकलस्य जगत उपकारकृद्धितकृदसि । अत एवास्माकं तत्र कार्योपपादने त्वत्तोऽन्यः । ‘अन्यारादि-’ ति पञ्चमी । कः प्रगल्भते ? समर्थो भवेत् । न कोऽपूत्यर्थः ॥ 10.22 ॥

विश्वास-प्रस्तुतिः

अमीषां (1)सुरसाघानां त्वमेकोऽर्थसमर्थने ।
(2)विपत्तिरपि संश्लाध्योपकारव्रतिनोऽनल ॥ 10.23 ॥
{1.सुरसैन्यानाम्.2.विपदोऽपि पदं श्लाध्योपकारयति नो हि सः;विपदोऽपि पदं श्लाघोपकारवतिनो हि सा.}

मूलम्

अमीषां (1)सुरसाघानां त्वमेकोऽर्थसमर्थने ।
(2)विपत्तिरपि संश्लाध्योपकारव्रतिनोऽनल ॥ 10.23 ॥
{1.सुरसैन्यानाम्.2.विपदोऽपि पदं श्लाध्योपकारयति नो हि सः;विपदोऽपि पदं श्लाघोपकारवतिनो हि सा.}

अन्वयः

हे अनल ! अमीषां सुरसङ्घानाम् अर्थ-समर्थने त्वम् एकः अपि (असि) उपकारप्रतिनो विपत्तिरपि संश्लाध्या ।

सीतारामः

अमीषामीति । भो अनल, अमोषां सुरसंघानां देवसमूहानामस्मदादीनामर्थसमर्थने कार्यसाधने विषयेत्वमेक एव समर्थोऽसि । एवंविधोऽप्यहं विपन्नः किं करोमीत्याहःविपत्तिरिति । उपकारेषु परहितेषु व्रतिनो नियमवतः पुरुषस्य विपत्तिरपु सम्यक् श्लाध्या भवति । अथोविपन्नोऽपि स्तूयस इति भावः ॥ 10.23 ॥

विश्वास-प्रस्तुतिः

संप्रत्युपायमुपदिशति-
देवी भागीरथी पूर्व भक्त्यास्माभिः प्रतोषिता ।
निमज्जतस्तवोदीर्ण तापं निर्वापयिष्यति ॥ 10.24 ॥

मूलम्

संप्रत्युपायमुपदिशति-
देवी भागीरथी पूर्व भक्त्यास्माभिः प्रतोषिता ।
निमज्जतस्तवोदीर्ण तापं निर्वापयिष्यति ॥ 10.24 ॥

अन्वयः

पूर्वम् अस्माभिः भक्त्या प्रतोषिता देवी भागीरथी निमज्जतः तव उदीर्णं तापं निर्वापयिष्यति ।

सीतारामः

देवीति । पूर्वमस्माभिर्भक्त्या प्रतोषिता भागीरथी देवी निमज्जतः स्नानं कुर्वतस्तवोदीर्णमत्युल्बणं तापं निर्वापयिष्यतीत्यर्थः ॥ 10.24 ॥

विश्वास-प्रस्तुतिः

गङ्गां तद्गच्छ मा कार्षि (1)विलम्बं हव्यवाहन ।
(2)कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ 10.25 ॥
{1.विषादम्.2.अर्थेष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता.}

मूलम्

गङ्गां तद्गच्छ मा कार्षि (1)विलम्बं हव्यवाहन ।
(2)कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ 10.25 ॥
{1.विषादम्.2.अर्थेष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता.}

अन्वयः

हे हव्यवाहन ! तत् गङ्गा गच्छ, विलम्बं मा कार्षीः । (तथा हि) अवश्चकार्येषु कार्येषु क्षिप्रकारिता सिद्धये ।

सीतारामः

गङ्गामिति । भो हव्यवाहन, तत्तस्माद् गङ्गां देवीं गच्छ याहि । विलम्बं मा कार्षिर्मा कुरु । ‘न माङ्योगे’ इत्यडागमनिषेधः । तथाहि । अवश्चकार्येषु सिद्धये क्षिप्रकारितानलसितत्वम् । उचिरेति शेषः । तस्मात्त्वया शीघ्रमेव गन्तव्यमिति भावः ॥ 10.25 ॥

विश्वास-प्रस्तुतिः

शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
(3)त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ॥ 10.26 ॥
{3.तत्र गत्वा च तद् बीजममोघं मुञ्च सुस्थिरम्.}

मूलम्

शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
(3)त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ॥ 10.26 ॥
{3.तत्र गत्वा च तद् बीजममोघं मुञ्च सुस्थिरम्.}

अन्वयः

(हे अग्ने !) शम्भोः अम्भोमयी मूर्तिः, सा एव सुरापगा देवी दुर्धरं स्मरद्विषो बीजं त्वत्तः धारयिष्यति ।

सीतारामः

शंभोरिति । भो अग्ने ! शंभोरम्भोमयी जलमयी मूर्तेर्देवी सा सुरापगैव गङ्गैव दुर्धरं स्मरद्विषो हरस्य बीजं तेजस्त्वत आदाय धारयिष्यति । धरिष्यतीत्यर्थः । ‘शुक्रं तेजोरेतसी च बीजवीर्येन्द्रयाणि च’ । इत्यमरः ॥ 10.26 ॥

विश्वास-प्रस्तुतिः

इत्युदीर्य सुनासीरो विरराम, स चानलः ।
तद्विसृष्टस्तमापृच्छ्य(1) प्रतस्थे स्वर्धुनीमभि ॥ 10.27 ॥
{1.आमन्त्र्य.}

मूलम्

इत्युदीर्य सुनासीरो विरराम, स चानलः ।
तद्विसृष्टस्तमापृच्छ्य(1) प्रतस्थे स्वर्धुनीमभि ॥ 10.27 ॥
{1.आमन्त्र्य.}

अन्वयः

इति उदीर्य सुनासीरो विरराम । सः अनलश्च तद्विसृष्टः (सन्) तम् आपृच्छ्य स्वर्धुनीम् अभि प्रतस्थे ।

सीतारामः

इतीति । इत्येवभूतमुदीर्योक्त्वा सुनासीर इन्द्रो विरराम । तूष्णीं तस्थावित्यर्थः । विररामेति ‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम् । ‘वृद्धश्रवाः सुनासीरः’ इत्यमरः । सोऽनलश्चाग्निस्तु तद्विसृष्टस्तेन सुनासीरेण विसृष्टस्त्यक्तः । गन्तुमनुमत इत्यर्थः । तादृशः सन् । तमिन्द्रमापृच्छ्याहं गच्छामीत्याज्ञामादाय स्वर्धुनीं गङ्गामभि प्रतस्थे प्रस्थितवान् ॥ 10.27 ॥

विश्वास-प्रस्तुतिः

हिरण्यरेतसा तेन देवी स्वर्गतरङ्गिणी ।
तीर्णाध्वना प्रपेदे सा (2)निःशेषक्लेशनाशिनी ॥ 10.28 ॥
{2.अघविनाशिनी.}

मूलम्

हिरण्यरेतसा तेन देवी स्वर्गतरङ्गिणी ।
तीर्णाध्वना प्रपेदे सा (2)निःशेषक्लेशनाशिनी ॥ 10.28 ॥
{2.अघविनाशिनी.}

अन्वयः

तेन तीर्णाऽध्वना हिरण्यरेतसा निःशेषक्लेशनाशिनी सा स्वर्गतरङ्गणी देवी प्रपेदे ।

सीतारामः

हिरण्येति । तेन प्रस्थितेन तीर्णाध्वनावगाहितमार्गेण हिरण्यरेतसा वह्निना निःशेषक्लेशनाशिनी निःशेषा ये क्लेशाः पञ्च क्लेशास्तेषां नाशिनी । मुक्तिदायिनीत्यर्थः । सा प्रसिद्धा स्वर्गतरङ्गिणी स्वर्णदी देवी प्रपेदे प्राप्ता । कर्मणी लिट् ॥ 10.28 ॥

विश्वास-प्रस्तुतिः

अथ त्रिभिस्तामेव विशिनष्टि-
स्वर्गारोहणनिःश्रेणिर्मोक्ष(1)मार्गाधिदेवता ।
उदारदुरितोद्गारहारिणी दुर्गतारिणी ॥ 10.29 ॥
{1.स्वर्गं.}

मूलम्

अथ त्रिभिस्तामेव विशिनष्टि-
स्वर्गारोहणनिःश्रेणिर्मोक्ष(1)मार्गाधिदेवता ।
उदारदुरितोद्गारहारिणी दुर्गतारिणी ॥ 10.29 ॥
{1.स्वर्गं.}

अन्वयः

स्वर्गारोहणनिःश्रेणिः (पुनः) मोक्षमार्गाधिदेवता, उदारदुरितोद्गारहारिणी दुर्गतारिणी ।

सीतारामः

स्वर्गेति । स्वर्गे यदारोहणं तस्य निःश्रेणि सोपानपङ्क्तिः । यस्यां स्नानमात्रेणैव स्वर्गमारोहन्तीत्यर्थः । पुनश्च मोक्षमार्गस्य मुक्तिपथस्याधिदेवता । यां प्रसाद्य मुक्तिमाप्नुवन्तीत्यर्थः । पुनश्चोदाराणा ॥ मुच्चैस्तराणां दुरितानां पापानामुद्गारस्य समूहस्य हारिणी । विनाशिनीत्यर्थः । पुनश्च तरन्त्यनया सा तारिणी । दुर्गस्य संसाररुपस्य तारिणीत्यर्थः तारिणी इति णिजन्तात्तरतेः ‘करणाधिकरणयोश्च’ इति करणे ल्युट् । अतः ‘टिङढे-’ ति ङीप् । ‘तारिणी’ इति पाठे तारयति लोकान्सा तारिणी । दुर्गात्तारिणी । अत्र णिनौ कृते ‘ऋन्नेभ्यः-’ इति ङीप् ॥ 10.29 ॥

विश्वास-प्रस्तुतिः

महेश्वरजटाजूटवासिनी, पापनाशिनी ।
(2)सरागान्वयनिर्वाणकारिणी, धर्मधारिणी ॥ 10.30 ॥
{2.सागरान्वय.}

मूलम्

महेश्वरजटाजूटवासिनी, पापनाशिनी ।
(2)सरागान्वयनिर्वाणकारिणी, धर्मधारिणी ॥ 10.30 ॥
{2.सागरान्वय.}

अन्वयः

महेश्वरजटाजूटवासिनी, पापनाशिनी, सरागाऽन्वयनिर्वाणकारिणी धर्मधारिणी ।

सीतारामः

महेश्वरेति । पुनश्च महेश्वरस्य जटाजूटे वासिनी वासवती । पुनश्च पापनाशिनी । अत्रापि तारिणीवत्प्रत्ययव्यवस्था । पुनश्च सरागस्य विषयलिप्सोरन्वयस्य वंशस्यापि निर्वाणकारिणी ।किं पुनर्विमुक्तानामित्यर्थः । धर्मं धारयतीति धर्मधारिणी । आत्मसम्बन्धेन जन्तून् धर्मवतः कुर्वन्तीत्यर्थः ॥ 10.30 ॥

विश्वास-प्रस्तुतिः

विष्णुपादोदकोद्भूता, ब्रह्मलोकादुपागता ।
त्रिभिः स्त्रोतोभिरश्रान्तं (3)पुनाना भुवनत्रयम् ॥ 10.31 ॥
{3.पुनाति.}

मूलम्

विष्णुपादोदकोद्भूता, ब्रह्मलोकादुपागता ।
त्रिभिः स्त्रोतोभिरश्रान्तं (3)पुनाना भुवनत्रयम् ॥ 10.31 ॥
{3.पुनाति.}

अन्वयः

विष्णुपादोदकोद्भूता, ब्रह्मलोकात् उपागता, त्रिभिः स्त्रोतोभिः भुवनत्रयम् अश्रान्तं पुनाना ।

सीतारामः

विष्णिवति । पुनश्च विष्णुपादोदकोद्भूतोत्पन्ना विष्णुपादोदकमेवास्या जन्महेतुरित्यर्थः । विष्णुपादोदकमोवोद्भूतं रूपं यस्याः सेति वा । पुनश्च ब्रह्मलोकादुपागतेहागता पुनश्च त्रिभिः स्त्रोतोभिः प्रवाहैर्भुवनत्रयं स्वर्गमृत्युपाताललक्षणमश्रान्तं निष्परिश्रमं यथा भवति तथा पुनाना । पवित्रीकुर्वाणेत्यर्थः । अथ एव त्रिस्त्रोता इति नाम दधतीर्यर्थः । ‘पूञ्पवने’, शानच् श्नाप्रत्ययश्च ॥ 10.31 ॥

विश्वास-प्रस्तुतिः

जातवेदसमायान्तमूर्मिहस्तैः (1)समुत्थितैः ।
(2)आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ॥ 10.32 ॥
{1.समुच्छ्रितैः.2.आजुहावास्य.}

मूलम्

जातवेदसमायान्तमूर्मिहस्तैः (1)समुत्थितैः ।
(2)आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ॥ 10.32 ॥
{1.समुच्छ्रितैः.2.आजुहावास्य.}

अन्वयः

सुप्रसादधरा सा आयान्तं तं जातवेदसम् अर्थसिद्ध्यै समुत्थितैः ऊर्मिहस्तैः आजुहाव इव ।

सीतारामः

जातवेदसमिति । सुतरामतिशयितो यः प्रसादस्तस्य धराधारिणी सा गङ्गा आयान्तमागच्छन्तं तं जातवेदसमग्निमर्थसिद्ध्या अर्थसिद्धिं कर्तु समुत्थितैरुच्चलितैरुर्मय एव हस्तास्तैः कृत्वाजुहावेव । अन्योऽपि हस्तसंकेतेन कंचिदाह्वयति । पुनः पुनरुर्मिसमुत्थानं तत्कर्तृकंमाह्वानमिवेत्युत्प्रेक्षा । आपूर्वाद् ह्वयतेः कर्तरि लिट् ॥ 10.32 ॥

विश्वास-प्रस्तुतिः

संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ॥ 10.33 ॥

मूलम्

संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ॥ 10.33 ॥

अन्वयः

संमिलद्भिः उन्मदैः कलं कूजद्भिः मरालैः (युक्ता) सा (हे अग्ने !) (तुभ्यम्) ‘श्रेयांसि ददे, दुःखं निहन्मि’ इति अभ्यधात् ।

सीतारामः

संमिलद्भिरिति । संमिलद्भिः सम्यङ्मिलन्त्येकीभवन्तीति तथोक्तैः । तथोन्मदैरन्मत्तैरत एव कलं मधूरं यथा भवति तथा कूजद्भिः शब्दायमानैर्मरालैर्हसैर्युक्ता सा देवी गङ्गा तमग्निमित्यभ्यधादुवाच । किमिति तत् । भो अग्ने ! तुभ्यं श्रेयांसि ददे । दुःखानि निहन्मि । आत्मशक्त्याभिधाने जलरुपतयाशक्तापि स्वकीयतीरगतहंसनिनादेन वदति स्मेति भावः ॥ 10.33 ॥

विश्वास-प्रस्तुतिः

कल्लोलैरुद्गतैरर्वाचीनं (1)तटमभिद्रुतैः ।
(2)प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ॥ 10.34 ॥
{1.उपागतैः.2.प्रीत्येष.}

मूलम्

कल्लोलैरुद्गतैरर्वाचीनं (1)तटमभिद्रुतैः ।
(2)प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ॥ 10.34 ॥
{1.उपागतैः.2.प्रीत्येष.}

अन्वयः

स्वर्घुनी प्रीता (सती) उद्गतैः अर्वाचीनं तटम् अभिद्रुतैः कल्लौलैः तं जातवेदसम् अभीयाय इव ।

सीतारामः

कल्लोलैरिति । स्वर्धुनी गङ्गा प्रीता सती । उद्गतैरानन्दादुद्वेलैरत एवार्वाचीनमर्वागभवं तटमभिद्रुतैः पलायितैः कल्लोलैः कृत्वा तं जातवेदसमभीयायेव संमुखीबभूवेव ॥ 10.34 ॥

विश्वास-प्रस्तुतिः

(3)अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
विपदा (4)परिभूताः किं (5)व्यवस्यन्ति विलम्बितुम् ॥ 10.35 ॥
{3.अभ्युपेत्य.4.परिभूतः.5.व्यवस्यति.}

मूलम्

(3)अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
विपदा (4)परिभूताः किं (5)व्यवस्यन्ति विलम्बितुम् ॥ 10.35 ॥
{3.अभ्युपेत्य.4.परिभूतः.5.व्यवस्यति.}

अन्वयः

अथ तापार्तः अभ्युपेतः अनलः निममज्य किल । विपदा परिभूताः विलम्बितुं किं व्यवस्यन्ति ?

सीतारामः

अथेति । अथानन्तरं तापेन हरतेजोजन्मनार्तः पीडितोऽत एवाभ्युपेतः संमुखमुपगतोऽग्निः । किलेति प्रसिद्धौ । निममज्ज निमग्नोऽभूत् । ननुझटित्येव किं मग्न इत्यर्थान्तरं न्यस्यति-विपदापदा परिभूता जिताः पुरुषा विलम्बितुमापत्प्रतीकारभविष्णुतां सोढुं किं व्यवस्यन्त्युद्युञ्जते । अपि तु नेत्यर्थः । ‘प्रतीक्षते जातु न कालमार्तिः’ इति न्यायादिति भावः ॥ 10.35 ॥

विश्वास-प्रस्तुतिः

गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मग्नो निर्वृतिं प्राप (6)पुण्यभारिणि तारिणि ॥ 10.36 ॥
{6.पुण्यतारिणि.}

मूलम्

गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मग्नो निर्वृतिं प्राप (6)पुण्यभारिणि तारिणि ॥ 10.36 ॥
{6.पुण्यतारिणि.}

अन्वयः

स कल्याणकारिणी श्रमहारिणि पुण्यभारिणि तारिणि गङ्गावारिणि मग्नों निर्वृतिं प्राप ।

सीतारामः

गङ्गेति । सोऽग्निः कल्याणकारिण्यनेकमङ्गलविधायिनि श्रमहारिणि परिश्रमहारके । पुण्यं भारयति जनैः संग्राहयति तस्मिन्पुण्यभारिणि, येन जनाः पुण्यभारवन्तो भवन्तीति भावः । तारिणि भवार्णवतारिणि गाङ्गेयजले मग्नः स्नातः सन् निर्वृतिं सुखं प्राप । तापार्तानां वारिनिमज्जनमेव सुखैकहेतुरिति भावः ॥ 10.36 ॥

विश्वास-प्रस्तुतिः

तत्र माहेश्वरं धाम संचक्राम हविर्भुजः ।
(1)गङ्गायामुत्तरङ्गायामन्तस्तापविपद्धृति(2) ॥ 10.37 ॥
{1.इद्धभङ्गायाम्.2.अन्तस्तापविपद्भृतः,अन्तस्तापभिदाभृति.}

मूलम्

तत्र माहेश्वरं धाम संचक्राम हविर्भुजः ।
(1)गङ्गायामुत्तरङ्गायामन्तस्तापविपद्धृति(2) ॥ 10.37 ॥
{1.इद्धभङ्गायाम्.2.अन्तस्तापविपद्भृतः,अन्तस्तापभिदाभृति.}

अन्वयः

माहेश्वरं धाम हविर्भुजः अन्तस्तापविपद्धृति उत्तरङ्गायां तत्र गङ्गायां संचक्राम ।

सीतारामः

तत्रेति । माहेश्वरं शैवं धाम तेजो हविर्भुजोऽग्नेः सकाशात्तत्र गङ्गायां संचक्राम संक्रान्तम् । लग्नमिति यावत् । अत एव किंभूतायां गङ्गायाम् । अन्तर्मध्ये ताप एव विपत्तां धरति तथोक्तायामत एवोल्ललिता अति वेलास्तरङ्गाः कल्लोला यस्यास्तथोक्तायाम् । विशेषणद्वयार्थस्य पूर्ववाक्यानन्तरभावितया पृथग्वाक्यत्वेन व्यपदेशे कर्तव्ये विशेषणतया वाक्यात्पूर्वोपमादानं यत्तत्पूज्यतया व्यवस्थितम् । न तु चित्तपरितोषाय । धामसंक्रमणात्प्राग्विपद्धरणासंभवात् । ‘धृता’ इति पञ्चम्यन्तपाठे हविर्भुजो विशेषणम् । उत्तरङ्गत्वं च जलप्रकृतिविलसितं च स्वीकर्तव्यम् ॥ 10.37 ॥

विश्वास-प्रस्तुतिः

कृशानुरेतसो (3)रेतस्यादृते सरिता तया ।
निश्चक्राम ततः सौख्यं हव्यवाहो बहन्बहु ॥ 10.38 ॥
{3.आहृते.}

मूलम्

कृशानुरेतसो (3)रेतस्यादृते सरिता तया ।
निश्चक्राम ततः सौख्यं हव्यवाहो बहन्बहु ॥ 10.38 ॥
{3.आहृते.}

अन्वयः

तया सरिता कृशानुरेतसो रेतसि आदृते (सति) हव्यवाहः बहुसौख्यं वहन् ततो निश्चक्राम ।

सीतारामः

कृशान्विति । तया सरिता गङ्गया कृशानुरेतसी हरस्य रेतसि धामिनि । ‘कृशानुरेताः सर्वज्ञः’ इत्यमरः । आदृते । आदरपुर्वकं गृहोते सतीत्यर्थः । हव्यवाहोऽग्निः । णिजन्तात्पचाद्यच् । बहु सौख्यं वहन् सन् । ततो गङ्गातो निश्चक्राम बहिर्निःसृतः ॥ 10.38 ॥

विश्वास-प्रस्तुतिः

(4)सुधासारैरिवाम्भोभिरभिषिक्तो(5) हुताशनः ।
यथागतं जगामाथ परां निर्वृतिमादधत् ॥ 10.39 ॥
{4.उदारैः.5.परिषिक्तः.}

मूलम्

(4)सुधासारैरिवाम्भोभिरभिषिक्तो(5) हुताशनः ।
यथागतं जगामाथ परां निर्वृतिमादधत् ॥ 10.39 ॥
{4.उदारैः.5.परिषिक्तः.}

अन्वयः

अथ सुधासारैः इव अम्भोभिः अभिषिक्तः परां निर्वृतिम् आदधत् हुताशनो यथाऽऽगतं जगाम ।

सीतारामः

सुधासारैरिति । अथानन्तरम् । सुधासारैरिवाम्भोभिर्जलैरभिषिक्तः स्नातोऽत एव परामत्युत्कटां निर्वृतिं सुखमादधद्विभ्रद्धुताशनोऽग्निर्यथागतमनतिक्रम्य जगाम गतवान् ॥ 10.39 ॥

विश्वास-प्रस्तुतिः

सा सुदुर्विषहं (1)गङ्गा धाम कामजितो महत् ।
आदधाना परीतापमवाप व्योमवाहिनी ॥ 10.40 ॥
{1.कामम्.}

मूलम्

सा सुदुर्विषहं (1)गङ्गा धाम कामजितो महत् ।
आदधाना परीतापमवाप व्योमवाहिनी ॥ 10.40 ॥
{1.कामम्.}

अन्वयः

व्योमवाहिनी सा गङ्गा कामजितो महत् सुदुर्विषहं धाम आदधाना (सती) परीतापम् अवाप ।

सीतारामः

सेति । व्योम्नि वाहः प्रवाहोऽस्ति यस्यास्तथोक्ता सा गङ्गा कामजितो महेश्वरस्य महत् सुदुर्विषहम् । ईषद्दु सुष्वि– ‘ति कृच्छ्रार्थे खल्’ । धाम तेज आदधाना सती परीतापं संतापम् । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इति दीर्घः । अवाप प्राप्तवतीत्यर्थः ॥ 10.40 ॥

विश्वास-प्रस्तुतिः

बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
हित्वोष्णानि (2)जलान्यस्या निर्जग्मुर्जलजन्तवः ॥ 10.41 ॥
{2.पयांसि.}

मूलम्

बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
हित्वोष्णानि (2)जलान्यस्या निर्जग्मुर्जलजन्तवः ॥ 10.41 ॥
{2.पयांसि.}

अन्वयः

जलजन्तव आर्ताः (सन्तः) युगाऽन्ताऽग्नेः शिखाशतैः तप्तानि इव जष्णानि अस्याः जलानि हित्वा निर्जग्मुः ।

सीतारामः

बहिरिति । जलजन्तवो यादांस्यार्ताः सन्तो युगान्ताग्नेः प्रलयकालीनानलस्य शिखाशतैः प्रकरणाच्छिवधाम्न एव तप्तान्यत एवोष्णान्यस्या गङ्गाया जलानि हित्वा परित्यज्य बहिर्निर्जग्मुः । निर्गतवन्त इत्यर्थः । यानि महेश्वरधामशिखाशतानि तान्यत्युग्रसंतापरुपसाधारणदर्मेण गम्यमानेन प्रलयकालानलसंबन्धिनीवेत्युत्प्रेक्षा । ‘अर्चिर्हेतिः शिखा स्त्रियाम्’ इत्यमरः । हित्वेति ‘ओहाक् त्यागे’ इत्यस्य ॥ 10.41 ॥

विश्वास-प्रस्तुतिः

तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
समुदञ्चन्ति चण्डानि (1)दुर्धराणि बभार सा ॥ 10.42 ॥
{1.दुर्भराणि.}

मूलम्

तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
समुदञ्चन्ति चण्डानि (1)दुर्धराणि बभार सा ॥ 10.42 ॥
{1.दुर्भराणि.}

अन्वयः

सा रौद्रेण तेन तेजसा तप्तानि समुदञ्चन्ति दुर्धराणि अपि सलिलानि बभार ।

सीतारामः

तेजसेति । सा गङ्गा । रौद्रेण तेन तेजसा तप्तान्यत एव समुदञ्चन्ति अतितापवशादुत्प्लुत्य बहिर्निःसरन्तीत्यर्थः । अत एव चण्डानि प्रचण्डस्वरुपाण्यत एव दुर्धराण्यपि सलिलानि बभार धृतवती । तेजसो रुद्रसंबन्धितत्वादिति भावः ॥ 10.42 ॥

विश्वास-प्रस्तुतिः

जगच्चक्षुषि चण्डाशौ किंचिदभ्युदयोन्मुखे ।
जग्मुः षट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ॥ 10.43 ॥

मूलम्

जगच्चक्षुषि चण्डाशौ किंचिदभ्युदयोन्मुखे ।
जग्मुः षट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ॥ 10.43 ॥

अन्वयः

माघे मासि जगच्चक्षुषि चण्डांशो किञ्चिदभ्युदोन्मुखे षट् कृत्तिकाः स्नातुं सुरापगां जग्मुः ।

सीतारामः

जगदिति । माघे माघसंज्ञके मासि । ‘पद्दन्नि-’ ति मासशब्दस्य हलन्तमासादेशः । जगच्चक्षुषि जगन्नेत्रभूते चण्डांशौ सूर्ये किंचिदभ्युदयोन्मुखे । शैलान्तर्हितेन तेजसा दिशः किंचित्प्रकाशयतीत्यर्थः । षट् कृत्तिकाः स्नातुं सुरापगां मन्दाकिनीं जग्मुः प्रापुः ॥ 10.43 ॥

विश्वास-प्रस्तुतिः

अथ चतुर्भिः सुरापगां विशिनष्टि-
शुभ्रैरभ्रंकषैरुर्मिशतैः (2)स्वर्गनिवासिनाम् ।
कथयन्तीमिवालोकावगाहा(3) चमनादिकम् ॥ 10.44 ॥
{2.स्वर्गमनं सताम्.3.आचमनादिना.}

मूलम्

अथ चतुर्भिः सुरापगां विशिनष्टि-
शुभ्रैरभ्रंकषैरुर्मिशतैः (2)स्वर्गनिवासिनाम् ।
कथयन्तीमिवालोकावगाहा(3) चमनादिकम् ॥ 10.44 ॥
{2.स्वर्गमनं सताम्.3.आचमनादिना.}

अन्वयः

आलोकाऽवगाहाचमनादिकं (कुर्वताम्) स्वर्गनिवासिनाम्, अभ्रङ्कषैः शुभ्रैः ऊर्मिशतैः कथयन्तीम् इव ।

सीतारामः

शुभ्रैरिति । आलोको दर्शनमवगाहः स्नानमाचमनं चेत्यादिनि यस्य तादृशं क्रम कुर्वतां स्वर्गनिवासिनामब्रंकषैरुत्प्लुत्याकाशस्पृग्भिः शुभ्रैरुर्मिशतैस्तरङ्गशतैरात्मदुःखं कथयन्तीमिवेत्युत्प्रेक्षा । अस्मिन् श्लोके पदद्वयाध्याहारदोषः स्फुट एव । क्रियाकारकयोः परस्परनित्यसंबन्धादाक्षेपलक्षणन्यायेन केचित्समादधते । उत्प्लुतानि यानि तरङ्गशतानि तानि कथनसंज्ञानानीवेति भावः । यथान्योऽप्यात्मव्याधिहेतुकं कंचिददनीयपदार्थं कंचिदपि पुरुषं दर्शयित्वाऽऽस्वाद्य च तत्पदार्थदोषं कथयति तथोयमपीति बोद्धव्यम् । अभ्रंकषैरिति ‘सर्वकूलाभ्रकरोषेषु’ इत्यभ्रोपपदकात्कषेः खश् ॥ 10.44 ॥

विश्वास-प्रस्तुतिः

सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ॥ 10.45 ॥

मूलम्

सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ॥ 10.45 ॥

अन्वयः

सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैः दूर्वाक्षताऽन्वितैः पुष्पोत्करैः बहिः अलं कोर्णतीराम् (गङ्गां स्नातुं जग्मुः) ।

सीतारामः

सुस्नातानामिति । सुस्नातानां मुनीन्द्राणां सप्तर्षीणां बलिकर्मणि पूजाविधावुचितानि योग्यानि तैः । यथा दूर्वाभिरक्षतैश्चान्वितैर्युक्तैः पुष्पोत्करैः कुसुमसमूहैर्बहिः कीर्णतोरां व्याप्तसैकताम् । ‘लाजाः पुंभूम्नि चाक्षताः’ इत्यमरः । अलंशब्दोऽत्रात्यर्थवाचकः । स च कोर्णतीरामित्यतः प्रागन्वयितव्यः ॥ 10.45 ॥

विश्वास-प्रस्तुतिः

(1)ब्रह्मध्यानपरै(2)र्योगपरैर्ब्रह्मासन(3)स्थितैः ।
योगनिद्रागतैर्योगपट्ट(4)बन्धैरुपाश्रिताम् ॥ 10.46 ॥
{1.ब्रह्मा.2.योगिवरैः.3.पद्मासन.4.भोगिभोगवद्धैः.}

मूलम्

(1)ब्रह्मध्यानपरै(2)र्योगपरैर्ब्रह्मासन(3)स्थितैः ।
योगनिद्रागतैर्योगपट्ट(4)बन्धैरुपाश्रिताम् ॥ 10.46 ॥
{1.ब्रह्मा.2.योगिवरैः.3.पद्मासन.4.भोगिभोगवद्धैः.}

अन्वयः

ब्रह्मसनस्तितैः ब्रह्मध्यानपरैः योगनिद्रागतैः योगपट्टबन्धैः योगपरैः उपाश्रिताम् (गङ्गां स्नातुं जग्मुः) ।

सीतारामः

ब्रह्मेति । ब्रह्मासने स्थितैः । तथा ब्रह्मणो ध्याने परैः सक्तैः । तथा योग एव निद्रा तां गतैः, तथा योगपट्टस्य बन्धो बन्धनं येषां तैः । योगपट्टं बध्नद्भिरित्यर्थः । एवंविधैर्योगपरैर्योगिभिरुपाश्रितां सेविताम् ।‘उभौ जानू ऊर्ध्वतमौ सकट्युपसुवाससा । बद्धौ च कृत्वा सततं ध्यायोत्परमनन्यधीः’ इति योगलक्षणम् ॥ 10.46 ॥

विश्वास-प्रस्तुतिः

पादाङ्गुष्ठाग्र(1)भूमिस्थैः सूर्य(2)संबद्धदृष्टिभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥ 10.47 ॥
{1.भूमिष्ठैः,भूयिष्ठैः.2.संविष्टः.}

मूलम्

पादाङ्गुष्ठाग्र(1)भूमिस्थैः सूर्य(2)संबद्धदृष्टिभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥ 10.47 ॥
{1.भूमिष्ठैः,भूयिष्ठैः.2.संविष्टः.}

अन्वयः

पादाऽङ्गुष्ठाऽग्रभूमिस्थैः, सूर्यसम्बद्धदृष्टिभिः, परं ब्रह्म गृणद्भिः ब्रह्मर्षिभिः उपसेविताम् (गङ्गां स्नातुं जग्मुः) ।

सीतारामः

पादेति । पादसंबन्धिनोऽङ्गुष्ठस्याग्रेणैव । न समग्रपादेनेत्यर्थः । भूमिस्थैः पृथिव्यां स्थितौरित्यर्थः । तथा सूर्ये सम्बद्धदृष्टिभिरन्वितविलोचनैः । तथा परं ब्रह्म गृणद्भिर्जपद्भिर्ब्रह्मर्षिभिः सप्तर्षिभिरुपशैवितामुपाश्रिताम् ॥ 10.47 ॥

विश्वास-प्रस्तुतिः

अथ (3)दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
कं नाभिनन्दयत्येषा (4)दृष्टा पीयूषवाहिनी ॥ 10.48 ॥
{3.देवीं धुनीम्,दिव्यनदीम्.4.देवी }

मूलम्

अथ (3)दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
कं नाभिनन्दयत्येषा (4)दृष्टा पीयूषवाहिनी ॥ 10.48 ॥
{3.देवीं धुनीम्,दिव्यनदीम्.4.देवी }

अन्वयः

अथ ताः दिव्यां नदीं विलोक्य अभ्यनन्दन् । एषा पूयूषवाहिनी दृष्टाकं न अभिनन्दयति ।

सीतारामः

अथेति । अथानन्तरं ताः कृत्तिकाः दिव्यां स्वर्गीयां नदीं देवीं गङ्गां विलोक्याभ्यनन्दन् आनन्दिता बभूवुरित्यर्थः । एतद्युक्तमेवेत्याहएषा पीयूषवाहिनी गंगा दृष्टा दर्शनगोचरीभूता सती कं पुरुषं नाभिनन्दयति, अपि तु सर्वमेवेत्यर्थः । ‘किम्’ इति पाठे किं कुतः कारणान्नाभिनन्दयति मोदयति, अपि तु मोदयत्येवेत्यर्थः । अत एतदालोकन आनन्दयुक्त इति भावः ॥ 10.48 ॥

विश्वास-प्रस्तुतिः

चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि ।
(5)यस्या विलोकनं पुण्यं श्रद्दधूस्ता मुदा हृदि ॥ 10.49 ॥
{5.तस्य विलोकनम्,तस्यावलोकनम्.}

मूलम्

चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि ।
(5)यस्या विलोकनं पुण्यं श्रद्दधूस्ता मुदा हृदि ॥ 10.49 ॥
{5.तस्य विलोकनम्,तस्यावलोकनम्.}

अन्वयः

चन्द्रचूडामणिः देवो मूर्धनि याम् उद्वहति । यस्या विलोकनं पुण्यम् । (तां) ताः हृदि मुदा श्रद्दधुः ।

सीतारामः

चन्द्रेति । चन्द्रश्चूजामणिभूतो यस्य स देवो हरो मूर्धनि यामुद्वहति । यस्या विलोकनं पुण्यं पुण्यकारि तां गङ्गा ता हृदि मनसि मुदा प्रीत्या श्रद्दधुः । श्रद्धितां चक्रुरित्यर्थः । गुणवत्सु श्रद्धाया औचित्यादिति भावः ॥ 10.49 ॥

विश्वास-प्रस्तुतिः

(1)दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनोम्(2) ।
(3)निर्धूतकल्मषां (4)मूर्ध्ना सुप्रह्वास्ता(5) ववन्दिरे ॥ 10.50 ॥
{1.दिष्ट्या.2.दर्शिनीम्.3.निर्धूतकल्मषाः.4.भूत्वा.5.ताम्.}

मूलम्

(1)दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनोम्(2) ।
(3)निर्धूतकल्मषां (4)मूर्ध्ना सुप्रह्वास्ता(5) ववन्दिरे ॥ 10.50 ॥
{1.दिष्ट्या.2.दर्शिनीम्.3.निर्धूतकल्मषाः.4.भूत्वा.5.ताम्.}

अन्वयः

निर्वाणपददेशिनीं निर्धूतकल्मषां दिव्यां विष्णुपदीं देवीं सुप्रह्वाः ता मूर्ध्ना ववन्दिरे ।

सीतारामः

दिव्यामिति । निर्वाणपदस्य मोक्षपदस्य देशिनीं दात्रीम् । तथा निर्धूतकल्मषां दूरीकृतजनकिल्बिषां दिव्यां स्वर्गीयाम् । ‘द्युप्रागपागुदक्प्रतीचो यत्’ इति दिवो यत् । विष्णोः पदीं चरणसंबन्धिनीम् । ‘गङ्गाविष्णुपदी’ इत्यमरः । देवीं गङ्गां ताः कृत्तिकाः सुतरां प्रह्वा नताः सत्यो मूर्ध्ना ववन्दिरे प्रणेमुः ॥ 10.50 ॥

विश्वास-प्रस्तुतिः

(6)सौभाग्यैः खलु (7)सुप्रापा मोक्षप्रतिभुवं (8)सतीम् ।
भक्त्यात्र(9) तुष्टुवुस्तां ताः(10) श्रद्दधाना दिवोधुनीम् ॥ 10.51 ॥
{6.स्वभाग्यैः.7.संप्राप्ताम्.8.सताम्.9.प्रतुष्टुवुः.10.तास्ताम्.}

मूलम्

(6)सौभाग्यैः खलु (7)सुप्रापा मोक्षप्रतिभुवं (8)सतीम् ।
भक्त्यात्र(9) तुष्टुवुस्तां ताः(10) श्रद्दधाना दिवोधुनीम् ॥ 10.51 ॥
{6.स्वभाग्यैः.7.संप्राप्ताम्.8.सताम्.9.प्रतुष्टुवुः.10.तास्ताम्.}

अन्वयः

अत्र ताः श्रद्दधानाः सौभाग्यैः सुप्रापा मोक्षप्रतिभुवं सतीं तां दिवो धुनीं भक्त्या तुष्टुवुः खलु ।

सीतारामः

सौभाग्यैरिति । अत्र ताः कृतिकाः श्रद्दधानाः सत्यः सौभाग्यैः शौभनभाग्यैः सुखेन प्राप्तुं शक्यां मोक्षस्य प्रतिभुवं लग्नकां सतीं पतिव्रतां तां दिवोधुनीं गङ्गां भक्त्या निमित्तेन तुष्टुवुः । भक्तिनिमित्तं स्तवनमित्यर्थः ॥ 10.51 ॥

विश्वास-प्रस्तुतिः

मुक्तिस्त्रीसङ्ग(1)दूत्यज्ञैस्तत्र (2)ता विमलैर्जलैः ।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः(3) ॥ 10.52 ॥
{1.दौत्यज्ञै.2.भाविमलैः.3.तापसान्विताः.}

मूलम्

मुक्तिस्त्रीसङ्ग(1)दूत्यज्ञैस्तत्र (2)ता विमलैर्जलैः ।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः(3) ॥ 10.52 ॥
{1.दौत्यज्ञै.2.भाविमलैः.3.तापसान्विताः.}

अन्वयः

तपसा अन्विताः ताः मुक्तिस्त्रीसङ्गदूत्यज्ञैः विमलै जलैः प्रक्षालितमलाः (सत्यः) तत्र सस्नुः, सुस्नाताः ।

सीतारामः

मुक्तिरिति । ताः कृतिकाः विलमैर्विगतमलैः तथा मुक्तिर्मोक्षः सैव स्त्री तस्याः सङ्गः संबन्धः, प्राप्तिरिति यावत्, तत्र यद्दूत्यं दूतीभावः कर्म वा तस्य ज्ञैः ज्ञातृभिरित्यर्थः । येषां स्पर्शमात्रेण मुक्तिर्भवतीति भावः । तथाभूतैर्जलैः कृत्वा प्रक्षालितमला निवर्तितकल्मषाः सत्यस्तत्रगङ्गायां सस्नुः स्नानं चक्रुरित्यर्थः । मलापकर्षस्नानन्तरं शुद्धस्नानं क्रियत इति भावः । किंभूताः ? सुस्नाताः शोभनं विध्युक्तप्रकारकं स्नातं स्नानं यासां ताः । भावे निष्ठा विध्युक्तप्रकारेण स्नानकर्त्र्य इत्यर्थः । पुनः किंभूताः ? तपसान्विताः तपस्विन्य इत्यर्थः । ‘ष्णा शौचे’ कर्तरि लिट् ॥ 10.52 ॥

विश्वास-प्रस्तुतिः

स्नात्वा तत्र (4)सुलभ्यायां भाग्नैः परिपचेलिमैः ।
चरितार्थं स्वमात्मानं (5)बहु ता मेनिरे मुदा ॥ 10.53 ॥
{4.सुरभ्यायाम्.5.बहुलाः.}

मूलम्

स्नात्वा तत्र (4)सुलभ्यायां भाग्नैः परिपचेलिमैः ।
चरितार्थं स्वमात्मानं (5)बहु ता मेनिरे मुदा ॥ 10.53 ॥
{4.सुरभ्यायाम्.5.बहुलाः.}

अन्वयः

परिपचेलिमैः भाग्यैः सुलभ्यायां तत्र स्नात्वा ताः स्वं मुदा बहु चिरतार्थ मेनिरे ।

सीतारामः

स्नात्वेति । परिपचेलिमैः परिपक्वैः । ‘तव्यत्तव्यानीयरः’ इत्यत्र केलिमर उपसंख्यानात् पचतेः केलिमर् । भाग्यैर्दिष्टैर्निमित्तभूतैः सुलभ्यायां सुखेन लब्धुं शक्यायाम् । ‘पोरदुपधात्’ इति यत् । तथाभूतायां तत्र गङ्गायां स्नात्वा ताः कृत्तिकाः स्वं स्वकीयमात्मानं मुदा प्रीत्या बहु यथा तथा चरितार्थं पुरुषार्थकारिणं मेनिरेऽमन्यन्त । ‘मनु अवबोधने’ कर्तरि लिट् ॥ 10.53 ॥

विश्वास-प्रस्तुतिः

कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
अमोघं संचचाराथ सद्यो गङ्गावगाहनात् ॥ 10.54 ॥

मूलम्

कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
अमोघं संचचाराथ सद्यो गङ्गावगाहनात् ॥ 10.54 ॥

अन्वयः

अथ गङ्गाऽवगाहनात् अमोघं कृशानुरेतसौ रेतः सद्यः तासाम् अभिकलेवर संचचा ।

सीतारामः

कृशानुरेतस इति । अथानन्तरं गङ्गावगाहनाद्धेतोरमोधं सफलं कृशानुरेतसो हरस्य रेतो वीर्यं सद्यस्तत्कालं तासां कृत्तिकानाः मभिकलेवरं कलेवरे शरीर इत्यभिकलेवरम् । शरीरमध्य इत्यर्थः । संचचार संचक्राम । लग्नमिति यावत् । अत्र तृतीयायोगाभावात् समः- परतोऽपि चरतेर्नात्मनेपदम् । ‘समस्तृतीयायुक्तात्’ इति सौत्रनियमात् ॥ 10.54 ॥

विश्वास-प्रस्तुतिः

रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥ 10.55 ॥

मूलम्

रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥ 10.55 ॥

अन्वयः

दहनात्मकं सुदुर्धरं रौद्रं धाम दधानाः ता विषाऽम्बुधौ मग्ना इव परितापम् अवापुः ।

सीतारामः

रौद्रमिति । दहनात्मकमग्निरुपमत एव सुतरां दुर्धरं दुःखेन धर्तु शक्यं रौद्रं शैवं धाम देजो दधानास्ताः कृत्तिका विषाम्बुधौ मग्ना इवेत्युत्प्रेक्षा । परितापमवापुः । विषाम्बुधिमग्नत्वे यादृशः परितापो भवति तादृशो रौद्रतेजोधारणे जात इति भावः ॥ 10.55 ॥

विश्वास-प्रस्तुतिः

अक्षमा (1)दुर्वहं वोढुमम्बुनो बहिरातुराः ।
(2)अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः ॥ 10.56॥
{1.दुर्धरम्.2.अग्निं ज्वलन्तमन्तःस्थं दधाना इव निर्ययुः, निर्ययुसहिताः शीघ्रं कृत्तिका विस्मयान्विताः.}

दुर्वहं (तद्धाम) वोढुम् अक्षमाः आतुराः ताः अन्तः ज्वलन्तम् अग्निम् इव दधानाः अम्बुनः बहिः निर्ययुः ।

सीतारामः

अक्षमा इति । दुर्वहं दुर्धरं तद्धाम वोढुमक्षमा अत एवातुरा व्याकुलास्ताः कृत्तिकाः । अन्तर्मध्ये ज्वलन्तमग्निमिव दधानाः सत्योऽम्बुनो जलाद्वहिर्निर्ययुः । निर्जग्मुरित्यर्थः । अत्र धामन्यग्नित्वेनोत्प्रेक्षणादुत्प्रेक्षा ॥ 10.56 ॥

विश्वास-प्रस्तुतिः

अमोघं शांभवं बीजं सद्यो (1)नद्योज्झितं महत् ।
तासामभ्युदरं (2)दीप्तं स्थितं गर्भत्वमागमत् ॥ 10.57 ॥
{1.नद्यांस्थितम्.2.तीव्रम्.}

मूलम्

अमोघं शांभवं बीजं सद्यो (1)नद्योज्झितं महत् ।
तासामभ्युदरं (2)दीप्तं स्थितं गर्भत्वमागमत् ॥ 10.57 ॥
{1.नद्यांस्थितम्.2.तीव्रम्.}

अन्वयः

नया सद्य उज्झितं तासाम् अभ्युदरं दीप्तं स्थितम् अमोघं महत् शाम्भवं बूजं गर्भत्वम् आगमत् ।

सीतारामः

अमोघमिति । नद्या गङ्गया सद्य उज्झितमत एव तासां कृत्तिकानामभ्युदरं दूप्तं सत्स्थितममोघं सफलं महच्छांभवं बीजं गर्भत्वमागमत् । गर्भीभूतमित्यर्थः ॥ 10.57 ॥

विश्वास-प्रस्तुतिः

58-59 श्लोकयोर्मध्ये श्लोको दृश्यते-
अकाममरणं जात(1)मकाण्डं भाविनोऽर्थतः।
संभूयान्योन्यमात्मानं (2)शुशुचुस्तास्तदाविलम्॥
{1.अकाण्डे.2.शुश्रुवुः.}
सुज्ञा विज्ञाय ता (3)गर्भभूतं तद्वोहुमक्षमाः ।
विषादमदधुः(4) सद्यो गाढं (5)भर्तृभिया ह्रिया ॥ 10.58 ॥
{3.गर्भीभूतम्.4.आगमन्.5.भर्तृर्भयात्.}

सुज्ञा गर्भभूतं तत् विज्ञाय वोढुम् अक्षमाः ताः भर्तृभिया ह्रिया सद्यो गाढं विषादम् अदधुः ।

सीतारामः

सुज्ञा इति । सुज्ञाश्चतुरा अत एव गर्भभूतं तद्वीर्य विज्ञायापि वोढुमक्षमा असमर्थाः । तस्यातिश्यप्रज्वलितत्वादिति भावः । ताः कृत्तिका भर्तुर्भिया भयेन । यदि न धरिष्यामस्तदानुचितं नो चेच्छरीरदाह इति भयेनेत्यर्थः । ह्रिया लज्जया एवंविधा इमाः । याभिर्भर्तृवीर्यमपि न धृतमिति लोकप्रवादजन्मनेत्यर्थः । सद्यो गाढं विषादं खेदमदधुर्धृतवत्यः ॥ 10.58 ॥

विश्वास-प्रस्तुतिः

ततः शरवणे (6)सार्धं भयेन व्रीडया च(7) ताः ।
तद्गर्भजातमुत्सृज्य (8)स्वान् गृहानभिनिर्ययुः(9) ॥ 10.59 ॥
{6.शापभयेन.7.सह.8.ता.9.अभितो ययु; अभि ता ययुः.}

मूलम्

ततः शरवणे (6)सार्धं भयेन व्रीडया च(7) ताः ।
तद्गर्भजातमुत्सृज्य (8)स्वान् गृहानभिनिर्ययुः(9) ॥ 10.59 ॥
{6.शापभयेन.7.सह.8.ता.9.अभितो ययु; अभि ता ययुः.}

अन्वयः

ततः ताः तद् गर्भजातं भयेन व्रीडया च सार्धं शरवणे उत्सृज्य स्वान् गृहान् अभिनिर्ययुः ।

सीतारामः

तत इति । ततोऽनन्तरं ताः कृत्तिकास्तद् गर्भजातं गर्भसामान्यम् । ‘जातिर्जातं च सामान्यम्’ इत्यमरः । भयेन व्रीडया च सार्धं सह शरवणे । ‘प्रनिरन्तःशरेक्ष्वि–’ त्यादिना शरशब्दात् परवननकारस्य णत्वम् । ‘शरः स्तुते जने बाणे’ इति भेदिनी । उत्सृज्य परित्यज्य स्वान् गृहानभिनिर्ययुर्गतवत्यः । ‘गृहाः पुंसि च भूम्न्येव’ इत्यमरः ॥ 10.59 ॥

विश्वास-प्रस्तुतिः

ताभिस्तत्रामृतकरकलाकोमलं भासमानं
(1)तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युज्जिहानैः ।
(2)स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै(3)
(4)र्वक्त्रैः षङ्भिः (5)स्मरहरगुरुस्पर्घयेवाजनीव ॥ 10.60 ॥
{1.निक्षिप्तम्.2.तै.3.दिनकर.4.वक्त्रम्.5.स्मरहरशिरःस्पर्धयेव प्रपेदे.}

ताभिः तत्र विक्षिप्तम् अमृतकरकलाकोमलं क्षणं भासमानं तत् अभितवभोगर्भम् अम्युज्जिहानैः दिवपतिशतस्पर्द्धमानैः अमानैः स्वैः तेजोभिः षङ्भिः वक्त्रैः स्मरहरगुरुस्पर्द्धया इव अजनि ।

सीतारामः

ताभिरिति । ताभिः कृतिकाभिस्तत्र शरवणे विक्षिप्तं त्यक्तम् । तथामृतकरकलावच्चन्द्रकलेव कोमलं मृदु यथा तथा क्षणं भासमानं तद्गर्भजातं कर्तृ । अबिनभोगर्भ नभोगर्भ आकाशमध्य इत्यभिनभोगर्भम् । ‘गर्भोभ्रूणेऽभेके कुक्षौ इति मेदिनी । अभ्युज्जिहानैरभ्युज्जिहते संमुखमुदयन्ते तानि तैः । ‘ओ हाङ् गतौ’ इत्यतः शानच् । तथा दिनपतिशतं सूर्यशतं स्पर्धन्ते तानि तैः । ततोऽप्यधिकैरित्यर्थः । तथामानैरसंख्यैः स्वैस्तैजोभिः तथा षङ्भिर्वक्त्रैश्च युक्तं स्मरहरगुरोर्ब्रह्मणः । स्वर्धयेर्ष्ययेव । तव चत्वारि मम षडित्यतस्त्वत्तोऽप्यहमधिकोऽस्मीत्येवंभूतवाग्वादावसरतव चत्वारि मम षडित्यतस्त्वत्तोऽप्यहमधिकोऽस्मीत्येवंभूतवाग्वादावसरफलकयेत्यर्थः । अजनि परिप्राप्तमभूदित्यर्थः । ‘दूपजने-’ त्यादिना च्लेश्चिण । ‘जनिवध्योश्च’ इति वृद्धिनिषेधः । अत्र तेजसां षण्णां वक्त्राणां चोत्पादने ब्रह्मस्पर्धाया अहेतुत्वेऽपि तद्धेतुत्वेन कल्पनाद्धेतूत्प्रेक्षालंकारः । मन्दाक्रान्ता वृत्तम्- ‘मन्दाक्रान्ता जलधिषडगौर्म्भौ नतौ ताद् गुरु चेत्’ इति लक्षणात् ॥ 10.60 ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-

विश्वास-प्रस्तुतिः

श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे
महाकाव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः ॥

मूलम्

श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे
महाकाव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः ॥