०८

.

अष्टमः सर्गः

विश्वास-प्रस्तुतिः

अथ श्रृङ्गारमुभयो ………… ।
कुमारसंभवफले सर्गेऽस्मिन्नाह संप्रति ॥
सोऽपि संक्षिप्तसंपन्नसंयुक्तश्च समृद्धिमान् ।
इति भेदाश्चतुर्धोक्ताश्चतुर्णां च वियोगिनाम् ।
तत्रावस्थाप्रभेदेन शृङ्गारे नायिका त्रिधा ।
मुग्धा मध्या प्रगल्भा च हीसाध्वसाविलाम् ॥
मुग्धावस्थां समाश्रित्य देव्या आद्यसमागमे ।
आदावेकादश श्लोकाः ख्यातपूर्वनुरागिणोः ॥
प्रथमं नाम शृङ्गारं शिवयोः कथितं कविः (?) ।
चुम्बनेष्वधरेत्यत्र लक्षणं त्वस्य वक्ष्यते ॥
नवपरिणीतगिरिजारहःकेलिमपि विवर्णयिषुस्तत्रभवान्कालिदासोऽष्टमं सर्गमारभते-
पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरै प्रति ।
भावसाध्वसपरिग्रहादभूत्कामदोहद (1)मनोहरं वपुः ॥ 8.1 ॥
{1.सुखं मनोहरम्.}

मूलम्

अथ श्रृङ्गारमुभयो ………… ।
कुमारसंभवफले सर्गेऽस्मिन्नाह संप्रति ॥
सोऽपि संक्षिप्तसंपन्नसंयुक्तश्च समृद्धिमान् ।
इति भेदाश्चतुर्धोक्ताश्चतुर्णां च वियोगिनाम् ।
तत्रावस्थाप्रभेदेन शृङ्गारे नायिका त्रिधा ।
मुग्धा मध्या प्रगल्भा च हीसाध्वसाविलाम् ॥
मुग्धावस्थां समाश्रित्य देव्या आद्यसमागमे ।
आदावेकादश श्लोकाः ख्यातपूर्वनुरागिणोः ॥
प्रथमं नाम शृङ्गारं शिवयोः कथितं कविः (?) ।
चुम्बनेष्वधरेत्यत्र लक्षणं त्वस्य वक्ष्यते ॥
नवपरिणीतगिरिजारहःकेलिमपि विवर्णयिषुस्तत्रभवान्कालिदासोऽष्टमं सर्गमारभते-
पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरै प्रति ।
भावसाध्वसपरिग्रहादभूत्कामदोहद (1)मनोहरं वपुः ॥ 8.1 ॥
{1.सुखं मनोहरम्.}

अन्वयः

पाणिपीडनविधेः अनन्तरं शैलराजदुहितुः भावसाध्वसपरिग्रहात् शैलराज दुहितुः वपुः हरं प्रति कामदोहदमनोहरम् अभूत् ।

मल्लिनाथः

पाणीति । पाणिपीडनविधेरनन्तरं पाणिग्रहणानन्तरम् । विधेरिति पञ्चमी षष्ठी च । उभयथाप्यनुशासनसंभवादित्युक्तं प्राक् । शैलराजदुहितुः पार्वत्याः कर्त्र्याः तं हरं प्रति भावसाध्वसपरिग्रहन्मनोहरं चित्ताकर्षकं कामदोहदम् । कामसंवर्धकमित्यर्थः । ‘तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्’ इति शब्दार्णवे । तच्च तत्सुखं कामदोहदसुखमभूत् । हरस्येति शेषः । नायिकानायकयोरन्योन्यानुभवदर्शनात्सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः । तथा च हरस्य गौर्या नवोढाया स्वगोचरभावप्रत्युक्तसाध्वसदर्शनात्सुखमाविर्भवित । तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः । तत्र रसभावस्थायिनः कार्यमनुभावः । तदुक्तम्–‘रसागच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनुभावः………. संस्थासूचकः ।’ इति ॥ 8.1 ॥

विश्वास-प्रस्तुतिः

उक्तं भावसाध्वसम् । तस्य सुखमयत्वं च वर्णयति-
व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ 8.2 ॥

मूलम्

उक्तं भावसाध्वसम् । तस्य सुखमयत्वं च वर्णयति-
व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ 8.2 ॥

अन्वयः

सा व्याहृता (सती) प्रतिवचो न सन्दधे अवलम्बितांऽशुका गन्तुम् ऐच्छत्, पराङ्मुखी (सती) शयनं सेवते स्म, तथाऽपि पिनाकिनो रतये (बभूव) ।

मल्लिनाथः

व्याहृतेति । सा पार्वती व्याहृता यत्किंचिदनिहिता सती प्रतिवचः प्रत्युत्तरं न संदधे । न ददावित्यर्थः । अवलम्बितांशुका गृहीतवस्त्रा सती गन्तुमपसर्त्तमेच्छदिच्छति स्म । इषधातोर्लङ् । ‘इषुगमियमां छः’ इति छकारः । पराङ्मुखी सती शयनं सेवते स्म । अनभिमुखमशयिष्टेत्यर्थः । तथापि इर्त्थं साध्वसात्प्रतिकूलचेष्टितापीत्यर्थः । पिनाकिनः शिवस्य रतये सुखाय । बभूवेतिशेषः प्रातिकूल्यमपि तस्यानन्दकरमभूदित्यर्थः । एतेन नवोढाया देव्या मौग्ध्याद्विजितं तन्ममत्वमवसेयम् ॥ 8.2 ॥

विश्वास-प्रस्तुतिः

कैतवेन (1)शयिते कुतूहलात्पार्वति प्रतिमुखं निपातितम् ।
चक्षुरुन्मिषति सस्मितं प्रिये (2)विद्युदाहतमिव न्यमीलयत् ॥ 8.3 ॥
{1.शवणे.2.विद्युतेव निहतम्.}

मूलम्

कैतवेन (1)शयिते कुतूहलात्पार्वति प्रतिमुखं निपातितम् ।
चक्षुरुन्मिषति सस्मितं प्रिये (2)विद्युदाहतमिव न्यमीलयत् ॥ 8.3 ॥
{1.शवणे.2.विद्युतेव निहतम्.}

अन्वयः

पार्वती प्रिये कुतूहलात् कैतवेन शयिते (सति) मुखं प्रति निपातितं चक्षुः सस्मितम् उन्मिषति, विद्युता आहतम् इव न्यमीलयत् ।

मल्लिनाथः

कैतवेनेति । प्रिये भर्तरि कुतूहलात् । एषा किं करिष्यतीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुप्ते सति पार्वती कर्त्रि प्रतिमुखं यथा निपातितम् । प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं सस्मितमुन्मिषति । पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्युदाहतं विद्युता प्रतिहतमिव न्यमीलयत् । साध्वसादिति भावः । एतेन किंचित्साध्वसस्यापचयो व्यज्यते ॥ 8.3 ॥

विश्वास-प्रस्तुतिः

नाभिदेशनिहितः (1)सकम्पया शंकरस्य रुरुधे तया करः ।
(2)तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥ 8.4 ॥
{1.सशङ्कया.2.तन्नितम्बमभकतदा,तन्नितम्बमथ चाभषत्.}

मूलम्

नाभिदेशनिहितः (1)सकम्पया शंकरस्य रुरुधे तया करः ।
(2)तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥ 8.4 ॥
{1.सशङ्कया.2.तन्नितम्बमभकतदा,तन्नितम्बमथ चाभषत्.}

अन्वयः

नाभिदेशनिहिनः शङ्करस्य करः सकम्पया तया रुरुधे, अथ तद्दुकूलं स्वयं दूरम् उच्छ्वसितनोविबन्धनम् अभवत् ।

मल्लिनाथः

नाभीति । नाभिदेशनिहितः । नीवीमोचनायेति शेषः । शंकरस्य करः सकम्पया वेपथुमत्या । प्रियकरस्पर्शादुत्पन्नसात्विकभावयेत्यर्थः । तया पार्वत्या रुरुधे निवारितः । अथ च । तथापीत्यर्थः । तद्दुकूलं स्वयं स्वत एव दूरमत्यन्तमुच्छ्वसितं स्त्रस्तं नीवीबन्धनं नीवीग्रन्थिर्यस्य तत्तथाभूतमभवत् । रतिपारवश्यादिति भावः ॥ 8.4 ॥

विश्वास-प्रस्तुतिः

एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरूपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनी प्रिये ॥ 8.5 ॥

मूलम्

एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरूपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनी प्रिये ॥ 8.5 ॥

अन्वयः

‘हे आलि ! रहसि शङ्करः एवं निगृहीत साध्वसं सेव्यताम् ।’ इति सखीभिः उपदिष्टं सा शङ्करे प्रमुखवर्तिनि सति आकुला न अस्मरत् ।

मल्लिनाथः

एवमिति । हे आलि सखि पार्वति ! रहसि शंकर एवम् । स्वोपदिष्टप्रकारेणेत्यर्थः । निगृहीतसाध्वसं निरस्तभयं यथा तथा सेव्यतामिति । सखीभिरूपदिष्टमुक्तं वचनं सा पार्वती प्रिये शंकरे प्रमुखवर्तिनि सत्याकुला साध्वसविह्वला सती नास्मरत् । न स्मृतवतीत्यर्थः । स हि भयपरिप्लुते चेतसि दृष्टतरोऽप्युपदेशः संसारमाधत्त इति भावः ॥ 8.5 ॥

विश्वास-प्रस्तुतिः

अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन (1)परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ 8.6 ॥
{1.परिगृह्य.}

मूलम्

अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन (1)परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ 8.6 ॥
{1.परिगृह्य.}

अन्वयः

कथाप्रवृत्तये अवस्तुनि अपि प्रश्वतत्परम् अनङ्गशासनं पार्वती वीक्षितेन परिगृह्य मूर्धकम्पमयम् उत्तरं ददौ ।

मल्लिनाथः

अपीति । अथाप्रवृत्तये संलापप्रवर्तनायावस्तुन्यप्रस्तुर्तार्थेंऽपि प्रश्नतत्परम् । यत्किंचित्पृच्छन्तमित्यर्थः । अनङ्गशासनमीश्वरं पार्वती वीक्षितेन । न तु वाचेत्यर्थः । परिगृह्याङ्गीकृत्य मूर्धंकम्पयं शिरःकम्पस्वरूपम् । स्वर्थे मयट् । उत्तरं ददौ । नतु वाङ्मयं साध्वसादिति भावः । विहृतनामा लज्जानुभाव उक्तः । तदुक्तम् रतिरहस्ये– (ईर्ष्यामानातिलज्जाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ।) इति ॥ 8.6 ॥

विश्वास-प्रस्तुतिः

पुनस्तमेवाह-
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ 8.7 ॥

मूलम्

पुनस्तमेवाह-
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ 8.7 ॥

अन्वयः

रहसि हृतांऽशुका करतलद्वयेन शूलिनः नयने संनिरुध्य सा तस्य ललाट लोचने पश्यति (सति) मोघयत्नविधुरा अभूत् ।

मल्लिनाथः

शूलिन इति । सा पार्वती रहसि हृतांशुका प्रियेणाकृष्टवस्त्रा सती करतलद्वयेन । स्वकीयेनेत्यर्थः । शूलिनो हरस्य नयने नेत्रद्वयं संनिरुध्य संच्छाद्य तस्य शूलिनो ललाटलोचने तृतीयेऽक्ष्णि पश्यति सति मोघयत्नाखिलप्रयासात एव विधुराभूत् । तृतीयकराभावादिति भावः । एते न किंचिद्धार्ष्ट्यादयो व्यज्यन्ते ॥ 8.7 ॥

विश्वास-प्रस्तुतिः

चुम्बनेष्वधरदानवर्जितं (1)सन्नरस्तसदयोपगूहनम् ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ 8.8 ॥
{1.सन्नहस्तमदयोपगूहने.}

मूलम्

चुम्बनेष्वधरदानवर्जितं (1)सन्नरस्तसदयोपगूहनम् ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ 8.8 ॥
{1.सन्नहस्तमदयोपगूहने.}

अन्वयः

चुम्बनेषु अधरदानवर्जितम् अदयोपगूहने सन्नहस्तं दुर्ल्भप्रतिकृतं क्लिष्टमन्मथम् अपि वधूरतं प्रभोः प्रियम् (अभूत्) ।

मल्लिनाथः

चुम्बनेष्विति । चुम्बनेष्वधरदानवर्जितमोष्ठार्पणरहितमदयोपगूहने निर्दयालिङ्गने सन्नौ स्तब्धौ हस्तौ करौ यस्मिंस्तत्तथोक्तम् । तथा दुर्लभप्रतिकृतम् । प्रगल्भत्वानखदन्तताडनाद्यकृतप्रयत्नमित्यर्थः । अत एव क्लिष्टमन्मथं लज्जयोपरुद्धमदनमपि वध्वा नवोढाया रतं वधूरतं प्रभोरीश्वरस्य प्रियम् । अभूदिति शेषः । ‘वधूः स्नुषानवोढास्त्रीभार्यासृष्टाङ्गनासु च’ इति विश्वः । अयं लज्जासाध्वसाभ्यां संकुचितोपचारत्वात्संक्लिष्टसंभोगः । तदुक्तं भूपालेन-(युवानौ यत्र संक्षिप्तसाध्वसव्रोडयादिभिः । उपचारान्निषेवन्ते स संक्लिष्ट इतीरितः ।) इति ॥ 8.8 ॥

विश्वास-प्रस्तुतिः

यन्मुखग्रहणमक्षताधरं (2)दानमव्रणपदं (3)नखस्य यत् ।
यद्रतं च सदयं (4)प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥ 8.9 ॥
{2.दत्तम्.3.नखं च.4.हरस्य.}

मूलम्

यन्मुखग्रहणमक्षताधरं (2)दानमव्रणपदं (3)नखस्य यत् ।
यद्रतं च सदयं (4)प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥ 8.9 ॥
{2.दत्तम्.3.नखं च.4.हरस्य.}

अन्वयः

पार्वती प्रियस्य अक्षताऽधरं यत् मुखग्रहणम् अव्रणपदं यत् नखं, सदयं यत् रतं तत् विषहतं स्म इतरत् न (विषहते स्म) ।

मल्लिनाथः

यदिति । पार्वती प्रियस्य संबन्ध्यक्षतोऽखण्टितोऽधरो यस्मिंस्तत्तथोक्तं यन्मुखग्रहणं मुखचुम्बनम् । अव्रणपदं लक्ष्मरहितम् । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । दत्तं यच्च नखं नखकर्म । यत्सदयं रतं तत्सर्वं विषहते सहते स्म । नेतरद्विपरीतम् । प्रवण्डमिति यावत् । तच्चम्बनं नखं सुरतं वा न सहते स्म । नवोढात्वादिति हृदयम् । तदुक्तं रतिरहस्ये-(नात्यन्तमानुलोम्येन न चातिप्रतिलोमतः । सिद्धिं गच्छन्ति वा तस्मान्मध्येन साधयेदिति । नवोढाम्) इति ॥ 8.9 ॥

विश्वास-प्रस्तुतिः

रात्रिवृत्तमनुयोक्तुमुद्यतं सा (1)प्रभातसमये सखीजनम् ।
नाकरोदपकुतूहलं ह्रिया शंसितुं (2)तु हृदयेन तत्वरे ॥ 8.10 ॥
{1.विभात.2.च.}

मूलम्

रात्रिवृत्तमनुयोक्तुमुद्यतं सा (1)प्रभातसमये सखीजनम् ।
नाकरोदपकुतूहलं ह्रिया शंसितुं (2)तु हृदयेन तत्वरे ॥ 8.10 ॥
{1.विभात.2.च.}

अन्वयः

सा प्रभातसमये रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सखीजनं ह्रिया अपकुतूहलं न अकरोत्, हृदा तु शंसितुं तत्वरे ।

मल्लिनाथः

रात्रीति । सा पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् । सुरतवृत्तान्तमित्यर्थः । अनुयोक्तुं प्रष्टुम् । ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः । उद्यतं प्रवृत्तं सखीजनं ह्रिया लज्जयापकुतूहलं निराकाङ्क्षं नाकरोत् । न किचिदाचष्ट इत्यर्थः । हृदयेन हृदा च शंसुतुं तत्वरे त्वरिताभूत् । औत्सुक्यादिति भावः । त्वरा संभ्रमादीनामनुभावत्वादिति ॥ 8.10 ॥

विश्वास-प्रस्तुतिः

दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
प्रेक्ष्य (3)बिम्बमुपबिम्बमात्मनः कानि कानि (4)न चकार लज्जया ॥ 8.11 ॥
{3.अनुबिम्बम्.4.अपि.}

मूलम्

दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
प्रेक्ष्य (3)बिम्बमुपबिम्बमात्मनः कानि कानि (4)न चकार लज्जया ॥ 8.11 ॥
{3.अनुबिम्बम्.4.अपि.}

अन्वयः

दर्पण च परिभोगदर्शिनी सा पृष्ठतो निषेदुषः प्रणयिनो बिम्बम् आत्मनो बिम्बम् अनु प्रक्ष्य लज्जया कानि कानि न चकार ।

मल्लिनाथः

दर्पण इति । किंचेति चार्थः । दर्पणे मुकुरे परिभौगो नखक्षतादिसंभोगचिह्नं पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्ठतः पश्चाद्भागे निषेदुषः स्थितवतः । सदेः वक्सुः । प्रणयिनः प्रियस्य हरस्य बिम्बं प्रतिबिम्बम् । दर्पणे संक्रान्तमितयर्थः । आत्मनः स्वस्य बिम्बमनु । प्रतिबिम्बस्य पृष्ठत इत्यर्थः । ‘अनुर्लक्षणे’ इति कर्मप्रवचनीयत्वाद्द्वितीया । प्रेक्ष्य लज्जया । स्वचापलप्राकट्यकृतयेत्यर्थः । कानि कानि यानि यानि भेदवाच्यानि । अङ्गसंवर्णादिचेष्टितानीत्यर्थः । उक्तं च-(लज्जानुभावेन साचीकृता वर्णवैवर्ण्याधोमुखादिकृत्) इति । न चकार ॥ 8.11 ॥

विश्वास-प्रस्तुतिः

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी (1)समाश्वसत् ।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ 8.12 ॥
{1.समाश्वसीत्.}

मूलम्

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी (1)समाश्वसत् ।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ 8.12 ॥
{1.समाश्वसीत्.}

अन्वयः

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत्; वधूजनः भर्तृवल्लभतया मातुः मानसीं शुचम् अस्यति ।

मल्लिनाथः

नीलकण्ठेति । नीलकण्ठेन परिभुक्तं यौवनं यस्याः सा तथोक्ताम् । प्रियेण भुक्तयौवनामित्यर्थः । तां पार्वतीं विलोक्य जननी मेना समाश्वसत् । संतुतोषेत्यर्थः । श्वसिधातोर्लङ् । ‘अङ्गार्ग्यगालवयोः’ इति विकल्पादडागमः । तथाहि । वधूजनो भर्तृवल्लभतया पतिवात्सल्येन मातुर्मानसीं मनोभवां शुचं शोकमस्यति निरम्यति हि । ‘विपर्ययाद्विपर्ययश्च’ इत्यर्थादवसेयं सामान्यैकविशेषणसमर्थंनरूपोऽर्थान्तरन्यासः ॥ 8.12 ॥

विश्वास-प्रस्तुतिः

संप्रति देव्या मुग्धावस्थातो मध्यमावस्थप्राप्तिमाह-
वासराणि कतिचित्कथंचन स्थाणुना (2)रतमकारि चानया ।
ज्ञातमन्मथरसा शनैःशनैः सा मुमोच (3)रतिदुःखशीलताम् ॥ 8.13 ॥
{2.पद्मकार्य न प्रिया.3.रतं.}

मूलम्

संप्रति देव्या मुग्धावस्थातो मध्यमावस्थप्राप्तिमाह-
वासराणि कतिचित्कथंचन स्थाणुना (2)रतमकारि चानया ।
ज्ञातमन्मथरसा शनैःशनैः सा मुमोच (3)रतिदुःखशीलताम् ॥ 8.13 ॥
{2.पद्मकार्य न प्रिया.3.रतं.}

अन्वयः

स्थाणुना अनया (सह) कतिचित् वासराणि कथञ्चन रतम् अकारि । सा शनैः ज्ञातमन्मथरसा रतिदुःखशीलतां मुमोच ।

मल्लिनाथः

वासराणीति । स्थाणुना शंभुना कर्त्रा प्रिया पार्वती कर्मभूता कतिचिद्वासराणि । कैश्चिदहोभिरित्यर्थः । अत्यन्तसंयोगे द्वितीया । कथंचन कृच्छ्रेण पदं पदप्रक्षेपमकार्यत कारिता । सुरतकर्मणीति शेषः । करोतेर्ण्यन्तात्कर्मणि लुङ् । ‘हृक्रोरन्यतरस्याम्’ इत्यणि कर्तुः कर्मत्वे ‘ण्यन्ते कर्तुश्च कर्मणा’ इत्यभिहितत्वं च । सा कृतपदा पार्वती ज्ञातमन्मथरसानुभूतसुरतसुखास्वादा सती । ‘आस्वादे विरसमाहुः’ इति शब्दानुशासने । शनैः शनैः क्रमेण रतौ रते दुःखशीलतां प्रतिकूलस्वभावतां मुमोच ‘शीलं स्वभावे सद्वृत्ते’ इत्यमरः । मध्यमावस्थां प्राप्तेत्यर्थः ॥ 8.13 ॥

विश्वास-प्रस्तुतिः

तुल्यलज्जास्मरत्वमेवाह–
सस्वजे प्रियमुरो (1)निपीडनं प्रार्थितं मुखमनेन नाहरत् ।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ 8.14 ॥
{1.निपीडितम् निपीडिता.}

मूलम्

तुल्यलज्जास्मरत्वमेवाह–
सस्वजे प्रियमुरो (1)निपीडनं प्रार्थितं मुखमनेन नाहरत् ।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ 8.14 ॥
{1.निपीडितम् निपीडिता.}

अन्वयः

सा उरोनिपीडनं प्रियं सस्वजे, अनेन प्रार्थितं मुखं न अहरत्, मेखलाप्रणयलोलतां गतम् अस्य हस्तं शिथिलं रुरोध ।

मल्लिनाथः

सस्वज इति । सा पार्वत्युरसोनिपीडनं यस्मिन्कर्मणि यथा स्तात्तथा प्रियं सस्वजे आलिङ्गितवती । न तु निष्पन्दमास्तेत्यर्थः । अनेन स्मरातिशयः सूचितः । तथाऽनेन प्रियेण प्रार्थितं चुम्बनार्थं याचितम् । ‘याच्ञायामभियाने च प्रार्थना कय्यते बुधैः’ इति केशवः । मुखं नाहरत् नाऽवक्रयत् । मेखलायां प्रणयः परिचयः । ‘प्रणयः स्यात्परिचये याच्ञायां सुहृदेऽपि च’ इति यादवः । तत्र लोलतां चञ्चलतां गतमस्य हस्तं शिथिलं मन्दं रुरोध न्यवारयत् । न तु निर्भरमिति भावः । अत्र सहनप्रतीकाराभ्यां तुल्यलज्जास्मरत्वं व्यज्यते ॥ 8.14 ॥

विश्वास-प्रस्तुतिः

अथ देव्याः प्रगल्भावस्थां दर्शयितुं तयोः समानरागित्वं तावदाह-
भावसूचितमदृष्टविप्रियं (2)चाटुमत्क्षणवियोगकातरम् ।
कैश्चिदेव (3)दिवसैस्तथा तयोः प्रेम (4)गूढमितरेतराश्रयम् ॥ 8.15 ॥
{2.चाटु तत्क्षण;चाटुमत्क्षण.3.तदा.4.रुढम्.}

मूलम्

अथ देव्याः प्रगल्भावस्थां दर्शयितुं तयोः समानरागित्वं तावदाह-
भावसूचितमदृष्टविप्रियं (2)चाटुमत्क्षणवियोगकातरम् ।
कैश्चिदेव (3)दिवसैस्तथा तयोः प्रेम (4)गूढमितरेतराश्रयम् ॥ 8.15 ॥
{2.चाटु तत्क्षण;चाटुमत्क्षण.3.तदा.4.रुढम्.}

अन्वयः

तयोः भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरं गूढं तयोः प्रेम कैश्चित् एव दिवसैः इतरेतराश्रयम् (अभूत्) ।

मल्लिनाथः

भावेति । तयोः शिवयोः खैश्चित्कतिभिश्चिदेव दिवसैः । भावसूचितं भावैश्चेष्टाभिः कटाक्षनिक्षेपादिभिः सूचितं ज्ञापितं विप्रियमप्रियाचरणं यत्र तत्तथोक्तम् । अचाटूनि प्रियोक्तयोयस्मिन्सन्ति तच्चाटुमत् भूतार्थे मतुप् । क्षणवियोगात्क्षणमात्रविरहादपि कातरं भीरुत्वम् । इतरेतराश्रयमन्योन्यविषयं प्रेम । प्रेमपदाभिलष्याऽङ्कुरावस्था भवतीत्यर्थः । गूढमभूत् । क्रमेणानुरागपदाभिलष्यां प्राप्तमित्यर्थः । तदेतत्सर्वं स्फुटीकृतं भूपालेन- (अङ्करपल्लवकलिकाप्रसनफलभागियम्) इत्यादिना । एका रतिरेव स्थायीभूता रसो भवति तस्याश्चाङ्कुरावस्थाभेदोपपत्तौसा प्रेमादिपदैरभिलष्यत इत्यर्थः । ‘सप्रेमभेदरहितं यूनोर्यद्भावबन्धनम् । भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिश्चेदनुरागः’ इति मानादिलक्षणं विस्तरभयान्न लिख्यत इत्याकर एव द्रष्टव्यम् ॥ 8.15 ॥

विश्वास-प्रस्तुतिः

तं यथात्मसतृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् ।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैक(1) वृत्तिभाक् ॥ 8.16 ॥
{1.निवृत्तिः.}

मूलम्

तं यथात्मसतृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् ।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैक(1) वृत्तिभाक् ॥ 8.16 ॥
{1.निवृत्तिः.}

अन्वयः

वधूः आत्मसदृशं तं वरं प्रति यथा अन्वरज्यत, वरोऽपि तां प्रति तथैव अन्वरज्यत । हि जाह्नवी सागरात् अनपगा, सोऽपि तन्मुखरसैकवृत्तिभाक् ।

मल्लिनाथः

तामिति । वधूरात्मसदृशं स्वानुरूपं वरं वोढारं प्रति यथान्वरज्यतानुरक्ताभूत् । रञ्जेर्दैवादिकात्कर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढोप्यात्मनः सदृक्तामात्मसदृशम् । ‘त्यदादिषु दृशोऽनालोचने कञ्च’ इति चकारात्क्विप्प्रत्ययः । तां वधूं प्रत्यन्वरज्यत वध्वामनुरक्तोऽभूदित्यर्थः । ‘गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्य’ इत्यनेन सकर्मकत्वम् । दृष्टान्तमाह– जाह्नवी गङ्गा सागरन्नापगच्छतीत्यनपगानपेता हि सोऽपि सागरस्तस्या जाह्नव्या मुखरसेनाग्रसलिलेन वक्वास्वादेनैका मुख्या निर्वृतिरानन्दो यस्य स तथोक्तः । अत्र दृष्टान्तालंकारः । लक्षणं तूक्तम् इर्त्थं समानानुरागकथनाद्रसाभासत्वं निरस्तम् । तदुक्तम्– (योषितो बहुसक्तिश्चोद्रसाभासः स उच्यते) । कविनाप्युक्तं मालविकायाम्– (अनातुरोक्तं प्रति विप्रसिद्धता समीपगेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समानरागयोः ।) इति ॥ 8.16 ॥

विश्वास-प्रस्तुतिः

अथ देव्याः प्रगल्भावस्थामाश्रित्य संभोगमाह–
शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया (2)यत्तदेव गुरुदक्षिणीकृतम् ॥ 8.17 ॥
{2.तत्.}

मूलम्

अथ देव्याः प्रगल्भावस्थामाश्रित्य संभोगमाह–
शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया (2)यत्तदेव गुरुदक्षिणीकृतम् ॥ 8.17 ॥
{2.तत्.}

अन्वयः

रहसि निधुवनोपदेशिनः शङ्करस्य शिष्यतां प्रपन्नया तया यद् युवतिनैपुणं शिक्षितं तया तदेव गुरुदक्षिणीकृतम् ।

मल्लिनाथः

शिष्यतामिति । रहस्येकान्ते निधुवनमुपदिशतीति निधुवनोपदेशिनः सुरतविद्यागुरोः । ‘व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्’ । इत्यमरः । शंकरस्य शिष्यतां प्रपन्नया प्राप्तया तया पार्वत्या यद्युवतिनैपुणं युवतिजनोचितं नैपुणम् । सुरतकौशलमित्यर्थः । शिक्षितमभ्यस्तम् । आचरितमित्यर्थः । अनेन कृतप्रतिकृतं सूच्यते ॥ 8.17 ॥

विश्वास-प्रस्तुतिः

दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ 8.18 ॥

मूलम्

दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ 8.18 ॥

अन्वयः

अम्बिका दष्टमुक्तम् अधरोष्ठं वेदनाविधुतहस्तपल्लवा (सती) शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् ।

मल्लिनाथः

दष्टमिति । अम्बिका पार्वती दष्टश्चासौ मुक्तश्च तं दष्टमुक्तम् । ‘पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन’ इत्यनेन समासः । अधरोष्ठं वेदनया विधुतौ कम्पितौ हस्तपल्लवौ पाणिपल्लवौ यस्याः सा तथोक्ता सती शीतलेन शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् । शीतलोपचारेण निर्व्यथमकरोदिति विश्रम्भोक्तिः । निर्वातेर्धातोर्ण्यन्तात् ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ’ इत्यनेन पुगागमः । अत्राधरपीडनात्सुखेऽपि दुःखवदुपचारात्कुट्टिमनामानु भाव उक्तः । तदुक्तम्- (केशाधरादिसंग्रहणे मोदमानापि मानसे । दुःखितेव बहिः कुप्येतत्कुट्टिमम्) ॥ 8.18 ॥

विश्वास-प्रस्तुतिः

चम्बनादलकचूर्णदूषितं शंकरोऽपि नयनं ललाटजम् ।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ 8.19 ॥

मूलम्

चम्बनादलकचूर्णदूषितं शंकरोऽपि नयनं ललाटजम् ।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ 8.19 ॥

अन्वयः

अथ शङ्करोऽपि चुम्बनात् अलकाचूर्णदूषितं ललाटजं नयनम् उच्छ्वसत्कमलगन्धये पार्वतीवदनगन्धवाहिने ददौ ।

मल्लिनाथः

चुम्बनादिति । अथ शंकरोऽपि चुम्बनाच्चुम्बनार्थितोऽलकचूर्णेन दूषितमुपहतं ललाटजं नयनमुच्छ्वसत्कमलगन्धये विकचारविन्दगन्धधारिणे । ‘उपमानाच्च’ इतीकारः । पार्वत्या वदनगन्धवाहिने । फूत्कारमारुतायेत्यर्थः । एतेन देव्याः प्रियवशंवदत्वमुक्तम् । अत्र हरचक्षुष्यलकचूर्णकथनाद्देव्या उपरिभावः सूचितः ॥ 8.19 ॥

विश्वास-प्रस्तुतिः

एवमिन्द्रियसुखस्य (1)वर्त्मनः सेवनादनुगृहीतमन्मथः ।
शैलराजभवने सहोमया (2)मासमात्रमवसद् वृषध्वजः ॥ 8.20 ॥
{1.चात्मनः.2.मासमेकम्.}

मूलम्

एवमिन्द्रियसुखस्य (1)वर्त्मनः सेवनादनुगृहीतमन्मथः ।
शैलराजभवने सहोमया (2)मासमात्रमवसद् वृषध्वजः ॥ 8.20 ॥
{1.चात्मनः.2.मासमेकम्.}

अन्वयः

वृषध्वजः एवम् इन्द्रियसुखस्य वर्त्मनः सेवनात् अनुगृहीतमन्मथः (सन्) अभया सह शैलराजभवने मासमात्रम् अवसत् ।

मल्लिनाथः

एवमिति । वृषध्वजो हर एवमुक्तरीत्येन्द्रियाणां सुखस्यानुकूलस्य वर्त्मनो मार्गस्य स्त्रीप्रसङ्गस्येत्यर्थः । सेवनात्परिभोगादनुगृहीतमन्मथः पुरुज्जीवितमदनः सन् । उमया सह शैलराजभवने हिमवद्गेहे मासमात्रमवसत् । अत्यन्तसंयोगे द्वितीया । मासमात्रमिति वधूवशीकरणकालक्लृप्तिः प्रदर्शिता ॥ 8.20 ॥

विश्वास-प्रस्तुतिः

सोऽ(3)नुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम्(4) ।
तत्र तत्र विजहार (5)संपतन्नप्रमेयगतिना ककुद्मता ॥ 8.21 ॥
{3.अनुमन्त्र्य.4.पीडितम्.5.संचरन्.}

मूलम्

सोऽ(3)नुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम्(4) ।
तत्र तत्र विजहार (5)संपतन्नप्रमेयगतिना ककुद्मता ॥ 8.21 ॥
{3.अनुमन्त्र्य.4.पीडितम्.5.संचरन्.}

अन्वयः

स आत्मभूः आत्मजाविरहदुःखपीडितं हिमवन्तम् अनुमान्य अप्रमेयगतिना ककुद्मता तत्र तत्र संपतन् विजहार ।

मल्लिनाथः

स इति । स आत्मभूः शिव आत्मजाया दुहुतुर्विरहदुःखेन पीडितं हिमवन्तमनुमान्यानुमतं कृत्वा अप्रमेयगतिनापरिच्छेद्यगतिना ककुद्यता वृषेण संचरन्संचरमाणस्तत्र तत्र नानादेशेषु विजहार ॥ 8.21 ॥

विश्वास-प्रस्तुतिः

मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमात् ॥ 8.22 ॥

मूलम्

मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमात् ॥ 8.22 ॥

अन्वयः

मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती मेरुम् एत्य सुरतमर्दनक्षमान् हेमपल्लवविभङ्गसंस्तरान् रात्रिम् एत्य अन्वभूत् ।

मल्लिनाथः

मेरुमिति । मरुदाशुगोक्षकः । पवनजवनवाहनः पार्वतीस्तनाभ्यां पुरस्कृतः । पार्वतीपुरोगतयाश्लिष्ट इत्यर्थः । कृती कुशलो हरो मेरुमेत्य हेमपल्लवानां विभङ्गाः खण्डास्त एव संस्तरास्तल्पं यस्यां तां तथोक्तां क्षपां रात्रिं सुरततत्परः सुरतासक्तः सन् । अन्वभूत् ॥ 8.22 ॥

विश्वास-प्रस्तुतिः

पद्मनाभवलयाऽङ्किताश्मसु(1) प्राप्तवत्सवमृतविप्रुषो नवाः ।
(2)मन्दरस्य कटकेषु चावसप्तार्वतीवदनपद्मषट्पदः ॥ 8.23 ॥
{1.चरण.2.मान्दरेषु.}

मूलम्

पद्मनाभवलयाऽङ्किताश्मसु(1) प्राप्तवत्सवमृतविप्रुषो नवाः ।
(2)मन्दरस्य कटकेषु चावसप्तार्वतीवदनपद्मषट्पदः ॥ 8.23 ॥
{1.चरण.2.मान्दरेषु.}

अन्वयः

पार्वतीवदनपद्मषठ्पदः (सः) पद्मनाभवलयाऽङ्किताऽश्मसु नवाः अमृतविप्लुषुः प्राप्तवत्सु मन्दरस्य कटकेषु च अवसत् ।

मल्लिनाथः

पद्मनाभेति । पार्वतीवदनपद्मे षट्पदः । प्रियामुखरसास्वादलोल इत्यर्थः । स हरः । पद्मं नाभिर्यस्य स पद्मनाभो विष्णुः । ‘अच्प्रत्यन्ववपूर्वात्सामलोम्नः’इत्यत्राजिति योगविभागात्समासान्तः । तस्य वलयैरङ्किता अश्मानौ येषां तेषु । अमृतमथनसमय इति भावः । तथा नवाः प्रत्यग्रा अमृतविप्रुषः सुधाबिन्दून्प्राप्तवत्सु मन्दरस्य मन्थाचलस्य कटकेषु नितम्बेषु चावसत् । एतेन मन्दरस्यानेकाद्भुताधारत्वान्मनोविनोदकत्वमुक्तम् ॥ 8.23 ॥

विश्वास-प्रस्तुतिः

(3)रावणध्वनितभीतया तया कण्ठसक्त(4) दृढबाहुबन्धनः ।
एकपिङ्गलिगिरौ जगदुरुर्निर्विवेश विशदाः शशिप्रभा ॥ 8.24 ॥
{3.वारणस्वनित.4.मृदु.}

मूलम्

(3)रावणध्वनितभीतया तया कण्ठसक्त(4) दृढबाहुबन्धनः ।
एकपिङ्गलिगिरौ जगदुरुर्निर्विवेश विशदाः शशिप्रभा ॥ 8.24 ॥
{3.वारणस्वनित.4.मृदु.}

अन्वयः

जगद्गुरुः रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः (सन्) एकपिङ्गलगिरौ विशदाः शशिप्रभाः निर्विवेश ।

मल्लिनाथः

रावणेति । जगद्गुरुः । विश्रवसोऽपत्यं रावणो दशकण्ठः । ‘तस्यापत्य्म्’ इत्यण्प्रत्ययः । वृत्तिविषये विश्रवस् शब्दस्य रवणादेशः । रावणस्य ध्वनितास्कैलासोत्पाटनसमयक्ष्वेडिताद्भीतया तया पार्वत्या कण्ठसक्ताभ्यां दृढबाहुभ्यां बन्धनं यस्य स तथाभूतः । एकनेत्रत्वादेकपिङ्गलः कुबेरस्तस्य गिरौ कैलासे विशादा निर्मलाः शशिप्रभाश्चन्द्रिका बुभुजे । ‘निर्वेशो भृतिभोगयोः’ इत्यमरः ॥ 8.24 ॥

विश्वास-प्रस्तुतिः

तस्य जातु मलयस्थलीरतेर्धूतचन्दनलतः(5) प्रियाक्लमम् ।
आचचाम (6)सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ॥ 8.25 ॥
{5.वनः.6.सतुषरिशीतलः.}

मूलम्

तस्य जातु मलयस्थलीरतेर्धूतचन्दनलतः(5) प्रियाक्लमम् ।
आचचाम (6)सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ॥ 8.25 ॥
{5.वनः.6.सतुषरिशीतलः.}

अन्वयः

जातु धूतचन्दनलतः सलवङ्गकेसरः दक्षिणाऽनिलः चाटुकार इव मलयस्थलीरतेः तस्य प्रियाक्लमम् आचचाम ।

मल्लिनाथः

तस्येति । जातु कदाचिद् धूतचन्दनलतः कम्पितपटीरशखः । ‘रमे शखालते’ इत्यमरः । सह लवङ्गस्य केसरैः सलवङ्गकेसरः । ‘लवङ्गदेवकुसुमम्’ इत्यमरः । विशेषणाभ्यां शैत्यसौरभ्ये दर्शिते । दक्षिणानिलो मलयमारुतः । चाटुकारश्चाटुप्रयोगः । प्रियवाद इति यावत् । भावे घञ् । स इव मलयस्थलीषु मलयाचलप्रदेशेषु रतिः सुरतं यस्य तथोक्तस्य तत्र रममाणस्येत्यर्थः । तस्य शिवस्य प्रियाक्लमं प्रियायाः सुरतश्रममाचचाम जहार । यथा लोके महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हृत इत्यर्थः ॥ 8.25 ॥

विश्वास-प्रस्तुतिः

हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
खे(1) व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरक्त(2) मेखला ॥ 8.26 ॥
{1.सा.2.मेखलाम्.}

मूलम्

हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
खे(1) व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरक्त(2) मेखला ॥ 8.26 ॥
{1.सा.2.मेखलाम्.}

अन्वयः

उमा हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा मीनपङ्क्तिपुनरुक्तमेखला खे तरङ्गिणीं व्यगाहत ।

मल्लिनाथः

हेमेति । उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियो यया तेनोत्थितस्य प्रियस्य कराम्बुना कराक्षिप्ताम्भसा विनिमीलितेक्षणा मुकुलिताक्षी । मीनपङ्क्त्या पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सती खे तरङ्गिणीं व्यगाहत । तत्र तत्र जलक्रीडामकरोदित्यर्थः ॥ 8.26 ॥

विश्वास-प्रस्तुतिः

तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः सस्पृहं (3)सुरवधूभिरीक्षितः ॥ 8.27 ॥
{3.सुरवधूभिरैक्ष्यत,सुरवधूनिरीक्षतः,सुरवधूभिरक्षितः.}

मूलम्

तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः सस्पृहं (3)सुरवधूभिरीक्षितः ॥ 8.27 ॥
{3.सुरवधूभिरैक्ष्यत,सुरवधूनिरीक्षतः,सुरवधूभिरक्षितः.}

अन्वयः

अयुग्मलोचनः नन्दने पुलोमतनयाऽलकोचितैः पारिजातकुसुमैः तां प्रसाधयन् सुरवधूमिः सस्पृहम् चिरम् ईक्षितः ।

मल्लिनाथः

तामिति । अयुग्मानि लोचनानि यस्य सोऽयुग्मलोचनस्त्र्यम्बकः । युग्मशब्दो विशेष्यनिध्नोऽप्यास्ते ‘तस्मिन्युग्मासु संविशेत्’ ‘युग्मान्दैवे यथा शक्ति पित्र्येऽयुगमांस्तथैव च’ । इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनोद्याने पुलोमतनया शची । ‘पुलोम्नस्तु शची सुता’ इति हरिवंशे । तस्या अलकानामुचितैः पारिजातकुसुमैस्तां प्रसाधयन्नलंकुर्वश्चिरं सुरवधूभिः सस्पृहमीक्षितः । केन वा पुण्येनायं लभ्यत इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायक्त्वं देव्याः स्वाधीनपतिकात्वं चावसेयम् ॥ 8.27 ॥

विश्वास-प्रस्तुतिः

इत्यभौममनुभूय शंकरः पार्थिवं च (1)दयितासखः सुखम् ।
लोहितायति कदाचिदातपे गन्धमादनवनं(2) व्यगाहत ॥ 8.28 ॥
{1.वनिता.2.गिरिम्.}

मूलम्

इत्यभौममनुभूय शंकरः पार्थिवं च (1)दयितासखः सुखम् ।
लोहितायति कदाचिदातपे गन्धमादनवनं(2) व्यगाहत ॥ 8.28 ॥
{1.वनिता.2.गिरिम्.}

अन्वयः

इति शङ्करः वनितासखः (सन्) उभौमं पार्थिवं च सुखम् अनुभूय कदाचित् आतपे लोहितायति (सति) गन्धमादनवनं व्यगाहत ।

मल्लिनाथः

इतीति । इतीत्थं शंकरो वनितासखः सन् भूमौ भवं भौमम् न भौममभौमं दिव्यं, पृथिव्यां भवं पार्थिवं च सुखमनुभूय कदाचिदातपे लोहितायति लोहितवर्णे भवति । अस्तंगते सवितरीत्यर्थः । ‘लोहितादिडाज्भ्यः क्यष्’ इति क्यष्प्रत्ययः । गन्धमादनगिरिं व्यगाहत । पर्वतमुद्दिश्य इत्यर्थः । उद्देशक्रियां प्रति गिरेः कर्मत्वम् । यथाह भाष्यकारः ॥ 8.28 ॥

विश्वास-प्रस्तुतिः

तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥ 8.29 ॥

मूलम्

तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥ 8.29 ॥

अन्वयः

तत्र काञ्चनशिलातलाश्रयः (सः) नेत्रगम्भं भास्करम् अवलोक्य दक्षिणेतरभुजव्यपाश्रयां सहधर्मचारिणीं व्याजहार ।

मल्लिनाथः

तत्रेति । तत्र गन्धमादने काञ्चनविकारः काञ्चनं सौवर्ण तच्च तच्छिलातलं तदाश्रयो यस्य स भगवान्नेत्रगम्यं सायंतनम् अर्थाद्दर्शनयोग्यम् । भास्करं सूर्यम् । ‘दिवाविभानिशाप्रभाभास्करान्तानन्तादीo’ त्यादिना टप्रत्ययः । अवलोक्य दक्षिणेतरभुजः सव्यबाहुर्व्यपाश्रयो यस्यास्ताम् । निजवामभुजमवष्टभुजमवष्टभ्योपबिष्टामितयर्थः । सह धर्म चरतीति सहधर्मचारिणीं पत्नीं व्याजहार जगाद् ॥ 8.29 ॥

विश्वास-प्रस्तुतिः

पद्मकान्ति(3) मरुणत्रिभागयोः (4)संक्रमय्य तव नेत्रयोरिव ।
संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥ 8.30 ॥
{3.अरुणान्तभागयोः.4.संगमय्य.}

मूलम्

पद्मकान्ति(3) मरुणत्रिभागयोः (4)संक्रमय्य तव नेत्रयोरिव ।
संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥ 8.30 ॥
{3.अरुणान्तभागयोः.4.संगमय्य.}

अन्वयः

(हे प्रिये !) असौ अहर्पतिः पद्मकान्तिम् अरुणत्रिभागयोः तव नेत्रयोः संक्रमय्य इव संक्षये प्रजेश्वरो जगत् इव अहः संहरति ।

मल्लिनाथः

पद्मकान्तिमिति । असावह्नां पतिरहर्पतिः सूर्यः । ‘अहरादीनां पत्यादिषूपसङ्ख्यानम्’ इति रेफदिशः । पद्मकान्तिं पद्मशोभाम् । तृतीयो भागस्त्रिभागः । वृत्तिविषये पूरणार्थत्वं सङ्ख्याया इत्युक्तम् । अरुणस्त्रिभागो ययोस्तयोः । अरुणोपान्तयोरिति भाग्यलक्षणोक्तिः । तव नेत्रयोः सक्रमय्येव । तदानीं पद्मानामविकासान्नेत्रयोस्तु विकासाच्चेयमुत्प्रेक्षा । प्रलयकाले प्रजेश्वरः प्रजापतिर्जगदिवाहर्दिवसं संहरति । अस्तं गच्छतीत्यर्थः ॥ 8.30 ॥

विश्वास-प्रस्तुतिः

सीकरव्यतिकरं मरीचिभि(1) र्दूरयत्यवनते विवस्वति ।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव(2) पितुर्व्रजन्त्यमी(3) ॥ 8.31 ॥
{1.धूनयति.2.प्रसवितुः.3.ते.}

मूलम्

सीकरव्यतिकरं मरीचिभि(1) र्दूरयत्यवनते विवस्वति ।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव(2) पितुर्व्रजन्त्यमी(3) ॥ 8.31 ॥
{1.धूनयति.2.प्रसवितुः.3.ते.}

अन्वयः

विवस्वति मरीचिभिः सीकरव्यतिकरं दूरयति (सति) हे अवनते ! अमी तव पितुः निर्झराः इन्द्रचापपरिवेषशून्यतां व्रजन्ति ।

मल्लिनाथः

सीकरेति । विवस्तेजोऽस्यास्तीति विवस्वांस्तस्मिन्विवस्वति सूर्ये मरीचिभिः । सहार्थविवक्षायां तृतीयात एव विनापि सहशब्देन तृतीया । सीकरव्यतिकरं पयःकिरणसंपर्क दूरयति दूरीकुर्वति सति । हे अवनते पार्वति ! अमी तव पितुर्भवत्पितुर्हिमवतो निर्झराः प्रवाहाः । ‘प्रवाहो निर्झरोझरः’ इत्यमरः । इन्द्रचापं नानावर्णप्रभासमूहस्तस्य परिवेषेण परिवेष्टनेन शून्यतां व्रजन्ति । अर्ककिरणसंपर्ककृतत्वादैन्द्रचापस्य तन्निवृत्त्या निवृत्तिरित्यर्थः ॥ 8.31 ॥

विश्वास-प्रस्तुतिः

दष्टतामरसकेसर(4) त्यजोः क्रन्दतोर्वि(5) परिवृत्तकण्ठयोः ।
(6)निध्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥ 8.32 ॥
{4.स्त्रजोः.5.विरहहीनकण्ठयोः.6.भिन्नयोः.}

मूलम्

दष्टतामरसकेसर(4) त्यजोः क्रन्दतोर्वि(5) परिवृत्तकण्ठयोः ।
(6)निध्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥ 8.32 ॥
{4.स्त्रजोः.5.विरहहीनकण्ठयोः.6.भिन्नयोः.}

अन्वयः

दष्टतामरसकेसरस्त्रजोः क्रन्दतोः विपरिवृत्तकण्ठयोः निध्नयोः चक्रवाकयोः सरसि अल्पम् अन्तरम् अनल्पतां गतम् ।

मल्लिनाथः

दष्टेति । दष्टमर्धजग्ध तामरसकेसरं पद्मकिञ्जल्कम् । मुखद्वयेनैकमिति भावः । तत्त्यजत इति तथोक्तयोः क्रन्दतोः कूजतोर्विपरिवृत्तकण्ठयोः । परस्परालोकनार्थं वक्रीकृतग्रीवयोरित्यर्थः । निध्नयोर्दैवाधीनयोः । ‘अधीनो निध्न अयत्त’ इत्यमरः । चक्रवाकी च चक्रवाकश्च तयोः ‘पुमान्स्त्रिया’ इत्येकशेषः । सरस्यल्पमन्तरं व्यवधानमनल्पतामाधिक्यं गतम् । सरसि वियुज्यमानयोर्महद् व्यवधानमभूदित्यर्थः ॥ 8.32 ॥

विश्वास-प्रस्तुतिः

स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
(1)आविभातचरणाय गृह्णाते वारिरुहबद्धषट्पदम् ॥ 8.33 ॥
{1.आविभाति शरणाय गच्छतः,साध्यकर्मविधयेऽनुगृह्णाते.}

मूलम्

स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
(1)आविभातचरणाय गृह्णाते वारिरुहबद्धषट्पदम् ॥ 8.33 ॥
{1.आविभाति शरणाय गच्छतः,साध्यकर्मविधयेऽनुगृह्णाते.}

अन्वयः

दन्तिनः आह्निकं स्थानम् अपास्य सल्लकीविटपभङ्ग वासितं वारिरुहबद्धषट्पदं वारि आविभातचरणाय गृह्णाते ।

मल्लिनाथः

स्थानमिति । दन्तिनो गजाः अह्नि भवमाह्निकम् ‘कालाट्ठञ्’ स्थानमपास्य विहाय सल्लकी गजप्रिया काचिल्लता । ‘सल्लकी स्याद्गजप्रिया’ इति हलायुधः । तस्या विटपभङ्गैः पल्लवखण्डैर्वासितं सुरभितं वारिरुहेषु बद्धाः संगताः षट्पदा यस्मिंस्तद्वारि जलमाविभातं प्रभातमारभ्य यच्चरणं तस्मै । तत्पर्याप्तमित्यर्थः । गृह्णात उपाददते । गजा हि भुक्तिपर्याप्तजलं सकृदेव सायं पिबन्तीति प्रसिद्धम् ॥ 8.33 ॥

विश्वास-प्रस्तुतिः

पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे(2) विवस्वता ।
(3)दीर्घया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ 8.34 ॥
{2.कथमिदम्.3.लब्धया.}

मूलम्

पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे(2) विवस्वता ।
(3)दीर्घया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ 8.34 ॥
{2.कथमिदम्.3.लब्धया.}

अन्वयः

हेमितकथे ! पश्चिमदिगन्तलम्बिना विवस्वता दीर्घया प्रतिमया सरोऽम्भसां तापनीयं सेतुबन्धनम् इव निर्मितम् । पश्य ।

मल्लिनाथः

पश्येति । हे मितकथे, हे मितभाषिणी ! एतेन स्वस्य तत्संलापने लौल्यं सूचयति । पश्चिमदिगन्तलम्बित्वादायतया प्रतिमया निजप्रतिबिम्बेन । ‘प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।’ इत्यमरः । सरोम्भसां तपनीयविकारस्तापनीयं हिरण्मयम् । ‘तपनीयं शातकुम्भम्’ इत्यमरः । सेतुबन्धननिमित्तम् । इवेत्युत्प्रेक्षा । अस्तमयसमये सरः पारावारिणामरुणमायतमर्कप्रतिबिम्बं हिरण्मयसेतुरिव दृश्यत इत्यर्थः । पश्येति वाक्यार्थः कर्म ॥ 8.34 ॥

विश्वास-प्रस्तुतिः

उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः ।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ 8.35 ॥

मूलम्

उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः ।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ 8.35 ॥

अन्वयः

दंष्ट्रिणो दंष्टभङ्गुरविसाङ्कुरा वनवराहयूथपा गाढपङ्कं पल्वलं विनिकीर्य अतिवाहितातपाः (सन्तः) उत्तरन्ति ।

मल्लिनाथः

उत्तरन्तीति । दंष्ट्रिणो दंष्ट्रावन्तः । व्रीह्यादित्वादिनिः । अतएव दष्टा भङ्गुराः कुटिला विसाङ्कुरा मृणालाङ्कुरा यैस्ते त इव स्थिता वनवराहाणां यूथपाः । ‘यूथनाथस्तु यूथपः’ इत्यमरः । गाढपङ्कमतिपङ्किलं पल्वलमल्पसरः । ‘वेशन्तः पल्वलं चाल्पसरः’ इत्यमरः । विनिकीर्य विक्षिप्यातिवाहितातपा उत्तरन्ति पल्वलान्निर्गच्छन्ति ॥ 8.35 ॥

विश्वास-प्रस्तुतिः

एष वृक्षशिखरे कृतास्पदो जातरुपरसगौरमण्डलः(1) ।
हीयमानमहरत्ययातपं पीवरोरु ! पिबतीव बर्हिणः ॥ 8.36 ॥
{1.मण्डलम्.}

मूलम्

एष वृक्षशिखरे कृतास्पदो जातरुपरसगौरमण्डलः(1) ।
हीयमानमहरत्ययातपं पीवरोरु ! पिबतीव बर्हिणः ॥ 8.36 ॥
{1.मण्डलम्.}

अन्वयः

हे पीवरोरु ! एष वृक्षशिखरे कृतास्पदो जातरुपरसगौरमण्डलो बर्हिणो हीयमानम् अहरत्ययाऽऽतपं पिबति इव ।

मल्लिनाथः

एष इति । हे पीवरोरु, एष वृक्षशिखरे वृक्षाग्रे कृतस्थितिजातरुपरसगौरमण्डल आतपरुषणात्काञ्चनद्रवदरुणवर्हमण्‍लः । ‘चामीकरं जातरूपं महारजतकाञ्चने’ । इत्यमरः । बर्हमस्यास्तीति बर्हिणो मयूरः । ‘फलबर्हाभ्यामिनज्वक्तव्यः’ हीयमानं क्षीयमाणमहरत्ययातपं दिनान्तातपं पिबतीव । कथमन्यथा क्षीयमाणत्वमिति भावः ॥ 8.36 ॥

विश्वास-प्रस्तुतिः

पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव(1) जातमेकतः ।
खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः ॥ 8.37 ॥
{1.लग्नपङ्कम्.}

मूलम्

पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव(1) जातमेकतः ।
खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः ॥ 8.37 ॥
{1.लग्नपङ्कम्.}

अन्वयः

पूर्वभागतिमिरप्रवृत्तिभिः एकतो व्यक्तपङ्कम् इव जातं विवस्वता हृताऽतपजलं खं किञ्चित् शेषवत् सर इव भाति ।

मल्लिनाथः

पूर्वभागेति । पूर्वभागे प्राचीमूले तिमिरप्रवृत्तिभिर्ध्वान्तप्रसरेरेकतो व्यक्तपङ्कं स्फुटपङ्कमिव जातं तथा विवस्वता हृतमातप एव जलं यस्य तत्तथोक्तं खमाकाशं किंचिदोषच्छेषोस्वास्तोति शेषवच्छुष्कं सर इव भाति ॥ 8.37 ॥

विश्वास-प्रस्तुतिः

आविश्द्भि (2)रुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो(3) विभ्रतिं श्रियमुदीरिताग्नयः ॥ 8.38 ॥
{2.उटजाङ्गणे.3.उग्र्यधेनवः.}

मूलम्

आविश्द्भि (2)रुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो(3) विभ्रतिं श्रियमुदीरिताग्नयः ॥ 8.38 ॥
{2.उटजाङ्गणे.3.उग्र्यधेनवः.}

अन्वयः

उटजाऽङ्गणम् आविशद्भिः मृगैः मूलसेकसरसैः वृक्षकैः प्रविशदग्निधेनवः उदीरिताऽग्नयः आश्र्माः श्रियं बिभ्रति ।

मल्लिनाथः

आविशद्भिरिति । उटजाङ्गणं पर्णशालाङ्गणमाविशद्भिः । प्रविशद्भिरित्यर्थः । ‘पर्णशालोटजौऽस्त्रियाम्’ इत्यमरः । ‘उपान्वध्याङ्ववस’ इति कर्मत्वम् । मृगैः । तथामूलानां सेकेन सेचनेन सरसैः सद्रवैर्वृक्षकैश्चोपलक्षिताः । अल्पार्थे कप्रत्ययः । प्रविशन्त्यो वनादागच्छन्त्योऽग्निहोत्रार्थां धेनवः उदीरिताग्नयश्चाश्रमाः श्रियं बिभ्रति ॥ 8.38 ॥

विश्वास-प्रस्तुतिः

बद्धकोशमपि तिष्ठति क्षणं साबशेषविवरं सुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातु(4) मन्तरम् ॥ 8.39 ॥
{4.उत्तरम्.}

मूलम्

बद्धकोशमपि तिष्ठति क्षणं साबशेषविवरं सुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातु(4) मन्तरम् ॥ 8.39 ॥
{4.उत्तरम्.}

अन्वयः

बद्धकोशम् अपि कुशोशयं वसतिं ग्रहीष्यते षट्पदाय प्रीतिपूर्वम् अन्तरं दातुम् इव क्षणं साऽवशेषं विवर्र तिष्ठति ।

मल्लिनाथः

बद्धकोशमिति । बद्धकोशमपि । मुकुलितमपीत्यर्थः । कुशेशयं कर्तृं । ‘शतपत्रं कुशेशयम्’ इत्यमरः । वसतिं ग्रहीष्यते । स्थितिं करिष्यत इत्यर्थः । ‘लृटः सद्वा’ इति शतृप्रत्ययः । षट्पदाय प्रीतिपूर्वमन्तरमवकाशं दातुमिव क्षणं सावशेषविवरं तिष्ठति ॥ 8.39 ॥

विश्वास-प्रस्तुतिः

(1)दूरलग्नपरिमोयरश्मिना (2)वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता वन्धुजीवतिलकेन कन्यका ॥ 8.40 ॥
{1.दूरमग्र.2.वारुणा.3.कुसुमेन.}

मूलम्

(1)दूरलग्नपरिमोयरश्मिना (2)वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता वन्धुजीवतिलकेन कन्यका ॥ 8.40 ॥
{1.दूरमग्र.2.वारुणा.3.कुसुमेन.}

अन्वयः

वारुणी दिक् दूरलग्नपरिमेयरश्मिना अरुणेन केसरवता बन्धुजीवतिलकेन मण्‍डिता कन्यका इव भाति ।

मल्लिनाथः

दूरलग्नेति । वारुणी दिक्प्रतीची दूरं लग्ना अत एव परिमेया अल्पावशि,्टा रश्मयः यस्य तथोवतेनारुणेन लोहितवर्णेन केसरवता किञ्जत्कवता बन्धुजीवं बन्धुजीवककुसुमम् । ‘बन्धूको बन्धुजीवकः’ इत्यमरः । तदेव तिलकं तेन मण्डिता कन्यकेव भाति ॥ 8.40 ॥

विश्वास-प्रस्तुतिः

सामभिः सहचराः सहस्रशः (4)स्यन्दनाश्वहृदयंगमस्वनैः(5) ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥ 8.41 ॥
{4.वदनैश्चः स्यन्दनस्य.5.स्वरैः.}

मूलम्

सामभिः सहचराः सहस्रशः (4)स्यन्दनाश्वहृदयंगमस्वनैः(5) ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥ 8.41 ॥
{4.वदनैश्चः स्यन्दनस्य.5.स्वरैः.}

अन्वयः

किरणोष्मपायिनः सहस्रशः सहचराः अग्निपरिकीर्णतेजसं भानुं स्यन्दनाऽश्चहृदङ्गमस्वनैः समाभिः सहस्रशः संस्तुवन्ति ।

मल्लिनाथः

सामभिरिति । किरणोष्मपायिनः किरणोष्माणं पिबन्तीति तथोक्ताः । तथाहारा इत्यर्थः । चरन्तीति चराः । पचाद्यच् । सहभूताश्चराः सहचरा बालखिल्यप्रभृतयो महर्षयोऽग्नौ परिकीर्ण तेजोस्य तत्तथोक्तम् ।[अग्निर्वादत्यः सायं प्रसवति] इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति हृदयंगमा मनोरमाः । गमेः सुपीति वक्तव्यात्खच् । स्यन्दनाश्वानां हृदयंगमाः स्वना येषां तैः सामभिः सामवेदैः सहस्रशः सैस्तुवन्ति । [सामवेदेनास्तमये गीयते] इति श्रुतैः ॥ 8.41 ॥

विश्वास-प्रस्तुतिः

सोऽयमानत (1)शिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ 8.42 ॥
{1.शिरोरुहैः.}

मूलम्

सोऽयमानत (1)शिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ 8.42 ॥
{1.शिरोरुहैः.}

अन्वयः

सः अयं दिवसं महोदधौ सन्निधाय आनतशिरोधरैः कर्णचामरविघट्टितेक्षणैः युगभुग्नकेसरैः हयैः अस्तम् एति ।

मल्लिनाथः

स इति । सोऽयं भानुर्दिवसं महोदधौ संनिधाय निधायेत्यर्थः दिवसस्यादर्शनादियमुत्प्रेक्षा । आनतशिरोधरैर्गगनावतरणान्नम्रकन्धरैरतएव कर्णचामरविघट्टितेक्षणैर्युगभुग्नकेसरैः कुटिलितस्कन्धरोमभिर्हयैरस्तमेति । ‘अस्तस्तु चरमक्षमाभृत्’ इत्यमरः ॥ 8.42 ॥

विश्वास-प्रस्तुतिः

खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशौ गतिः ।
तत्प्रकाशयति याव(2) दुद्गतं मीलनाय खलु तावतशच्युतम्(3) ॥ 8.43 ॥
{2.उत्थितम्.3.तावता.}

मूलम्

खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशौ गतिः ।
तत्प्रकाशयति याव(2) दुद्गतं मीलनाय खलु तावतशच्युतम्(3) ॥ 8.43 ॥
{2.उत्थितम्.3.तावता.}

अन्वयः

रवौ संस्थिते खं प्रसुप्तम् इव, (स्थितम्) महतः तेजस ईदृशी गतिः । तत् उद्गतं (सत्) यावत् प्रकाशयति च्युतं (सत्) तावतः मीलनाय (भवति) खलु ।

मल्लिनाथः

खमिति । रवौ संस्थितेऽस्तमिते सति खं व्योम प्रसुप्तमिव निःप्रकाशत्वान्निद्रितमिव । स्थितमित्यर्थः । युज्यते चैतदित्याह । महतस्तेजस ईदृशी वक्ष्यमाणप्रकारा गतिः । स्वभाव इत्यर्थः । तां गतिमेवाहतदिति । तन्महत्तेज उत्थितं सद्यावत् । स्थानमिति शेषः । प्रकाशयति । तावतोधश्च्युतं सत् । तत्स्थानादिति शेषः । मीलनाय संकोचाय खलु भवति । यत्र स्थाने तेजस्तिष्ठति तत्प्रकाशत इति स्थितिः । यतो गच्छति न तत्प्रकाशते । अतः सूर्यापाये खं प्रसुप्तमिवेति युक्तोत्प्रेक्षेति भावः । अस्यार्थस्य तेजोमात्रसाधारण्येऽपि महति स्फुटमिति महद्ग्रहणं कृतम् ॥ 8.43 ॥

विश्वास-प्रस्तुतिः

संध्ययाप्यनुगतं रवे(4) र्वपु(5) र्वन्द्यमस्तशिखरे समर्पितम् ।
येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥ 8.44 ॥
{4.धर्मम्.6.प्राक्तथेयम्.}

मूलम्

संध्ययाप्यनुगतं रवे(4) र्वपु(5) र्वन्द्यमस्तशिखरे समर्पितम् ।
येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥ 8.44 ॥
{4.धर्मम्.6.प्राक्तथेयम्.}

अन्वयः

सन्ध्यया अपि अस्तशिखरे समर्पितं वन्द्यं रवेः वपुः अनुगतम् । प्राक् उदये तथा पुरस्कृता (इयम्) तम् आपदि कथं न अनुयास्यति ?

मल्लिनाथः

संध्ययेति । संध्ययाप्यस्तशिखरेऽस्ताद्रिशृङ्गे समर्पितं निहितं वन्द्यं रवेर्वपुरनुगतमन्वगामि । अयंयुतं रविमन्वगादिति भावः । युक्तं चैतदित्याह-प्राक्पूर्वमुदये तथा तेन प्रकारेण पुरस्कृताग्रतः कृता । पूजिता चेति गम्यते । प्रातः सूर्योदयात्प्रागेव संध्यागम इति हि प्रसिद्धम् । इयं संध्या तं रविमापद्यस्तसमये कथं नानुयास्यति । अनुयास्यत्येवेत्यर्थः संपदसंपदोस्तुल्यरुपमेव साधूनामिति भावः ॥ 8.44 ॥

विश्वास-प्रस्तुतिः

रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि ! भान्त्यमूः ।
द्रक्ष्यसि त्वमिति (1)सांध्यवेलया (2)वर्तिकाभिरिव साधुवर्तिताः(3) ॥ 8.45 ॥
{1.सांध्यनयाया.2.वर्णिकाभिः.3.मण्डिताः.}

मूलम्

रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि ! भान्त्यमूः ।
द्रक्ष्यसि त्वमिति (1)सांध्यवेलया (2)वर्तिकाभिरिव साधुवर्तिताः(3) ॥ 8.45 ॥
{1.सांध्यनयाया.2.वर्णिकाभिः.3.मण्डिताः.}

अन्वयः

हे कुटिलकेशि ! अमूः रक्त-पीतकपिशाः पयोमुचां कोटयः भान्ति त्वं द्रक्ष्यसि इति सान्ध्यवेलया वर्तिकाभिः साधु वर्तिताः इव ।

मल्लिनाथः

रक्तेति । हे कुटिलकोशे ! ‘स्वाङ्गाच्चोपसर्जनादंसयोगोपधात्’ इति ङीप् । अमूः पुरोगताः रक्ताः पीताः कपिशाश्च रक्तपीतकपिशाः । नानावर्णा इत्यर्थः । चार्थे द्वन्द्वः । न तु ‘वर्णो वर्णेन’ इति तत्पुरुषः सामानाधिकरण्याभावात् । पयोमुचां कोटयोऽश्रयः । ‘स्यात्कोटिरश्रौ चापाग्रे संख्याभेदप्रकर्षयोः’ । इति विश्वः । त्वं द्रक्ष्यसीति हेतोरनया । सांध्यवेलया । संध्ययेत्यर्थः । ‘संधिवेलया’ इति क्वचित्पाठः । वर्तिकाभिश्चित्रशलाकाभिः साधुवर्तिता उत्पादिताश्च भान्ति ॥ 8.45 ॥

विश्वास-प्रस्तुतिः

सिंहकेसरसटासु (4)भूभृता पल्लवप्रसविषु द्रुमेषु च ।
पश्य (5)धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ॥ 8.46 ॥
{4.भूबूतां.5.धातुशिखरेषु चात्मनः,चास्तशिखरे विवस्वता,धातुशिखरेषु चात्मना.}

मूलम्

सिंहकेसरसटासु (4)भूभृता पल्लवप्रसविषु द्रुमेषु च ।
पश्य (5)धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ॥ 8.46 ॥
{4.भूबूतां.5.धातुशिखरेषु चात्मनः,चास्तशिखरे विवस्वता,धातुशिखरेषु चात्मना.}

अन्वयः

सिंहकेसरसटासु पल्लवप्रसविषु धातुशिखरेषु च भूभृता आत्मना संविभक्तम् इव सान्ध्यम् आतपं पश्य ।

मल्लिनाथः

सिंहेति । सिंहानां केसराणि स्कन्धरोमाणि तान्येव सटा जटास्तासु । ‘सटा जटा केसरयोः’ इति विश्वः । अथवा सटाशब्देन समूहो लक्ष्यतेऽन्यथा पौनरुक्त्यात् । पल्लवप्रसविषु पल्लवप्रसवयुक्तेषु द्रुमेषु तथा धातुशिखरेषु च भूभृतास्ताद्रिणात्मना स्वयमेव सविभक्तमिव स्थितं संध्यायां भवं सांध्यमातपं यस्य तथा पश्य । आरुण्यमरुणद्रव्येषु भूयिष्ठमुपलभ्यत इति भावः ॥ 8.46 ॥

विश्वास-प्रस्तुतिः

(1)अद्रिराजतनये ! तपस्विनः पावनाम्बुविहिता(2) ञ्जलिक्रियाः ।
ब्रह्म गूढम (3)भिसंध्यमादृताः (4)शुद्धये विधिविदो गृणन्त्यमी ॥ 8.47 ॥
{1.पार्ष्णिमुक्तवसुधास्तपस्विनः.2.रचिता.3.अभिसांध्यम्.4.सिद्धये.}

मूलम्

(1)अद्रिराजतनये ! तपस्विनः पावनाम्बुविहिता(2) ञ्जलिक्रियाः ।
ब्रह्म गूढम (3)भिसंध्यमादृताः (4)शुद्धये विधिविदो गृणन्त्यमी ॥ 8.47 ॥
{1.पार्ष्णिमुक्तवसुधास्तपस्विनः.2.रचिता.3.अभिसांध्यम्.4.सिद्धये.}

अन्वयः

पार्ष्णिमुक्तः वसुधाः पावनाऽम्बुविहिताञ्जलि क्रियाः अमी तपस्विनः आदृताः (सन्तः) अभिसन्ध्यं शुद्धये ब्रह्म गूढं गृणन्ति ।

मल्लिनाथः

पार्ष्णीति । पार्ष्णयो गृल्फाधोभागास्तैर्मुक्तवसुधास्त्यक्तभूतलाः । पादाग्रस्थिता इत्यर्थः । ‘गोशृङ्गमात्रमुद्धृत्य मुक्तपार्ष्णः क्षिपेज्जलम्’ । इति स्मरणात् । पावनैरम्बुभी रचिताऽञ्जलिक्रियाः । विहितार्ध्यप्रक्षेपा इत्यर्थः । विधिविदः । शास्त्रज्ञा इत्यर्थः । कर्तरि क्तः । अभिसंध्य संध्यामभि । ‘लक्षणेनाभिप्रतीं आभिमुख्ये’ इत्यव्ययीभावः । शुद्ध्यर्थ ब्रह्म गायत्रीं गूढमुपांशु गृणन्ति । ‘प्रत्यगा तारकोदयात्’ इति स्मरणात् ॥ 8.47 ॥

विश्वास-प्रस्तुतिः

तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ॥ 8.48 ॥

मूलम्

तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ॥ 8.48 ॥

अन्वयः

तत् हे वल्गुवादिनि ! माम् अपि प्रस्तुताय नियमाय मुहूर्तम् अनुमन्तुम् अर्हसि । विनोदनिपुणः सखीजनः त्वां विनोदयिष्यति ।

मल्लिनाथः

तदिति । तत्तस्मात्कारणान्मामपि प्रस्तुताय नियमाय प्रकृतसंध्याविधये मुहूर्तमनुमन्तुमर्हसि । हे वल्गुवादिनि मञ्जुभाषिणि ! ॥ 8.48 ॥

विश्वास-प्रस्तुतिः

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगामाललाप विजया (1)महेतुकम् ॥ 8.49 ॥
{1.सहेतुकम्.}

मूलम्

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगामाललाप विजया (1)महेतुकम् ॥ 8.49 ॥
{1.सहेतुकम्.}

अन्वयः

ततः भर्तुः वाचि अवधीरणापरा शैलराजतनया दशनच्छदं निर्विभुज्य समीपगां विजयाम् अहेतुकम् आललाप ।

मल्लिनाथः

निर्वभुज्येति । ततो भर्तुर्वाचि वचनेऽवधीरणापरा तिरस्कारतत्परा शैलराजतनया पार्वती । छाद्यतेऽनेनेति छदः ‘पुंसि संज्ञायां धः प्रायेण’ इति धप्रत्ययः । दशनच्छदं निर्वभुज्य कुटिलीकृत्य समीपगां विजयां विजयाख्यां सखीमहेतुकं निर्निमित्तमाललाप । न तु रोषाद्भर्त्तुरुत्तरं ददावित्यर्थः ॥ 8.49 ॥

विश्वास-प्रस्तुतिः

ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्व(2)मनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया (3)प्रत्युपेत्य पुनराह सस्मितम् ॥ 8.50 ॥
{2.अनुतिष्ठवान्.3.सोऽभ्युपेत्य.}

मूलम्

ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्व(2)मनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया (3)प्रत्युपेत्य पुनराह सस्मितम् ॥ 8.50 ॥
{2.अनुतिष्ठवान्.3.सोऽभ्युपेत्य.}

अन्वयः

ईश्वरोऽपि दिवसाऽत्ययोचितं विधिं मन्त्रपूर्वम् अनुतस्थिवान् । असूयया अवचनां पार्वतीं पुनः प्रत्युपेत्य सस्मितम् आह ।

मल्लिनाथः

ईश्वर इति । ईश्वरोऽपि दिवसात्ययोचितं सायंकालोचितं विधिं संध्यावन्दनकृत्यं मन्त्रपूर्वमनुतस्थिवाननुष्ठितवान् । तिष्ठतेः क्वसुप्रत्ययः । असूययां संध्यावन्दनजनितासूययाऽवचनामभाषमाणां पार्वतीं पुनः प्रत्युपेत्य सस्मितमाह ॥ 8.50 ॥

विश्वास-प्रस्तुतिः

मुञ्च कोपमनिमित्तकोपने ! संध्यया (4)प्रणमितोऽस्मि (5)नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥ 8.51 ॥
{4.प्रयमितः.5.अन्यथा.}

मूलम्

मुञ्च कोपमनिमित्तकोपने ! संध्यया (4)प्रणमितोऽस्मि (5)नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥ 8.51 ॥
{4.प्रयमितः.5.अन्यथा.}

अन्वयः

हे अनिमित्तकोपने ! कोपं मुञ्च । सन्ध्यया प्रणमितोऽस्मि । अन्यथा न । आत्मनः सहधर्मचारिणं (माम्) चक्रवाकसमवृत्तिं किं न वेत्सि ?

मल्लिनाथः

मुञ्चेति । हे अनिमित्तकोपनेऽकारणकोपिनि ! नन्द्यादित्वात् कर्तरि ल्युः । कोपं मानं मुञ्च । सन्ध्यया प्रणमितोऽस्मि प्रणामं कारितोऽस्मि । अन्यथा प्रकारान्तरं न । धर्माभिसंधायिनं मां कामाभिसंधायिनं मा मन्यस्वेत्यर्थः । आत्मनस्तव सह धर्म चरतीति सहधर्मचारिणं मां चक्रवाकेन समवृत्तिं तुल्यव्यवहारं न वेत्सि किम् ? अनन्यसङ्गिनं वेत्स्येवेत्यर्थः ॥ 8.51 ॥

विश्वास-प्रस्तुतिः

प्रणामकारणमाह-
निर्मितेषु पितॄषु स्वयंभुवा या तनुः सुतनु ! पूर्व (1)मुज्झिता ।
सेयमस्तमुदयं च (2)सेवते तेन मानिनि ! ममात्र गौरवम् ॥ 8.52 ॥
{1.उत्थिता.2.सेव्यते.}

मूलम्

प्रणामकारणमाह-
निर्मितेषु पितॄषु स्वयंभुवा या तनुः सुतनु ! पूर्व (1)मुज्झिता ।
सेयमस्तमुदयं च (2)सेवते तेन मानिनि ! ममात्र गौरवम् ॥ 8.52 ॥
{1.उत्थिता.2.सेव्यते.}

अन्वयः

हे सुतनु ! स्वयंभुवा पितॄषु निर्मितेषु या तनुः उज्झिता, सा इयं तनुः अस्तम् उदयं च सेवते । हे मानिनि ! तेन मम अत्र गौरवम् ।

मल्लिनाथः

निर्मितेष्विति । हे सुतनु सुगात्रि ! पूर्व स्वयं भवतीति स्वयंभूश्चतुराननः । ‘भूवः संज्ञान्तरयोः’ इति क्विप् । मयूरव्यंसकादित्वात्समासः । तेन पितॄष्वग्निष्वात्तादिषु निर्मितेषु सत्सु या तनुरुज्झिता सेयं तनुरस्तमस्तमयकालमुदयमुपयकालम् । अव्ययमेतत् । सेव्यते पूज्यते च । संध्यारुपेणेति शेषः । हे मानिनि ! अविमृस्यकारिणीति भावः । तेन ब्रह्मतनुत्वेन हेतुना ममात्र संध्यायां गौरवमादरः । तदेतद्क्तं भविष्यपुराणे- (पितामहः पितॄन्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । प्रातः सायं समागत्य संध्यारुपेण पूज्यते । एतां संध्यां यतात्मानो ये तु दीर्धामुपासते । दीर्धायुषो भविष्यन्ति नीरुजः पाण्डुनन्दन ।) इति ॥ 8.52 ॥

विश्वास-प्रस्तुतिः

इत्थं देव्याः कोपमपनीय धातुसंध्यादिवर्णनं करोति-
तामिमां तिमिर(3) वृद्धिपीडिता (4)भूमिलग्नमिव सम्प्रति स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ 8.53 ॥
{3.वृत्ति.4.शैलराजतनयाऽधुना स्थिताम्.}

मूलम्

इत्थं देव्याः कोपमपनीय धातुसंध्यादिवर्णनं करोति-
तामिमां तिमिर(3) वृद्धिपीडिता (4)भूमिलग्नमिव सम्प्रति स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ 8.53 ॥
{3.वृत्ति.4.शैलराजतनयाऽधुना स्थिताम्.}

अन्वयः

सम्प्रति तिमिरवृत्तिपोडितां भूमिलग्नम् इव सम्प्रति स्थितां ताम् इमाम् एकतस्तटतमालपालिनीं धातुरसनिम्ननाम् इव पश्य ।

मल्लिनाथः

तामिति । संप्रति तिमिरवृत्तिपीडितां तमोवृत्त्युपरुद्धामतएव भूमौ लग्नमिव स्थितां तामिमां संध्यामेकत एकत्र तटतमालमालिनीं तीरतमालतरुपङ्क्तिमतीम् । ब्रीह्यादित्वादिनिः । धातुरसनिम्नगां धातुद्रवनदीमिव पश्य ॥ 8.53 ॥

विश्वास-प्रस्तुतिः

सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
संपरायवसुधासशोणितं मण्डलाग्रमिव तिर्य(1)दुत्थितम् ॥ 8.54 ॥
{1.उज्झितम्.}

मूलम्

सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
संपरायवसुधासशोणितं मण्डलाग्रमिव तिर्य(1)दुत्थितम् ॥ 8.54 ॥
{1.उज्झितम्.}

अन्वयः

अपरा दिक् अस्तमितशेषं रक्तरेखं सान्ध्यम् आतपं सम्परायवसुधा तिर्यक् उत्थितं सशोणितं मण्डलाऽग्रम् इव बिभर्ति ।

मल्लिनाथः

सांध्यमिति । अपरा दिक्प्रतीची । अस्तमिति मकारान्तमव्ययम् । तस्येतशब्देन समासः । अस्तमितशेषमस्तंगतावशिष्टमत एव रक्ता लेखाकृतिर्यस्य तं संव्यायां भवं सांध्यमातपं संपरायवसुवा युद्धभूमिः । ‘समरे संपरायः स्यात्’ इति विश्वः । तिर्यगुत्थितं तिर्यक्फलितं सशीणितं मण्डलाग्रं कृपाणमिव बिभर्ति । ‘कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्’ इत्यमरः ॥ 8.54 ॥

विश्वास-प्रस्तुतिः

यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं (2)निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥ 8.55 ॥
{2.निरर्गलम्.}

मूलम्

यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं (2)निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥ 8.55 ॥
{2.निरर्गलम्.}

अन्वयः

हे दीर्घनयने ! यामिनोदिवससन्धिसंभवे तेजसि सुमेरुणा व्यवहिते सति एतत् अन्धतमसं दिक्षु निरङ्कुशं विजृम्भते ।

मल्लिनाथः

यामिनीति । यामिनीदिवसयोः संधिः संध्या तत्र संभवे तेजसि संध्यारागे सुमेरुणा व्यवहिते सति हे दीर्घनयने ! एतदन्धतमसम् । ‘अवसमन्धेभ्यस्तमसः’ इति समासान्तः । दिक्षु निरङ्कुशं विजृम्भते ॥ 8.55 ॥

विश्वास-प्रस्तुतिः

नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एष (1)तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि ॥ 8.56 ॥
{1.तिमिरौघ.}

मूलम्

नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एष (1)तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि ॥ 8.56 ॥
{1.तिमिरौघ.}

अन्वयः

ऊर्ध्वम् ईक्षणगतिः न, अधोऽपि न , अभितो न, पुरतो न, पृष्ठतश्च न (तथा सति) एष लोकः निशि तिमिरोल्बवेष्टितः (सन्) गर्भवासे इव वर्तते ।

मल्लिनाथः

नेति । ऊर्ध्वमुपरीक्षणगतिर्द्दष्टिप्रसारो नास्ति । अधोऽपि च न । अभितः पार्श्वयोश्च न । पुरतोऽग्रे च न । पृष्ठतः पश्चादपि न । ईक्षणगतिरिति सर्वत्र संबध्यते । तथाप्येष लोको निशि तिमिरमेवोल्वं जरायुः । ‘गर्भाशयो जरायुः स्यात्’ इत्यमरः तेन वेष्टितः आवृतः सन् । गर्भ एव वासो वसतिस्तत्र गर्भवासे वर्तते । इवेत्युत्प्रेक्षा ॥ 8.56 ॥

विश्वास-प्रस्तुतिः

शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां (2)हृतान्तरम् ॥ 8.57 ॥
{2.हतान्तरम्.}

मूलम्

शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां (2)हृतान्तरम् ॥ 8.57 ॥
{2.हतान्तरम्.}

अन्वयः

शुद्धम्, अविलम्, अवस्थितं, चलं, वक्रम् आर्जवगुणाऽन्वितं च यत्, (तत्) सर्वम् एव तमसा समीकृतम् । हताऽन्तरम् असतां महत्त्वं धिक् ।

मल्लिनाथः

शुद्धमिति । शुद्धं स्वच्छमाविलं मलिनमवस्थितं स्थावरं चलं जंगमं वक्रं कुटिलमृजोर्भाव आर्जव तदेव गुणस्तेनान्वितं च यद्वस्तुजातम् । तदिति यत्तदोर्नित्यसंबन्धाल्लभ्यते । तत्सर्वमेव तमसा समीकृतं । दुर्लक्ष्यविशेषं कृतम् । तथाहि । हतमन्तरं विशेषो येन तद्धतान्तरमसतामसाधूनां महत्त्वं वृद्धिं धिक् । धिक्शब्दयोगाद् द्वितीया । समत्वेन परगतिविशेषतिरस्करणमसतां स्वभाव इति सुप्रसिद्धम् । तमसोऽपि तथा महत्त्वं धिगित्यर्थः ॥ 8.57 ॥

नून(3) मुन्नमिति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
पुण्डरकीमुखि ! पूर्वदिङ्मुखं(4) कैतकैरिव रजोभिरावृतम्(5) ॥ 8.58 ॥
{3.उन्नयति.4.पश्य दिङ्मुखम्,दीङ्क्षखं यथा.5.आहतम्.}
अन्वय– हे पुण्डरीकमुखि ! यज्वनां पतिः शार्वरस्य तमसो निषिद्धये नूनम् उन्नमति । पूर्वदिङ्मुखं कैतकैः रजोभिः आवृतम् इव (दृश्यते) ।

मल्लिनाथः

नूनमिति । यज्वानो विधिनेष्टवन्तः । ‘यज्वा तु विधिनेष्टवान्’ इत्यमरः । ‘सुयजोङ्र्वनिप्’ इति ङ्वनिप्प्रत्ययः । तेषां पतिः चन्द्रः । दर्शपूर्णमासादियागप्रवृत्तिहेतुत्वादिति भावः । शार्वरस्य शर्वयां भवस्य तमसो निषिद्धये निरासाय नूनमुन्नमत्युदेति । कुतः । हे पुण्डरीकमुखि ! पूर्वस्या दिशो मुखं पुरोभागः पूर्वदिङ्मुखं केतक्या इमानि कैतकानि तै रजोभिः परागैरावृतमिव । दृश्यत इति शेषः । अतो नूनमुदेति चन्द्र इति संबन्धः ॥ 8.58 ॥

विश्वास-प्रस्तुतिः

मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
त्वं मया प्रियसखोसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥ 8.59 ॥

मूलम्

मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
त्वं मया प्रियसखोसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥ 8.59 ॥

अन्वयः

सतारका निशा मन्दराऽन्तरितमूर्तिना शशभृता पृष्ठतः वचनानि श्रोष्यता मया प्रियसखीसमागता त्वम् इव लक्ष्यते ।

मल्लिनाथः

मन्दरेति । सतारका निशा मन्दरान्तरितमूर्तिना मन्दराद्रिव्यवहितमण्डलेन शशभृत चन्द्रेण पृष्ठतः पश्चाद्भागे वचनानि श्रोष्यता श्रोतुं स्थितेनेत्यर्थः । मया प्रिय सखीसमागता प्रियसखीभिरावृता त्वमिव लक्ष्यते ॥ 8.59 ॥

विश्वास-प्रस्तुतिः

रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतदुद्गिरति (1)चन्द्रमण्डलं दिग्रहस्यमिव (2)रात्रिचोदितम् ॥ 8.60 ॥
{1.चन्द्रमण्डलम्.2.रात्रिचोदितं.}

मूलम्

रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतदुद्गिरति (1)चन्द्रमण्डलं दिग्रहस्यमिव (2)रात्रिचोदितम् ॥ 8.60 ॥
{1.चन्द्रमण्डलम्.2.रात्रिचोदितं.}

अन्वयः

आ दिनक्षयात्रूद्ध निर्गमनं पूर्वदृष्टतनु एतत् चन्द्रमण्डलं रात्रिचोदितं चन्द्रिकास्मितं दिग्रहस्यम् उद्गिरति इव ।

मल्लिनाथः

रुद्धेति । दिक्पर्वदिक् । नायिका ध्वन्यते । आ दिनक्षयादा सायं रुद्धं निर्गमनं निःसरणं यस्य तत्तथोक्तम् । अन्यत्र बहिरप्रकाशितमित्यर्थः । तनुचन्द्रिकास्मितमिव तनुचन्द्रिकास्मितं पूर्वदृष्टं यस्मात्तत्तथोक्तम् । एतच्चन्द्रमण्डलं नर्मरहस्यं गोप्यार्थमिव रात्रिचोदिता । रात्र्या सख्येव प्रेरिता सतीत्यर्थः उद्गिरति प्रकाशयति । यथा काचिदासायं मनस्विनी गूहितमभिलाषं प्रदोषे सख्या मह्यं ब्रूहीति निर्बन्धात्पृष्टा सती प्रकटयति तद्वदित्यर्थः ॥ 8.60 ॥

विश्वास-प्रस्तुतिः

पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
(1)विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ 8.61 ॥
{1.विप्रकृष्टविधुरम्,विप्रकृष्टविरहम्;विप्रकृत्तविवरम्.}

मूलम्

पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
(1)विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ 8.61 ॥
{1.विप्रकृष्टविधुरम्,विप्रकृष्टविरहम्;विप्रकृत्तविवरम्.}

अन्वयः

पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा हिमांऽशुना विप्रकृष्टविवरं चक्रवाकमिथुनं विडम्ब्यते, पश्य ।

मल्लिनाथः

पश्येति । पक्वफलिनीफलत्विषोदयरागाद्विम्बाभ्यां प्रतिबिम्बाभ्यां लाञ्छिते चिह्निते वियत्सरोम्भश्च येन तथोक्तेन हिमांशुना विप्रकृष्टं विवरमन्तरालं यस्य तत्तथोक्तम् । अतिदूरस्थमित्यर्थः । चक्रवाकमिथुनं विडम्ब्यतेऽनुक्रियते पश्य । रात्रौ वियति सरोजले चेन्दोर्बिम्बप्रतिबिम्बौ विरहाद् दूरवर्तिनौ चक्रवाकाविव दृश्येते इत्यर्थः ॥ 8.61 ॥

विश्वास-प्रस्तुतिः

(2)शक्यमीषधिपतेर्नवोदया(3) कर्णपूररचनाकृते (4)तव ।
अप्रगल्भयवसूचि(5) कोमलाश्छेत्तुमग्रनखसंपुटैः कराः(6) ॥ 8.62 ॥
{2.शक्यः.3.नवोदयः.4.नवाः.5.कोमलः.6.करः.}

मूलम्

(2)शक्यमीषधिपतेर्नवोदया(3) कर्णपूररचनाकृते (4)तव ।
अप्रगल्भयवसूचि(5) कोमलाश्छेत्तुमग्रनखसंपुटैः कराः(6) ॥ 8.62 ॥
{2.शक्यः.3.नवोदयः.4.नवाः.5.कोमलः.6.करः.}

अन्वयः

(हे पार्वति !) अवोदयाः अप्रगल्भयवसूचिकोमलाः ओषधिपतेः कराः तव कर्णपूररचनाकृते अग्रनखसम्पुटैः छेत्तुं शक्यम् ।

मल्लिनाथः

शक्यमिति । नवोदयाः सद्य उत्पादिता अप्रगल्भयवसूचिकोमला अकठोरयवाङ्करसुकुमारा ओषदिपतेरिन्दोः करास्तव कर्णपूररचनाकृते कर्णावतंसनिर्माणक्रियायां । संपदादित्वाद्भावे क्विप् । अग्रनखसंपुटैर्नखाग्रसंभेदैश्छेत्तुं शक्यम् । शक्या इत्यर्थः । ‘शकिसहोश्च’ । इति कर्मणि यत्प्रत्ययः । शक्यमिति विपरीतलिङ्गवचनस्यापि सामान्योपक्रमात्कर्माभिधायकत्वम् । पश्चात्कर्मविशेषाकाङ्क्षायां करा इति निर्देशो न विरुध्यते । यथाह वामनः- ‘शक्यमिति रूपं लिङ्गवचनस्यापि सामान्योपक्रमत्वादिति । अत्र प्रमाणम्-शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुमिति भाष्यकारप्रयोगः, इति ॥ 8.62 ॥

विश्वास-प्रस्तुतिः

अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ 8.63 ॥

मूलम्

अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ 8.63 ॥

अन्वयः

शशी अङ्गुलीभिः केशसञ्चयम् इव मरीचिभिः तिमिरं संनिगृह्य कुङ्मलीकृतसरोजलोचनं रजनीमुखं चुम्बति इव ।

मल्लिनाथः

अङ्गुलीभिरिति । शशी चन्द्रमाः । नायकस्तु प्रतीयते । अङ्गुलीभिः केशसंचयमिव मरीचिभिस्तिमिरं संनिगृह्य गृहीत्वा । सरोजेलोचने इवेत्युपमितिसमासोऽङ्गुलीभिरिवेत्युपमायास्तत्साधकत्वात् । कुङ्मलीकृते सरोजलोचने यस्य तत्तथोक्तं रजन्या मुखं प्रारम्भः वदनं चेति गम्यते । चुम्बतीव । अत्र समासोक्त्या उत्प्रेक्षासङ्करायते ॥ 8.63 ॥

विश्वास-प्रस्तुतिः

पश्य पार्वति नवेन्दुरश्मिभि (1)सामिभिन्नतिमिरं नभस्तलम् ।
लक्ष्यते द्विरदभोगदूषितं (2)संप्रसीददिव मानसं सरः ॥ 8.64 ॥
{1.भग्नसान्द्र,सामिभिन्न,संविभिन्न.2.सप्रसादमिव.}

मूलम्

पश्य पार्वति नवेन्दुरश्मिभि (1)सामिभिन्नतिमिरं नभस्तलम् ।
लक्ष्यते द्विरदभोगदूषितं (2)संप्रसीददिव मानसं सरः ॥ 8.64 ॥
{1.भग्नसान्द्र,सामिभिन्न,संविभिन्न.2.सप्रसादमिव.}

अन्वयः

हे पार्वति ! नवेन्दुरश्मिभिः भिन्नसान्द्रतिमिरं नमस्तलं द्विरदभोग दूषितं सप्रसादं मानसं सर इव लक्ष्यते । पश्य ।

मल्लिनाथः

पश्येति । हे पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिभिरमर्धनिरस्तध्वान्तं नभस्तलं द्विरदभोगदूषितं गजक्रीडाकलुषितं संप्रसीदत्प्रसादं गच्छन्मानसं मानसाख्यं सर इव लक्ष्यते पश्य ॥ 8.64 ॥

विश्वास-प्रस्तुतिः

रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ 8.65 ॥

मूलम्

रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ 8.65 ॥

अन्वयः

एष चन्द्रमा रक्तभावम् अपहाय परिशुद्धमण्डलो जातः । निर्मलप्रकृतिषु कालदोषजा विक्रिया स्थिरोदया न खलु ।

मल्लिनाथः

रक्तभावमिति । एष चन्द्रमा रक्तभावं रक्तत्वमुदयरागमपहाय परिशुद्धमण्डलः शुद्धबिम्बो निष्कण्टको जातः । तथाहि । निर्मलप्रकृतिषु स्वच्छभावेषु शुद्धसचिवसंपन्नेषु च कालदोषेण जाता कालदोषजा विक्रिया विकारः स्थिरोदया स्थायिनी न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति । यथा कश्चिद्राजा कुतश्चिन्निमित्ताद्विरक्तमण्डलः पश्चात्प्रतिकृतशुद्ध्या स्वस्थमण्डलो भवति तद्वदिति भावः । तत्र प्रथमार्थे समासोक्तिरलङ्कारस्तस्यार्थान्तरन्यासेनाङ्गाङ्गिभावेन सङ्करः ॥ 8.65 ॥

उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसा हि (1)गुणदोषयोर्गतिः ॥ 8.66 ॥
{1.इह एवः.}
अन्वय– शशिनः प्रभा उन्नतेषु स्थिता । निशातमः निम्नसंश्रयपरम् । वेधसा गुणदोषयोः आत्मसदृशी गतिः प्रकल्पिता हि एव ननु ।

मल्लिनाथः

उन्नतेष्विति । शशिनः प्रभा चन्द्रिकोन्नतेष्वद्रिशृङ्गादिषु स्थिता । निशातमस्तु निम्नसंश्रयपरं गर्तादिनीचस्थानप्रवणम् । तथाहि । वेधसा गुणदोषयोरात्मसदृशी स्वभावानुरुपा गतिः प्रवृत्तिः प्रकल्पितैव ननु । तेजस्विन उन्नमन्ति मलिनास्तु नीचन्तीति भावः ॥ 8.66 ॥

विश्वास-प्रस्तुतिः

चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलविन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून्वोधयत्यसमये शिखण्डिनः ॥ 8.67 ॥

मूलम्

चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलविन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून्वोधयत्यसमये शिखण्डिनः ॥ 8.67 ॥

अन्वयः

गिरिः चन्द्रपादजनितप्रवृत्तिभिः चन्द्रकान्तजलबिन्दुभिः मेखलातरुषु निद्रितान् अमून् शिखण्डिनः असयये बोधयति ।

मल्लिनाथः

चन्द्रपादेति । गिरिर्हिमाद्रिश्चन्द्रपादैरिन्दुकिरणैर्जनितप्रसरैश्चद्रकान्तमणीनां जलबिन्दुभिः करणैर्मेखलातरुषु निद्रितान्संजातनिद्रान् । तारकादित्वादितच् । अमूञ्शिखण्डिनो मयूरानसमयेऽकाले बोधयति । इन्दुकिरणसंपर्कादुपरिचन्द्रमणस्पन्देष्वधोवृक्षेशयाः शिखण्डिनो वृष्टिभयाज्जाग्रतीत्यर्थः । शिखण्डिग्रहणमितरशकुन्तानां कुलालनिलयत्वादिति भावः ॥ 8.67 ॥

विश्वास-प्रस्तुतिः

कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव(1) पश्य सुन्दरि !
हारयष्टि(2) रशनाभिबांशुभिः कर्तुमागतकुतूहलः शशी ॥ 8.68 ॥
{1.अविकल्पसुन्दरि,इव शंभुसुन्दरि.2.गणनाम्.}

मूलम्

कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव(1) पश्य सुन्दरि !
हारयष्टि(2) रशनाभिबांशुभिः कर्तुमागतकुतूहलः शशी ॥ 8.68 ॥
{1.अविकल्पसुन्दरि,इव शंभुसुन्दरि.2.गणनाम्.}

अन्वयः

हे सुन्दरि ! शशी सम्प्रति कल्पवृक्षशिखरेषु प्रस्फुरद्भिः अंशुभिः हारयष्टिरचनां कर्तुम् उद्यतकुतूहल इव, पश्य ।

मल्लिनाथः

कंल्पवृक्षेति । हे अविकल्पेनाविवादेन सुन्दरि अविवल्पसुन्दरि ! शशी संप्रति कल्पवृक्षाणां शिखरेष्वग्रेषुप्रस्फुरद्भिरंशुभिः । करस्थानीयैरिति भावः । हारयष्टिरशनां कल्पतरुलम्बिहारपरिगणनां कर्तुमुद्यतकुतूहल इवोत्पन्नकौतुकः किम् । इत्युत्प्रेक्षा ॥ 8.68 ॥

विश्वास-प्रस्तुतिः

उन्नतावनत(3) भाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः ॥ 8.69 ॥
{3.उद्यत,भगवत्तया.}

मूलम्

उन्नतावनत(3) भाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः ॥ 8.69 ॥
{3.उद्यत,भगवत्तया.}

अन्वयः

गिरेः उन्नताऽवनतभाववत्तया सतिमिरा इयं चन्द्रिका बहुविधाभिः भक्तिभिः अर्पिता मत्तहस्तिनः भूतिः इव भाति ।

मल्लिनाथः

उन्नतेति । गिरेरुन्नतावनतभाववत्तया निम्नोन्नतपदेशवत्वेन हेतुना सतिमिरा तिमिरमिश्रा । समोन्नतेषु तमसोऽनवकाशादिति भावः । इयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता विन्यस्ता मत्तदन्तिनो भूतिर्भसितमिवाभाति । ‘भूतिर्मातङ्गश्रृङ्गारे’ इति विश्वः । तत्र भक्तिसहितानि गजाङ्गान्येव तिमिरभागोपभेत्यनुसंधेयम् ॥ 8.69 ॥

विश्वास-प्रस्तुतिः

एतदु (1)च्छ्वसितपीतमैन्दवं वोढु(2) मक्षयमिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमानिबन्धनात् ॥ 8.70 ॥
{1.उच्छ्वसितपीतम्.2.वोढुम.}

मूलम्

एतदु (1)च्छ्वसितपीतमैन्दवं वोढु(2) मक्षयमिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमानिबन्धनात् ॥ 8.70 ॥
{1.उच्छ्वसितपीतम्.2.वोढुम.}

अन्वयः

एतत् कुमुदम् उच्छ्वसितपीतम् ऐन्दवं प्रभारसं सोढुम् अक्षमम् इव अञ्जसा मुक्तषट्पदविरावम् आनिबन्धनात् भिद्यते ।

मल्लिनाथः

एतदिति । एतत्कुमुदं कैरवं कर्तृ उच्छ्वसितेन पीतमुच्छ्वसितपीतम् । अतितृष्णयोच्छ्वस्योच्छ्वस्य पीतमित्यर्थः । इन्दोरिदमैन्दवं प्रभा चन्द्रिका सैव रसो द्रवस्तं सोढुमक्षममिवाञ्जसा मुक्तषट्पदविरावं प्रवर्तितभृङ्गनादं यथा तथा निबन्धनादा वृन्ताद्भिद्यते विकसति । कर्मकर्तरि लट् । यथा लोके कस्यचिदतिपानान्निःसहात्मन उच्चैः क्रोशत उदरं भिद्यते तथैतदिति भावः ॥ 8.70 ॥

विश्वास-प्रस्तुतिः

पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरुपसंशयम् ।
मारुते चलति (3)चण्डिके ! बलं व्यज्यते विपरिवृत्तमंशुकम् ॥ 8.71 ॥
{3.चण्डिकेचलम्;चण्डि केवलम्.}

मूलम्

पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरुपसंशयम् ।
मारुते चलति (3)चण्डिके ! बलं व्यज्यते विपरिवृत्तमंशुकम् ॥ 8.71 ॥
{3.चण्डिकेचलम्;चण्डि केवलम्.}

अन्वयः

हे चण्डिके ! कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरुपसंशयम् अंशुकं केवलं मारुते चलति विपरिवृत्तं व्यज्यते ।

मल्लिनाथः

पश्येति । शुद्धया ज्योत्स्नया जनितो रुपसंशयः अंशुकं ज्योत्स्नावेति स्वरुपसंदेहो यस्य तत्तथोक्तं कल्पतरुलम्ब्यंशुकं । हे चण्डि अत्यन्तकोपने ! गौरादित्वान्ङीष् । देवलं मारुते चलति सति विपरिवृत्तं चलं सद् व्यज्यते पश्य । ज्योत्स्नासच्छायत्वान्न रुपतो विविच्यते परंतु क्रिययेत्यर्थः ॥ 8.71 ॥

विश्वास-प्रस्तुतिः

शक्यमङ्गुलिभिरु(4)त्थितैरधः शाखिनां पतितपुष्पेशलैः(5) ।
पत्त्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवा(6)लकान् ॥ 8.72 ॥
{4.उद्धतैः.5.कोमलैः.6.अलकम्;अलकः.}

मूलम्

शक्यमङ्गुलिभिरु(4)त्थितैरधः शाखिनां पतितपुष्पेशलैः(5) ।
पत्त्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवा(6)लकान् ॥ 8.72 ॥
{4.उद्धतैः.5.कोमलैः.6.अलकम्;अलकः.}

अन्वयः

अङ्गुलिभिः उत्थितैः शाखिनाम् अधः पतित पुष्पपेशलैः एभिः पत्त्रजर्जरशशिप्रभालवैः तव अलकान् उत्कचयितुं शक्यम् ।

मल्लिनाथः

शक्यमिति । अङ्गुलिभिद्‌र्धृतैरुत्थितैः शाखिनामधः पतितपुष्पवत्पेशलैः कोमलैः । तथा भ्रमकरैरित्यर्थः । एभिः पत्त्रैर्जर्जरा शकरिता शशिप्रभा चन्दिका तस्या लवैः खण्डैः । तरुतलेषु पत्त्रान्तराललक्ष्यज्योत्स्नामण्डलैरित्यर्थः । तवालकानुत्कचयितुं बद्‌धुम् । ‘कच दीप्तिबन्धनयोः’ इति धातोस्तुमुन्प्रत्ययः । शक्यम् शक्या इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम् ॥ 8.72 ॥

विश्वास-प्रस्तुतिः

एष (1)चारुमुखि ! (2)योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ 8.73 ॥
{1.चन्द्रमुखि.2.पश्य तारया,योग्यतारया.}

मूलम्

एष (1)चारुमुखि ! (2)योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ 8.73 ॥
{1.चन्द्रमुखि.2.पश्य तारया,योग्यतारया.}

अन्वयः

हे चारुमुखि ! एष शशी तरलबिम्बया योगतारया साध्वसात् उपगतप्रकम्पया नवदीक्षया कन्यया वर इव युज्यते ।

मल्लिनाथः

एष इति । हे चारुमुखि = हे उज्जवलानने ! ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्’ इति ङीष् । एष शशी, तरलबिम्बया = स्फुरन्मण्डलया योगतारया । प्रत्यहं यया युज्यते सा योगतारा । नित्यनक्षत्रेणेत्यर्थः । साध्वसान्नवसंगमभयादुपगतप्रकम्पया = वेपथुमत्या, नवदीक्षया = नवोद्वाहया कन्यया वरो वोढेव युज्यते संगच्छते । युजेर्दैवादिकत्वात्कर्तरि लट् ॥ 8.73 ॥

विश्वास-प्रस्तुतिः

पाकभिन्न (3)शरकाण्डगौरयोरुल्लसप्त्र(4) कृतिजप्रसादयोः ।
रोहतीव तव गण्डलेखयोश्चन्द्रबिन्बनिहिताक्षि ! चन्द्रिका ॥ 8.74 ॥
{3.पाण्डु.4.प्रतिकृतिप्रसन्नयोः,प्रतिकृतिः प्रदीप्तयोः.}

मूलम्

पाकभिन्न (3)शरकाण्डगौरयोरुल्लसप्त्र(4) कृतिजप्रसादयोः ।
रोहतीव तव गण्डलेखयोश्चन्द्रबिन्बनिहिताक्षि ! चन्द्रिका ॥ 8.74 ॥
{3.पाण्डु.4.प्रतिकृतिप्रसन्नयोः,प्रतिकृतिः प्रदीप्तयोः.}

अन्वयः

हे चन्द्रबिन्बनिहिताक्षि ! पाकभिन्नशरकाण्डगौरयोः उल्लसप्त्रकृतिजप्रसादयोः तव गण्डलेखयोः चन्द्रिका उपरि रोहति इव ।

मल्लिनाथः

पाकेति । हे चन्द्रबिम्बनिहिताक्षि हे चन्द्रविनिहितेक्षणे । पाकभिन्नः पाकविकसितो यः शरकाण्डस्तद्वद्गौरयोः सितयोः । ‘अवदातः सितौ गौरः’ इत्यमरः । उल्लसन् प्रकृतिकजः प्रसादः स्वभावजः प्रसादः (प्रसन्नता) ययोरतयोः सपदि रोहतीव आरोहणं करोतीबेत्युत्प्रेक्षा । प्रोज्जवलायोस्तव गण्डलेखयोश्चन्द्रिका रोहतीव । गण्जस्थलप्रतिबिम्बसंक्रमणमूर्छिता चन्द्रिका तयोरेव प्ररुढेति प्रतीयत इत्यर्थः ॥ 8.74 ॥

विश्वास-प्रस्तुतिः

अत्रान्तरे कांचिदवलोक्याह-
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।
त्वामियं स्थितिमतीमु(1) पागता गन्धमादनवनाधिदेवता ॥ 8.75 ॥
{1.उपस्थिताः;समागताः.}

मूलम्

अत्रान्तरे कांचिदवलोक्याह-
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।
त्वामियं स्थितिमतीमु(1) पागता गन्धमादनवनाधिदेवता ॥ 8.75 ॥
{1.उपस्थिताः;समागताः.}

अन्वयः

लोहिताऽर्कमणिभाजनाऽर्पितं कल्पवृक्षमधु स्वयं बिभ्रती इमं गन्धमादनवनाऽधिदेवता स्थितिमतीं त्वां स्वयम् उपागता ।

मल्लिनाथः

लोहितेति । लोहितेऽरुणेऽर्कमणिभाजने सूर्यकान्तपात्रेऽर्पितं कल्पवृक्षमधु = कल्पतरुप्रसूतं सद्यं, स्वयं बिभ्रती गन्धमादनवनाधिदेवता स्थितिमतीमवस्थानवतीम् । इह स्ववने तिष्ठन्तीमित्यर्थः । त्वामियं प्रत्यक्षोपस्तिता प्राप्ता । स्वगृहागतां त्वां सम्भावयितुमागतेत्यर्थः ॥ 8.75 ॥

विश्वास-प्रस्तुतिः

आर्द्रकेसरसुगन्धि ते मुखं (2)मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं(3) विलासिनि (4)मधु करिष्यति ॥ 8.76 ॥
{2.प्रान्तरक्त,मनमेव.3.कम्.4.मधु.}

मूलम्

आर्द्रकेसरसुगन्धि ते मुखं (2)मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं(3) विलासिनि (4)मधु करिष्यति ॥ 8.76 ॥
{2.प्रान्तरक्त,मनमेव.3.कम्.4.मधु.}

अन्वयः

हे विलासिनि ! अत्र लब्धवसतिः मधुः किं गुणान्तरं करिष्यति ? (यतः)इदं ते स्वभावत आर्द्रकेसरसुगन्धि मुखं मत्तरक्तनयनम् ॥ 8.76 ॥

मल्लिनाथः

आर्द्रेति । हे विलासिनि ! अत्र लब्धवसतिः मधु इदं ते स्वभावत आर्द्रकेसरसुगन्धि सरसकेसरसुगन्धि । ‘गन्धस्येदुत्पूतिससुरभिभ्यः’ इत्यनेनकारः । मुखम् । मत्तं रक्तमेव नयनं यस्य तत् । किं गुणान्तरं गुणविशेषं करिष्यति । न कंचिदित्यर्थः । केसरसौगन्ध्यादिगुणानां त्वन्मुखे स्वभावसिद्धत्वान्मधुनः फलं न पश्यामीत्यर्थः । ‘अर्धर्चाः पुंसि च’ इति पुंलिङ्गत्वम् । यदाहुः- ‘मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥’ इति ॥ 8.76 ॥

विश्वास-प्रस्तुतिः

मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् ।
इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ॥ 8.77 ॥

मूलम्

मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् ।
इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ॥ 8.77 ॥

अन्वयः

“(हे पार्वति !) अथवा सखीजनो मान्यभक्तिः, (अतः) अनङ्गदीपनम् इदं सेव्यताम्” इति उदारम् अभिधाय शङ्करः ताम् अम्बिकां पानम् अपायमत ।

मल्लिनाथः

मान्यभक्तिरिति । अथवा सखीजनो मान्या भक्तिर्यस्य स तथोक्तः । सखीजनः स्वीकार्य इत्यर्थः । ततोऽनङ्गदीपनमिदं वक्ष्यमाणं पानं संव्यतामित्युदारं चतुरमभिधाय शंकरस्तामबिकां पीयत इति पानं मद्यमपाययत पाययामास । पिवतेर्ण्यन्ताल्लुङि तङ् । पिबतः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम् । पिबतेर्निगरणार्थत्वेऽपि ‘नपादभ्याo" इति परस्मैपदप्रतिषेधः । ननु मान्यभक्तिरित्यत्र कथं पुंवद्भावः । “अप्रियादिषु” इति निषेधाद्भक्तिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः- ‘दृढभक्तिरत्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम्’ इति । भोजराजस्तु- ‘भज्यत इति कर्मसाधनस्यैव प्रियादिपाठतया दृढभक्तिरिति न तु भजनं भक्तिरिति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषः’ इत्याह ॥ 8.77 ॥

विश्वास-प्रस्तुतिः

पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥ 8.78 ॥

मूलम्

पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥ 8.78 ॥

अन्वयः

पार्वती तदुपयोगसंभवां विक्रियाम् अपि सतां मनोहराम् आम्रताम् अप्रतर्क्यविधियोगनिर्मितां सहकारताम् इव ययौ ।

मल्लिनाथः

पार्वतीति । पार्वती = कर्त्री । तदुपयोगसंभवां मद्यपानजन्यां विक्रियामिपि सतां मनोहराम् आभ्रताम्रत्वमप्रतर्क्यो दुर्ज्ञेयो यो विधियोगोऽनुष्ठानयोगस्तेन निर्मितां सहकारतामतिसौरभत्वमिव ययौ = प्रापेत्यर्थः । ‘आम्रश्चूतो रसालोसौ सहकारोऽतिसौरभः’ इत्यमरः । आम्रमेवाऽनुष्ठानविशेषेण यथा सहकारो भवति तद्वद्विक्रियाऽपि मनोहराऽभूदिति भावः ॥ 8.78 ॥

विश्वास-प्रस्तुतिः

(1)तत्क्षणं (2)विपरिवर्तितह्रियोर्नेष्यतोः(3) शयनमिद्धरागयोः ।
सा बभूव (4)वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥ 8.79 ॥
{1.तत्क्षणे.2.विपरिवृत्तलज्जयोः.3.वाञ्छतोः.4.वशवर्तिक.}

मूलम्

(1)तत्क्षणं (2)विपरिवर्तितह्रियोर्नेष्यतोः(3) शयनमिद्धरागयोः ।
सा बभूव (4)वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥ 8.79 ॥
{1.तत्क्षणे.2.विपरिवृत्तलज्जयोः.3.वाञ्छतोः.4.वशवर्तिक.}

अन्वयः

सुवदना तत्क्षणं विपरिवर्तितह्रियोः शयनं नेष्यतोः इद्धरागयोः शूलिनो मदस्य च वशवर्तिनी बभूव ।

मल्लिनाथः

तदिति । सुवदना = पार्वती, तत्क्षणं = तथैव विपरिवर्तितह्नियोर्निवर्तितलज्जयोः, शयनं = तत्पं, नेऽयतोः = प्रापयिष्यतोरित्थं प्रवृद्धोरागोऽनुराग आरुण्यं च ययोरिद्धरागयोः शूलिनः प्रियतमस्य मदस्य चेति द्वयोर्वशे वर्तते इति वशवर्तिन्यधोना बभूव ॥ 8.79 ॥

विश्वास-प्रस्तुतिः

मदपारवश्यं तावदाह-
घूर्णमाननयनं (5)स्खलत्कथं स्वेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ 8.80 ॥
{5.स्खलद्वच;स्खलत्कचम्.}

मूलम्

मदपारवश्यं तावदाह-
घूर्णमाननयनं (5)स्खलत्कथं स्वेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ 8.80 ॥
{5.स्खलद्वच;स्खलत्कचम्.}

अन्वयः

ईश्वरो घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दुमत् अकारणस्मितम् उमामुखं तावत् आननेन न पपौ चक्षुषा चिरं पपौ ।

मल्लिनाथः

घूर्णमानेति । ईश्वरो घूर्णमाननयनं भ्राम्यन्नेत्रं स्खलत् कथं स्खलद्वचनं स्वेदबिन्दुमत्स्वेदयुक्तमकारणस्मितमाकस्मिकहासयुक्तमुमामुखं तावत् । आतृष्णापगममित्यर्थः । आननेन मुखेन न पपौ । न चुचुम्बेत्यर्थः । किंतु चिरं चक्षुषा पपौ । तृष्णयाद्राक्षादित्यर्थः । तस्या मदपारवश्यं दृष्ट्वा मुदं तावदन्वभूदित्यर्थः ॥ 8.80 ॥

विश्वास-प्रस्तुतिः

संप्रति प्रियवशंवदत्वमाह-
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् ।
ध्यान संभृतविभूतिरीश्वरः प्राविशन्मणिशिलागूहं रहः ॥ 8.81 ॥

मूलम्

संप्रति प्रियवशंवदत्वमाह-
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् ।
ध्यान संभृतविभूतिरीश्वरः प्राविशन्मणिशिलागूहं रहः ॥ 8.81 ॥

अन्वयः

हरः विलम्बितपनीयमेखलां जघनभारदुर्वहां ताम् उद्वहन् ध्यानसंभूतविभूतिः रंहः मणिशिलागृहं प्राविशत् ।

मल्लिनाथः

तामिति । हरो विलम्बितपनीयमेखलां विस्त्रंसिहेमरसनां जधनभारेण दुर्वहां तां पार्वतीमुद्वहन्ध्यानसंभृतया संकल्पमात्रसिद्ध्या विभूत्या भोगसाधनेन संभृतं = संपूर्णं मणिशिलागृहं प्राविशत् । रिरंसुरिति भावः ॥ 8.81 ॥

विश्वास-प्रस्तुतिः

तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥ 8.82 ॥

मूलम्

तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥ 8.82 ॥

अन्वयः

रोहिणीपतिः शारदाऽभ्रम् इव तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनं शयनं प्रियासखः सन् अध्यशेत ।

मल्लिनाथः

तत्रेति । तत्र मणिभवने हंसवद्धवल उत्तरच्छदः प्रच्छदपटी यस्य तत्तथोक्तं जाह्नवीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहिणीपतिश्चन्द्रः, शरदि भवं शारदमभ्रं मेघमिव । शरद्ग्रहणं धावल्यार्थम् । प्रियसखः सन् । प्रियया सहेत्यर्थः । अध्यशेत शयितवान् । “अधिशीङ्स्थासां कर्म” इति कर्मत्वम् । रोहिणीग्रहणसामर्थ्यादिन्दोरप्यभ्रारोहणे रोहिणीसाहित्यमनुसंधेयम् ॥ 8.82 ॥

विश्वास-प्रस्तुतिः

क्लिष्टकेशमबलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ॥ 8.83 ॥

मूलम्

क्लिष्टकेशमबलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ॥ 8.83 ॥

अन्वयः

अदयैः कचगृहैः क्लिष्टचन्द्रम् उत्पथाऽर्पितनखं समत्सरं छिदुरमेखलागुणं तत् पार्वतीरतं तस्म तृप्तये न अभूत् ।

मल्लिनाथः

क्लिष्टेति । अदयैर्निदैयैः कचग्रहैः = केशकर्षणैः क्लिष्टचन्द्रं पीडितहरचन्द्रमुत्पथमुन्मर्यादमर्पिता नखा यस्मिंस्तत्समत्सरमन्योन्यविजिगीषापूर्वकं छिदुराः स्वयमेव छिद्यमाना मेखलागुणा यस्मिंस्तत्तथोक्तम् । “विदिभिदिछिदेः कुरच्” इति कुरच्प्रत्ययः । ‘कर्मकर्तरि’ इति काशिका । पार्वतीरतं तस्येश्वरस्य तृप्तये नाभूदिति भावः ॥ 8.83 ॥

विश्वास-प्रस्तुतिः

केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्किषु ।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ 8.84 ॥

मूलम्

केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्किषु ।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ 8.84 ॥

अन्वयः

प्रियतमादयालुना केवलं तत्प्रतिगृहीतवक्षसा तेन ज्योतिषां पङ्क्तिषु अवनतासु (सतीषु) नेवमीलमकुतूहलं कृतम् ।

मल्लिनाथः

केवलमिति । प्रियतमादयालुना केवलम् । प्रियतमायां दययैव तस्येश्वरस्य सौकुमार्यादनवरतं सुरतासहिष्णुत्वात् । नतु स्वयं तृप्त्येत्यर्थः । तत्परिगृहीतवक्षमा तया पार्वत्याश्लिष्टवक्षसा तेनेश्वरेण ज्योतिषां = नक्षत्राणां पङ्क्तिष्ववनतासु सतीषु । पश्चिमायामित्यर्थः । नेत्रमीलनकुतूहलं कृतम् । निद्रा स्वीकृतेत्यर्थः ॥ 8.84 ॥

विश्वास-प्रस्तुतिः

स व्यबुध्यत बुधस्तवोचितः शातकुम्भकम्लाकरैः समम् ।
मूर्च्छनापरिगृहीतकैशिकैः किनरैरुषसि गीतमङ्गलः ॥ 8.85 ॥

मूलम्

स व्यबुध्यत बुधस्तवोचितः शातकुम्भकम्लाकरैः समम् ।
मूर्च्छनापरिगृहीतकैशिकैः किनरैरुषसि गीतमङ्गलः ॥ 8.85 ॥

अन्वयः

बुधस्तवोचितः स उषसि मूर्च्छनापरिगृहीतकैशिकैः किन्नरैः गीतमङ्गलः (सन्) शातकुम्भकमलाकरैः समं व्यबुध्यत ।

मल्लिनाथः

स इति । बुधस्तवोचितो विद्वत्स्तोत्रार्हः स हर उषसि प्रभाते । स्वराणामारोहक्रमो मूर्च्छना । ‘क्रमयुक्ताः स्वरास्तत्र मूर्च्छना परिकूर्तिता’ इति भरतः । तया मूर्च्छनया परिगृहीतकैशिकैः स्वीकृतरागविशेषैः किंनरैर्गीतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपद्माकरैः सह । ‘तपनीयं शातकुम्भं गाङ्गेयं भर्म कबुर्रम्’ इत्यमरः । व्यबुध्यत विबुद्धवान् । बुध्यतेर्दैवादिकात्कर्तरि लङ् । अत्र बुध्यतेर्जागरविकासयोर्वोधयोः श्लेपनिमित्तकाभेदाध्यवसायमूला सहोक्तिरलंकारः ॥ 8.85 ॥

विश्वास-प्रस्तुतिः

तौ क्षणं शिथिलितोपगूहनौ र्दपती चलितमानसोर्मयः ।
पद्मभेदपिशुनाः सिषेबिरे गन्धमादनबनान्तमारुताः ॥ 8.86 ॥

मूलम्

तौ क्षणं शिथिलितोपगूहनौ र्दपती चलितमानसोर्मयः ।
पद्मभेदपिशुनाः सिषेबिरे गन्धमादनबनान्तमारुताः ॥ 8.86 ॥

अन्वयः

शिथिलितोपगूहनौ दम्पती तौ रचितमानसोर्मयः पद्मबोधनिपुणाः गन्धमादनवनाऽन्तमारुताः क्षणं सिषेविरे ।

मल्लिनाथः

ताविति । शिथिलितोपगूहनौ शिथिलितालिङ्गनौ । जाया च पतिश्चदंपती । जायाशब्दस्य दंभावो निपातितः तौ शिवौ रचितमानसोर्मयः । मानसे सरसि रचिततरङ्गा इत्यर्थः । पद्मभेदनिपुणाः । पद्मभेदपिशुना इति यावत् । विकाससूचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविरे ॥ 8.86 ॥

विश्वास-प्रस्तुतिः

ऊरुमूलनखमार्ग(1) राजिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस्य (2)संयमं कुर्वतीं प्रियतमामवारयत् ॥ 8.87 ॥
{1.पङ्क्तिभिः.2.संचयम्.}

मूलम्

ऊरुमूलनखमार्ग(1) राजिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस्य (2)संयमं कुर्वतीं प्रियतमामवारयत् ॥ 8.87 ॥
{1.पङ्क्तिभिः.2.संचयम्.}

अन्वयः

तत्क्षणम् ऊरुमूलनखमार्गराजिभिः हृतविलोचनः हरः प्रशिथिलस्य वाससः संयमं कुर्वतीं प्रियतमाम् अवारयत् ।

मल्लिनाथः

ऊर्विति । तत्क्षणं मारुतवीजनसमय ऊरुमूले नखमार्गराजिभिर्नखपदपङ्क्तिभिः । मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचन आकृष्टदृष्टिर्हरः प्रशिथिलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमामवारयत् ॥ 8.87 ॥

विश्वास-प्रस्तुतिः

स प्रजागरकषायलोचनं गाढदन्त(3) परिताडिताधरम् ।
(4)आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ 8.88 ॥
{3.पदताडित.4.अपास्तचित्रकम्.}

मूलम्

स प्रजागरकषायलोचनं गाढदन्त(3) परिताडिताधरम् ।
(4)आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ 8.88 ॥
{3.पदताडित.4.अपास्तचित्रकम्.}

अन्वयः

रागवान् स प्रजागरकषायलोचनं गाढदन्तपदताडिताऽधरम् आकुलाऽलकं भिन्नतिलकं प्रियामुखं प्रेक्ष्य अरंस्त ।

मल्लिनाथः

स इति । रागवान्रागी स हरः प्रजागरेण कषायलोचनं रक्तनेत्रं गाढैर्दन्तक्षतैस्ताडिताधरमाकुलालकं भिन्नतिलकं प्रियामुखं प्रेक्ष्यरंस्तान्वरज्यत । तादृङ्मुखदर्शनमेव तस्योद्दीपकमित्यर्थः ॥ 8.88 ॥

विश्वास-प्रस्तुतिः

(5)तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविशूत्रमेखलम् ।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥ 8.89 ॥
{5.भङ्गि.}

मूलम्

(5)तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविशूत्रमेखलम् ।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥ 8.89 ॥
{5.भङ्गि.}

अन्वयः

निशात्यये अपि तेन भिन्नविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलं (तथा) चरणरागलाञ्छितं शयनं न उज्झितम् ।

मल्लिनाथः

तेनेति । निशात्यये प्रभाते निर्मलेऽपि तेन हरेण भङ्गिभिर्भङ्गैर्विषमो निम्नोन्नत उत्तरच्छदः प्रच्छदपटो यर्स्मिस्तत् । मध्ये पिण्डिता पुञ्जीकृता विसूत्रमेखला छिन्नरसना यस्मिंस्तत्तथोक्तं चरणयो रागेण लाक्षारागेण लाञ्छितं चिह्नितं शयनं नोज्झितं न त्यक्तम् । अत्र देव्याः सकलसुरतोपचारसंपन्नत्वं पुरुषायितं सूच्यते ॥ 8.89 ॥

विश्वास-प्रस्तुतिः

स (1)प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषंविषुः ।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदननात्(2) ॥ 8.90 ॥
{1.प्रियामुखरसम्.2.निवेदितः.}

मूलम्

स (1)प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषंविषुः ।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदननात्(2) ॥ 8.90 ॥
{1.प्रियामुखरसम्.2.निवेदितः.}

अन्वयः

हर्षवृद्धिजननं प्रियामुखरसं दिवानिशं सिसेविषुः (सन्) विजयानिवेदितः दर्शनप्रणयिनाम् अदृश्यताम् आजगाम ।

मल्लिनाथः

स इति । स हरो हर्षवृद्धिजननं सुखातिशयकारणं प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् । द्वन्द्वैकवद्भावः । सिसेविषुः सेवितुमिच्छुः सन् । विजयानाम्नो काचिद्देव्याः सखी तया निवेदितः । एतदर्थमागतेति ज्ञापितोऽपीत्यर्थः । दर्शनप्रणयिनामदृश्यतामाजगाम । दर्शनं न ददावित्यर्थः ॥ 8.90 ॥

विश्वास-प्रस्तुतिः

समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
शतमगमदृतूनां (3)साग्रमेका निशेव ।
न (4)तु सुरतसुखेभ्य(5) श्छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥ 8.91 ॥
{3.सार्धम्.4.च,सः.5.सुखेषु.6.तज्जलेभ्यः,तज्जलेषु.}

मूलम्

समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
शतमगमदृतूनां (3)साग्रमेका निशेव ।
न (4)तु सुरतसुखेभ्य(5) श्छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥ 8.91 ॥
{3.सार्धम्.4.च,सः.5.सुखेषु.6.तज्जलेभ्यः,तज्जलेषु.}

अन्वयः

समदिवसनिशीथं तत्र सङ्गिनः शम्भोः साग्रम् ऋतूनां शतम् एका निशा इव अगमत् । स समुद्राऽन्तर्गतः ज्वलन इव जलोघैः छिन्नतृष्णो न बभूव ।

मल्लिनाथः

समेति । निशीथोऽत्र निशामात्रलक्षकः । समदिवसनिशीथं तुल्याहर्निशं यथा तथा तत्र तस्यां पार्वत्यां पार्वत्यां सङ्गिन आसक्तस्य । रात्रिंदिवं रममाणस्येत्यर्थः । शम्भोः शिवस्य साग्रं किञ्चित्साधिकसंख्यमृतूनां शतं पञ्चाशदुत्तरं मानुषमानेन पञ्चर्विशतिवर्षाण्येका निशेवागमत् । स शम्भुः समुद्रान्तर्गतः समुद्रस्यान्तर्वृत्तिर्ज्वलनो वडवाग्निरिव तज्जलौर्घस्तस्य प्रवाहैरिव सुरतसुखेभ्यश्छिन्नतृष्णो निवृताभिलाषो न बभूव । किन्तु चिरमवर्धतेत्यर्थः ॥ 8.91 ॥

इति श्रौमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ
कुमारसंभवे महाकाव्ये उमासुरतर्वणनं
नामाष्टमः सर्गः ॥ 8 ॥
इति मल्लिनाथटीक समाप्ता ।