०७

.

सप्तमः सर्गः

विश्वास-प्रस्तुतिः

अथैषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ 7.1 ॥

मूलम्

अथैषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ 7.1 ॥

अन्वयः

अथ हिमवान् ओषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणाऽन्वितायां समेतबन्धुः (सन्) सुतायाः विवाहदीक्षाविधिम् अन्वतिष्ठत् ।

मल्लिनाथः

अथेति । अथ त्र्यहानन्तरं हिमवानोषधीनामधिपस्य चन्द्रस्य वृद्धौ । शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामित्रं लग्नात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिर्युक्तबन्धुः सन् । सुताया दुहितुर्विवाहदीक्षा विवाहसंस्कारः सैव विधि कर्म तमन्वतिष्ठत्कृतवान् ॥ 7.1 ॥

विश्वास-प्रस्तुतिः

वैवाहिकैः कौतुकसंविधानैर्गृहे व्यग्रपुरन्ध्रिवर्गम् ।
आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ 7.2 ॥

मूलम्

वैवाहिकैः कौतुकसंविधानैर्गृहे व्यग्रपुरन्ध्रिवर्गम् ।
आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ 7.2 ॥

अन्वयः

अनुरागात् गृहे गृहे वैवाहिकैः कौतुकसंविधानैः व्यग्रपुरन्ध्रिवर्ग सानुमतः पुरम् अन्तःपुरं च एककुलोपमेयम् आसीत् ।

मल्लिनाथः

वैवाहिकैरिति । अनुरागात्प्रीतिवशात् । गृहे गृहे प्रतिगृहम् । वीप्सायां द्विर्भावः । विवाहः प्रयोजनमेषामिति वैवाहिकानि तैः । ‘प्रयोजनम्’ इति ठक् । कौतुकसंविधानैर्मङ्गलार्थसंपादनैर्व्यग्रो व्याकुलः पुरन्ध्रिवर्गः कुटुम्बिनीसंघो यर्स्मिस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेनैकगृहेण वोपमेयमासीत् ‘सजातीयगणे गौत्रे गृहेऽपि कथितं कुलम्’ । इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमार्दैः प्रजाराग उक्तः । अत्र सर्व संपन्नमेवेत्यर्थः ॥ 7.2 ॥

विश्वास-प्रस्तुतिः

संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् ।
भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे ॥ 7.3 ॥

मूलम्

संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् ।
भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे ॥ 7.3 ॥

अन्वयः

सन्तानकाकीर्णमहापथं चीनांऽशुकैः कल्पिकेतुमालं काञ्चनतोरणानां भासा उज्ज्वत् स्थानान्तरं स्वर्ग इव आबभासे ।

मल्लिनाथः

संतानकैरिति । संतानकैर्मन्दारकुसुमैराकीर्णा आस्तृता महापथा राजकीयपथा यर्स्मिस्तत्तथोक्तम् । चीनांशुकैः पट्टवस्त्रैः कल्पिता विरचिताः केतुमाला ध्वजपङ्क्तयो यस्य तत्तथोक्तम् । काञ्चनतोरणानां भासा प्रभजोज्जवलद्दीप्यमानं तत्पुरं स्थानान्तरं मेरोरन्यत्र स्थितः स्वर्ग इवाबभासे । उत्प्रेक्षालंकारः ॥ 7.3 ॥

विश्वास-प्रस्तुतिः

एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
आसन्नपाणिग्रहणेति पित्रोरुमा विशीषोछ्वसितं बभुव ॥ 7.4 ॥

मूलम्

एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
आसन्नपाणिग्रहणेति पित्रोरुमा विशीषोछ्वसितं बभुव ॥ 7.4 ॥

अन्वयः

पुत्रपङ्क्तौ सत्याम् अपि उमा एका एव चिरस्य दृष्टा एव मृतोत्थिता इव आसन्नपाणिग्रहणा इति पित्रोः विशेषोच्छ्वसितं बभूव ।

मल्लिनाथः

एकैवेति । पुत्राश्च दुहितरश्च पुत्राः । ‘भ्रुतृपुत्रौ स्वसृदुहितृभ्याम्’ इत्यैकशेषः । ‘पुत्रौ पुवश्च दुहिता च’ इत्यमरः । तेषां पङ्क्तौ संधे सत्यामप्युमैकैव चिरस्य दृष्टेव चिरान्नष्टलब्धेव मृतोत्थितेव मृत्वा पुनरुत्पन्नेवासन्नपाणिग्रहणासन्नविवाहेति । भर्तृगृहं गमिष्यतीति हेतोरित्यर्थः । पित्रोः मातापित्रोः । ‘पिता मात्रा’ इत्येकशेषः । विशेषेणोच्छ्वासितं प्राणभूता बभूव । पुमपत्यादपि अदिकप्रैमास्पदमभूदित्यर्थः ॥ 7.4 ॥

विश्वास-प्रस्तुतिः

अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वनुङ्क्त ।
संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥ 7.5 ॥

मूलम्

अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वनुङ्क्त ।
संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥ 7.5 ॥

अन्वयः

सा उदीरिताशीः (सती) अङ्कात् अङ्कं ययौ, मण्डनात् मण्‍डनम् अन्वभुङ्क्त, सम्बन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहः तदेकायतनं जगाम ।

मल्लिनाथः

अङ्कादिति । सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सत्यङ्कादङ्कमुत्सङ्ग ययौ । मण्डनान्मण्डनान्तरमन्यन्मण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छन्नित्यर्थः । तच्च स्नेहनिबन्धनमेवेत्याह-संबन्धिभिन्नः स्वपुत्राभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः ॥ 7.5 ॥

विश्वास-प्रस्तुतिः

मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ 7.6 ॥

मूलम्

मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ 7.6 ॥

अन्वयः

मैत्रे मुहूर्ते उत्तरफल्गुनीषु शशलाञ्छनेन योगं गतासु तस्याः शरीरे याः पतिपुत्रवत्यः बन्धुस्त्रियः ताः प्तिकर्म चक्रुः ।

मल्लिनाथः

मैत्र इति । अथ मैत्रे मित्रदैवत्ये मुहूर्ते । उदयमुहूर्तात्तृतीयमुहूर्त इत्यर्थः । ‘आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च’ । इति वृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे । ‘फल्गुनी प्रोष्ठपदानां च नक्षत्रे’ इत्येकस्मिन्नपि बहृवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम् । ‘प्रतिकर्म प्रसाधनम्’ इत्यमरः । चक्रुः । कीदृश्यः । याः पतिपुत्रवत्यः । जीवद्भर्तृका जीवदापत्याश्चेत्यर्थः ॥ 7.6 ॥

विश्वास-प्रस्तुतिः

प्रतिकर्मप्रकारमेव प्रपञ्चयति-
सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
निर्नाभि कौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलंचकार ॥ 7.7 ॥

मूलम्

प्रतिकर्मप्रकारमेव प्रपञ्चयति-
सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
निर्नाभि कौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलंचकार ॥ 7.7 ॥

अन्वयः

स गौरसिद्धाऽर्थनिवेशवद्भिः दूर्वाप्रवालैः प्रतिभिन्नशोभं निर्नाभिकौशेयम् उपात्तबाणम अभ्यङ्गनेपथ्यम् अलञ्चकार ।

मल्लिनाथः

सेति । सा गौरी गौरसिद्धार्थनिवेशवद्भिः श्वेतसर्षपप्रक्षेपवद्भिर्दूर्वाप्रवालैर्दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं निर्नाभ्यतिक्रान्तनाभि कौशेयं वस्त्रविशेषं यर्स्मिस्तत्तथोक्तम् । ‘कौसेयं कृमिकोशोत्थम्’ इत्यमरः । उपात्तबाणं गृहीतशरम् ‘शरः क्षत्रियया ग्राह्यः’ इति मनुस्मरणात् । अभ्यङ्गनेपथ्यमभ्यङ्गवेशमलंचकार । अलंकारमप्यलंचकारेत्यर्थः ॥ 7.7 ॥

विश्वास-प्रस्तुतिः

बभौ च संपर्कमुपेत्य बाला नवेव दीक्षाविधिसायकेन ।
करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा ॥ 7.8 ॥

मूलम्

बभौ च संपर्कमुपेत्य बाला नवेव दीक्षाविधिसायकेन ।
करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा ॥ 7.8 ॥

अन्वयः

बाला नवा इव दीक्षाविधिसायकेन सम्पर्कम् उपेत्य बहुलाऽवसाने भानोः करेण सन्धुक्ष्यमाण शशाऽङ्करेखा इव बभौ ।

मल्लिनाथः

बभावित । किंचेति चार्थः । बाला नवेव दीक्षाविधौ विवाहकृत्ये यः सायकस्तेन संपर्कमुपेत्य बहुलावसाने कृष्णपक्षात्यये । शुक्लपक्षादावित्यर्थः । भानोः करेण किरणेन संधुक्ष्यमाणोपचीयमानाः ‘सलिलमये शशिनि रवुर्दीधितयो मूर्च्छितास्तमो नैशम् । क्षपयन्ती’ त्यादिवचनात् । शशङ्करेखेव बभौ ॥ 7.8 ॥

विश्वास-प्रस्तुतिः

तां लोध्रकल्केन हृताङ्कतैलामाश्यानकालेयकृताङ्गरागाम् ।
वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥ 7.9 ॥

मूलम्

तां लोध्रकल्केन हृताङ्कतैलामाश्यानकालेयकृताङ्गरागाम् ।
वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥ 7.9 ॥

अन्वयः

लोध्रकल्केन हृताऽङ्गतैलाम् आश्यानकालेयकृताऽङ्गरागाम् अभिषेकयोग्यं वासो वसानां तां नार्यः चतुष्काऽभिमुखं व्यनैषुः ।

मल्लिनाथः

तामिति । लोध्रकल्केन लोध्रचूर्णेन हृतमङ्गतैलं यस्यास्ताम् । कृतोद्वर्तनामित्यर्थः । आश्यानमीषच्छुष्कं तेन कालेयेन गन्धद्रव्येण कृताङ्गरागाम् । कृतस्नैग्ध्यामित्यर्थः । ‘अथ जायकम् । कालेयकं च कालानुसार्यं चे त्यमरः । अभिषेकयोग्यं वासो वस्त्रं वसानां स्नानशाजीमाच्छादयन्तीं तां पार्वतीं नार्यश्चतुष्कं चतुः स्तम्भगृहं तदभिमुखं व्यनैषुः । स्नानगृहं निन्युरित्यर्थः ॥ 7.9 ॥

विश्वास-प्रस्तुतिः

विन्यस्तवैदूर्य शिलातलेऽस्मिन्ना बद्धमुक्ताफलभक्तिचित्रे ।
आवर्जिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः ॥ 7.10 ॥

मूलम्

विन्यस्तवैदूर्य शिलातलेऽस्मिन्ना बद्धमुक्ताफलभक्तिचित्रे ।
आवर्जिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः ॥ 7.10 ॥

अन्वयः

विन्यस्तवैदूर्यशिलातले आबद्धमुक्ताफलभक्तिचित्रे अस्मिन् एनाम् आवर्जिताऽष्टापदकुम्भतोयैः सतूर्यं स्नपयाम्बभूवुः ।

मल्लिनाथः

विन्यस्तेति । विन्यस्तं वैदूर्यशिलातलं मरकतशिलातलं मरकतशिलाप्रदेशो यर्स्मिस्तस्मिन्नाबद्धानां मुक्ताफलानां भक्तिरचनाभिश्चित्रेऽर्स्मिश्चतुष्क एनां पार्वतीमावर्जितानामानमितानामष्ठापदकुम्भानां कनककलशानां तोयैः सतूर्यं मङ्गलवाद्ययुक्तं यथा तथा स्नपयांबभूबुः । अष्टसु लोहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् । ‘अष्टनः संज्ञायाम्’ इति दीर्धः । ‘अष्टापदं स्यात्कनकम्’ इति विश्वः ॥ 7.10 ॥

विश्वास-प्रस्तुतिः

सा मङ्गलस्नानविशुद्धगात्री गुहीतपत्युद्गमनीयवस्त्रा ।
निवृर्त्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ 7.11 ॥

मूलम्

सा मङ्गलस्नानविशुद्धगात्री गुहीतपत्युद्गमनीयवस्त्रा ।
निवृर्त्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ 7.11 ॥

अन्वयः

मङ्गलस्नानविशुद्धगात्री गृहीतवत्युद्गमनीयवस्त्रा सा निर्वत्तपर्जन्यजलाऽभिषेका प्रफुल्लकाशा वसुधा इव रेजे ।

मल्लिनाथः

सेति ।मङ्गलर्थस्नाने विशुद्धगात्री निर्मलाङ्गी पत्युर्वरस्योद्गमनौयवस्त्रं धौतवस्त्रम् । ‘धौतमुद्गमनीयं स्यात्’ इति हलायुधः । ‘तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्’ इत्यमरः । युगग्रहणं तु प्रायिकाभिप्रायम् । अत एवात्र क्षीरस्धामी- ‘युगं प्रायशो यल्लक्ष्यं तदेव’ इति व्याख्याय ‘गृहीत पत्युद्गमनीयवस्त्रा’ इत्येतदेवोदाहृतवान् । गृहीतं पतिप्रत्युद्गमनीयवस्त्रं यया सा । धौतवस्त्रमाच्छादितवतीत्यर्थः । सा पार्वती निर्वृत्तो निष्पन्नः पर्जन्यस्य जलेनाभिषेको यस्याः सा तथोक्ता । प्रफुल्लतीति प्रफुल्ल काशं काशपुष्पं यस्याः सा तथोक्ता वसुधेव रेजे शुशुभे ॥ 7.11 ॥

विश्वास-प्रस्तुतिः

तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः परिगृह्य निन्ये क्लृप्तासनं कौतुकवेदिमध्यम् ॥ 7.12 ॥

मूलम्

तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः परिगृह्य निन्ये क्लृप्तासनं कौतुकवेदिमध्यम् ॥ 7.12 ॥

अन्वयः

तस्मात् प्रदेशात् वितानवन्तं मणिस्तम्घचतुष्टयेन युक्तं क्लॄष्तासनं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य (सा) निन्ये ।

मल्लिनाथः

तस्मादिति । किंचेति चार्थः । तस्मात्प्रदेशात्स्नानप्रदेशाद्वितानवन्तमुल्लोचयुक्तम् । ‘अस्त्री वितानमुल्लोचः’ इत्यमरः । मणिस्तम्भचतुष्टयेन युक्तं वलृप्तं सज्जमानमासनं यस्मिंस्तं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य दौर्भ्यामालिङ्ग्य निन्ये नीता । प्रसाधनार्थमित्यर्थः ॥ 7.12 ॥

विश्वास-प्रस्तुतिः

तां प्रङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाघने संनिहितेऽपि नार्यः ॥ 7.13 ॥

मूलम्

तां प्रङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाघने संनिहितेऽपि नार्यः ॥ 7.13 ॥

अन्वयः

नार्यः तन्वीं तां तत्र प्राङ्मुखीं निवेश्य पुरोनिषण्णाः (सत्यः) प्रसाधने सति अपि भूताऽर्थशोभाह्रियमाणनेत्राः (सत्यः) क्षण व्यलम्बन्त ।

मल्लिनाथः

तामिति । नार्यः प्रसाधिकास्तां तन्वीं पार्वती तत्र वेदिमध्ये प्राङ्नुखीं निवेश्योपवेश्य पुरोनिषण्णा अग्रे स्थिताः । प्रसाध्यतेऽनेनेति प्रसाधनेऽलंकारसाधनवर्गे संनिहितेऽपि भूतार्था सत्यरूपा । स्वाभाविकीति यावत् । या शोभा रामणीयकं तया ह्रियमाणान्याकृष्यमाणानि नेत्राणि यासां तास्तथोक्ताः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधनेनेति तूष्णीं तस्थुरित्यर्थः ॥ 7.13 ॥

विश्वास-प्रस्तुतिः

धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् ।
पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ 7.14 ॥

मूलम्

धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् ।
पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ 7.14 ॥

अन्वयः

काचित् धूपोष्मणा आर्द्रभावं त्याजितम् अन्तः कुसुमं तदीयं केशाऽन्तं दूर्वावता पाण्डुमधूकदाम्ना उदारबन्धं पर्याक्षिपत् ।

मल्लिनाथः

धूपेति । काचित्प्रसाधिका धूपोष्मणा करणेनार्द्रभावमार्द्रत्वं त्याजितम् । पचादिषु पाठाद्विकर्मकत्वम् । त्यजतेर्ण्यन्तादप्रधाने कर्मणि क्तः । अन्तःकुसुममन्तर्नक्षिप्तकुसुमं तस्या इमं तदीयं केशान्तं केशापाशं दूर्वावता मध्यं मध्ये ग्रथितदूर्वेण पाण्डुमधूकदाम्ना हरितमधुद्रुमकुसुममाल्येन । ‘मधूके तु गुडपुष्पमधुद्रुमौ’ इत्यमरः । उदारबन्धं यथा तथा पर्याक्षिपद्वबन्ध ॥ 7.14 ॥

विश्वास-प्रस्तुतिः

विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः ।
सा चक्रवाकाङिकितसैकतायास्त्रिस्त्रोतसः कान्तिमतीत्य तस्थौ ॥ 7.15 ॥

मूलम्

विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः ।
सा चक्रवाकाङिकितसैकतायास्त्रिस्त्रोतसः कान्तिमतीत्य तस्थौ ॥ 7.15 ॥

अन्वयः

(ताः) अस्या अङ्गे विन्यस्तशुक्लाऽगुरु गोरोचनापत्रविभक्तं चक्रुः । सा चक्रवाकाऽङ्कितसंकतायाः त्रिस्त्रोतसः कान्तिम् अतीत्य तस्थौ ।

मल्लिनाथः

विन्यस्तेति । अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिस्तद् गोरोचनायाः पत्त्रेः पत्त्ररचनाभिर्विभक्तं विशेषितं चक्रुः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्त्रोतसो गङ्गायाः । कान्तिं शोबामतीत्यातिक्रम्य तस्यौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यं, त्रिस्त्रोतसो धावल्यं तु प्रसिद्धत्वान्न स्वपदेनोपात्तम् ॥ 7.15 ॥

विश्वास-प्रस्तुतिः

लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश्च विम्बम् ।
तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥ 7.16 ॥

मूलम्

लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश्च विम्बम् ।
तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥ 7.16 ॥

अन्वयः

प्रसिद्धैः अलकैः तदाननश्रीः लग्नद्विरेफं पद्मं, समेघलेखं शशिनो बिम्बं च परिभूय सादृश्यकथाप्रसङ्गं चिच्छेद ।

मल्लिनाथः

लग्नेति । प्रसिद्धैर्भूषितैः । ‘प्रसिद्धौ ख्यातभूषितौ’ इत्यमरः । अलकैरुपलक्षिता तस्या गौर्याः आननश्रीर्लग्नद्विरेफं पद्मं समेधलेखं मेघरेखायुक्तं शशिनो बिम्बं च परिभूय तिरस्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्गं प्रसक्तिं सादृश्यं वाङ्मात्रप्रसक्तमपि चिच्छेदाभिनत् । प्रसक्तयोः पद्मचन्द्रयोः परिभूतत्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वाधंवाक्यार्थस्य सादृश्यकथाच्छेदं प्रति हेतुत्वेनोपन्यासात्काव्यलिङ्गमलंकारः । लक्षणं तूक्तम् ॥ 7.16 ॥

विश्वास-प्रस्तुतिः

कर्णार्पितो लोध्रकषायरुक्षे गोरोचनाक्षेपनितान्तगौरे ।
तस्याः कपोले परभागलाभाद्वबन्ध चक्षूँषि यवप्ररोहः ॥ 7.17 ॥

मूलम्

कर्णार्पितो लोध्रकषायरुक्षे गोरोचनाक्षेपनितान्तगौरे ।
तस्याः कपोले परभागलाभाद्वबन्ध चक्षूँषि यवप्ररोहः ॥ 7.17 ॥

अन्वयः

तस्याः कर्णाऽर्पिता यवप्ररोहो लोध्रकषायरुक्षे गोरोचनाक्षेपनिनान्तगौरे कपोले परभागलाभात् चक्षूंषि बबन्ध ।

मल्लिनाथः

कर्णेति । तस्या गौर्याः कर्णेऽर्पितो निक्षिप्तो यवप्ररोहो यवाङ्कुरो लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन रुक्षे विशदे । उद्वर्तिते इत्यर्थः । ‘कषायो रसभेदे स्यादङ्गरागे विलेपने’ । इति विश्वः । गोरोचनायाः क्षेपेण विन्यासेन नितान्तगौरेऽत्यन्तारुणे । ‘गौरः श्वेतेऽरुणे पीते’ इति विश्वः । कपोले गण्डस्थले परभागलाभाद्वर्णोत्कर्षप्राप्तेश्चक्षूंर्षि । द्रष्टॄणामिति शेषः । बबन्ध जहार । आचकर्षेत्यर्थः । गोरोचनारुणे गण्डस्थले पाण्डुरो यवाङ्कुरो विजातीयवर्णसंनिधानाल्लब्धवर्णोत्कर्षः संश्चक्षुराकर्षकोऽभूदिति भावः ॥ 7.17 ॥

विश्वास-प्रस्तुतिः

रेखाविभक्तः सुविभक्तगात्र्याः किचिन्धूच्छिष्ट विमृष्टरागः ।
कामुप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽधरोष्ठः ॥ 7.18 ॥

मूलम्

रेखाविभक्तः सुविभक्तगात्र्याः किचिन्धूच्छिष्ट विमृष्टरागः ।
कामुप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽधरोष्ठः ॥ 7.18 ॥

अन्वयः

सुविभक्तगात्र्याः रेखाविभक्तः किञ्चिन्मधूच्छिष्टविमृष्टरागः आसन्नलावण्यफलः अधरोष्ठः स्फुरितैः काम् अपि अभिख्याम् अपुष्यत् ।

मल्लिनाथः

रेखेति । सुविभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या रेखया मध्यगतया विभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या रेखया मध्यगतया विभक्तः सुश्लिष्टः किंचिदीषन्मधूच्छिष्टेन सिक्थकेन विमृष्टो विशेषेण निर्मलीकृते रागो यस्य स तथोक्तः । ‘मधूच्छिष्टं तु सिक्धकम्’ इति, ‘निर्णिक्तं शोधितं मृष्टम् ।’ इति चामरः । अन्यत्रोक्तम्- ‘अलौहित्यापगमायाधरेषु सिक्थकलेपः क्रियते’ । आसन्नं संनिहितं लावण्यफलं सौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः स्फुरितैर्भाविशुभशंसिभिः स्पन्दैः कामप्यनिर्वाच्यार्माभख्यां शोभामपुष्यत्पुपोष । ‘अभिख्या नामशोभयोः’ इत्यमरः ॥ 7.18 ॥

विश्वास-प्रस्तुतिः

पतेयुः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ 7.19 ॥

मूलम्

पतेयुः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ 7.19 ॥

अन्वयः

सख्या चरणौ रञ्जयित्वा ‘अनेन पत्युः शिरश्चन्द्रकलां स्पृश’ इति परिहासपूर्व कृताशीः सा तां माल्येन निर्वचनं जघान ।

मल्लिनाथः

पत्युरिति । सख्या कर्त्र्या । चरणौ रञ्जयित्वा लाक्षारसाक्तौ कृत्वा । कृताशीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन रञ्जने द्वयोरपि नियमाच्चरणावित्युक्त्वाप्यौचित्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युरीश्वरस्य शिरश्चन्द्रकलाम् । सुरतविशेष इति शेषः । स्पृश ताडयेति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया । ‘माल्यं मालास्त्रजौ’ इत्यमरः । निर्वचनं यथा तथा । तूष्णीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः घृङ्गारानिभाव इक्तः । तदुक्तम् । ‘प्राप्तकाले तु यद् ब्रूयात्कुर्याद्वा विहृतं हि तत्’ । इति ॥ 7.19 ॥

विश्वास-प्रस्तुतिः

तस्याः सुजातोत्पलपत्त्रकान्ते प्रसाधिकाभिर्नयने निरोक्ष्य ।
न चक्षुषोः कान्तिविशोषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥ 7.20 ॥

मूलम्

तस्याः सुजातोत्पलपत्त्रकान्ते प्रसाधिकाभिर्नयने निरोक्ष्य ।
न चक्षुषोः कान्तिविशोषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥ 7.20 ॥

अन्वयः

प्रसाधिकाभिः सुजातोत्पलपत्त्रकान्ते तस्या नयने निरीक्ष्य कालाञ्जनं चक्षुषोः कान्तिविशेषबुद्ध्या न उपात्तं (किन्तु) मङ्गलम् इति उपात्तम् ।

मल्लिनाथः

तस्या इति । प्रसाधिकाभिरलंकर्त्रीभिः सुजाते सम्यगुत्पन्ने उत्पलपत्त्र इव कान्ते रम्ये तस्या नयने निरीक्ष्य कालाञ्चनमञ्जनविशेषश्चक्षुषोः कान्तिविशेषबुद्ध्या । शोभातिशयो भविष्यतोति बुद्ध्येत्यर्थः । नोपात्तं न गृहीतं किंतु मङ्गलं शुममिति हेतोरुपात्तम् । निसर्गसुभगस्य किमाहायंकाण्डम्बरेणेति भावः ॥ 7.20 ॥

विश्वास-प्रस्तुतिः

सा संभवद्भिः कुसुमैर्लतेव, ज्योतिर्भिरुद्यद्भिरिव त्रियामा ।
सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥ 7.21 ॥

मूलम्

सा संभवद्भिः कुसुमैर्लतेव, ज्योतिर्भिरुद्यद्भिरिव त्रियामा ।
सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥ 7.21 ॥

अन्वयः

आमुच्यमानाभरणा सा संभवद्भिः कुसुमैः लता इव, उद्यद्भिः ज्योतिर्भिः त्रियामा इव, लीयमानैः विहङ्गैः सरित् इव चकासे ।

मल्लिनाथः

सेति । आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी संभवद्भिरुत्पद्यमानैः कुसुमैर्लतेव । अनेन पद्मरागेन्द्रनीलादीन्याभरणानि सूचितांनि, लताकुसुमानां नानावर्णत्वात् । उद्यद्भिरुदयं गच्छद्भिर्ज्योतिर्भिरुडुभिस्त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लीयमानैराश्रयद्भिः । निषीदद्भिरित्यर्थः । विहंगैश्चक्रवाकैः सरिदिव । अनेन सुवर्णाभरणानि सूचितानि । विहंगाश्च तत्सूचनाय चक्रवाका अभिमताः । चकासे रेजे । अत्र लताकुसुमादीनां सहजसंबन्धिनामुपमानत्वेनोपादानादाहर्यकमपि तस्याः सहजमिवाशोभतेति भावः ॥ 7.21 ॥

विश्वास-प्रस्तुतिः

आत्मानमालोक्य च शोभामानमादर्शबिम्बे स्तमितायताक्षी ।
हरोपयाने त्वरिता बभूव, स्त्रीणां प्रियालोकफलो हि वेषः ॥ 7.22 ॥

मूलम्

आत्मानमालोक्य च शोभामानमादर्शबिम्बे स्तमितायताक्षी ।
हरोपयाने त्वरिता बभूव, स्त्रीणां प्रियालोकफलो हि वेषः ॥ 7.22 ॥

अन्वयः

गौरी शोभमानम् आत्मानम् आदर्शबिम्बे आलोक्य स्तिमितायताक्षी (सती) हरोपयाने त्वरिता बभूव । हि स्त्रीणां वेषः प्रियालोकफलः (भवति) ।

मल्लिनाथः

आत्मानमिति । किञ्चेति चार्थः । गौरी शोभमानमात्मानं निजशरीरमादर्शबिम्बि दर्पणमण्डले । ‘दर्पणे मुकुरादर्शौ’ इत्यमरः । स्तिमितायताक्ष्यादरान्निश्चलायतलोचना सत्यालोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा वभूव । स्त्रीणां वेषो नेपथ्यं प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य स तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः । अनेन कालाक्षमत्वलक्षणगौत्सुक्यमुक्तमित्यनुसंधेयम् ॥ 7.22 ॥

विश्वास-प्रस्तुतिः

अथाङगुलिभ्यां हरितालमाद्रं माङ्गल्यमादाय मनःशिलां च ।
कर्णावसक्तामलदन्तपत्त्रं माता तदीयं मुखमुन्नमय्य ॥ 7.23 ॥

मूलम्

अथाङगुलिभ्यां हरितालमाद्रं माङ्गल्यमादाय मनःशिलां च ।
कर्णावसक्तामलदन्तपत्त्रं माता तदीयं मुखमुन्नमय्य ॥ 7.23 ॥

अन्वयः

अथ माता माङ्गल्यम् आर्द्रहरितालं मनःशिलां च अङ्गलिभ्याम् आदाय कर्णाऽवसक्ताऽमलदन्तपत्रं तदीयं मुखम् उन्नमय्य उमास्तनोद्भेदम् अनुप्रवृद्धो यो मनोरथः प्रथमं बभूव, तम् एव विवाहदीक्षातिलकं चकार ।

मल्लिनाथः

अथेति । अथ प्रसाधनानन्तरं माता मेनका माङ्गल्यं मंङ्गलार्थमार्द्र द्रवहरितालं वर्णद्रव्यविशेषं मनःशिलां धातुविशेषं चाङ्गुलिभ्यां तर्जनीमध्याभ्यामादाय कर्णयोरवसक्ते लग्ने अमले दन्तपत्त्रे यस्य तत्तथोक्तं तस्याः पार्वत्या इदं तदीयं मुखमुन्नमय्य । ‘विवाहदीक्षातिलकं चकार’ (7/24) इत्युत्तरश्लोकेनान्वयः ॥ 7.23 ॥

मल्लिनाथः

उमेति । उमायाः स्तनेद्भेदमनु । स्तनोदयमारभ्येत्यर्थः । प्रवृद्धो वृद्धिं गतः । प्रागेवोत्पन्न इति भावः । यो मनोरथो वाञ्छा । ‘वाञ्छा लिप्सा मनोरथः’ इत्यमरः । प्रथमं मनोरथान्तरात्प्राक् । अयमेव प्रथमो मनोरथ इत्यर्थः, बभूव, मेनादुहितुस्तमेव मनीरथभूतमेव । तद्विषये तत्तोपचारः । विवाहदीक्षायां विवाहकृत्ये तिलकं कथंचित्कृच्छ्रेण चकार । आनन्दवाष्पान्धतयेति शेषः । विवाहानन्तरभावित्वादन्येषामयमेव प्रथमो मनोरथ इति भावः । युग्मकम् ॥ 7.24 ॥

विश्वास-प्रस्तुतिः

बबन्ध चास्त्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसंनिवेशाम् ।
धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्तसूत्रम् ॥ 7.25 ॥

मूलम्

बबन्ध चास्त्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसंनिवेशाम् ।
धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्तसूत्रम् ॥ 7.25 ॥

अन्वयः

अस्या अस्त्राऽऽकुलदृष्टिः सा स्थानान्तरे कल्पितसन्निवेशां धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् ऊर्णामयं कौतुकहस्तसूत्रं बबन्ध च ।

मल्लिनाथः

बबन्धेति । अस्याः पार्वत्या अस्त्रैरानन्दबाष्पैराकुलदृष्टिरत एव स्थानान्तरे कल्पितः संनिवेशो निक्षेपो यस्य तत् । स्वस्थानादन्यत्र स्थापितमित्यर्थः । अत एव धात्र्या उपमातुरङ्गुलीभिः प्रतिसार्यंमाणं स्वस्थानं प्राप्यमाणमूर्णामयं मेषादिलोमनिर्मित्म् । ‘ऊर्णा मेषादिलोम्नि स्यात्’ इत्यमरः । कोतुकहस्तसूत्रं मङ्गलहस्तसूत्रम् । ‘कौतुकंमङ्गले हर्षे हस्तसूत्रे कुतूहले’ । इति शाश्वतः । बबन्ध च मेनेति शेषः । पूर्वोक्ततिलक्रियासमुच्चयर्थाश्चकारः ॥ 7.25 ॥

विश्वास-प्रस्तुतिः

क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।
नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥ 7.26 ॥

मूलम्

क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।
नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥ 7.26 ॥

अन्वयः

नवक्षौमनिवासिनी नवं दर्पणम् आदधाना सा सफेनपुञ्जा क्षीरोदवेला इव, पर्याप्तचन्द्रा शरत्रियामा इव भूयो बभौ ।

मल्लिनाथः

क्षीरोदेति । नवं नूतनं क्षौमं दुकूलं निवस्त आच्छादयतीति नवक्षौमनिवासिनी । वस्तेराच्छादनार्थाण्णिनिः । तथा नवं दर्पणमादधाना बिभ्रती सागौरी सफेनपुञ्जा सडिण्डीरपङ्क्तिः । क्षीरमुदकंयस्य स क्षीरोदः क्षीरसमुद्रः । ‘उदकस्योदः संज्ञायाम्’ इत्युदादेशः । तस्य वेला तीरभूमिरिव । ‘वेला काले च जलधेस्तीरनीरविकारयोः’ । इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्रा शरत्त्रियामा शरद्रात्रिरिव भूयो भूयिष्ठं बभौ चकासे ॥ 7.26 ॥

विश्वास-प्रस्तुतिः

तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता ।
अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥ 7.27 ॥

मूलम्

तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता ।
अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥ 7.27 ॥

अन्वयः

कारयितव्यदक्षा माता कुलप्रतिष्ठां ताम् अर्चिताभ्यः कुलदेवनाभ्यः प्रणमय्य सतीनां पादग्रहणं क्रमेण अकारयत् ।

मल्लिनाथः

तामिति । कारयितव्येषु दक्षा कारयित्री । कर्मोपदेशकुशलेत्यर्थः । माता मेना प्रतितिष्ठत्यस्यामिति प्रतिष्ठा । ‘आतश्चोपसर्गे’ इति कः स्त्रियां टाप् । कुलस्य प्रतिष्ठां कुलालम्बनभूताम् । स्थितिकारिणीमित्यर्थः । तां गौरीम् । अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो गृहदेवाभ्यः प्रणमय्य प्रणामं कारयित्वा । ‘ल्यपि लघुपूर्वात्’ इति णेरयादेशः । सतीनां पतिव्रतानां पादग्रहणं पादाभिवन्दनं क्रमेणाकारयत्कारयामास । ‘हृक्रोरन्यतरस्याम्’ इत्यणि कर्तुः कर्मत्वम् । अन्यत्र च ‘गतिबुद्धी’ त्यादिना नमेरकर्मकत्वात् ॥ 7.27 ॥

विश्वास-प्रस्तुतिः

अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽपि ॥ 7.28 ॥

मूलम्

अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽपि ॥ 7.28 ॥

अन्वयः

नम्रा उमा ताभिः ‘पत्युः अखण्डितं प्रेम लभस्व’ इति उच्यते स्म । तस्य अर्द्धशरीरभाजा तया तु स्निगिधजनाशिषः अपि पश्चात्कृताः ।

मल्लिनाथः

अखण्डितमिति । नम्रा प्रणतोमा ताभिः सतीभिः पत्युः शिवस्याखण्जितमक्षत प्रेम लभस्व प्राप्नुहीत्युच्यते स्म अभिहिता । ‘लट्स्मे’ इति भूतार्थे लट् । तस्य हरस्य । अर्ध शरीरस्यार्धशरीरम् । ‘अर्धनपुंसकम्’ इति समासः । तद्भजतीत्यर्धशरीरभाजा तथा गौर्या तु स्निग्धजनाशिषो बन्धुजनाशीर्वादा अपि पश्चात्कृता अधरीकृताः । ततोऽप्यधिकफललाभादिति भावः ॥ 7.28 ॥

विश्वास-प्रस्तुतिः

इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा ।
सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥ 7.29 ॥

मूलम्

इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा ।
सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥ 7.29 ॥

अन्वयः

कृकती सभ्यः अद्रिः इच्छाविभूत्योः अनुरूपं तस्याः कृत्यम् अशेषयित्वा सुहृदास्थितायां सभायां वृषाऽङ्कागमनप्रतीक्षः (सन्) तस्थौ ।

मल्लिनाथः

इच्छेति । कृती कुशलः । सभायां साधुः सभ्यः । ‘सभाया यः’ इति यप्रत्ययः । अद्रिर्हिमवानिच्छाविभूत्योरुत्साहैश्वर्ययोरनुरूपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यमशेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दात् ‘तत्करोति’ इति ण्यन्तात्क्त्वाप्रत्ययः । सुहृदास्थितायां बन्धुजनाक्रान्तायां सभायां संसदि वृषाङ्कस्य हरस्यागमनं प्रतीक्षत इति तथोक्तः सन् ‘कर्मण्यण्’ इत्यण् । तस्थ ौ स्थितः ॥ 7.29 ॥

विश्वास-प्रस्तुतिः

तावद्भवस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुर शासनस्य ॥ 7.30 ॥

मूलम्

तावद्भवस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुर शासनस्य ॥ 7.30 ॥

अन्वयः

तावत् कुबेरशैले तत्पूर्वपाणिग्रहणाऽनुरूपं प्रसाधनम् आदृताभिः मातृभिः पुरशासनस्य पुरस्तात् न्यस्तम् ।

मल्लिनाथः

तावदिति । तावत्, यावद् गौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः कुबेरशैले कैलासे । तदेव पूर्वं तत्पूर्व तच्च तत्पाणिग्रहणं तस्यानुरूपं प्रसाधनमलंकारसामग्री आदृताभिः । पुरं शास्तीति पुरशासनस्तस्य । कर्तरि ल्युट् । भवस्यापि पुरस्तादग्रे न्यस्तं निक्षिप्तम् ॥ 7.30 ॥

विश्वास-प्रस्तुतिः

तद् गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
स एव वेषः परिणेतुरिष्टं भवान्तरं तस्य विभोः प्रपेदे ॥ 7.31 ॥

मूलम्

तद् गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
स एव वेषः परिणेतुरिष्टं भवान्तरं तस्य विभोः प्रपेदे ॥ 7.31 ॥

अन्वयः

ईश्वरेण सा मङ्गलमण्डनश्रीः तद्गौरवात् केवलं पस्पृशे । (किन्तु) तस्य विभोः स एव वेषः परिणेतुः इष्टं भावान्तरं प्रपेदे ।

मल्लिनाथः

तदिति । ईश्वरेण शिवेन सा णङ्गलमण्डनश्रीः शुभप्रसाधनसंपत्तद्गौरवात्तासु मातृष्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्रे इत्यवधारणार्थः केवलशब्दः । ‘केवलं चावधारणे’ इति शाश्वतः । किंतु तस्य विर्भोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेष एव परिणेतुर्लोकरुद्वोदुरिष्टमपेक्षितं भावान्तरं रूपान्तरं प्रपेदे । अङ्गरागादिरुपतां प्रापेत्यर्थः ॥ 7.31 ॥

विश्वास-प्रस्तुतिः

भावान्तरापत्तिमेवाह-
बभूव भस्मैव सिताङ्गरागः, कपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ 7.32 ॥

मूलम्

भावान्तरापत्तिमेवाह-
बभूव भस्मैव सिताङ्गरागः, कपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ 7.32 ॥

अन्वयः

भस्म एव सिताऽङ्गरागः, कपालम् एव अमलशेखरश्रीः, गजाऽजिनस्य एव उपान्तभागेषु रोचनाङ्को दुकूलभावश्च बभूव ।

मल्लिनाथः

बभूवेति । भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्येवोपान्तभागेष्वञ्चलप्रदेशेषु रोचनैवाङ्को हंसादिचिह्नं यस्य स तथोक्तो दुकूलभावः पटांशुकत्वं च बभूव । भस्मादिकमेवाङ्गरागादिभावं प्राप्रमित्यर्थः ॥ 7.32 ॥

विश्वास-प्रस्तुतिः

शङ्खान्तरद्योति विलोचनं यदन्तर्निविष्टा मलपिङ्गतारम् ।
सांनिध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः ॥ 7.33 ॥

मूलम्

शङ्खान्तरद्योति विलोचनं यदन्तर्निविष्टा मलपिङ्गतारम् ।
सांनिध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः ॥ 7.33 ॥

अन्वयः

शङ्खाऽन्तरद्योति अन्तर्निविष्टाऽमलपिङ्गतारं यद् विलोचनं तत् एव हरितालमय्याः तिलकक्रियायाः सान्निध्यपक्षे जातम् ।

मल्लिनाथः

शङ्खेति । शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्तम् । ‘श्ङ्खो निधौ ललाटास्थ्नि’ इत्यमरः । अन्तर्निविष्टा मध्यगतामला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । ‘तारकाक्ष्णः कनीनिका’ इत्यमरः । यद्विलोचनं तद्विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रिययास्तिलकरयनायाः संनिधिरेव सांनिध्यं तदेव पक्षः साध्यम् । ‘पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु’ इति यादवः । तस्मिन् सांनिध्यपक्षे जातम्, प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् ॥ 7.33 ॥

विश्वास-प्रस्तुतिः

यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् ।
शरीरमात्रं विकृतिं प्रपेदे, तथैव तस्थुः फणरत्नशोभाः ॥ 7.34 ॥

मूलम्

यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् ।
शरीरमात्रं विकृतिं प्रपेदे, तथैव तस्थुः फणरत्नशोभाः ॥ 7.34 ॥

अन्वयः

यथाप्रदेशम् आभरणान्तरत्वं करिष्यतां भुजगेश्वराणां शरीरमात्रं विकृतिं प्रपेदे,फणरत्नशोभाः तथैव तस्थुः ।

मल्लिनाथः

यथेति । यथाप्रदेशं प्रदेशान्कोष्ठादीननतिक्रम्याभरणान्तरत्वं कङ्कणाद्याभरणविशेषत्वं करिष्यतां संपादयिष्यतां भुजगेश्वराणां शरीरमात्रं शरीरमेव विकृतिं रुपान्तरं प्रपेदे । फणरत्नशोभास्तथैव तस्थुः । तासां तथैवोपादेयत्वादिति भावः ॥ 7.34 ॥

विश्वास-प्रस्तुतिः

दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ? ॥ 7.35 ॥

मूलम्

दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ? ॥ 7.35 ॥

अन्वयः

दिवा अपि निष्ठ्यूतमरीचिभासा बाल्यात् अनाविष्कृतलाञ्छनेन चन्द्रेण नित्यं प्रतिभिन्नमौलेः हरस्य चूडामणेः ग्रहणं किम् ?

मल्लिनाथः

दिवापीति । दिवा दिनेऽपि निष्ठ्यूता उद्रीर्णा मरीचिभासः किरणकान्तयो यस्य तेन बाल्यादल्पतनुत्वादनाविष्कृतलाञ्छनेन । अदृश्यमानकलङ्केत्यर्थः । चन्द्रेण नित्यं सर्वदा प्रतिभिन्नमौलेः संगतमुकुटस्य हरस्य चूडामणेर्ग्रहणं स्वीकारः किं किमर्थम् । चन्द्रचूडामणीर्देवस्य किमन्यैश्चूडामणिभिरति भावः ॥ 7.35 ॥

विश्वास-प्रस्तुतिः

इत्यद्भुतैकप्रभवः प्रभावात्मसिद्ध नेपथ्यविधेर्विधाता ।
आत्मानमासन्नगणोपनीते खङ्गे निषक्तप्रतिमं ददर्श ॥ 7.36 ॥

मूलम्

इत्यद्भुतैकप्रभवः प्रभावात्मसिद्ध नेपथ्यविधेर्विधाता ।
आत्मानमासन्नगणोपनीते खङ्गे निषक्तप्रतिमं ददर्श ॥ 7.36 ॥

अन्वयः

इति प्रभावात् प्रसिद्धनेपत्यविधेः विधाता (अतक एव) अद्भुतैकप्रभवः (सः) आसन्नगणोपनीते खङ्गे निषक्तप्रतिमम् आत्मानं ददर्श ।

मल्लिनाथः

इतीति । इतीर्त्थ प्रभावात्सामर्थ्यात्प्रसिद्धस्य नेपथ्यविधेर्वेषसंविधानस्य विधाता निर्माता । अत एवाद्भुतानामाश्चर्याणामेकप्रभवो मुख्यनिधिः स देव आसन्नगणेन पार्श्वस्थवर्गेण । प्रमथगणेनेत्यर्थः । उपनीत आनीते खङ्गे निषक्तप्रतिमं संक्रान्तप्रतिबिम्बमात्मानं ददर्श । वीरपुरुषाणामेष आचारः ॥ 7.36 ॥

विश्वास-प्रस्तुतिः

स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥ 7.37 ॥

मूलम्

स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥ 7.37 ॥

अन्वयः

स नन्दिभुजाऽवलम्बी (सन्) शार्दूलचर्माऽन्तरितोरुपृष्ठं तद्भक्तिसंक्षिप्तहृहत्प्रमाणं गोपतिं कैलासम् इव आसह्य प्रतस्थ ।

मल्लिनाथः

स इति । स देवो नन्दिभुजावल्बी नन्दिकेश्वरभुजावलम्बनः सन् । शार्दूलचर्मणा व्याघ्रचर्मणान्तरितमाच्छादितमुरु विशालं पृष्ठं यस्य तं तथोक्तम् ‘शार्दूलद्वीपिनौ व्याघ्र’ इत्यमरः । तस्मिन्देवे भक्त्या संक्षिप्तं संकोचितं बृहत्प्रमाणं यस्य तं गोपतिं वृषभं कैलासमिवारुह्य प्रतस्थे चचाल ॥ 7.37 ॥

विश्वास-प्रस्तुतिः

तं मातरी देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिवान्तरीक्षम् ॥ 7.38 ॥

मूलम्

तं मातरी देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिवान्तरीक्षम् ॥ 7.38 ॥

अन्वयः

तम् अनुव्रजन्त्यः स्ववाहनक्षोभचलाऽवतंसाः मातरः प्रमामण्डलरेणुगौरैः मुखैः अन्तरिक्षं पद्माकरम् इव चक्रुः ।

मल्लिनाथः

तमिति । तं देवमनुव्रजन्त्योऽनुगच्छन्त्थः स्ववाहनानां क्षोभेण प्रकम्पेण चलावतंसाश्चलकुण्डला मातरः सप्तमातृकाः प्रभामण्डलान्येण रेणवः परागास्तैर्गैरैररुणैः । ‘गौरोऽरुणे सिते पीते’ इति यादवः । मुखैरन्तरीक्षमाकाशं पद्माकरमिव चक्रुः ॥ 7.38 ॥

विश्वास-प्रस्तुतिः

तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे ।
बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशातह्रदेव ॥ 7.39 ॥

मूलम्

तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे ।
बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशातह्रदेव ॥ 7.39 ॥

अन्वयः

कनकप्रमाणां तासां पश्चात् कपालाभरण काली बलाकिनी दूरं पुरः क्षिप्तशतह्रदा नीलपयोदराजी इव चकासे ।

मल्लिनाथः

तासामिति । कनकप्रभाणां सुवर्णवर्णानां तासां मातॄणां पश्चात्कपालाभरणा । सितकपालालंकारेत्यर्थः । काली महाकाली देवी च । कृष्णवर्णत्वसूचनाय कालीसंज्ञया भिधानम् । बलाकिनी बलाकावती । व्रीह्यादित्वादिनि । दूरं यथा तथा पुरोऽग्रे क्षिप्ताः प्रसारिताः शतह्रदा विद्युतो यस्याः सा तथोक्ता नोलपयोदराजी कालमेघपङ्क्तिरिव चकासे ॥ 7.39 ॥

विश्वास-प्रस्तुतिः

ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः ।
विमानश्रृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ 7.40 ॥

मूलम्

ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः ।
विमानश्रृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ 7.40 ॥

अन्वयः

ततः शूलभृतः पुरोगैः गुणं उदीरितो मङ्गलतूर्यघोषों विमानश्रृङ्गाणि अवगाहमानः (सन्) सुरेभ्यः सेवाऽवसलं शशंस ।

मल्लिनाथः

तत इति । ततोऽनन्तरं शूलभृतः शिवस्य पुरो गच्छन्तीति पुरोगैरग्रेसरैः। ‘अन्यत्रापि दृश्यत इति वक्तव्यम्’ इति गमेर्डप्रत्ययः । गणैः प्रमथैरुदीरित उत्पादितो मङ्गलतूर्यघोषो मङ्गलवाद्यध्वनिर्विमानश्रृंगाण्यवगाहमानः सन् सुरेभ्यो विमानस्थेभ्यः सेवाऽवसरं शशंस । सुराः प्रस्थानध्वनिमाकर्ण्यायमेव नः सेवाऽवसर इत्याजग्मुरित्यर्थः ॥ 7.40 ॥

विश्वास-प्रस्तुतिः

सुराणां सेवाप्रकारमेवाह-
उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ 7.41 ॥

मूलम्

सुराणां सेवाप्रकारमेवाह-
उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ 7.41 ॥

अन्वयः

तस्य सहस्ररश्मिः त्वष्ट्रा निर्मितं नवम् आतपत्रम् उपाददे । तद्दुकूलात् अविदूरमौलिः स उत्तमाऽङ्गे पतद्गङ्ग इव बभौ ।

मल्लिनाथः

उपादद इति । तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा वश्वकर्मणा निर्मितं नवमातपत्रमुपाददे । धृतवानित्यर्थः । उत्प्रेक्षते- तद्दुकूलात्तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादविदूरमौलिः । तद्दुकूलस्यासन्नमौलिरित्यर्थः । स हर उत्तमाङ्गे शिरसि । ‘उत्तमाङ्गं शिरः शीर्षम्’ इत्यमरः । पतन्ती गङ्गा यस्य स पतद्गङ्ग इव बभौ । तद्दुकूलादित्यत्र ‘दूरान्तिकार्थैः षष्ट्यन्यतरस्याम्’ इति दूरार्थयोगे विकल्पेन पञ्चमी । नाथेनोक्तम् ‘अन्यारात्-’ इत्यवाराच्छब्दस्यार्थग्रहणार्थत्वात् पञ्चमीति तदनाकरम् । किंचास्य शास्त्रोक्तविकल्पापवादत्वात् ‘दूरं ग्रामस्य’ इत्यादि षष्ठीप्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव ॥ 7.41 ॥

विश्वास-प्रस्तुतिः

मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् ।
समुद्रगारुपविर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥ 7.42 ॥

मूलम्

मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् ।
समुद्रगारुपविर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥ 7.42 ॥

अन्वयः

तदानीं मूर्ते गङ्गायमुने सचामरे समुद्रगारुपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे (सत्यौ) देवम असेविषाताम् ।

मल्लिनाथः

मूर्ते इति । गङ्गा च यमुना च गङ्गायमुने मूर्ते विग्रहधारिण्यौ सचामरे चामरसहिते सत्यौ । अत एव समुद्रगा नदी तस्या रूपं स्वरूपं तस्य विपर्ययेऽप्यभावेऽपि सह हंसपातेन हंसचारेण वर्तेत इति सहंसपाते इव ‘तेन सहेति तुल्ययोगे’ इति बहुव्रीहिः । ‘वोपसर्जनस्य’ इति सभावः । लक्ष्यमाणे दृश्यमाने सत्यौ तदानीं विवाहसमये देवमसेविषातामभजताम् । सेवतेर्लङ् । गङ्गायमुने चामरग्राहिण्यौ देवमुपतस्थतुर्त्यर्थः ॥ 7.42 ॥

विश्वास-प्रस्तुतिः

तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
जयेति वाचा महिमानमस्य संवर्धयन्तौ हविषेब वह्निम् ॥ 7.43 ॥

मूलम्

तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
जयेति वाचा महिमानमस्य संवर्धयन्तौ हविषेब वह्निम् ॥ 7.43 ॥

अन्वयः

प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् तम् अभ्यगच्छत्, ‘जय’ इति वाचा अस्य महिमानं हविषा वह्निम् इव संवर्धयन्तौ तम् अभ्यगच्छत् (अभ्यगच्छताम्) ।

मल्लिनाथः

तमिति । प्रथम आद्यो विधाता चतुर्मुखस्तथा श्रीवत्सलक्ष्मा श्रीवत्साङ्कः पुरुषो विष्णुश्च साक्षात्तं देवमभ्यगच्छत्संमुखमाययौ । किं कुर्वन्ती । जयेति वाचा जयशब्देनास्येश्वरस्य महिमानं महत्वं हविषा वह्नि मिव संवर्धयन्तौ वृद्धिं गमयन्तौ ॥ 7.43 ॥

विश्वास-प्रस्तुतिः

न चानुचितमेतदुक्तमित्याह-
एकैव मूर्तिर्विभिदै त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥ 7.44 ॥

मूलम्

न चानुचितमेतदुक्तमित्याह-
एकैव मूर्तिर्विभिदै त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥ 7.44 ॥

अन्वयः

सा एका एव मूर्तिः त्रिधा बिभिदे । एषां प्रथमाऽवरत्वं सामान्यम् । कदाचित् हरः विषणोः अद्यः, कदाचित् हरिः तस्य आद्यः, कदाचित् वेधाः तयोः आद्यः, कदाचित् तौ द्वो अपि धातुः आधौ ।

मल्लिनाथः

एकैवेति । सैकैव मूर्तिस्त्रिघा ब्रह्मविष्णुशिवात्मकत्वेन बिभिदे । औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां त्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कन्ष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्धरो विष्णोराद्यः । कदाचिद्धरिस्तस्याद्यः । कदाचिद्वेधास्तथोर्हरिहरयोराद्यः । कदाचित्तौ हरिहरावपि धातुः स्त्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् ॥ 7.44 ॥

विश्वास-प्रस्तुतिः

तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
दृष्ठिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ 7.45 ॥

मूलम्

तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
दृष्ठिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ 7.45 ॥

अन्वयः

पुरुहुतमुख्या लोकपाला, श्रीलक्षणोत्सर्गविनीतवेषाः (सन्तः) द्दष्टिप्रदाने कृतनन्दिसंज्ञाः तद्दर्शिताः प्राञ्जलयः (सन्तः) प्रणोमुः ।

मल्लिनाथः

तमिति । पुरुहूतमुख्या इन्द्रादयो लोकपालाः श्रीलक्षणानामैश्वर्यचिह्नानां छत्त्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृिष्टिप्रदाने दर्शननिमित्ते । दर्शनप्रदानार्थमित्यर्थः । कृता नन्दिनः प्रतिहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृतहस्तादिसूचना इत्यर्थः । ‘संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्यसूचना’ । इत्यमरः । तद्दर्शितास्तेन नन्दिना दर्शिता अयमिन्द्रः प्रणमत्ययं चन्द्र इत्याद्युक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तं भवं प्रणेमुः प्रणताः ॥ 7.45 ॥

विश्वास-प्रस्तुतिः

कम्पेन मूर्ध्रः शतपत्रयोनिं, वाचा हरिं, वुत्रहणं स्मितेन ष
आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥ 7.46 ॥

मूलम्

कम्पेन मूर्ध्रः शतपत्रयोनिं, वाचा हरिं, वुत्रहणं स्मितेन ष
आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥ 7.46 ॥

अन्वयः

स शतपत्रयोनिं मूर्ध्नः कम्पेन, हरिं वाचा, वृणहणं स्मितेन, अशेषान् सुरान् आलोकमात्रेण यथाप्रधानं संभावयामास ।

मल्लिनाथः

कम्पेनेति । स देवः शतपत्रयोनिं चतुर्मुखं मूर्ध्नः कम्पेन, तथा हरिं वाचा संभाषणेन,वृत्रं हतवन्तंवृत्रहणमिन्द्रम् । ‘ब्रह्मभ्रूणवृत्रेषु क्विप्’ इति क्विप् । स्मितेन मन्दहासेना शेषान्सुरानालोकमात्रेण दृष्टिमात्रेणेत्थं यथाप्रधानं यथार्ह संभावयामास ॥ 7.46 ॥

विश्वास-प्रस्तुतिः

तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥ 7.47 ॥

मूलम्

तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥ 7.47 ॥

अन्वयः

तस्मै सप्तर्षिभिः पुरस्तात् जयाशीः ससृजे । स तान् ‘विवते अत्र विवाहयज्ञे यूयं मया पूर्ववृता अध्वर्यवः’ इति स्मितपूर्वम् आह ।

मल्लिनाथः

तस्मा इति । तस्मै शिवाय सप्तर्षिभिः । ‘दिक्संख्ये संज्ञायाम्’ इति समासः । पुरस्तादग्रे जयेत्याशीः ससृजे प्रयुक्ता स तान्सप्तर्षीन्स्मितपूर्वमाह-किमिति । वितते विस्तृतेऽत्र प्रवर्तिते विवाह एव यज्ञस्तस्मिन्यूयं मया पूर्वमेव वृताः प्रार्थिता अध्वर्यवः ऋत्विज इति । विशेषवाचिना सामान्यमुक्तम् ॥ 7.47 ॥

विश्वास-प्रस्तुतिः

विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्घ्यस्ततार ताराधिपखण्डधारी ॥ 7.48 ॥

मूलम्

विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्घ्यस्ततार ताराधिपखण्डधारी ॥ 7.48 ॥

अन्वयः

विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरा।़वदानः अध्वान्तविकारलङ्घ्यः ताराऽधिपखण्डधारी अध्वानं ततार ।

मल्लिनाथः

विश्वावस्थिति । विश्वावसुर्नाम कश्चिद् गन्धर्वो देवगायकस्तत्प्राग्रहरैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणैर्नीपुणैर्वा । ‘प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः’ इत्यमरः । त्रयाणां पुराणां समाहारस्त्रिपुरम् । ‘तद्धितार्थोत्तरपदे-‘त्याद्ना समाहारसमासः । ‘पात्रादिभ्यः प्रतिषेधो वक्तव्यः’ इति स्त्रीलिङ्गतानिषेधः । त्रिपुरस्य संबन्ध्यवदानं पूर्ववृत्तं कर्म विजयरूपं त्रिपुरावदानं तत्संगीयमानं स्तूयमानं यस्य स तथोक्तः । ‘अवदानं कर्म वृत्तम्’ इत्यमरः । ध्वान्तं तमः । मोह इति यावत् । तद्विकरेण रागादिना लङ्घ्योऽभिभवनीयो न भवतीत्यध्वान्तविकारलङ्घ्यः । विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुरध्वानं मार्गं ततारात्यगच्छत् ॥ 7.48 ॥

विश्वास-प्रस्तुतिः

खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः ।
तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥ 7.49 ॥

मूलम्

खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः ।
तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥ 7.49 ॥

अन्वयः

खे खेलगामी सशब्दचामीकरकिङ्किणीन्दः वाहः प्रोतधने तटाऽभिघातात् लग्नपङ्के इव विषाणे मुहुः धुन्वन् (सन्) तम् उवाह ।

मल्लिनाथः

ख इति । ख आकाशे खेलं सुन्दरं गच्छतीति खेलगामी । सशब्दाः शब्दायमानाश्चामीकरकिंकिण्यः काञ्चनक्षुद्रघण्टिका यस्य स तथोक्तः । ‘किङ्किणी क्षुद्रधण्टिका’ । इत्यमरः । ‘नद्युतश्च’ इति कप् । वाह्यतेऽनेनेति वाहो वृषभः । करणे घञ् । प्रोतधने स्यूतमेघे अत एव तटाभिघाताद्रोधोभेदाल्लग्नपङ्के श्लिष्टकर्दमे इव स्थिते विषाणे श्रृङ्गेमुहुर्धुन्वंस्तं हरमुवाह वहति स्म ॥ 7.49 ॥

विश्वास-प्रस्तुतिः

स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ॥ 7.50 ॥

मूलम्

स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ॥ 7.50 ॥

अन्वयः

सः अप्राप्तपराऽभियोगं नगेन्द्रगुप्तं नगरं पुरो विलग्नैः हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात् प्रापत् ।

मल्लिनाथः

स इति । स वाहोऽप्राप्तः पराभियोगः शत्रुसमाक्रान्तिर्यस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नगरमोषधिप्रस्थं पुरोऽग्रे विलग्नैः संक्रान्तैर्हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात्प्रापत् । अन्यथा कथं दूरस्याशुप्राप्तिः स्यादिति भावः । पुरः प्रसृता हरदृष्टयः पिङ्गलवर्णत्वात्सौवर्णानि वृषाकर्षणदामानीवालक्ष्यन्तेत्यर्थः ॥ 7.50 ॥

विश्वास-प्रस्तुतिः

तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः ॥ 7.51 ॥

मूलम्

तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः ॥ 7.51 ॥

अन्वयः

तस्य उपकण्ठे घननीलकण्ठो देवः कुतूहलात् उन्मुखपौरदृस्टऋ (सन्) स्वबाणचिह्नात्मार्गात् घननीलकण्ठो अवतीर्य आसन्नभूपृष्ठम् इयाय ।

मल्लिनाथः

तस्येति । तस्य पुरस्योपकण्ठेऽन्तिके धनो मेध इव नीलः कण्ठो यस्य स धननीलकण्ठो देवः कुतूहलाद्दर्शनोत्सुक्यादुन्मुखैः पौरैर्द्दंष्टः सन् । स्वबाणाचिह्नात्त्रिपुरविजयसमये स्वबाणाङ्कान्मार्गात् कुतश्चिदाकाशदेशादवतीर्यावरुह्यासन्नभूपृष्ठं निकटभूतटमियाय प्राप ॥ 7.51 ॥

विश्वास-प्रस्तुतिः

तमृद्धिमद्वन्धुजनाधिरुढैर्वृन्दैर्गजानां गिरिचक्रवर्ती ।
प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ॥ 7.52 ॥

मूलम्

तमृद्धिमद्वन्धुजनाधिरुढैर्वृन्दैर्गजानां गिरिचक्रवर्ती ।
प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ॥ 7.52 ॥

अन्वयः

आगमनप्रतीतः गिरिचक्रवर्ती ऋद्धिमद्बन्धुजनाऽधिरुढैः गजानां वृन्दैः प्रफुल्लवृक्षैः स्वैः कटकैः इव तं प्रत्युज्जगाम ।

मल्लिनाथः

तमिति । आगमनेन शिवागमनेन प्रतीतो हृष्टो गिरिचक्रवर्ती पर्वताधिराजो हिमवानृद्धिमता वस्त्रालङ्कारादिसमृद्धेन बन्धुजनेनाधिरुढैः । अनेन बन्धूनां समसाम्यं सूचितम् । गजानां वृन्दैः प्रफुल्ला विकसितकुसुमा वृक्षा येषु तैः स्वैः स्वकीयैः कटकैर्नितम्बैरिव तं हरं प्रत्युज्जगामाभिययौ । ‘कटकोऽस्त्री नितम्बोऽद्रेः’ इत्यमरः ॥ 7.52 ॥

विश्वास-प्रस्तुतिः

वर्गावुभौ देवमहीधराणां द्वारेपुरस्योद्धटितापिधाने।
समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवौधौ ॥ 7.53 ॥

मूलम्

वर्गावुभौ देवमहीधराणां द्वारेपुरस्योद्धटितापिधाने।
समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवौधौ ॥ 7.53 ॥

अन्वयः

दूरविसर्पिघोषौ देवमहीधराणाम् उभौ वर्गौ उद्घटिताऽपिधाने पुरस्य द्वारे भिन्नेकसेतू पयसाम् ओघौ इव समीयतुः ।

मल्लिनाथः

वर्गाविति । दूरविसर्पी दूरगामी घोषो ययोस्तौ देवाश्च महीधराश्च तेषां देवमहीधराणामुभौ वर्गाबुद्धटितापिधानेऽपनीतकवाटे पुरस्य द्वारे भिन्ने दीर्ण एकसेतुः याभ्यां तौ भिन्नैकसेतू पयसामोघो प्रवाहाविव समीयतुः संगतौ ॥ 7.53 ॥

विश्वास-प्रस्तुतिः

ह्रीमानभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
पूर्वं महिम्ना स हि तस्य दूरमावर्जितं नात्मशिरो विवेद ॥ 7.54 ॥

मूलम्

ह्रीमानभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
पूर्वं महिम्ना स हि तस्य दूरमावर्जितं नात्मशिरो विवेद ॥ 7.54 ॥

अन्वयः

भूमिधरः त्रैलोक्यवन्द्यैन हरेण कृतप्रणामः (सन्) ह्रीमान् अभूत्, हि स पूर्वं तस्य महिम्ना दूरम् आवर्जितम् आत्मशिरो न विवेद ।

मल्लिनाथः

ह्रिमानिति । भूमिधरो हिमवान् । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्ष्यञ्प्रत्ययः । तस्य वन्द्येन नमस्कार्येण कृतप्रणामः सन् । ‘ऋत्विक्पितृव्यश्वशुरमातुलानां यवीयसाम् । प्रवयाः प्रथमं कुर्यात्प्रयुत्थायाभिवादनम् ॥’ इति स्मरणात् । हीमानभूत् । महादेवं प्रति स्वयमल्पत्वात्संकोचं प्रापेत्यर्थः । ननु विदितेश्वरमाहिम्नः स्वयं प्रागेव प्रणतस्य जामातुराचारमात्रस्वीकारे कः संकोच इति शङ्कां निरस्यति-पूर्वमिति । हि यस्मात्स हिमवान्पूर्वं प्रागेव तस्येश्वरस्य महिम्ना सामर्थ्येन दूरमत्यन्तमावर्जितं नमितमात्मशिरो न विवेद । सत्यं स्वयं प्रणतत्वानुसंधानेन संकोचःतदनुसंधानं त्वौत्सुक्यान्नास्तीति भावः ॥ 7.54 ॥

विश्वास-प्रस्तुतिः

स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य ।
प्रावेशयन्मन्दिरमृद्धमेन मागल्फकीर्णापणमार्गपुष्पम् ॥ 7.55 ॥

मूलम्

स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य ।
प्रावेशयन्मन्दिरमृद्धमेन मागल्फकीर्णापणमार्गपुष्पम् ॥ 7.55 ॥

अन्वयः

प्रीतियोगात् विकसन्मुखश्रीः स जामातुः अग्रेसरताम् उपेत्य एनम् आगुल्फकीर्णापणमार्गपुष्पम् ऋद्धं मन्दिरं प्रावेशयत् ।

मल्लिनाथः

स इति ।प्रीतियोगात्संतोषसंबन्धाद्विकसन्मुखश्रीर्विकसन्ती मुखश्रीर्यस्य स तथोक्तः स हिमवान् । जायां मिमीते जानातीति जामातुर्वरस्य । पृषोदरादित्वात्साधु । ‘जामाता दुहितुः पतिः’ इत्यमरः ।अग्रेसरतां पुरोगामित्वमुपेत्यैनंदेवमागुल्फं पादगर्न्थिपर्यन्तं कीर्णानि पर्यस्तान्यापणमार्गेषु पण्यवीथिकासु पुष्पाणि यस्मिंस्तदागुल्फकीर्णापणमार्गपुष्पम् । ‘तद्ग्रन्थी घुटके गुल्फौ’ इत्यमरः । ऋद्धं समृद्धं मन्दिरं नगरम् । ‘मन्दिरं नगरेऽगारे मन्दिरो मकरालयो’ । इति विश्वः । प्रावेशयत् ॥ 7.55 ॥

विश्वास-प्रस्तुतिः

तस्मिन्मुहूर्ते पुरसुन्दरीणमीशानसंदर्शनलालसानाम् ।
प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥ 7.56 ॥

मूलम्

तस्मिन्मुहूर्ते पुरसुन्दरीणमीशानसंदर्शनलालसानाम् ।
प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥ 7.56 ॥

अन्वयः

तस्मिन् मुहूर्ते ईशानसन्दर्शनलालसानां पुरसुन्दरीणां प्रासादमालासु इत्थं त्यक्ताऽन्यकार्याणि विचेष्टितानि बभूवुः ।

मल्लिनाथः

तस्मिन्निति । तस्मिन्मुहूर्ते हरपुरप्रवेशसमय ईशानस्य संदर्शने लालसानां लोलपानाम् । ‘लोलपो लोलभो लोलो लालसो लम्पटश्च सः’ इति यादवः । पुरसुन्दरीणां प्रासादमालास्वित्थं वक्ष्यमाणप्रकारेण त्यक्तान्यकार्याणि विमृष्टकार्यान्तराणि विचेष्टितानि ब्यापाराः । ‘नपुंसके भावे क्तः’ इति क्तः । बभूवुरासन् ॥ 7.56 ॥

विश्वास-प्रस्तुतिः

तान्येवाह पञ्चभिः श्लोकैः-
आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ 7.57 ॥

मूलम्

तान्येवाह पञ्चभिः श्लोकैः-
आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ 7.57 ॥

अन्वयः

आलोकमार्ग सहसा व्रजन्त्या कयाचित् उद्वेष्टनवान्तमाल्यः करेण रुद्धः अपि केशपाशः तावत् बद्धुं न संभवित एव ।

मल्लिनाथः

आलोकमार्गमिति । आलोकमार्ग दर्शनपथम् । गवाक्षमित्यर्थः । सहसा व्रजन्त्या कयाचिदुद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनोऽतएव वान्तमाल्य उद्गर्णमाल्यश्च यः स उद्वेष्टनवान्तमाल्यः करेण रुद्धो गृहीतः । अपि च केशपाशः केशकलापः । ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे’ इत्यमरः । तावदालोकनमार्गप्राप्तिपर्यन्तं बद्धुम् । वन्धनायेत्यर्थः । न संभावितो न स्मृत एव ॥ 7.57 ॥

विश्वास-प्रस्तुतिः

प्रसाधिकालम्बितमग्रपादमाक्षिपब्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ 7.58 ॥

मूलम्

प्रसाधिकालम्बितमग्रपादमाक्षिपब्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ 7.58 ॥

अन्वयः

काचित् प्रसाधिकाऽऽलम्बितं द्रवरागम् एव अग्रपादम् आक्षिप्य उत्सृष्टलीलगतिः (सती) आ गवाक्षात् पदवीम् अलक्तकाऽङ्कां ततान ।

मल्लिनाथः

प्रसाधिकेति । काचित्स्त्री प्रसाधिकयालंकर्त्र्यालम्बितं रञ्जनार्थ धृतं द्रवरागमेवार्द्रालक्तकमेव । अग्रश्चासो पादश्चाग्रपादः । इति समानाधिकरणसमासः । ‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्’ इति वामनः । तमाक्षिप्याकृष्योत्सृष्टलीलागतिस्त्यक्तमन्दगमना सत्यागवाक्षाद् गवाक्षपर्यन्तम् । पदद्वयमेतत् । पदवीमलक्तकाङ्कां लाक्षारसचिह्नां चकार ॥ 7.58 ॥

विश्वास-प्रस्तुतिः

विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसंनिकर्ष ययौ शलाकामपरा वहन्ती ॥ 7.59 ॥

मूलम्

विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसंनिकर्ष ययौ शलाकामपरा वहन्ती ॥ 7.59 ॥

अन्वयः

अपरा दक्षिणं विलोचनम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा (सती) तथा एव शलाकां वहन्ती वाताऽयनसन्निकर्ष ययौ ।

मल्लिनाथः

विलोचनमिति । अपरा स्त्रो दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य तद्वञ्चितं तेनाञ्जनेन वञ्चितं वर्जितं वामनेत्रं यस्याः सा तथोक्ता सती । तथैव तेनैव रुपेण शलाकामञ्जनकूर्चिकां वहन्ती बिभ्रती वातायनसंनिकर्ष गवाक्षसमीपं ययौ । दक्षिणग्रहणं संभ्रमाद् व्युत्क्रमद्योतनार्थम् । ‘सव्यं हि पूर्व मनुष्या अञ्जते’ इति श्रुतेः ॥ 7.59 ॥

विश्वास-प्रस्तुतिः

जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ 7.60 ॥

मूलम्

जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ 7.60 ॥

अन्वयः

अन्वया जालान्तरप्रेषितदृष्टिः (सती) प्रस्थानभिन्नां नीवीं न बबन्धः, नाभिप्रविष्टाभरणप्रभेण हस्तेन वासः अवलम्ब्य तस्थौ ।

मल्लिनाथः

जालान्तरेति । अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमभ्यप्रसारितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वस्त्रग्रन्थितम् । ‘नीवी परिपणे ग्रन्थौ स्त्रीणां जधनवाससि’ । इति विश्वः । न बबन्ध नाबध्नात् र्कितु नाभिं प्रविष्टाभरणानां कङ्कणानां प्रभा यस्य तेन । प्रभैव नाभेरावरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य धृत्वा तस्थौ ॥ 7.60 ॥

विश्वास-प्रस्तुतिः

अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रसना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ 7.61 ॥

मूलम्

अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रसना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ 7.61 ॥

अन्वयः

सत्वरम् उत्थितायाः कस्याश्चित् अर्धाचिता रशना दुर्निमिते पदे पदे गलन्ती सती तदानीम् अङ्गुष्ठमूलाऽर्पितसूत्रशेषा आसीत् ।

मल्लिनाथः

अर्धाचितेति । सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धाचिता मणिभिर्गुम्फितार्धाचिता दुर्निमिते संभ्रमाद् दुखेन निक्षिप्ते । ‘डुमिञ्प्रक्षेपणे’ इति धातोः कर्मणि क्तः । पते पते प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गलद्रत्ना सती रसना मेखला तदानीं तस्मिन्निवसरेऽङ्गुष्ठमूलऽर्पितं लगितं सूत्रमेव शेषो यस्याः सासीत् ॥ 7.61 ॥

विश्वास-प्रस्तुतिः

तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्त्राभरणा इवासन् ॥ 7.62 ॥

मूलम्

तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्त्राभरणा इवासन् ॥ 7.62 ॥

अन्वयः

सान्द्रकुतूहलानां तासाम् आसवगन्धगर्भैः विलोलनेत्रभ्रमरैः मुखैः व्याप्ताऽन्तरा गवाक्षा सहस्रपत्त्राभरणा इव आसन् ।

मल्लिनाथः

तासामिति । तदानीं सान्द्रकुतूहलानां तासां स्त्रोणामासवगन्धो गर्भे येषां तैः । विलोलानि नेत्राण्येव भ्रमरा येषु तैर्मुखेर्व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्त्राभरणा इवासन् । कमलालंकृता इव स्थिता इत्यथः ॥ 7.62 ॥

विश्वास-प्रस्तुतिः

तावप्तताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे ।
प्रासादशृङ्गाणि दिवापि कुर्वञ्योत्स्नाभिषेकद्विगुणद्युतीनि ॥ 7.63 ॥

मूलम्

तावप्तताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे ।
प्रासादशृङ्गाणि दिवापि कुर्वञ्योत्स्नाभिषेकद्विगुणद्युतीनि ॥ 7.63 ॥

अन्वयः

तावत् इन्द्रमौलिः दिवा अपि प्रासादश्रृङ्गाणि ज्योत्स्नाऽभिषेकद्विगुणद्युतीनि कुर्वन् पताकाऽऽकुलम् उत्तोरणं राजपथं प्रपेदे ।

मल्लिनाथः

तावदिति । तावत्तस्मिन्नवसर इन्दुमौलिरीश्वरो दिवापि प्रासादश्रृङ्गाणि ज्योत्स्नाया अभिषेकेन स्नपनेन द्विगुणद्युतीति द्विरावृत्तकान्तीनि । ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’ । इति वैजयन्ती । कुर्वन्पताकाभिराकुलं व्याकीर्णमुत्तोरणमुच्छ्रिततोरणं राजपथं प्रपेदे ॥ 7.63 ॥

विश्वास-प्रस्तुतिः

तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ 7.64 ॥

मूलम्

तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ 7.64 ॥

अन्वयः

एकदृश्यं तं नयनैः पिबन्त्यो नार्यो विषयान्तराणि न जग्मुः, तथा हि-आसां शेषेन्द्रियवृत्तिः सर्वात्मना चक्षुः प्रविष्टा इव ।

मल्लिनाथः

तमिति । एक एव दृश्यो दर्शनीयस्तमेकदृश्यं तमीश्वरं नयनैः पिबन्त्यः । अतितृष्णया पश्यन्त इत्यर्थः । ‘ताः शंकरं दृष्टिभिरापिबन्त्यः’ इति वा पाठः । नार्यो विषान्तराणि ततोऽन्यान्विषयान् । शब्दादीनित्यर्थः । न जग्मुः । न विदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादिप्रवृत्तिः सर्वात्मना स्वरुपकार्त्स्न्येन चक्षुः प्रिविष्टेव । श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु । अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ।
अथ पौराङ्गनावचनान्याह–

विश्वास-प्रस्तुतिः

स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयापि तप्तम् ।
या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम् ॥ 7.65 ॥

मूलम्

स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयापि तप्तम् ।
या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम् ॥ 7.65 ॥

अन्वयः

पेलवया अपि अपर्णया एतदर्थ दुश्चरं तपः स्थाने । या नारी अस्य दास्यम् अपि लभेत्, सा कृताऽर्था स्यात् या अङ्कशय्यां लभेत सा किमुत ?

मल्लिनाथः

स्थान इति । पेलवया कोमलयाप्यपर्णया पार्वत्या तस्मै शिवायैतदर्थम् । ‘अर्थेन सह नित्यसमासः सर्वलिङ्गता च’ इति विशेष्यनिध्नत्वम् । दुश्चरं तपस्तप्तं स्थाने युक्तम् । कुतः ? या नार्यस्येश्वरस्य दास्यं दासीत्वमपि लभेत, सा कृतार्था स्यात् । या अङ्क एव शय्या तामङ्कशय्यां लभेत सा किमुत । कृतार्थेति किमु वक्तव्यमित्यर्थः ? ॥ 7.65 ॥

विश्वास-प्रस्तुतिः

परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रुपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत् ॥ 7.66 ॥

मूलम्

परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रुपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत् ॥ 7.66 ॥

अन्वयः

स्पृहणीयशोभम् इदं द्वन्द्वं परस्परेण न अयोजयिष्यत् यदि, (तर्हि) प्रजानां पत्युः अस्मिन् द्वये रुपविधानयत्नः विफलः अभविष्यत् ।

मल्लिनाथः

परस्परेणेति । स्पृहणीयशोभं सर्वैराशास्यमानसौन्दर्यंमिदं द्वन्द्वं मिथुनम् । ‘द्वन्द्वं रहस्ये-’ ति निपातः । परस्परेण नायोजयिष्मद्यदि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रुपविधाने सौन्दर्यनिर्माणे यत्नः प्रयासो विफलोऽभविष्यद्भवेत् । एतदनुरुपस्त्रीपुंसान्तराभावादिति भावः । ‘लिङ्निमित्ते लृङक्रियातिपत्तौ’ इति लृङ् ॥ 7.66 ॥

विश्वास-प्रस्तुतिः

न नूनमारुढरुषा शरीरमनेन दग्धं कुसुमायुधस्य ।
व्रीजादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः ॥ 7.67 ॥

मूलम्

न नूनमारुढरुषा शरीरमनेन दग्धं कुसुमायुधस्य ।
व्रीजादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः ॥ 7.67 ॥

अन्वयः

आरुढरुषा अनेन कुसुमायुधस्य शरीरं न दग्धं नूनम् । (किन्तु) कामः अमुम् देवम् उदीक्ष्य व्रीडात् स्वयम् एव संन्यस्तदेहः (इति) मन्ये ।

मल्लिनाथः

नेति । आरुढरुषा प्ररुढकोपेनानेन हरेण कुसुमायुधस्य कामस्य शरीरं न दग्धं नूनं किन्तु कामोऽमुं देवमुदीक्ष्य दृष्ट्वा व्रीडात्सौन्दर्येणजितोऽस्मीति लज्जया स्वयमेव संन्यस्तदेहस्त्यक्तदेह इति मन्ये इत्युत्प्रेक्षा । न स्वयं न्यस्ताकृतेः कोपः संभवतीति भावः ॥ 7.67 ॥

विश्वास-प्रस्तुतिः

काचित्कांचिदाह-
अनेन संबन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि ! क्षितिधारणोच्च मुच्चैस्तरं वक्ष्यति शैलराजः ॥ 7.68 ॥

मूलम्

काचित्कांचिदाह-
अनेन संबन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि ! क्षितिधारणोच्च मुच्चैस्तरं वक्ष्यति शैलराजः ॥ 7.68 ॥

अन्वयः

हे आलि ! शैलराजः दिष्ट्या मनोरथप्रार्थितम् अनेन ईश्वरेण सम्बन्धम् उपेत्य क्षितिधारणेन उच्चं मूर्धानम् उच्चैस्तरं वक्ष्यति ।

मल्लिनाथः

अनेनेति । हे आलि सखि ! ‘आलिः सखी वयस्या च’ इत्यमरः । शैलराजो हिमवान् । दिष्ट्यैत्यानन्देऽव्ययम् । मनोरथैः प्रार्थितमवरुद्धम् । अभिलाषविषयीकृतमित्यर्थः । ‘प्रार्थना याञ्चावरोधयोः’ इत्यभिधानात् । अनेनेश्वरेण संबन्धमुपेत्यवाप्य क्षितिधारणेनोच्चमुन्नतं मूर्धानमुच्चैस्तरमुन्नततरम् । उच्चैरित्यव्ययात्तरप्प्रत्ययः । मूर्ध्नो द्रव्यत्वान्नामुप्रत्ययान्तो निपातः । ‘किमेतिङव्ययघादाम्वद्रव्यप्रकर्षे’ इत्यादिनाऽद्वव्यप्रकर्षे तस्य विधानादिति । वक्ष्यति धारयिष्यति । वहतेर्लृट् ॥ 7.68 ॥

विश्वास-प्रस्तुतिः

इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः ।
केयूरचूर्णीकृतलाजमुर्ष्टि हिमालयस्यालयमाससाद ॥ 7.69 ॥

मूलम्

इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः ।
केयूरचूर्णीकृतलाजमुर्ष्टि हिमालयस्यालयमाससाद ॥ 7.69 ॥

अन्वयः

त्रिनेत्रः इति ओषधिप्रस्थविलासिनीनां श्रोत्रसुखाः कथाः श्रृण्वन् केयूरचूर्णिकृतलाजमुष्टिं हिमालयस्य आलयं समाससाद ।

मल्लिनाथः

इतीति । त्रिनेत्रस्त्र्यम्वकः । त्रिनेत्रत्रिनयनशब्दयोः ‘क्षुभ्नादिषु च’ इति णत्वाभावः । इतीत्थमेषधिप्रस्थविलासिमीनां संबन्धिनीः श्रोत्रसुखाः श्रवणमधुराः कथा आलापाञ्छृण्वन्केयूरैरङ्गदैश्चूर्णीकृता लाजानां मुष्टयो यस्मिंमस्तं तथोक्तम् । तत्रावकीर्णा आचारलाजा अन्तराल एवाङ्गदैश्चूर्णपेषं पिष्यन्त इति पुरन्ध्रिजनसंबन्धातिशयोक्तिः । हिमालयस्य हिमवत आलयं भवनमाससाद ॥ 7.69 ॥

विश्वास-प्रस्तुतिः

तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः ।
क्रान्तानि पूर्व कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥ 7.70 ॥

मूलम्

तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः ।
क्रान्तानि पूर्व कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥ 7.70 ॥

अन्वयः

तत्र अच्युतदत्तहस्तः शरद्धनात् दीधितिमान् इव उक्ष्णः अवतीर्य कमलासनेन पूर्व क्रान्तानि अद्रिपतेः कक्ष्यान्तराणि विवेश ।

मल्लिनाथः

तत्रेति । तत्र हिमवदालयेऽच्युतेन विष्णुना दत्तहस्तः विस्तीर्णहस्तावल्म्बः सन् । शरद्धनाच्छरन्मेधात् । शरद्विशेषणान्मेघस्य शुभ्रत्वं गम्यते । दीधितिमान्सूर्य इवोक्ष्णो वृषादवतीर्य कमलासनेन पूर्वमग्रे क्रान्तानि प्रविष्टान्यद्रिपतेः कक्ष्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश । ‘कक्ष्या कच्छे वरत्रायां काञ्च्यां गेहे प्रकोष्ठके’ । इति यादवः ॥ 7.70 ॥

विश्वास-प्रस्तुतिः

contine to july
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च ।
गणाश्च (3)गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥ 7.71 ॥
{3.अन्वगच्छन्.}

मूलम्

contine to july
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च ।
गणाश्च (3)गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥ 7.71 ॥
{3.अन्वगच्छन्.}

अन्वयः

तम् अन्वक् इन्द्रप्रमुखा देवाः, सप्तर्षिपूर्वाः परमर्षयो गणाश्च उत्तमाऽर्थाः प्रशस्तम् आरम्भम् इव गिर्यांलयम् अभ्यगच्छन् ।

मल्लिनाथः

तमिति । तमीश्वरमन्वगनुपदम् । अव्ययमेतत् । ‘अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्’ । इत्यमरः । इन्द्रप्रमुखा देवाश्च सप्तर्षयः पूर्वे येषां ते सप्तर्षिपूर्वाः । ‘न बहुव्रीहो’ इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । ‘सन्महत्परमेत्तमोत्कृष्टाः पूज्यमानैः’ इति तत्पुरुषः । गणाः प्रमथाश्चोत्तमार्था महाप्रयोजनाः आचाराः प्रशस्तं प्रकृष्टम् । अमोधमित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्यगच्छन् । प्राविशन्नित्यर्थः ॥ 7.71 ॥

विश्वास-प्रस्तुतिः

तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्ध्य मधुमच्च गव्यम् ।
नवे दुकूले च नगोपनीतं(1) प्रत्यग्रहीत्सर्वममन्त्रवर्जम्(2) ॥ 7.72 ॥
{1.नगोपनीते.2.बन्ध्यम्.}

मूलम्

तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्ध्य मधुमच्च गव्यम् ।
नवे दुकूले च नगोपनीतं(1) प्रत्यग्रहीत्सर्वममन्त्रवर्जम्(2) ॥ 7.72 ॥
{1.नगोपनीते.2.बन्ध्यम्.}

अन्वयः

तत्र ईश्वरः विष्टरभाक् यथावत् सरत्नम् अर्ध्य, मधुमत् गव्यं, नवे दुकूले च इति सर्व नगोपनीतम् अमन्त्रवर्जं प्रत्युग्रहीत् ।

मल्लिनाथः

तत्रेति । तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः । उपविष्ट इत्यर्थः । यथावद्यथार्हम् । विधिवदित्यर्थः । सरत्नंरत्नसहितमर्ध्यमर्घार्यं जलम् । मधु क्षौद्रमस्मिन्नस्तीर्ति मधुमत् । गवि भवं गव्यं दधि च । मधुपर्कमित्यर्थः । ‘दधिमधुनी सर्पिर्वा मध्वलाभे’ इत्याश्वलायनगृह्यसूत्रात् नवे दुकूले चेति सर्व नगोपनीतं हिमदानीतमर्ध्यादिकं मन्त्रान्वर्जयित्वा मन्त्रवर्जम् । ततो नञ्समासः । अमन्त्रवर्जम् । मन्त्रान्न वर्जयित्वेत्यर्थः । ‘द्वितीयायां च’ इति णमुल्प्रत्यय इत्याह न्यासकारः ‘अनुदात्तं पदमेकवर्जम्’ इत्यत्र । प्रत्यग्रहीत्स्वीकृतवान् ॥ 7.72 ॥

विश्वास-प्रस्तुतिः

दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधदक्षैः(3) ।
(4)वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥ 7.73 ॥
{3.पक्षैः.4.सकाशम्.}

मूलम्

दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधदक्षैः(3) ।
(4)वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥ 7.73 ॥
{3.पक्षैः.4.सकाशम्.}

अन्वयः

दुकूलवासाः स विनीतैः अवरोधदक्षैः वधूसमीपं सफुटफेनराजिः उदन्वान् नवैः चन्द्रपादैः वेलासमीपम् इव निन्ये ।

मल्लिनाथः

दुकूलेति । अथ दुकूलं वसान इत्यर्थः । स हरो विनींतैरनुद्धतैरवरोधेषु ये दक्षास्तैरवरोधदक्षैर्वधूसमीपं निन्ये नीतः । कथमिव । स्फुटा फेनानां राजिर्यस्य स उदकमस्यास्तीत्युदन्वान्समुद्रः । ‘उदन्वानुदधौ च’ इति निपातनात्साधुः । नवैरचिरोदितैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलासमीपमिव ॥ 7.73 ॥

विश्वास-प्रस्तुतिः

तया (1)प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
प्रसन्नचेतःसलिलः शिबोऽभूत्संसृज्यमानः शरदेव लोकः ॥ 7.74 ॥
{1.विवृद्ध.}

मूलम्

तया (1)प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
प्रसन्नचेतःसलिलः शिबोऽभूत्संसृज्यमानः शरदेव लोकः ॥ 7.74 ॥
{1.विवृद्ध.}

अन्वयः

प्रवृद्धानन चन्द्रकान्त्या तया कुमार्या शरदा लोक इव संसृज्यमानः शिवः प्रफुल्लचक्षुः कुमुदः प्रसन्नचेतःसलिलः अभूत् ।

मल्लिनाथः

तयेति । आननं चन्द्र इव इत्युपमितसमासः । प्रवृद्धाननचन्द्रस्य कान्तिर्यस्यास्तया तथोक्तया तया कुमार्या शरदा लोक इव संसृज्यमानः । संगच्छमानः शिवश्चक्षूंषि कुमुदानीव तानि प्रफुल्लानि यस्य स तथोक्तः । चेतः सलिलमिव तत्प्रसन्नं यस्य स तथोक्तः । प्रसन्नचेतः- सलिलोऽभूत् । शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि ॥ 7.74 ॥

विश्वास-प्रस्तुतिः

तयोः समापत्तिषु कातराणि किंचिंद्व्यवस्थापितसंहृतानि ।
ह्रीयन्त्रणां (2)तत्क्षणमन्वभूवन्नन्योन्लोलानि विलोचनानि ॥ 7.75 ॥
{2.आनशिरे मुहूर्तम्,आनशिरे मनोज्ञाम्.}

मूलम्

तयोः समापत्तिषु कातराणि किंचिंद्व्यवस्थापितसंहृतानि ।
ह्रीयन्त्रणां (2)तत्क्षणमन्वभूवन्नन्योन्लोलानि विलोचनानि ॥ 7.75 ॥
{2.आनशिरे मुहूर्तम्,आनशिरे मनोज्ञाम्.}

अन्वयः

तयोः समापत्तिषुः कातराणि किञ्चिद् व्यवस्थापितसंहृतानि अन्योन्यलोलानि विलोचनानि तत्क्षणं ह्रीयन्त्रणाम् अन्वभूवन् ।

मल्लिनाथः

तयोरिति । तयोर्वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि । ‘अधीरे कातरः’ इत्यमरः । द्रष्टुमसमर्थांनीति भावः । किंचिदीषद् व्यवस्थापितानि स्थिरीकृतानि पश्चात्संहृतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि । ‘पूर्वकाले-’ त्यादिना तत्पुरुषः । अन्योन्यस्मिंल्लोलानि सतृष्णानि । ‘लोलश्चलसतृष्णयोः’ । इत्यमरः । विलोचनानि दृष्टयस्तत्क्षणं तस्मिन्क्षणे ह्नीयन्त्रणां ह्रिया निमित्तेन संकोचमन्वभूवन् ॥ 7.75 ॥

विश्वास-प्रस्तुतिः

तस्याः करं शैलगुरुपनीतं जग्राह ताम्राङगुलिमष्टमूर्तिः ।
(3)उमातनौ गूढतनोः स्मरस्य (4)तच्छङ्किनः पूर्वमिव प्ररोहम् ॥ 7.76 ॥
{3.उमात्मना.4.तच्छङ्किनः.}

मूलम्

तस्याः करं शैलगुरुपनीतं जग्राह ताम्राङगुलिमष्टमूर्तिः ।
(3)उमातनौ गूढतनोः स्मरस्य (4)तच्छङ्किनः पूर्वमिव प्ररोहम् ॥ 7.76 ॥
{3.उमात्मना.4.तच्छङ्किनः.}

अन्वयः

अष्टमूर्तिः तच्छङ्किनः उमातनौ गूढतनोः स्मरस्य पूर्व प्ररोहम् इव (स्थितम्) शैलगुरुपनीतं ताम्राऽङ्गुलिं तस्याः करं जग्राह ।

मल्लिनाथः

तस्या इति । अष्टमूर्तिः शिवः । तस्मादीश्वराच्छङ्कत इति तच्छङ्किनः । तद्भीतस्येत्यर्थः । अतएवोमातनावुमाशरीरे गूढतनोर्गुप्तशरीरस्य स्मरस्य पूर्व प्ररोहमिव प्रथमाङ्कुरमिव स्थितं शैलगृरुपनीतं शैलगुरुणा हिमवतोपनीतं प्रापितम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं ताम्राङ्गुलिं रक्ताङ्गुलिं तस्याः पार्वत्याः करं जग्राह ॥ 7.76 ॥

विश्वास-प्रस्तुतिः

रोमोद्रमः प्रादुरभूतुमायाः (1)खिन्नाङ्गुलिः पुंगवकेतुरासीत् ।
वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥ 7.77 ॥
{1.चित्राङ्गुलिः.}

मूलम्

रोमोद्रमः प्रादुरभूतुमायाः (1)खिन्नाङ्गुलिः पुंगवकेतुरासीत् ।
वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥ 7.77 ॥
{1.चित्राङ्गुलिः.}

अन्वयः

उमाया रोमोद्गमः प्रादुरभूत । पुङ्गवकेतुः स्विनाऽङ्गुलि आसीत् । पाणिसमागमेन तयोः मनोभवस्य वृत्तिः समं विभक्ता इव अभूत् ।

मल्लिनाथः

रोमोद्गम इति । उमाया रोमोद्गमो रोमाञ्चः प्रादुरभूत् । पुमान्गौः पुंगवो वृषभः । ‘गोरतद्धितलुकि’ इति टच् । स केतुश्चिह्नं यस्य स पुंगवकेतुः शिवः स्विन्नाङ्गुलिरासीत् । अत्रोत्प्रेक्षते-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोर्वधूवरयोर्मनोभवस्य वृत्तिरवस्थितिः समं विभक्तेव । समीकृतेवत्यर्थः । प्राक्सिद्धस्याप्यनुरागसम्यस्य संप्रति तत्कार्य दर्शनात्पाणिसंस्पर्शकृतत्वमुत्प्रेक्षते । ननु कन्या तु प्रथमसंगमे स्विन्नकरचरणा भवति पुमास्तु रोमाञ्चितो भवतीति बात्स्यायनेन विपरीतमुक्तमिति चेन्नैष दोषः । एभिरनयोर्भावं परीक्षेतेति वाक्यशेष एभिरिति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्त्विकोपलक्षणत्वावगमेनानियमावधारणात् । अतएव रघुवंशेऽन्यथाभिधानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्रघुवंशसंजीविन्यां (7/22) सुव्यक्तमवोचम् । सात्त्विकास्तु ‘स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ।’ इति ॥ 7.77 ॥

विश्वास-प्रस्तुतिः

प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्ति मग्रयाम् ।
सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ? ॥ 7.78 ॥

मूलम्

प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्ति मग्रयाम् ।
सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ? ॥ 7.78 ॥

अन्वयः

यत् प्रयुक्तपणिग्रहणम् अन्यत् वधूवरम् अनयोः सान्निध्ययोगात् अग्रयां कान्तिं पुष्यति. तदानीं तस्य उभयस्य श्रीः किं कथ्यते ?

मल्लिनाथः

प्रयुक्तेति । यद्यस्मात्कारणात्प्रयुक्तं पाणिग्रहणं यस्य तत्तथोक्तमन्यल्लौकिकम् । वधूश्च वधूवरम् । समाहारे द्वन्द्वै कवद्भावः । तदानीं पाणिग्रहणकालेऽनयोरुमाशिवयोः सांनिध्ययोगात्संनिधिभावादग्रयामुत्तमां कान्तिं शोभां पुष्यति पुष्णाति तस्योभयस्योमामहेश्वररुपस्य मिथुनस्य श्रीः किं कथ्यते । यत्प्रसादादन्यस्य शोभालाभस्तस्य किमु वक्तव्येत्यर्थः । ‘विवाहसमये गौरोशिवौ वधूवरावनुप्रविशेताम्’ इत्यागमः ॥ 7.78 ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्संसक्तमहस्त्रियामम् ॥ 7.79 ॥

मूलम्

प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्संसक्तमहस्त्रियामम् ॥ 7.79 ॥

अन्वयः

तत् मिथुनम् उदर्चिषः कृशानोः प्रदक्षिणप्रक्रमात् मेरोः उपान्तेषु वर्तमानम् अन्योन्संसक्तम् अहस्त्रियामम् इव चकासे ।

मल्लिनाथः

प्रदक्षिणेति । तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात्प्रदक्षिणीकरणाच्चकासे । किमिव । मेरोरुपान्तेषु परिसरेषु वर्तमानमावर्तमानम् । मेरुं प्रदक्षिणीकुर्वंनित्यर्थः । अन्योन्येन संसक्तं संगतम् मिथुनस्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिं दिवमिव । समाहरे द्वन्द्वैकवद्भावः ॥ 7.79 ॥

विश्वास-प्रस्तुतिः

तौ दंपती त्रिः परिणीय वह्निमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ॥ 7.80 ॥

मूलम्

तौ दंपती त्रिः परिणीय वह्निमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ॥ 7.80 ॥

अन्वयः

स पुरोधाः अन्योन्संस्पर्शनिमोलिताक्षौ तौ दम्पतीः वह्नि त्रिः परिणीय समिद्धाऽर्चिषि तस्मिन् वधूं लाजमोक्षं कारयामास ।

मल्लिनाथः

ताविति । स पुरस्तादेव हितं विधत्त इति पुरोधाः पुरोहितोऽन्योन्यस्य संस्पर्शन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दंपती कर्मभूतौ । जायाशब्दस्य दंभावो निपातितः । वह्निं त्रिस्त्रिवारम् । ‘द्वित्रिचतुर्भ्यः सुच्’ सुच् । परिणीय परितो नीत्वा । प्रदक्षिणीकार्येत्यर्थः । नयतेर्द्विकर्मकाल्ल्यप् । समिद्धार्चिषि दीप्तज्वाले तस्मिन्वह्नौ वधूं लाजविसर्ग कारयामास । ‘हृक्रोरन्यतरस्याम्’ इति विकल्पादणिकर्तुः कर्मत्वम् ॥ 7.80 ॥

विश्वास-प्रस्तुतिः

सा लाजधूमाञ्जलिमिष्टगन्धं गुरुपदेशाद्वदनं निनाय ।
कपोलसंसर्पिशिखः स तस्या सुहूर्तकर्णोत्पलतां प्रपेदे ॥ 7.81 ॥

मूलम्

सा लाजधूमाञ्जलिमिष्टगन्धं गुरुपदेशाद्वदनं निनाय ।
कपोलसंसर्पिशिखः स तस्या सुहूर्तकर्णोत्पलतां प्रपेदे ॥ 7.81 ॥

अन्वयः

सा गुरुपदेशात् इष्टगन्धं लाजधूमाञ्जर्लि वदनं निनाय । कपोल संसर्पिशिखः स तस्याः मुहूर्तकर्णोत्पलतां प्रपेदे ।

मल्लिनाथः

सेति । सा वधूर्गुरोः पुरोधस उपदेशादिष्टः । घ्राणतर्पण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं निनाय । कपोलसंसर्पिणी शिखा यस्य स तथोक्तः स धूमस्तस्य गौर्या मुहूर्तकर्णोत्पलतां प्रपेदे । धूमस्य विसृमरत्वान्मुहूर्तग्रहणम् ॥ 7.81 ॥

विश्वास-प्रस्तुतिः

तदीषदार्द्रारुणगण्डलेखमुच्छासिकालाञ्जनरागमक्ष्णोः ।
वधूमुखं क्लान्तयवावतंसमाचारधूपग्रहणाद्वभूव ॥ 7.82 ॥

मूलम्

तदीषदार्द्रारुणगण्डलेखमुच्छासिकालाञ्जनरागमक्ष्णोः ।
वधूमुखं क्लान्तयवावतंसमाचारधूपग्रहणाद्वभूव ॥ 7.82 ॥

अन्वयः

तद् वधूमुखम् आचारधूमग्रहणात् ईषदार्द्रारुणगण्डलेखम् अक्ष्णोः उच्छ्वासिकालाञ्जनरागं क्लान्तयवाऽवतंसं बभूव ।

मल्लिनाथः

तदिति । तद्वधूमुखमाचारमधूपग्रहणादाचारप्राप्तधूमत्वादीषदार्द्रे स्विन्ने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथोक्तम् । अक्ष्णोरुच्छ्वास्युद्गच्छन् कालाञ्जनस्य रागोऽञ्जनं यस्य तत्तथोक्तम् । क्लान्तो यवावतंसो यवाङ्कुरकर्णपूरो यस्य तत्तथाभूतं बभूव । ‘लाजाञ्जलिं विसृज्य धूमाग्रं जिघ्रेत्’ इति प्रयोगवृत्तिकारः ॥ 7.82 ॥

विश्वास-प्रस्तुतिः

वधूं द्विजः प्राह तवैष वत्से वह्निर्विवाहं प्रति (1)कर्मसाक्षी ।
शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥ 7.83 ॥
{1.पूर्वसाक्षी.}

मूलम्

वधूं द्विजः प्राह तवैष वत्से वह्निर्विवाहं प्रति (1)कर्मसाक्षी ।
शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥ 7.83 ॥
{1.पूर्वसाक्षी.}

अन्वयः

‘हे वत्से ! एष वह्निः तव विवाहं प्रति कर्मसाक्षी, भर्त्रा शिवेन सह मुक्तविचारया त्वया धर्मचर्या कार्य’ । इति द्विजो वधूं प्राह ।

मल्लिनाथः

वधूमिति । अथ वधूं द्विजः पुरोधाः प्राह । किमिति हे वत्से, एष वह्निस्तव विवाहं प्रति । विवाहकर्मणोत्यर्थः । कर्मसाक्षी कर्मद्रष्टा । भर्त्रा शिवेन सह मुक्तविचारया निर्विचारया त्वया धर्मचर्या धर्माचरणं कार्या कर्तव्येति । अयं च प्राजापत्यविवाहो द्रष्टव्यः । यथाहाश्वलायनः- ‘सह धर्मचरेदिति प्राजापत्यः’ इति ॥ 7.83 ॥

विश्वास-प्रस्तुतिः

आलोचनान्तं (2)श्रवणे वितत्य पीतं गुरोस्तद्वचनं चवान्या ।
निदाघकालोल्वणतापयेव(3) माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ 7.84 ॥
{2.श्रवणौ.3.तप्तयेव.}

मूलम्

आलोचनान्तं (2)श्रवणे वितत्य पीतं गुरोस्तद्वचनं चवान्या ।
निदाघकालोल्वणतापयेव(3) माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ 7.84 ॥
{2.श्रवणौ.3.तप्तयेव.}

अन्वयः

भवान्या आलोचनाऽन्तं श्रवणे वितत्य तत् गुरोः वचनं निदाघकालोल्वणतापया पृथिव्या प्रथमं माहेन्द्रम् अम्भः इव पीतम् ।

मल्लिनाथः

आलोचनान्तमिति । भवस्य पत्न्या भवान्या । ‘इन्द्रवरुणभवशर्वरुद्र-’ इत्यादिना ङीष् । आनुगागमश्च । आलोचनान्तं नेत्रान्तपर्यन्तम् । ‘आङ मर्यादाभिविद्ध्योः’ इत्यव्ययीभावः । श्रवणे श्रोत्रे वितन्य विस्तर्य तत्पूर्वोक्तं गुरोर्याज्ञिकस्य वचनं ‘सह धर्मं चर’ इति वाक्यं निदाघकालं ग्रीष्मकाल उल्वणतापयोत्कटसंतापया पृथिव्या प्रथममाद्यं माहेन्द्रं पार्जन्यमम्भ इव पीतम् । अत्यादरेण शुश्रावेत्यर्थः ॥ 7.84 ॥

विश्वास-प्रस्तुतिः

ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ॥ 7.85 ॥

मूलम्

ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ॥ 7.85 ॥

अन्वयः

प्रियदर्शनेन ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना ह्रीसन्नकण्ठी सा कथमपि आननम् उन्नमय्य ‘दृष्टः’ इति उवाच ।

मल्लिनाथः

ध्रुवेणेति । प्रियं दर्शनं यस्य कर्मभूतस्य । तेन प्रियदर्शनेन ध्रुवेण शाश्वतेन भर्त्रा ध्रुवस्य नक्षत्रविशेषस्य दर्शनाय । ‘ध्रुवो भभेदे क्लीबं तु निश्चिते त्रिषु’ इत्यमरः । प्रयुज्यमाना दृश्यतामिति प्रेर्यमाणा ह्रीसन्नकण्ठी ह्रीया हीनस्वरा सा वधूः कथमप्याननमुन्नमय्य दृष्ट इत्युवाच ॥ 7.85 ॥

विश्वास-प्रस्तुतिः

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥ 7.86 ॥

मूलम्

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥ 7.86 ॥

अन्वयः

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ प्रजानां पितरौ तौ पद्मासनस्थाय पितामहाय प्रणेमतुः ।

मल्लिनाथः

इत्थमित । इत्थमनेन प्रकारेण । ‘इदमस्थमुः’ इति थमुप्रत्ययः । विधिज्ञेन विवाहप्रयोगज्ञेन । शास्त्रज्ञेनेत्यर्थः । पुरोहितेन हैमवतेन प्रयुक्तपाणिग्रहणोपचारौ कृतविवाहकर्मणौ प्रजानां पितरौ तावुमामहेश्वरौ पद्मासनस्थाय पद्मासनोपविष्टाय पितॄणां पित्रे ‘पितामहो विरिञ्चौ स्यात्तातस्य जनकेऽपि च’ इति विश्वः । ‘पितृव्यमातुलमातामहपितामहाः’ इति निपातनात्साधुः । प्रणेमतुर्नमश्चक्रतुः । पितामहस्य पित्रोरपि पूज्यत्वादिति भावः ॥ 7.86 ॥

विश्वास-प्रस्तुतिः

वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीर प्रसवा भवेति ।
वाचस्पतिः (1)सन्नपि सोऽष्टमूर्तै(2) त्वाशास्य चिन्तास्तिमिता बभूव ॥ 7.87 ॥
{1.उन्नत.2.मूर्तावाशास्य.}

मूलम्

वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीर प्रसवा भवेति ।
वाचस्पतिः (1)सन्नपि सोऽष्टमूर्तै(2) त्वाशास्य चिन्तास्तिमिता बभूव ॥ 7.87 ॥
{1.उन्नत.2.मूर्तावाशास्य.}

अन्वयः

वधूः विधात्रा- ‘हे कल्याणि ! वीरप्रसवा भव’ इति प्रतिनन्द्यते स्म । स वाचस्पतिः सन् अपि अष्टमूर्तौ तु आशर्स्याचन्तास्तिमितो बभूव ।

मल्लिनाथः

वधूरिति । वधूः कन्या विधात्रा ब्रह्मणा । हे कल्याणि शोभने, वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरप्रसूर्भवेति प्रतिनन्द्यते स्म । आशिषमुत्क्वेत्यर्थः । स विधाता वाचस्पतिर्वागीश्वरोऽपि सन् । कस्कादिषु पाठात्साधुः । अष्टमूर्तौ शिवे त्वाशास्यमाकाङ्क्ष्यं तत्र चिन्ता विचारस्तस्यां स्तिमितो मन्दो बभूव । तस्य, निरीहस्याशास्याभावादाशिषि स्तिमितत्वमित्यर्थः ॥ 7.87 ॥

विश्वास-प्रस्तुतिः

क्लॄप्तोपचारां चतुरस्त्रवेदीं तावेत्य पश्चात्कनकासनस्थौ ।
जायापती (3)लौकिकमेषणीयमार्द्राक्षतारोपणमन्वभूताम् ॥ 7.88 ॥
{3.एषितव्यम्.}

मूलम्

क्लॄप्तोपचारां चतुरस्त्रवेदीं तावेत्य पश्चात्कनकासनस्थौ ।
जायापती (3)लौकिकमेषणीयमार्द्राक्षतारोपणमन्वभूताम् ॥ 7.88 ॥
{3.एषितव्यम्.}

अन्वयः

तौ जायापती पश्चात् क्लृप्तोपचारां चतुरस्त्रवेदीम् एत्य कनकासनस्थौ (सन्तौ) लौकिकम् एषणीयम् आर्द्राक्षतारोपणम् अन्वभूताम् ।

मल्लिनाथः

-क्लृप्तेति । तौ जायापती वधूवरौ पश्चान्नमस्कारानन्तरं कलृप्ता रचिता उपचारा पुष्परचनादयो यस्यां तां चतुरस्त्रवेदीमेत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकं लोके विदितम् । आचारप्राप्तमित्यर्थः । अतएवैषणीयमाशास्यम् । ‘तथाहि लौकिकाचारं मनसापि न लङ्घयेत्’ इति शास्त्रादवस्यकर्तव्यमित्यर्थः । इषेरिच्छार्थादनीयप्रत्ययः । आर्द्राक्षतारोपणमन्वभूताम् ॥ 7.88 ॥

विश्वास-प्रस्तुतिः

(1)पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम्(2) ।
तयोरुपर्यातनालमण्डमाधत्त लक्ष्मीः कमलातपत्रम् ॥ 7.89 ॥
{1.वृन्दै.2.भक्तिशोभम्.}

मूलम्

(1)पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम्(2) ।
तयोरुपर्यातनालमण्डमाधत्त लक्ष्मीः कमलातपत्रम् ॥ 7.89 ॥
{1.वृन्दै.2.भक्तिशोभम्.}

अन्वयः

लक्ष्मीः पत्राऽन्लग्नैः जलबिन्दुजालैः आकृष्टमुक्ताफलजालशोभम् आयतनालदण्डं कमलातपत्रं तयोः उपरि आधत्त ।

मल्लिनाथः

पत्रान्तेति । लक्ष्मीः श्रीदेवी पत्रान्तेषु दलप्रान्तेषु दलप्रान्तेषु लग्नैर्जलबिन्दुजालैराकृष्टाहृता मुक्ताफलजालेन प्रान्तलम्बिना मुक्ताकलापेन या शोभा सा येन तत्तथोक्तमायतं दीर्घ नालमेव दण्डो यस्य तत्कमलमेवातपत्रं तत्तयोरुपर्याधत्त दधौ ॥ 7.89 ॥

विश्वास-प्रस्तुतिः

द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव ।
संस्कारपूतेन वरं वरेण्यं वधूं सुखग्रगह्यनिबन्धनेन ॥ 7.90 ॥

मूलम्

द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव ।
संस्कारपूतेन वरं वरेण्यं वधूं सुखग्रगह्यनिबन्धनेन ॥ 7.90 ॥

अन्वयः

सरस्वती द्विधा प्रयुक्तेन वाङ्मयेन तत् मिथुनं नुनावः संस्कारपूतेन वरेण्यं वरं, सुखग्राह्यनिबन्धनेन वधूं नुनाव ।

मल्लिनाथः

द्विधेति । अथ सरस्वती वाग्देनी द्विधा संस्कृतप्राकृतरुपेण द्वैविध्येन प्रयुक्तेनोच्चारितेन वाङ्मयेन शब्दजालेन तन्मिथुनं नुनाव तुष्टाव । ‘णु स्तुतौ’ इति धातोर्लिट् । केन कमित्याह-संस्कारेति । संस्कारेण शास्त्रव्युत्पत्त्या पूतेन प्रकृतिप्रत्ययविभागशुद्धेन । संस्कृतेनेत्यर्थः । वरेण्य वरणीयम् । श्लाध्यमित्यर्थः । वृणोतेरौणादिक एण्यप्रत्ययः । वरं वोढारं शिवम् । सुखेन ग्राह्यं सुबोधं निबन्धनं रचना यस्य तेन वाङ्मयेन प्राकृतभाषयेत्यर्थः । वधूं नुनावेत्येन संम्बन्धः ॥ 7.90 ॥

विश्वास-प्रस्तुतिः

तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।
अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥ 7.91 ॥

मूलम्

तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।
अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥ 7.91 ॥

अन्वयः

तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागं ललिताऽङ्गहारम् आद्यम् अप्सरसां प्रयोगं मुहूर्तम् अपश्यताम् ।

मल्लिनाथः

ताविति । तौ दंपती संधिषु मुखादिनिर्वहणान्तेषु पञ्चसंधिषु । तदुक्तं तशरुपके- ‘मुखं प्रतिमुखं गर्भः सावमर्षोपसंहृतिः’ इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्यादिवृत्तिविशेषम् । रसानुगुण्येनेति शेषः । तदुक्तं भूपालेन-कौशिको स्यात्तु श्रृङ्गारे रसे वीरे तु सात्वती । रौद्रबीभत्सयोर्वृत्तिर्नियतारभटी पुनः । श्रृङ्गारादिषु भावज्ञै रसेष्विष्टा तु भारती ।’ तथा । कौशिक्यारभटी चैव सात्वतीभारती तथा । चतस्त्रो वृत्तयो ज्ञेयास्तासु नाट्यं प्रतिष्ठितम् ।’ इति । रसान्तरेषु श्रृङ्गारादिरसभेदेषु । ‘श्रृङ्गारादौ विषे वीर्ये गुणो रागे द्रवे रसः’ इत्यमरः । ‘श्रृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या रसाः पूर्वैरुदाहृताः’ इति । प्रतिबद्धरागं प्रतिनियमेन प्रवर्तितो वसन्तललितादिरागो यस्मिंस्तम् । यस्मिन् रसे यो रागो विहितस्तदनुसारेण प्रयुक्तरागमित्यर्थः । यथाह काहलः- ‘रौद्रैऽद्भुते तथा वीरे पुंरागेण प्रगीयते । श्रृङ्गारहस्य करुणाः स्त्रीरागेण प्रकीर्तितः । भयानके च बीभत्से शान्ते गेयो नपुंसके ।’ इति । ललिताङागहारं मधुराङ्गविक्षेपम् । ‘अङ्गहारोऽङ्गविक्षेपः’ इत्यमरः । आदौ भवमाद्यम् । रुपकान्तरप्रकृतिभूतमित्यर्थः । तदुक्तम् - ‘आहुः प्रकरणादीनां नाटकं प्रकृतिंबुधः’ इति । अप्सरमामुर्वश्यादीनाम् । प्रयुज्यत इति प्रयोगो रुपकम् । नाटकमित्यर्थः । आद्यमिति विशेषणात् । तं मुहुर्तमपश्यतां दृष्टवान्तौ । ‘पाघ्राध्मास्था’- इत्यादिना दृशोः पश्यादेशः ॥ 7.91 ॥

विश्वास-प्रस्तुतिः

देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपप्य ।
शापावसाने (1)प्रतिपन्नमूर्तेर्यर्याचिरे पञ्चशरस्य सेवाम् ॥ 7.92 ॥
{1.प्रतिबद्ध.}

मूलम्

देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपप्य ।
शापावसाने (1)प्रतिपन्नमूर्तेर्यर्याचिरे पञ्चशरस्य सेवाम् ॥ 7.92 ॥
{1.प्रतिबद्ध.}

अन्वयः

देवीः तदन्ते ऊढभार्यं हरं किरीटबद्धाऽञ्जलयः (सन्तः) निपत्य शापाऽवसाने प्रतिपन्नयूर्तेः पञ्चशरस्य सेवां ययाचिरे ।

मल्लिनाथः

देवा इति । देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्यान्तेऽवसान ऊढभार्यं परिणीतदारं हरं किरीटेषु बद्धा अञ्जलयो येषां ते तथोक्ताः सन्तः । निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेर्लब्वशरीरस्य । ‘परिणेष्यति पार्वती यदा’ (4/42) इत्यादिना शापस्य पार्वतौपरिणयान्तत्वादित्यर्थः । पञ्जशरस्य कामस्य कर्तुः । सेवां ययाचिरे । पुनः समासादितशरीरस्य तस्य सेवां स्वीक्रियतामिति प्रार्थयामासुरित्यर्थः । ‘दुह्याच्पच्’- इत्यादिना द्विकर्मकत्वम् ॥ 7.92 ॥

विश्वास-प्रस्तुतिः

तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् ।
(1)कालप्रयुक्ता खलु (2)कार्यविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति ॥ 7.93 ॥
{1.कालेप्रयुक्ता.2.कालविद्भिः}

मूलम्

तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् ।
(1)कालप्रयुक्ता खलु (2)कार्यविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति ॥ 7.93 ॥
{1.कालेप्रयुक्ता.2.कालविद्भिः}

अन्वयः

विमन्युः भगवान् आत्मनि अपि तस्य सायकानां व्यापारम् अनुमेने । (तथा हि) कार्यविद्भिः कालप्रयुक्ता भर्तृषु विज्ञापना सिद्धिम् एति खलु ।

मल्लिनाथः

तस्येति । विमन्युर्विगतक्रोधो भगवानीश्वर आत्मन्यपि तस्य कामस्य सायकानां व्यापारमनुमेने । तथाहि कार्यविद्भिः कार्यज्ञैः । अथवा कालविद्भिः अवसरज्ञैः । काले योग्यावसरे प्रयुक्तानुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिमेति खलु । सफला भवतीत्यर्थः । अयमेवास्य स्मरसेवास्वीकारो वदात्मन्यपि तत्सायकव्यापारमङ्गीकृतवानिति ॥ 7.93 ॥

विश्वास-प्रस्तुतिः

अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य
क्षितिधरपतिकन्या(3) माददानः करेण
कनककलशयुक्तं(4) भक्तिशोभासनाथं
क्षितिविरचितशय्यं कौतुकागारमागात् ॥ 7.94 ॥
{3.आदधानः.4.रक्षा.}

मूलम्

अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य
क्षितिधरपतिकन्या(3) माददानः करेण
कनककलशयुक्तं(4) भक्तिशोभासनाथं
क्षितिविरचितशय्यं कौतुकागारमागात् ॥ 7.94 ॥
{3.आदधानः.4.रक्षा.}

अन्वयः

अथ इन्दुमौलि, तान् विबुधमणान् विसृज्य क्षितिधरपतिकन्यां करेण आददानः (सन्) कनककलशयुक्तं भक्तिशोभासनाथं क्षितिविरचिशय्यं कौतुकाऽगारम् अगात् ।

मल्लिनाथः

अथेति । अथेन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वतीं करेणाददानः कनककलशयुक्तं मङगलार्थमन्तर्निहितहेममयपूर्णकुम्भं भक्तयः पुष्पादिरचनास्तासां शोभया सनाथम् । सहितमित्यर्थः । क्षितिविरचितशय्यं क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पं यस्मिंस्तत्तथोक्तं कौतुकागारमगाच्छय्यागृहं जगाम । अत्राश्वलायनः-‘अत ऊर्ध्वमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणौ स्याताम्’ इति । अथ ऊर्ध्व विवाहादूर्ध्वम् । आ त्रिरात्रादिति शेषः । ‘त्रिरात्रं द्वाद्शरात्रं र्किचित्तिसृषु च रजनीषु स्तब्त्रभावा दुनोति । त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्य न चास्या हृदयमननुरुध्य स्वेच्छया कर्म कुर्यात्’ इति ॥ 7.94 ॥

विश्वास-प्रस्तुतिः

नवपरिणयलज्जाभूषणां तत्र गौरीं
वदनमपहरन्तीं तत्कृताक्षेपमीशः ।
अपि शयनसखीभ्यो दत्तवाचं कथंचि-
(1)त्प्रमथमुखविकारैर्हासयामास गूढम् ॥ 7.95 ॥
{1.प्रथम.}

मूलम्

नवपरिणयलज्जाभूषणां तत्र गौरीं
वदनमपहरन्तीं तत्कृताक्षेपमीशः ।
अपि शयनसखीभ्यो दत्तवाचं कथंचि-
(1)त्प्रमथमुखविकारैर्हासयामास गूढम् ॥ 7.95 ॥
{1.प्रथम.}

अन्वयः

तत्र ईशः नवपरिणयलज्जाभूषणां तत्कृताक्षेपं वदनाम् अपहरन्तीं शयनसखीभ्यः अपि कथञ्चित् दतवाचं गौरीं प्रमथमुखविकारैः गूढं हासयामास ।

मल्लिनाथः

नवेति । तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् । उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जाभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपीत्यर्थः । कथंचित्कृच्छ्रेण दत्तवाचं दतोत्तरां गौरीं प्रमथा भृङ्गिरिटिप्रभृतयो हस्यरसाधिदेवताः पशुपतेः पारिषदाः । यथाह भरतः-‘श्रृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः’ इति । ‘प्रमथाः स्युः पारिषदाः’ इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढप्रकाशं हासयामास । हासाद्युपायैर्लज्जामपाकर्तुं प्रवृत्तं इत्यर्थः । यथाह गोनर्दः-‘हासेन मधुना नम्रवचसा लज्जितां प्रियाम् । विलुप्तलज्जां कुर्वित विपुणैश्च सखीजनैः ।’ इति ॥ 7.95 ॥

इति श्रैमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ
कुमारसंभवे महाकाव्य उमापरिणयोनाम
सप्तमः सर्गः ।