०४ रतिविलापः

.

चर्तुर्थः सर्गः

विश्वास-प्रस्तुतिः

मूर्च्छिता रतिरित्युक्तम् । संप्रति तद्‌वृत्तान्तमेवाह-
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥ 4.1 ॥

मूलम्

मूर्च्छिता रतिरित्युक्तम् । संप्रति तद्‌वृत्तान्तमेवाह-
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥ 4.1 ॥

अन्वयः

अथ मोहपरायणा सती विवशा कामवधूः असह्यवेदनं नववैधव्यं प्रतिपादयिष्यता विधिना विबोधिता ।

मल्लिनाथः

अथेति । अथानन्तरं मोहो मूर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोहैकशरणा सती । ‘परायणमभिप्रेते तत्परे परमाश्रये’ । इति यादवः । विवशा मूढत्वान्निश्चेष्टा कामवधू रतिः । असह्या दुःसहा वेदना यस्मिंस्तत्तथोक्तम् । विधवाया गतभर्तृकया भावो वैधव्यम् । नवं च तद्वैधव्यं चेति नववैधव्यम् । नवग्रहणं दुःसहत्वद्योतनार्थम् । प्रतिपादयिष्यतानुभावयिष्यता । क्रियार्थक्रियायाम् लृट् । विधिना दैवेन । ‘विधिर्विधाने दैवे च’ इत्यमरः । विबोधिता । वैधव्यानुफलोयं विधिरिति भावः । अस्मिंन्सर्गे वियोगिनीवृत्तानि- ‘विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी इति लक्षणात्’ ॥ 4.1 ॥

विश्वास-प्रस्तुतिः

अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।
न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्त दर्शनम् ॥ 4.2 ॥

मूलम्

अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।
न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्त दर्शनम् ॥ 4.2 ॥

अन्वयः

सा प्रलयाऽन्तोन्मिषिते विलोचने अवधानपरे चकार । प्रियम् अतृप्तयोः तयोः अत्यन्तविलुप्तदर्शनं न विवेद ।

मल्लिनाथः

अवेति । सा रतिः प्रलयान्ते मूर्च्छावसाने । ‘प्रलयो नष्टचेष्टता’ इत्यमरः । उन्मिषिते उन्मीलिते विलोचने । अवधानं परं प्रधानं ययोस्तेऽवधानपरे दिदृक्षयावहिते चकार । द्रष्टव्याभावात्तु न विवेदेत्याह- नेति । प्रियं काममतृप्तयोस्तृप्तिं न गतयोः । नित्यदिदृक्षमाणयोरित्यर्थः । तयोर्लोचनयोः । दर्शनक्रियापेक्षया संबन्धे षष्ठी । अत्यन्तविलुप्तं दर्शनं स्वलोचनयोः करणयोर्यस्य कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सन्तं न विवेद न ज्ञातवती । प्रियनाशापरिज्ञानाद्दिदृक्षांचक्र इति तात्पर्यार्थः ॥ 4.2 ॥

विश्वास-प्रस्तुतिः

अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ 4.3 ॥

मूलम्

अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ 4.3 ॥

अन्वयः

‘अयि जीवितनाथ ! जीवसि ?’ इति अभिधाय उत्थितया तया पुरः क्षितौ केवलं हरकोपाऽनलभस्म ददृशे ।

मल्लिनाथः

अयीति । अयीति प्रश्ने । ‘अयि प्रश्नानुनययोः’ इति विश्वः । अयि जीवितनाथ ! जीवसि कच्चिदित्यभिधायोत्थितयात या रत्या पुरोऽग्रे क्षितौ पुरुषस्याकृतिरिवाकृतिर्यस्य तत्पुरुषाकृति केवलमेकं हरकोपानलभस्य ददृशे दृष्टम् । न तु पुरुष इति भावः ॥ 4.3 ॥

विश्वास-प्रस्तुतिः

अथ सा पुनरेव विह्वला वसुधालिङ्गन धूसरस्तनी ।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥ 4.4 ॥

मूलम्

अथ सा पुनरेव विह्वला वसुधालिङ्गन धूसरस्तनी ।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥ 4.4 ॥

अन्वयः

अथ पुनरेव विह्वला वसुधाऽऽलिङ्गनधूसरस्तनी विकीर्णमूर्द्धजा सा स्थलीं समदुःखाम् कुर्वती इव विललाप ।

मल्लिनाथः

अथेति । अथ भस्मदर्शनानन्तरं पुनरेव विह्वला विक्लवा वसुधालिङ्गनधूसरस्तनी वसुधालिङ्गनेन क्षितिलुण्ठनेन धूसरौ धूसरवर्णौ स्तनौ कुचौ यस्याः सा तथोक्ता । ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्’ इति ङीष् । विकीर्णमूर्धजा विकीर्णा विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलीं वनभूमिम् । तत्रत्यान्प्राणिन इत्यर्थः । ‘जानपदकुण्डगोणस्थले-’ त्यादिना ङीष् । समदुःशां स्वतुल्यशोकां कुर्वतीव विललाप परिदेवितवती । ‘विलापः परिदेवनम्’ इत्यमरः ॥ 4.4 ॥

विश्वास-प्रस्तुतिः

उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां, न विदीर्ये, कठिनाः खलु स्त्रियः ॥ 4.5 ॥

मूलम्

उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां, न विदीर्ये, कठिनाः खलु स्त्रियः ॥ 4.5 ॥

अन्वयः

(हे नाथ !) तव यत् करणं कान्तिमत्तया विलासिनाम् उपमानम् अभूत् । तत् इदम् ईदृशीं दशां गतम् । (तथाऽपि) न विदीर्ये, हि स्त्रियः कठिनाः खलु ।

मल्लिनाथः

उपेति । तव यत्करणं गात्रम् । ‘करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि’ इत्यमरः । कान्तिमत्तया सौन्दर्येण हेतुना विलसनशीलानाम् । ‘वौ कषलसे-’ त्यादिना घिनुण्प्रत्ययः । उपमीयते येन तदुपमानमभूत् । तत्करणमिदमीदृशीं दशामवस्थां गतम् । भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि । कर्तरि लट् । तथाहि । स्त्रियः कठिनाः खलु । कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरूपोऽर्थान्तरन्यासः । ‘धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता । स्मितपूर्वं तथालापो विलास इति कीर्तितः ॥’ इति ॥ 4.5 ॥

विश्वास-प्रस्तुतिः

क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसोहृदः ।
नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥ 4.6 ॥

मूलम्

क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसोहृदः ।
नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥ 4.6 ॥

अन्वयः

(हे प्रय !) क्षतसेतुबन्धनो जलसंघातो नलिनीम् इव त्वदधीनजीवितां मां क्व नु विनिकीर्य क्षणभिन्नसौहृदः (सन्) विद्रुतः असि ?

मल्लिनाथः

क्वेति । हे प्रिय ! क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसंघातो जलौघो नलिनीमिव । जलैकायत्तजीवितामिति शेषः । त्वदधीनजीवितां त्वदायत्तप्राणां मां क्वनु विनिकीर्य कुत्र वा निक्षिप्य क्षणभिन्नसौहृदः क्षणत्यक्तसौहार्दः सन् । विद्रुतः पलायितोऽसि । सेतुसौहृदयोः स्थितिहेतुत्वेन साम्यम् । सुहृदो भावः सौहृदम् । युवादित्वादण्प्रत्ययः । ‘हृदयस्य हृल्लेखयदण्लासेषु’ इति हृदादेशः । अणि ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च’ इत्युभयपदवृद्धिः । हृद्भूतस्याण्विधाने तूभयपदवृद्धिः स्यात् । यथा सुहृदो भावः सोहार्दमिति । तदेवाह वामनः- ‘सौहृददौर्हृदशब्दावदनणि हृद्भावात्’ इति ॥ 4.6 ॥

विश्वास-प्रस्तुतिः

कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ 4.7 ॥

मूलम्

कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ 4.7 ॥

अन्वयः

(हे प्रिय !) (त्वम्) मे विप्रयं कृतवान् न असि, मया च ते प्रतिकूलं न कृतम् । ्कारणम् एव विलपन्तयै रतये किं दर्शनं न दीयते ।

मल्लिनाथः

कृतेति । हे प्रिय, त्वं मे मम विप्रियमप्रियं कृतवान्नासि । मया च ते तव प्रतिकूलमप्रियं न कृतम् । अकारणं निष्कारणमेव । परस्परापकाररूपकारणाभावेऽपीत्यर्थः । क्रियाविशेषणमेतत् । विलपन्त्यै । त्वद्दर्शनार्थिन्या अपीति भावः । रतये किं कथं दर्शनं न दीयते । क्रियाग्रहणाच्चतुर्थि ॥ 4.7 ॥

विश्वास-प्रस्तुतिः

विप्रियमाशङ्कते-
स्मरसि स्मर ! मेखलागुणैरुत गोत्रस्खलितेषबन्धनम् ।
च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥ 4.8 ॥

मूलम्

विप्रियमाशङ्कते-
स्मरसि स्मर ! मेखलागुणैरुत गोत्रस्खलितेषबन्धनम् ।
च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥ 4.8 ॥

अन्वयः

हे स्मर ! गौत्रस्खलितेषु मेखलागुणैः स्मरसि उत ? च्युतकेशरदूषितेक्षणानि अवतंसोत्पलताडनानि स्मरसि वा ?

मल्लिनाथः

स्मरसीति । हे स्मर ! गोत्रस्खलितेषु नामव्यत्यासेषु । ‘गोत्रंनाम्न्यचले कुले’ इति विश्वः । मेखलागुणैर्बन्धनं स्मरस्युत स्मरसि वा । ‘विकल्पे किं किमुत च’ इत्यमरः । च्युतकेशरैर्भ्रष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तान्यवतंसोत्पलताडनानि । सधूलिक्षेपताडनानीत्यर्थः । स्मरसि वा । अपकारस्मरणादिदमदर्शनमिति भावः ॥ 4.8 ॥

विश्वास-प्रस्तुतिः

हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ? ॥ 4.9 ॥

मूलम्

हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ? ॥ 4.9 ॥

अन्वयः

(हे प्रिये !) त्वं मे ‘हृदये वससि’ इति मत्प्रियं यत् अवोयः तत् कैतवम् अवैमि । इदम् उपचारपदं न चेत् त्वम् अनङ्गः, कथं रतिः अक्षता ?

मल्लिनाथः

हृदय इति । हृदये वससीति स्मरवाक्यानुवादः । इत्येवं रूपं मत्प्रियं यदवोच उक्तवानसि । ब्रञो लुङि ‘वच उम्’ इत्युमागमः । तत्कैतवमवैमि मिथ्येति मन्ये । इदं वचनमुपचापरपदं परस्य रञ्जनार्थं यदसत्यभाषणं स उपचारस्तस्य पदं स्थानम् । कैतवस्थानमिति यावत् । न चेत्त्वमनङ्गोऽशरीरः । कथं रतिरक्षताऽविनष्टा । आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ॥ 4.9 ॥

विश्वास-प्रस्तुतिः

नच मे कश्चिद्विचारः किंतु लोकः शोच्यत इत्याह-
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञिचितस्त्वदधीनं खलु देहिनां सुखम् ॥ 4.10 ॥

मूलम्

नच मे कश्चिद्विचारः किंतु लोकः शोच्यत इत्याह-
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञिचितस्त्वदधीनं खलु देहिनां सुखम् ॥ 4.10 ॥

अन्वयः

अहं परलोकनवप्रवासिनः तव पदवीं प्रतिपत्स्ये । विधिना एष जनो वञ्चितः, (यत्) देहिनां सुखं त्वदधीनं खलु ।

मल्लिनाथः

परलोकेति । परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य । अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपत्स्ये । त्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेनैष जनो लोको वञ्चितः प्रतारितः । देरिनां सुखं त्वदघीनं त्वय्यधीनं खलु । अधिशब्दस्य शौण्डादित्वात् ‘सप्तमी शौण्डैः’ इति समासः । ‘अध्युत्तरपदात्’ इति खप्रत्ययः । एवमन्यत्रापि सुखप्रदाभावे कुतः सुखमिति भावः ॥ 4.10 ॥

विश्वास-प्रस्तुतिः

तदेवाह-
रजनीतिमिरावगुण्ठिते पुरमार्गे घनाशब्दविक्लवाः ।
वसतिं प्रिय ! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ॥ 4.11 ॥

मूलम्

तदेवाह-
रजनीतिमिरावगुण्ठिते पुरमार्गे घनाशब्दविक्लवाः ।
वसतिं प्रिय ! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ॥ 4.11 ॥

अन्वयः

हे प्रिय ! रजनीतिमिराऽवगुण्ठिते पुरमार्गे घनशब्दविक्लवाः प्रियाः कामिनां वसतिं प्रापयितुं त्वत् ऋते क ईश्वरः ?

मल्लिनाथः

-रजनीति । हे प्रिय ! रजनीतिमिरेणावगुण्ठित आवृते पुरमार्गे घनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना । ‘अन्यरादितरतं-’ इत्यादिना पञ्चमी । क ईश्वरः शक्तः । न कश्चिदित्यर्थः । न हि कामान्धनां भीतिरस्तीति भावः ॥ 4.11 ॥

विश्वास-प्रस्तुतिः

नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे पदे ।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ 4.12 ॥

मूलम्

नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे पदे ।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ 4.12 ॥

अन्वयः

(हे प्रिय !) अरुणानि नयनानि घूर्णयन् पदे पदे वचनानि स्खलयन् प्रमदानां वारुणीमदः वारुणीमदः त्वयि असति विडम्बना ।

मल्लिनाथः

नयनानीति । अरुणानि नयनानि घूर्णयन्भ्रमयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुक्तिः । वचनानि स्खलयन्विपर्यासयन्प्रमदानां वारुणीमदो मद्यमदोऽधुना त्वय्यसति विडम्बनानुकृतिमात्रम् । मदनाभावे मदस्य निष्फलत्वादिति भावः । तथा च शिशुपालवधे- ‘तां मदो दयितसंगमभूषः’ (10/33) इति ॥ 4.12 ॥

विश्वास-प्रस्तुतिः

अबगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकरस्तनुतांदुःखमनङ्ग ! मोक्ष्यति ॥ 4.13 ॥

मूलम्

अबगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकरस्तनुतांदुःखमनङ्ग ! मोक्ष्यति ॥ 4.13 ॥

अन्वयः

हे अनङ्ग ! प्रियबन्धोः तव वपुः कथीकृतम् अवगम्य निष्फलोदयो निशाकरो बहुले गते अपि तनुतां दुःखं मोक्ष्यति ।

मल्लिनाथः

अवगम्येति । हे अनङ्ग अशरीर ! प्रियबन्धो प्रियसखस्य तव वपुः शरीरं कथीकृतमकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टमवगम्य ज्ञात्वा निष्फलोदयः । उद्दोप्याभावादुद्दीपनवैफल्यमिति भावः । निशाकरश्चन्द्रो बहुले कृष्णपक्षे गतेऽपि तनुतां कार्श्यं दुःशं यथा तथा कृच्छ्रान्मोक्ष्यति । वृद्धिरिति दुःखयिष्यत इत्यर्थः ॥ 4.13 ॥

विश्वास-प्रस्तुतिः

हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ 4.14 ॥

मूलम्

हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ 4.14 ॥

अन्वयः

(हे कुसुमायुध !) हरिताऽरुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितो नवचूतप्रसवः सम्प्रति कस्य बाणतां गमिष्यति ? वद ।

मल्लिनाथः

हरितेति । हरितं चारुणं च । ‘वर्णो वर्णेन’ इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य स तथोक्तः । कलेन मधुरेण पुंस्कोकिलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च । चूतवर्णकार्यंत्वात्कलशब्दस्येति भावः । नवचूतप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति ? वद । अन्यस्य पुष्पबाणस्याभावादिति भावः ॥ 4.14 ॥

विश्वास-प्रस्तुतिः

अलिपङ्‌क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदतीव माम् ॥ 4.15 ॥

मूलम्

अलिपङ्‌क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदतीव माम् ॥ 4.15 ॥

अन्वयः

(हे प्रिय !) त्वया अनेकशो धनुषो गुणकृत्ये नियोजिता इयम् आलिपङ्‌क्तिः करुणस्वनैः विरुतैः गुरुशोकां माम् अनुरोदिति इव ।

मल्लिनाथः

अलीति । त्वयानेकशो बहुशो धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकार्ये गुणवत्कर्मणि च नियोजिताधिकृतेयमलिपङ्‌क्तिः करुणस्वनेर्दीनस्वनर्विरुतैः कूचितैर्गुरुशोकां दुर्भरदुःखाम् । ‘गुरुस्तु गोःपतौ श्रेष्ठे गुरौ पितरि दुर्भरे’ । इति शब्दार्णवः । मामनुरोदितीव उपसर्गात्सकर्मकत्वम् । ‘रुदादिभ्यः सार्वधातुके’ इतीडागमः ॥ 4.15 ॥

विश्वास-प्रस्तुतिः

प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः ।
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ 4.16 ॥

मूलम्

प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः ।
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ 4.16 ॥

अन्वयः

(हे कान्त !) तावत्क पुनरपि मनोहरं वपुः प्रतिपद्य उत्थितः सन् मधुरालापनिसर्गपण्डितां कोकिलां रतिदूतिपदेषु आदिश ।

मल्लिनाथः

प्रतिपद्येति । तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्योत्थितः सन् । मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भां कोकिलां रतिदूतिपदेषु । सुरतदूतीस्थानेष्वादिशाज्ञापय । प्रगल्भानामेव दौत्याधिकार इति भावः । ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्‌गभयाद्‌घ्रस्वः । ‘अपि माषं मषं कुर्याच्छन्दोभङ्गे त्यजेद्‌गिरम्’ इति केचित् । ‘उणादयो बहुलम्’ इति बहुलग्रहणाद्‌घ्रस्व इति वल्लभः ॥ 4.16 ॥

विश्वास-प्रस्तुतिः

शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
सुरतानि च तानि ते रहः स्मर ! संस्मृत्य न शान्तिरस्ति मे ॥ 4.17 ॥

मूलम्

शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
सुरतानि च तानि ते रहः स्मर ! संस्मृत्य न शान्तिरस्ति मे ॥ 4.17 ॥

अन्वयः

हेस्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि उपगूढानि च, तानि रहः सुरतानि च संस्मृत्य मे शान्तिः न अस्ति ।

मल्लिनाथः

शिरसेति । हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि । ‘ट्वितोऽथुच्’ इत्यथुच्प्रत्ययः । सात्विकान्तरोपलक्षणमेतत् । ‘स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः ॥’ इति । उपगूढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनुभूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समानकर्तृकत्वं दुर्घदं समानक्रियापेक्षास्तीति केचित् ॥ 4.17 ॥

विश्वास-प्रस्तुतिः

रचितं रतिपण्डित ! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यतं ॥ 4.18 ॥

मूलम्

रचितं रतिपण्डित ! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यतं ॥ 4.18 ॥

अन्वयः

हे रतिपण्डित ! त्वया मम अङ्गेषु स्वयं रचितम् इदम् आर्तवंकुसुमप्रसाधनं ध्रियते, तव चारु वपुः न दृश्यते ।

मल्लिनाथः

रचितमिति । हे रतिपण्डित रतिकुशल, त्वया ममाङ्‌गेष्ववयवेषु स्वयं रचितम् ऋतुरस्य प्राप्त आर्तवं वासन्तम् । ‘ऋतोरण्’ इत्यण्प्रत्ययः । कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । ‘धृञ् अवस्थाने’ इति धातोस्तौदादिकात्कर्तरि लट् । तव पत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते ॥ 4.18 ॥

विश्वास-प्रस्तुतिः

बिबुधैरसि यस्य दारिणैरसमाप्ते परिकर्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ 4.19 ॥

मूलम्

बिबुधैरसि यस्य दारिणैरसमाप्ते परिकर्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ 4.19 ॥

अन्वयः

दारुणैः विबुधैः यस्य परिकर्मणि असमाप्ते (सति) स्मृतः असि, तम् इमं दक्षिणेतरं निर्मितरागं कुरु । एहि ।

मल्लिनाथः

विबुधैरिति । दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः । अनभिज्ञत्रत्वं च ध्वन्यते । यस्य मच्चरणस्य परिकर्मणि प्रसाधने । ‘परिकर्म प्रसाधनम्’इत्यमरः । आसमाप्ते सति स्मृतोऽसि । तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं कुर्वेह्यागच्छ ॥ 4.19 ॥

विश्वास-प्रस्तुतिः

अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
चतुरैः सुकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ॥ 4.20 ॥

मूलम्

अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
चतुरैः सुकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ॥ 4.20 ॥

अन्वयः

अहं पतङ्गवर्त्मना एत्य पुनः ते अङ्काश्रयणी भवामि, हे प्रिय ! दिवि चतुरैः सुरकामिनीजनैः यावत् न विलोभ्यसे ।

मल्लिनाथः

अहमिति । अहं पतङेगवर्त्मना शलभमार्गेण । अग्निप्रवेशेनेत्यर्थः । ‘पतङ्गः शलभे चाग्नौ मार्जारेऽर्के शरे खगे’ । इति वैजयन्ती । एत्यागत्य पुनस्तेऽङ्काश्रयण्युत्सङ्गवर्तिनी भवामि संप्रत्यंव भविष्यामि । ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इति लट् । हे प्रिय ! दिवि स्वर्गे चतुरैः सुरकामिनीजनैरप्सरोगणैर्यावन्न विलोभ्यसे विलोभयिष्यसे । ‘यावत्पुरानिपातयोर्लट्’ इति लट् ॥ 4.20 ॥

विश्वास-प्रस्तुतिः

मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
वचनियमीदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥ 4.21 ॥

मूलम्

मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
वचनियमीदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥ 4.21 ॥

अन्वयः

हे रमण ! त्वाम् अनुयायि यद्यपि, (किन्तु) रमणेन विनाकृता रतिः क्षणमात्रं जीविता इति मे वचनीयं व्यवस्थितम् ।

मल्लिनाथः

मदनेनेति । हे रमण ! त्वामनुयामि यद्यप्यनुगमिष्याम्यंव । ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इति लट् । ‘यद्यपूत्यवधारणे’ इति केशवः । किंतु रतिर्मदनेन विनाकृता । वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जीविता किलेतीदं वचनीयं निन्दा मे मम व्यवस्थितं स्थिरमभूत् ॥ 4.21 ॥

विश्वास-प्रस्तुतिः

क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ 4.22 ॥

मूलम्

क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ 4.22 ॥

अन्वयः

(हे नाथ !) परलोकाऽन्तरितस्य ते अन्त्यमण्डनं मया कथं क्रियाताम् ? (यत्) अङ्केन जीवितेन च समम् एव अतर्कितां गर्ति गतः असि ।

मल्लिनाथः

क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । मृतस्येत्यर्थः । ते तव मयान्त्यमण्डनं कथं केन प्रकारेण क्रियताम् । क्रियातामित्यत्र कामचारे लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः । अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः ॥ 4.22 ॥

विश्वास-प्रस्तुतिः

ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्ण धन्वनः ।
मधुना सह सस्मितां कथां नयनोपान्तविलोकित च यत् ॥ 4.23 ॥

मूलम्

ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्ण धन्वनः ।
मधुना सह सस्मितां कथां नयनोपान्तविलोकित च यत् ॥ 4.23 ॥

अन्वयः

शरम् ऋजुतां नयतः उत्सङ्गनिषण्णधन्वनः ते मधुना सस्मितां कथां, यत् नयनोपन्तविलोकितं च तत् स्मरामि

मल्लिनाथः

ऋजुतामिति । शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । ‘धनुषश्च’ इत्यनङादेशः । ते तव मधुना वसन्तेन सह ‘मधुर्दैत्ये वसत्ने च चैत्रेच’ इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम् । तत् इत्यनुषङ्गः । तच्च स्मरामि ॥ 4.23 ॥

विश्वास-प्रस्तुतिः

क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना गमितः सेऽपि सुहृद्‌गतां गतिम् ? ॥ 4.24 ॥

मूलम्

क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना गमितः सेऽपि सुहृद्‌गतां गतिम् ? ॥ 4.24 ॥

अन्वयः

कुसुमयोजितकार्मुकः ते हृदयङ्गमः सखा मधुः क्व नु ? सोऽपि उग्ररुषा पिनाकिना सिहृद्गतां गतिं न गमितः खलु ?

मल्लिनाथः

क्वेति । हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे गमेः सुप्युपसंख्यानम् इति खच्प्रत्ययः । ‘अरुर्द्विषदजन्तस्य मुम्’ इति मुमागमः । ते तव सखा कुसुनमैरायोजितमारचितं कार्मुकं येन कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा । गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्मतामित्यर्थः । न गमितः खलु न प्रापितः किम् । ‘जिज्ञासानुनये खलु’ इत्यमरः ॥ 4.24 ॥

विश्वास-प्रस्तुतिः

अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवाहतः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमर्दशयत्पुरः ॥ 4.25 ॥

मूलम्

अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवाहतः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमर्दशयत्पुरः ॥ 4.25 ॥

अन्वयः

अथ दिग्धशरैः इव तैः परिदेविताक्षरैः हृदये आहतः मधुः आतुरां रतिम् अभ्युपपत्तुम् आत्मानं पुरः अदर्शयत् ।

मल्लिनाथः

अथेति । अथ तैः परिदेविताक्षरैर्विलापवचनैर्हृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् । ‘विषाक्ते दिग्धलिप्तकौ’ इत्यमरः । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुमनुग्रहीतुम् । आश्वासयितुमित्यर्थः । ‘अभ्युपपत्तिरनुग्रहः’ इत्यमरः । आत्मानं पुराऽदर्शयत् । आविरभूदित्यर्थः ॥ 4.25 ॥

विश्वास-प्रस्तुतिः

तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च ।
स्वजनस्य हि दुःखमग्रतो विदृतद्वारमिवोपजायते ॥ 4.26 ॥

मूलम्

तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च ।
स्वजनस्य हि दुःखमग्रतो विदृतद्वारमिवोपजायते ॥ 4.26 ॥

अन्वयः

सा तम् अवेक्ष्य भृशं रुरोद, स्तनसम्बाधम् उरश्च जघान । हि दुःखं स्वजनस्य अग्रतः विवृतद्वारम् इव उपजायते ।

मल्लिनाथः

तमिति । सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भूशं रुरोद । स्तनौ संबाध्य स्तनसंबाधम् । ‘परिक्लिश्यमाने च’ इति णमुल् । उरो जघान ताडितवती च । तथाहि । स्वजनस्यग्रतो दुःखं विवृतमपसारितं द्वारं कपाटं यस्य तदिवोपजायत आविर्भवति । उच्छङ्खलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः ॥ 4.26 ॥

विश्वास-प्रस्तुतिः

इति जैनमुवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् ?।
तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥ 4.27 ॥

मूलम्

इति जैनमुवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् ?।
तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥ 4.27 ॥

अन्वयः

दुःखिता सा एनम् इति प्रवाच च- हि वसन्त ! पश्य सुहृदः किं स्थितं ? तत् इदं कपोतकर्बुरं भस्म पवनैः कणशोविकीर्यते।

मल्लिनाथः

इतीति । दुःखमस्याः संजातं दुःखिता । संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिरेनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त ! पश्य सुहृदस्त्वत्सखस्य किं स्थितं किमुपस्थितं तदिदं कपोतकर्बुरं पारावतशबलं कणाशश्चूर्णिभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते वक्षिप्यते । पश्य भस्मीभूतस्ते सुहृदित्यर्थः ॥ 4.27 ॥

विश्वास-प्रस्तुतिः

अयि संप्रति देहि दर्शनं स्मर ! पर्युत्सुक एष माधवः ।
दयितास्वनवस्थितं वृणां न खलु प्रेम चलं सुहृज्जमे ॥ 4.28 ॥

मूलम्

अयि संप्रति देहि दर्शनं स्मर ! पर्युत्सुक एष माधवः ।
दयितास्वनवस्थितं वृणां न खलु प्रेम चलं सुहृज्जमे ॥ 4.28 ॥

अन्वयः

अयि स्मर ! सम्प्रति दर्शनं देहि, एष माधवः पर्युत्सुकः । नृणां दयितासु प्रेम अनवस्थितं सुहृब्जने तु प्रेम न चलं खलु ।

मल्लिनाथः

अयीति । अयि स्मर ! संप्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सकस्त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्क्याह- नृणां पुरुषाणां दयितासु प्रेमानवस्थितमस्थिरम् । चलमित्यर्थः । सुहृज्जने प्रेम तु न चलं खलु ॥ 4.28 ॥

विश्वास-प्रस्तुतिः

ईदृशाः सुहृदः कति न सन्तीत्याशङ्क्य न कोऽपीत्याह-
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ 4.29 ॥

मूलम्

ईदृशाः सुहृदः कति न सन्तीत्याशङ्क्य न कोऽपीत्याह-
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ 4.29 ॥

अन्वयः

(हे वसन्त !) स ते सखा अनिलाऽऽहतों दीप इव गत एव, न निवर्तते। अहम् अस्य दशा इव (तिष्ठामि) अविषह्यव्यसनेन धूमितां मां पश्य ।

मल्लिनाथः

गत इति । स ते तसखाऽनिलाहता वायुताडितो दीप इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिरिव । तिष्ठामीति शेषः । ‘दशा वर्ताववस्थायां वस्त्रान्तं स्युर्दशा अपि’ । इति विश्वः । कुतः । अविषह्यव्यसनेन सोढुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य । धूमवत्त्वान्नष्टदीपदशासाम्यं धूमश्च व्यसनमेवेत्यर्थः ॥ 4.29 ॥

विश्वास-प्रस्तुतिः

अमुना ननु पार्श्वर्तिना जगदाज्ञां ससुरासुरं तव ।
विसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥ 4.30 ॥

मूलम्

अमुना ननु पार्श्वर्तिना जगदाज्ञां ससुरासुरं तव ।
विसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥ 4.30 ॥

अन्वयः

ननु ! तव पार्ववर्तिना अमुना ससुराऽसुरं जगत् विसतन्तुगुणस्य पेलवपुष्पपत्र्त्रिणः तव धनुषः आज्ञां कारितम् ।

मल्लिनाथः

अमुनेति । ननु मदन पार्श्ववर्तिना सहचरेणामुना वसन्तेन ससुरासुरं सुरासुरसहितं जगद्विसतन्दुगुणस्य मृणालसूत्रमौर्वीकस्य पेलवानि कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् । जगदाज्ञा कारितेत्यर्थः । ‘हृक्रोरन्यतरस्याम्’ इति जगतः कर्मत्वम् ॥ 4.30 ॥

विश्वास-प्रस्तुतिः

विधिना कृतमर्धवैशसं वनु मां कामवधे विमुञ्चता ।
अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ 4.31 ॥

मूलम्

विधिना कृतमर्धवैशसं वनु मां कामवधे विमुञ्चता ।
अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ 4.31 ॥

अन्वयः

ननु ! कामवधे मां विमुञ्चता विधिना अर्द्धवैशसं कृतम् । अनपायिनि संश्रयद्रुमे गजभग्ने सति वल्लरी पतनाय (भवति) ।

मल्लिनाथः

विधिनेति । ननु वसन्त ! कामवधे मदनवधे मां विमुञ्चता वर्जयता । अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो धातुकः । पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमर्धवधः कृतम् । ‘अर्धो वा एष आत्मनो यत्पत्नी’ इति श्रुतेः । पत्युः स्वस्य चाश्रयाश्रयिभूतयोरेकपदार्थत्वाभिप्रायेणार्धोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियमनान्मामपि विधिरध्नन्नेव हतवानिति तात्पर्यम् । एतदेवोपपादयति-अनपायिन्यनपायित्वेन विश्वस्ते संश्रयद्रुमे आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः । पतितुमेव सालमित्यर्थः । ‘तुमर्याच्च भाववचनात्’ इति चतुर्थि ॥ 4.31 ॥

विश्वास-प्रस्तुतिः

तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
त्रिधुरां ज्वलनातिसर्जनान्ननु ! मां प्रापय पत्युरन्तिकम् ॥ 4.32 ॥

मूलम्

तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
त्रिधुरां ज्वलनातिसर्जनान्ननु ! मां प्रापय पत्युरन्तिकम् ॥ 4.32 ॥

अन्वयः

तत् अनन्तरं भवता इदं बन्धुजनप्रयोजनं क्रियताम् । ननु ! विधुरां मां ज्वलनाऽतिसर्जनात् पत्यु अन्तिकं प्रापय ।

मल्लिनाथः

तदिति । तत्तस्मात्कारणादुक्तप्रकारेण । अन्यथापि मरणस्यावश्यंभावादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजनप्रयोजनं बन्धुकृत्यं क्रियताम् । प्रार्थनायां लोट् । तदेवोपदिशति-ननु वसन्त ! विधुरां विवशां मां ज्वलनातिसर्जनादग्निदानात्पत्युरन्तिकं प्रापय । अग्नप्रवेशनं कारयेत्यर्थः ॥ 4.32 ॥

विश्वास-प्रस्तुतिः

कर्तव्यश्चायमर्यः स्त्रीणामित्याह-
शशिना सह याति कौमुदी, सह मेघेन तडित्प्रलीयते ।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ 4.33 ॥

मूलम्

कर्तव्यश्चायमर्यः स्त्रीणामित्याह-
शशिना सह याति कौमुदी, सह मेघेन तडित्प्रलीयते ।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ 4.33 ॥

अन्वयः

कौमुदी शशिना सह याति । तडित् मेघेन सह प्रलीयते । हि प्रमदाः पतिवर्त्मगाः इति विचेतनैरपि प्रतिपन्नम् ।

मल्लिनाथः

शशिनेति । कौमुदी चन्द्रिका शशिना सह याति । शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडित्सौदामिनी मेघेन सह प्रलीयते प्रणश्यति । कर्तरि लट् । प्रमदाः स्त्रियः पतिवर्त्मगच्छन्तीति पतिवर्त्मगाः पतिमार्गानुगामिन्य इत्येतद्विचेतनैः । अविवेकिभिरपीत्यर्थः । नाथस्त पृथग्जनैः इति पपाठ । प्रतिपन्नं ज्ञातम् । ‘अलवणा यवागूः’ ‘अनुदराकन्या’ इति वदल्पत्वाभिप्रायेण विचेतनैरपीति निर्देशः । पतिवर्त्मगा इत्यत्र स्मृतिः- ‘आर्तार्ते, मुदिते हृष्टा, प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ, सा स्त्री ज्ञेया पतिव्रता ॥’ इति ॥ 4.33 ॥

विश्वास-प्रस्तुतिः

अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ 4.34 ॥

मूलम्

अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ 4.34 ॥

अन्वयः

अमुना सुभगेन प्रियगात्रभस्मना एव कषायितस्तनी नवपल्लवसंस्तरे यथा विभावसौ तनुं रचयिष्यामि ।

मल्लिनाथः

अमुनेति ॥ अमुना पुरोवर्तिना सुभगेन शोभनेन प्रियगात्रभस्मनैव । एवकारो मण्डनान्तरनिवृत्त्यर्थः । कषायितस्तनी रञ्जितस्तनो । ‘रागे क्वाथे कषायोऽस्त्री निर्यासे सोरभे रसे’ । इति वैजयन्ती । नवपल्लवसंस्तरे यथा नवपल्लवतल्प इव विभावसौ वह्नौ तनुं शरीरं रचयिष्यामि निधास्यामीत्यर्थः ॥ 4.34 ॥

विश्वास-प्रस्तुतिः

कुसुमास्तरणे सहायतां बहुशाः सौम्य, गतस्त्वमावयोः ।
कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥ 4.35 ॥

मूलम्

कुसुमास्तरणे सहायतां बहुशाः सौम्य, गतस्त्वमावयोः ।
कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥ 4.35 ॥

अन्वयः

हेसौम्य ! त्वम् आवयोः बहुशः कुसुमास्तरणे सहायतां गतः । सम्प्रति प्रणिपाताऽञ्जलि याचितः (यन्) तावत् आशु मे चितां कुरु ।

मल्लिनाथः

कृसुमेति ॥ हे सौम्य ! साधो त्वमावयो रतिपञ्चबाणयोर्बहुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहयतां गतः । संप्रति प्रणिपाताञ्जलिना याचितः । अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशुमे चितां काष्ठचयं कुरु कुरुष्व । यथेह तथामुत्रोपकर्तव्यं मित्रेणेत्यर्थः ॥ 4.35 ॥

विश्वास-प्रस्तुतिः

तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीक्षमैः ।
विदितं शलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥ 4.36 ॥

मूलम्

तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीक्षमैः ।
विदितं शलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥ 4.36 ॥

अन्वयः

(हे वसन्त !) तदनु मदर्पितं ज्वलनं दक्षिणवातवीजनैः त्वरयेः, यथा स्मरः मां विना क्षणम् अपि न उत्सहते ते विदितं खलु ।

मल्लिनाथः

तदन्विति । तच्चिताकरणानन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिणवातवीजनैर्मलयमारुतसंचारणैस्त्वरयेः । त्वरितं ज्वलयेत्यर्थः । त्वराहेतुमाह ते तव विदितं खलु ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति वर्तमाने क्तः । तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोत्सहते न हृष्यति । तथा त्वया ज्ञातमेवेत्यर्थः ॥ 4.36 ॥

विश्वास-प्रस्तुतिः

इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ 4.37 ॥

मूलम्

इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ 4.37 ॥

अन्वयः

अपि च इति विधाय नौ एव एव सलिलस्य अञ्जलिः दीयताम् तं स ते बान्धवः परत्र मया सहितः अविभज्य पास्यति ।

मल्लिनाथः

इतीति ॥ अपि चेत्येवं विधाय कृत्वा नावावाभ्यामेक एव सलिलस्याञ्जलिर्दियताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितोऽविभज्य पास्यति ॥ 4.37 ॥

विश्वास-प्रस्तुतिः

परलोकविधौ च माघवः स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमक्षरीः प्रियचीतप्रसवो हि ते सखा ॥ 4.38 ॥

मूलम्

परलोकविधौ च माघवः स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमक्षरीः प्रियचीतप्रसवो हि ते सखा ॥ 4.38 ॥

अन्वयः

हे माघव ! परलोकविधौ स्मरम् उद्दिश्य विलोलपल्लवाः सहकारमञ्जरीः निवपेः, हि ते सखा प्रियचूतप्रसवः ।

मल्लिनाथः

परलोकेति ॥ किंच हे माधव वसन्त ! परलोकविधौ पिण्डोदकादिकर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः सहकारमञ्जरीश्चूतवल्लरीर्विर्वपेर्देहि । हि यस्मात्कारणात्ते सखा स्मरः प्रयाश्चूतप्रसवा यस्य स तथोक्तः ॥ 4.38 ॥

विश्वास-प्रस्तुतिः

इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ 4.39 ॥

मूलम्

इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ 4.39 ॥

अन्वयः

इति देहविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ह्रदशोषविक्लवां शफरीं प्रथमा वृष्टिः इव अन्वकम्पयत् ।

मल्लिनाथः

इतीति । इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् । कृतनिश्चयामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाग्ध्रदशोषविक्लवां ह्रदस्य जलाधारस्य शोषेण विक्लवां शफलीं’प्रौष्ठी तु शफरी द्वयोः’ इत्यमरः । प्रथमा वृष्टिर्वर्षमिवान्वकम्पयदनुकम्पितवती । सदयमुवाचेत्यर्थः । ‘कृपा दयानुकम्पा स्यात्’ इत्यमरः ॥ 4.39 ॥

विश्वास-प्रस्तुतिः

कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद्भविष्यति ।
शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥ 4.40 ॥

मूलम्

कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद्भविष्यति ।
शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥ 4.40 ॥

अन्वयः

हे कुसुमायुधपत्नि ! तव भर्ता चिरात् दुर्लभो न भविष्यति । श्रृणु, येन कर्मणा स हरलोचनाऽर्चिषि शलभत्वं गतः ।

मल्लिनाथः

कुसुमेति ॥ हे कुसुमायुधपत्नि रते ! तव भर्ता चिराच्चिरं दुर्लभो न भविष्यति । किंत्वचिरमेव सुलभो भविष्यतीत्यर्थः । किंच श्रृणु । तत्कर्मेति शेषः ।येन कर्मणा स ते भर्त्ता हरलोचनस्यार्चिर्ज्वाला । ‘ज्वाला भासो न पुंस्यर्चिः’ इत्यमरः । तस्मिञ्शलभत्वं पतङ्गत्वं गतः । ‘समौ पतङ्गशलभौ’ इत्यमरः ॥ 4.40 ॥

विश्वास-प्रस्तुतिः

तदेव कर्मोपाचष्टे-
अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥ 4.41 ॥

मूलम्

तदेव कर्मोपाचष्टे-
अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥ 4.41 ॥

अन्वयः

उदीरितेन्द्रियः प्रजापतिः स्वसुतायाम् अभिलाषम् अकरोत् । अथ तेन विक्रियां निगृह्य अभिशप्तः (सन्) एतत् फलम् अन्वभूत् ।

मल्लिनाथः

अभिलाषेति ॥ उदीरितेन्द्रियः प्रेरितेन्द्रियः स्मरेणेति शेषः । प्रजापतिर्ब्रह्मा स्वसुतायां सरस्वत्यामभिलाषमनुरागमकरोत् । अथ तेन प्रजापतिना विक्रियामिन्द्रियविकारं निकृह्य निरुद्याभिशप्तः सन् । एतत् फलं दाहत्मकं स्वकर्मफलमन्वभूत् ॥ 4.41 ॥

विश्वास-प्रस्तुतिः

शापावधिरपि तेनैवोक्त इत्याह श्लोकद्वयेन-
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥ 4.42 ॥
इति चाह स धर्मयाचितः स्मरशापावधिदां सहस्वतीम् ।
अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ 4.43 ॥

धर्मयाचितः स ‘तपसा तत्प्रवणीकृतो हरो यदा पार्वतीं परिणेष्यति,तदा उपलब्धसुखः (सन्) स्मरं स्वेन वपुषा नियोजयिष्यति’ इति स्मरशापाऽवधिदां सरस्वतीम् आह । वशिनः अम्बुधराश्च अशने अमृतस्य उभयोश्च योनयः ।

मल्लिनाथः

परिणेषयतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणी कृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतिं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशि शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्यभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ 4.42 - 43 ॥

विश्वास-प्रस्तुतिः

तदिदं परिरक्ष शोभने ! भवितव्यप्रियसंगमं वपुः ।
पविपीतजला तपात्यये पुनरोधेन हि युज्यते नदी ॥ 4.44 ॥

मूलम्

तदिदं परिरक्ष शोभने ! भवितव्यप्रियसंगमं वपुः ।
पविपीतजला तपात्यये पुनरोधेन हि युज्यते नदी ॥ 4.44 ॥

अन्वयः

हे शोभने ! तत् भवितव्यप्रियसङ्गमम् इदं वपुः परिरक्ष । हि रविपीतजला नदी तपाऽत्यये पुनरोघेण युज्यते ।

मल्लिनाथः

तदिति ॥ हेशोभने ! तत्तस्मात्कारणाद्भवितव्यो भविष्यन्प्रियसंगमो यस्य तत्तथोक्तमिदं वपुः परिरक्ष । तथाहि । रविपीतजला नदी तपात्यये प्रावृषि। ‘प्रावृट् तपात्यये’ इति हलायुधः । पुनरोघेण प्रवाहेण युज्यते संगच्छते हि ॥ 4.44 ॥

विश्वास-प्रस्तुतिः

इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणाव्यवसायबुद्धिम् ।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना माश्चासयत्सुचरितार्थपदैर्वचोभिः ॥ 4.45 ॥

मूलम्

इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणाव्यवसायबुद्धिम् ।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना माश्चासयत्सुचरितार्थपदैर्वचोभिः ॥ 4.45 ॥

अन्वयः

इत्थम् अदृश्यरूपं किमपि भूतं रतेः मरणव्यवसायबुर्द्धि मन्दीचकार । अथ कुसुमायुधबन्धुः तत्प्रत्ययात् एनां सु चरिताऽर्थपदैः वचोभिः आश्वासयत् ।

मल्लिनाथः

इत्यमिति ॥ इत्थमनेन प्रकारेणादृश्यरूपं किमपि भूतं कशिचतप्राणी । ‘युक्तेक्ष्मादावृते भूतं प्राण्यतोते समे त्रिषु’ इत्यमरः । रतेर्मदनदाराणां मरणव्यवसायबुद्धिं मरणोद्योगबुद्धिं मन्दीचकार । निवारयामासेत्यर्थः । ‘मूढाल्पापटुनिर्भाग्या मन्दाः’ इत्यमरः । अथ कुसुमायुधबन्धुर्वसन्तश्च तत्प्रत्ययात्तस्मिन्भूते विश्वसात् । ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु’ इत्यमरः । एनां रतिं सुष्ठु चरितार्थानि पदानि येषां तैर्वचोभिर्वाक्यैराश्वासयत् । सर्वथा ते देवताप्रसादात्प्रियसंगमो भविष्यतीत्यादिवचनैरस्या दुःखपाचकारेत्यर्थः ॥ 4.45 ॥

विश्वास-प्रस्तुतिः

अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयांबभूव ।
शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥ 4.46 ॥

मूलम्

अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयांबभूव ।
शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥ 4.46 ॥

अन्वयः

अथ व्यसनकृशा मदनवधूः उपप्लवाऽन्तं किरणपरिक्षयधूसरा दिवातनस्य शशिनः लेखा प्रदोषम् इव परिपालयाम्बभूव ।

मल्लिनाथः

अथेति ॥ अथानन्तरं व्यसनेन दुःखेन कृशा मदनवधू रतिरुपप्लवान्तं विपदवधिं किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभवस्य । ‘सायंचिरम्’ इत्यादिना ट्युप्रत्ययः । शशिनश्चन्द्रस्य लेखा प्रदोषं रात्रिमिव परिपालयांबभूव प्रतीक्षांचक्रे । पुष्पिताग्रावृत्तम्- ‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति लक्षणात् ॥ 4.46 ॥

विश्वास-प्रस्तुतिः

इति श्रीमन्महामहोपध्यायकोलाचलमल्लिनाथसूरिविरचितया
सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदास-
कृतौ कुमारसंभवे महाकाव्ये रतिविलापो नाम
चतुर्थः सर्गः ॥ 4.4 ॥

मूलम्

इति श्रीमन्महामहोपध्यायकोलाचलमल्लिनाथसूरिविरचितया
सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदास-
कृतौ कुमारसंभवे महाकाव्ये रतिविलापो नाम
चतुर्थः सर्गः ॥ 4.4 ॥