०३ मदनदहनः

तृतीयः सर्गः

काम-प्राश्नः

विश्वास-प्रस्तुतिः

तस्मिन् मघोनस् त्रिदशान् विहाय
सहस्रम् अक्ष्णां युगपत् पपात
प्रयोजनाऽपेक्षितया प्रभूणां
प्रायश्-चलं गौरवम् आश्रितेषु ॥ 3.1 ॥+++(5)+++

मूलम्

तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात ।
प्रयोजनाऽपेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥ 3.1 ॥

अन्वयः

मघोन अक्ष्णां सहस्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । प्रायः प्रभूणाम् आश्रितेषु गौरवं प्रयोजनाऽपेक्षितया चलम् ।

मल्लिनाथः

तस्मिन्निति । मघोन इन्द्रस्याक्ष्णां सहस्रं त्रिरावृत्ता दशपरिमाणमेषामिति त्रिदशान्देवान् । ‘संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये’ इति बहुव्रीहिः । ‘बहुव्रीहौ संख्येये-’ इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्तवा तस्मिन्कामे युगपत्पपात । सहस्रेणाक्षिभिरद्राक्षीदित्त्यादरातिशयोक्तिः । ननु सुचिरपरित्यगेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्क्यार्थान्तरं न्यस्यति- प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः ॥ 3.1 ॥

विश्वास-प्रस्तुतिः

स वासवेन+“आसन-संनिकृष्टम्
इतो निषीदे"ति विसृष्ट-भूमिः ।
भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना
वक्तुं मिथः प्राक्रमतैवम् एनम् ॥ 3.2 ॥

मूलम्

स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः ।
भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ॥ 3.2 ॥

अन्वयः

स वासवेन आसनसन्निकृष्टम् इतो निषीद इति विसृष्टभूमिः (सन्) भर्तुः प्रसादं मूर्ध्ना प्रतिनन्द्य मिथः एनम् एवं वक्तुं प्राक्रमत ।

मल्लिनाथः

सइति । स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संमिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षमया तु न । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्ध्नाप्रतिनन्द्य सम्भाव्य मिथो रहसि । ‘मिथोऽन्योन्यं रहस्यपि’ इत्यमरः । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तं प्राक्रमतोपक्रान्तवान् । ‘प्रोपाभ्यां समर्थाभ्याम्’ इत्यात्मनेपदम् ॥ 3.2 ॥

विश्वास-प्रस्तुतिः

आज्ञापय ज्ञात-विशेष ! पुंसां
लोकेषु यत् ते करणीयम् अस्ति ।
अनुग्रहं संस्मरण-प्रवृत्तम्
इच्छामि संवर्धितम् आज्ञया ते ॥ 3.3 ॥+++(5)+++

मूलम्

आज्ञापय ज्ञातविशेष ! पुंसां लोकेषु यत्ते करणीयमस्ति ।
अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥ 3.3 ॥

अन्वयः

हे पुंसां ज्ञातविशेष ! आज्ञापय, लोकेषु ते यत् करणीयम् अस्ति, संस्मरणप्रवृत्तं ते अनुग्रहम् आज्ञया संवर्द्धितम् इच्छामि ।

मल्लिनाथः

अज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार । ज्ञातपुंविशेषेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । आज्ञापय । तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगर्निर्बन्धः । किं तदित्याह–लोकेषु ते तव यत्करणीयं कर्तवन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन वर्धय । क्वचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्तपाठे णिजर्थे यत्नः कार्यः ॥ 3.3 ॥

विश्वास-प्रस्तुतिः

केनाभ्यसूया पद-काङ्क्षिणा ते
नितान्त-दीर्घैर् जनिता तपोभिः ।
यावद् ‌भवत्य् आहित-सायकस्य
मत्-कार्मुकस्यास्य निदेश-वर्ती ॥ 3.4 ॥

मूलम्

केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः ।
यावद्‌भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥ 3.4 ॥

अन्वयः

हे प्रभो ! ते पदकाङ्क्षिणा केन नितान्तदीर्घैः तपोभिः अभ्यसूया जनिता । (तं ब्रूहि) (सः) आहितसायकस्य अस्य मत्कार्मुकस्य निदेशवर्ती भवति ।

मल्लिनाथः

केनेति ॥ पदकाङ्क्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्घैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवद्वैर्याहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति । अविलम्बेनैव भविष्यतीत्यर्थः । ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इति लट् ॥ 3.4 ॥

संप्रति चतुर्वर्गे मोक्षसधिकृत्याह-

विश्वास-प्रस्तुतिः

असंमतः कस् तव मुक्ति-मार्गं
पुनर्-भव-क्लेश-भयात् प्रपन्नः ।
बद्धश् चिरं तिष्ठतु सुन्दरीणाम्
आरेचित+++(=कम्पित)+++-भ्रू-चतुरैः कटाक्षैः ॥ 3.5 ॥

मूलम्

असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः ।
बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥ 3.5 ॥

अन्वयः

(हे प्रभो !) तव असम्मतः कः पुनर्भवक्लेशभयात् मुक्तिमार्गं प्रपन्नः ? (यावत् सः) आरेचितभ्रूचतुरैः सुन्दरीणां क्टाक्षैः बद्धः (सन्) चिरं तिष्ठतु ।

मल्लिनाथः

असंमत इति ॥ तवासंमतः कः पुनर्भवः पुनरुत्पत्तिः । संसार इति यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैशो विवर्तिताभिर्भ्रूभिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्टतु । आरेचितलक्षणं तु- ‘स्याद्‌भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्‌भ्रूकुटिर्विदुः ॥’ इति ॥ 3.5 ॥

धर्मार्थावधिकृत्याह-

विश्वास-प्रस्तुतिः

अध्यापितस्योशनसा ऽपि नीतिं
प्रयुक्त-राग-प्रणिधिर्+++(=दूतः)+++ द्विषस् ते ।
कस्यार्थ-धर्मौ वद पीडयामि
सिन्धोस् तटाव् ओघ इव प्रवृद्धः ॥ 3.6 ॥+++(4)+++

मूलम्

अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥ 3.6 ॥

अन्वयः

उशनसा नीतिम् अध्यापितस्य अपि ते कस्य द्विषः अर्थधर्मौ प्रयुक्तरागप्रणीधिः (सन्) अहं प्रवृद्धः ओघः सिन्धोः तटौ इव पीडयामि ? वद ।

मल्लिनाथः

अध्यापितस्येति ॥ उशनसा शुक्रेण नीतिं नीतिशास्त्रम् अध्यापितस्यापि - अपि-शब्दाच् छुकशिष्याणाम् अप्रधृष्यत्वं गम्यते । ‘गतिबुद्धि-’ इत्यादिना द्विकर्मकादिण्धातोर्ण्यन्तात्प्रधाने कर्मणि क्तः ‘अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणाः’ ।इति वचनात् ।

ते द्विषस् तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एव प्रणिधिर् दूतो येन सोऽहम् । ‘प्रर्थने प्रणिधिः चरे’ इति यादवः । प्रवृद्ध ओघः सिन्धोर् नद्यास् तटाविव पौडयामि वद ॥ 3.6 ॥

काममधिकृत्याह-

विश्वास-प्रस्तुतिः

काम् एकपत्नी-व्रत-दुःख-शोलां
लोलं मनश् चारुतया प्रविष्टाम् ।
नितम्बिनीम् इच्छसि मुक्तलज्जां
कण्ठे स्वयं-ग्राह-निषक्त-बाहुम् ॥ 3.7 ॥

मूलम्

कामेकपत्नीव्रतदुःखशोलां लोलं मनश्चारुतया प्रविष्टाम् ।
नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ॥ 3.7 ॥

अन्वयः

एकपत्नीव्रतदुःखशीलां चारुतया लोलं मनः प्रविष्टां कां नितम्बिनीं मुक्तलज्जां (सतीम्) कण्ठे स्वयंग्राहनिषक्तबाहुम् इच्छसि ?

मल्लिनाथः

कामिति । एकः पतिर्यस्याः सैकपत्नी पतिव्रता । ‘नित्यं सपत्न्यादिषु’ इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीलां दुशस्वभावाम् । दृढव्रतामित्यर्थः । ‘शीलं स्वभावे सद्‌वृत्ते’ इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वच्चितं प्रविष्टां कां नितम्बिनीं नारीं मुक्तलज्जां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । ‘विभाषा ग्रहः’ इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभृतामिच्छसि । त्वदर्थे पतिव्रतामपि व्रताद्‌भ्रंशयिष्यामीत्यर्थः ॥ एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तया च श्रुतिः– ‘अहल्यायै जारः’ इति ॥ 3.7 ॥

त्रिविधा नायिका । स्वकीया परकीया साधारणी चेति । तत्र परकीयां प्रत्युक्तम् । इतरे प्रत्याह-

विश्वास-प्रस्तुतिः

कयासि कामिन् सुरतापराधात्
पादानतः कोपनया ऽवधूतः
यस्याः करिष्यामि दृढानुतापं
प्रवाल-शाय्या-शरणं शरीरम् ॥ 3.8 ॥+++(4)+++

विश्वास-टिप्पनी

एतादृशीं शय्यां रचयन्ति स्म वेति संशयः!!?
कुसुमास्तरणम् इति तु कलासु परिगण्यते … किसलयास्तरणं तदपेक्षया विशिष्टत्रम्।
उपचारस् तादृशः कठिन इति न - प्रीतिं मनःसौकुमार्यं चापेक्षते - विशिष्याप्तासु नायिकायाः।

मूलम्

कयासि कामिन् सुरतापराधात्पादानतः कोपनयावधूतः ।
यस्याः करिष्यामि दृढानुतापं प्रवालशाय्याशरणं शरीरम् ॥ 3.8 ॥

अन्वयः

हे कामिन् ! सुरताऽपराधात् पादानतः सन् कोपनया कया अवधूतः असि ? तस्याः शरीरं दृढाऽनुतापं प्रवालशय्याशरणां करिष्यामि ।

मल्लिनाथः

कयेति ॥ हे कामिन्कामुक, सुरतापराधात् । अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि । तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरणं करिष्यामिति ॥ 3.8 ॥

विश्वास-प्रस्तुतिः

प्रसीद, विश्राम्यतु वीर ! वज्रं,
शरैर् मदीयैः कतमः सुरारिः ।
बिभेतु मोघी-कृत-बाहु-वीर्यः
स्त्रीभ्योऽपि सोपस्फुरिताधराभ्यः ॥ 3.9 ॥

मूलम्

प्रसीद विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारिः ।
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि सोपस्फुरिताधराभ्यः ॥ 3.9 ॥

अन्वयः

हे वीर ! प्रसीद, वज्रं विश्राम्यतु । मदीयैः शरैः मोधीकृतबाहुः वीर्यः कतमः सुराऽरिः कोपस्फुरिताऽधराभ्यः स्त्रीभ्यः अपि बिभेतु ।

मल्लिनाथः

प्रसीदेति ॥ हे वीर, प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु । उदास्तामित्यर्थः । मदीयैः शरैर्मोधीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । वा बहूनां जातिपरिप्रश्ने डतमच्’ इति डतमच्प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु । किमु वक्तव्यं पुंभ्य इत्यर्थः सकृद्भीतः सर्वतो बिभोतीति भावः । ‘भीत्रार्थानां भयहेतुः’ इत्यपादानत्वात्पञ्चमी ॥ 3.9 ॥

विश्वास-प्रस्तुतिः

तव प्रसादात् कुसुमायुधो ऽपि
सहायम् एकं मधुम् एव लब्ध्वा
कुर्यां हरस्यापि पिनाक-पाणेर्
धैर्य-च्युतिं! के मम धन्विनो ऽन्ये ॥ ३।१०॥+++(र5)+++

मूलम्

तव प्रसादात्कुसुमायुधो ऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनो ऽन्ये ॥ ३।१०॥

अन्वयः

तव प्रसादात् कुसुमायुधः अपि (अहम्) एकं मधुम् एव सहायं लब्ध्वा पिनाकपाणेः हरस्य अपि धैर्यच्युतिं कुर्याम्, अन्ये धन्विनः मम के ।

मल्लिनाथः

तवेतिस ॥ किं बहुना, तव प्रसादादनुग्रहात्कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधुं वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । ‘प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ’ । हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यरानिं कुर्याम् । कर्तु शक्नुयामित्यर्थः । ‘शकि लिङ् च’ इति शक्यार्थे लिङ् । अन्ये धन्विनो धनुर्भृते मम के । न केऽपीत्यर्थः । किंशब्दः कुत्सायाम् । ‘कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते’ इति शाश्वतः ॥ 3.10 ॥

इन्द्रादेशः

विश्वास-प्रस्तुतिः

अथोरुदेशाद् अवतार्य पादम् आक्रान्ति-संभावित-पाद-पीठम् ।
संकल्पितार्थे विवृतात्म-शक्तिम्
आखण्डलः कामम् इदं बभाषे ॥ 3.11 ॥

मूलम्

अथोरुदेशादवतार्य पाद माक्रान्तिसंभावितपादपीठम् ।
संकल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥ 3.11 ॥

अन्वयः

अथ आखण्डलः ऊरुदेशात् पादम् आक्रान्तिसंभावितपादपीठम् अवतार्य सङ्कल्पिताऽर्थे विवृतात्मशक्तिं कामम् इदं बभाषे ।

मल्लिनाथः

अथेति ॥ अथ स्मरवाक्यश्रवणानन्तरमाखण्डलः सहस्राक्षऊरुदेशात्पादमाक्रमणेन संभावेतं पादपीठं यस्मिंस्तद्यथा तथावतार्थं संकल्पितार्थे हरचिताकर्षणरूपे विषये विवृतात्मशक्तिम् । ‘कुर्यां हरस्यापि-’ (3/10) इत्यादिना प्रकटीकृतस्वसामर्थ्य कामं स्मरमिदं वक्ष्यमाणां बभाषे ॥ 3.11 ॥

विश्वास-प्रस्तुतिः

सर्वं सखे ! त्वय्य् उपपन्नम् एतद्,
उभे ममास्त्रे कुलिशं भवांश्च ।
वज्रं तपो-वीर्य-महत्सु कुण्ठं,
त्वं सर्वतो-गामि च साघकं च ॥ 3.12 ॥+++(5)+++

मूलम्

सर्वं सखे ! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च ।
वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साघकं च ॥ 3.12 ॥

अन्वयः

सखे ! सर्वम् एतत् त्वयि उपपन्नम्, मम कुलिशं भवांश्च उभे अस्त्रे । वज्रं तपोवीर्यमहत्सु कुण्ठम् । त्वं सर्वतोगामि साधकं च ।

मल्लिनाथः

सर्वमिति ॥ हे सखे ! सखे इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धंम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे । तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् । त्वमस्त्रं पर्वतोगामि च साधकं च । तापसेष्वप्यकुण्ठमित्यर्थः ॥ 3.12 ।

विश्वास-प्रस्तुतिः

अवैमि ते सारम् अतः खलु त्वां
कार्ये गुरुण्य् आत्म-समं नियोक्ष्ये ।
व्यादिश्यते भू-धरताम् अवेक्ष्य
कृष्णेन +++(विष्णुना)+++ देहोद्वहनाय शेषः ॥ 3.13 ॥+++(5)+++

मूलम्

अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥ 3.13 ॥

अन्वयः

(हे सखे !) ते सारम् अवैमि । अतः खलु आत्मसमं त्वां गुरुणि कार्ये नियोक्ष्ये । कृष्णीन भूधरताम् अवेक्ष्य शेषो देहोद्वहनाय व्यादिश्यते ।

मल्लिनाथः

अवैमीति ॥ हे सखे, ते सारं बलमवैमि वेद्मि । अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये ‘तस्मै हिमाद्रेः-’ (3/16) इति वक्ष्यमाणे नियोक्ष्ये । ‘स्वराद्यन्तोपसर्गादिति वक्तव्यम्’ इति वार्तिकादात्मनेपदनियमः । तथाहि । सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह- कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् । भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । ‘क्रियार्थोपपदस्य-’ इत्यादिना चतुर्थी । व्यादिश्यते नियुज्यते । शेषशायी हि भगवान् ॥ 3.13 ॥

नियोगाङ्गीकारं सिद्धवत्कर्तुमाह-

विश्वास-प्रस्तुतिः

आशंसता बाणगतिं वृषाङ्के
कार्यं त्वया नः प्रतिपन्न-कल्पम्
निबोध यज्ञांश-भुजाम् इदानीम्
उच्चैर्-द्विषाम् ईप्सितम् एतद् एव ॥ 3.14 ॥

मूलम्

आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥ 3.14 ॥

अन्वयः

हे मित्र ! वृषाङके बाणगतिम् आशंसता त्वया नः कार्य प्रतिपन्नकल्पम् । इदानीम् उच्चैर्द्विषाम् यज्ञांऽशभुजाम् ईप्सितम् एतत् एव निबोध ॥ 3.14 ॥

मल्लिनाथः

आशंसतेति ॥ वृषाङ्केहरे बाणगतिं बाणाप्रसरमाशंसता कथयता । ‘कुर्यां हरस्यापि पिनाकपाणेः’ (3/10) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । ‘ईषदसमात्पौ-’ इत्यादिना कल्पप्रत्ययः ।

कथमेतदित्याह-

इदानीम् उच्चैर् उन्नता द्विषो येषां तेषाम् उच्चैद्विषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लत्पयज्ञभागत्वं सूच्यते । ईप्सितमाप्तुमिष्टमेतदेव हरे बाणप्रयोगरूपमेव निबोध । हरायत्तं बुद्ध्यस्वेत्यर्थः । ‘बुध बोधने’ इति धातोर्लोट् । अत्र ‘आशंसता प्रार्थयमानेन’ इति नाथव्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् । याच्‌ञार्थत्वस्याप्रामाणिकत्वात् । ‘कुर्यां हरस्यापि-’ (3/10) इत्यत्रानयोरभावादयोगच्चेति ॥ 3.14 ॥

किं तत्कार्यं कथं वा तस्य हरायत्तत्वं कुतो वा मदपेक्षेत्याह-

विश्वास-प्रस्तुतिः

अमी हि वीर्य-प्रभवं भवस्य
जयाय सेनान्यम् उशन्ति देवाः ।
स च त्वद्-एकेषु-निपात-साध्यो
ब्रह्माङ्ग-भूर् ब्रह्मणि योजितात्मा ॥ 3.15 ॥

मूलम्

अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः ।
स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥ 3.15 ॥

अन्वयः

हि अमी देवाः जयाय भवस्य वीर्यप्रभवं सेनान्यमम् उशन्ति । ब्रह्माऽङ्गभूः ब्रह्मणि योजितात्मा स च त्वदेकेषुनियातसाध्यः ।

मल्लिनाथः

अमी इति ॥ हि यस्मादमी देवा जयाय शत्रुजयार्थ भवस्य हरस्य वीर्यप्रभवं तेजः संभूतं सेनापतिमुशन्ति कामयन्ते । ‘वश कान्तौ’ इति धातोर्लोट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः । कृतमन्त्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे ‘वेदस्तत्वं तपो ब्रह्म ब्रह्मा’ इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः । मन्त्रन्यासपूर्वंकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः । अनन्यसाध्योऽयमस्मिन्नवसर इति भावः ॥ 3.15 ॥

विश्वास-प्रस्तुतिः

तस्मै हिमाद्रेः प्रयतां तनूजां
यतात्मने रोचयितुं यतस्व
योषित्सु तद्-वीर्य-निषेक-भूमिः
सैव क्षमेत्य् आत्म-भुवोपदिष्टम् ॥ 3.16 ॥

मूलम्

तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ 3.16 ॥

अन्वयः

यतात्मने तस्मै प्रयतां हिमाऽद्रेः तनूजां रोचयितुं यतस्व । योषित्सु क्षमा तद्वीर्यनिषेकभूमिः सा एव इति आत्मभुवा उपदिष्टम् ।

मल्लिनाथः

तस्मा इति ॥ यतात्मने नियतचित्ताय तस्मै भवाय । ‘रुच्यर्थानां प्रीयमाणः’ इति संप्रदानत्वाच्चतुर्थि । प्रयतां हिमाद्रेस्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याह-योषित्सु स्त्रीषु मध्ये । ‘यतश्च निर्धारणम्’ इति सप्तमी । क्षमा शक्ता तस्य हरस्य वीर्यं रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेत्यात्मभुवा ब्रह्मणोपदिष्टम् । ‘उभे एव क्षमे वोढुम्’ (2.60) इत्यादिनोक्तमित्यर्थः ॥ 3.16 ॥

सापीदानीं संनिकृष्टैव तस्येत्याह-

विश्वास-प्रस्तुतिः

गुरोर् नियोगाच् च नगेन्द्रकन्या
स्थाणुं तपस्यन्तम् अधित्यकायाम् ।
अन्वास्त इत्य् अप्सरसां मुखेभ्यः
श्रुतं मया - मत्-प्रणिधिः स वर्गः ॥ 3.17 ॥

मूलम्

गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥ 3.17 ॥

अन्वयः

नगेन्द्रकन्या च गुरौः नियोगात् अधित्यकायां तपस्यन्तं स्थाणुम् अन्वास्ते इति मया अप्सरसां मुखेभ्यः श्रुतं, स वर्गः मत्प्रणीधिः ।

मल्लिनाथः

गुरोरिति ॥ नगीन्द्रकन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरुर्ध्वभूमौ । ‘भूमिरुर्ध्वमधित्का’ इत्यमरः । ‘उपाधिभ्यां त्यकन्नासन्नारुढयोः’ इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’ इति क्यङप्रत्ययः । ततः शतृप्रत्ययः । रथाणं रुद्रमध्वास्ते । उपास्ते इत्यर्थः इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह- स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । ‘प्रणिधिः प्रार्थने चर’ इति यादवः ॥ 3.17 ॥

विश्वास-प्रस्तुतिः

तद् गच्छ सिद्ध्यै, कुरु देव-कार्यम्,
अर्थोऽयम् अर्थान्तर+++(→पार्वतीसंनिधानम्)+++-भाव्य एव ।
अपेक्षते प्रत्ययम् उत्तमं त्वां
बीजाङ्कुरः प्राग् उदयाद् इवाम्भः ॥ 3.18 ॥+++(4)+++

मूलम्

तद् गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव ।
अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ 3.18 ॥

अन्वयः

तत् सिद्ध्यै गच्छ । देवकार्यं कुरु । अयम् अर्थः अर्थान्तरभाव्य एव । बीजाऽङ्कुरः उदयात् प्राक् अम्भ इव त्वाम् इत्तमं प्रत्ययम् अपेक्षते ।

मल्लिनाथः

तदिति ॥ तत् तस्मात् सिद्ध्यै कार्यसिद्ध्यर्थं गच्छदेवकार्यं कुरु । आशिषिं लोट् । अयम् अर्थः प्रयोजनम् अर्थान्तरभाव्यः कारणान्तरसाध्य एव । तच्च कारणान्तरं पार्वतीसंनिधानम् इति भावः । ‘अर्थः प्रकारे विषमे वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ।’ इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुरु उदयादुत्पतेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु’। इत्यमरः । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः ॥ 3.18 ॥

विश्वास-प्रस्तुतिः

तस्मिन् सुराणां विजयाभ्युपाये
तवैव नामास्त्र-गतिः, कृती त्वम्
+++(चेद्)+++ अप्य् अप्रसिद्धं, यशसे हि पुंसाम्
अनन्य-साधारणम् एव कर्म ॥ 3.19 ॥+++(5)+++

मूलम्

तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥ 3.19 ॥

अन्वयः

सुराणां विजयाभ्युपाये तस्मिन् अस्त्रगतिः तव एव नाम । अतः त्वं कृती । हि अप्रसिद्धम् अपि अनन्यसाधारणम् एव कर्म पुंसां यशसे भवति ।

मल्लिनाथः

तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रप्रसरस्तवैव नाम । नामेति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतार्थः । तथाहि । अप्रसिद्धम् अप्य् अनन्यसाधारणमेव कर्म पुंसां यशसे हि । इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः ॥ 3.19 ॥

प्रोत्साहनार्थ स्तौति-

विश्वास-प्रस्तुतिः

सुराः समभ्यर्थयितार एते,
कार्यं त्रयाणाम् अपि विष्टपानाम् ।
चापेन ते कर्म न चातिहिंस्रम्,
अहो बतासि स्पृहणीय-वीर्यः ॥ 3.20 ॥

मूलम्

सुराः समभ्यर्थयितार एते, कार्यं त्रयाणामपि विष्टपानाम् ।
चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥ 3.20 ॥

अन्वयः

एते सुराः समभ्यर्थयितारः । कार्यं त्रयाणाम् अपि विष्टपानाम् । कर्म ते चापेन, अतिहिंस्त्रं च न । अहो बत ! क्पुहणीयवीर्यः असि ।

मल्लिनाथः

सुरा इति ॥ एते सुराः समभ्यर्ययितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि । सर्वलोकार्‌थमित्यर्थः। कर्म ते तव चोपेन । न त्वन्येनेति भावः । अतिर्हिस्त्रमतिधातुकं च न। अहो बत इति संबोधने । ‘अहो बतानुकम्पायां खेदे संबोधनेऽपि च’ इति विश्वः । अथवा अहो आश्चर्ये । बतेत्यामन्त्रणे संतोषे चेति । ‘बतामन्त्रणसंतोषखेदानुक्रोशविस्मये’ । इति विश्वः । स्पृहणीयं च इति नानार्थकोषः ॥ 3.20 ॥

विश्वास-प्रस्तुतिः

मधुश् च ते मन्मथ ! साहचर्याद्
असाव् अनुक्तोऽपि सहाय एव ।
समीरणो “नोदयिता भवे"ति
व्यादिश्यते केन हुताशनस्य ॥ 3.21 ॥+++(5)+++

मूलम्

मधुश्च ते मन्मथ !साहचर्यादसावनुक्तोऽपि सहाय एव ।
समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ 3.21 ॥

अन्वयः

हे त्ममथ ! असौ मधुश्च ते साहचर्यात् अनुक्तोऽपि सहाय एव । समीरणो हुताऽशनस्य नोदयिता भवेति केन व्यादिश्यते ?

मल्लिनाथः

मधुरिति ॥ हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुहुर्ताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यादिश्यते । अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट ितिप्रतिवस्तूपमालंकारोऽयम्। तदुक्तम्– ‘यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥’ इति ॥ 3.21 ॥

विश्वास-प्रस्तुतिः

तथेति +++(भुक्त-)+++शेषाम् इव भर्तुर् आज्ञाम्
आदाय मूर्ध्ना मदनः प्रतस्थे
ऐरावतास्फालन-कर्कशेन
हस्तेन पस्पर्श तद् अङ्गम् इन्द्रः ॥ 3.22 ॥+++(4)+++

मूलम्

तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे ।
ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ 3.22 ॥

अन्वयः

‘तथा’ इति भर्तुः शेषाम् इव आज्ञां मूर्ध्ना आदाय मदनः प्रतस्थे । इन्द्रः ऐरावतास्फालनकर्कशेन हस्तेन तदर्ङ्ग पस्पर्श ।

मल्लिनाथः

तथेति ॥ तथास्त्विति भर्तुः स्वामिनः शेषाम् इव प्रसाददत्तां मालामिव । ‘प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता’ । इति विश्वः । ‘माल्याक्षतादिदाने श्त्री शेषा’ इति वैजयन्तीकेशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे ।‘समवप्रविभ्यः स्थः’ इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श । हस्तस्पर्शेन संभावयामासेत्यर्थः ।‘शेषामिवाज्ञाम्’ इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्युपमा । अथ न दत्ता तर्हि शेषात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति ॥ 3.22 ॥

प्रजिहीर्षा

विश्वास-प्रस्तुतिः

स माधवेनाभिमतेन सख्या,
रत्या च साशङ्कम् अनुप्रयातः
अङ्ग-व्यय–प्रार्थित-कार्य–सिद्धिः
स्थाण्व्-आश्रमं हैमवतं जगाम ॥ 3.23 ॥+++(4 र)+++

मूलम्

स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः ।
अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥ 3.23 ॥

अन्वयः

सः अभिमतेन सख्या माधवेन रत्या च साशङ्कम् अनुप्रयातः (सन्) अह्गव्ययप्रर्थितकार्यसिद्धिः हैमवतं स्थाण्वाश्रमं जगाम ।

मल्लिनाथः

स इति ॥ स मदनेऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं संकटमापतितमिति सभयमनुप्रायातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्धिर्येन स तथोक्तः । शीर्त्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम ॥3.23 ॥

विश्वास-प्रस्तुतिः

तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलर्तो ।
संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥ 3.24 ॥

मूलम्

तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलर्तो ।
संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥ 3.24 ॥

अन्वयः

तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्तो मधुः सङ्कल्पयोनेः अभिमानभूतम् आत्मानम् आधाय जजृम्भे ।

मल्लिनाथः

तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तते इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनोर्मनोभवस्याभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजस्वरुपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव । वसन्तधर्मन्प्रवर्तयामासेत्यर्थः ॥ 3.24 ॥

विश्वास-प्रस्तुतिः

कुबेरगुत्पां दिशमुष्णरश्मौ गन्तुंप्रवृत्ते समयं विलङ्घ्‌य ।
दिग्दक्षिण गन्धवहं मुखेन व्यलीकनिश्वासमिवोत्ससर्ज ॥ 3.25 ॥

मूलम्

कुबेरगुत्पां दिशमुष्णरश्मौ गन्तुंप्रवृत्ते समयं विलङ्घ्‌य ।
दिग्दक्षिण गन्धवहं मुखेन व्यलीकनिश्वासमिवोत्ससर्ज ॥ 3.25 ॥

अन्वयः

उष्णरश्मौ समयं विलङ्घ्‌य कुबेरगुत्पां दिशं गन्तुं प्रवृत्ते (सति) दक्षिणा दिक्मुखेन गन्धवहं व्यलीकनिश्वासम् इव उत्ससर्ज ।

वसन्तधर्मानाह-
मल्लिनाथः

कुबेरेति । उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्ध्याकाण्डे व्यतिक्रम्य कुबेरगुत्पां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षित्पां कांचिन्नायिकां च गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाग्रभागेन वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनीलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिस्वासमिव । ‘दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यंवस्तुनोः’ इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ताः इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशे।सामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । नच च श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरुपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया ग्रहामेदमासदयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः ॥ 3.25 ॥

विश्वास-प्रस्तुतिः

असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ॥ 3.26 ॥

मूलम्

असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ॥ 3.26 ॥

अन्वयः

अशोकः सद्यः स्कन्धात् प्रभूति एव सपल्लवानि कुसुमानि कुसुमानि असूतः आसिञ्जितनूपुरेण सुन्दरीणां पादेन सम्पर्क न अपैक्षत ।

मल्लिनाथः

असूतेति ॥ अशोको वृक्षविशेषः सद्यः स्कन्धात्प्रकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । भाष्यं च ‘मूलात्प्रभृत्याग्राद्‌वृक्षांस्तक्ष्णुवन्ति’ इति ‘कार्तिक्याः प्रभृत्याग्रहायणी मास’ इत्यादि । सपल्लवानि कुसुमान्यसूत । उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नूपुरो यस्य तेन । सञ्जधातोः ‘अकर्मक–’ इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्कं ताडनं नापैक्षत । ‘सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दैहदं यदशोकस्य ततः पुष्पोद्‌गमो भवेत् ॥’ इति । तथाहि- ‘पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलोकितः कुरुबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति’ इति ॥ 3.26 ॥

विश्वास-प्रस्तुतिः

सद्यः प्रवालोद्‌गमचारुपत्त्रे नीते समाप्तिं नवचूतबाणे ।
निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ॥ 3.27 ॥

मूलम्

सद्यः प्रवालोद्‌गमचारुपत्त्रे नीते समाप्तिं नवचूतबाणे ।
निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ॥ 3.27 ॥

अन्वयः

मधुः प्रवालोद्गमचारुपत्रे नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य नामाक्षराणि इव द्विरेफान् निवेशयामास ।

मल्लिनाथः

सद्य इति । मधुर्वसन्त एवेषुकारः प्रवालोद्‌गमाः पल्लवाङ्कुरा एव चारुणि पत्त्राणिपक्षा यस्य तस्मिन् । ‘पत्त्रं वाहनपक्षयोः’ इत्यमरः । नवं चूतं चूतकुसुमं तदेव बाणस्तस्मिन्नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य धन्विनो नामाक्षराणीव, द्विरेफान्भ्रमरान्निवेशयामास निदधौ । अत्र प्रवालपत्र इत्याद्येक्देशविवर्तिरुपकं मधोरिषुकारत्वं रूपं यन्नामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरुपकोत्थापितेयमृत्प्रेक्षा ॥ 3.27 ॥

विश्वास-प्रस्तुतिः

वर्णप्रकर्षे सति कर्णिकारं दुनोति निगर्न्धतया स्म चेतः।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्र्वसृजः प्रवृत्तिः ॥ 3.28 ॥

मूलम्

वर्णप्रकर्षे सति कर्णिकारं दुनोति निगर्न्धतया स्म चेतः।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्र्वसृजः प्रवृत्तिः ॥ 3.28 ॥

अन्वयः

कर्णिकारः वर्णाप्रकर्षे सति निर्गन्धतया चेतो दुनोति स्म । प्रायेण विश्वसृजः प्रवृत्तिः गुणानां सामग्र्यविधौ पराङ्मुखी ।

मल्लिनाथः

वर्णेति । कर्णिकारं कर्णिकारकुसुमम् । ‘अवयवें च प्राण्योषधिवृक्षेभ्यः’ इत्युत्पन्नस्य तद्धितस्य ‘पुष्पमूलेषु बहुलम्’ इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कषं सत्यपि निर्गन्धतया हेतुना चेतो दुनोति स्म पर्यंतापयत् । ‘लट् स्मे’ इति भूतार्थे लट् । तथाहि । प्रायेण विश्वसृजो विधातुः प्रवृत्तिर्गुणानां सामग्र्यविधौ साकल्यसंपादनविषये पराङ्मुखो । सर्वत्रापि वस्तुनि र्किचिद्वैकल्यं संपादयति । यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यतत इति भावः । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलंकारः ॥ 3.28 ॥

विश्वास-प्रस्तुतिः

बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ 3.29 ॥

मूलम्

बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ 3.29 ॥

अन्वयः

अविकासभावात् बालेन्दुवक्राणि अतिलोहितानि पलाशानि वसन्तेन समागतानां वनस्थलोनां सद्यो नखक्षतानि इव बभुः ।

मल्लिनाथः

बालेन्द्वति । अविकासभावान्निर्विकासत्वान्मुकुलभावाद्वेतोर्बालेन्दुरिव वक्राण्यतिलोहितान्यतिरक्तानि पलाशानि किंशुकपुष्पाणि । ‘पलाशं किंशुकः पर्णः’ इत्यमरः । वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्या दत्तानि । पुराणेष्वतिलौहित्याभावादिति भावः । नखक्षतानोव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति । ‘नखक्षतानीव’ इति जातिस्वरुपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । विशेषणसामार्थ्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यत इति हि लक्षणम् ॥ 3.29 ॥

विश्वास-प्रस्तुतिः

लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य ।
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥ 3.30 ॥

मूलम्

लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य ।
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥ 3.30 ॥

अन्वयः

मधुश्रीः लग्नद्विरेफाञ्जनभक्तिचित्रं तिलकं मुखे प्रकाश्य बालाऽरुणकेमलेन रागेण चूतप्रवालोष्ठम् अलञ्चकार ।

मल्लिनाथः

लग्नेति । मधुश्रीवंसन्तलक्ष्मीर्लग्नद्विरेफा एवाञ्जनभक्तयः कज्जलरचनास्ताभिश्चित्रं चित्रवर्णं तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्त्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एवौष्ठस्तं चूतप्रवालोष्ठमलंचकार प्रसाधयामास । अत्र रुपकालंकारः ॥ 3.30 ॥

विश्वास-प्रस्तुतिः

मृगाः प्रियालद्रुममञ्जरीणां रजःकणैविध्नितदृष्टिपाताः ।
मदोद्धताः प्रत्यनिलं विचेरुर्बनस्थलीर्मर्मरपत्रमोक्षाः ॥ 3.31 ॥

मूलम्

मृगाः प्रियालद्रुममञ्जरीणां रजःकणैविध्नितदृष्टिपाताः ।
मदोद्धताः प्रत्यनिलं विचेरुर्बनस्थलीर्मर्मरपत्रमोक्षाः ॥ 3.31 ॥

अन्वयः

प्रियालद्रुपममञ्जरीणां रजःकणैः विध्नितदृष्टिपाता मदोद्धताः मृगाः प्रत्यनिलं मर्मरपत्रमोक्षा वनस्थलीः विचेरुः ।

मल्लिनाथः

मृगा इति । प्रियालद्रुमा राजादनवृक्षाः । ‘राजादनः प्रियालः स्यात्’ इत्यमरः । तेषां मञ्जर्यस्तासां रजःकणैर्विध्निताः संजातविध्ना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मरशब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्ति स्म । ‘देशकालध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्’ । इति चरतेः सकर्मकत्वम् ॥ 3.31 ॥

विश्वास-प्रस्तुतिः

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
मनुस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ 3.32 ॥

मूलम्

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
मनुस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ 3.32 ॥

अन्वयः

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यत् मधुरं चुकूज, तद् एव मनस्विनीमानबिघातदक्षं स्मरस्य वचनं जातम् ।

मल्लिनाथः

चूताङ्कुरेति । चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । ‘सरभावपथे रक्ते कषायः’ इति केशवः । पुमान्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । मधुरं चुकूजेति यत्तत्कूजनमेव मनस्विनीनां मानविघाते रोषनिरासे दक्षं स्मरस्य वचनं मानं त्यजतेत्याज्ञावचनं जातम् । कोकिलकूजितश्रवणानन्तरं स्मराज्ञत्पा इव मानं जहुरित्यर्थः ॥ 3.32 ॥

विश्वास-प्रस्तुतिः

हिमव्यपायाद्विशदाधराणा मापाण्डरीभूतमुखच्छवीनाम् ।
स्वेदोद्‌गमः किंपुरुषाङ्गनानां चक्रे पदं पत्त्रविशेषकेषु ॥ 3.33 ॥

मूलम्

हिमव्यपायाद्विशदाधराणा मापाण्डरीभूतमुखच्छवीनाम् ।
स्वेदोद्‌गमः किंपुरुषाङ्गनानां चक्रे पदं पत्त्रविशेषकेषु ॥ 3.33 ॥

अन्वयः

हिमव्यपायात् विशदाऽधराणाम् आपाण्डरीभूतमुखच्छवीनां किंपुरुषाऽङ्गनानां पत्त्रविशेषकेषु स्वेदीद्‌गमः पदं चक्रे ।

मल्लिनाथः

हिमेति । हिमस्य व्यपायादपगमाद्विशदा नीरुजा अधरा ओष्ठा यासां तासामापाण्डरीभूतमुखच्छवीनाम् । कुङ्कुमपरिहारादिति भावः । किंपुरूषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्‌गमः पदं चक्रे । घर्मोदयात्स्वेदोदयोऽभूदित्यर्थः । विशदाधरात्वं मधूच्छिष्टराहित्यादिति हेमन्तेषु नार्यो बिम्बोष्ठेषु मधुच्छिष्टं शीतभयाद्दधतीति प्रसिद्धम् ॥ 3.33 ॥

विश्वास-प्रस्तुतिः

तपस्विनः स्थाणुवनौकसस्तामाकालिकिं वीक्ष्य मधुप्रवृत्तिम् ।
प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ॥ 3.34 ॥

मूलम्

तपस्विनः स्थाणुवनौकसस्तामाकालिकिं वीक्ष्य मधुप्रवृत्तिम् ।
प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ॥ 3.34 ॥

अन्वयः

स्थाणुवनौकसः तपस्विवः आकालिकीं तां मधुप्रबृत्तिं वीक्ष्य प्रयत्नसंस्तभ्भितविक्रियाणां मनसां कथंचित् ईशा बभूवुः ।

मल्लिनाथः

तपस्विन इति । स्थाणोर्वनमोको येषां ति तपस्विनस्तत्रत्या मुनयः । समानकाले आद्यन्तावस्या आकालिकीम् । अकालभवत्वादुत्पत्त्यनन्तरविनीशिनीमित्यर्थः । ‘आकालिकडाद्यन्तवचने’ इति समानकालदिकट्प्रत्ययः प्रकृतेराकाल आदेशश्च निपातितः । ‘टिड्ढाणञ्-’ इत्यादिना ङीप् । केचिदकालाद् देहादध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकिं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः ॥ 3.34 ॥

विश्वास-प्रस्तुतिः

तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवब्रुः ॥ 3.35 ॥

मूलम्

तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवब्रुः ॥ 3.35 ॥

अन्वयः

आरोपितपुष्पचापे रतिद्वितीये मदने तं देशं प्रपन्ने सति द्वन्द्वानि काष्ठागतस्नेहरसाऽनिविद्धं भावं क्रियया विवव्रु ।

मल्लिनाथः

तमिति । आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन्नतिर्द्वितीया यस्य तस्मिन्रतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति द्वन्द्वानि स्थावराणि जङ्गमानि च मिथुनानि काष्ठोत्कर्षः । ‘काष्ठोत्कर्षेस्थितौ दिशि’ इत्यमरः । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः ‘प्रेमा ना प्रियता हार्दं प्रेम स्नेहः’ इत्यमरः । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं श्रृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवब्रुः प्रकटीचक्रुः । श्रृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः ॥ 3.35 ॥

विश्वास-प्रस्तुतिः

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ 3.36 ॥

मूलम्

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ 3.36 ॥

अन्वयः

द्विरेफः कुसुमैकपात्रे मधु स्वां प्रियाम् अनुवर्तमानः (सम्) पपौ । कुष्णासारश्च स्पर्शनिमीलिताक्षीं मृगीं श्रृङ्णेण अकण्डूयत ।

ताश्चेष्टा आह 'मधु' इत्यादिभिश्चर्तुभिः-
मल्लिनाथः

मध्विति । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः- ‘शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफत्वाद् द्विरेफो भ्रमरः’ इति । कुसुममेवैकं साधारणं पात्रं तस्मिन्मधु मकरन्दम् । ‘मधु मद्ये पुष्परसे’ इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन्पपौ । तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शवलश्च कृष्णसारः कृष्णमृगः । ‘वर्णो वर्णेन’ इति समासः । स्पर्शेन स्पर्शसुखेनु निमीलिताक्षीं मृघीं श्रृङ्गेणाकण्डूयत कर्षितवान् । ‘कण्ड्‌वाद्भ्यो यक्‌’ इति यक् । ततः कर्तरि लङ् ॥ 3.36 ॥

विश्वास-प्रस्तुतिः

ददौ रसात्पङ्कजरेणुगन्धि गजाय गणडूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां संभावायामास रथाङ्गनामा ॥ 3.37 ॥

मूलम्

ददौ रसात्पङ्कजरेणुगन्धि गजाय गणडूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां संभावायामास रथाङ्गनामा ॥ 3.37 ॥

अन्वयः

रसात् करेणुः पङ्कजरेणुगन्धि गण्डूषजलं गजाय ददौ । रथाऽङ्गनामा च अर्धोपमुक्तेन बिसेन जायां सम्भावयामास ।

मल्लिनाथः

ददाविति । रसादतिरागात्करेणुः करिणी । ‘करेणुरिभ्यां स्त्री नेभे’ इत्यमरः । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुस्तस्य गन्धोऽस्यास्तीति पङ्कजेरणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकोऽर्धं यतातथोपभुक्तेनार्द्धजग्धेन बिसेन जायां संभावयामास । स्वजग्धशेषं ददावित्यर्थः ॥ 3.37 ॥

विश्वास-प्रस्तुतिः

गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्‌वासितपत्त्रलेखम् ।
पुष्पासवाघूर्णितनेत्रशेभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥ 3.38 ॥

मूलम्

गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्‌वासितपत्त्रलेखम् ।
पुष्पासवाघूर्णितनेत्रशेभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥ 3.38 ॥

अन्वयः

किंपुरुषः गीताऽन्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्‌वासितपत्त्रलेखं पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं चुचुम्बे ।

मल्लिनाथः

गीतान्तरेष्विति । किंपुरुषः किनरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः किंचिदीषत्समुच्छ्‌वासिता विश्लेषिताः पत्त्रलेखा यस्य तत् । पुष्पाणामासवो मद्यं पुष्पासवः । पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात्पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुद्‌भ्रान्ताभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्यंषु चुचुम्बे चुचुम्ब ॥ 3.38 ॥

विश्वास-प्रस्तुतिः

पर्यात्पपुष्पस्तवकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः ।
लतावधूभ्यस्तरवोऽप्यवापुर्विनभ्रशाखाभुजबन्धनानि ॥ 3.39 ॥

मूलम्

पर्यात्पपुष्पस्तवकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः ।
लतावधूभ्यस्तरवोऽप्यवापुर्विनभ्रशाखाभुजबन्धनानि ॥ 3.39 ॥

अन्वयः

तरवोऽपि पर्यात्पपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यो लतावधूभ्यः विनम्रशाखाभुजबन्धनानि अवापुः ।

मल्लिनाथः

पर्याप्तेति । पर्याप्ताः समग्राः पुष्पस्तबका एव स्तना यासां ताभ्यः । ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्’ इति विकल्पान्न ङीप् । स्फुरन्तः प्रवालाः पल्लवा एवौष्ठास्तैर्मनोहराभ्यो लता एव वध्वस्ताभ्यः सकाशात्तरवोऽपि । लिङ्गादेव पुंस्त्वं गम्यते । विनम्राः शाखा एव भुजास्तैर्बन्धनान्यवापुः । ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत्किमुतान्योषामिति भावः । एतच्च तरुलतानामपि चेतनत्वादूक्तम् । यथाह मनुः- ‘अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विताः’ । इति । अत्र रुपकालंकारः ॥ 3.39 ॥

विश्वास-प्रस्तुतिः

श्रिताप्सरोगितिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विध्नाः समाधिभेदप्रभवो भवन्ति ॥ 3.40 ॥

मूलम्

श्रिताप्सरोगितिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विध्नाः समाधिभेदप्रभवो भवन्ति ॥ 3.40 ॥

अन्वयः

अस्मिन् क्षणे हरः श्रताऽप्सरोगीतिः अपि प्रसंख्यानपरो बभूव । आत्मेश्वराणां विध्ना जातु समाधिभेदप्रभावा न भवन्ति ।

मल्लिनाथः

श्रुतेति । अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि । दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथाहि । आत्मनश्चित्तस्येश्वराणां नियन्तॄणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विध्नाः प्रत्यूराः । घञर्थे कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति ॥ 3.40 ॥

विश्वास-प्रस्तुतिः

लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।
मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्ध्यनैषीत् ॥ 3.41 ॥

मूलम्

लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।
मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्ध्यनैषीत् ॥ 3.41 ॥

अन्वयः

अथ लतागृहद्वारगतो वामप्रकोष्ठार्पितहेमवेत्रः नन्दी मुखाऽर्पितैकाऽङ्गुलिसंज्ञया एव गणान् ‘चापलाम मा (भूत) इति व्यनैषीत् ।

मल्लिनाथः

लतेति । अथ लतागृहद्वारं गतो वामे प्रकोष्ठेऽर्पितहेमवेत्रो धाीरितहेमदण्डो नन्दी नन्दीकेश्वरः । ‘नन्दी भृङ्गिरिटिस्तण्डुनन्दिनौ नन्दिकेश्वरे’ इति कोशः । मुकेऽर्पितायाः सरेषविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुलेस्तर्जन्याः संज्ञया सूचनयैव । ‘संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना’ । इत्यमरः । गणान्प्रमथांश्चापलाय चापलं कर्तुं मा भवतेति । ‘क्रियार्थोपपदस्य-’ इत्यादिना चतुर्थि । व्यनैषोच्छिक्षितवान् ॥ 3.41 ॥

विश्वास-प्रस्तुतिः

पीत्याह-
निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतास्थे ॥ 3.42 ॥

मूलम्

पीत्याह-
निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतास्थे ॥ 3.42 ॥

अन्वयः

निष्कम्पवृक्षं निभृतद्विरेफं मूकाऽण्डजं शान्तमृगाप्रचारं सर्वम् एव काननं तच्छासनात् चिऽत्रार्पितारम्भम् इव अवतस्थे ।

मल्लिनाथः

निष्कम्पेति । निष्कम्पवृक्षम्, इदमुद्भिजोपलक्षणम् । निभृतद्विरेफं निश्चलभृङ्गम् । स्वेदजोपलक्षणमेतत् । मूकाण्डजं निः शब्दंपक्षिसरीसृपादिकम् । एतेनाण्डजजातिरुक्ता । शान्तमृगाप्रचारम्, जरायुजोपलक्षणमेतत् । सर्वमेव काननं तच्छासनान्नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भमिवावतस्थे । ‘मृगवाद्या जरायुजाः । स्वेदजाः कृमिर्दशाद्याः पक्षिसर्पादयोऽण्डजाः । ‘उद्भिदस्तरुगुल्माद्या’ इत्यमरः ॥ 3.42 ॥

विश्वास-प्रस्तुतिः

दृष्टिप्रपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणो ।
प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥ 3.43 ॥

मूलम्

दृष्टिप्रपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणो ।
प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥ 3.43 ॥

अन्वयः

कामः प्रयाणे पुरःशुक्रम् (देशम्) इव तस्य दृष्टिप्रपातं परिहृत्य प्रान्तेषु संसक्तनमेरुशाखं भूतपतेः ध्यानास्पदं विवेश ।

मल्लिनाथः

दृष्टिप्रपातमिति । कामः प्रयाणे यात्रायां पुरोगतः शुको यस्मिन्देशे तं पुरःशुक्रं देशमिव । ‘प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शक्रसमो राजा हतसैन्यो निवर्तते ।’ इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु संसक्ता अन्योन्यसंसृष्टा नमेरुणां सुरपंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् । ‘आस्पदं प्रतिष्ठायम्’ इति निपातः । विवेश ॥ 3.43 ॥

विश्वास-प्रस्तुतिः

सदेवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ॥ 3.44 ॥

मूलम्

सदेवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ॥ 3.44 ॥

अन्वयः

आसन्नशरीरपातः स शर्दूलचर्मव्यवधानवत्यां देवदारुद्रुमवेदिकायाम् आसीनं संयमिनं त्रियम्बकं ददर्श ।

मल्लिनाथः

स इति । आसन्नशरीरपात आसन्नमृत्युः स कामः शार्दूलचर्मणा व्यावधानवत्याम् । व्याघ्रचर्मास्तृतायामित्यर्थः । ‘मोक्षश्रीव्यघ्रिचर्मणि’ इति प्राशस्त्यादिति भावः । देवदारुद्रुमवेदिकायामासीनमुपविष्टं संयमिनं समाधिनिष्ठं त्रियम्बकं त्रिनेत्रं ददर्श । केचित्साहसिकाः ‘त्रिलोचनम्’ इति पेठुः । त्र्यम्बकमित्युक्ते पादपूरणव्यत्यासात्त्रियम्बकमिति पादपूरणार्थोऽयमियङादेशश्छान्दसो महाकविप्रयोगादभियुक्तैरङ्गीकृतः ॥ 3.44 ॥

विश्वास-प्रस्तुतिः

तमेव देवं षङ्‌भिः श्लोकैर्वर्णयति-
पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ।
उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥ 3.45 ॥

मूलम्

तमेव देवं षङ्‌भिः श्लोकैर्वर्णयति-
पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ।
उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥ 3.45 ॥

अन्वयः

पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोत्तमाऽङ्गम् उत्तानपाणिद्वयसंवनिवेशात् अङ्कमध्ये प्रफुल्लराजीवम् इव (स्थितं ददर्श) ।

मल्लिनाथः

पर्यङ्केति । पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोत्तरार्धमृजुरायतश्चर्ज्वायतस्तं संनमिताबुभावसौ यस्य तं तथोक्तम् । वृत्तिविषये उभशब्दस्थान उभयशब्दप्रयोग इत्युक्तं कैयटेन । उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य संनिवेशः संस्थानं तस्मादङ्कमध्ये प्रफुल्लं राजीवं पङ्कजं यस्य तमिव स्थितम् । वीरासने वसिष्ठः- ‘एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरर्स्मिस्तथैवोरुं वीरासनमुदाहृतम् ॥’ इति । तथा योगसारे- ‘उत्तानिते करतले करमुत्तानितं परम् । आदायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ॥’ इति ॥ 3.45 ॥

विश्वास-प्रस्तुतिः

भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥ 3.46 ॥

मूलम्

भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥ 3.46 ॥

अन्वयः

भुजङ्गमोन्नद्धजटाकलापं कर्णाऽवसक्तद्विगुणाऽक्षसूत्रं कण्ठप्रभासङ्गविशेषनीलां ग्रन्थिमतीं कृष्णत्वचं दधानम् (तं ददर्श) ।

मल्लिनाथः

भुजंगमेति ॥ बुजंगमेनोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् । कर्णावसक्तम् । कर्णावलम्बीत्यर्थः । अत एव द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तं कण्ठप्रभाणां सङ्गेन मिश्रणेन विशेषनीलामतिनीलां ग्रन्थिमतीं बन्धनयुक्तां कृष्णत्वचं कृष्णमृगाजिनं दधानम् ॥ 3.46 ॥

विश्वास-प्रस्तुतिः

किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
नेत्रैरविस्पन्दितपक्ष्ममालै र्लक्ष्यीकृतघ्राणमधोमयूखैः ॥ 3.47 ॥

मूलम्

किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
नेत्रैरविस्पन्दितपक्ष्ममालै र्लक्ष्यीकृतघ्राणमधोमयूखैः ॥ 3.47 ॥

अन्वयः

किञ्चित्प्रकाशस्तिमिनीग्रतारैः भ्रूर्विक्रियायां विरतप्रसङ्गैः अविस्पन्दितपक्ष्ममालैः अधोमयूखैः नेत्रैः लक्ष्यीकृतघ्रणाम् (तं ददर्श) ।

मल्लिनाथः

किंचिदिति । किंचित्प्रकाशाः स्तिमिता निश्चला उग्राश्च ताराः कनीनिका येषां तैः । ‘तारकाक्ष्णः कनीनिका’ इत्यमरः । भ्रूविक्रियायां भ्रूविक्षेपे विरतप्रसङ्गैः प्रसक्तिरहितैरविस्पन्दितपक्ष्ममालैरचलितपक्ष्मपङ्क्तिभिरधःप्रसृता मयूखा येषां तैरधोमयूखैर्नेत्रैः । त्रिनेत्रत्वाद्वहुवचनम् । लक्ष्यीकृतघ्राणं नासाग्रनिविष्टदृष्टिमित्यर्थः । ‘करणान्यबहिष्कृत्य स्थणुवन्निश्चलात्मकः । आत्मानं हृदये ध्यायेन्नासाग्रन्यस्तलोचनः ॥’ इति योगसारे ॥ 3.47 ॥

विश्वास-प्रस्तुतिः

अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् ।
अन्तश्चराणां मरुतां निरोधा न्निवातन्ष्कम्पमिव प्रदीपम् ॥ 3.48 ॥

मूलम्

अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् ।
अन्तश्चराणां मरुतां निरोधा न्निवातन्ष्कम्पमिव प्रदीपम् ॥ 3.48 ॥

अन्वयः

अन्तश्चराणां मरुतां निरोधात् अवृष्टिसंरम्भम् अम्बुवाहम् इव, अनुत्तरङ्गम् अपाम् आधारम् इव निवातनिष्कम्पं दीपम् इव (स्थितं तं ददर्श) ।

मल्लिनाथः

अवृष्टीति । अन्तश्चरन्तीत्यन्तश्चरास्तेषां मरुतां प्राणादोनां निरोधाद्धेतोरवृष्टिसंरम्भमविद्यमानवर्षसंभ्रममम्बुवाहमिव स्थितम् । एतेन प्राणनिरोधः सूचितः । अनित्तरङ्गमनुद्‌भूततरङ्गमपामाधारं ह्रदमिव स्थितम् । एतेनापानिनिरोधः एतेन शेषवायुनिरोधः सूचितः । ‘निवातावाश्रयावातौ’ इत्यमरः ॥ 3.48 ॥

विश्वास-प्रस्तुतिः

कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः ।
मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥ 3.49 ॥

मूलम्

कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः ।
मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥ 3.49 ॥

अन्वयः

कपालनेत्रान्तरलब्धमार्गैः शिरस्त उदितैः ज्योतिःप्ररोहैः मृणालसूत्राऽधिकसौकुमार्यां बालस्य इन्दोः लक्ष्मीं ग्लपयन्तम् (तं ददर्श)

मल्लिनाथः

कपालेति । कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमार्गैः शिरस्तो ब्रह्मरन्ध्रात् पञ्चम्यास्तसिल्‌ । उदितैरुद्‌बुतैर्ज्योतिः प्ररोहैस्तेजोङ्कुरैमृंणालसूत्राधिकं सौकुमार्यं मार्दवं यस्यास्तां बालस्येन्दोः शिरश्चन्द्रस्य लक्ष्मीं ग्लपयन्तम् ॥ 3.49 ॥

विश्वास-प्रस्तुतिः

मनो नवद्वारनिषिद्धवर्त्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ 3.50 ॥

मूलम्

मनो नवद्वारनिषिद्धवर्त्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ 3.50 ॥

अन्वयः

नवद्वारनिषिद्धवृत्ति समाधिवश्यं मनोहृदि व्यवस्थाप्य क्षेत्रविदः यम् अक्षर्र विदुः तम् आत्मानम् आत्मनि अवलोकयन्तम् (तं ददर्श)।

मल्लिनाथः

मन इति । नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस्य तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः । ‘प्रणिधानं समाधानं समाधिश्च समाश्रयः’ इति हलायुधः । मनो हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः- ‘यतो निर्याति विषयान्यर्मिश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ॥’ इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः । यं न क्षरतीत्यक्षरमविनाशिनं विदुर्विदन्ति । ‘विदो लटो वा ’ इति झेर्जुस्‌ । तमात्मानमात्मनि स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् । स्वातिरेकेण परमात्मनोऽभावादिति भावः ॥ 3.50 ॥

विश्वास-प्रस्तुतिः

स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
नालक्षयत्साध्वससन्नहस्तः स्त्रस्तं शरं चापमपि स्वहस्तात् ॥ 3.51 ॥

मूलम्

स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
नालक्षयत्साध्वससन्नहस्तः स्त्रस्तं शरं चापमपि स्वहस्तात् ॥ 3.51 ॥

अन्वयः

स्मरः तथाभृतं मनसा अपि अधृष्यम् अयुग्मनेत्रम् अदूरात् पश्यन् साध्वससन्नहस्तः (सन् ) स्वहस्तात् स्त्रस्तं शरं चापम् अपि न अलक्षयत् ।

मल्लिनाथः

स्मरेति । स्मरः कामस्तथाभूतं पूर्वोक्तरूपं मनसाप्यधृष्यमयुग्मनेत्रं विषमाक्षमदूरात्पश्यन् । साध्वसेन सन्नहस्तो विश्लथपाणिः सन् । स्वहस्तात्स्त्रस्तं शरं चापमपि चापं च नालक्षयन्न विवेद । भीतो मुह्यतीति भावः ॥ 3.51 ॥

विश्वास-प्रस्तुतिः

निर्वाणभूयिष्ठमथास्त वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ 3.52 ॥

मूलम्

निर्वाणभूयिष्ठमथास्त वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ 3.52 ॥

अन्वयः

अथ निर्वाणभूयिष्ठम् अस्य वीर्यं वपुर्गुणेन सन्धुक्षयन्ती इव (स्थिता) वनदेवताभ्याम् अनुप्रयाता स्थावरराजकन्या अदृश्यत् ।

मल्लिनाथः

निर्वाणेति । अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् । नष्टप्रायमित्यर्थः । अस्य स्मरस्य वीर्यं बलं वपुर्गुणेन सौन्दर्येण संधुक्षयन्तीव पुनरुज्जीवयन्तीव स्थिता वनदेवताभ्याम् सखीभूताभ्यामनुप्रयातानुगता स्थावरराजकन्या पार्वत्यादृश्यत दृष्टा ॥ 3.52 ॥

विश्वास-प्रस्तुतिः

तामेवाह चतुर्भिः-
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्धवारं वसन्तपुष्पाभरणं वहन्ती ॥ 3.53 ॥

मूलम्

तामेवाह चतुर्भिः-
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्धवारं वसन्तपुष्पाभरणं वहन्ती ॥ 3.53 ॥

अन्वयः

अशोकनिर्भत्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारं मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती (स्थावरराजकन्या अदृश्यत) ।

मल्लिनाथः

अशोकेति । अशोकपुष्पेण निर्भर्त्सितास्तिरस्कृताः पद्मरागा येन तत्तथोक्तम् । आकृष्टहेमद्युतीन्याहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यर्स्मिस्तत् । ‘सिन्धुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि’ इत्यमरः । वसन्तपुष्पाण्येवाभरणं वहन्ती ॥ 3.53 ॥

विश्वास-प्रस्तुतिः

आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
पर्याप्तपुष्पस्तबकावनभ्रा सेचारिणी पल्लविनी लतेव ॥ 3.54 ॥

मूलम्

आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
पर्याप्तपुष्पस्तबकावनभ्रा सेचारिणी पल्लविनी लतेव ॥ 3.54 ॥

अन्वयः

स्तनाभ्यां किञ्चित् आवर्जिता इव, तरुणाऽर्करागं वासो वसाना (अत एव) पर्याप्तपुष्पस्तबकाऽवनम्रा सञ्चारिणी पल्लविनी लता इव (स्थावरराजकन्या अदृश्यत) ।

मल्लिनाथः

आवर्जितेति । स्तनाभ्यां किंचिदावर्जितेवेषदानमितेव तरुणार्कस्य राग इव रागो यस्य तत् । बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसानाच्छाद्रयन्ती । अत एव पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती संचारिणी लतेव । स्थितेति शेषः ॥ 3.54 ॥

विश्वास-प्रस्तुतिः

स्त्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसर दामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेम मौर्वो द्विदीयामिव कार्मुकस्य ॥ 3.55 ॥

मूलम्

स्त्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसर दामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेम मौर्वो द्विदीयामिव कार्मुकस्य ॥ 3.55 ॥

अन्वयः

स्थानविदा स्मरेम न्यासीकृता कार्मुकस्य द्वितीयां मौर्वीम् इव नितम्बात् स्त्रस्तां केसरदामकाञ्चीं पुनः पुनः अबलम्बमाना (स्थावरराजकन्या अदृश्यत) ।

मल्लिनाथः

स्त्रिस्तामिति । स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । कर्मणि प्रभवतीति कार्मुकं धनुः । ‘कर्मण उकञ्’ इत्यकञ्प्रत्ययः । तस्य द्वितीयां नौर्वोमिव स्थिताम् । अत्र हि न्यस्ता मौर्व्युत्तरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्स्त्रस्तां चलितां केसरदाम बकुलमाला सैव काञ्ची तां पुनः पुनरवलम्बमाना हस्तेन धारयन्ती ॥ 3.55 ॥

विश्वास-प्रस्तुतिः

सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
प्रतिक्षणं संभ्रमलोलदृष्टिर्लिलारविन्देन निवारयन्ती ॥ 3.56 ॥

मूलम्

सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
प्रतिक्षणं संभ्रमलोलदृष्टिर्लिलारविन्देन निवारयन्ती ॥ 3.56 ॥

अन्वयः

सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाऽधरासन्नचरं द्विरेफं प्रतिक्षणं संभ्रमलोलदृष्टिः (सती) लीलाऽरविन्देन निवारयन्ती (स्थावरराजकन्या अदृश्यत) ।

मल्लिनाथः

सुगन्धीति । सुगन्धिभिर्निश्वासैर्विवृद्धतृडष्णम् । बिम्बतुल्योऽधरो बिम्बाधरः । ‘वृत्तौ मध्यपदलोपः स्यात्’ इति वामनः । तस्यासन्नचरं संनिकृष्टचरं द्विरेफं भृङ्गं प्रतिक्षणं संभ्रमेण लोलदृष्टिश्चञ्चलाक्षी सती लीलारविन्देन निवारयन्ती ॥ 3.56 ॥

विश्वास-प्रस्तुतिः

तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिर्द्धि पुनराशशंसे ॥ 3.57 ॥

मूलम्

तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिर्द्धि पुनराशशंसे ॥ 3.57 ॥

अन्वयः

सर्वाऽवयवाऽनवद्यां रतेः अपि ह्रीपदम् आदधानां तां वीक्ष्य पुष्प चापः जितेन्द्रये शूलिनि स्बकार्यसिर्द्धि पुनः आशशंसे ।

मल्लिनाथः

तामिति । सर्वावयवेष्वनवद्यामगर्ह्याम् । ‘अवद्यपण्ये-’ ति निपातः । रतेः कामकलत्रस्यापि ह्रीपदं लज्जानिमित्तमादधानाम् । न्यूनतामावहन्तीमित्यर्थः । तां पार्वतीं वीक्ष्य पुष्पचापः कामो जितेन्द्रिये दिर्जयेऽपीत्यर्थः । शूलिनि शिवे विषये स्वसार्यसिर्द्धि पुनराशशंसे चकमे । पूर्वं ‘साध्वससन्नहस्तः’ (3,51) इत्यादिना कार्यसिद्धेरुन्मूलितत्वाभिधानादिह पुनरित्युक्तम् ॥ 3.57 ॥

विश्वास-प्रस्तुतिः

भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
योगात्स चान्तः परमात्मसंज्ञं दृष्ट्‌वा परं ज्योतिरुपारराम ॥ 3.58 ॥

मूलम्

भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
योगात्स चान्तः परमात्मसंज्ञं दृष्ट्‌वा परं ज्योतिरुपारराम ॥ 3.58 ॥

अन्वयः

उमा च भविष्यतः पत्युः शम्भोः प्रतिहारभूमिं समाससाद । स च अन्तः परमात्मसंज्ञं परं ज्योतिः दृष्ट्वा योगात् उपारराम ।

मल्लिनाथः

भविष्यत इति । उमा च भविष्यतः पत्युः शंभोः प्रतिहारभूमिं द्वारदेशं समाससाद । ‘स्त्री द्वाद्वारं प्रतीहारः’ इत्यमरः । स शंभुश्चान्तः परमात्मेति संज्ञा यस्य तत्परं मुख्यम् । ‘योगः संनहनोपायध्यानसंगतियुक्तिषु’ । इत्यमरः । उपाररामोपारतः । ‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम् ॥ 3.58 ॥

विश्वास-प्रस्तुतिः

ततो भुजंगाधिपतेः फणाग्रैरधः कथंचिद्‌धृतभूमिभागः ।
शनैः कृप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥ 3.59 ॥

मूलम्

ततो भुजंगाधिपतेः फणाग्रैरधः कथंचिद्‌धृतभूमिभागः ।
शनैः कृप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥ 3.59 ॥

अन्वयः

ततो भुजङ्गाऽधिपतेः फणाऽग्रैः अधः कथंचिद्‌धृतभूमिभागः शनैः कृतप्राणाविमृक्तिः ईशः निबिडं पर्यङ्कबन्धं बिभेद ।

मल्लिनाथः

तत इति । ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधां भूमेरधः कथंचिद्‌तियत्नेन धृतो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाघवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्‌निरुद्धानां विमुक्तिः पुनः संचारो येन स कृतप्राणविमुक्तिरीशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार ॥ 3.59 ॥

विश्वास-प्रस्तुतिः

तस्मै शशंस प्रणिपतद्य नन्दी शु श्रूषया शैलसुतामुपेताम् ।
प्रवेशयामास च भर्तुरेनां भ्रुक्षेपमात्रानुमतप्रवेशाम् ॥ 3.60 ॥

मूलम्

तस्मै शशंस प्रणिपतद्य नन्दी शु श्रूषया शैलसुतामुपेताम् ।
प्रवेशयामास च भर्तुरेनां भ्रुक्षेपमात्रानुमतप्रवेशाम् ॥ 3.60 ॥

अन्वयः

अथ नन्दी तस्मै प्रणिपत्य शुश्रूषया उपेतां शैलसुतां । भर्तुः भ्रुक्षेपमात्राऽनुमतप्रवेशाम् एनां प्रवेशायामास च ।

मल्लिनाथः

तस्मा इति । अथ नन्दी तस्मै भगवते । क्रियाग्रहणाच्चतुर्था । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेनोपेताम् । सेवार्थमागतामित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो भ्रुक्षेपमात्रेण भ्रूसंज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशामेनां शैलसुतां प्रवेशायामास च ॥ 3.60 ॥

विश्वास-प्रस्तुतिः

तस्याः सस्त्रीभ्यां प्रणीपातपूर्वं स्वहस्तलूनः शिशिराऽत्ययस्य ।
व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ 3.61 ॥

मूलम्

तस्याः सस्त्रीभ्यां प्रणीपातपूर्वं स्वहस्तलूनः शिशिराऽत्ययस्य ।
व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ 3.61 ॥

अन्वयः

तस्याः सखीभ्यां स्वहस्तलूनः पल्लवभङ्गभिन्नः शिशिराऽत्ययस्य पुष्पोच्चयः त्र्यम्बकपादमूले प्रणिपातपूर्वं व्यकीर्यत ।

मल्लिनाथः

तस्या इति । तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वहस्तेन लून उपचितः पल्लवभह्घभिन्नः किसलयाशकलमिश्रः शिशिरात्यस्य वसन्तस्य सम्बन्धी पुष्पोच्चयः पुष्पप्रकारः । ‘हस्तादाने चेरस्तेये’ इति षञ्विषयत्वात्कवोनामयं प्रामादिकः प्रयोग इति वल्लभः । त्र्यम्बकपादमूले प्रणिपातपूर्वं नमस्कारपूर्वंकं व्यकीर्यत विक्षिप्तः ॥ 3.61 ॥

विश्वास-प्रस्तुतिः

उमापि नीलालकमध्यशोभि विस्त्रंसन्ती नवकर्णिकारम् ।
चकार कर्णच्युतपाल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ 3.62 ॥

मूलम्

उमापि नीलालकमध्यशोभि विस्त्रंसन्ती नवकर्णिकारम् ।
चकार कर्णच्युतपाल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ 3.62 ॥

अन्वयः

उमा अपि नीलाऽलकमध्यशोभि नवकर्णिकारं विस्त्रंसयन्ती सर्णच्युतपल्लवेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार ।

मल्लिनाथः

उमेति । उमापि नीलालकानां मध्ये शौभत इति तथोक्तम् । अलकन्यस्तमित्यर्थः । नबकर्णिकारं निस्त्रंसयन्ती कर्णाच्च्युतः पल्लवो यस्य तेन लूर्ध्ना वृषभध्वजायट प्रणामं चकार । क्रियाग्रहणात्संप्रदानत्वम् ॥ 3.62 ॥

विश्वास-प्रस्तुतिः

अनन्यभाजं पतिमाप्नुहोतदि सा तथ्यमेवाभिहिता भवेन ।
न हीश्वख्याहतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ॥ 3.63 ॥

मूलम्

अनन्यभाजं पतिमाप्नुहोतदि सा तथ्यमेवाभिहिता भवेन ।
न हीश्वख्याहतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ॥ 3.63 ॥

अन्वयः

सा भवेन ‘अनन्यभाजं पतिम् आप्नुहि’ इति तथ्यम् एव अभिहिता । हि ईश्वख्याहृतयः कदाचित् अपि लोके विपरीतम् अर्थम् न पुष्णन्ति ।

मल्लिनाथः

अनन्येति । सा कृतप्रणामा देवी, भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् ‘भजोण्विः’ इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथाहि । ईश्वख्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने ‘लोकस्तु भुवने जने’ इत्यमरः । विपरीतं विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति । न बोधयन्तीत्यथः ॥ 3.63 ॥

विश्वास-प्रस्तुतिः

कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुशं विविक्षुः ।
उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ 3.64 ॥

मूलम्

कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुशं विविक्षुः ।
उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ 3.64 ॥

अन्वयः

कामस्तु बाणाऽवसरं प्रतीक्ष्य पतङ्गवत् वह्निमुखं विविक्षुः उमासमक्षं हरबद्धलक्ष्यः (सन्) शरऽसनज्यां मुहुः आममर्श ।

मल्लिनाथः

काम इति । कामस्तु बाणावसरं प्रतीक्ष्योमासंनिधानादयमेव बाणप्रयोगसमय इति ज्ञात्वा पतङ्गेन तुल्यं पतङ्गवच्छलभवत् । ‘समौ पतङ्गशलभौ’ इत्यमरः । ‘तेन तुल्यं क्रिया चेद्वतिः’ इति वतिप्रत्ययः । वह्निमुखं विविक्षुः प्रवेष्टुमिच्छुः । विशतेः सन्नन्तादुप्रत्यः । उमायाः समक्षमक्ष्णः समीपमुमासमक्षम् । ‘अव्ययीभावे शरत्प्रभृत्भ्यः’ इति समासान्तोऽच्प्रत्ययः । हरे बद्धलक्ष्यः सन् । शरासनस्य ज्यां मौर्वी मुहुराममर्श परामृष्टवान् ॥ 3.64 ॥

विश्वास-प्रस्तुतिः

अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करबीजमालाम् ॥ 3.65 ॥

मूलम्

अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करबीजमालाम् ॥ 3.65 ॥

अन्वयः

अथ गौरी तपस्विने गिरिशाय ताम्ररुचा करेण भानुमतो मयीखैः विशोषितां मन्दाकिनीपुष्करबीजमालाम् उपनिन्ये ।

मल्लिनाथः

अथेति । अथ गौरी । तपोऽस्यास्तीति तपस्वी । ‘अस्मायामेधास्त्रजो विनिः’ इति विनिप्रत्ययः । तस्मै तपस्विने गिरिशाय ताम्ररुचा रक्तवर्णेन करेण भानुमतोंऽशुमतो मयूखैर्विशोषितां मन्दाकिन्याः पुष्कराणि पद्मानि तेषां बीजानि तेषां मालां जपमालिकामुपनिन्ये समर्पितवती ॥ 3.65 ॥

विश्वास-प्रस्तुतिः

प्रतिग्रहीतुं प्रणयिप्रियत्वात्त्रिलोचनस्तामुपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समघत्त बाणम् ॥ 3.66 ॥

मूलम्

प्रतिग्रहीतुं प्रणयिप्रियत्वात्त्रिलोचनस्तामुपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समघत्त बाणम् ॥ 3.66 ॥

अन्वयः

त्रिलोचनश्च प्रणयिप्रियत्वात् तां प्रतिग्रहीतुम् उपचक्रमे । पुष्पधन्वा च संमोहनं नाम अमोघं बाणं धनुषि समधत्त ।

मल्लिनाथः

प्रतिग्रहीतुमिति । त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वात्तामक्षमालां प्रतिग्रहीतुं स्वीकर्तुमुपचक्रमे । पुष्पं धनुर्यस्य स पुष्पधन्वा कामश्च । ‘वा संज्ञायाम्’ इत्यनङादेशः संमोह्यतेनेनेति संमोहनं नाम । नामेति प्रसिद्धौ अमोघं बाणं सायकं धनुषि समधत्त संहितवान् ॥ 3.66 ॥

विश्वास-प्रस्तुतिः

हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ 3.67 ॥

मूलम्

हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ 3.67 ॥

अन्वयः

हरस्तु चन्द्रोदयारहम्भे अम्बुराशिः इव किञ्चित् परिलुप्तधैर्यः (सन्) बिम्बफलाऽधरोष्ठे उमामुखे विलोचनानि व्यापारयामास ।

मल्लिनाथः

हर इति । हरस्तु हरोऽपि चन्द्रोदयारम्भोऽम्बुराशिरिबकिंचिदीषत्परिलुप्तधैर्यः न तु प्राकृतजनवदत्यन्तलुप्तधैर्य इति भावः । बिम्बफलतुल्योऽधरोष्ठो यस्य तस्मिन्निमामुखे विलोचनानि व्यापारयामास । त्रिभिरपि लोचनैः साभिलाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उक्तः ॥ 3.67 ॥

विश्वास-प्रस्तुतिः

विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्‌बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ 3.68 ॥

मूलम्

विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्‌बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ 3.68 ॥

अन्वयः

शैलसुता अपि स्फुरद्‌बालकदम्बकल्पैः अङ्गैः भावं विवृण्वती चारुतरेण पर्यस्तविलोचनेनं मुखेन साचीकृता तस्थौ ।

मल्लिनाथः

विवृण्वतीति । शैलसुतापि स्फुरद्‌बालकल्पैर्विकसत्कोमलनीपसदृशैः । पुलकितैरित्यर्थः । ‘ईषदसमाप्तौ-’ इत्यादिना कल्पप्प्रत्ययः । अङ्गैर्भावं रत्याख्यं विवृण्वती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन व्रीडाविभ्रान्तनेत्रेण मुखेनासाचि साचि संपद्यमाना साचीकृता तिर्यक्कृता । ‘तिर्यगर्थे साचि तिर’ इत्यमरः । तस्थौ । ह्रिया मुखं साचीकृत्य स्थितेत्यर्थः । न केवलं हरस्यैव देव्या अप्युदितो रतिभाव इति भावः ॥ 3.68 ॥

विश्वास-प्रस्तुतिः

अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्‌ बलवन्निगृह्य ।
हेतुं स्वचेतो विकृतेर्दिदृक्षुदिशामुपान्तेषु ससर्ज दृष्टिम् ॥ 3.69 ॥

मूलम्

अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्‌ बलवन्निगृह्य ।
हेतुं स्वचेतो विकृतेर्दिदृक्षुदिशामुपान्तेषु ससर्ज दृष्टिम् ॥ 3.69 ॥

अन्वयः

अथ अयुग्मनेत्रः वशित्वात् इन्द्रिक्षोभं पुनः बलवत् निगृह्य स्वचेतोविकृतेः हेतुं दिदृक्षुः (सन्) दिशाम् उपान्तेषु दृष्टिं ससर्ज ।

मल्लिनाथः

अथेति । अथायुग्मानि नेत्राणि यस्य सोऽयुग्मनेत्रस्त्रिनेत्रो वशित्वाज्जितेन्द्रियत्वादिन्द्रियक्षोभं पूर्वोक्तमिन्द्रियविकारं पुनर्बलवद्‌ दृढं निगृह्य निवार्य स्वचेतोविकृतेः स्वचित्तविकारस्य हेतुं कारणं दिदृक्षुर्द्रष्टुमिच्छुर्दिशामुपान्तेषु दृर्ष्टि ससर्ज प्रसारयामास ॥ 3.69 ॥

विश्वास-प्रस्तुतिः

स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ 3.70 ॥

मूलम्

स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ 3.70 ॥

अन्वयः

स दक्षिणाऽपाङ्गनिविष्टमुर्ष्टि नतांऽसम् आकुञ्चितसव्यपादं चक्रीकृतचारुचापं प्रहर्तुम् अभ्युद्यतम् आत्मयोनिं ददर्श ।

मल्लिनाथः

स इति । स भगवान्दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिर्यस्य तं नतांसमाकुञ्चितः सव्यपादो यस्य तम् । आलीढाख्यस्थानके स्थितमित्यर्थः । चक्रीकृतचारुचापं मण्डलीकृतसौम्यकोदण्डं प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श । आलीढलक्षणमाह यादवः- ‘स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्त्यन्तरगौ पादौ मण्डलं तोरणाकृति ॥ समानौ स्यात्समपदमालीढं पदमग्रतः । दक्षिणं वाममाकुञ्च्य प्रत्यालीढं विपर्ययः’ ॥ 3.70 ॥

विश्वास-प्रस्तुतिः

तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ॥ 3.71 ॥

मूलम्

तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ॥ 3.71 ॥

अन्वयः

तपःपरामर्शविवृद्धमन्योः भ्रूभ्रङ्गदुष्प्रेक्ष्यमुखस्य तस्य तृतीयात् अक्ष्णः स्फुरन् उदर्चिः कुशानुः सहसा निष्पपात किल ।

मल्लिनाथः

तप इति । तपःपरामर्शेव तपस आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य भ्रूभङ्गेण दुष्प्रेक्ष्यं दुर्दशं मुखं यस्य तस्य हरस्य तृती.यादक्ष्णः स्फुरन्नुद्दीप्यमान उदर्चिरुद्‌भूतज्वालः कृशानुरग्निः सहसातर्कितमेव । ‘अतर्किते तु सहसा’ इत्यमरः । निष्पपात किल निश्चक्राम खलु ॥ 3.71 ॥

विश्वास-प्रस्तुतिः

क्रोधं प्रभो ! संहर संहरेति यावद्‌गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ 3.72 ॥

मूलम्

क्रोधं प्रभो ! संहर संहरेति यावद्‌गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ 3.72 ॥

अन्वयः

‘हे प्रभो ! क्रोधं संहर संहर’ इति मरुतां गिरः खे यावत् चरन्ति, तावत् भवनेत्रजन्मा स वह्निः मदनं भस्माऽवशेषं चकार ।

मल्लिनाथः

क्रोधमिति । हे प्रभो स्वामिन्‌, क्रोधं संहर निवर्तय निवर्तय । ‘चापले द्वे भवत इति दक्तव्यम्’ इति वार्तिकेन द्वित्वम् । ‘संभ्रमेण वृत्तिश्चापलम्’ इति काशिका । इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावच्चरन्ति प्रवर्तन्ते तावत्तत्कलमेव भवस्य नेत्राज्जन्म यस्य स भवनेत्रजन्मा । ‘अवर्ज्यो बहुर्व्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः’ इति वामनः । स वह्निर्मदनं भस्मैवावशेषो यस्य तं भस्मावशेषं चकार । ददाहैत्यर्थः ॥ 3.72 ॥

विश्वास-प्रस्तुतिः

तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ 3.73 ॥

मूलम्

तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ 3.73 ॥

अन्वयः

तीव्राऽभिषङ्गप्रभवेण इन्द्रियाणां वृत्तिं संस्तम्भयता मोहेन रतिः मुहुर्त्तम् अज्ञातभर्तुव्यसना (सती) कृतोपकारा इव बभूव ।

मल्लिनाथः

तीव्रेति । तीव्राभिषङ्गप्रभवेणातिदुःसहाभिभवसंभवेन । ‘अभिषङ्गस्त्वभिभवे सङ्ग आक्रोशनेऽपि च’ इति वैजयन्ती । इन्द्रियाणां चक्षुरादीनां वृत्तिं व्यापारं सस्तम्भयता प्रतिबध्नता मोहेन मूर्च्छया कर्त्रा । रतिर्मदनभार्वा मुहूर्तमज्ञातं भर्तृव्यसनं भर्तृनाशो यया सा तथोक्ता सती कृतोपकारेव बभूव । सहसा दुःखोपनिपातान्मुमूर्च्छेत्यर्थः । मोहेन दुःख संवेदनाभावत्तस्योपकारकत्वोक्तिः ॥ 3.73 ॥

विश्वास-प्रस्तुतिः

तमाशु विध्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ 3.74 ॥

मूलम्

तमाशु विध्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ 3.74 ॥

अन्वयः

तपस्वी भूतपतिः तपसो विध्नं तम् आशु वज्रो वनस्पतिम् इव अवभज्य स्त्रीसन्निकर्षं परिहर्तुम् इच्छन् सभूतोऽन्तर्दधे ।

मल्लिनाथः

तमिति । तपस्वी तपोनिष्ठो भूतपतिः शबस्तपृसो विध्नमन्तरायभूतं तं काममाशु वज्रोऽशनिर्वनस्पतिं वृक्षमिवावभज्य भङ्क्त्वा स्त्रीसंनिकर्षं स्त्रीसंनिधानं परिहर्तुमिच्छन् । तस्यानर्थहेतुत्वादिति भावः । सभूतः सगणः सन्नन्तर्दधे ॥ 3.74 ॥

विश्वास-प्रस्तुतिः

शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथञ्चित् ॥ 3.75 ॥

मूलम्

शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथञ्चित् ॥ 3.75 ॥

अन्वयः

शैलात्मजा अपि उच्छिरसः पितुः अभिलाषं ललितम् आत्मनो वपुश्च व्यर्थसमर्थ्य सख्योः समक्षम् इति च अधिकजातलज्जा शून्या सती कथञ्चित् भवनाभिमुखी जगाम ।

मल्लिनाथः

शैलात्मजा पार्वत्यप्युच्छिरस उन्नतशिरसो महतः पतुरभिलाषं हरोवरोऽस्त्विति मनोरथं ललितं सुन्दरमात्मनो वपुश्च व्यर्थ निष्फलं समर्थ्य वचार्यं सख्योः समक्षं पुर इति च हेतुनाधिकं जातलज्जा । समानजनसमक्षमवमानस्यभिमुखी जगाम ॥ 3.75 ॥

विश्वास-प्रस्तुतिः

सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां ।
प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः ॥ 3.76 ॥

मूलम्

सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां ।
प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः ॥ 3.76 ॥

अन्वयः

सपदि अद्रिः रुद्रसंरम्भभीत्या मुकुलिताक्षीम् अनिकम्प्यां दुहितरं दोर्भ्याम् आदाय दन्तलग्नां पद्मिनीं सुरगज इव वेगदीर्घीकृताऽङ्गः सन् प्रतिपथगतिः आसीत् ।

मल्लिनाथः

सपदीति । सपद्यद्रिर्हिमवान्रुद्रस्य संरम्भात्कोपाद्भीत्या । ‘संरम्भः संभ्रमे कोपे’ इति विश्वः । मुकुलिताक्षीं निमीलितनेत्राम् । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्’ इति षच्प्रत्ययः । ‘षिद्‌गौरादिभ्यश्च’ इति ङीष् । अनिकम्पितुमर्हामनुकम्प्याम् । ‘ऋहलोर्ण्यत्’ इति ण्यत्प्रत्ययः । दुहितरं दोर्भ्यामादाय दन्तयोर्लग्नां पद्मिनीं नलिनीं बिभ्रत्सुरगज इव वेगेन रयेण दीर्घीकृताङ्ग आयतीकृतशरीरः सन् । पन्थानं प्रतिगता मार्गानुसारिणी स गतिर्यस्य प्रतिपथगतिरासीत् । पन्थानमनुसृत्य जगामेत्यर्थः ॥3.76 ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदास-
कृतौ कुमारसंभवे महाकाव्ये मदनदहनो
नाम तृतीयः सर्गः ।