०२ ब्रह्मसाक्षात्कारः

द्वितीयः सर्गः

ब्रह्म-मेलनम्

विश्वास-प्रस्तुतिः

तस्मिन् विप्रकृताः काले
तारकेण दिवौकसः ।
तुरा-साहं +++(इन्द्रं)+++ पुरोधाय
धाम स्वायंभुवं ययुः ॥ 2.1 ॥

मूलम्

तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥ 2.1 ॥

अन्वयः

तस्मिन् काले तारकेण विप्रकृताः दिवौकसः तुरासाहं पुरोधाय स्वायंभुवं धान ययुः ।

मल्लिनाथः

तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं योषां ते दिवौकसो देवाः । ‘दिवं स्वर्गेऽन्तरिक्षे च’ इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः ।

तुरं त्वरितं साहयत्यभिबवतीति तुराषाटा । साहयतेश्चौरादिकात्क्विप् । ‘नहिवृतिवृषि-’ इत्यादिना पूर्वपदस्य दीर्धः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टावन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साङ्रुपत्वाभावात् । ‘सहेः साडः सः’ इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् ओर्गुणः’ इति गुणो न । धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः ॥ 2.1 ॥

विश्वास-प्रस्तुतिः

तेषाम् आविर् अभूद् ब्रह्मा
परिम्लान-मुख-श्रियाम् ।
सरसां सुप्त-पद्मानां
प्रातर् दीधितिमान् इव ॥ 2.2 ॥

मूलम्

तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ 2.2 ॥

अन्वयः

परिम्लानमुखश्रियां तेषां ब्रह्मा सुप्तपद्मनां सरसां प्रातः दीधितिमान् इव आविरभूत् ।

मल्लिनाथः

तेषामिति । परिम्लाना परिक्षीणा मुखश्रीर्मुखकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितमान्सूर्यं इवाविरभूत् । प्रकाशोऽभूदित्यर्थः । ‘प्रकाशे प्रादुराविः स्यात्’ इत्यमरः । सूर्योपमानेन तेषां म्लानिहरणत्वं सूचितम् । अत्रोपमाऽलङ्कारः । तल्लक्षणं तु- ‘स्वतः सेद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा ॥’ इति ॥ 2.2 ॥

विश्वास-प्रस्तुतिः

अथ सर्वस्य धातारं
ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्भिर् अर्थ्याभिः
प्रणिपत्योपतस्थिरे ॥ 2.3 ॥

मूलम्

अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥ 2.3 ॥

अन्वयः

अथ सर्वे ते सर्वतोमुखं वागीशं धातारं प्रणिपत्म अर्थ्याभिः वाग्भिः उपतस्थिरे ।

मल्लिनाथः

अथेति । अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् । चतुर्मुखमित्यर्थः वाचां विद्यानां ईशं सर्वस्य जगतो धातारं स्त्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः । अर्थयुक्ताभिरित्यर्थः। ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्प्रत्ययः । वाग्भिरुपतस्थिरे । तुष्टुवुरित्यर्थः । ‘उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्’। इत्यात्मनेपदम् ॥ 2.3 ॥

स्तुतिप्रकारमाह ‘नमः’ इत्यादिभिर्द्वादशभिः श्लेकैः -

स्तुतिः

विश्वास-प्रस्तुतिः

नमस् त्रिमुर्तये तुभ्यं
प्राक्-सृष्टेः केवलात्मने
गुण-त्रय-विभागाय
पश्चाद् भेदम् उपेयुषे ॥ 2.4 ॥

मूलम्

नमस्त्रिमुर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ 2.4 ॥

अन्वयः

(हे भगवन् !) सृष्टेः प्राक् केवलात्मने पश्चात् गुणत्रयविभागाय भेदम् उपेयुषे (अतएव त्रिमूर्तये तुभ्यं नमः । )

मल्लिनाथः

नम इति । हे भगवन्नित्यध्याहार्यं व्याख्येयम् । सृष्टेः प्राक् । ‘अन्यारात्-’ इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी । केवलात्मन एकरुपाय । ‘आत्मा वा इतमेक एवाग्रआसीत्’ इति श्रुतेः ‘निर्णिते केवलमिति त्रिलिङ्गं त्वेक्कृत्स्नयोः’ इत्यमरः । पश्चात्सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । ‘गुणाः सत्त्वं रजस्तमः’ इत्यमरः । भेदमुपाधिम् । सष्टृत्वादिकमित्यर्थः । उपेयषे प्रात्पवते । ‘उपेयिवाननाश्वाननूचानश्च’ इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररुपिणे तुभ्यं नमः । ‘नमः स्वस्ति-’ इत्यादिना चतुर्थिं । उक्तं च– ‘नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च । तमोरुपाय संहारे त्रिरूपाय स्वयंभूवे ॥’ इति ।. 2.4 ॥

विश्वास-प्रस्तुतिः

यद् अमोघम् अपाम् अन्तर्
उप्तं बीजम् अज त्वया ।
अतश् चराचरं विश्वं,
प्रभवस् तस्य गीयसे ॥ 2.5 ॥

मूलम्

यदमोघमपामन्तरुप्तं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ 2.5 ॥

अन्वयः

हे अज ! अपाम् अन्तः यत् अमोघं बीजम् उत्पम् । अतः चराऽचरं विश्वं, तस्य प्रभवो गीयसे ।

मल्लिनाथः

यदिति ॥ न जायत इत्यजः । हे अज, अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तं । ‘मुक्तम्’ इति पाठे विसृष्टमित्यर्थः । ‘शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च’ इत्यमरः । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । ‘अदश्चराचरं विश्वं प्रसवस्तस्त गीयते’ इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः । अत्र मनुः- अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥ इति ॥ 2.5. ॥

विश्वास-प्रस्तुतिः

तिसृभिस् त्वम् अवस्थाभिर्
महिमानम् उदीरयन्
प्रलय-स्थिति-सर्गाणाम्
एकः कारणतां गतः ॥ 2.6 ॥

मूलम्

तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ 2.6 ॥

अन्वयः

एकः त्वं तिसृभिः अवस्थाभिः महिमानम् उदीरयन् प्रलयस्थितिसर्गाणां कारणानां गतः ।

मल्लिनाथः

तिसृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्त्रैगुण्यमयीभिर्हरिहरब्रह्मस्वरूपाभिर्महिमानं निजशक्तिमुदीरयन्जृम्भयन्प्रलयस्थितिसर्गाणामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं पश्चाद्भेदमुपेयुषे (2/4) इत्यस्य विवरणमतो न गतार्थत्वदोषः ॥ 2.6 ॥

भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनसृष्ट्यर्थ मूर्तिमतो ब्रह्मणो भेदमाह-

विश्वास-प्रस्तुतिः

स्त्री-पुंसाव् आत्मभागौ ते
भिन्न-मूर्तेः सिसृक्षया ।
प्रसूति-भाजः सर्गस्य
ताव् एव पितरौ स्मृतौ ॥ 2.7 ॥

मूलम्

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ 2.7 ॥

अन्वयः

स्त्रीपुंसौ सिसृक्षया भिन्नमूर्तेः ते आत्मभागौ स्तः । तौ एव प्रसूतिभाजः सर्गस्य पितरौ स्मृतौ ।

मल्लिनाथः

स्त्रीपुंसाविति ॥ स्त्री च पुमाश्च स्त्रीपुंसौ । ‘अचतुर-’ इत्यादिनाच्प्रत्ययान्तो निपातः । सिसृक्षया स्त्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य तेतवात्मनो देहस्य भागावात्मभगौ । ‘आत्मा जावे धृतौ देहे स्वभावे परमात्मानि’ इति विश्वः । तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गस्तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । ‘पिता’ ‘मात्रा’ इत्येकशेषः । स्मृतौ । वृद्धैरिति शेषः । अत्र मनु- ‘द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारो तस्यां स विराजमसृजत्प्रभुः ॥’ इति ॥ 2.7 ॥

विश्वास-प्रस्तुतिः

स्व-काल-परिमाणेन
व्यस्त-रात्रिं-दिवस्य ते ।
यौ तु स्वप्नावबोधौ तौ
भूतानां प्रलयोदयौ ॥ 2.8 ॥

मूलम्

स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ 2.8 ॥

अन्वयः

स्वकालपरिमान व्यस्तरात्रिन्दिवस्य ते यौ तु स्वप्नाऽवबोधौ तौ (एव) भूतानां प्रलयोदयौ ।

मल्लिनाथः

स्वकालेति ॥ स्वकालस्य परिमाणेन ‘जतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते’ इत्युक्तरूपेण व्यस्तं विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि ‘अजतुर-’ आदिसूत्रेण रात्रौ च दिवा च रत्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि ‘दोषामन्यमहः’ ‘दिवामन्या रात्रिः’ इत्यादौ इवत्राऽपि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः- ‘यदा स देवो जागर्तिः तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥’ इति । एतच्च दैवंदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ॥ 2.8 ॥

विश्वास-प्रस्तुतिः

जगद्-योनिर् अयोनिस् त्वं
जगद्-अन्तो निरन्तकः
जगद्-आदिर् अनादिस् त्वं
जगदीशो निरीश्वरः ॥ 2.9 ॥+++(5)+++

मूलम्

जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ 2.9 ॥

अन्वयः

(हे भगवन् !) त्वं जगद्योनिः अयोनिः, जगदन्तः निरन्तकः, जगदादिः अनादिः, जगदीशो निरीश्वरः (असि) ।

मल्लिनाथः

-जगदिति । हे भगवन्, त्वं जगद्योविर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । चगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः । त्वं जगतामादिर्जगदादिः । सृष्टे प्रागपि सन्नित्यर्थः । अत एव त्वमनादिरादिरहितः । त्वं जगतामीशो नियन्ता स्वयं निरीश्वरः । अनियम्य इत्यर्थः । ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादि श्रुतिरेवात्र प्रमाणम् । अत्रायोनिरित्यादौ नञ्तत्पुरुषाश्रयणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः- ‘विरोधाभासत्वे विरोधः’ इति ॥ 2.9 ॥

तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह-

विश्वास-प्रस्तुतिः

आत्मानम् आत्मना वेत्सि
सृजस्य् आत्मानम् आत्मना ।
आत्मना कृतिना च त्वम्
आत्मन्य् एव प्रलीयसे ॥ 2.10 ॥+++(4)+++

मूलम्

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ 2.10 ॥

अन्वयः

(हे भगवन् !) त्वम् आत्मानम् आत्मना वेत्सि, आत्मानम् आत्मना सृजसि, त्वं कृतिना आत्मना आत्मनि एव प्रलीयसे ।

मल्लिनाथः

आत्मानमिति ॥ हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । ‘स्वेमहिम्नि प्रतिष्ठिनम्’ इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव’ प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । ‘प्रकृत्यादिभ्य उपसंख्यानम्’ इति वार्तिकात्सर्वत्रात्मनेति तृतिया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ।

विश्वास-प्रस्तुतिः

द्रवः, संघात-कठिनः,
स्थूलः, सूक्ष्मो, लघुर्, गुरुः ।
व्यक्तो, व्यक्तेतरश् चासि
प्राकाम्यं ते विभूतिषु ॥ 2.11 ॥+++(4)+++

मूलम्

द्रवः संघातकठिनः, स्थूलः सूक्ष्मो लघुर्गुरुः ।
व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ 2.11 ॥

अन्वयः

(हे भगवन् !) त्वं द्रवः, सङ्घातकठिनः,स्थूलः सूक्ष्मः । त्वं लघुः गुरुः । त्वं व्यक्तः व्यक्तेतरश्च असि । विभूतिषु ते प्रकाभ्यम् ।

मल्लिनाथः

द्रव इति ॥ त्वमित्यनुषज्यते । हे भगवन्, त्वं द्रवाः सिरित्समुद्रादिवद्रसात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुर्हेमाद्रिवदचलनीयः । व्यक्तः कार्यरूपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एव विभूतिष्वणिमादिषु ते तव । प्रकामस्य भावः प्रकाम्यं यथाकामत्वम् ॥ 2.11 ॥

विश्वास-प्रस्तुतिः

उद्घातः प्रणवो यासां +++(श्रुतीनां)+++,
न्यायैस् त्रिभिर् +++(उदात्तानुदात्तस्वरितैः)+++ उदीरणम् ।
कर्म यज्ञः, फलं स्वर्गस्,
तासां त्वं प्रभवो गिराम् ॥ 2.12 ॥+++(5)+++

मूलम्

उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ 2.12 ॥

अन्वयः

(हे भगवन् !) यासां गिराम् उद्घातः प्रणवः, त्रिभिः न्यायैः उदीरणं, कर्म यज्ञः, फलं स्वर्गःष त्वं तासां गिरां प्रभवः (असि ।)

मल्लिनाथः

उद्घात इति ॥ हे भगवन्, यासां गिरां वाचामुद्घात उपक्रमः प्रणव ओंकारात्मकः । ‘ओंकारप्रणवौ समौ’ इति । ‘स्यादभ्यादानमुद्घात आरम्भः’ इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् ।

‘ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः ।
दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥’

इति निरुक्तपरिशिष्टयोर्यास्कः । नोयन्त एभिरर्थविशेषा इति न्यायाः स्वराः । उक्तं च- ‘स्वरविशेषादर्थप्रतिपत्तिः’ । ‘यथेन्द्रशत्रुः स्वरतोऽपराधात्’ इति ।

यासां गिरां त्रिभिर् न्यायैर् उदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः । यज्ञो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्गः । कर्मद्वारेति शेषः । कर्मस्वर्गौ ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिरां वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन ॥ 2.12 ॥

सांख्यामतेन स्तुवन्ति-

विश्वास-प्रस्तुतिः

त्वाम् आमनन्ति प्रकृतिं
पुरुषार्थ-प्रवर्तिनीम् ।
तद्-दर्शिनम् उदासीनं
त्वाम् एव पुरुषं विदुः ॥ 2.13 ॥

मूलम्

त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ 2.13 ॥

अन्वयः

(हे भगवन् !) त्वां पुरुषाऽर्थप्रवर्तिनीं प्रकृतिम् आमनन्ति । त्वाम् एव तद्दर्शिनम् उदासीनं पुरुषं विदुः ।

मल्लिनाथः

त्वामिति ॥ हे भगवन्, त्वां पुरुषस्यार्थो भोगापवर्गरूपस्तदर्थं प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । ‘प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्’ । इति यादवः । आमनन्ति कथयन्ति । ‘म्ना अभ्यासे’ इति धातोर्लट् । ‘पाघ्राध्मास्थाम्ना-’ इत्यादिना मनादेशः । प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । ‘विदो लटो वा’ इति झेर्जुसादेशः । ‘अजामेकां लोहितशुक्लकृष्णाम्’ इति श्रुतिरत्र प्रमाणम् ॥ 2.13 ॥

विश्वास-प्रस्तुतिः

त्वं पितृणाम् अपि पिता,
देवानाम् अपि देवता
परतोऽपि परश् चासि,
विधाता वेधसाम्+++(←विध्)+++ अपि ॥ 2.14 ॥

मूलम्

त्वं पितृणामपि पिता, देवानामपि देवता ।
परतोऽपि परश्चासि, विधाता वेधसामपि ॥ 2.14 ॥

अन्वयः

(हे भगवन् !) त्वं पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतोऽपि परः, वेधसाम् अपि विधाता च असि ।

मल्लिनाथः

त्वमिति ॥ हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरीऽसीत्यर्थः । ‘इन्द्रियोभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥’ इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि ॥ 2.14 ॥

विश्वास-प्रस्तुतिः

त्वम् एव हव्यं होता च,
भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता चासि,
ध्याता ध्येयं च यत्परम् ॥ 2.15 ॥+++(4)+++

मूलम्

त्वमेव हव्यं होता च, भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता चासि, ध्याता ध्येयं च यत्परम् ॥ 2.15 ॥

अन्वयः

(हे भगवन् !) त्वम् शाश्वतः एव हव्यं होता च, भोज्यं भोक्ता च, वेद्यं वेदिता च, ध्याता यत् परं ध्येयं च असि ।

मल्लिनाथः

त्वमेवेति । शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि ‘कालाट्ठञ्’ इति ठञपवादः । अत एव सूत्रकारस्यापि प्रयोगः- ‘येषां च विरोधः शाश्वतिकः’ इति । तथापि प्रयोगवशात्साधुरिति वामन इति । शाश्वतः प्रयुक्तः शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति होता यजमानश्चासि । भोज्यमभ्यवहार्यमन्नम् । ‘भोज्यं भक्ष्ये’ इति निपातनात्कुत्वाभावः । भोक्तान्नादश्चासि । वेद्यं साक्षात्कार्य वस्तुवेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम् ॥ 2.15 ॥

कुशलप्रश्नः

विश्वास-प्रस्तुतिः

इति तेभ्यः स्तुतीः श्रुत्वा
यथार्था हृदयं-गमाः ।
प्रसादाभिमुखो वेधाः
प्रत्युवाच दिवौकसः ॥ 2.16 ॥

मूलम्

इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥ 2.16 ॥

अन्वयः

वेधा इति तेभ्यः यथार्थाः हृदयङ्गमाः स्तुतीः श्रुत्वा प्रसादाऽभिमुखः (सन्) दिवौकसः प्रत्युवाच ॥ 2.16 ॥

मल्लिनाथः

इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः । ‘आख्यातोपयोगे’ इत्यपादानत्वात्पञ्चमी । यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः । खच्प्रकरणे ‘गमेः सुप्युपसंख्यानम्’ इति खच्प्रत्ययः । ‘अरुर्द्विषजन्तस्य मुम्’ इति मुमागमः । स्तुतीः स्तीत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच ॥ 2.16 ॥

विश्वास-प्रस्तुतिः

पुराणस्य कवेस् तस्य
चतुर्-मुख-समीरिता ।
प्रवृत्तिर् आसीच् छब्दानां
चरितार्था चतुष्टयी +++(द्रव्य-गुण-क्रिया-जाति-भेदेन? पुरुषार्थभेदेन?प्र्-ऊ)+++ ॥ 2.17 ॥

मूलम्

पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥ 2.17 ॥

अन्वयः

चतुष्टयी शब्दानां प्रवृत्तिः पुराणस्य कवेः तस्य चर्तुर्मुकसमीरिता (सती) चरितार्था आसीत् ।

मल्लिनाथः

पुराणस्येति ॥ द्रव्य-गुण-क्रिया-जाति-भेदेन चत्वारोऽवयवा यस्या इति चतुष्टयी चतुर्विधा । ‘संख्यामा अवयवे तयप्’ इति तयप् । ‘टिङ्ढाणञ्द्वयसच्-’ इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरोप्रमुखा वाग्वृत्तिः । उक्तं च- ‘वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥’ इति । पुराणास्य पुरातनस्य । पृषोदरादित्वात् साधुः । कवेः कवयितुस् तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । ‘तद्धितार्थ-’ इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच् चातुर्विध्यं सफलमासीदित्यर्थः ॥ 2.17 ॥

भगवानाह-

विश्वास-प्रस्तुतिः

स्वागतं स्वान् अधीकारान्
प्रभावैर् अवलम्ब्य वः
युगपद् युग+++(→दीर्घ, सम)+++-बाहुभ्यः
प्राप्तेभ्यः प्राज्य-विक्रमाः ॥ 2.18 ॥

मूलम्

स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः ।
युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ 2.18 ॥

अन्वयः

हे प्राज्यविक्रनाः ! स्वान् अधिकारान् प्रभावैः अवलम्ब्य युगपत् प्राप्तेभ्यः युगबाहुभ्यो वः स्वागतम् ॥ 2.18 ॥

मल्लिनाथः

स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः । ‘प्राज्यं भूरिप्रभूतं च’ इति यादवः । स्वान्स्वकीयानधिकारान्नियोगान् । ‘उपसर्गस्य घञि-’ इति वा दीर्घः । प्रभावैः सामर्थ्यैरवलम्ब्यास्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत्समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयत इति भावः ।

युगबाहुभ्यः । दीर्घ-बाहुभ्य इत्यर्थः । अजानुबाहुत्वं भाग्यलक्षणम् । वो युष्मभ्यम् ।‘बहुवचनस्य वस्नसौ’ इति वसादेशः । ‘कर्मणा यमभिप्रैति-’ इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् । स्वागतं शोभनागमनम् । काकुरत्रानुसंवेया ॥ 2.18 ॥

विश्वास-प्रस्तुतिः

किम् इदं द्युतिम् आत्मीयां
न बिभ्रति यथा पुरा ।
हिम-क्लिष्ट-प्रकाशानि
ज्योतींषीव मुखानि वः ॥ 2.19 ॥+++(4)+++

मूलम्

किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा ।
हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥ 2.19 ॥

अन्वयः

(ह वत्साः !) हिमक्लिष्टप्रकाशानि ज्योतींषि इव वो मुखानि पुरा यथा आत्मीयां द्युतिं न बिभ्रति । इदं किम् ?

मल्लिनाथः

किमिति ॥ ‘वत्साः’ इत्युत्तरश्लोकीय (4/18) संबोधनमत्राप्यनुष़ञ्जनीयम् । हे वत्साः पुत्रकाः, हिमेन नीहारेण क्लिष्टप्रका शानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव ।‘दीत्पिताराहुताशेषु ज्योतिः’ इति शाश्वतः । वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युतिं न बिभ्रति । इदम् किम् । किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥ 2.19 ॥

उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः-

विश्वास-प्रस्तुतिः

प्रशमाद् अर्चिषाम् एतद्
अनुद्गीर्ण-सुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं
कुण्ठित+अश्रीव लक्ष्यते
॥ 2.20 ॥

मूलम्

प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥ 2.20 ॥

अन्वयः

अर्चिषां प्रशमात् अनुद्गीर्णसुरायुधम् एतत् वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रि इव लक्ष्यते ॥ 2.20 ॥

मल्लिनाथः

प्रशमादिति ॥ अर्चिषां तेजसां प्रशमान् निर्वाणाद्
अनुद्गीर्णसुरायुधम् - अनुदित-चित्रप्रभम् इत्यर्थः । एतद्वृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठित-कोटीव लक्ष्यते दृश्यते ॥ 2.20 ॥

विश्वास-प्रस्तुतिः

किं चायम् अरि-दुर्वारः
पाणौ पाशः प्रचेतसः ।
मन्त्रेण हत-वीर्यस्य
फणिनो दैन्यम् आश्रितः ॥ 2.21 ॥

मूलम्

किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ 2.21 ॥

अन्वयः

किं च अयम् अरिदुर्वारः प्रचेतसः पाणौ पाशः मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ।

मल्लिनाथः

किं चेति ॥ किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । ‘प्रचेता वरुणः पाशी’ इत्यमरः । पाणौ पाशो पज्जरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः । फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः । अत्र फणिनिष्ठदैन्यस्य पाशेऽसम्भवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः ॥ 2.21 ॥

विश्वास-प्रस्तुतिः

कुबेरस्य मनःशल्यं
शंसतीव पराभवम् ।
अपविद्ध+++(=त्यक्त)+++-गदो बाहुर्
भग्न-शाख इव द्रुमः ॥ 2.22 ॥

मूलम्

कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ 2.22 ॥

अन्वयः

भग्नशाखो द्रुम इव अपविद्धगदः कुबेरस्य बाहुः मनःशल्यं पराभवं शसति इव ।

मल्लिनाथः

कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सो ऽपविद्धगदः । अत एव भग्नशखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनः शल्यम् । दुखहेतुत्वान्मनसः शल्यप्रायमित्यर्थः । पराभवम् । शत्रुकृतमिति शेषः । शंसतीव कथयतीव । लक्षणयानुमापयतीत्यर्थः । बाहौ मुख्म्कथनस्यासम्भवाद् इव-शब्दोऽप्य् अत एव ॥ 2.22 ॥

विश्वास-प्रस्तुतिः

यमोऽपि विलिखन् भूमिं
दण्डेनास्तमित-त्विषा ।
कुरुते ऽस्मिन्न् अमोघे ऽपि
निर्वाणालात+++(=अङ्गार)+++-लाघवम् ॥ 2.23 ॥+++(4)+++

मूलम्

यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥ 2.23 ॥

अन्वयः

अस्तमितत्विषा दण्डेन भूमिं विलिखन् यमोऽपि अमोघे अपि अस्मिन् निर्वाणाऽलातलाघवं कुरुते ।

मल्लिनाथः

यम इति ॥ अस्तं नाशमिताः प्रात्पाः । अस्तमिति मकारान्तमव्ययम् । तस्य ‘द्वीतीयाश्रितातीतपतितगतात्यस्तप्रात्पापन्नैः’ इति समासः । अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखन-शलाका तस्य यल्लाघवं क्लैब्यं तत्कुरुते । ‘अलातमुल्मुकं ज्ञेयम्’ इति हलायुवः । ‘निर्वाणोऽवाते’ इति निपातनान्निष्ठानत्वम् ।
अत्रापि लाघवमिव लाघवम् इति कल्पनान् निदर्शनालंकारः ॥ 2.23 ॥

विश्वास-प्रस्तुतिः

अमी च कथम् आदित्याः
प्रताप-क्षति-शीतलाः ।
चित्र-न्यस्ता इव गताः -
प्रकामालोकनीयताम् ॥ 2.24 ॥+++(5)+++

मूलम्

अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ 2.24 ॥

अन्वयः

प्रतापक्षतिशीतला अमी आदित्यश्च कथं चित्रन्यस्ता इव प्रकामालोकमीयतां गताः ।

मल्लिनाथः

अमी इति ॥ प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् । केन हेतुनेत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्रात्पाः ॥ 2.24 ॥

विश्वास-प्रस्तुतिः

पर्याकुलत्वान् मरुतां
वेग-भङ्गो ऽनुमीयते
अम्भसाम् ओघ-संरोधः
प्रतीप-गमनाद् इव ॥ 2.25 ॥+++(5)+++

मूलम्

पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ 2.25 ॥

अन्वयः

अम्भसां प्रतीपगमनात् ओघसंरोध इव मरुतां पर्याकुलत्वात् वेघभङ्गोऽनुमीयते ।

मल्लिनाथः

पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिति शेषः । पर्याकुलत्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोऽम्भसां जलानां प्रतीपगमनात् । उत्तानावरोहादित्यर्थः । ओघस्य संरोधः प्रवाहप्रतिबन्ध हवानुमीयते ॥ 2.25 ॥

विश्वास-प्रस्तुतिः

आवर्जित-जटा-मौलि-
विलम्बि-शशि-कोटयः ।
रुद्राणाम् अपि मुर्धानः
क्षत-हुङ्कार-शंसिनः ॥ 2.26 ॥

मूलम्

आवर्जितजटामौलिविलम्बिशशिकोटयः ।
रुद्राणामपि मुर्धानः क्षतहुङ्कारशंसिनः ॥ 2.26 ॥

अन्वयः

आवर्जीतजटामौलिविलम्बिशशकोटयो रुद्राणां अपि मूर्द्धानः क्षतहुङ्कारशंसिनः ।

मल्लिनाथः

आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मोलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यनुमापका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः ॥ 2.26 ॥

विश्वास-प्रस्तुतिः

लब्ध-प्रतिष्ठाः प्रथमं
यूयं किं बलवत्तरैः ।
अपवादैर् इवोत्सर्गाः
कृत-व्यावृत्तयः परैः ॥ 2.27 ॥ +++(5)+++

मूलम्

लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ 2.27 ॥

अन्वयः

प्रथमं लब्धप्रतिष्ठा यूयं बलवत्तरैः परैः उत्सर्गाअपवादैः इव किं कृतव्यावृत्तयः ।

मल्लिनाथः

लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकात्प्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरत्सर्गाः सामान्यसास्त्राणि ‘मा हिंस्यात्’ इत्येवमादीनि । अपोद्यन्त एमिरित्यपवादैः ‘गामालभेत’ इत्यादिभिर्विशेषशास्त्रैरिव कि कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः । कृतविषयसंकोचरुपबाधा इत्यन्यत्र । ‘विषयसंकोच एव बाधः’ इत्याचार्याः । निषेधशास्त्रस्य वैदिकहिंसापरिहारेण लौरिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्यलमतिगहनावगाहनेन ॥ 2.27 ॥

विश्वास-प्रस्तुतिः

तद्ब्रूत वत्साः किम् इतः
प्रार्थयध्वे समागताः ।
मयि सृष्टिर् हि लोकानां
रक्षा युष्मास्व् अवस्थिता ॥2.28 ॥+++(4)+++

मूलम्

तद्ब्रूत वत्साः किमितः प्रार्थयध्वे समागताः ।
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥2.28 ॥

अन्वयः

तत् हे वत्साः । समागता यूयम्, इतः किं प्रार्थध्यं ? ब्रूत । हि मयि लोकानां सृष्टिः, रक्षा युष्मासु अवस्थिता ।

मल्लिनाथः

तदिति ॥ तत्तस्मात्कारणात् ।हे वत्साः पुत्रकाः । ‘वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि’ इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते । संभूयागताः समागताः इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नस्ति मदपेक्षेत्यर्थः ॥ 2.28 ॥

वेदनाकथनम्

विश्वास-प्रस्तुतिः

ततो मन्दानिलोद्‌धूत-
कमलाकर-शोभिना ।
गुरुं नेत्र-सहस्रेण
नोदयाम् आस वासवः ॥ 2.29 ॥+++(5)+++

मूलम्

ततो मन्दानिलोद्‌धूतकमलाकरशोभिना ।
गुरुं नेत्रसहस्रेण नोदयामास वासवः ॥ 2.29 ॥

अन्वयः

ततो वासवो गुरुं मन्दाऽनिलीद्धुतकमलाकरशोभिना नेवसहस्रेण नोदयामास ।

मल्लिनाथः

तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । ‘गुरुगीःपतिपित्राद्यौ’ इत्यमरः । मन्दानिलोद्धूतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्रेण नोदयामास प्रेरयामास। सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ॥ 2.29 ॥

विश्वास-प्रस्तुतिः

स द्वि-नेत्रो हरेश् चक्षुः
सहस्र-नयनाधिकम् ।
वाचस्-पतिर् उवाचेदं
प्राञ्जलिर् जलजासनम् ॥ 2.30 ॥+++(5)+++

मूलम्

स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम् ।
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ 2.30 ॥

अन्वयः

हरेः सहस्रनयनाऽधिकं द्विनेत्रं चक्षुः स वाचस्पतिः प्राञ्जलिः (सन्) जलजासनम् इदम् उवाच ।

मल्लिनाथः

स इति ॥ हरेरिन्द्रस्य। ‘इन्द्रो दुश्च्यवनो हरिः’ इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्‌द्विनेत्रम् । प्रसिद्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । स च वाचस्पतिः । कस्कादित्वादलुक्सत्वे । ‘षष्ठ्याः पतिपुत्र-’ इत्यादिना सत्वमिति स्वामी । तन्न, छन्दोविषयत्वात् । प्राञ्जलिः सन्। जलजासनं ब्रह्मणमिदमुवाच चक्षुष्ट्वारोपस्य प्रकृतोपयोकात्परिणामालङ्कारः ॥ 2.30 ॥

विश्वास-प्रस्तुतिः

एवं यद् आत्थ भगवन्न्
आमृष्टं नः परैः पदम्
प्रत्येकं विनियुक्तात्मा
कथं न ज्ञास्यसि प्रभो ॥ 2.31 ॥

मूलम्

एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् ।
प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥ 2.31 ॥

अन्वयः

हे भगवन् ! यत् आत्थ तत् एवम्, नः पदं परैः आमृष्टम् । हे प्रभो ! प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि ?

मल्लिनाथः

ऐवमिति ॥ हे भगनम् षड्गुणैश्वर्यसम्पन्न ! यदात्थ ‘कृतव्यावृत्तयः परैः’ (2/26) इति यद्‌व्रवीषि । ‘ब्रुवः पञ्चानाम्-’ इतयादिनाहादेशः । ‘वर्तमानसामीप्य वर्तमानवद्वा’ इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग ईत्याह । आहेति भूते णलन्तभ्रमवदिति । आहेत्युपलक्षणम् । तदेव सत्यम् नोऽस्माकं पदमधिकारः परैः शत्रुभिरामृष्टमाक्षित्पम् । हे प्रभो, प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरूपः । सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि । वर्तमानेऽपि वचनभङ्ग्या भविष्यन्निर्देशः प्रसिद्धः । ‘अपन्हवे ज्ञः’ ‘अकर्मकाच्च’ इत्यात्मनेपदविकल्पः ॥ 2.31 ॥

उक्तमेव प्रपञ्चयति-

विश्वास-प्रस्तुतिः

भवल्-लब्ध-वरोदीर्णस्
तारकाख्यो महासुरः ।
उपप्लवाय लोकानां
धूमकेतुर् इवोत्थितः ॥ 2.32 ॥

मूलम्

भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥ २।३२॥

अन्वयः

भवल्लब्धवरोदीर्णः तारकाख्यो महासुरः धूमकेतुः इव लोकानाम् उपप्लवाय उत्थितः ।

मल्लिनाथः

भवदिति ॥ भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः तारक इत्याख्या नामधेयं यस्य स तारकाख्यः । महानसुरो महासुरः । ‘सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः’ इति तत्पुरुषः । धूमकेतुरुत्पातविशेष इव लोकानामुपप्लवायोपद्रवायोत्थित उत्पन्नः ॥ 2.32 ॥

विश्वास-प्रस्तुतिः

पुरे तावन्तम् एवास्य
तनोति रविर् आतपम्
दीर्घिका-कमलोन्मेषो
यावन्-मात्रेण साध्यते ॥ 2.33 ॥

मूलम्

पुरे तावन्तमेवास्य तनोति रविरातपम् ।
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥ 2.33 ॥

अन्वयः

अस्य पुरे रविः तावन्तम् एव आतपं तनोति यावन्मात्रेण दीर्घिकाकमलोन्मेषः साध्यते ।

मल्लिनाथः

पुर इति ॥ अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मात्रमेवातपं तनोति । यावन्मात्रैण यावैत३। यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा । अल्पपरिमाणेनेत्यर्थः । मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे’ इत्यमरः । दीर्घिकासु क्रीडावापीषु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः ॥ 2.33 ॥

विश्वास-प्रस्तुतिः

सर्वाभिः सर्वदा चन्द्रस्
तं कलाभिर् निषेवते
नादत्ते केवलां लेखां
हर-चूडा-मणी-कृताम् ॥ 2.34 ॥+++(5)+++

मूलम्

सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते ।
नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥ 2.34 ॥

अन्वयः

चन्द्रः तं सर्वदा सर्वाभिः कलाभिः निषेवते, केवलां हरचूडामणीकृतां लेखां न आदत्ते ।

मल्लिनाथः

सर्वाभिरति ॥ चन्द्रस्तं तारकं सर्वदा । कृष्णपक्षेऽपीत्यर्थः । सर्वाभिः कलाभिर्निषेवते ।‘कला तु षोडशो भागः’ इत्यमरः । केवलां हरचूडामणीकृतां शिवशरोमणीकृतां लेखां नादत्ते न गृह्णाति ॥ 2.34 ॥

विश्वास-प्रस्तुतिः

व्यावृत्त-गतिर् उद्याने
कुसुम-स्तेय-साध्वसात्+++(=भयात्)+++ ।
न वाति वायुस् तत्-पार्श्वे
ताल-वृन्त+++(=बन्ध→व्यजन)++++अनिलाधिकम् ॥ 2.35 ॥

मूलम्

व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥ 2.35 ॥

अन्वयः

वायुः कुसुमस्तेयसाध्वसात् उद्याने व्यावृत्तगतिः (सन्) तत्पार्श्वे तालवृन्ताऽनिलाऽधिकं न वाति ।

मल्लिनाथः

व्यावृत्तेति ॥ वायुः स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् । ‘स्तेनाद्यन्नलोपश्च’ इति यत्प्रत्ययो नलोपश्च । कुसुमानां स्तेयं तस्मत्स्तेयाभियोगाद्द्ण्डाद्वा साध्वसं भयं तस्माद्धेतोरुद्याने व्यावृत्तगतिः । निवृत्तोद्यानसंचारः सन्नित्यर्थः । सापेक्षत्वेऽपि गमकत्वात् समासः । तत्पार्श्वे तत्समीपे । तालस्य वृन्तैरुद्ग्रन्थ्यते । तालस्येव वृन्तम् अस्येति वा तालवृन्तं तस्यानिलात् ‌व्यजन-संचार-पवनाद् अधिकं यथा तथा न वाति । ‘व्यजनं तालवृन्तकम्’ इत्यमरः ॥ 2.35 ॥

विश्वास-प्रस्तुतिः

पर्याय-सेवाम् उत्सृज्य
पुष्प-संभार–तत्-पराः ।
उद्यान-पाल-सामान्यम्
ऋतवस् तम् उपासते ॥ 2.36 ॥+++(5)+++

मूलम्

पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः ।
उद्यानपालसामान्यमृतवस्तमुपासते ॥ 2.36 ॥

अन्वयः

ऋतवः पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः (सन्तः) उद्यानपालसामान्यं तम् उपासते ।

मल्लिनाथः

पर्यायेति ॥ ऋतवः षड् वसन्तादयः पर्यायसेवां क्रमसेवामुत्सृज्य पुष्पाणां संभारे संग्रहे तत्पराः । आसक्ताः सन्त इत्यर्थः । ‘तत्परे प्रसितासक्तौ’ इत्यमरः । उद्यानपालैरुद्यानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकमुपासते सेवन्ते । शीतोष्णादिदोषप्रकाशनं तु दूरापास्तमित्यर्थः ॥ 2.36 ॥

विश्वास-प्रस्तुतिः

तस्योपायन-योग्यानि
रत्नानि सरितां पतिः ।
कथम् अप्य् अम्भसाम् अन्तर्
आ निष्पत्तेः प्रतीक्षते ॥ 2.37 ॥

मूलम्

तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते ॥ 2.37 ॥

अन्वयः

सरितां पतिः तस्य उपायनयोग्यानि रत्नानि अम्भसाम् अन्तः आन्ष्पत्तेः कथमपि प्रतीक्षते ।

मल्लिनाथः

तस्येति ॥ सरितां पतिः समुद्रस्तस्य तारकस्योपायनानां प्राभृतानां योग्यानि । ‘प्राभृतं तु प्रदेशनम् । उपायनम्’ इत्यमरः । रत्नान्यम्भसामन्तरा निष्पत्तेः परिपाकपर्यन्तम् । विकल्पादसमासः । कथमपि महता यत्नेन प्रतीक्षते । कदा वा परिपच्येरन्नित्येकाग्रेण पालयतीत्यर्थः ॥ 2.37 ॥

विश्वास-प्रस्तुतिः

ज्वलन्-मणि-शिखाश् चैनं
वासुकि-प्रमुखा निशि ।
स्थिर-प्रदीपताम् एत्य
भुजङ्गाः पर्युपासते ॥ 2.38 ॥

मूलम्

ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते ॥ 2.38 ॥

अन्वयः

ज्वलन्मणिशिखा वासुकिप्रमुखाः भुजङ्गाश्च निशि स्थिरप्रदीपताम् एत्य एनं पर्युपासते ।

मल्लिनाथः

ज्वलदिति ॥ किंचेति चार्थः । ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा ख्वाला येषां ते वासुकिप्रमुखा भुजङ्गाः सर्पाः । सिद्धाश्च ध्वन्यन्ते । ‘भुजंगः सिद्धसर्पयोः’ इत्यमरः । निशि स्थिरप्रदोपतामनिर्वाणदीपत्वमेत्यैनं तारकं पर्युपासते परिवृत्य सेवन्ते ॥ 2.38 ॥

विश्वास-प्रस्तुतिः

तत्-कृतानुग्रहापेक्षी
तं मुहुर् दूत-हारितैः ।
अनुकूलयतीन्द्रोऽपि
कल्पद्रुम-विभूषणैः ॥ 2.39 ॥

मूलम्

तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः ।
अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः ॥ 2.39 ॥

अन्वयः

इन्द्रोऽपि तत्कृताऽनुग्रहापेक्षी (सन्) मुहुः दूतहारितैः कल्पद्रुमविभूषणैः तम् अनुकूलयति ।

मल्लिनाथः

इन्द्रोपि तेन तारकेण कृतं तत्कृतमनिग्रहं प्रसादमपेक्षते इति तथोक्तः सन् । मुहुर्दूतहारितैर्दूतप्रापिनैः कल्पद्रुमाणां विभूषणैः । तत्प्रसूनैरित्यर्थः । तं तारकमनुकूलयत्यनुकूलं करोति ॥ 2.39 ॥

विश्वास-प्रस्तुतिः

इत्थम् आराध्यमानोऽपि
क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण
नोपकारेण दुर्जनः ॥ 2.40 ॥+++(4)+++

मूलम्

इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ 2.40 ॥

अन्वयः

इत्थम् आराध्यमानोऽपि स भुवनत्रयं क्लिश्नाति । (हि) दुर्जनः प्रत्यपकारेण शाम्येत्, उपकारेण न शाम्येत् ।

मल्लिनाथः

इत्थमिति । इत्थमुक्तप्रकारेण रविशशिपवनोदधिभुजंगसुरेन्द्रैराराध्यमानोऽपि भुवनत्रयं क्लिश्नाति पीडयति । तथाहि । दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् । उपकारेण तु न शाम्येत् । प्रत्युत प्रकुप्यतीति भावः ॥ 2.40 ॥

विश्वास-प्रस्तुतिः

तेनामर-वधू-हस्तैः
स-दय+अलून-पल्लवाः ।
अभिज्ञाश् छेद-पातानां
क्रियन्ते नन्दन-द्रुमाः ॥ 2.41 ॥

मूलम्

तेनामरवधूहस्तैः सदयालूनपल्लवाः ।
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥ 2.41 ॥

अन्वयः

तेन अमरवधूहस्तैः सदयालूनपल्लवाः नन्दनद्रुमाः छेदपातानाम् अभिज्ञाः क्रियन्ते ।

मल्लिनाथः

तेनेति ॥ तेन तारकेणमरवधूरस्तैः । सुकुमारैरिति भावः । तैरपि सदयमलूना अवतंसार्थं छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः । छेदाश्च पाताश्च छेदपातास्तेषाम् । अभिजानन्तीत्यभिज्ञाः । कृद्योगात्कर्मणि षष्ठी । क्रियन्ते ॥ 2.41 ॥

विश्वास-प्रस्तुतिः

वीज्यते स हि संसुप्तः
श्वास-साधारणानिलैः ।
चामरैः सुर-वन्दीनां+++(←वन्द् [स्त्रीणां])+++
वाष्प-सीकर-वर्षिभिः ॥ 2.42 ॥

मूलम्

वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
चामरैः सुरवन्दीनां वाष्पसीकरवर्षिभिः ॥ 2.42 ॥

अन्वयः

हि स संसुप्तः (सन्) श्वाससाधारणाऽनिलैः बाष्पसीकरवर्षिभिः सुरवन्दीनां चामरैः वीज्यते ।

मल्लिनाथः

वीज्यते इति ॥ हि यस्मात्कारणत्स तारकः संसुप्तः सन् । श्वाससाधारणो निश्वाससमानोऽनिलो योषां तैः ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः । वाष्पशीकरवर्षिभिः । तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरवन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । ‘प्रग्रहापग्रहौ वन्द्याम्’ इत्यमरः । चामरैर्वीज्यते ॥ 2.42 ॥

विश्वास-प्रस्तुतिः

उत्पाट्य मेरु-श्रृङ्गाणि
क्षुण्णानि हरितां+++(=सूर्याश्वनाम्)+++ खुरैः ।
आक्रीड-पर्वतास् तेन
कल्पिताः स्वेषु वेश्मसु ॥ 2.43 ॥+++(5)+++

मूलम्

उत्पाट्य मेरुश्रृङ्गाणि क्षुण्णानि हरितां खुरैः ।
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥ 2.43 ॥

अन्वयः

तेन हरितां खुरैः क्षुण्णानि मेरुश्रृङ्गाणि उत्पाट्य स्वेषु वेश्मसु आक्रीडपर्वताः कल्पिताः ।

मल्लिनाथः

उत्पाट्येति ॥ तेन तारकेण हरितां सूर्याश्वनाम् । ‘हरित्सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि’ इति वेश्वः । खुरैः शफैः क्षुण्णानि चूर्णितानि । एतेन तेषामत्यौन्नत्यं सूचितम् । मेरुश्रृङ्गाण्युत्पाट्य स्वेषु वेश्मसु । वैश्मस्विति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः । आक्रीडन्त एष्वित्याक्रीडाः । ते च पर्वताः कल्पताः कृताः ॥ 2.43 ॥

विश्वास-प्रस्तुतिः

मन्दाकिन्याः पयःशेषं
दिग्-वारण-मदाविलम् ।
हेमाम्भो-रुह-सस्यानां
तद्-वाप्यो धाम् सांप्रतम् ॥ 2.44 ॥+++(4)+++

मूलम्

मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् ।
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम् सांप्रतम् ॥ 2.44 ॥

अन्वयः

साम्प्रतं मन्दाकिन्या दिग्वारणमदाविलं पयः शेषम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम ।

मल्लिनाथः

मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव । शिष्यते इति शेषं शिष्टम् । कर्मण्यण्प्रत्ययः । ‘त्रिष्वन्यत्रोपयुज्यते’ इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह- हेमेति । हेमाम्भोरुहाण्येव सस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाट्य स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः ॥ 2.44 ॥

विश्वास-प्रस्तुतिः

भुवनालोकन-प्रीतिः
स्वर्गिभिर् नानुभूयते
खिली+++(=कृशी)+++-भूते विमानानां
तद्-आपात-भयात् पथि ॥ 2.45 ॥

मूलम्

भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
खिलीभूते विमानानां तदापातभयात्पथि ॥ 2.45 ॥

अन्वयः

तदापातभयात् विमानानां पथि खिलीभूते (सति) स्वर्गिभिः भुवनालोकनप्रीतिः न अनुभूयते ।

मल्लिनाथः

भुवनेति ॥ तस्य तारकस्यापातात् समापत्तेर् भयाद् विमानानां पथि खिली-भूते ऽप्रहतीभूते सति ।
‘द्वे खिलाप्रहते समे’ इत्यमरः ।
स्वर्गिभिर् देवैर् भुवनानामालोकने प्रीतिर् नानुभूयते ॥ 2.45 ॥

विश्वास-प्रस्तुतिः

यज्वभिः संभृतं हव्यं
विततेष्व् अध्वरेषु सः ।
जातवेदो-मुखान् मायी
+++(नेत्राणां)+++ मिषताम् आच्छिनत्ति नः ॥ 2.46 ॥+++(4)+++

मूलम्

यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ 2.46 ॥

अन्वयः

यज्वभिः विततेषु अध्वरेषु संभृतं हव्यं मायी स मिषतां नः जातवेदोमुखात् आच्छिनत्ति ।

मल्लिनाथः

यज्वभिरिति ॥ यज्वभिर्विधिवदिष्टवद्भिः ‘यज्वा तु विधिनेष्टवान्’ इत्यमरः । ‘सुयजोर्ङ्वनिप्’ इति ङ्वनिप्प्रत्ययः । विततेष्वध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविर्मायी मायावी । व्रीह्यादित्वादि निप्रत्ययः । स तारको नोऽस्माकं मिषतां पश्यताम् । पश्यत्सु सत्स्वित्यर्थः । ‘षष्ठी चानादरे’ इति षष्ठी । जातवेदा वह्निरेव मुशं तस्माज्जातवेदोमुखादाच्छिनत्ति । आक्षिप्य गुह्णातीत्यर्थः ॥ 2.46 ॥

विश्वास-प्रस्तुतिः

उच्चैर् उच्चैःश्रवास् तेन
हय-रत्नम् अहारि च ।
देह-बद्धम् इवेन्द्रस्य
चिर-कालार्जितं यशः ॥ 2.47 ॥+++(4)+++

मूलम्

उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥ 2.47 ॥

अन्वयः

किं च-तेन उच्चैः उच्चैः श्रवा हयरत्नं चिरकालाऽर्जितम् इन्द्रस्य यश इव अहारि ।

मल्लिनाथः

उच्चैरिति ॥ किंचेति चार्थः । तेन तारकेणोच्चैरुन्नत उच्चैः श्रवा नाम हयो रत्नमिव हयरत्नमश्वश्रेष्ठः ‘रत्नश्रेष्ठे मणावपि’ इति विश्वः । अस्य शुभ्रत्वादुत्प्रेक्षतेः-देहबद्धं बद्धदेहम् । मूर्तिमदित्यर्थः । आहिताग्न्यादित्नान्निष्ठायाः परानिपातः । चिरकालार्जितमिन्द्रस्य यश इवाहार्यपहृतम् ॥ 2.47 ॥

तर्हि सामाद्युपायास्तत्र कथं न प्रयुक्ता इत्यत्राह-

विश्वास-प्रस्तुतिः

तस्मिन्न् उपायाः सर्वे नः
क्रूरे प्रतिहत-क्रियाः
वीर्यवन्त्य् औषधानीव
विकारे सांनिपातिके ॥ 2.48 ॥+++(4)+++

मूलम्

तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
वीर्यवन्त्यौषधानीव विकारे सांनिपातिके ॥ 2.48 ॥

अन्वयः

क्रूरे तस्मिन् नः सर्वे उपायाः सन्निपातिके विकारे वीर्यवन्तिः औषधानि इव प्रतिहतक्रियाः ।

मल्लिनाथः

तस्मिन्निति ॥ क्रूरे घातुके । ‘नृशंसो धातुकः क्रूरः’ इत्यमरः । तस्मिन्नसुरे नोऽस्माकं सर्वे उपायाः संनिपातदोषत्रयस्य प्रकोपजे सांनिपातिके विकारे ज्वरादौ । ‘संनिपाताच्च’ इति वक्तव्याठ्ठक् । वीर्यवन्ति सारन्त्यौषधानीव प्रतिहताक्रिया विफलप्रयोगा भवन्ति ॥ 2.48 ॥

विश्वास-प्रस्तुतिः

जयाशा यत्र चास्माकं
प्रतिघातोत्थितार्चिषा ।
हरि-चक्रेण तेनास्य
कण्ठे निष्कम् इवार्पितम् ॥ 2.49 ॥

मूलम्

जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ॥ 2.49 ॥

अन्वयः

यत्र अस्माक जयाशा, प्रतिघातोत्थिताऽर्चिषा तेन हरिचक्रेण अस्य कण्ठे निष्कम् अर्पितम् इव ।

मल्लिनाथः

जयाशेति ॥ किंचेति चार्थः । नूनमनेन वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा । आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थितार्चिषोद्‌गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्ठे निष्कम् उरोभूषणम् अर्पितमिवेप्युत्प्रेक्षा । स्वयमयं निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः । ‘साष्टे शते सुवर्णानां हेम्न्युरोभूषणेपले । दीनारेऽपि च निष्केऽस्त्री’ इत्यमरः ॥ 2.49 ॥

विश्वास-प्रस्तुतिः

तदीयास् तोयदेष्व् अद्य
पुष्करावर्तकादिषु ।
अभ्यस्यन्ति तटाघातं
निर्जितैरावता गजाः ॥ 2.50 ॥+++(4)+++

मूलम्

तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥ 2.50 ॥

अन्वयः

अद्य निर्जितैरावताः तदीया गजाः पुष्करावर्तकादिषु तोयदेषु तटाघातम् अभ्यस्यन्ति ।

मल्लिनाथः

तदीयेति । अद्य सम्प्रति निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्चावर्तकाश्च नामादयो येषां तेषु तोयदेषु मेघेषु तदाघातं वप्रक्रीडाभ्यस्यन्ति ॥ 2.50 ॥

विश्वास-प्रस्तुतिः

तद् इच्छामो विभो ! सृष्टं
सेनान्यं तस्य शान्तये ।
कर्म-बन्ध-च्छिदं धर्मं
भवस्येव मुमुक्षवः ॥ 2.51 ॥+++(5)+++

मूलम्

तदिच्छामो विभो ! सृष्टं सेनान्यं तस्य शान्तये ।
कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥ 2.51 ॥

अन्वयः

तद् हे विभो ! मुमुक्षवो भवस्य शान्तये कर्मबन्धच्छिदं धर्मम् इव तस्य शान्तये सेनान्यं स्त्रष्टुम् इच्छामः ।

मल्लिनाथः

तदिति ॥ तत्तस्मात्कारणात् । हे विभो स्वामिन्, मोक्तुं भवं त्यक्तुमिच्छवो मुमुक्षवो विरक्ता भवस्य संसारस्य शान्तयो निवृत्तये कर्मैव बन्धस्तं छिनतीति कर्मबन्धच्छत्तं धर्ममिव । आत्मज्ञानहेतुभूतमिति शेषः । ‘तमेव विदित्वातिमृत्युमेति’ इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीश्चमूपतिः । ‘सत्सूद्विष-’ इत्यादिना क्विप् । तं सेनान्यं कंचित्स्त्रष्टुमिच्छामः । वयमिति शेषः ॥ 2.51 ॥

सेनानीसृष्टेः फलमाह-

विश्वास-प्रस्तुतिः

गोत्पारं सुरसैन्यानां
यं पुरस्-कृत्य गोत्रभित् ।
प्रत्यानेष्यति शत्रुभ्यो
वन्दीम्+++(←वन्द्)+++ इव जयश्रियम् ॥ 2.52 ॥

मूलम्

गोत्पारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम् ॥ 2.52 ॥

अन्वयः

सुरसैन्यानां सोत्पालं यं पुरस्कृत्य गोत्रभित् वन्दीम् इव जयश्रियं शत्रुभ्यः प्रत्यानेष्यति ।

मल्लिनाथः

गोत्पारमिति ॥ सिरसैन्यानां देवतासेनानां गोत्पारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय । ‘पुरोऽत्र्ययम्’ इति गतित्वात् ‘नमस्पुरसोर्गत्योः’ इति सकारः । गां पृथ्वीं त्रायन्त इति गोत्रास्तान्भिनत्तीति गोत्रभिदिन्द्रो जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात्प्रत्यानेष्यति प्रत्याहरिष्यति तं स्त्रष्टुमिति पूर्वेण संबन्धः ॥ 2.52 ॥

उत्तरम्

विश्वास-प्रस्तुतिः

वचस्य् अवसिते तस्मिन्
ससर्ज गिरम् आत्म-भूः ।
गर्जितानन्तरां वृष्टिं
सौभाग्येन जिगाय+++(=जितवती)+++ सा ॥ 2.53 ॥+++(4)+++

मूलम्

वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः ।
गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ॥ 2.53 ॥

अन्वयः

तस्मिन् वचसि अवसिते (सति) आत्मभूः गिरं ससर्ज । सा सौभाग्येन गर्जितानन्तरां वृष्टिं जिगाय ।

मल्लिनाथः

वचसीति ॥ तस्मिन्बार्हस्पत्ये वचस्यवसिते परिसमाप्ते सत्यात्मभूर्ब्रह्मा गिरं वाचं ससर्ज जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन । ‘हृद्‌भगसिन्ध्वन्ते पूर्वपदस्य च’ इत्युभयपदवृद्धिः गर्जिताद्‌गर्जितस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वाद्‌वृष्टेरिव तद्विज्ञापनफलत्वाद्‌गिरः सुभगत्वमिति भावः ॥ 2.53 ॥

विश्वास-प्रस्तुतिः

संपत्स्यते वः कामोऽयं
कालः कश्चित् प्रतीक्ष्यताम्
त्व् अस्य सिद्धौ यास्यामि
सर्ग-व्यापारम् आत्मना ॥ 2.54 ॥

मूलम्

संपत्स्यते वः कामोऽयं कालः सश्चित्प्रतीक्ष्यताम् ।
न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥ 2.54 ॥

अन्वयः

अयं कः कामः सम्पत्स्यते । कश्चित् कालः प्रतीक्ष्यताम् । तु अस्य सिद्धौ आत्मना सर्गव्यापारं न यास्यामि ।

मल्लिनाथः

संपत्स्यत इति ॥ अयं वो युष्माकं कामो मनोरथः सेनानीरूपः संपत्स्यते सेत्स्यति । कश्चित्कियानपि कालः प्रतीक्ष्यताम् । तु किंतु तस्य सेनान्यः सिद्धौ विषय आत्मना स्वयं सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि । नाहं स्त्रक्ष्यामीत्यर्थः ॥ 2.54 ॥

विश्वास-प्रस्तुतिः

इतः स दैत्यः प्राप्तश्रीर्
नेत एवार्हति क्षयम्
विष-वृक्षोऽपि संवर्ध्य
स्वयं छेत्तुम् असाम्प्रतम् ॥ 2.55 ॥+++(5)+++

मूलम्

इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ 2.55 ॥

अन्वयः

इतः प्रात्पश्रीः स दैत्यः इत एव क्षयं न अर्हति; विषवृक्षः अपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ।

मल्लिनाथः

इत इति ॥ इतो मत्त एव प्रात्पश्रीर्लब्धोदयः स दैत्यस्तारकासुर इतो मत्त एव क्षयं नासं नार्हति । तथाहि । अन्यो वृक्षस्तावदास्ताम् विषस्य वृक्षो विषयवृक्षोऽपि संवर्ध्य कुतश्चित्कारणात्सम्यग्‌ वर्धयित्व ा स्वयं छेत्तुमसांप्रतमनर्हः । असांप्रतमित्यमेन निपातेनाभिहितत्वाद्‌वृक्ष इति द्वितीयान्तो न भवत्यनभिहिते कर्मणि द्वितीयाभिधामनात् । यथाह वामनः– ‘निपातेनाप्यभिहिते कर्मणि न विभक्तिः परिगणनस्य प्रायिकत्वात्’ इति ॥ 2.55 ॥

विश्वास-प्रस्तुतिः

वृतं तेनेदम् एव प्राङ्
मया चास्मै प्रतिश्रुतम्
वरेण शमितं लोकान्
अलं दग्धुं हि तत्-तपः ॥ 2.56 ॥

मूलम्

वृतं तेनेदमेव प्राङ्मया चास्मै प्रतिश्रुतम् ।
वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ २।५६॥

अन्वयः

प्राक् तेन इदम् एव वृतं, मया च अस्मै प्रतिश्रुतम् । हि लोकान् दग्धुम् अलं तत्तपोः वरेण शमितम् ।

मल्लिनाथः

वृतमिति ॥ प्राक्पुर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह– लोकान्दग्धुमलं शक्तम् । ‘पर्यात्पिवचनेष्वलमर्थेषु’ इति तुमुन्प्रत्ययः । तस्य तपस्तत्तपो वरेण वरदानेन शमितमिति शेषः ॥ 2.56 ॥

विश्वास-प्रस्तुतिः

संयुगे सांयुगीनं तम्
उद्यतं प्रसहेत कः ।
अंशाद् ऋते निषिक्तस्य
नील-लोहित-रेतसः ॥ 2.57 ॥+++(4)+++

मूलम्

संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
अंशादृते निषिक्तस्य नीललोहितरेतसः ॥ 2.57 ॥

अन्वयः

संयुगो उद्यतं सांयुगीनं तं निषिक्तस्य नीललोहितरोतसः अशात् ऋते कः प्रसहेत ?

मल्लिनाथः

संयुग इति ॥ संयुगे युद्ध उद्यन्तं व्याप्रियमाणम् । संयुगै साधुंसांयुगीनम् । ‘प्रतिजनादिभ्यः खञ्’ इति खञ्प्रत्ययः । तं तारकं निषिक्तस्य क्वचित्क्षेत्रे क्षरितस्य । ‘नीलः कण्ठे लोहितश्च केशेष्विति नीललोहित इति पुराणम् ।’ इति स्वामी । तस्य नोलोहितस्य धूर्जटेरेतसः शुक्रस्यांशादृर्तेऽशं विनान्यः कः प्रसहेताभिभवेत् । प्रसहनमभिभवः’ इति वृत्तिकारः ॥ 2.57 ॥

कथमसावीदृक्शक्तिरित्याह-

विश्वास-प्रस्तुतिः

हि देवः परं ज्योतिस्
तमःपारे व्यवस्थितम्
+++(मानेन)+++ परिच्छिन्न-प्रभाव-र्द्धिर्
न मया न च विष्णुना ॥ 2.58 ॥

मूलम्

स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ 2.58 ॥

अन्वयः

हि स देवः तमःपारे व्यवस्थितं परं ज्योतिः मया विष्णुना च परिच्छिन्नप्रभावर्द्धिः न ।

मल्लिनाथः

स इति ॥ स देवो नीललोहितस्तमसः पारे परतो व्यवस्थितं तमोगुणातीतं परं ज्योतिः परमात्मा हि । अतएव मया परिच्छिन्नप्रभावर्द्धिर् अवगाढमहिमातिशयो न भवति तथा विष्णुना च न । अतस्तस्यासाध्यं नास्तीत्यर्थः ॥ 2.58 ॥

संप्रति तदंशोत्पत्तावुपायं दर्शयति-

विश्वास-प्रस्तुतिः

उमारूपेण ते यूयं
संयम-स्तिमितं मनः ।
शंभोर् यतध्वम् आक्रष्टुम्
अयस्-कान्तेन लोहवत् ॥ 2.59 ॥+++(4)+++

मूलम्

उमारूपेण ते यूयं संयमस्तिमितं मनः ।
शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ 2.59 ॥

अन्वयः

ते यूयं संयमस्तिमित शम्भोः मनः उमारूपेण अथस्कान्तेन लोहवत् आक्रष्टुं यतध्वम् ।

मल्लिनाथः

उमेति ॥ ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमारूपेणोमासौन्दर्येण ‘रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥’ इति विश्वः । अयस्कान्तेन मणिविशेषेण । ‘कस्कादिषु च’ इति सकारः । लोहवदयोधातमिव। ‘तेन तुल्यं क्रिया चेद्वतिः’ इति वतिप्रत्ययो मृग्यः आक्रष्टुमाहर्तु यतध्वमुद्युक्ता भवत ॥ 2.59 ॥

न च गत्यन्तरमस्तीत्याह-

विश्वास-प्रस्तुतिः

उभे एव क्षमे वोढुम्
उभयोर् +++(आवयोर्)+++ बीजम् आहितम् ।
सा वा शंभोस्, तदीया वा
मूर्तिर् जलमयी मम ॥ 2.60 ॥

मूलम्

उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् ।
सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥ 2.60 ॥

अन्वयः

उभयोः शम्भोः मम वा आहितं बीजं वोढुं क्रमेण शम्भोः सा वा मम च तदीया जलमयी मूर्तिः वा उभे एव क्षमे ।

मल्लिनाथः

उमे इति ॥ उभयोः शंभोर् मम चाहितं निषिक्तं बीजं तेजो वोढुं सोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम । न तृतीयेत्यर्थः । वा शब्दो द्वन्द्वार्थे न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालङ्कारः । प्राकरणिकयोर् उमामहेश्वरयोर् अप्राकरणिकयोर् ब्रह्मजलमूर्त्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- ‘प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्’ इति । न चेयं तुल्योगिता तस्याः केवलप्रस्तुतविषत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति ॥ 2.60 ॥

विश्वास-प्रस्तुतिः

तस्यात्मा शितिकण्ठस्य
सैनापत्यम् उपेत्य वः ।
मोक्ष्यते सुरवन्दीनां
वेणीर् वीर्य-विभूतिभिः ॥ 2.61 ॥

मूलम्

तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः ।
मोक्ष्यते सुरवन्दीनां वेणीर्वीर्यविभूतिभिः ॥ 2.61 ॥

अन्वयः

तस्य शितिकण्ठस्य आत्मा वः सैनापत्यम् उपेत्य वीर्यविभूतिभिः सुरबन्दीनां वेणीः मोक्ष्यते ।

मल्लिनाथः

तस्येति ॥ तस्य शितिकण्ठस्याष्टमूर्तेरात्मा पुत्रः इत्यर्थः । ‘आत्मा वै पुत्रनामासि’ इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् ‘पत्यन्तपुरोहितादिभ्यो यक्’ इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्यविभूतिभिः शौर्यसंपत्तिभिः सुरवन्दीनां वेणीर् मोक्ष्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतीति भावः ॥ 2.61 ॥

विश्वास-प्रस्तुतिः

इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे ।
मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः ॥ 2.62 ॥

मूलम्

इति व्याहृत्य विबुधान्
विश्वयोनिस् तिरोदधे
मनस्य् आहित-कर्तव्यास्
तेऽपि देवा दिवं ययुः ॥ 2.62 ॥

अन्वयः

विश्वयोनिः विबुधान् इति व्याहृत्य तिरोदधे । देवा अपि मनसि अहितकर्तव्याः (सन्तः) दिवं ययुः ।

मल्लिनाथः

इतीति ॥ विश्वस्य योनिः कारणम् । ‘योनिः स्त्रीणां भगस्थाने कारणं तान्त्रिके पणे’ इति वैजयन्ती । बिबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधोऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्ते तथोक्ताः सन्ता दिवं स्वर्ग ययुः प्रापुः ॥ 2.62 ॥

कन्दर्प-नियोगः

विश्वास-प्रस्तुतिः

तत्र निश्चित्य कन्दर्पम्
अगमत् पाकशासनः ।
मनसा कार्य-संसिद्धौ
त्वरा-द्वि-गुण-रंहसा ॥ 2.63 ॥+++(5)+++

मूलम्

तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः ।
मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा ॥ 2.63 ॥

अन्वयः

पाकशासनः तत्र कन्दपं निश्चित्य कार्यसिद्धौ त्वराद्विगुणरंहसा मनसा अगमत् ।

मल्लिनाथः

तत्रेति । पाको नाम कश्चिदसुरस्तस्य शासन इन्द्रस्तत्र हरचित्तकर्षणकृत्ये कंदपं निश्चित्य । सादकत्वेनेति शेषः । कार्यसंसिद्धौ त्वरयौत्सुक्येन द्वौ गुणौ यस्य तद्‌द्विगुणं द्विरावृत्तं रंहो वेगो यस्य तेन तथोक्तेन । ‘गुणस्तु वृत्तिशब्दादिज्येन्द्रिमुख्यतन्तुषु’ इति वैजयन्ती । मनुसागमत् । सस्मारेत्यर्थः । गमेर्लुङ् । लृदित्त्वाच्च्लेरङादेशः ॥ 2.63 ॥

विश्वास-प्रस्तुतिः

अथ स ललित-योषिद्–‌भ्रू-लता-चारु-श्रृङ्गं
रति-वलय+++(=कङ्कण)+++-पदाङ्के चापम् आसज्य कण्ठे ।
सहचर-मधु-हस्त-न्यस्त-चूताङ्कुरास्त्रः
शत-मखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ 2.64 ॥+++(5)+++

मूलम्

अथ स ललितयोषिद्‌भ्रूलताचारुश्रृङ्गं
रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ 2.64 ॥

अन्वयः

अथ स पुष्पधन्वा ललितयोषिद्‌भ्रूलताचारुश्रृङ्गं चापं रतिवलयपदाङ्के कण्ठे आसज्य सहचरमधुहस्तन्यस्तचूताऽङ्कुराऽस्त्रः प्राञ्जलिः (सन्) शतमखम् उपतस्थे ।

मल्लिनाथः

अथेति । अथ स्मरणानन्तरम् । स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । ‘वा संज्ञायाम्’ इत्यनङ् । ‘ललितं त्रिषु सुन्दरम्’ इत्मरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लते इव चारुणी श्रृङ्गे कोटो यस्य तत्ततोक्त चापम् । रतिः स्मरप्रिया । रतिः स्मरप्रिया’ इत्यमरः । तस्या वलय-पदानि कङ्कणस्थानान्यङ्कश्चिह्नं यस्य स तथोक्ते कण्ठ आसज्य लगयित्वा । चापकण्ठविशेषणाभ्यां श्रृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य श्रृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते । सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चूताङ्कुरमेवास्त्रं यस्य स तथोक्तः प्राञ्जलिः सन् । शतमखमिन्द्रमुपतस्थे सङ्गतवान् । सङ्गतिकरणार्यादात्मनेपदम् । अत्र स्वभावोक्तिः ‘ननमयययुतेयं मालिनी भोगिलाकैः’ इति लक्षणात् ॥ 2.64 ॥

इति श्रीमन्महामहोपाध्यायकोलाचलमाल्लिनाथसूरिविरचितया
संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासः-
कृतौ कुमारसंभवे महाकाव्ये ब्रह्मसाक्षात्कारो
नाम द्वितीयः सर्गः ।