०१ उमोत्पत्तिः

प्रथमः सर्गः

मल्लिनाथः

मातापितृभ्यां जगतो
नमो वामार्धजानये ।
सद्यो दक्षिण-दृक्-पात-
संकुचद्-वाम-दृष्टये ॥

अन्तराय-तिमिरोपशान्तये
शान्तपावनम् अचिन्त्यवैभवम् ।
तन्नरं वपुषि, कुञ्जरं मुखे,
मन्महे किमपि तुन्दिलं महः ॥

शरणं करवाणि शर्मदं ते
चरणं वाणि! चराचरोपजीव्यम् ।
करुणा-मसृणैः कटाक्ष-पातैः
कुरु मामम्ब! कृतार्थ-सार्थ-वाहम् ॥

इहान्वय-मुखेनैव सर्वं
व्याख्यायते मया ।
नामूलं लिख्यते किञ्चिन्
नानपेक्षितमुच्यते ॥

भारती कालिदासस्य
दुर्व्याख्या-विष-मूच्छिता ।
एषा सञ्जीविनी व्याख्या
ताम् अद्योज्जीवयिष्यति ॥

तत्रभवान् कालिदासः
कुमारसम्भवं काव्यं चिकीर्षुः

‘आशीर्-नमस्-क्रिया-वस्तु
-निर्देशो वापि तन्मुखम्’

इति शास्त्रात्
काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति –

हिमाद्रिवर्णनम्

+++(हिमवन्महत्त्वम् अलौकिकताञ्च वक्रोक्तिभिर् वर्णयति।)+++
+++(अ५)+++

विश्वास-प्रस्तुतिः

अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः।
पुर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः॥१॥

मूलम्

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पुर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ 1. 1 ॥

अन्वयः

उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाऽधिराजः पूर्वाऽपरौ तोयनिधी वगाह्य पृथिव्या मानदण्ड इव स्थितोऽस्ति।

मल्लिनाथः

अस्तीति ॥ उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहारयोग्यत्वसिध्दि ।हिमस्यालयः स्थानमिति हिमालयो नाम =हिमालय इति प्रसिध्दः। अधिको राजाधिराजः । ‘राजाहःसखिभ्यष्टच्’ । न गच्छन्तीति नगा अचलास्तेषामधिराजो मगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ =प्राच्यपश्चिमौतीयनिधी =समुद्रौ वगाह्य =प्रविश्य । अतएव पृथिव्या भुपेर्मानं =हस्तादिना परिच्छेदः । भावे ल्युट् ।तस्य दण्डः । यद्वा मीयतेऽनेनेति मानम् । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे - ‘कैला सो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेदावर्णवातरुपस्थितौ ॥ ’ अत्र हिमाचलस्योभयाब्धिव्याप्तसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । ‘प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा’इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रामेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु - ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’। ‘उतेन्द्रवज्राजतजास्ततो गौ’। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ॥ 1. 1 ॥

इतः परं षोडशभिः श्लोकैर्हिमाद्रि वर्णयति । तत्र नगाधिराजत्वं निर्वाढमाह-

विश्वास-प्रस्तुतिः

यं सर्वशैलाः परिकल्प्य वत्सं
मेरौ स्थिते दौग्धरि दोह-दक्षे।
भास्वन्ति रत्नानि महौषधीश् च
पृथूपदिष्टां दुदुहुर् धरित्रीम्॥२॥
+++(अत्र विष्णुपुराणोक्तकथा।)+++

मूलम्

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दौग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महैषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ 1. 2 ॥

अन्वयः

सवंशैला य वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति)भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः ।

मल्लिनाथः

यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः । ‘पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन’ इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोरदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । ‘यस्य च भावेन भावलक्षणम्’ इति सप्तमो । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।‘गौर्भूत्वा तु वसुन्धरा’ इति विष्णुपुराणात् । ‘अकथितं च’ इति कर्मत्वम् । भास्वन्ति च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं वैतत् । ‘नपुंसकमनपुंसकेन-’ इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । ‘रत्नं श्रेष्ठे मणावपि’ इति विश्वः । ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते’ इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च क्षीरत्वेन परिणता इति शेषः । ‘ताः क्षीरपरिणामिनीः’ इति विष्णुपुराणात् । दुदुहुः । ‘दुहियाच -’ इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां ‘पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः’ इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ ’ इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारुपसमानधर्मसंवन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालंकारः । तदुक्तम् - ‘प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ ’ न चात्र रुपकपरिणामाद्यलंकारशङ्का कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिध्दत्वेनानारोप्यमाणत्वादिति ॥ 1. 2 ॥

ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छि्वत्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह -

विश्वास-प्रस्तुतिः

अनन्त-रत्न-प्रभवस्य यस्य
हिमं न सौभाग्य-विलोपि जातम्।
एको हि दोषो गुण-सन्निपाते
निमज्जतीन्दोः किरणेष्विवाङ्कः॥३॥
+++(अ५ र५)+++

मूलम्

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ 1. 3 ॥

अन्वयः

अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । हि एको दोषो गुणसन्निपाते इन्दोः किरणेषु अङ्क इव निमज्जति ।

मल्लिनाथः

अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम्स । ‘हद्भगसिन्ध्वन्ते पूर्वपदस्य च ’ हत्युभयपदवृध्दिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविधातकं न जातं नाभूत् । तथाहि । एको दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लियत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः । तल्लक्षणं तु-‘ज्ञेयः सोऽर्यान्तरन्चासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ ’ इति दण्डी ॥ 1. 3 ॥

विश्वास-प्रस्तुतिः

यश् चाप्सरो-विभ्रम-मण्डनानां
सम्पादयित्रीं शीखरैर् बिभर्ति
बलाहक+++(=मेघ)+++-च्छेद-विभक्त-रागाम्
अकाल-सन्ध्याम् इव धातुमत्ताम्॥ १.४॥
+++(अ५)+++

मूलम्

यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शीखरैबिभर्ति ।
।लाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥ 1.4 ॥

अन्वयः

च यः अप्सरोविभ्रममणडनानां संपादयित्रीं वलाहकच्छेदविभक्तरागां धातुमत्ताम् अकालसन्ध्याम्ल इव शिशरैः बिभर्ति ।

मल्लिनाथः

यश्चेति । किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये’ इति दशरुपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः । तथात्वे भ्रान्तिमदलंकारो व्यज्यते । ‘कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठि । वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः । तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः । ‘समासकृत्तध्दितेषु संबन्धाभिधानं भावप्रत्ययेन ’ इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकालप्रात्पसेव्यामिव शिखरैर्बिभर्ति धत्ते । अत्र संध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ॥ 1.4 ॥

विश्वास-प्रस्तुतिः

आ-मेखलं सञ्चरतां घनानां
छायाम् अधः सानु-गतां निषेव्य
उद्-वेजिता वृष्टिभिर् आश्रयन्ते
श्रृङ्गाणि यस्यातपवन्ति सिद्धाः॥५॥

मूलम्

आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ॥ 1. 5 ॥

अन्वयः

सिध्दा आमेखलं सञ्चरतां धनानाम् अधः सानुगतां छायां निषेव्य वृष्टिभिः उद्वेजिताः (सन्तः)यस्य आतपवन्ति श्रृङ्गाणि आश्रयन्ते ।

मल्लिनाथः

आमेखलमिति ॥ सिध्दा अणिमादिसिध्दा देवयोनिविशेषाश्च । ‘पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः’। इत्यमरः । आमेखलाभ्य आमेखलं नितम्बपर्यन्तम् । ‘मेखला खण्डबन्धे स्यात्काञ्चौशैलनितम्बयोः’ इति विश्वः । ‘आङ्मर्यादाभिविध्योः’ इत्यव्ययीभावः । संचरतां धनानां मेधानामधः सानूनि मेधमण्डलादवस्तटानि गतां प्रात्पाम् । ‘द्वितीया श्रितातोतपतितगतात्यस्तप्रात्पापन्तैः’ इति समासः । छायामनातपम् । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’। इत्यमरः । निषेव्यवृष्टिभिरुद्वेजिताः = क्लेशिताः सन्तः । ‘उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि’ इति शर्ब्दाणवः । यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाष्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः ।

विश्वास-प्रस्तुतिः

पदं तुषार-स्रुति-धौत-रक्तं
यस्मिन्न् अदृष्ट्वा ऽपि हत-द्विपानाम्।
विदन्ति मार्गं नख-रन्ध्र-मुक्तैर्
मुक्ता-फलैः केसरिणां किराताः॥६॥+++(4)+++

मूलम्

पदं तुषारस्त्रुतिधैतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥ 1. 6 ॥

अन्वयः

यस्मिन् किराताः तुषारस्त्रुतिघौतरक्तं हतद्विपानां केसरिणां पदम् अदृष्ट्वा अपि नखरन्ध्रमुक्तैः मुक्ताफलैः मार्गं विदन्ति ।

मल्लिनाथः

पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धैतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् अतो दुर्ग्रहमिति भावः । हता द्विपा गजायैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । ‘करीन्द्रजीमूतवराह शङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि’॥ 1. 6 ॥

विश्वास-प्रस्तुतिः

न्यस्ताक्षरा धातु-रसेन यत्र
भूर्ज-त्वचः कुञ्जर-+++(वयोजन्य-पद्मकाख्य-)+++बिन्दु-शोणाः।
व्रजन्ति विद्या-धर-सुन्दरीणाम्
अनङ्ग-लेख-क्रियया +उपयोगम्॥७॥

मूलम्

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणामूनङ्गलेखक्रिययोपयोगम् ॥ 1. 7 ॥

अन्वयः

यत्र धातुरसेन न्यस्ताऽक्षराः कुञ्जरबिन्दुशोणाः भूजत्वचः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं व्रजन्ति ।

मल्लिनाथः

न्यस्ताक्षरा इति ॥ यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण ‘श्रृङ्गारादौ विषे वीर्य गुणे रागे द्रवे रसः’ इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये बिन्दवः काये वयोर्विशेषभाविनः पद्मकाख्याः । पद्मकं बिन्दुजालकम्’ इत्यमरः । त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचो भूर्जपत्त्रवल्कलानि । ‘भूर्जपत्त्रो भुजो भूर्जे मृदुत्वक्चार्मिका अपि’ इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ॥ 1. 7 ॥

विश्वास-प्रस्तुतिः

यः पूरयन् कीचक-रन्ध्रभागान्
दरी-मुखोत्थेन समीरणेन।
उद्गास्यताम् इच्छति किन्नराणां
+++(स्वरान्तर-प्रवर्तको वंश-वाद्य-साध्य–स्वर-विशेष-)+++ तान-प्रदायित्वम् इवोपगन्तुम्॥८॥ +++(अ५)+++

मूलम्

यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥ 1. 8 ॥

अन्वयः

यो दरीमुखोत्थेन समीरणेन कौचकरन्ध्रभागान् पूरयन् उद्गास्यतां किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छति इव ।

मल्लिनाथः

य इति ॥ यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्त्पन्नेन । ‘आतश्चोपसर्गे’ इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । ‘वेणवः कीचकास्ते स्यिर्ये स्वन्त्यनिलोद्धताः’ इत्यमरः । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन्धमयन् । वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- ‘षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ।’ इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वलान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः ‘तानस्त्वंशस्वरो मतः’इत्यभिनवगुत्पः । ‘गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्’ इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता । मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे हिमाद्रावित्यलं बहुना ॥ 1. 8 ॥

विश्वास-प्रस्तुतिः

कपोल-कण्डूः करिभिर् विनेतुं
विघट्टितानां सरल-द्रुमाणाम्।
यत्र स्नुत-क्षीरतया प्र-सूतः
सानूनि गन्धः सुरभी-करोति॥९॥ +++(अ५)+++

मूलम्

कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्नुतक्षीरतया प्रसूतः सानुनि गन्धः सुरभीकरोति ॥ 1. 9 ॥

अन्वयः

यत्र करिभिः कपोलकण्डूः विनेतुं विघट्टितानां सरलद्रुमाणां स्त्रुतक्षीरतया प्रसुतो गन्धः सानूनि सुरभीकरोति ।

मल्लिनाथः

कपोलेति ॥ यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धिस्नुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया हेतृना प्रसूत उत्पन्नो गन्धः सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते, तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः । इति ॥ 1. 9 ॥

विश्वास-प्रस्तुतिः
bioluminescent-fungii
bioluminescent-fungii

वने-चराणां वनिता-सखानां
दरी-गृहोत्सङ्ग+++(=अभ्यन्तर)+++-निषक्त-भासः।
भवन्ति यत्रौषधयो रजन्याम्
अतैल-पूराः सुरत-प्रदीपाः॥१०॥+++(4)+++

मूलम्

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ 1. 10 ॥

अन्वयः

यत्र रजन्यां दरीगृहोत्सङ्गनिषक्तभास ओषधयः वनितासखानां वनेचराणाम् अतैलपूराः सुरतप्रदीपा भवन्ति ।

मल्लिनाथः

2वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । ‘अग्नावोषधीषु च तेजो निधाय रविरस्तं याति’ इत्यागमः । वनितानां सखायो वनितासखाः । ‘राजाहःसखिभ्यष्टच्’ । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । ‘चरेष्टः’ इति टप्रत्ययः । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका इत्यर्थः । सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- ‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः’ इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्येत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः ॥ 1. 10 ॥

विश्वास-प्रस्तुतिः

उद्वेजयत्य् अङ्गुलि-पार्ष्णि-भागान्
मार्गे शिली-भूत-हिमे ऽपि यत्र।
दुर्-वह-श्रोणि-पयो-धरार्ता
भिन्दन्ति मन्दां गतिम् अश्व-मुख्यः॥११॥
+++(न शीघ्रं यन्तीति।)+++

मूलम्

उद्वेजयत्यङ्गलिपार्ष्णिभागान्मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ 1. 11 ॥

अन्वयः

यत्र शिलीभूतहिमे अङ्गुलिपार्ष्णिभागान् उद्रेजयति मार्गे अपि श्रोणिपयोधरार्ताः अश्वमुख्यः मन्दां गतिं न भिन्दन्ति ।

मल्लिनाथः

उद्वेजयतीति ॥ यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान्प्रदेशानुद्वेजयत्यतिक्लेशयत्यपि मार्गे ।श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुधंरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूवद्दिच्छतेः क्तः । ‘उपसर्गादृति धातौ’ इति वृध्दिः । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किंनरस्त्रियः । उष्ट्रमुखवत्समासः । ‘स्यात्किंनरः किंपुरुषस्तुरंगवदनो मयुः’॥ इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः

विश्वास-प्रस्तुतिः

दिवा-कराद् रक्षति यो गुहासु
लीनं दिवा-भीतम् इवान्धकारम्
क्षुद्रे ऽपि नूनं शरणं प्रपन्ने
ममत्वम् उच्चैः-शिरसां सति+इव॥१२॥
+++(र५ अ५)+++

मूलम्

दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥ 1. 12 ॥

अन्वयः

यो दिवाभीतम् इव गुहासु लीनम् अन्धकारं दिवाकरात् रक्षति । उच्चैःशिरसां शरणं प्रपन्ने क्षुद्रऽपि सति इव नूनं महत्त्वम् ।

मल्लिनाथः

दिवाकरादिति ॥ यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति दिवाकरस्तस्माद्दिवाकरात् । ‘दिवाविभानिशाप्रभाभास्करे-’ त्यादिना टप्रत्ययः । ‘भीत्रार्थानां भयहेतुः’ इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः ॥ 1. 12 ॥

विश्वास-प्रस्तुतिः

लाङ्गूल-विक्षेप-विसर्पि-शोभैर्
इतस् ततश् चन्द्र-मरीचि-गौरैः।
यस्यार्थ-युक्तं गिरि-राज-शब्दं
कुर्वन्ति वाल-व्यजनैश् चमर्यः॥१३॥ +++(अ५)+++

मूलम्

लाङ्गूलविक्षेपविसर्पिशोभिरितस्ततश्चन्द्र मरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ॥ 1. 13 ॥

अन्वयः

चमर्यः इतस्ततः लाङ्गूलविक्षेपविसर्पिशोभैः चन्द्रमरीचिगौरैः वालव्यजनैः यस्य गिरिराजशब्दम् अर्थयुक्तं कुर्वन्ति ।

मल्लिनाथः

लाङ्गूलेति ॥ चमर्ये मृगीविशेषा इतस्ततो लाङ्गुलानि वालधयः । ‘पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः’ इत्यमरः । तेषां विक्षेपैर्विधूननैर्विेसर्पिंणयो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । ‘गौरः करीरे सेध्दार्थे शुक्ले पीतेऽरुणेऽपि च’ इति यादवः । ‘उपमानानि सामान्यवचनैः’इति समासः । वालव्यजनैश्चामरैर्यंस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थंयुक्तभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः ॥ 1. 13 ॥

विश्वास-प्रस्तुतिः

यत्रांशुकाक्षेप-विलज्जितानां
यद्-ऋच्छया किं-पुरुषाङ्गनानाम्।
दरी-गृह-द्वार-विलम्बि-बिम्बास्
तिरस्करिण्यो जलदा भवन्ति॥१४॥ +++(र५)+++

मूलम्

यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वार विलम्बिम्बीम्बास्तिरस्करिण्यो जलदा भवन्ति ॥ 1. 14 ॥

अन्वयः

यत्र अंशुकाक्षेपविलज्जितानां किम्पुरुषाऽङ्गनानां यदृच्छया दरीगृहद्वारविलम्बिम्बिम्बा जलदाः तिरस्करिण्यो भवन्ति ।

मल्लिनाथः

यत्रेति ॥ यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृरद्वारेषु विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । ‘प्रतिसूरा जवनिका स्यात्तिरस्करिणी च सा’ । इत्यमरः । ‘तिरसोऽन्यतरस्याम्’ इति स्त्वम् । अत्र जलदैष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालङ्कारः ॥ 1. 14 ॥

विश्वास-प्रस्तुतिः

भागीरथी-निर्झर-सीकराणां
वोढा मुहुः कम्पित-देवदारुः।
यद्-वायुर् अन्विष्ट-मृगैः किरातैर्
आसेव्यते भिन्न-शिखण्डि-बर्हः॥१५॥

मूलम्

भागीरथीनिर्झरसिकराणां वोढा मुहमः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिशण्डिबर्हः ॥ 1. 15 ॥

अन्वयः

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः भिन्नशिखण्डिबर्हः यद्वायुः अन्विष्टमृगैः किरातैः आसेव्यते ।

मल्लिनाथः

भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:- कणानाम् । कर्मणि षष्ठो । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । ‘पौनः पुन्ये भृशार्थे च सद्यो वा स्यान्मुहुः पदम्’ इति वैजयन्ती । कम्पिता देवदाखो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । ‘अन्विष्टं मागितम्’ इत्यम्रः । किरातैरासेव्यते ॥ 1. 15 ॥

विश्वास-प्रस्तुतिः

सप्तर्षिहस्तावचिता वशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबौधयत्यूर्ध्वमुखैर्मयूखैः ॥ 1. 16 ॥

मूलम्

सप्तर्षिहस्तावचिता वशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबौधयत्यूर्ध्वमुखैर्मयूखैः ॥ 1. 16 ॥

अन्वयः

सप्तर्षिहस्ताऽवचिताऽवशेषाणि यस्य अग्रसरोरुहाणि पद्मानि अधः परिवर्तमानः विवस्वान् ऊर्ध्वमुखैः मयूखैः प्रबोधयति ।

मल्लिनाथः

सप्तर्षोति ॥ सप्त च ते ऋषयश्च सप्तर्षयः । ‘दिक्संख्ये संज्ञायाम’ इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । ‘शेषाऽप्रधानसंतापे त्रिष्वन्यत्रापयुज्यते’ इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः रोहन्तीतिर रुहाणि । ‘इगुपधज्ञाप्रीकिरः कः’ इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति । न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्यौतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ॥ 1. 16 ॥

प्रतिष्ठा, परिवारः

+++(क५)+++

विश्वास-प्रस्तुतिः

+++(सोमादि-)+++यज्ञाङ्ग-योनित्वम् अवेक्ष्य यस्य
सारं धरित्री-धरण-क्षमं च।
प्रजापतिः कल्पित-यज्ञ-भागं
शैलाधिपत्यं +++(अस्यास्त्व् इति)+++ स्वयम् अन्वतिष्ठत् ॥१७॥

मूलम्

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ 1. 17 ॥

अन्वयः

यस्य यज्ञाऽङ्गयोनित्वं धरित्रीधरणक्षमं सारं च अवेक्ष्य प्रजापतिः स्वयं कल्पितयज्ञभागं शैलाधिपत्यम् अन्वतिष्ठत् ।

मल्लिनाथः

यज्ञाङ्गेति ॥ यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । ‘यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः’ इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । ‘सारो बले स्थिरांशे च’ इत्यमरः । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । ‘सोमस्य राज्ञः कुरङ्ग इन्द्रोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती’ इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । ‘पत्यन्तपुरोहितादिभ्यो यक्’ इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-‘शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः’ इति ॥ 1. 17 ॥

संप्रति कथां प्रस्तौति–

विश्वास-प्रस्तुतिः

स मानसीं मेरु-सखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः।
मेनां मुनीनाम् अपि माननीयाम्
आत्मानुरुपां विधिनोपयेमे॥१८॥

मूलम्

स मानसिं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयामात्मानुरुपां विधिनोपयेमे ॥ 1. 18 ॥

अन्वयः

मेरुसखः स्थितिज्ञः स पितॄणां मानसीं कन्यां मुनीनाम् अपि माननीयाम् आत्माऽनुरुपां मेना कुलस्य स्थितये विधिना उपयेमे ।

मल्लिनाथः

स इति ॥ मेरोः सखा मेरुसखः । बन्धुसंपन्न इति भावः । स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सुच्यते । स हिमवान्पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे– तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥’ इति । आत्मानुरुपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । ‘उपाद्यमः स्वकरणे’ इत्यात्मनेपदम् । ‘तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥’ इति ब्रह्माण्डपुराणात् ॥ 1. 18 ॥

विश्वास-प्रस्तुतिः

काल-क्रमेणाथ तयोः प्रवृत्ते
स्वरुप-योग्ये सुरत-प्रसङ्गे
मनोरमं यौवनम् उद्वहन्त्या
गर्भो ऽभवद् भूधरराजपत्न्याः॥१९॥

मूलम्

कालक्रमेणाथ तयोः प्रवृत्ते स्वरुपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या गर्भेऽवद्भूधरराजपत्न्याः ॥ 1. 19 ॥

अन्वयः

अथ कालक्रमेण तयोः स्वरुपयाग्ये सुरतप्रसङ्गे मनोहरं यौवनम् उद्वहन्त्याः भूधरराजषत्न्याः गर्भः अभवत् ।

मल्लिनाथः

कालक्रमेणेति ॥ अथ कालक्रमेण । गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरुपयोग्ये सौन्दर्यानुगुणे । यद्वा रुप्यते निश्चीयतेऽनेनेति रूपं ज्ञानं तद्योग्ये । शास्त्रानुसारिणात्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपत्न्या मेनकाया गर्भोऽभवत् ॥ 1. 19 ॥

विश्वास-प्रस्तुतिः

असूत सा नाग-वधू+उपभोग्यं
मैनाकम् अम्भो-निधि-बद्ध-सख्यम्।
क्रुद्धेऽपि पक्षच्छिदि वृत्र-शत्राव्
अ-वेदना-ज्ञं कुलिश-क्षतानाम्॥२०॥
+++(र५)+++

मूलम्

असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥ 1. 20 ॥

अन्वयः

सा नागवधूपभोग्यम् अम्भोनिधिबद्धसख्यं पक्षच्छिदि वृत्रशत्रौ क्रुद्धे अपि कुलिशक्षतानाम् अवदेनाज्ञं मैनाकम् असूत ।

मल्लिनाथः

असूतेति । सा मेना नागवधूपभोग्यम् । नगकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलंसूचयति- पक्षच्छिदि पक्षच्छेत्तरि । ‘सत्सूद्विषे-’ त्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। संबन्धसामान्ये षष्ठी । जानातीति ज्ञः । ‘इगुपधज्ञा-’ इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । ‘आतोऽनुपसर्गे कः’ इति कप्रत्ययः । ‘उपपदमतिङ्’ इति समासः । स न भवतात्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । ‘पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ।’ इत्यभ्रातृकन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकपर्वतमिति तात्पर्यार्थः ॥ 1. 20 ॥

विश्वास-प्रस्तुतिः

अथावमानेन पितुः प्रयुक्ता
दक्षस्य कन्या भव-पूर्व-पत्नी।
सती सती योग-विसृष्ट-देहा
तां जन्मने शैलवधूं प्रपेदे॥२१॥

मूलम्

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥ 1. 21 ॥

अन्वयः

अथ दक्षस्य कन्या भवपूर्वपत्नी सती सती पितुः अवमानेन प्रयुक्ताः योगविसृष्टदेहा (सती) जन्मने तां शैलवधूं प्रपेदे ।

मल्लिनाथः

अथेति ॥ अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता । ‘सती साध्वी पतिव्रता’ इत्यमरः । सती नाम देवी । पितुर्दक्षस्य । कर्तरि षष्ठी । अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनकां प्रपेदे । अतःपुरा किल सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रसूं चोतेक्ष्य मत्कर्तव्यकार्यं त्वज्जामातैव करिष्यतीति निर्धार्य देवकार्याणि साधयितुं च योगाग्निना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया ॥ 1. 21 ॥

विश्वास-प्रस्तुतिः

सा भू-धराणाम् अधिपेन तस्यां
समाधिमत्याम्+++(=नियमवत्याम्)+++ उदपादि भव्या।
सम्यक् प्रयोगाद् अ-परिक्षतायां
नीताव् इवोत्साहगुणेन संपत्॥२२॥
+++(अ५ र५)+++

मूलम्

सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् ॥ 1. 22 ॥

अन्वयः

भव्या सा भूधराणाम् अधिपेन समाधिमत्यां तस्यां सम्यक् प्रयोगात् अपरिक्षतायां नीतौ उत्साहगुणेन सम्पत् इव उदपादि ।

मल्लिनाथः

सेति ॥ भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता समाधिमत्यां नियमवत्यां तस्यां मेनकायां सम्यक्प्रयोगात्साध्वाचरणाद्धेतोरपरिक्षतायामभ्रष्टायां नीतावुत्साहगुणेनोत्साहशक्त्या । कर्त्रा । संपदिवोदपाद्युत्पादिता । उत्पद्यतेर्ण्यन्तात्कर्मणि लुङ् । ‘चिण्भावकर्मणोः’ इति चिण्प्रत्ययः । ‘चिणो लुक्’ इति तस्य लुक् ॥ 1. 22 ॥

विश्वास-प्रस्तुतिः

प्रसन्न-दिक् पांसु-विविक्त-वातं
शङ्ख-स्वनानन्तर-पुष्प-वृष्टि।
शरीरिणां स्थावर-जङ्गमानां
सुखाय तज्-जन्म-दिनं बभूव॥२३॥

मूलम्

प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि ।
शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभुव ॥ 1. 23 ॥

अन्वयः

प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनाऽनन्तरपुष्पवृष्टि तज्जन्मदिनं स्थवरजङ्गमानां शरीरिणां सुखाय बभूव ।

मल्लिनाथः

प्रसन्नेति ॥ प्रसन्ना निर्मला दिशो यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् । शङ्खस्य स्वनात्स्वनस्य वानन्तरं पुष्पवृष्टिर्यस्मिंस्तत्तथोक्तं तस्याः पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । ‘स्थेशभासपिसकसो वरच्’ इति वरच्प्रत्ययः । जङ्गम्यन्ते भृशं गच्छन्तीति जङ्गमा देवतिर्थङ्मनुष्यादयः । स्थावराश्च जङ्गमाश्च तेषां द्वयानामपि शरीरिणां सुखायानन्दाय बभूव ॥ 1. 23 ॥

विश्वास-प्रस्तुतिः

तया दुहित्रा सुतरां सवित्री
स्फुरत्-प्रभा-मण्डलया चकासे
विदूर-भूमिर् नव-मेघ-शब्दाद्
उद्भिन्नया रत्न-शलाकयैव॥२४॥
+++(अ५)+++

मूलम्

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
विदूरभूमिर्नवमेघशब्दा दुद्भिन्नया रत्नशलाकयैव ॥ 1. 24 ॥

अन्वयः

स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री विदूरभूमिः नवमेघशब्दात् उद्भिन्नया रत्नशलाकया इव सुतरां चकासे ।

मल्लिनाथः

तयेति ॥ स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री जनयित्री । ‘स्वरतिसूतिसूयतिधूञूदितो वा’ इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिर्विदूरभूमिः । ‘अवदूरं विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् ॥’ इति बुद्धः । नवमेघशब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेव सुतरां चकासे रराज ॥ 1. 24 ॥

पार्वतीवर्धनम्

विश्वास-प्रस्तुतिः

दिने दिने सा परिवर्धमाना
लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान् विशेषाञ्
ज्योत्स्नान्तराणीव कलान्तराणि॥२५॥+++(5)+++

मूलम्

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेख ।
पुपोष लावण्यमयान्विशेषाञ्जयोत्स्नान्तराणीव कलान्तराणि ॥ 1. 25 ॥

अन्वयः

लब्धोदया दिने दिने परिवर्धमाना सा चान्द्रमसी लेख इव लावण्यमयान् विशेषात् ज्योत्स्नान्तराणि कलान्तराणि इव पुपोष ।

मल्लिनाथः

दिन इति ॥ लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः । अभ्युदितेत्यन्यत्र दिने दिने प्रतिदिनम् । ‘नित्यवीप्सयोः’ इति वीप्सायां द्विरुक्तिः । परिवर्धमाना । उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान्कान्तिविशेषप्रचुरान् । ‘मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥’ इति भूपालः । विशेषानवयवान् । ‘विशेषोऽवयवे व्यक्तौ’ इत्युत्पलमालायाम् । ज्योत्स्नायामन्तरमन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नायान्तर्हितानि । तन्मयानीति यावत् । अन्याः कलाः कलान्तराणीव सुप्सुपेति समासः । ‘स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम्’ इति शाश्वतः । पुपोषोपचितवति । इयं वाक्योपमेत्याह दण्डी । तल्लक्षणं तु- ‘वाक्यार्थेनैव वाक्यार्थः काऽपि यद्युपमीयते । एकानेकेव शब्दत्वात् सा तु वाक्योपमा द्विधा ॥’ इति ॥ 1. 25 ॥

विश्वास-प्रस्तुतिः

तां पार्वतीत्य् आभिजनेन नाम्ना
बन्धु-प्रियां बन्धु-जनो जुहाव
“उ+++(विस्मये)+++ मे"ति मात्रा तपसो निषिद्धा
पश्चाद् उमाख्यां सुमुखी जगाम॥२६॥

मूलम्

तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धजनो जहाव ।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखो जगाम ॥ 1. 26 ॥

अन्वयः

बन्धुप्रियां तां बन्धुजनः आभिजनेन नाम्ना ‘पार्वती’ इति जुहाव । पश्चात् मात्रा ‘उमा’ इति तपसो निषिद्धा (सती) उमाऽऽख्यां जगाम ।

मल्लिनाथः

तामिति ॥ बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः । अभिजनादागतेनाभिजनेन । पित्रादिपूर्वसंबन्धोपाधिकेनेत्यर्थः । ‘अभिजनाः पुर्वबान्धवाः’ इति काशिका । नाम्ना । पर्वतस्यापत्यं स्त्री पार्वती । ‘तस्यापत्यम्’ इत्यणप्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रूपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः । पश्चादभिजननामप्रपृत्त्यनन्तरं मात्रा जनन्या । उ इति संबोधने । ‘उ इति वितर्कसंबोधनपादपूरणेषु’ इति गणव्याख्याने । माशब्दो निषेधे । उ हे वत्से, मामा कुर्वित्यवंरुपेण । तपसस्तपश्चर्यायाः । ‘वारणार्थानामीप्सितः’ इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बालोमेत्याख्यां नामधैयमुमाख्यां जगाम ॥ 1. 26 ॥

विश्वास-प्रस्तुतिः

महीभृतः पुत्रवतो ऽपि दृष्टिस्
तस्मिन्न् अपत्ये न जगाम तृप्तिम्
अनन्त-पुष्पस्य मधोर्+++(=वसन्तस्य)+++ हि चूते
द्विरेफ-माला स-विशेष-सङ्गा॥ १.२७॥
+++(अ५)+++

मूलम्

महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ 1.27 ॥

अन्वयः

पुत्रवतोऽपि महीभृतो दृष्टिः तस्मिन् अपत्ये तृर्प्ति न जगाम । हि अनन्तपुष्पस्य मधोः द्विरेफमाला चूते सविशेषसङ्गा ।

मल्लिनाथः

महीभृत इति । पुत्राश्च दुहितरश्च पुत्राः । ‘भ्रातृपुत्रौ स्वसृदुहितृभ्याम्’ इत्येकशेषः । तेऽस्य सन्तीति पुत्रवान् । भूमार्थे मतुप् । तस्य पुत्रवतोऽपि । बह्वपत्यस्यापीत्यर्थः । महीभृतो हिमाद्रेर्दृष्टिश्चक्षुस्तस्मिन्नपत्ये तोके ‘अपत्यं तोकं तयोः समे’ इत्यमरः । तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम । तथा हि अनन्तपुष्यस्य नानाविधकुसुमस्यापि मधोर्वंसन्तस्य संबन्धिनी द्विरेफमाला भृङ्गषङ्क्तिश्चूतस्य विकारे चूते चूतकुसुमे । ‘अवयवे च प्राण्योषधिवृक्षेभ्यः’ इति विकारार्थोत्पन्नस्याण्प्रत्ययस्य लुक्प्रकरणे ‘पुष्पमूलेषु बहुलम्’ इति पठनाल्लुक् । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता । अत्यन्तासक्तेत्यर्थः ॥ 1. 27 ॥

विश्वास-प्रस्तुतिः

प्रभा-महत्या शिखयेव दीपस्,
त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्य् एव गिरा मनीषी +++(हिमवान्)+++
तया स पूतश् च विभूषितश् च॥२८॥
+++(अ५ र५)+++

मूलम्

प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ 1. 28 ॥

अन्वयः

प्रभामहत्या शिखया दीप इव, त्रिमार्गया त्रिदिवस्य मार्ग इव, संस्कारवत्या गिरा मनीषी इव, तया स पूतो विभूषितश्च ।

मल्लिनाथः

प्रभेति । प्रभामहत्या प्रकाशाधिकया शिखया ज्वालया दीप इव । शिखादीपयोरवयवावयविभावाद्भेदेन व्यपदेशः । त्रयो मार्गा यस्यास्तया त्रिमार्गया मन्दाकिन्या । तृतीया द्यौर्लेक इति त्रिदिवः स्वर्गः । वृत्तिविषये त्रिशब्दस्य त्रिभागवत्पूरणार्थत्वम् पृषोदरादित्वाद्दिव्शब्दादकारागमः । पुंस्त्वं लोकात् । दीव्यतेर्घञर्थे कविधानम् । दीव्यन्त्यत्र जना इति क्षीरस्वामी । तस्य मार्ग इव । संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा । ‘भद्रैषां लक्ष्मीर्निहिताधि वाचि’ इति श्रुतेरिति भावः । मनस ईषा मनीषा सास्यास्तीति मनीषी विद्वानिव । शकन्ध्वादित्वात्साधुः । तया पार्वत्या स हिमवान् पूतः शोधितश्च विभूषितश्च । अत्र शिखागिरोरविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा ॥ 1. 28 ॥

विश्वास-प्रस्तुतिः

मन्दाकिनी-सैकत-वेदिकाभिः
सा कन्दुकैः कृत्रिम-पुत्रकैश् च।
रेमे मुहुर् मध्यगता सखीनां
क्रीडा-रसं निर्विशतीव बाल्ये॥२९॥

मूलम्

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहिर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ 1. 29 ॥

अन्वयः

सा बाल्ये क्रीडारसं निर्विशती इव सखीनां मव्यगता (सती) मन्दाकिनीसैकतवेदिकाभिः कृत्रिमपुत्रकैश्च मुहुः रेमे ।

मल्लिनाथः

मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः । रुचिरिति यावत् तं क्रीडारस्म् । ‘रसो गन्धे रसः स्वादे’ इति विश्वः । निर्विशतीव भुञ्जानेव । ‘निर्विशी भृतिभोगयोः’ इति विश्वः । ‘आच्छीनद्योर्नुम्’ इति विकल्पान्नुपभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः । क्रियया निर्वृत्तैः कृत्रिमैः । ‘ङ्वितः क्त्रिः’ इति क्त्रिप्रत्ययः । ‘क्त्रेर्मम्नित्यम्’ इति ममागमश्च । पुत्रिकैः पाञ्चालिकाभिः । ‘पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता’ इत्यमरः । ‘संज्ञायां कन्’ इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे ॥ 1. 29 ॥

विश्वास-प्रस्तुतिः

तां हंस-मालाः शरदीव गङ्गां,
महौषधिं नक्तम् इवात्म-भासः।
स्थिरोपदेशाम् उपदेश-काले
प्रपेदिरे प्राक्तन-जन्म-विद्याः॥३०॥
+++(र५ अ५)+++

मूलम्

तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ 1. 30 ॥

अन्वयः

स्थिरोपदेशां ताम् उपदेशकाले प्राक्तनजन्मविद्याः शरदि गङ्गां हंसमाला इव नक्तं महौषधिम् आत्ममास इव प्रपेदिरे ।

मल्लिनाथः

तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् । मेधामिनोमित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः । पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधिं तृणविशेषमात्मभासः स्वदीप्तय इव प्रपेदिरे । उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते ॥ 1. 30 ॥

यौवनम्

विश्वास-प्रस्तुतिः

अ-सम्भृतं मण्डनम् अङ्ग-यष्टेर्,
अनासवाख्यं+++(=सुरा-रहिताख्यम्)+++ करणं मदस्य।
कामस्य पुष्प-व्यतिरिक्तम् अस्त्रं
बाल्यात् परं +++(यौवनाख्यं)+++ साथ वयः प्रपेदे॥३१॥ +++(अ५)+++

मूलम्

असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ 1. 31 ॥

अन्वयः

अथ सा अङ्गयष्टेः असंभृतं मण्डनम्,अनासवाख्यं मदस्य करणं, कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं वयः प्रपेदे ।

मल्लिनाथः

असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशव त्परमनन्तरभावि वयो यौवनं प्रपेते प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः । तदुक्तम्- ‘कारणाभावे कार्योत्पतिर्विभावना’ इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तृक्तम् ‘स्यादङ्गयष्टिर् इत्येवंविधम् आभासरुपकम् ।’ ॥ 1. 31 ॥

विश्वास-प्रस्तुतिः

उन्मीलितं तूलिकयेव चित्रं,
सूर्यांशुभिर् भिन्नम् इवारविन्दम्।
बभूव तस्याश् चतुर्-अस्र+++(=कोण)+++-शोभि
वपुर् विभक्तं नवयौवनेन॥३२॥

मूलम्

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्यश्चतुरस्त्रशोभि वपुर्विभक्तं नवयौवनेन ॥ 1. 32 ॥

अन्वयः

नवयौवनेन विभक्तं तस्या वपुः तूलीकया उन्मीलितं चित्रम् इव, सूर्यांऽशुभिः भिन्नम् अरविन्दम् इव चतुरस्त्रशोभि बभूव ॥ 1. 32 ॥

मल्लिनाथः

उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । पूनजघनादिसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया । शलाकयेत्यर्थः। ‘तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः’ इति विश्वः । उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रुपमिति यावत् ।चित्रमालेख्यमिव । सूर्यांशूभिर्भिन्नं विकसितमरविन्दं पद्ममिव चतस्त्रौऽस्त्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्त्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वयं सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ॥ 1. 32 ॥

विश्वास-प्रस्तुतिः

अभ्युन्नताङ्गुष्ठ-नख-प्रभाभिर्
निक्षेपणाद् रागम् इवोद्गिरन्तौ।
आजह्रतुस् तच्-चरणौ पृथिव्यां
स्थलारविन्द-श्रियम् अ-व्यवस्थाम्॥३३॥

मूलम्

अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रृतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥ 1. 33 ॥

अन्वयः

अभ्युन्नताङ्गुष्ठनखप्रभाभिः निक्षेपणात् रागम् उद्गिरन्तौ इव तच्चरणौ पृथिव्याम् अव्यवस्यां स्थलाऽरविन्दश्रियम् आजह्रृतुः ।

मल्लिनाथः

अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । ‘रागः क्लेशादिके रक्ते मात्सर्थे लोहितादिषु’ इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्नि सारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्रान्यतादोषः प्रत्युत गुण एव । यथाह दण्डी- ‘निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥’ इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थला विन्दश्रियमाजह्रृतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः - ‘यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता ॥’ इति ।अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- ‘असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥’ इति ॥ 1. 33 ॥

विश्वास-प्रस्तुतिः

सा राजहंसैर् इव संनताङ्गी
गतेषु लीलाञ्चित-विक्रमेषु।
व्यनीयत प्रत्युपदेश-लुब्धैर्
आदित्सुभिर् नूपुर-सिञ्जितानि ॥३४॥
+++(५)+++

मूलम्

सा राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धै रादित्सुभिर्नूपुरसिञ्जितानि ॥ 1. 34 ॥

अन्वयः

प्रत्युपदेशलुब्धैः नूपुरसिञ्जितानि आदित्सुभिः राजहंसैः संनताङ्गीसा लीलाञ्चितविक्रमेषु गतेषु व्यनीयत इव ।

मल्लिनाथः

सेति ॥ प्रत्युपदेशलुब्धैः । ‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थि नोपपद्यते ।’ इति न्यायादिति भावः । तदेव व्यनक्ति-नूपुरसिञ्जितान्यादित्सुभिरादातुमिच्छुभिः । मञ्जीरसिञ्जितमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः संनताङ्गी । कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । ‘अञ्चेः पूजायाम्’ इतीडागमः । लीला विलासक्रिययोः ‘इत्यमरः’ । गतेषु विषयेषु व्यवीयतेव विनीता किमु । अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ॥ 1. 34 ॥

विश्वास-प्रस्तुतिः

वृत्तानुपूर्वे+++(=वृत्तानुकारिण्योः)+++ च न चातिदीर्धे
जङ्घे शुभे सृष्टवतस् तदीये।
शेषाङ्ग-निर्माण-विधौ विधातुर्
लावण्य+++(य्)+++ उत्पाद्य+++(य्)+++ इवास यत्नः ॥३५॥
+++(उत्प्रेक्षा ४)+++

मूलम्

वृत्तानुपूर्वे न च चातिदीर्धे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥ 1. 35 ॥

अन्वयः

वृत्ताऽनुपूर्वे न च अति दीर्धे शुभे तदीये जङ्घे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ उत्पाद्ये लावण्ये यत्न आस इव ।

मल्लिनाथः

वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे । गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्धे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । ‘जङ्घा तु प्रसृता’ इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् (25) श्लेक टीo। यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कायंस्य दुष्करत्वात्तदङ्गानां न लावण्योपादानकत्वात्पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये दज्जङ्गे इति भावः । आसेति बभूवार्थे ‘तिङन्तप्रतिरुपकमव्ययम्’ इत्याह शाकटायनः । वल्लभस्तु- ‘न तिङन्तप्रतिरुपकमव्ययम्’ ‘अस्तेर्भूः’ इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयेगः’ इत्याह । वामनस्तु- ‘अस गतिदोप्त्यादानेष्वितिः धातोर्लिदि रुपमिदम्’ इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे आस दिदोपे । प्रवृत्त इत्यर्थः ॥ 1. 35 ॥

विश्वास-प्रस्तुतिः

नागेन्द्र-हस्तास् त्वचि कर्कशत्वाद्,
एकान्त-शैत्यात् कदली-विशेषाः।
लब्ध्वापि लोके परिणाहि+++(=वैपुल्यवद्)+++ रूपं
जातास् तद्-ऊर्वोर् उपमान-बाह्याः ॥३६॥
+++(४)+++

मूलम्

नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वेरुपमानबाह्याः ॥ 1. 36 ॥

अन्वयः

नागेन्द्रहस्ताः त्वचि कर्कशत्वात्, कदलीविशेषाः एकान्तशैत्यात् लोके परिणाहि रूपं लब्ध्वा अपि तदूर्वोः उपमानबाह्याः जाताः ।

मल्लिनाथः

नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशएत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । ‘परिणाहो विशालता’ इत्यमरः । रूपं लब्ध्वापि । अपिशब्दात्करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुपमानबाह्या जाता उपमानक्रियानर्हा बभृवुः । तदूर्वोन कार्कश्यं नाप्येकान्तशैत्यमिति भावः ॥ 1. 36 ॥

kAnchI-guNam sAnubandham
kAnchI-guNam sAnubandham
विश्वास-प्रस्तुतिः

एतावता नन्व् अनुमेय-शोभि
काञ्ची-गुण-स्थानम् +++(नितम्बसहितम्)+++ अनिन्दितायाः।
आरोपितं यद् +++(तपस्विना)+++ गिरिशेन +++(अपि)+++ पश्चाद्
अनन्य-नारी-कमनीयम् अङ्कम्॥३७॥

मूलम्

एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
आरोपितं यद् गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥ 1. 37 ॥

अन्वयः

यत् पश्चत् गिरिशेन अनन्यनारीकमनीयम् अङ्कम् आरोपितम्, अनिन्दितायाः काञ्चीगुणास्थानम् एतावता अनुमेयशोभि ननु ।

मल्लिनाथः

एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ॥ ‘प्रश्नावधारणानुज्ञानुनया मन्त्रणे ननु’ इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । ‘त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः’ इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् । तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । ‘गिरौ डश्छन्दसि’ इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङकं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्तात्कर्मणि क्तः । ‘रुहः पोऽन्यतरस्याम्’ इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः ।गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं गिरिशाङ्कारुढत्वाद्द्व्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्ववुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ॥ 1. 37 ॥

विश्वास-प्रस्तुतिः

तस्याः प्रविष्टा नत-नाभि-रन्ध्रं
रराज तन्वी नव-लोम-राजिः
नीवीम्+++(=वस्त्रग्रन्थिम्)+++ अतिक्रम्य सितेतरस्य
तन्-मेखला-मध्य-मणेर् इवार्चिः ॥ 1. 38 ॥

मूलम्

तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥ 1. 38 ॥

अन्वयः

नीवीम् अतिक्रम्य नतनाभिरन्ध्रं प्रविष्टा तन्वी
तस्या नवलोमराजिः
सितेतरस्य तन्मेखलामध्यमणेः अर्चिः इव रराज ।

मल्लिनाथः

तस्य इति ॥ नीवी वस्त्रग्रन्थिम् । ‘स्त्रीकटीवस्त्रबन्धेऽपि नीवि परिपणेऽपि च’ इत्यमरः अतिक्रम्यातीत्य वतं निम्नं नाभिरन्ध्रं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सेतितरस्यासितस्य । इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । ‘ज्वालाभासोर्नपुंस्यर्चि’ इत्यमरः ॥ 1. 38 ॥

विश्वास-प्रस्तुतिः

मध्येन सा +++(ऽऽकृत्या अन्तर्-)+++वेदि-विलग्न-मध्या
वलि-त्रयं चारु बभार बाला ।
आरोहणार्थं नव-यौवनेन
कामस्य सोपानम् इव प्रयुक्तम् ॥ 1. 39 ॥

मूलम्

मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ 1. 39 ॥

अन्वयः

वेदिविलग्नमध्या सा बाला
मध्येन चारु वलित्रयं
कामस्य आरोहणार्थं
नवयौवनेन प्रयुक्तं सोपानम् इव बभार ।

मल्लिनाथः

मध्येनेति ॥ ‘वेदिः परिष्कृता भूमिः’इत्यमरः । वेदिविलग्नमध्या वेदिवत्-कृशमध्या । तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ॥ 1. 39 ॥

विश्वास-प्रस्तुतिः

अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः
स्तन-द्वयं पाण्डु तथा प्रवृद्धम्
मध्यं यथा श्याम-मुखस्य तस्य
मृणाल-सूत्रान्तरम् अप्य् अलभ्यम् ॥ 1.40 ॥+++(5)+++

मूलम्

अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्यं यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ 1.40 ॥

अन्वयः

अन्योन्यम् उत्पीडयत् पाणडु उत्पलाक्ष्याः स्तनद्वयं
तथा प्रवृद्धं,
श्याममुखस्य तस्य मध्ये
यथा मृणालसूत्रान्तरम् अपि अलभ्यम् ।

मल्लिनाथः

अन्योन्येति । अन्योन्यं परस्परम् । ‘कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये’ इति द्विरुक्तिः । ‘समासवच्च बहुलम्’ इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनद्वयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णच्चुकस्येति क्वरुपवर्णनं तस्य स्तनद्वयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये’ इत्यमरः । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धऽप्यसंबन्धाभिधानादिति ॥ 1. 40॥

लोके सुकुमारत्वम् एव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह –

shirISha
shirISha
विश्वास-प्रस्तुतिः

शिरीष-पुष्पाधिक-सौकुमार्यौ
बाहू तदीयाव् इति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य
यौ कण्ठ-पाशौ मकर-ध्वजेन ॥ 1. 41 ॥ +++(4)+++

मूलम्

लोके सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह –
शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥ 1. 41 ॥

अन्वयः

यौ (बाहू) पराजितेन अपि मकरध्वजेन हरस्य कण्ठपाशौ कृतौ, (अतः) तदीयौ बाहू शिरीपुष्पाऽधिकसौकुमार्यौ इति मे वितर्कः ।

मल्लिनाथः

शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्यं मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः । यौ बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जूकृतौ । कण्ठालिङ्गनं प्रापितावित्यर्थः ।थ तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारोपितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयागात्परिणामालंकारः ॥ 1. 41 ॥

विश्वास-प्रस्तुतिः

कण्ठस्य तस्याः स्तन-बन्धुरस्य
मुक्ता-कलापस्य च निस्तलस्य+++(=वर्तुलस्य)+++ ।
अन्योन्य-शोभा-जननाद् बभूव
साधारणो+++(=समानो)+++ भूषण-भूष्यभावः ॥ 1. 42 ॥

मूलम्

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्वभूव साधारणो भूषणभूष्यभावः ॥ 1. 42 ॥

अन्वयः

स्तनबन्धुरस्य तस्याः कण्ठस्य निस्तलस्य (तस्याः) मुक्ताकलापस्य च अन्योन्यशोभाजननात् भूषणभूष्यभावः साधारणो बभूव ।

मल्लिनाथः

कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । ‘वर्तुलं निस्तलं बृत्तं बन्धुरं तून्नतानतम्’ । ‘कलापो भूषणे बर्हे तूणीरे संहतावपि’ इति चामरः । अन्योन्य-शोभा-जननाद् भूषण-भूष्यभावो ऽलंकारालंकार्यभावः साधारणः समानो बभूव ।
उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः । अत्र कण्ठमुक्ताकलापयोः सोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योत्यालंकारः । तदुक्तम्- ‘परस्परं क्रियाजननमन्योन्यम्’इति ॥ 1. 42 ॥

इदानीं पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वाचोभङ्ग्याह-

विश्वास-प्रस्तुतिः

चन्द्रं गता पद्म-गुणान् न भुङ्क्ते
पद्माश्रिता चान्द्रमसीम् अभिख्याम् ।
उमा-मुखं तु प्रतिपद्य लोला
द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः ॥ 1. 43 ॥+++(5)+++

मूलम्

चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ 1. 43 ॥

अन्वयः

लोला लक्ष्मीः चन्द्रं गता (सती)
पद्मगुणान् न भुङ्त्ते,
पद्माश्रिता (सती)
चान्द्रमसीम् अभिख्यां न भुङ्क्ते,
उमामुखं तु प्रतिपद्य
द्विसंश्रयां प्रीतिम् अवाप ।

मल्लिनाथः

चन्द्रमिति ॥ लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्रात्पा सती पद्मगुणान्सौगन्ध्यादीन्न भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । ‘अभिख्या नामशोभयोः’ इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्ते । उमामुखं प्रतिपद्य तु द्वे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप । तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभुतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोक्त्या व्यतिरेकालंकारः । तदुक्तम्- ‘भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः’ इति ॥ 1. 43 ॥

विश्वास-प्रस्तुतिः

पुष्पं प्रवालोपहितं यदि स्यान्,
मुक्ता-फलं वा स्फुट-विद्रुम-स्थम् ।
ततो ऽनुकुर्याद् विशदस्य तस्यास्
ताम्रौष्ठ-पर्यस्त-रुचः स्मितस्य ॥ 1. 44 ॥+++(5)+++

मूलम्

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्या स्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ 1. 44 ॥

अन्वयः

पुष्पं प्रवालोपहितं स्यात् यदि, वा मुक्ताफलं स्फुटविद्रुमस्थ स्यात् यदि, ततः विशदस्य ताम्रौष्ठपर्यस्तरुचः तस्याः स्मितस्य अनुकुर्यात् ।

मल्लिनाथः

पुष्पमिति ॥ पुष्पं पुणडरीकादिकं प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । ‘प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे’ इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले वा विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्यद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र ‘माषाणामश्मूयात्’ इति वत्सम्बन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबन्धोक्त्यातिशयोक्तिः । ‘सा च संभावना’ इत्यलंकारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम्– ‘उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः’ इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति ॥ 1. 44 ॥

विश्वास-प्रस्तुतिः

स्वरेण तस्याम् अमृत-स्रुतेव
प्रजल्पितायाम् अभिजात-वाचि ।
अप्य् अन्य-पुष्टा+++(=कोकिला)+++ प्रति-कूल-शब्दा -
श्रोतुर् वि+++(षम)+++-तन्त्रीर् इव ताड्यमाना ॥ 1. 45 ॥+++(5)+++

मूलम्

स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥ 1. 45 ॥

अन्वयः

अभिजात-वाचि तस्याम्
अमृतस्त्रुता इव स्वरेण प्रजल्पितायां सत्याम्
अन्यपुष्टा अपि ताड्यमाना वितन्त्री इव
श्रोतुः प्रतिकूलशब्दाः ।

मल्लिनाथः

स्वरेणेति । अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याम् अमृतस्रुता ऽमृतस्राविणेव । क्विप् ।
स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्त्तरि क्तः । अन्यैः काकादिभिः पुष्टा ऽन्यपुष्टा कोकिलापि । मुख्यया वृत्या जातिवचनत्व-भावान् ङीबभावः । ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीर् वितन्त्रीर् इव अवितॄस्तृतन्त्रिभ्यः- ईः ’ इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न ‘हल्ङ्याब्भ्यः-’ इति सुलोपः । तदुक्तम्-
अवोलक्ष्मीतरीतन्त्रीधीह्रोश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ॥ एते ङीबन्ता न भवन्तीत्यर्थः । श्रोतुर्जनस्य प्रतिकूलशब्दाकर्णकठोरनादा भवतीति शेषः ॥ 1. 44 ॥

विश्वास-प्रस्तुतिः

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहितं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ? ॥ 1. 46 ॥

मूलम्

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहितं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ? ॥ 1. 46 ॥

अन्वयः

प्रवातनीलोत्पलनीर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या तया मृगाऽङ्गनाभ्यो गृहीतं नु ? (वा) मृगाङ्गनाभिः ततो गृहीतं नु ?

मल्लिनाथः

प्रवातेति । प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो विर्विशेषं निर्भेदं, तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितमायताक्ष्या विशालमेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहितमभ्यस्तं नु । अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहितं नु । अत्र विवक्षितस्य परस्पग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ॥ 1. 46 ॥

विश्वास-प्रस्तुतिः

तस्याः शलाकाञ्जन-निर्मितेव
कान्तिर् भ्रुवोर् आयत-लेखयोर् या ।
तां वीक्ष्य लिला-चतुराम् अनङ्गः
स्व-चाप-सौन्दर्य-मदं मुमोच ॥ 1. 47 ॥+++(5)+++

मूलम्

तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य लिलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ 1. 47 ॥

अन्वयः

आयतलेखयोः तस्या भ्रुवोः शलाकाऽञ्जननिर्मिता इव या कान्तिः, लीलाचतुरां तां वीक्ष्य अनङ्गः स्वचापसौन्दयंमदं मुमोच ।

मल्लिनाथः

तस्या इति । आयतलेखयोर्दिर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितैव स्थिता या कान्तिर्लिलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः ॥ 1. 47 ॥

विश्वास-प्रस्तुतिः

लज्जा तिरश्चां यदि चेतसि स्याद्
असंशयं पर्वत-राज-पुत्र्याः ।
तं केश-पाशं प्रसमीक्ष्य **कुर्युर्
बाल-प्रियत्वं शिथिलं चमर्यः ॥ 1. 48 ॥

मूलम्

लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः ॥ 1. 48 ॥

अन्वयः

तिरश्चां चतसि लज्जा स्यात् यदि, असंशयं पर्वतराजपुत्र्याः तं केशपाशं प्रसमीक्ष्य चमर्यः बालप्रियत्वं शिथिलं कुर्युः ।

मल्लिनाथः

लज्जेति । तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावोऽसंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । ‘शार्ङ्गरतवाद्यञो ङीन्’इति ङीन् । तं प्रसिद्धं केशपाशं केशकलापम् । ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे’ इत्यमरः । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताग्न्यादिपाठाद्वा परनिपातः । ‘त्वतलोर्गुणवचनस्य’ इति पुंबद्भावः । शिथिलं कुर्यः । निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहेतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलङ्कारः । तदुक्तम्– ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्’ इति ॥ 1. 48 ॥

विश्वास-प्रस्तुतिः

सर्वोपमा-द्रव्य-समुच्चयेन
यथाप्रदेशं विनिवेशितेन ।
सा निर्मिता विश्व-सृजा प्रयत्नाद्
एकस्थ-सौन्दर्य-दिदृक्षयेव ॥ 1. 49 ॥ +++(5)+++

मूलम्

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ 1. 49 ॥

अन्वयः

सा विश्वसृजा एकस्थसौन्दर्यदिदृक्षया इव प्रयत्नात् यथा प्रदेशं विनिवेशितेन सर्वोपमाद्रव्यसमुच्चयेन निर्मिता ।

मल्लिनाथः

-सर्वोपमेति । किंबहुना सा पार्वती विश्वसृजा विधात्रैकत्र तिष्ठतीत्येक्स्थं तस्य सौन्दर्यंस्य । सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव प्रयत्नाद्यथाप्रदेशं क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाद्युपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । दिदृक्षयेवेति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति ॥ 1. 49 ॥

परिणय-चिन्ता

विश्वास-प्रस्तुतिः

तां नारदः कामचरः कदाचित्
कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं
प्रेम्णा शरीरार्ध-हरां हरस्य ॥ 1. 50 ॥+++(5)+++

मूलम्

तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ 1. 50 ॥

अन्वयः

कामचरो नारदः कदाचित् पितुः समीपे कन्यां तां प्रेक्ष्य किल प्रेम्णा हरस्य शरीराऽर्द्धहराम् एकवधूं भवित्रीं समादिदेश ।

मल्लिनाथः

तामिति । कामेनेच्छया चरतीति कामचरो नारदः । कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल प्रेम्णा न त्वन्यथा हरस्य शिवस्यार्ध हरतीत्यर्धहरा । ‘हरतेरनुद्यमनेऽच्’ हत्यच्प्रत्ययः । शरीरास्यार्धहराम् शरीरार्धहराम् । कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागावचनत्वादशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । ‘पूर्वकाल–’ इत्यादिना समासः । भवित्रीं भाविनीं समादिदेश । हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्यादिष्टवावित्यर्थः ॥ 1. 50 ॥

विश्वास-प्रस्तुतिः

गुरुः प्रगल्भेऽपि वयस्य् अतो ऽस्यास्
तस्थौ निवृत्तान्य-वराभिलाषः ।
ऋते कृशानोर् न हि मन्त्रपूतम्
अर्हन्ति तेजांस्य् अपराणि हव्यम् ॥ 1. 51 ॥+++(5)+++

मूलम्

गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥ 1. 51 ॥

अन्वयः

अतः गुरुः अस्याः प्रगल्भे वयसि अपि निवृत्ताऽन्यवराऽभिलाषः तस्थौ । हि मन्त्रपूतं हविः कृशानोः ऋते अपराणि तेजांसि न अर्हन्ति ।

मल्लिनाथः

गुरुरिति । गुरुः पिता । ‘गुरु गीःपतिपित्राद्यौ’ इत्यमरः । अतो नारदवचनाद्धेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । ‘वरौ ना रुपजामात्रोः’ इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निबंन्ध इत्यत आह– ऋत इति । तथाहि मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकादृते कृशानुं विना ‘अन्यारादितरे–’ इत्यादिना पञ्चमी । अपराणि तेजांसि सुवार्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः ॥ 1. 51 ॥

तर्हि तमेवाहूय दीयतामित्याशङ्क्याह–

विश्वास-प्रस्तुतिः

अयाचितारं हि देव-देवम्
अद्रिः सुतां ग्राहयितुं शशाक
अभ्यर्थना-भङ्ग-भयेन साधुर्
माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे ॥ 1. 52 ॥

मूलम्

अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥ 1. 52 ॥

अन्वयः

अद्रिः अयाचितारं देवदेवं सुतां ग्रहयितुं न शशाक । हि साधुः अभ्यर्थनाभङ्गभयेन इष्टे अर्थे अपि माध्यस्थ्यम् अवलम्बते ।

मल्लिनाथः

अयाचितारमिति । अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथाहि साधुः सज्जनः । ‘साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्’ इति विश्वः । अभ्यर्थनाभङ्गभयेन याच्ञावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्यमवलम्बते ॥ 1. 52 ॥

न च तथैव स्थितः, किं तूपायन्तरं चिन्तितवानिति वक्तुं प्रस्तौति -

विश्वास-प्रस्तुतिः

यदैव पूर्वे जनने शरीरं
सा दक्ष-रोषात् सु-दती+++(=दन्ता)+++ +++(वि-)+++ससर्ज
तदा-प्रभृत्य् एव विमुक्त-सङ्गः
पतिः पशूनाम् अपरिग्रहो ऽभूत् ॥ 1. 53 ॥

विश्वास-टिप्पनी

त्र जनने →ज्वलने इति पाठान्तरम् अपि सूचयति मल्लिनाथः।
भवद्-अभिप्राये कालिदासेन किं लेखितं स्यात्??
विससर्ज +इति वचने ससर्जेति वचनं चित्रं खलु??

मूलम्

यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥ 1. 53 ॥

अन्वयः

सुदती सा पूर्वे जनने यदा दक्षरोषात् शरीरं ससर्ज, तदा प्रभृति एव पशूनां पतिः विमुक्तसङ्गः सन् अपरिग्रहः अभूत् ।

मल्लिनाथः

यदेति । शोभना दन्ता यस्याः सा सुदती । ‘वयसि दन्तस्य दतृ’ इति दत्रादेशः । ‘उगितश्च’ इति ङिप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । ‘पूर्वादिभ्यो नवभ्यो वा’ इति स्मिन्नादेशविकल्पः । ‘पूर्वज्वलने’ इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा यस्मिन्काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभूत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूते । स्त्र्यंतरं न परिजग्राहेत्यर्थः ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः’ इत्यमरः ॥ 1. 53 ॥

विश्वास-प्रस्तुतिः

स कृत्तिवासास् तपसे यतात्मा
गङ्गा-प्रवाहोक्षित-देवदारु ।
प्रस्थं हिमाद्रेर् मृगनाभि-गन्धि
किंचित् क्वणत्-किन्नरम् अध्युवास ॥ 1. 54 ॥

मूलम्

स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किंचित् क्वणत्किन्नरमध्युवास ॥ 1. 54 ॥

अन्वयः

कृत्तिवासाः यतात्मा स तपसे गङ्गाप्रवाहोक्षितदेवदारु मृगानाभिगन्धि क्वणत्किन्नरं किञ्चित् हिमाद्रेः प्रस्थम् अध्युवास ।

मल्लिनाथः

स इति । कत्तिवासाश्चर्माम्बरः । ‘अजिनं चर्म कृत्तिः स्त्री’ इत्यमरः । यतात्मा नियतचितः सः पशुपतिस्तपसे तपोर्थ गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् । कस्तूरीमृगसंचारादिति भावः । ‘मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्’ इत्यमरः । क्बणन्तो गायन्तः किंन्नरा यस्मिंस्तत्तथोक्तम् । किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । ‘उपान्वध्याङ्वसः’ इत्याधारस्य कर्मत्वम् । प्रस्थोऽस्त्री सानुमानयोः ईत्यमरः ॥ 1. 54 ॥

विश्वास-प्रस्तुतिः

गणा नमेरु+++(=रुद्राक्ष)+++-प्रसवावतंसा
भूर्ज-त्वचः स्पर्शवतीर् दधानाः ।
मनः-शिला-विच्छुरिता+++(=अनुलिप्ता)+++ निषेदुः
शैलेय+++(औषध्यादि)+++-नद्धेषु+++(=व्याप्तेषु)+++ शिलातलेषु ॥ 1. 55 ॥

मूलम्

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥ 1. 55 ॥

अन्वयः

गणा नमेरुप्रसवाऽवतंसाः स्पर्शवतीः भीर्जत्वचो दधानाः मनःशिलाविच्छुरिताः (सन्तः) शैलेयनद्धेषु शिलातलेषु निषेदुः ।

मल्लिनाथः

गणा इति ॥ गणाः प्रमथगणाः । ‘गणाः प्रमथसंख्यौधाः’ इति वैजयन्ती । नमेरुप्रसवावतंसाः सुर-पुंनाग-कुसुम-शेखराः । ‘नमेरुः सुरपुंनागः’ इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर् धातुविशेषैर् विच्छुरिता अनुलित्पाश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः । शिलायाः ‘स्त्रीभ्यो ढक्’ इति भवार्थे ढक् । ‘शिलाजतु च सैलेयम्’ इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः ॥ 1. 55 ॥

विश्वास-प्रस्तुतिः

तुषार-संघात-शिलाः खुराग्रैः
समुल्लिखन् दर्प-कलः+++(=चारुः)+++ ककुद्मान्
दृष्टः कथंचिद् गवयैर् विविग्नैर्+++(=भीतैर्)+++
असोढ-सिंह-ध्वनिर् उन्ननाद ॥ 1. 56 ॥

मूलम्

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथंचिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ॥ 1. 56 ॥

अन्वयः

तुषारसङ्घातशिलाः खुराऽग्रैः समुल्लिखन् दर्पकलः विविग्नैः गवयैः कथंचित् दृष्टः ककुद्मान् असोढसिंहध्वनिः (सन्) उन्ननाद ।

मल्लिनाथः

तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन् विदारयन् दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर् भीतैर् गवयैर् गोसदृशमृगविशेषैः कथंचित् कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान् वृषभोऽसोढः सिंहानां ध्वनिर्येन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद । जगर्जेत्यर्थः । स्वभावोक्तिरलङ्कारः । तदुक्तम्– स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् इति ॥ 1. 56 ॥

विश्वास-प्रस्तुतिः

तत्राग्निम् आधाय समित्-समिद्धं
स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां
केनापि कामेन तपश्चचार ॥ 1. 57 ॥+++(र5)+++

मूलम्

तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥ 1. 57 ॥

अन्वयः

तपसः फलानां स्वयं विधाताः अष्टमूर्तिः तत्र स्वम् एव मूर्त्यन्तरं समित्समिद्धम् अग्निम् आधाय केन अपि कामेन तपः चचार ।

मल्लिनाथः

तत्रेति । तपसः फलानामिन्द्रत्वादीनां स्वयं वधाता जनयिता । दातेत्यर्थः । अष्टो मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । ‘भूतार्कचन्द्रयज्वानो मृर्तयोऽष्टौ प्रकीर्तिताः’ । इति तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायात्कामेनेत्युक्तम् । तस्यावात्पसमस्तकामत्वात्केनापीत्युक्तम् ॥ 1. 57 ॥

विश्वास-प्रस्तुतिः

अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः
स्वर्गौकसाम् अर्चितम् अर्चयित्वा
आराधनायस्य सखी-समेतां
समादिदेश प्रयतां तनूजाम् ॥ 1. 58 ॥

मूलम्

अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा ।
आराधनायस्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥ 1. 58 ॥

अन्वयः

अद्रिनाथः अनर्ध्यं स्वर्गौकसाम् अर्चितं तम् अर्ध्येण अर्चयित्वा अस्य आराधनाय सखीसमेतां प्रयतां तनूजां समादिदेश ।

मल्लिनाथः

अनर्ध्येति । अद्रीणां नाथोऽद्रिनाथो हिमवान् । अर्घ मूल्यमर्हदीत्यर्धः । ‘मूल्ये पूजाविधावर्धः’ इत्यमरः । ‘दण्डादिभ्यो यः’ इति यप्रत्ययः । अर्ध्यो न भवतीत्यनर्ध्यस्तमनर्ध्यम् । अमूल्यमित्यर्थः । स्वर्ग औकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । ‘षट् तु त्रिष्वर्ध्यमघर्थि पाद्यं पादाय वारिणि’ इत्यमरः । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेतां प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास ॥ 1. 58 ॥

विश्वास-प्रस्तुतिः

प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥ 1. 59 ॥

मूलम्

प्रत्यर्थि-भूताम् अपि तां समाधेः
शुश्रूषमाणां गिरिशो ऽनुमेने
विकार-हेतौ सति विक्रियन्ते
येषां न चेतांसि त एव धीराः ॥ 1. 59 ॥+++(4)+++

अन्वयः

गिरिशः समाधेः प्रत्यर्थिभूताम् अपि शुश्रूषमाणां ताम् अनुमेने । विकारहेतो सति येषां चेतांसि न विक्रियन्ते, ते एव धीराः ।

मल्लिनाथः

प्रत्यर्थिति । गिरीशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूतामपि । सुप्सुपेति समासः । श्रोतुमिच्छन्तीं शुश्रूषमाणां सेवमानाम् । सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः ।‘ज्ञाश्रुस्मृदृशां सनः’ इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार । न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह- विकारेति । विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रयन्ते न विकृर्ति नीयन्ते त एव धीराः । ‘विक्रियन्ते’ इति कर्मणि लट् ॥ 1. 59 ॥

शुश्रूषाप्रकारमेवाह-

विश्वास-प्रस्तुतिः

अवचित-बलिपुष्पा वेदि-संमार्ग-दक्षा
नियम-विधि-जलानां बर्हिषां चोपनेत्री ।
गिरिशम् उपचचार प्रत्यहं सा सुकेशी,
नियमित-परि-खेदा तच्-छिरश्-चन्द्र-पादैः ॥ 1. 60 ॥ +++(4)+++

मूलम्

अवचितबलिपुष्पा वेदिसंमार्गदक्षा
नियमविधिजलानां बर्हिषां चोपनेत्री ।
गिरिशमुपचचार प्रत्यहं सा सुकेशी
नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥ 1. 60 ॥

अन्वयः

सुकेशी सा अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां च उपनेत्री (सती) तच्छिरश्चन्द्रपादैः नियमितपरिखेदा (सती) प्रत्यहं मिरिशम् उपचचार ।

मल्लिनाथः

अवचितेति । सुकेशी शोभनमूर्धजा । ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्’ इति ङीष् । सा पार्वत्यवचितानि लूनानि बलिपुष्पाणि पूजाकुसुमानि यथा सा वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपेनेत्र्यानेत्री सती तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः । ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ इत्यमरः । नियमितपरिखेदा निवर्तितपरिश्रमा सत्याहन्यहनि प्रत्यहम् । ‘अत्र्ययं विभक्तिसमीपसमृद्धी-’ त्यादिना नियतार्थेऽव्ययीभावः नपुंसकादन्यतरस्याम् इत्यच्प्रत्ययः । गिरिशमुपचचार शुश्रूषांचक्रे ॥ 1. 60 ॥

इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य
उमोत्पत्तिर्नाम प्रथमः सर्गः ॥ 1. 1 ॥

इति प्रथमः सर्गः