सर्गः ०९ - कैलासगमनम्

तथाविधेऽनङ्गरसप्रसङ्गे
मुखारविन्दे मधुपः प्रियायाः।
संभोगवेश्म प्रविशन्तमन्त-
र्ददर्श पारावतमेकमीशः॥१॥

सुकान्तकान्तामणितानुकारं
कूजन्तमाधूर्णितरक्तनेत्रम्।
प्रस्फारितोन्नम्रविनम्रकण्ठं
मुहुर्मुहुर्न्यञ्चितचारुपुच्छम्॥२॥

विशृङ्खलं पक्षतियुग्ममीषद्-
दधानमानन्दगतिं मदेन।
शुभ्रांशुवर्ण जटिलाग्रपाद-
मितस्ततो मण्डलकैश्चरन्तम्॥३॥

रतिद्वितीयेन मनोभवेन
ह्रदयात्सुधाया प्रविगाह्यमानात्।
तं वीक्ष्य फेनस्य चयं नवोत्थ-
मिवाभ्यनन्दत्क्षणमिन्दुमौलिः॥४॥

तस्याकृतिं कामपि वीक्ष्य
दिव्यामन्तर्भवश्छद्यविहंगमग्निम्।
विचिन्तयन्संविविदे स देवो
भ्रूभङ्गभीमश्च रुषा बभूव॥५॥

स्वरुपमास्थाय ततो हुताश-
स्त्रसन्वलत्कम्प कृताञ्जलिः सन्।
प्रवेपमानो नितरां स्मरारिमिदं
वचो व्यक्तमथाध्युवाच॥६॥

असि त्वमेको जगतामधीशः
स्वर्गौकसां त्वं विपदो निहंसि।
ततः सुरेन्द्रप्रमुखाः प्रभो त्वा-
मुपासते दैत्यवरैर्विधूताः॥७॥

त्वया प्रियाप्रेमवशंवदेन
शतं व्यतीये सुरतादृतूनाम्।
रहः स्थितेन त्वदवीक्षणार्तो
दैन्यं परं प्राप सुरैः सुरेन्द्रः॥८॥

त्वदीयसेवावसरप्रतीक्षै-
रभ्यर्थितः शक्रमुखैः सुरैस्त्वाम्।
उपागतोऽन्वेष्टुमहं विहंग-
रुपेण विद्वन्समयोचितेन॥९॥

इति प्रभो चेतसि संप्रधार्य
तन्नोऽपराधं भगवन् क्षमस्व।
पराभिभूता वद किं क्षमन्ते
कालातिपातं शरणार्थिनोऽमी॥१०॥

प्रभो प्रसीदाशु सृजात्मपुत्रं
यं प्राप्य सेनान्यमसौ सुरेन्द्रः।
स्वर्लोकलक्ष्मीप्रभुतामवाप्य
जगत्त्रयं पाति तव प्रसादात्॥११॥

स शंकरस्तामिति जातवेदो
विज्ञापनामर्थवतीं निशम्य।
अभूत्प्रसन्नः परितोषयन्ति
गीर्भिर्गिरिशा रुचिराभिरीशम्॥१२॥

प्रसन्नचेता मदनान्तकारः
स तारकारेर्जयिनो भवाय।
शक्रस्य सेनाधिपतेर्जयाय
व्यचिन्तयच्चेतसि भावि किंचित्॥१३॥

युगान्तकालाग्निमिवाविषह्यं
परिच्युतं मन्मथरङ्गभङ्गात्।
रतान्तरेतः स हिरण्यरेत-
स्यथोर्ध्वरेतास्तदमोघमाधात्॥१४॥

अथोष्णबाष्पानिलदूषितान्तं
विशुद्धमादर्शमिवात्मदेहम्।
बभार भूम्ना सहसा पुरारि-
रेतः परिक्षेपकुवर्णमग्निः॥१५॥

त्वं सर्वभक्षो भव भीमकर्मा
कुष्ठाभिभूतोऽनल धूमगर्भः।
इत्थं शशापाद्रिसुता हुताशं
रुष्टा रतानन्दसुखस्य भङ्गात्॥१६॥

दक्षस्य शापेन शशी क्षयीव
प्लुष्टो हिमेनेव सरोजकोशः।
वहन्विरुपं वपुरुग्ररेत-
श्चयेन वह्निः किल निर्जगाम॥१७॥

स पावकालोकरुषा विलक्षां
स्मरत्रपास्मेरविनम्रवक्त्राम्।
विनोदयामास गिरीन्द्रपुत्रीं
श्रृङ्गारगर्भैर्मधुरैर्वचोभिः॥१८॥

हरो विकीर्णं घनघर्मतोयै
र्नेत्राञ्जनाङ्कं हृदयप्रियायाः।
द्वितीयकौपीनचलाञ्चलेना
हरन्मुखेन्दोरकलङ्किनोऽस्याः॥१९॥

मन्देन खिन्नाङ्गुलिना करेण
कम्प्रेण तस्या वदनारविन्दात्।
परामृशन्घर्मजलं जहार
हरः सहेलं व्यजनानिलेन॥२०॥

रतिश्लथं तत्कबरीकलाप-
मंसावसक्तं विगलत्प्रसूनम्।
स पारिजातोद्भवपुष्पमय्या
स्त्रजा बबन्धामृतमूर्तिमौलिः॥२१॥

कपोलपाल्यां मृगनाभिचित्र
पत्ररावलीमिन्दुमुखः सुमुख्याः।
स्मरस्य सिद्धस्य जगद्विमोह
मन्त्राक्षरश्रेणिमिवोल्लिलेख॥२२॥

रथस्य कर्णावभि तन्मुखस्य
ताटङ्कचक्रद्वितयं न्यधात्सः।
जगज्जिगीषुर्विषमेषुरेष
ध्रुवं यमारोहति पुष्पचापः॥२३॥

तस्याः स कण्ठे पिहितस्तनाग्रां
न्यधत्त मुक्ताफलहारवल्लीम्।
या प्राप मेरुद्वितयस्य मूर्ध्नि
स्थितस्य गाङ्गौघयुगस्य लक्ष्मीम्॥२४॥

नखव्रणश्रेणिवरे बबन्ध
नितम्बबिम्बे रशनाकलापम्।
चलस्वचेतोमृगबन्धनाय
मनोभुवः पाशमिव स्मरारिः॥२५॥

भालेक्षणाग्नौ स्वयमञ्जनं स
भङ्क्त्वा दृशोः साधु निवेश्य तस्याः।
नवोत्पलाक्ष्याः पुलकोपगूढे
कण्ठे विनीलेऽङ्गुलिमुज्जघर्ष॥२६॥

अलक्तकं पादसरोरुहाग्रे
सरोरुहाक्ष्याः किल संनिवेश्य।
स्वमौलिगङ्गासलिलेन हस्ता
रुणत्वमक्षालयदिन्दुचूडः॥२७॥

भस्मानुलिप्ते वपुषि स्वकीये
सहेलमादर्शतलं विमृज्य।
नेपथ्यलक्ष्म्याः परिभावनार्थ
मदर्शयज्जीवितवल्लभां सः॥२८॥

प्रियेण दत्ते मणिदर्पणे सा
संभोगचिह्नं स्ववपुर्विभाव्य।
त्रपावती तत्र घनानुरागं
रोमाञ्चदम्भेन बहिर्बभार॥२९॥

नेपथ्यलक्ष्मीं दयितोपक्लृप्तां
सस्मेरमादर्शतले विलोक्य।
अमंस्त सौभाग्यवतीषु धुर्य
मात्मानमुद्धूतविलक्षभावा॥३०॥

अन्तः प्रविश्यावसरेऽथ तत्र
स्निग्धे वयस्ये विजया जया च।
सुसंपदोपाचरतां कलाना
मङ्के स्थितां तां शशिखण्डमौलेः॥३१॥

व्यधुर्बहिर्मङ्गलगानमुच्चै
र्वैतालिकाश्चित्रचरित्रचारु।
जगुश्च गन्धर्वगणाः सशङ्ख
स्वनं प्रमोदाय पिनाकपाणेः॥३२॥

ततः स्वसेवावसरे सुराणां
गणांस्तदालोकनतत्पराणाम्।
द्वारि प्रविश्य प्रणतोऽथ नन्दी
निवेदयामास कृताञ्जलिः सन्॥३३॥

महेश्वरो मानसराजहंसीं
करे दधानस्तनयां हिमाद्रेः।
संभोगलीलालयतः सहेलं
हरो बहिस्तानभि निर्जगाम॥३४॥

क्रमान्महेन्द्रप्रमुखाः प्रणेमुः
शिरोनिबद्धाञ्जलयो महेशम्।
प्रालेयशैलाधिपतेस्तनूजां
देवीं च लोकत्रयमातरं ते॥३५॥

यथागतं तान्विबुधान्विसृज्य
प्रसाद्य मानक्रियया प्रतस्थे।
स नन्दिना दत्तभुजोऽधिरुह्य
वृषं वृषाङ्कः सह शैलपुत्र्या॥३६॥

मनोतिवेगेन ककुद्मता स
प्रतिष्ठमानो गगनाध्वनोऽन्तः।
वैमानिकैः साञ्जलिभिर्ववन्दे
विहारहेलागतिभिर्गिरीशः॥३७॥

स्वर्वाहिनीवारिविहारचारी
रतान्तनारीश्रमशान्तिकारी।
तौ पारिजातप्रसवप्रसङ्गो
मरुत्सिषेवे गिरीजागिरीशौ॥३८॥

पिनाकिनापि स्फटिकाचलेन्द्रः
कैलासनामा कलिताम्बरांशः।
धृतार्धसोमोऽद्भुतभोगिभोगो
विभूतिधारी स्व इव प्रपेदे॥३९॥

विलोक्य यत्र स्फटिकरय भित्तौ
सिद्धाङ्गनाः स्वं प्रतिबिम्बमारात्।
भ्रान्त्या परस्या विमुखीभवन्ति
प्रियेषु मानग्रहिला नमत्सु॥४०॥

सुबिम्बितस्य स्फटिकांशुगुप्ते
श्चन्द्रस्य चिह्नप्रकरः करोति।
गौर्यार्पितस्येव रसेन यत्र
कस्तूरिकायाः शकलस्य लीलाम्॥४१॥

यदीयभित्तौ प्रतिबिम्बिताङ्ग
मात्मानमालोक्य रुषा करीन्द्राः।
मत्तान्यकुम्भिभ्रमतोऽतिभीम
दन्ताभिघातव्यसनं वहन्ति॥४२॥

निशासु यत्र प्रतिबिम्बितानि
ताराकुलानि स्फटिकालयेषु।
दृष्ट्वा रतान्तच्युततारहार
युक्ताभ्रमं बिभ्रति सिद्धवध्वः॥४३॥

नभश्चरीमण्डनर्दपणश्रीः
सुधानिधिर्मूर्धनि यस्य तिष्ठन्।
अनर्ध्यचूडामणितामुपैति
शैलाधिनाथस्य शिवालयस्य॥४४॥

समीयिवांसो रहसि स्मरार्ता
रिरंसवो यत्र सुराः प्रियाभिः।
एकाकिनोऽपि प्रतिबिम्बभाजो
विभान्ति भूयोभिरिवान्विताः स्वैः॥४५॥

देवोऽपि गौर्या सह चन्द्रमौलि
र्यदृच्छया स्फाटिकशैलश्रृङ्गे।
श्रृङ्गारचेष्टाभिरनारताभि
र्मनोहराभिर्व्यहरच्चिराय॥४६॥

देवस्य तस्य स्मरसूदनस्य
हस्तं समालिङ्ग्य सुविभ्रमश्रीः।
सा नन्दिना वेत्रभृतोपदिष्ट
मार्गा पुरोगेण कलं चचाल॥४७॥

चलच्छिखाग्रो विकटाङ्गभङ्गः
सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः।
भ्रुवोपदिष्टः स तु शङ्करेण
तस्या विनोदाय ननर्त भृङ्गी॥४८॥

कण्ठस्थलीलोलकपालमाला
दंष्ट्राकरालाननमभ्यनृत्यत्।
प्रीतेन तेन प्रभुणा नियुक्ता
काली कलत्रस्य मुदे प्रियस्य॥४९॥

भयंकरौ तौ विकटं नदन्तौ
विलोक्य बाला भयविह्वलाङ्गी।
सरागमुत्सङ्गमनङ्गशत्रो
र्गाढं प्रसह्य स्वयमालिलिङ्ग॥५०॥

उत्तुङ्गपीनस्तनपिण्डपीडं
ससंभ्रमं तत्परिरम्भमीशः।
प्रपद्य सद्य पुलकोपगूढः
स्मरेण रुढप्रमदो ममाद॥५१॥

इति गिरितनुजाविलासलीला
विविधविभङ्गिभिरेष तोषितः सन्।
अमृतकरशिरोमणिर्गिरीन्द्रे
कृतवसतिर्वशिभिर्गणैर्ननन्द॥५२॥