०१ सञ्जीवनी

कुमारसंभवम् || संजीवन्या समेतम् ॥ प्रथमः सर्गः । मातापितृभ्यां जगतो नमो वामार्धजानये । सद्यो दक्षिणदक्पातसमुद्वामदृष्टये ॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् । करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥ हायमुखेनैव सर्व व्याख्यायते मया । नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता । एषा संजीवनी व्याख्या तामद्योज्जीवयिष्यति ॥ तत्र भवान्कालिदासः कुमारसंभवं काव्यं चिकीर्षुः आशीर्नमस्कियावस्तुनि - शो वापि तन्मुखम् इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति– अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोर्यनिधी वैगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥ अस्तीति ॥ उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । [ देवतात्मा ] देवता आत्मा आधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनका परिणय पार्वतीजननादिचेतनव्यवहार योग्यत्वसिद्धिः । हिमस्यालयः स्थानमिति हिमालयः नाम हिमालय इति प्रसिद्धः । अधिको राजा अधिराजः ॥ राजाहाः सखिभ्यष्टच् ॥ म यच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजः अस्ति । कथंभूतः । पूर्वापरौ प्राध्यपश्चिमौ तोयनिधी समुद्र वगाह्य प्रविश्य अतएव पृथिव्याः भूमेमनं हस्तादिना परिच्छेदः । भावे ल्युट् ॥ तस्य दण्डः । यद्वा मीयतेऽनेनेति १ वारिनिधी. २ विगाद्य. २ I कुमारसंभवे मानम् ॥ करणे ल्युट् ॥ स चासौ दण्डश्व [ मानदण्डः ] स इव स्थितः आयामपरिच्छेदक दण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्स्येव । उक्तं च ब्रह्माण्डपुराणे कैलासा हिमवांश्चैव दक्षिणे वर्षपर्वतौ । पूर्वपश्चिमगावेतावर्णवान्तरुपस्थितौ ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तिसाम्यान्मानदण्डत्वेनोत्प्रेक्षालंकारः । प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभा• वनमुत्प्रेक्षा इत्यलंकार सर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः । क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ॥ इतःपरं षोडशभिः श्लोकैर्हिमाद्रिं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह- यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे | भास्वन्ति रत्नानि महौषधीच पृथूपदिष्टां दुदुदुर्धरित्रीम् ॥ २ ॥ यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः ॥ पूर्वकालैक सर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः ॥ यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति ॥ यस्य च भावेन भावलक्षणम् इति सप्तमी । पृथूपदिष्टां पृथुना वैण्येनोपदिष्टामीटक्कया प्रदर्शितां धरित्रीम् । गोरूपधरामिति शेषः । ‘गौर्भूत्वा तु वसुन्धरा’ इति विष्णुपुराणात् । अकथितं च इति कर्मत्वम् ॥ भास्वन्ति च भास्वत्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् ॥ नपुंसकमनपुंसकेन - इत्यादिना नपुंसकशेषः । रत्नानि मणीतिश्रेष्ठवस्तूनि च । रत्नं श्रेष्ठे मणावपि इति विश्वः ॥ जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते । इति यादवः || महौषधीच संजीवनीप्रभृतीश्च । क्षीरत्वेन परिणता इति शेषः । ताः क्षीरपरिणामिनीः इति विष्णुपुराणात् ॥ दुदुहुः ॥ दुहियाचि - इत्यादिना द्विकर्मकत्वम् ॥ अत्र प्रयोजकत्वेऽपि शैलानां पञ्चभिलैः कर्षति ग्रामं ग्रामणी । इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम् - गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पर्यासि च । औषध्यश्चैव भास्वन्ति रत्नानि विविधानि च । वत्सव हिमवानासीद्दोग्धा मेरुर्महागिरिः । इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्म सारमादित्वं गम्यते । तथा चास्य नगस्य रत्नविशेष भोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः ॥ अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतैौषधिरत्नानां द्वयानामपि प्रकृतस्वासेषां दोहनक्रियारूपसमानधर्मसम्बन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिक विषयस्तुल्ययोगिता नामालंकारः । तदुक्तम् — प्रस्तुतानां तथान्येषां केवलं तुम्मधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता । न चात्र रूपकपरिणामाद्यलंकारशङ्का प्रथमः सर्गः । ३ कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु वत्सत्व दोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति ॥ ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छित्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्कयाह– अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ ३ ॥ अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । [ अनन्तरत्नप्रभवस्य ] अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेः हिमम् ॥ कर्तृ || सुभगस्य भावः सौभाग्यम् ॥ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च इत्युभयपदवृद्धिः ॥ तद्विलम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथा हि । एकः दोषः गुणसन्निपाते इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एवं किंतु कचिदिन्दुकलङ्कादिवगुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोर्थान्तरन्यासालंकारः । तल्लक्षणं तु ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ इति दण्डी ॥ यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्विभर्ति । बलाहकच्छेदविभक्तरागा- मकालसन्ध्यामिव धातुमत्ताम् ॥ ४ ॥ यचेति ॥ [च] किचेति चकारार्थः । यः हिमाद्रिः [ अप्सरोविभ्रममण्डमान ] अप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । विभ्रमस्त्वरयाकाले भूषास्थानविपर्ययः । इति दशरूपकात् ॥ तेन मण्डनानि तेषां संपादयित्रीम् । एतद्धातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरन्त इति भावः ॥ तथात्वे भ्रान्तिमदलंकारो व्यज्यते ॥ कर्तृकर्मणोः कृति इति कर्मणि षष्ठीं ॥ [ बलाहकच्छेदविभक्तरागां ] वारीणां वाहका बलाहकाः || पृषोदरादित्वात्साधुः ॥ तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरकत्वं गम्यते ॥ इदं विशेषणद्वयं संध्यायामपि योज्यम् ॥ धातवः सिन्दूगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् ॥ तस्य भावो धातुमता तां [ धातुमत्ताम्] धातुयोगित्वमिति संबधोऽपि वाच्यार्थः ॥ समासकृत्तद्धितेषु संबन्धाभिधानं भावप्रत्ययेन इति वचनात् । लक्षणया नित्यानुषविकधातुमित्यर्थः ॥ कुमारसंभवे अकालसन्ध्यामिव अनियतकालप्राप्तसन्ध्यामिव शिखरैः विभर्ति ते ॥ मत्र संध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ॥ आमेखळं संचरतां घनानां छायामधः सानुगतां निषेव्य | उद्वेजिता दृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ ५ ॥ आमेखलमिति ॥ सिद्धाः अणिमादिमिद्धा देवयोनिविशेषाश्च ॥ पिशाचो गुहाकः सिद्धो भूतोऽमी देवयोनयः । इत्यमरः । आ मेखलाभ्यः आमेखलं नितम्बपर्यन्तम् ॥ मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः । इति विश्वः ॥ आङ् मर्यादाभिविध्योः इत्यव्ययीभावः । संचरतां घनानां मेघानाम् [ अधःसानुगतां ] अधः सानूनि मेघमण्डलादधस्तटानि गतां प्राप्ताम् ॥ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति समासः ॥ छायाम् अनातपम् ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः । इत्यमरः ॥ निषेव्य वृष्टिभिः उद्वेजिताः क्लेशिताः सन्तः ॥ उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि । इति । शब्दार्णवः ॥ यस्य हिमाद्रेः आतपवन्ति सातपानि शृङ्गाणि आश्रयन्ते | आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः ॥ पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्टापि हतद्विपानाम् । विदन्ति मार्ग नखरन्ध्रमुक्तै- मुक्ताफलैः केसरिणां किराताः ॥ ६ ॥ पदमिति ॥ यस्मिन् अझै किराताः [तुषारस्रुतिधौतरक्तं ] तुषारस्रुतिमिर्हिमनिस्यन्दधतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् । अतो दुर्महमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पढ़ पादप्रक्षेपस्थानम् अदृष्ट्वापि [ नखरन्धमुक्तैः ] नखरन्धैर्नखद्रोणिभिर्मुक्तैः मुक्ताफलैः मार्गे विदन्ति जानन्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः ॥ करीन्द्रजीमूतवराहशंखमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥ न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । ? छायामिषे. २ विन्दन्ति. प्रथमः सर्गः । व्रजन्ति विद्याधरसुन्दरीणा- मनङ्गलेखक्रिययोपयोगम् ॥ ७ ॥ न्यस्ताक्षरेति ॥ यत्र हिमाद्रौ धातुरसेन सिन्दूरद्रवेण ॥ शृङ्गारादौ विषे दीय गुणे रोगे द्रवे रसः । इत्यमरः । न्यस्ताक्षराः लिखितवर्णा अतएव [ कुञ्जरबिन्दुशोणाः ] कुअरस्य ये विन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । पद्मकं बिन्दुजालकम् । इत्यमरः ॥ ते इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचः भूर्जपत्रवल्कलानि ॥ भूर्जपत्रो भुजो भूर्जी मृदुत्वक्चर्मिका अपि । इति यादवः ॥ विद्याधरसुन्दरीणाम् । [ अनङ्गलेखक्रियया ] लिख्यते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगम् उपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ॥ यः पूरयन्कीचकरन्ध्रभागा- न्दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किन्नराणां तार्नमदायित्वमिवोपगन्तुम् ॥ ८ ॥ य इति ॥ यः हिमाद्रिः ॥ [ दरीमुखोत्थेन ] दरी गुहा सैव मुखं तस्मादुत्थेनोत्पन्नेन । आतोपसर्गे इति कप्रत्ययः । समीरणेन वायुना । [कीचकरन्ध्रभागान ] कीचका वेणुविशेषाः । वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः । इत्यमरः ॥ तेषां रन्ध्रभागाञ्छिप्रदेशान् पूरयन्, धमयन् । वांशिकोऽपि वंशरन्ध्राणि मुखमारुतेन पूरयतीति प्रसिद्धिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गार्न करिष्यताम् ॥ उक्तं च नारदेन षड्जमध्यमनामानी ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः । इति ॥ किन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाय साभ्यः प्रधानभूतः स्वरविशेषः ॥ तानस्त्वंशस्वरो मतः इत्यभिवनगुप्तः ॥ गाता यं यं स्वरं गच्छेत्तं तं वंशेन तानयेत् । इति भरतः ॥ तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वम् उपगन्तुमिच्छति इव इत्युत्प्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरूपकोज्जीविता | मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरूपणादवयविरूपणं गम्यते तदेकदेशविवर्ति रूपकम् । गम्यते चात्रावयविनः पुंसो रूपर्ण छन्दनिर्दिष्टे हिमाद्रावित्यलं बहुना ॥ १ स्थान. कुमारसंभवे कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गंन्धः सुरभीकरोति ॥ ९ ॥ कपोलेति ॥ यत्र हिमाद्रौ करिभिः गजैः कपोलकण्डूः गण्डस्थलकण्डूः विनेतुम् अपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धीनि स्रुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया [ स्रुतक्षीरतया ] हेतुना प्रसूतः उत्पन्नः गन्धः सानूनि सुरभीकरोति ॥ एतेनास्य गजाकरत्वं गम्यते । तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः इति ॥ वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ॥ भवन्ति यत्रौषधयो रजन्या- मतैलपूराः सुरतप्रदीपाः ॥ १० ॥ वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां [ दरीगृहोत्सङ्गनिषक्तभासः ] दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषताः संक्रान्ता भासो यासां ताः ओषधयः तृणज्योतींषि । अमावोषधीषु च तेजो निधाय रविरस्तं याति इत्यागमः । वनितानां सखायो वनितासखाः । राजाहः सखिभ्यष्टच् । तेषां [ वनितासखानां ] रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । चरेष्टः इति टप्रत्ययः । तत्पुरुषे कृति बहुलम् इत्यलुक् । तेषां वनेचराणाम् । अतैलपूराः । अनपेक्षिततैलसेका इत्यर्थः । [ सुरतप्रदीपाः ] सुरते सुरतकर्मणि प्रदीपाः भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतसुर तोपयोगित्वात्परिणामालंकारः । तदुकम् - आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः । इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्योत्पत्तिलक्षणा विभावना चेत्युभयोः संसृष्टिः ॥ उद्वेजयत्यङ्गुलिपाणिभागा- न्मार्गे शिलीभूतहिमेऽपि यत्र । न दुर्व श्रोणिपयोधरात भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ ११ ॥ उद्वेजयतीति ॥ यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् [शिलीभूतहिमे ] अतएव [ अङ्गुलिपाणिभागान् ] अङ्गुलीनां पाष्णीनां च भागान्प्रदे- १ कण्डम्. २ समीरः ३ गन्धैः.प्रथमः सर्गः । शान् उद्वेजयति अतिशैत्यात्क्लेशयति अपि मार्गे श्रोणयश्च पयोधराच श्रोणिपयोधरम् । दुर्वद्देण दुर्धरेण श्रोणिपयोधरेणातः पीडिताः [ दुर्वहश्रोणिपयोधरार्ताः ] ॥ आङ्पूर्वादिच्छतेः क्तः ॥ उपसर्गादृति धातौ इति वृद्धिः ॥ अश्वानां मुखानीव मुखानि यासां ताः अश्वमुख्यः किंनरस्त्रियः ॥ उष्टमुखवत्समासः || स्यास्किनरः किंपुरुषस्तुरनवदनो मयुः । इत्यमरः । मन्दां मन्धरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ॥ दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैः शिरसां संतीव ॥ १२ ॥ दिवाकरादिति ॥ यः हिमादिः दिवा दिवसे भीतं भयाविष्टम् इव उलूकमिबेति च ध्वनिः । गुहासु लीनम् अन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद् दिवाकरात्। दिवाविभानिशाप्रभाभास्कर - इत्यादिना टप्रत्ययः । भीत्रार्थानां भयहेतुः इत्यपादानत्वात्पञ्चमी || रक्षति त्रायते ॥ ननु क्षुद्रसंरक्षणमनमित्याशङ्कयाह-क्षुद्र इति । उच्चैः शिरसां उन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचे अपि सति सज्जने इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति - शेषः ॥ ममशब्दास्त्वप्रत्ययः ॥ अर्थान्तरन्यासोऽलंकारः ॥ लाङ्गूळ विक्षेपविसर्पिशोभै- रितस्ततर्श्वन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजनैश्वमर्यः ॥ १३ ॥ लाङ्गूलेति ॥ चमर्यः मृगीविशेषाः इतस्ततः [ लाङ्गूलविक्षेपविसर्पिशांभैः] लाङ्गूलानि बालधयः । पुच्छोऽस्त्री लोमलाङ्गूले बालहस्तश्च बालधिः । इत्यमरः ॥ तेषां विक्षेपैर्विधूननैर्विसर्पिण्यो विसृमराः शोभाः कान्तयो येषां तैः । [ चन्द्रमरीचिगौरैः ] चन्द्रमरीचिभिरिव गौरैः शुभैः । गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च । इति यादवः ॥ उपमानानि सामान्यवचनैः इति समासः बालव्यजनैः चामरैः यस्य हिमाद्रेः गिरिराजशब्द गिरिराज इति संज्ञाम् अर्थयुक्तम् अभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिविहिता इति भावः ॥ यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् || १ भतीव. २ चान्द्र. कुमारसंभवे दरीगृहद्वारविलम्बिविम्बा- स्तिरस्करिण्यो जलदा भवन्ति ॥ १४ ॥ यत्रेति ॥ यत्र हिमाद्रौ । [ अंशुकाक्षेपविलज्जितानाम् ] अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जिताना किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या [ दरीगृहद्वारविलम्बिबिम्बाः ] दरीगृहद्वारेषु विलम्बिबिम्बाः लम्बमानमण्डलाः जलदाः तिरस्करिण्यः जवनिकाः भवन्ति ॥ प्रतिसीरा जवनिका स्यातिरस्करिणी च सा । इत्यमरः ॥ तिरसोऽन्यतरस्याम् इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतीपयोगित्वात्परिणामालंकारः ॥ भागीरथीनिर्झरशीकराणां वोढा मुहु: कम्पितदेवदारुः । यद्वायुरन्विष्टमृगैः किरातै- रासेव्यते भिन्नशिखण्डिबईः ।। १५ ।। भागीरथीति ॥ भागीरथीनिर्झरशीकराणां गङ्गाप्रवादपाथःकणा- नाम् । कर्मणि षष्ठी | वोढा प्रापकः ॥ वस्तृच् ॥ मुहुः पुनःपुनः सद्यो वा । पौनःपुन्ये भृशार्थं च सया वा स्यान्मुहुः पदम् । इति वैजयन्ती ॥ [ कम्पितदेवदारुः ] कम्पिता देवदारवो येन स तथोक्तः । [ भिन्नशिखण्डिबर्हः ] भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवाथै किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्य सौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः [ यद्वायुः ] अन्विष्टमृगैः मार्गितमृगैः ॥ श्रान्तैरिति भावः ॥ अन्विष्टं मार्गितं मृगितम् इत्यमरः ॥ किरातैः आसेव्यते ॥ सप्तर्षिहस्तावैचितावशेषा- यो विवस्वान्परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ १६ ॥ सप्तर्षति ॥ [ सप्तर्षिहस्तावचितवावशेषाणि ] सप्त च ते ऋषयश्च सप्तर्षयः । दिक्संख्ये संज्ञायाम् इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । शेषोऽप्रधाने संतापे त्रिप्यन्यत्रोपयुज्यते । इति केशवः ॥ कर्मण्यप्रत्ययः ॥ अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः । [ अग्रसरोरुहाणि ] रोहन्तीति हाणि ॥ इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः ॥ अत्र उपरि यानि सरांसि तेषु रुहाणि पद्मानि अधः परिवर्तमानः भ्रमन विवस्वान् सूर्यः १ द्वारि २ आचरित. प्रथमः सर्गः । ऊर्ध्वमुखैः मयूखैः प्रबोधयति विकासयति । न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादप्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्योतिषिकाः । अतस्तेषामप्रसरोरुहभागित्वं युक्तम् ॥ | यज्ञाङ्ग-योनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १७ ॥ यज्ञाङ्केति ॥ यस्य हिमाद्रेः [ यज्ञाङ्गयोनित्वम् ] यज्ञाङ्गानां यज्ञसाधनाना सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः । इति विष्णुपुराणात् ॥ धरित्री धरणक्षमं भूभारघरणयोग्यं सारं बलं च ॥ सारो बले स्थिरांशे च इत्यमरः ॥ अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयम् एव [ कल्पितयज्ञभागं ] कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् ॥ सोमस्य राज्ञः कुरङ इन्दोः शृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती इति श्रुतेरिति भावः । [ शैलाधिपत्यम् ] शैलानामाधिपत्यमधिपतित्वम् । पत्यन्तपुरोहितादिभ्यो यक् इति यक्प्रत्ययः ॥ अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणेशैलाना हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः ॥ इति ॥ Enfan सम्प्रति कथां प्रस्तौति । स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयेमे ।। १८ ।। स इति ॥ मेरोः सखा मेरुसखः । बन्धुसंपन्न इति भावः । स्थितिज्ञः मर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । हिमवान् पितॄणां मानसी मन:संकल्पजन्यां मुनीनामपि माननीयाम् । योगब्रह्मवादाभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे - तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥ इति ॥ आत्मानुरूपां कुलशील सौन्दर्यादिभिः सदृशी मेनां मेनकादेवीति नामवती कन्याम् । कुलस्य स्थितये प्रतिष्ठायै । विधिना यथाशास्त्रेण उपयेमे परिणीतवान् ॥ उपाद्यमः स्वकरणे इत्यात्मनेपदम् ॥ तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥ इति ब्रह्माण्डपुराणात् ॥ १० कुमारसंभवे कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्याः ॥ १९ ॥ कालक्रमेणेति ॥ अथ कालक्रमेण । गच्छता कालेनेत्यर्थः । तयोः मेनका हिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे । रूप्यते निश्चीयतेऽनेनेति रूपं झार्ष तयोग्ये | शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्याः भूधरराजपत्न्याः मेनकायाः गर्भः अभवत् ॥ असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा- ववेदनाज्ञं कुलिशक्षतानाम् ।। २० ।। असूतेति ॥ सा मेना नागवधूपभोग्यम् । नागकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृत मैत्रीकम् । सख्यमूलं सूचयति–पक्षच्छिवि पक्षच्छेत्तरि ॥ सत्सूद्विष इत्यादिना विष्प्रत्ययः ॥ वृत्रशत्रौ कुद्धे कुपिते सति अपि कुलिशक्षतानां वज्रप्रहाराणाम् । संबन्धसामान्ये षष्ठी । [ अवेबनाइं ] जानातीति ज्ञः ॥ इगुपधज्ञा - इति कप्रत्ययः ॥ वेदनानां सः । अथवा वेदनां जानातीति वेदनाशः ॥ अतोऽनुपसर्गे कः इति कप्रत्ययः ॥ उपपदमतिङ् । इति समासः ॥ स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः || पक्षच्छेदोद्यतशकात त्राणाय शरणागमनमनयोः सख्य मूलमिति भावः । मैनाकं पुत्रम् असृत। सर्वपर्वत पक्षच्छेदे ऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्ष: । तादृक्पुत्रवत्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् ॥ पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ॥ इत्यभ्रातृक कन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थ मैनाकवर्णनमिति तात्पर्यार्थः ॥ अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी | सती सती योगविसृष्टदेहा १ अपमानेन. तो जन्मने शैलवधुं प्रपेदे ॥ २१ ॥ प्रथमः सर्गः । ११ अथेति ॥ अथ मैनाकजननानन्तरं वृक्षस्य प्रजापतेः कन्या [ भवपूर्वपत्नी ] भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता ॥ सती साध्वी पतिव्रता इत्यमरः । सती नाम देवी पितुः दक्षस्य ॥ कर्तरि षष्ठी || अवमानेन स्वभवज्ञया प्रयुक्ता प्रेरिता [ योगविसृष्टदेहा ] योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनका प्रपेदे । अत्र पुरा किल सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रमूं चोपेक्ष्य मकर्तव्यकार्य त्वामातैव करिष्यतीति निर्धार्य देवकार्याणि साधयितुं च योगाग्भिना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया ॥ सा भूधराणामधिपेन तस्यां समाधिमत्या मुदपादि भव्या । सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् ॥ २२ ॥ सेति ॥ भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता समाधिमत्यां नियमवत्यां तस्यां मेनकायां सम्यक्प्रयोगात् साध्वाचरणाद्धेतोः अपरिक्षतायाम् अभ्र्ष्टायां नीतो उत्साहगुणेन उत्साहशक्त्या | क संपवू इव उदपादि । उत्पादिता । उत्पयतेर्ण्यन्तात्कर्मणि लुङ् । चिण्भावकर्मणोः । इति चिण्प्रत्ययः । चिणो लुक् इति तस्य लुक् ॥ प्रसन्नदिवपांशुविविक्तवातं शर्ङ्गस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ।। २३ ।। प्रसन्नेति ॥ प्रसन्ना निर्मला दिशो यस्मिंस्तत् प्रसन्नदिक । [ पांशुविविक्तवार्त] पशुविविक्ता रजोरहिता बाता यस्मिंस्तत्तथोक्तम् । [शङ्खस्वनानन्तरपुष्पवृष्टि ] शङ्खस्य स्वनात्स्वनस्य वा अनन्तरं पुष्पवृष्टिर्यस्मिस्तत्तथोक्तं । तज्जन्मदिनं । तस्याः प्रार्वत्या जन्मदिनम्। [स्थावरजङ्गमाना ] स्थितिशीलाः स्थावराः शैलवृक्षादयः । स्थेशभासपिशकसो वरच् इति वरच्प्रत्ययः ॥ जङ्गम्यन्ते भृशं गच्छन्तीति जंगमा देवतिर्यङ्मनुष्यादयः । स्थावराव जङ्गमाथ तेषां द्वयानामपि शरीरिणां सुखाय आनन्दाय बभूव ॥ ५ सूर्य १२ कुमारसंभवे तया दुहित्रा सुतरां संवित्री स्फुरत्प्रभामण्डळया चकासे । विदूरभूमिर्नवमेघशब्दा- दुनिया रत्नशलाकयेव ॥ २४ ॥ तयेति ॥ स्फुरप्रभामण्डलया तथा दुहित्रा सवित्री जनयित्री | स्वरतिसूतिसूयतिधुजूदितो वा इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिः विदूरभूमिः अविदूरे विदुरस्य गिरेरुतुङ्ग रोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् ॥ इति बुद्धः ॥ नवमेघशब्दादुद्भिन्नया रत्नशलाकया रत्नारेण इव सुतरां चकासे रराज ॥ दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान्विशेषा- जोत्स्नान्तराणीव कलान्तराणि ।। २५ ।। दिन इतेि ॥ लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः । अभ्युदितेत्यन्यत्र । दिने दिने प्रतिदिनम् || नित्यवीप्सयोः इति वीप्सायां द्विरुक्तिः ॥ परिवर्धमाना उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान् कान्तिविशेषप्रचुरान् ॥ मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तलावण्यमिहोच्यते ॥ इति भूपालः ॥ विशेषान् अवयवान् । विशेषोऽवयवे व्यक्तौ इत्युत्पलमालायाम् || ज्योत्स्नायामन्तरमन्तधनं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नयान्तर्हितानि । तन्मयानीति यावत् । अन्याः कलाः कलान्तराणि इव ॥ सुप्सुपेति समासः । स्थानात्मीयान्यतादरन्ध्रान्तर्विषु चान्तरम् । इति शाश्वतः । पुपोष उपचितवती ॥ इयं वाक्योपमेत्याह दण्डी । तल्लक्षणं तु" वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेवशब्दत्वात्सा तु वाक्योपमा द्विधा ॥ १ धरित्री. तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियों बन्धुजनो जुहाव । उ मेति मात्रा तपसो निषिद्धा पचादुमाख्यां सुमुखी जगाम ।। २६ ।। बैदूर्यभूमि ३ नादात्- प्रथमः सर्गः । १३ तामिति ॥ बन्धुभियां तां बाला बन्धुजनः पित्रादिः । अभिजनादागतेन आभिजनेन । पित्रादिपूर्वसंबन्धोपाधिकेनेत्यर्थः । अभिजनाः पूर्वबान्धवाः इति काशिका | नाम्ना । पर्वतस्यापत्यं स्त्री पार्वती । तस्यापत्यम् इत्यण्प्रत्ययः ॥ इति जुहाव आहूतवान् ॥ हृयतेर्लिटि रूपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः । पञ्चाद अभिजननामप्रवृत्त्यनन्तरं मात्रा जनन्या ॥ उ इति संबोधने ॥ उ इति वितर्कसंबोधनपादपूरणेषु इति गणव्याख्याने ॥ माशब्दो निषेधे | उ हे वत्से मा मा कुरु इति एवं रूपेण । तपसः तपश्चर्यायाः ॥ वार णार्थानामीप्सितः इत्यपादानत्वात्पञ्चमी || निषिद्धा निवारिता सती सुमुखी सा बाला उमेत्याख्यां नामधेयं उमाख्यां जगाम ॥ महीभृतः पुत्रवतोऽपि दृष्टि- स्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ २७ ॥ महीभृत इति ॥ पुत्राश्व दुहितरश्च पुत्राः ॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् इत्येकशेषः । तेऽस्य सन्तीति पुत्रवान् ॥ भूमार्थे मतुप् ॥ तस्य पुत्रवतोऽपि बहुपत्यस्यापीत्यर्थः । महीभृतः हिमाद्रेः दृष्टिः चक्षुः तस्मिन् अपत्ये तोके । अपत्यं तोकं तयोः समेइत्यमरः ॥ तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम । तथा हि । अनन्तपुष्पस्य नानाविधकुसुमस्यापि मधोः वसन्तस्य संबन्धिनी द्विरेफमालां भृङ्गपचितस्य विकारे चूते चूतकुसुमे || अवयवे च प्राण्योषधि वृक्षेभ्यः इति विकारार्थोत्पन्नस्याप्रत्ययस्य लुक्प्रकरणे पुष्पमूलेषु बहुलम् इति पठनालुक् ॥ [ सविशेषसङ्गा ] सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता । अत्यन्तास केत्यर्थः ॥ प्रभामहत्या शिखयेव दीप- स्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ २८ ॥ प्रभेति ॥ प्रभामहत्या प्रकाशाधिकया शिखया ज्वालया दीपः इव शिखादीपयोरवयवावयविभावाद्भेदेन व्यपदेशः ॥ त्रयो मार्गा यस्यास्तया त्रिमार्गया मन्दाकिन्या । [ त्रिविस्य ] तृतीया द्यौर्लोकः इति त्रिदिवः स्वर्गः ॥ वृत्तिविषये त्रिशब्दस्य त्रिभागवत्पूरणार्थत्वम् । पृषोदरादित्वाद्विछन्दादकारागमः । पुंस्त्वं लोकात् । दीव्यतेर्घञर्थे कविधानम् । दीव्यन्त्यत्र जना इति दिन इति क्षीरस्वामी । १ सद्धा, सज्ञा. १४ कुमारसमवे तस्य मार्ग इव । [ संस्कारवत्या ] संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा । भद्वैषां लक्ष्मीर्निहिताधिवाचि इति श्रुतेरिति भावः ॥ मनस ईषा मनीषा सास्यास्तीति मनीषी विद्वान् इव ॥ शकन्ध्वादित्वात्साधुः ॥ तया पार्वत्या स हिमवान् पूतः शोधितश्च विभूषितश्च ॥ अत्र शिखागिरोरविशिष्टयोरुपमानानईत्वान विशेषणाधिक्यदोषः । इयं मालोपमा ॥ मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ।। २९ ।। मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः । रुचि - रिति यावत् । तं क्रीडारसम् ॥ रसो गन्धे रसः स्वादे इति विश्वः ॥ निर्विशतीव भुञ्जानेव । निर्देशो भृतिभोगयोः इति विश्वः ॥ आच्छीनयोर्नुम् इति विकल्पानुमभावः । सखीनां मध्यगता सती [ मन्दाकिनीसैकत वेदिकाभिः ] मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः ॥ [ कृत्रिमपुत्रकैः ] क्रियया निर्वृत्तैः कृत्रिमैः । ङ्गितः क्त्रिः इति वित्रप्रत्ययः । क्त्रैर्मनित्यम् इति मबागमश्च ॥ पुत्रकैः पाञ्चालिकाभिः पाञ्चालिका पुत्रिका स्याद्वादन्तादिभिः कृता । इत्यमरः ॥ संज्ञायां कन् इति कन्प्रत्ययः ॥ च मुहुः पुनः पुनः रेमे ॥ तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभांसः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ ३० ॥ तामिति ॥ [ स्थिरोपदेशां ] स्थिरः स्पेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् । मेधाविनीमित्यर्थः । तां पार्वतीम् उपदेशकाले प्राक्तनजन्मविद्याः । पूर्वजम्माभ्यस्त विद्या इत्यर्थः शरदि गङ्गां हंसमालाः इव नक्तं रात्रौ महौवर्धि तृणविशेषम् आत्ममासः स्वदीप्तयः इव प्रपेदिरे ॥ उपमानसामीदुपदेशमन्तरेणैवेति गम्यते ॥ असंभृतं मण्डनमङ्गयष्टे- रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमत्रं बाल्यात्परं साथ वयः प्रपेदे ॥ ३१ ॥ २ महौषधी. २ साधु. प्रथमः सर्गः । સ असंभृतमिति ॥ अथ सा पार्वती । अङ्गयष्टेः असंभृतम् अयत्नसिद्धं मण्डनं प्रसाधनम् अनासवाख्यम् आसवाख्यारहितं मदस्य करणं साधर्न कामस्य पुष्पव्यतिरिक्तम अस्त्रम् अस्त्रभूतं बाल्यास शैशवात् परम् अनन्तरभावि वयः यौवनं प्रपेदे प्राप || यौवनेनैव हि युवतयः प्रसाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरूपकारणाभावेऽपि तत्कार्यमदोकेविभावनालंकारः । तदुकम् - कारणाभावे कार्योत्पत्तिर्विभावना इति ॥ प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः तलक्षणं तूतम् ॥ उन्मीलितं तूलिकयेव चित्रं सूर्याशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ३२ ॥ उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तम् अभिव्यजितम् । पीनजघनादिसंस्थानमित्यर्थः ॥ तस्याः पार्वत्याः वपुस्तुलिकया कूर्चिकया । शलाकयेत्यर्थः । तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः । इति विश्वः ॥ उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रूपमिति यावत् । चित्रम् आलेख्यम् । सूर्याशुभिर्भिन्नं विकसितम् अरविन्दं पद्मम् इव । चतस्रः अयो यस्य तचतुरमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्रशोभि ॥ ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वतः सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ॥ देवतानां रूपं पादाङ्गुष्ठप्रभृति वर्ण्यते मानुषाणां केशादारभ्येति धार्मिकाः । संप्रति सप्तदशभिः श्लोकैः पार्वत्याः पादादिकेशान्तवर्णनमारभते- अभ्युभताङ्गुष्ठनखप्रभाभि- निक्षेपणाद्रागमिवोद्भिरन्तौ । आजइतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥ ३३ ॥ अभ्युन्नतेति ॥ [ अभ्युन्नताङ्गुष्ठनखप्रभाभिः ] अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणात् निर्भरन्यासाद्धेतोः । रागम् अन्तर्गतं लौहित्यम् । रागः क्लेशादिके रक्त मात्सर्ये लोहितादिषु । इति शाश्वतः ॥ उद्भिरन्तौ वमन्तौ । बहिर्निःसारयन्ता इव स्थितावित्यर्थः ॥ अत्र गिरतेगणार्थत्वान्न प्राम्यतादोषः । प्रत्युत गुण एव । यथाह दण्डी - निष्ठधूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम । १ अता. १६ कुमारसंभवे अतिसुन्दरमन्यत्र प्राम्यकक्षां विगाहते ॥ इति । तस्यावरणौ तश्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थलारविन्दश्रियम् आजहृतुः । स्थलविशेषणाभियत लौहित्यलाभः । अत्र सामुद्रिकाः यस्या रक्ततलौ पादावुन्नताम्रौ तलस्पृशौ । निगूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता ॥ इति । अत्रोपमानधर्मस्यारविन्दश्रियचरणयोरुपमेययोरसंभवादरविन्दाश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालंकारः । सा च संबन्धेऽसंबन्धलक्षणातिशयोक्त्यनुप्राणिता । अव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसंबन्धे ऽप्यसंबन्धाभिधानात् । निदर्शनालक्षणं तु - असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥ इति ॥ सा राजहंसैरिव सताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धै- रादित्सुभिर्नूपुर सिखितानि ॥ ३४ ॥ सेति ॥ प्रत्युपदेशलुब्धैः ॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ॥ इति न्यायादिति भावः । तदेव व्यनक्तिनूपुर सिञ्जितानि आदित्सुभिः आदातुमिच्छुभिः । मजीरसितिमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः सन्नताङ्गी । कुचभारादिति भावः । सा पार्वती लीलाञ्चितविक्रमेषु ] लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । अञ्चे: पूजायाम् इतीडागमः । लीला विलासक्रिययोः इत्यमरः । गतेषु विषयेषु व्यनीयत इव विनीता किमु । अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ॥ वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातु- लावण्य उत्पाद्य इवास यत्नः ॥ ३५ ॥ वृतेति ॥ वृत्ते वर्तुले पूर्वमनुगते अनुपूर्वे । गोपुच्छाकारे इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे न अतिदीर्घे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्याः इमे तदीये जले प्रसुते ॥ जङ्घा तु प्रसृता इत्यमरः ॥ सृष्टवतः निर्मितवतो विधातुः स्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये : संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् । यत्नः १ सन्नतसा २ विभ्रमेषु. ३ लब्धेः पुनःप्रथमः सर्गः । १७ आस इव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां च लावण्योपादानकत्वात्पूर्व संपादितस्य च जङ्घार्थमेव कात्स्न्र्त्स्न्येन विनियोगात्पुनलावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये तज्ज इति भावः । आसेति बभूवार्थे तिङन्त प्रतिरूपकमव्ययमित्याह शाकटायनः ॥ वलभस्तु न तिङन्तप्रतिरूपकमव्ययम् अस्तेर्भूः इति भ्वादेशनियमात्तादृक्ति इन्तस्यैवाभावात् । किंत कवीनामयं प्रामादिकः प्रयोग इत्याह । वामनस्तु अस गतिदीप्त्यादानेष्विति धातोर्लिटि रूपमिदमित्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे | आस दिदीपे । प्रवृत्त इत्यर्थः ॥ नागेन्द्र हस्तास्त्वाचे कर्कशत्वा- देकान्तशैत्यात्कदलीविशेषाः । लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥ ३६ ॥ नागेन्द्रेति [ नागेन्द्रहस्ताः ] नागेन्द्राणामैरावतादीनां हस्ताः करा त्वचि चर्मणि कर्कशत्वात् कदलीविशेषाः राजरम्भादयः पकान्तशैत्यात् हेतोः लोके परिणाहि वैपुल्ययुक्तम् || परिणाहो विशालता इत्यमरः । रूपं लब्ध्वापि । अपिशब्दात्करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोः तदूर्वोः उपमानबाह्या जाताः उपमानक्रियान बभूवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः ॥ एतावता नन्वनुमेयशीभि काचीगुणस्थानमनिन्दितायाः । आरोपितं यगिरिशेन पश्चा- दनन्यनारीकमनीयमङ्कम् ॥ ३७ ॥ एतावतेति ॥ अनिन्दितायाः अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बम् एतावता ननु एतावतैव । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु । इत्यमरः । शोभत इति शोभि || अवश्यके णिनिः । ततस्त्यप्रत्ययः ॥ अनुमेयं शोभित्वं शोभा यस्य तद् अनुमेयशोभि । त्वप्रयस्तु गतार्थत्वान्न प्रत्युत्यक्तः इत्याह वामनः ॥ पञ्चात् | आदौ नैःस्पृह्येऽपि तपश्चर्यानन्तरामत्यर्थः । गिरौ शेते इति गिरिशः शिवः || गिरौ उच्छन्दास इति उप्रत्ययः ॥ भाषायामपि कचिदिष्यते । अथवा गिरिः कैलासोऽस्यास्ति गिरिशः ॥ लोमादित्वाच्छ्प्रत्ययः । तेन गिरिशेन [ अनन्यनारीकमनीयम् ] अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तम् अङ्कं निजोत्सङ्गम् आरोपितम् इति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः ॥ रोहतेर्ण्यन्तात्कर्माण कः । रुहः पोऽन्य १ कान्सि. १८ कुमारसंभव तरस्याम् इति इकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्माण क्तः । गिरिजानितम्बबिम्बं विश्वातिशायि सौन्दर्य गिरिशाङ्कारूढत्वाद्वयतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्क मनुमानमित्यलमस्थान संरम्भेण ॥ तस्याः प्रविष्टा नतनाभिरन्धं रराज तन्वी नवलोमरोजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥ ३८ ॥ तस्या इति ॥ नीवीं वस्त्रग्रन्थिम् ॥ स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि - च । इत्यमरः ॥ अतिक्रम्य अतीत्य [ नतनाभिरन्धं ] नतं निनं नाभिरन्ध्र प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्याः मवलोमराजिः सितेतरस्य असितस्य इन्द्रनीलस्येत्यर्थः । [ तन्मेखलामध्यमणेः ] तस्यापार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ पुनस्तच्छन्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेः अर्थिः प्रभा इव रराज ॥ ज्वालाभासोर्नपुंस्यर्चिः । इत्यमरः ॥ मध्येन सा वेदिविलग्नमध्या वळित्रयं चारु बभार बाळा । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ ३९ ॥ मध्येनेति ॥ वेदिः परिष्कृता भूमिः इत्यमरः ॥ वेदिविलग्नमध्या वेदिवकृशमध्या । तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्य आरोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभार इत्युत्प्रेक्षा ॥ अन्योन्यमुत्पीडयदुत्पळाक्ष्याः स्तनद्वयं पाण्डु तथा वृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणाळसूत्रान्तरमप्यलभ्यम् ॥ ४० ॥ १ नीला. २ राजी. ३ नवयौवनस्य ४ चारु. ५ विवृद्धम्. • ३८-४९ लोकयोर्मध्येऽयं श्रोको दृश्यते- गम्मीरनामी (मिदसन्निधाने (वेशे ) रराज नीला ( तन्वी ) नवकोमराजिः । सुखेन्दुभीरु (त) स्तन चक्रवाकचम्युच्युता शेषकमा (मल) रीब ॥ प्रथमः सर्गः । १९ अन्योन्येति ॥ अन्योन्यं परस्परम् ॥ कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये इति द्विरुक्तिः ॥ समासवच बहुलम् इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः ॥ उत्पीडयद् उपरुन्धत् पाण्डु गौरम् उत्पलाक्ष्याः स्तनद्वयम् तथा तेन प्रकारेण प्रवृद्धम् ॥ कर्तरि कः ॥ श्याममुखस्य कृष्णचूचुकस्येति स्वरूपवर्णनं तस्य स्तनद्वयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशः अपि अलभ्यं लब्धुमशक्यम् || अन्तरमवकाशावधि - परिधानान्तरविभेदतादयें । इत्यमरः ॥ अत्र संबन्धेऽसंबन्धरूपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेप्यसंबन्धाभिधानादिति ॥ लोके सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह– शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः । पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥ ४१ ॥ शिरीषेति । तस्या इमौ तदीयौ बाहू [ शिरीषपुष्पाधिकसौकुमार्यौ ] शिरीषपुष्पादधिकं सौकुमार्ये मार्दवं ययोस्तथोक्तौ इति मे वितर्कः कहः । कुतः । यौ बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्ज्वौ कृतौ । कण्ठालिनं प्रापितावित्यर्थः । तदसाध्यसाधनात्तत आधिक्यमिति भावः ॥ अत्र बाहोरारोपित कण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयोगात्परिणामालंकारः || कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तळस्य । अन्योन्यशोभाजननाद्वभूव साधारणो भूषणभूष्यभावः ॥ ४२ ॥ कण्ठस्येति ॥ स्तनबन्धुरस्य स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । वर्तुलं निस्तलं वृत्तं बन्धुरं सूझतानतम् । कलापो भूषणे बहें तूणीरे संहतावपि । इति चामरः ॥ अन्योन्यशोभाजननाद् भूषणभूष्यभाषाः अलंकारालंकार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः ॥ ४१-४२ लोकयोर्मध्येऽयं लोको हइयते– निर्मतिताशोकदलप्रसूति पाणिद्वयं वारुणखं तदीयम् । मोदितेन्दुमतिमस्य शोभां व्योम प्रदोष विफलीचकार ॥ २० कुमारसंभवे अत्र कण्ठमुक्ताकलापयोः शोभाकियाद्वारेणान्योन्यभूषा जनकत्वादन्योन्यालंकारः । तदुक्तम् –परस्पर क्रिया जननमन्योन्यम् । इति ॥ इदानी पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वचोभङ्गयाह- चन्द्रं गता पद्मगुणान भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ ४३ ॥ चन्द्रमिति ॥ लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्राप्ता सती पद्मगुणान् सौगन्ध्यादीन् न भुङ्गे नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीम् अभिख्यां शोभाम् ॥ अभिख्या नाम शोभयोः । इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्ते । उमामुखं प्रतिपद्य तु द्वे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिम् आनन्दम् अवाप । तत्रोभयगुणसंभवादितिभावः ॥ अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोत्त्या व्यतिरेकालंकारः ॥ तदुक्तम् - भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः इति ॥ पुष्पं मवालोपहितं यदि स्या- न्मुक्ताफळं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्या- स्तीौष्ठपर्यस्तरुचः स्मितस्य ॥ ४४ ॥ पुष्पमिति || पुष्पं पुण्डरीकादिकं [ प्रबालोपहितं ] प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । प्रवालो वलकीदण्डे विद्रुमे बालपल्लवे । इति विश्वः ॥ मुक्ताफलं वा स्फुटे निर्मले विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्याद्यदि । तत तर्हि विशदस्य शुभ्रस्य ताम्रोष्ठपर्यस्तरुचः ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्य अनुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र माषाणमा श्रीयात् इति वत्संबन्धमात्र अविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबन्धोक्त्या अतिशयोक्तिः । सा च संभावना इत्यलंकारसर्वस्वकारः । विशेषतस्तु पुष्पमुक्ताफलयोरुपमानयो प्रकृतोत्कर्षार्थमुपमेयताकरूपनारप्रतीपालंकारः । तदुक्तम् उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः । इति । स ख पूर्वोक्तातिशयोक्त्यनुप्राणित इति ॥ स्वरेण तस्याममृतास्रुतेव प्रजल्पितायामभिजातवाचि । १ वाम्रोष्ठ. प्रथमः सर्गः । २१ अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥ ४५ ॥ त्वरेणेति ॥ अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याम् अमृतसुताअमृतस्राविणा इव ॥ क्किप् ॥ स्वरेण नादेन प्रजल्पितायाम् आलपन्याम् । कर्तरि क्तः ॥ अन्यैः काकादिभिः पुष्ट। अन्यपुष्टा कोकिला अपि ॥ मुख्यया वृत्त्या जातिवचनत्वाभावाडीबभावः ॥ ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीः वितन्त्री इव ॥ अवितृस्तृतन्त्रिभ्य ईः इति तन्त्रीधातोरौणादिक ईप्रत्ययः । डीबभावान हल्डयाब्भ्यः -इति सुलोपः । तदुक्तम्अवीलक्ष्मीतरीतन्त्रीद्दधिश्रिीणामुणा दितः । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन इति । एते ङीबन्ता न भवन्तीत्यर्थः ॥ श्रोतुः जनस्य प्रतिकूलशब्दा कर्णकठोरनादा भवतीति शेषः ॥ प्रवातनीलोत्पलनिर्विशेष- मधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्य- स्ततो गृहीतं नु मृगाङ्गनाभिः ॥ ४६ ॥ प्रवातेति ॥ प्रवात नीलोत्पलनिर्विशेषम् प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो निर्विशेषं निर्भेदम् । तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितम् आयताक्ष्या विशालनेत्रया तथा पार्वत्या मृगाङ्गनाभ्यः हरिणीभ्यः गृहीतम् अभ्यस्तं नु ॥ अथवा मृगाङ्गनाभिः स्ततः स्तस्याः पार्वत्याः | पञ्चम्यास्तसिल् । गृहीतं ॥ अत्र विवक्षितस्य परस्परग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसन्देहालंकार इत्यन्ये । उभयेाः सङ्कर इत्यपरे ॥ तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भुवोरायतळेखयोर्या । तां वक्ष्यि लीलाचतुराननङ्गः स्वचाप सौन्दर्यमदं मुमोच ॥ ४७ ॥ तस्या इति ॥ आयतलेखयो दीर्घरेखयो तस्याः पार्वत्या भ्रुवोः संबन्धिः नी [ शलाकाञ्जननिर्मिता ] शलाकयाञ्जनेन निर्मित इव स्थिता या कान्ति- १ अन्यपुष्टाः २ शब्दाः ४५-४६ श्लोकयोर्मध्ये इमौ लोको दृश्येते - कर्णद्वयस्थं नगराजपुत्र्यास्ताटङ्कयुग्मं सु ( नि ) तरां रराज ( बमासे, चकासे ) म ( शात्वा भवित्रीं त्रिपुरारिपत्नीं तां सेवमाना ( सेवासमेता ) विव पुष्पवन्तो ॥ ताटङ्कपत्रं (युग्मं ) विरराज तस्याः शैलात्मजायाः श्रवणद्वयस्थम् । मत्वा भवित्री मदनारिपत्नीं सेवासमेताविव पुष्षष ( द ) न्तौ ।। ३ कोलाम्. २२ कुमारसंभवे लीलाचतुरां विलाससुभगां तां कान्ति वीक्ष्य अनङ्गः स्वचाप सौन्दर्यमदं स्वचापसौन्दर्येण यो मदः तं मुमोच ॥ इह सौन्दर्यातिशयोक्तिः ॥ लज्जा तिरश्वां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः । नं केशपाशं प्रसमीक्ष्य कुर्यु- बलप्रयत्वं शिथिलं चमर्यः ॥ ४८ ॥ लज्जेति ॥ तिरश्रां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावः असंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । शार्ङ्गरवायो ङीन् इति ङीन् ॥ तं प्रसिद्धं केशपाशं केशकलापम् || पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे इत्यमरः ॥ प्रसमीक्ष्य दृष्ट्रा चमर्यः मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताम्यादिपाठाद्वा परनिपातः । त्वतलोर्गुणवचनस्येति पुंवद्भावः । शिथिलं कुर्युः । निर्लज्जत्वात्र शिथिलयन्तीत्यर्थः ॥ अतएवात्र निर्लज्जत्वकरणहेतोरायपादे वाक्यर्थत्वेनोक्त्या काव्यलिङ्गाख्यालंकारः । तदुक्तम् - हेतोर्वाक्य पदार्थत्वे काव्यलिङ्गमुदाहृतम् । इति ॥ सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्ना- देकस्थसौन्दर्यदिदृक्षयेव ॥ ४९ ॥ सर्वोपमेति ॥ किंबहुना सा पार्वती विश्वसृजा विधात्रा एकस्थसौन्वर्यविवक्षया एकत्र तिष्ठतीत्येकस्थं तस्य सौन्दर्यस्य । सर्ववस्तुगतस्येत्यर्थः । दिदृक्षया इव प्रयत्नात यथाप्रदेशं क्रमाद् विनिवेशितेन स्थापितेन सर्वोपमाद्रव्यसमुच्चयेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाद्युपमानवस्तूनां समुचयेन समाहारेण निर्मिता ॥ दिदृक्षयेवेति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति ॥ तो नारदः कामचरः कदाचि- कन्यां किल प्रेक्ष्य पितुः समीपे । समादिदेशैकं वधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ ५० ॥ १ एफवधूः. २ प्रीत्या. प्रथमः समः । २३ तामिति ॥ कामेच्छया चरतीति कामचरः नारदः कदाचित् पितुः हिमवतः समीपे कन्यां तां पार्वती प्रेक्ष्य किल प्रेम्णा न त्वन्यथा हरस्य शिवस्यार्धं हरतीत्यर्धहरा | हरतेरनुद्यमनेऽच् इत्यच्प्रत्ययः ॥ शरीरस्याधेहरा शरीरार्धहराम् । कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वादर्धशरीरेति स्यात् ॥ एकव धूम् असपत्नीकां भार्याम् । पूर्वकालइत्यादिना समासः ॥ भवित्रीं भाविनीं समादिश । हरस्यार्धाग्रहरिष्येकपत्नी भविष्यतीत्यादिष्टवानित्यर्थः ॥ गुरुः प्रगल्भेऽपि वयस्यतोऽस्या- स्तथौ निवृचान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूत- महन्ति तेजांस्यपराणि हव्यम् ॥ ५१ ॥ गुरुरिति ॥ गुरुः पिता । गुरुर्गाष्पतिपित्राद्यौ इत्यमरः । अतः नारदवच - नाद्धेतोः अस्या: पार्वत्याः प्रगल्भे वयास अपि यौवने सत्यपि [ निवृत्तान्यवराभिलाषः ] निवृत्तेऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । बरो ना रूपजामात्रोः इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः ॥ ननु कुतोऽसौ निर्बन्ध इत्यत आह-ऋत इति ॥ तथाहि [ मन्त्रपूतं ] मन्त्रैः पूतं संस्कृतं हूयत इति हव्यम् आज्यादिकं कुशानोः पावकाद् ऋते कृशानुं विना ॥ अन्यारादितरइत्यादिनापञ्चमी || अपराणि तेजांसि सुवर्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योम्यस्यत्भावादुपेक्षेति भावः ॥ तर्हि तमेवाहूय दीयतामित्याशङ्कयाह— अयाचितारं नहि देवदेव- मद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधु- मध्यस्थ्यमिष्ठेऽप्यवलम्बतेऽर्थे ॥ ५२ ॥ अयाचितारमिति ॥ अद्रिः हिमवान् अयाचितारम् अयाचमानं देवदेवं महोदेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । प्रहेद्विकर्मकत्वम् । तथा हि साधुः सज्जनः ॥ साधुर्वार्धुषिके चारों सज्जने चाभिधेयवत् । इति विश्वः । अभ्यर्थनाभट्टभयेन याच्यावैफल्य भीत्या इष्टेप्यर्थे विषये माध्यस्थ्यम् मौदासीन्यम् अवलम्बते ॥ १ भम्बतर. २४ कुमारसंभवे न च तथैव स्थितः किं तूपायान्तरं चिन्तितवानिति वक्तुं प्रस्तौति– यदेव पूर्वे जनने शरीरं सा दक्षषात्सुती ससर्ज । तदा प्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥ ५३ ॥ यदेति ॥ शोभना दन्ता यस्याः सा सुदती ॥ वयसि दन्तस्य दतृ इति ६त्रादेशः ॥ उगितश्च इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिन्मनि ॥ पूवोदिभ्यो नवभ्यो वा इति स्मिन्नादेशविकल्पः ॥ पूर्व ज्वलते इति पाठे पूर्व दाक्षायणीत्वे ज्वलने योमामौ । यदा यस्मिन्काले दक्षरोषात् शरीरं देहं ससर्ज तत्याज । तदाप्रभृत्येव तदाद्येव यथा तथा पशूनां पतिः शिवः विमुक्तसङ्गः त्यक्तविषयासङ्गः सन् । अपरिग्रहः अपत्नीक अभूत् । स्वयन्तर न परिजग्राहेत्यर्थः ॥ पत्नीपरिजनादानमूलशापाः परिग्रहाः । इत्यमरः ॥ स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किंचित्कणत्किन्नरमध्युवास ॥ ५४ ॥ स इति ॥ कृत्तिवासाः चर्माम्बरः । अजिनं चर्म कृत्तिः स्त्री इत्यमरः । यतात्मा नियतचित्तः स पशुपतिः तपसे तपोऽर्थ [ गङ्गाप्रवाहोक्षितदेवदारु ] गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् । कस्तूरी मृगसंजारादिति भावः । मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् । इत्यमरः । [ कणत्किन्नरं ] कणन्तो गायन्तः किन्नरा यस्मिंस्तत्तथोक्तम् । किंचित् किमपि हिमाद्रेः प्रस्थं सानुम् अध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । उषान्वध्यासः इत्याधारस्य कर्मत्वम् ॥ प्रस्थोऽस्त्री सानुमानयोः इत्यमरः । गणा नमेरुसावर्तसा भूर्जत्वचः स्पर्शवतीर्दधानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ।। ५५ ।। गणा इति ॥ गणाः प्रमथगणाः ॥ गणाः प्रमथसंख्यौघाः इति वैजयन्ती ॥ नमेरुप्रसवावतंसाः सुरपुन्नागकुसुमशेखराः ॥ नमेरुः सुरपुन्नागः इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् ॥ भूर्जत्वचः भूर्ज बल्क. १ स्वयमुत्ससर्ज २ ततः प्रभृति, ३ जितारमा ४ बसाना’, • प्रथमः सर्गः । २५ लानि । दधानाः । वसाना इत्यर्थः । [ मनः शिलाविच्छुरिताः ] मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताश्च सन्तः । [ शैलेयन द्वेषु ] शिलायां भर्व शैलेयं गन्धौषधिविशेषः । शिलायाः स्त्रीभ्यो ढक् इति भावार्थे ढक् || शिलाजतु च शैलेयम् इति यादवः । तेन नद्वेषु व्याप्तेषु शिलातलेषु निषेदुः । उपविविशुरित्यर्थः ॥ तुषारसङ्घातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् । दृष्टः कथंचिद्रवयैर्विविग्नं- रसोढसिंहध्वनिरुन्ननाद ।। ५६ ।। तुषारेति || [ तुषारसङ्घातशिलाः ] तुषारसङ्घाता हिमघनास्त एव शिलास्ताः खुरायैः समुल्लिखन विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलः विविमैः भीतैः गवयेः गोसदृशमृगविशेषैः कथंचित् कृच्छ्रेण दृष्टः ककुदमस्यास्तीति ककुद्मान् वृषभोः असोढः सिंहानां ध्वनिर्येन सः [ असोढसिंहध्वनिः ] सिंहध्वनिम सहमानः सन् । उन्ननाद उच्चैर्ननाद जगर्जेत्यर्थः । स्वभावोक्तिरलंकारः । तदुक्तम् - स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् । इति ॥ तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥ ५७ ॥ तत्रेति ॥ तपसः फलानाम् इन्द्रत्वादीनां स्वयं विधाता जनयिता । दातेत्यर्थः । अष्टौ मूर्तयो यस्य सः अष्टमूर्तिः ईश्वरः । भूतार्कचन्द्रयज्वानो मूर्तयोष्ट प्रकीर्तिताः । इति ॥ तत्र प्रस्थे स्वं स्वकीयम् एव मूर्त्यन्तरं मूर्तिभेदं समित्समिद्धं समिद्भिः समिद्धं दीपितम् अग्निम् आधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चके ॥ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्त कामत्वात्केनापीत्युक्तम् ॥ अनर्घ्यमर्येण तमद्रिनाथः स्वर्गीक सामर्चितमर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥ ५८ ॥ १ अयम्. २ समृखं. ३ २६ कुमारसंभवे अनध्येति ॥ अद्रीणां नाथः अद्रिनाथः हिमवान् । अर्धे मूल्यमईतीत्यर्थः । मूल्ये पूजाविधावर्धः इत्यमरः ॥ दण्डादिभ्यो यत् इति यत्प्रत्ययः ॥ अभ्यों न भवतीत्यनयस्तम् अनर्घ्यम् । अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानाम् अर्चितम् । देवैः पूज्यमानमित्यर्थः । मतिबुद्धिपूजार्थेभ्यश्च इति वर्तमाने क्तः ॥ तस्य च वर्तमाने इति षष्ठी ॥ तम् ईश्वरम् अर्येण पूजार्थोदकेन । पादार्घाभ्यां च इति यत्प्रत्ययः । षट् तु त्रिष्वर्घ्यमर्घार्थे पायं पादाय वारिणि । इत्यमरः । अर्चयित्वा पूजयित्वा अस्य ईश्वरस्य आराधनाय सखीभ्यां जयाविजयाभ्यां समेतां [ सखीसमेतां ] प्रयतां नियतां तनूजां सुतां समादिदेश आज्ञापयामास || प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेता सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।। ५९ । प्रत्यर्थीति ॥ गिरिशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूताम् । सुप्सुपेति समासः । अपि श्रोतुमिच्छन्तीं शुश्रूषमाणां देवमानाम् । सेवका हि सेव्ये दत्तकणां भवन्ति । इच्छार्थे सन्प्रत्ययः । ज्ञाश्रुस्मृदृशां सनः इत्यात्मनेपदम् । तां पार्वतीम् अनुमेने अङ्गीकार । न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कविद्विकार इत्याशयः ॥ धीरत्वमेवार्थान्तरन्यासेनाह विकारेति ॥

  • [ विकारहतौ ] विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसन्निधानादिकारणे सति विद्यमाने अपि येषां चेतांसि न विक्रियन्ते न विकृति नीयन्ते ते एव धीराः । विक्रियन्ते इति कर्मीण लट् । शुश्रूषाप्रकारमेवाह- अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमित परिखेदा तच्छिरश्चन्द्रपादैः ॥ ६० ॥ अवचितेति । सुकेशी शोभनमूर्धजा ॥ स्वाङ्गाचेोपसर्जनादसंयोगोपधात् इति ङीप् ॥ सा पार्वती अवचितानि लूनानि बलिपुष्पाणि पूजाकुसुमानि यया सा [ अवचितबलिपुष्पा ] [ वेदिसंमार्गदक्षा ] वेदेर्नियमवे देकायाः संमार्गे संमार्जने दक्षा | [नियमविधिजलानां ] नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चउपनेत्री आनेत्री सती [ तच्छिरश्चन्द्रपादैः ] तस्य गिरिशस्य शिरसि चन्द्रस्य पादैरश्मिभिः । पादा रम्य प्रतुर्याशाः इत्यमरः । निय-द्वितीयः सर्गः । २७ मितपरिखेदा निवर्तितपरिश्रमा सती अहन्यहनि प्रत्यहम् । अव्ययं विभक्तिसमीपसमृद्धि - इत्यादिना नियतार्थेऽव्ययीभावः । नपुंसकादन्यतरस्याम इत्यच्प्रत्ययः । गिरिशम उपचचार शुश्रूषांचक्रे ॥ इति श्रीमन्महामहोपाध्यायकोला चलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृती कुमारसंभवे महाकाव्ये उमोत्पत्तिः नाम प्रथमः सर्गः । द्वितीयः सर्गः । तस्मिन्विमकृताः काले तारकेण दिवौकसः । तुरासाईं पुरोधाय धाम स्वायंभुवं ययुः ॥ १ ॥ तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृताः उपप्लुता दिवमौकः स्थानं येषां ते दिवौकसः देवाः । दिवं स्वर्गेऽन्तरिक्षे च इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः । तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साह्यतेश्वौरादिकाकिप् । नहिवृतिवृषि — इत्यादिना पूर्वपदस्य दीर्घः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टाबन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साडूपत्वाभावात् सहेः साडः सः इति षत्वं न भवति ॥ पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वक विधेरनित्यत्वात् ओर्गुणः इति गुणो न । धाम स्थानं ययुः ब्रह्मलोकं जग्मुरित्यर्थः ॥ तेषामाविरभूमा परिम्लानमुखश्रियाम् । सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २ ॥ तेषामिति || [ परिम्लानमुखश्रियाम् ] परिम्लाना परिक्षीणा मुखश्रीः मुखकान्तिः येषां तथेोक्तानां तेषां देवानां ब्रह्मा सुरपद्मानां मुकुलितारांवन्दानां सरसां प्रातः दीधितिमान् सूर्यः इव आविरभूत् । प्रक शोऽभूदिव्यर्थः । प्रकाशे प्रादुराविः स्यात् इत्यमरः | सूर्योपमानेन तेषां म्लानिहरणत्व सूचितम् । अत्रोपमालंकारः । तलक्षणं तु — स्वतः सिद्धेन भिन्नेन संमत्तेन च धर्मतः । साम्यमन्येन वर्णस्य वाच्यं चैकपदोपमा ॥ इति ॥ अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । ariti वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे || ३ ॥ २८ कुमारसंभवे अथेति । अथ आविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् । चतुर्मुखमित्यर्थः । [ वागीशं ] वाचां विद्यानामीशं सर्वस्य जगतः धातारं स्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिः अभिः । अर्थयुक्ताभिरित्यर्थः । धर्मपत्यर्थन्यायादनपेते इति यत्प्रत्ययः । वाग्भिः उपतस्थिरे । तुष्टुवुरित्यर्थः । उपाद्देवपूजासङ्गतिकरणमित्रपथिष्विति वक्तव्यम् इत्यात्मनेपदम् ॥ स्तुतिप्रकार माह नमः इत्यादिभिर्द्वादशभिः श्लोकैः- नमस्त्रिमूर्तये तुभ्यं माक्सृष्टेः केवलात्मने । गुणत्रयविभागय पश्चाद्भेदमुपेयुषे || ४ || नम इति ॥ हे भगवन्नित्यध्याहार्य व्याख्येयम् । सृष्टेः प्राक् ॥ अन्यारत्इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी ॥ केवलात्मने एकरूपाय | आत्मा वा इदमेक एवाप्र आसीत् इति श्रुतेः || निर्णति केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः । इत्यमरः । पश्चात् सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । [ गुणत्रयविभागाय ] गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । गुणाः सत्त्वं रजस्तमः इत्यमरः ॥ मेदम् उपाधिम् | त्वादिकमित्यर्थः । उपेयुषे प्राप्तवते । उपेयिवाननाश्वाननूचानश्च इति निपातः । अतएव त्रिमूर्तय ब्रह्मविष्णुरुद्ररूपिणे तुभ्यं नमः । नमः स्वस्ति इत्यादिना चतुर्थी । उक्तं च-नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय व । तमोरूपाय संहारे त्रिरूपाय स्वयंभुवे ॥ इति ॥ यदमोघमपामन्तरुतं बीजमज त्वया । अतश्वराचरं विश्वं प्रभवस्तस्य गीयसे ॥ ५ ॥ यदिति ॥ न जायत इत्यजः । हे अज । अपां जलानाम् अन्तः स्वया यद् अमोघम् अवन्ध्यं बीजं वीर्यम् उप्तं निक्षिप्तम् । मुक्तम् इति पाठे विसृष्टमित्यर्थः । शुकं तेजोरेतसी च बीजवीर्येन्द्रियाणि च । इत्यमरः ॥ अतः ते बीजात् चराचरं स्थावरजङ्गमात्मकम् ॥ समाहारे द्वन्द्वैकवद्भावः ॥ विश्व जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभयः कारणं गीयसे || अदश्वराश्वरं विश्वं प्रसवस्तस्य गीयते इति पाठे अद इदं चराचरं विश्व तस्य बीजस्य प्रसवो गीयते? | लोक इति शेषः ॥ अत्र मनुः-अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्वैमं सहस्रांशुसमप्रभम् ॥ इति ॥ तिसृभिस्त्वमवस्थाभिमहिमानमुदीरयन् । प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ ६ ॥ तिसृभिरिति ॥ एकः सृष्टे प्राक्केवलस्त्वं तिसृभिः अवस्थाभिः त्रैगुण्यमयीमिर्हरिहर ब्रह्मस्वरूपाभिः महिमानं निजशक्तिम् उदीरयन विजृम्भयन् प्रलय- द्वितीयः सर्गः । २९ स्थितिसर्गाणाम् अन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं पचाद्भेदमुषेयुषे ( २1४ ) इत्यस्य विवरणमतो न गतार्थत्वदोषः || भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनगुष्ट्यर्थं मूर्तिमतो ब्रह्मणो भेदमादस्त्रीपुंसावात्मभागों ते भिन्नमूर्तः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृता ॥ ७ ॥ स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रीपुं सौ ॥ अचतुर - इत्यादिनाच्प्रत्ययान्तो निपातः । सिसृक्षया टुमिच्छया भिन्नमूर्तेः द्विवाकृतविग्रहस्य ते तवात्मनो देहस्य भागौ आत्मभागौ । आत्मा जीवे मृत देहे स्वभाव परमात्मनि । इति विश्वः । तावेव भागों प्रसूतिभाजः उत्पत्तिमाज: । [ सर्गस्य ] सृज्यत इति सगस्तस्य । निजगृष्टरित्यर्थः । माता च पिता च पितरी ॥ पिता मात्रा इत्येकशेषः । स्मृतो । वृद्धरिति शेषः ॥ अत्र मनुः - द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ इति ॥ स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते । यौं तु स्वभाववोध तौ भूतानां प्रलयोदयाँ ॥ ८ ॥ स्वकालेति || [ स्वकालपरिमाणेन ] स्वकालस्य परिमाणेन चतुर्युगसह स्त्राणि ब्रह्मणो दिनमुच्यते इत्युक्तरूपेण । [ व्यस्तरात्रिंदिवस्य ] व्यस्तं विभक्तं रात्रिदिवं रात्र्यहनी यस्य तस्य । यद्यपि अचतुरेत्यादिसूत्रेण रात्रौ च दिवा च रात्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि दोषामन्यमहः दिवामन्या रात्रिः इत्यादी कर्मवदत्रापि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् ॥ ते तव यौ तु स्वप्नावबोधौ तो एव भूतानां प्रलयोदयौ संहारसृष्टी ! यदाहुः यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वापति शान्तात्म तदा सर्व प्रलीयते ॥ इति ॥ एतच्च दैनंदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ॥ जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जॅगदीशो निरीश्वरः ॥ ९ ॥ जगदिति ॥ हे भगवन् । त्वं जगद्योनिः जगत्कारणं स्वयम् अयोनिः अनादित्वादकारणकस्त्वम् । [ जगदन्तः ] अन्तयतीत्यन्तः । पचाद्यच् । जगतोऽन्तो जगत्संहर्ता स्वयं निरन्तकः नित्यत्वादन्तरहितः । त्वं जगतामादिः जगदादिः । सृष्टेः प्रागपि सन्नित्यर्थः । अतएव त्वम् अनादिः आदिरहितः । त्वं [ जगदीशः ] जगतामीशो नियन्ता स्त्रयं निरीश्वरः । अनियम्य इत्यर्थः । १ भावौ २ परिणामेन. ३ यौनबोध तावेव स्वमावबोधी भूतानां तावेत. ४ अनन्तो जगदन्तकः; जगदन्तोप्यनन्तकः ५ जगदीशोप्यनीश्वरः. ३० कुमारसंभवे यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतिरेवात्र प्रमाणम् ॥ अत्रायोनिरीत्यादौ नतत्पुरुषाश्रमणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः -विरोधाभासत्वे विरोधः इति ॥ तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह–आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ १० ॥ आत्मानमिति ॥ हे भगवन् । त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपम् आत्मना एव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथा आत्मानमात्मना एव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । स्वे महिनि प्रतिष्ठितम् इति श्रुतेः ॥ कृतिना समर्थेन । इदं सर्वत्र संबध्यते । आत्मना स्वेनैव आत्मन्येव प्रलीयसे स्वस्मिन्नेव प्रलीनो भवसि ॥ लीयतेर्दैवादिकात्कर्तरि लट् । प्रकृत्यादिभ्य उपसंख्यानम् इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ॥ द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्तेतरवासि प्राकाम्यं ते विभूतिषु ॥ ११ ॥ द्रव इति ॥ त्वमित्यनुषज्यते । हे भगवन् । त्वं द्रवः सरित्समुद्रादिवद्रसात्मकोsसि । [ संघातकठिनः ] संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूलः इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मः अतीन्द्रियः परमाण्वादिवत् । लघुः उत्पतनयोग्यस्तूलादिवत् । गुरु: हेमाद्रिवदचलनीयः । व्यक्तः कार्यरूपोसि । व्यक्तेतरः कारणरूपः च असि । एवं विभूतिषु अणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् ॥ उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् । कर्मयज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ १२ ॥ उद्धात इति ॥ हे भगवन् । यासां गिरो वाचाम् उद्घातः उपक्रमः प्रणवः ओङ्कारात्मकः ॥ ओङ्कारप्रणवौ समौ इति । स्यादभ्यादानमुद्धात आरम्भः इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् ॥ ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्व परस्ताच विशेषतः ॥ इति निरुतपरिशिष्टयोर्यास्कः ॥ नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः । उक्तं च–स्वरविशेषादर्थप्रतिपतिः । यथेन्द्रशत्रुः स्वरतोऽपराधात् इति ॥ यासां गिरां । त्रिभिः न्यायैः उदासानुदात्तस्वरितैः स्वरैः उदीरणम् उच्चारणम् । यासां कर्म प्रतिपाद्यमि- ९ गुरुलघुः २ उद्गीथः. द्वितीयः सर्गः ।
त्यर्थः । यज्ञः ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । पलं स्वर्गः । कर्मद्वारेति शेषः । कर्मस्वगौ ब्रह्मापवर्गयेोरप्युपलक्षणे । त्वं तासा गिराम् । वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन ॥
सांख्यमतेन स्तुवन्ति –
त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ १३ ॥
स्वामिति ॥ हे भगवन् । त्वां पुरुषस्यार्थी भोगापवर्गरूपस्तदर्थं प्रवर्तत इति तां पुरुषार्थप्रवर्तिनीं प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् ॥ प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे । इति यादवः || आमनन्ति कथयन्ति ॥ ना अभ्यासे इति धातोर्लट् । पाघ्राध्मास्थाम्ना -इत्यादिना मनादेशः ॥ प्रकृतिपुरुषभेदाग्रहणाप्रकृतिपुरुषभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पश्यतीति तद्दर्शिनम् उदासीनं कूटस्थं पुरुषं विदुः विदन्ति ॥ विदो लटो वा इति झेर्जुसादेशः । अजामेको लोहितशुक्लकृष्णाम् इति श्रुतिरत्र प्रमाणम् ॥
त्वं पितृणामपि पिता देवानामपि देवता ।
1
परतोऽपि परवासि विधाता वेधसामपि ॥ १४ ॥ स्वमिति ॥ हे भगवन् । त्वं पितॄणाम् अग्निष्वात्तादीनाम् अपि पिता । तेषामपि तर्पणीय इत्यर्थः । देवानाम् इन्द्रादीनाम् अपि देवता । तेषामपि यजनीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः ॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महांस्ततः । महतः परमव्यक्तमव्यतात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ इति सर्वोत्तरत्वाभिधानात् ॥ वेधसां दक्षादीनाम् अपि विधाता स्रष्टा असि ॥
त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ||१५|| त्वमेवेति ॥ शश्वत्सिद्धः शाश्वतः | शैशिकोऽण्प्रत्ययः । यद्यपि कालान् इति ठयपवादः अतएव सूत्रकारस्यापि प्रयोगः येषां च विरोधः शाश्वतिक इति । तयापि प्रयोगवशात्साधुरिति वामनः । शाश्वत इति प्रयुक्तेः इति । शाश्वतः त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति होता यजमानः च असि । भोज्यम् अभ्यवहार्यमन्नम्। भोज्यं भक्ष्ये इति निपातनात्कुत्वाभावः । भोक्ता अन्नादः वासि । वेद्यं साक्षात्कार्ये वस्तु वेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च यत्परं वस्तु ध्येयं तत् वासि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम् ॥ इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयङ्गमाः ।
प्रसादाभिमुखो वेषाः प्रत्युवाच दिवौकसः ॥ १६ ॥
१ वेद्यं वेदयिता, वेदश्व वेदिता. २ यथार्थ. ३ त्रह्मा.
३२
कुमारसंभवे
इतीति । वेधाः ब्रह्मा इति तेभ्यः देवेभ्यः । आख्यातोपयोगे इत्यपादानत्वापञ्चमी || यथार्थाः सत्या अतएव हृदयं गच्छन्तीति हृदयंगमाः मनोहराः । खच्प्रकरणे गमेः सुप्युपसंख्यानम् इति खच्प्रत्ययः | अरुद्विपदजन्तस्य मुम् इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखः अनुग्रहप्रवणः सन् । दिवौकसः देवान् प्रत्युवाच ॥
अथ कविराह—
पुराणस्य कवस्तस्य चतुर्मुखसमीरिता ।
प्रवृत्तिरासीच्छन्दानां चरितार्था चतुष्टयी ॥ १७ ॥ पुराणस्येति || द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयी चतुर्विधा ॥ संख्याया अवयव तयप् ॥ इति तयप् । टिङ्काणद्वयमचइत्यादिना ङीप् । शब्दानां प्रवृत्तिः वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च-वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥ इति । पुराणस्य पुरातनस्य ॥ पृषोदरादित्वात्साधुः ॥ कवेः कवयितुः तस्य ब्रह्मण: [ चतुर्मुख समीरिता ] चतुर्भिर्मुखैः समीरिता सती । तद्धितार्थइत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् ॥ चरितार्था अन्वभ आसीत् । चतुर्मुखोचारणाचातुर्विध्यं सफलमासीदित्यर्थः ॥
भगवानाह -
स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः ।
युगपद्युगवाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ १८ ॥ स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवा: ॥ प्राज्यं भूरि प्रभूतं च इति यादवः । स्वान् स्वकीयान् अधीकारान् नियोगान् ॥ उपसर्गस्य घञि -इति वा दीर्घः ॥ प्रभावैः सामथ्र्यैः अवलम्ब्य आस्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत् समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयते इति भावः । युगबाहुभ्यः । दीर्घबाहुभ्य इत्यर्थः । आजानुबाहुत्वं भाग्य - लक्षणम् | वः युष्मभ्यम् । बहुवचनस्य वस्नसौ इति वसादेशः । कर्मणा यमभिप्रैति इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् || स्वागतं शोभमानमागमनम् । काकुरत्रानुन्सधेया ॥
किमिदं द्युतिमात्मीयां न विभ्रति यथा पुरा ।
हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥ १९ ॥ किमिति ॥ वत्साः इत्युत्तरश्लोकीयं ( श्र० २८ ) संबोधनमत्राप्यनुषजनीयम् । हे वत्साः
पुत्रकाः 1 [ हिमक्लिष्टप्रकाशानि ] हिमेन नीहारेण
१ इमाम, इति. २ प्रभावाणि.
द्वितीयः सर्गः ।
३३
क्लिष्टप्रकाशानि मन्दप्रभाणि ज्योतींषि नक्षत्राणि इव ॥ दीप्तितारादुदाशेषु ज्योतिः इति शाश्रुतः ॥ वः युष्माकं मुखानि पुरा यथा पूर्वमित्र आत्मायां छुतिं न विभ्रति । इदं किम् । किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥
उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः—
प्रशमादर्चिषामेतदनुद्गीर्णमुरायुधम् ।
त्रस्य हन्तुः कुलिशं कुण्ठिताश्री लक्ष्यते ॥ २० ॥ प्रशमादिति || अर्चिषां तेजसा प्रशमात् निर्वाणाद अनुदीर्णसुरायुधम अनुदित चित्रप्रभमित्यर्थः । एतद् वृत्रस्य हन्तुः इन्द्रस्य कुलिशं वज्रम् । कुष्ठिताः अथयो यस्य तत् कुण्ठितानि कुण्ठितकोटि इव लक्ष्यते दृश्यते ॥
किं चायमरिदुर्वारः पाणी पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः || २१ ॥
किं चेति ॥ किं च अयम अरीदुर्वारः रिपुदुष्प्रधर्षः प्रचेतसः वरुणस्य । प्रचेता वरुणः पाशी इत्यमरः । पाणौ पाशः रज्जुरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिवद्धशक्तेः फणिनः सर्पस्य दैन्यं शोच्यत्वम् आश्रितः ॥ अत्र फणिनिष्ठदैन्यस्य पाशेऽसंभवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः ॥
कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगदो बाहुर्भग्रशाख इव द्रुमः ।। २२ ।।
कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सः अपविद्धगदः । अतएव मनशाखः द्रुम इव स्थितः कुबेरस्य बाहुः मनः शल्यम् । दुःखहेतुत्वान्मनसः शल्यप्रायमित्यर्थः । पराभवम् । शत्रकृतमिति शेषः । शंसतीव कथयतीव । लक्षणयानुमापयतीत्यर्थः ॥ बाहौ मुख्यकथनस्यासंभवादित्रशब्दोऽप्यत एव ।
यमोsपि विलिखन्भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् || २३ | यम इति ॥ [ अस्तमितत्विषा ] अस्तं नाशमितः प्राप्तः ॥ अस्तमिति मकारान्तमव्ययम् । तस्य द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति समासः । अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन अमोधेऽपि । प्रागिति भावः अस्मिन् दण्डे ( निर्वाणालातलाघवम् ] निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका तस्य यलाघवं लैव्यं तत् कुरुते ॥ अलातमुल्मुकं ज्ञेयम् इति हलायुधः । निर्वाणोऽवाते इति निपातनानिष्ठानत्वम् ॥ अत्रापि लाघवामिव लाघवमिति कल्पनान्निदर्शनालंकारः ॥
१ अनुद्रर्ण, अनुपूर्ण. १२ कुण्ठित श्री.
३ अपि
३४
कुमारसंभवे
अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताः प्रकामालोनीर्यताम् ॥ २४ ॥
अमी इति ॥ [ प्रतापक्ष तिशीतलाः ] प्रतापक्षत्या तेजसां क्षयेण शीतलाः अमी आदित्याश्च । द्वादशेति शेषः । कथम् । केन हेतुनेत्यर्थः । चित्रन्यस्ताः चित्रांलखिताः इव । [ प्रकामालोकनीयताम् ] प्रकाममत्यन्तमालोकनीयता दृश्यतां गताः प्राप्ताः ॥
पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २५ ॥
पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिति शेषः । पर्याकुलत्वात् स्खलितगतित्वाद्धेतोः [ वेगभङ्कः ] वेगस्य भङ्गो अम्भसां जलानां प्रतीपगमनात् उत्तानावरोहादित्यर्थः । [ आघसंरोधः ] ओघस्त्र संरोधः प्रवाहप्रतिबन्धः इव अनुमीयते ॥
आवर्जित जटामौलिविलम्बिशशिकोटयः ।
रुद्राणामपि मूर्धानः क्षत्रहुङ्कारशंसिनः || २६ ||
आवजितेति || [ आवर्जितजटामौलिविलम्बिशशिकोटयः ] आवर्जितेषु परिभवदुःखावनत्रेषु जटाना मौलिषु जटाजूटेषु विलम्बिन्यः संसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । सूर्धानः [ क्षतहुङ्कारशंसिनः ] क्षतं हुकारं शंसन्तीति तथोक्ताः । हुक्कारक्षत्यनुमापका इत्यर्थः । ढुङ्गारशस्त्रा हि रुद्रा इति भावः ॥
लब्धप्रतिष्ठाः प्रथमं यं किं बलवत्तरैः ।
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः || २७ ॥
लब्धेति ॥ प्रथमं पूर्व लब्धप्रतिष्ठाः लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषात कात्प्रबलतरैः । निश्वक शौरत्यपरत्र । परैः शत्रुभिः । उत्सर्गाः सामान्यशास्त्राणि मा हिंस्यात् इत्येवमादीनि । अपोवन्त एभिरिति अपवादः गामालभेत इत्यादिभि वैशेषशास्त्रः इव किं कृतव्यावृत्तयः कृतप्रतिष्ठामङ्गाः । कृतविषयसङ्गोचरूपाधा इत्यन्यत्र । विषयसङ्कोच एव बाधः इत्याचार्याः । निषेधश स्त्रस्य वैदिकहिंसापरिहारेण लौकिकमात्रे व्यवस्थापनाद्विषयसङ्कोच इत्यलमतिगहनावगाहनेन ॥
तहून वत्माः किक्तिः प्रार्थयध्वं सपागताः ।
माय सृष्टि हैं लोकानां रक्षा युष्पास्ववस्थिता ॥ २८ ॥
१ आयाताः. २ दर्शिनः, दर्शनम्. ३ अहंकार ४ न खलु स्थ बलात्तरैः. ५ प्राथर्यध्ये. ६ भूतानाम्.
द्वितीयः सर्गः ।
३५
तदिति ॥ तत् तस्मात्कारणात् । हे वत्साः पुत्रकाः । वत्सस्त्वर्भकपुत्रायोवर्षे वत्सं तु वक्षसि । इति विश्वः ॥ स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते । संभूया - गताः समागताः इतः मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह-माय लोकानां सृष्टिः रक्षा युष्मासुअवस्थिता । अतस्तदर्थमपि नास्ति मदपेक्षेत्यर्थः ॥
ततो मन्दानिलोद्धूतकमलाकरशोभिना ।
गुरुं नेत्रसहस्रेण नोंदयामास वसवः ॥ २९ ॥
तत इति ॥ ततः भगवत्प्रश्नानन्तरं वासवः इन्द्रः गुरुं बृहस्पतिम् ॥ गुरु गीष्पतिपित्राद्यौ इत्यमरः 1 [ मन्दानिलोद्धृतकमलाकरशोभिना ] मन्दानिलो तो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन [ नेत्रसहस्रेण ] नेत्राणां सहस्रेण नोदयामास प्रेरयामास । सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुद्धयते ॥
सद्विनेत्रं रेश्रक्षुः
खनयनाधिकम् ॥
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ ३० ॥
स इति ॥ हरेः इन्द्रस्य ॥ इन्द्रो दुश्चवनो हरिः इति हलायुधः ॥ सहस्राअयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद् द्विनेत्रम् । प्रमिद्धाच्चक्षुपोऽयं विशेष इत्यर्थः । चक्षुः चक्षुर्भूतः । चक्षुष्ठापस्य प्रकृतोपयेगात्परिणानालंकरः ॥ स वाचस्पतिः ॥ कस्कादित्वादलक्सत्वे || षष्ठ्याः प्रतिपुत्र -इत्यादिना सत्वमिति स्वामी तत्र छन्दाविषयत्वात् ॥ प्राञ्जलिः सन् । जलजासनं ब्रह्माणम् इदमुवाच ॥
एवं यदान्थ भगवन्नामृष्टं नः परैः पदम् ।
प्रत्येकं वियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥ ३१ ॥ एवमिति । हे भगवन् षड्गुणैश्वर्यसंपन्न | यदात्थ कृतव्यावृत्तयः परैः ( २।२७ ) इति यद्रवीषि ॥ ब्रुवः पञ्चानाम् इत्यादिनाहादेशः । वर्तमानसामीप्ये वर्तमानवद्वा इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग इत्याह । आहेति भूते लन्तभ्रमवदिति । आहेत्युपलक्षणम् ॥ तद् एवं सत्यम् । नः अस्माकं पदम् अधिकारः पौः शत्रुभिः आमृष्टम् आक्षिप्तम् । ६ प्रमो प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशि स्वरूपः । सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि । वर्तमानेऽ पे वचनमया भविष्यनिर्देशः प्रसिद्धः || अपहवे शः । अकर्मकाच इत्यात्मनेपदविकल्पः ॥
१ चोदयामास प्रेरयामास २ वृत्रहा. ३ द्विनेत्रः ४ दशचक्षु शताधिकम्. ५ यथा. ६ ज्ञास्यति प्रभु.
३६
उक्तमेव प्रपञ्चयति—-
कुमारसंभवे
भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ।। ३२ ।। भवदिति ॥ [ भवलब्धवरोदीर्णः ] भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः । तारक इत्याख्या नामधेयं यस्य स तारकाख्यः । महानसुरो महासुरः । सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति तत्पुरुषः । धूमकेतुः उत्पातविशेषः इव लोकानाम् उपप्लवाय उपद्रवाय उत्थितः उत्पन्नः ॥
पुरे तावन्तमेवास्य तनोति रविरातपम् ।
दीर्घकालोन्मेषो यावन्मात्रेण साध्यते ॥ ३३ ॥ पुर इति ॥ अस्य तारकस्य पुरे रविः सूर्यः तावन्तं तावन्मात्रम् एव आतर्प तनोति यावन्मात्रेण यावतैव । यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा । अल्पपरिमाणेनेत्यर्थः ॥ मात्रा परिच्छदे । अल्पे च परिमाणस्यान्मात्रं कात्स्न्यैऽवधारणे ॥ इत्यमरः ॥ [ दीर्घिका कमलोन्मेषः ] दीर्घिकासु क्रीडावापषु कमलानामुन्मेषी विकाशः साध्यते निष्पाद्यते । कठोर किरणोऽपि मन्दोष्णः सनेव तद्भीत्या पुरे प्रकाशते इत्यभिप्रायः ||
सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते ।
नादत्ते केवल लेखां हरचूडामणीकृताम् || ३४ ॥ सर्वाभिरिति । चन्द्रः तं तारकं सर्वदा । कृष्णपक्षेऽपीत्यर्थः । सर्वाभिः कलाभिः निषेवते । कला तु षोडशो भागः इत्यमरः ॥ केवलां हरचूडामणीकृतां शिवशिरोमणीकृतां लेखां न आदत्ते न गृह्णाति ॥
व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥ ३५ ॥ व्यावृत्तेति ॥ वायुः [ कुसुमस्तेयसाध्वसात् ] स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् ॥ स्तेनाद्यन्नलोपश्च इति यत्प्रत्ययो नलोपच ॥ कुसुमानां स्तेयं तस्मात्स्तेयाभियोगाद्दण्डाद्वा साध्वसं भयं तम्माद्धेतोः उद्याने व्यावृत्तगतिः निवृत्तोयानसंचार: सन्नित्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ तत्पार्श्वे तत्समीपे | [ तालवृन्तानिलाधिकम् ] तालस्य वृन्तैरुव्दध्यते । तालस्येव वृन्तमस्येति वा तालवृन्तं तस्यानिलाद्वयजनसंचारपवनादधिकं यथा तथा न वाति ॥ व्यजनं तालवृन्तकम् इत्यमरः ॥
पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः ।
उद्यानपाल सामान्यमृतवस्तमुपासते || ३६ ||
१ स्वया दत्त, भवदत्त. २ कराति.
neद्वितीयः सर्गः ।
३७
पर्यायेति ॥ ऋतवः षड् वसन्तादयः पर्यायसेवां क्रमसेवाम् उत्सृज्य [ पुष्पसंभारतत्पराः ] पुष्पाणां संभारे संग्रहे तत्पराः । आसक्ताः सन्तः इत्यर्थः ॥ तत्परे प्रसितासक्तौ इत्यमरः । [ उद्यानपालसामान्यं ] उद्यानपालैरुद्यानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकम् उपासते सेवन्ते । शीतोष्णादिदोषप्रकाशनं तु दुरापास्तमित्यर्थः ॥
तस्योपायनयोग्यानि रत्नानि सरितां पतिः । कथमप्यम्भसामन्तरानिष्पत्तेः प्रतीक्षते ॥ ३७ ॥
तस्येति ॥ सरितां पतिः समुद्रः तस्य तारकस्य [ उपायनयोग्यानि ] उपायनानां प्राभृतानां योग्यनि । प्रभृत तु प्रदेशनम् । उपायनम् । इत्यमरः । रत्नानि अम्भसामन्तः आनिष्पत्तेः परिपकपर्यन्तम् ॥ विकल्पाद - मसिः । कथमपि महता यत्नेन प्रतीक्षते । कदा वा परिपच्येरन्नित्ये काग्रेण पालयतीत्यर्थः ॥
ज्वलन्मणिशिखाचैनं वासुकिप्रमुखा निशि ।
स्थिरमदीपतामेत्य भुजङ्गाः पर्युपासते ।। ३८ ।।
ज्वलदिति ॥ किं च इति वार्थः । [ ज्वलन्मणिशिखाः ] ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा आला येषां ते वासुकिप्रमुखाः भुजङ्गाः सर्पाः सिद्धाश्च ध्वन्यन्ते ॥ भुजङ्गः सिद्धमर्पयोः इत्यमरः ॥ निशि स्थिरप्रदीपताम् अनिर्वाणदीपत्वम् एत्य एनं तारकं पर्युपासते परिवृत्य सेवन्ते ||
तत्कृतानुग्रहापेक्षी ‘तं मुहुदूतहारितैः । अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणः || ३९ ॥
तत्कृतेति ॥ इन्द्रः अपि [ तत्कृतानुग्रहापेक्षी ] तेन तारकेण कृतं तत्कृतमनुग्रहं प्रसादमपेक्षते इति तथोक्तः सन् । मुहुः दूतहारितैः दूतप्रापितैः [ कल्पद्रुमविभूषणैः ] कल्पद्रुमाणां विभूषणैः । तत्प्रसूनैरित्यर्थः । तं तारकम् अनुकूलयति अनुकूलं करोति ॥
इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ ४० ॥
इत्यमिति ॥ इत्थम् उक्तप्रकारेण रविशशिपत्रनोदांधभुजङ्गसुरेन्द्रैः आराध्य. मानः अपि भुवनत्रयं विभाति पीडयति । तथाहि । दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येत् शान्तो भवेत् । उपकारेण तु न शाम्येत प्रत्युत प्रकुप्यतीति भावः ॥
१ प्रहिताः. २ प्रत्यहं. ३ स्वर्गदु० ४ मत्युपकारेण.
१८
कुमारसंभवे
तेनामरवधूर्हस्तैः सदयालूनपल्लवाः ।
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥ ४१ ॥ तेनेति ॥ तेन तारकेण अमरवधूहस्तैः सुकुमारैरिति भावः । तैरपि [सदयातून पल्लवाः ] सदयमालूना अवतंसार्थ छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः [छेदपातानाम् ] छेदाच पाताश्च छेदपातास्तेषाम् । अभिज्ञाः । कृयोगात्कर्मणि पष्टी । क्रियन्ते ॥
अभिजानन्तीति
वीज्यते स हि संसुंप्तः श्वाससाधारणानिलैः । चामरैः सुरबन्दीनां वापसी करवर्षिभिः || ४२ ॥ वीज्यत इति ॥ हि यस्माकारणात् स तारकः संसुप्तः सन् ।
संसुप्तः सन् । [ श्वाससाधारणानिलैः ] वाससाधारणो निःश्राससमानोऽनिलो येषां तैः । ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः । वाष्पसीकरवर्षिभिः । तासां स्त्रीण रोदनस्यायमवसर इति भावः सुरवन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । प्रग्रहाप्रो बन्याम इत्यमरः । चामरैः वीज्यते ॥
उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः
आक्रीडपर्वतास्तन कल्पिताः स्वेषु वेश्मसु ॥ ४३ ॥ उत्पाठ्य इति ॥ तेन तारकेण हरितां सूर्याश्वानाम् ॥ हरित्सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि । इति विश्वः ॥ खुरैः शकैः क्षुण्णानि चूर्णितानि एतेन तेषामत्यौन्नत्यं सूचितम् | मेरुशृङ्गाणि उत्पाट्य स्वषु वेश्मसु । वेश्मस्विति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः । [ आक्रीडपर्वताः] आक्रीडन्त एष्वित्याक्रीडाः । ते च ते पर्वताः कल्पिताः कृताः ॥
मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् ।
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥ ४४ ॥ मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्याः भागीरथ्याः [ दिग्वा. रणमदाविलं ] । दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयः जलमेव शिध्यत इति शेषं शिष्टम् ॥ कर्मणि घन् प्रत्ययः । त्रिष्वन्यत्रोपयुज्यते इति नपुंसकत्वम | तर्हि कनककमलानि क्व गतानीत्याह – हेमेति । [ हेमाम्भोरुहसस्यानां ] हेमाम्भोरुहाण्येव सस्यानि तेषां तु तस्य वाप्यः तद्वाप्यः एव धाम स्थानम् । सर्वाण्यप्युत्पाट्य स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः ॥
भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
खिलीभूते विमानानां तदापातभयात्पथि ।। ४५ ।।
१ हस्त २ सन्तप्तः
द्वितीयः सर्गः ।
भुवनेति || [ तदापातभयात् ] तस्य तारकस्यापातात्समापत्तेर्भयात् विमानानां पथि खिलीभूते अप्रहृतीभूते सति ॥ द्वे खिलाप्रहते समे इत्यमरः ॥ स्वगिभिः देवैः [भुवनालोकनप्रीतिः ] भुवनानामालोकने प्रीतिः नानुभूयते ॥
यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ ४६ ॥
यज्वभिरिति । यज्वभिः विधिवदिष्टवद्भिः । यज्वा तु विधिनेष्टवान् इत्यमरः । सुयजोङुनिप् इति इनिष्प्रत्ययः । विततेषु अध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविः मायी मायावी । व्रीह्मादित्वादिनिप्रत्ययः । स तारकः नः । अस्माकं मिषतां पश्यताम् । पश्यत्सु सत्स्वित्यर्थः । षष्ठी चानादरे इति षष्ठी। जातवेदा वह्निरेव मुखं तस्मात् जातवेदोमुखात् आच्छिनत्ति । आक्षिप्य गृह्णातीत्यर्थः॥
उच्चैरुचैःश्रवास्तेन हयरत्नमहारि च ।
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥ ४७ ॥
उच्चैरिति ॥ किं च इति चार्थः । तेन तारकेण उच्चैः उन्नतः उच्चैःश्रवाः नाम । इयो रत्नमित्र हयरत्नम् अवश्रेष्टः । रत्नं श्रेष्ठे मणावपि इति विश्वः । अस्य शुत्रत्वादुत्प्रेक्षते - देहबद्धं बज्रदेहम् । मूर्तिमदित्यर्थः ॥ आहिताम्यादित्वानिष्ठायाः परनिपातः । चिरकालार्जितम् इन्द्रस्य यशः इव अहारि अपहृतम् ॥ तर्हि सामायुपायास्तत्र कथं न प्रयुक्ता इत्याह–
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः । वीर्यवन्त्योषधानीव विकारे सान्निपातिके ॥ ४८ ॥ तस्मिन्निति । क्रूरे धातुके । नृशंसो घातुकः क्रूरः इत्यमरः । तस्मिन असुरे नः अस्माकं सर्वे उपायाः सन्निपातदोषत्रयस्य प्रकोपजे सान्निपातिके विकारे ज्वरादौ ॥ सन्निपाताच इति वक्तव्याहक || वीर्यवन्ति सारववन्ति औषधानि इव प्रतिहतक्रियाः विफलप्रयोगा भवन्ति ॥
तदेव प्रतिहतक्रियत्वमाह -
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा |
हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ॥ ४९ ॥ जयाशेति ॥ [च] किं च इति चार्थः । नूनमनेन हरिचक्रेण वयं जेष्याम इति यत्र हरिचक्रे अस्माकं जयाशा विजयाशंसा। आसीदिति शेषः । [ प्रतिघातोस्थितार्चिषा ] प्रतिघातेन प्रतिहत्योत्थिताविषोद्गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेन अस्य तारकस्य कण्ठे निष्कम् उरोभूषणम् अर्पितमिव
१ पिमताम् २ निष्कः ३ अर्पितः,
४०
कुमारसंभवे
इत्युत्प्रेक्षा । स्वयमेव निष्कमिव स्थितमित्यर्थः । तारकशिरच्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः ॥ साष्टे शते सुवर्णानां हेयुरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री इत्यमरः ॥
तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
अभ्यस्यन्ति तदाघातं निर्जितैरावता गजाः ॥ ५० ॥ तदीयेति ॥ अद्य संप्रति [ निर्जितैरावता: ] निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीयाः गजाः पुष्करावर्तकादिषु पुष्कराधावर्तश्च नाम आदयो येषां तेषु तोयदषु मेघेषु तदाघातं वप्रक्रीडाम् अभ्यस्यन्ति ||
तदिच्छामो विभो स्रष्टुं सेनान्यं तस्य शान्तये ।
कर्मवन्धच्छिदं धर्म भवस्येव मुमुक्षवः ।। ५१ ।।
तदिति ॥ तत् तस्मात्कारणात् । हे विभो स्वामिन् । मोक्तुं भवं त्यक्तुभिच्छवः मुमुक्षवः विरक्ताः भवस्य संसारस्य शान्तये निवृत्तये [ कर्मबन्धच्छिदं ] कर्मैव बन्धस्तं छिनत्तीति कर्मबन्धच्छितं धर्मम् इव । आत्मज्ञानहेतुभूतमिति शेषः । तमेव विदित्वातिमृत्युमेति इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीचमूपतिः । सत्सुद्विष -इत्यादिना किप् ॥ तं सेनान्यं कंचित् स्त्रष्टुम् इच्छामः ॥ वयमिति शेषः ॥
सेनानीसृष्टेः फलमाद–
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् ॥ ५२ ॥ गोप्तारमिति ॥ सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय ॥ पुरोऽव्ययम् इति गतित्वात् नमस्पुरसोर्गयोः इति सकारः ॥ गां पृथ्वीं त्रायन्त इति गोत्रास्तान्नित्तीति गोत्रभित् इन्द्रः जयश्रियं बन्दामिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात प्रत्यानेष्यति प्रत्याहरिष्यति । तं स्रष्टुमिति पूर्ण संबन्धः ॥
वचस्यवसिते तस्मिन्समर्ज गिरमात्मभूः ।
गर्जितानन्त दृष्टिं सौभाग्येन जिगाय सां ॥ ५३ ॥
मी ॥ तस्मिन् वार्हस्पत्ये वचसि अवसिते परिसमाप्ते सति आत्मभूः ब्रह्मा गिरं वाचं ससर्ज जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन ॥ हृद्भगवन्त पूर्वपदस्य च इत्युभयपदवृद्धिः । [ गर्जितानन्तरां ] गर्जिताद्दर्जि-
१ तटाघातान् २ सृष्टं. ३ उपरते. ४ तस्याय.
द्वितीयः सर्गः ।
४१
तस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वा दृष्टेरिव तद्विज्ञापन फलत्वाद्विरः सुभगत्वमिति भावः ॥
संपत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम् ।
न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥ ५४ ॥ संपत्स्यत इति । अयं वः युष्माकं कामः मनोरथः सेनानीरूपः संपत्स्यते सेत्स्यति । कश्चित् कियानपि कालः प्रतीक्ष्यताम् । तु किंतु अस्य सेनान्यः सिद्धौ विषये आत्मना स्वयं [ सर्गव्यापारं ] सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि । नाहं वक्ष्यामीत्यर्थः ॥
कुत इत्याशङ्कयाह–
इतः स दैत्यः प्राप्तश्रीनेत एवाईति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥ ५५ ॥
इत इति ॥ इतः मत्त एव प्राप्तश्रीः लब्धोदयः स दैत्यः तारकासुरः इतः मत्त एव क्षयं नाशं न अर्हति । तथाहि भन्यो, वृक्षस्तावदास्ताम् । विषस्य वृक्षो विषवृक्षः अपि संवर्ध्य कुतश्चित्कारणात्सम्यग्वर्धयित्वा स्वयं छेत्तुमसांप्रतम् अनर्हः । असांप्रतमित्यनेन निपातेनाभिहितत्वाद्वृक्ष इति द्वितीयान्तो न भवति अनभिहिते कर्मणि द्वितीयाभिधानात् । यथाह वामनः -निपातेनाप्यभिहिते कर्मणि न कर्म विभक्तिः । परिगणनस्य प्रायिकत्वात् इति ॥
वृतं तेनेदमेव प्रां मया चास्मै प्रतिश्रुतम् ।
वरेण शमितं लोकानलं दग्धुं हि तत्तपः ।। ५६ ॥
घृतमिति ॥ प्राक् पूर्व तेन असुरेण इदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया च अस्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् ॥ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता इति संप्रदानत्वाचतुर्थी ॥ कर्तव्यं चैतदित्याह -लोकान्दग्धुम् अलं शतम् । पर्याप्तिवचनेष्वलमर्थेषु इति तुमुन्प्रत्ययः ॥ तस्य तपः तत्तपः वरेण वरदानेन शमितं हि । मयेति शेषः ॥
संयुगे सांयुगीनं तमुद्यन्तं प्रसदेत कः ।
अंशहते निषिक्तस्य नीललोहितरेतसः || ५७ ॥
संयुग इति ॥ संयुगे युद्धे उद्यन्तं व्याप्रियमाणम् । संयुगे साधुं सांयुगीमम् । प्रतिजन दिभ्यः खम् इतिखञ्प्रत्ययः ॥ तं तारक निपिक्तस्य कचक्षेत्रे क्षरितस्य । [ नीललोहितरेतसः ] नीलः कण्ठे लोहितश्च केशोष्विति नीललोहित इति पुराणम् । इति स्वामी ॥ तस्य नीललोहितस्य धूर्जटे रेतसः
१ सिद्धये २ वृत. ३ अहम् भादौ ४ अशमितम् ५ उद्यतम्.
४२
कुमारसंभव
शुक्रस्य अंशाद ऋते अंशविना अन्यः कः प्रसहेत अभिभवेत् ॥ प्रसहनमभिभवे इति वृत्तिकारः ॥
कथमसावीदृक्शक्तिरित्याह—
स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
परिच्छिन्नप्रभावर्धिर्न मया न च विष्णुना ।। ५८ ।।
स इति ॥ स देवः नीललोहितः [ तमःपारे ] तमसः पारे परतो व्यव स्थितं तमोगुणातीतं परं ज्योतिः परमात्मा हि । अतएव मया परिच्छिarcraft: अवगाढमहिमातिशयः न भवति तथा विष्णुना च न । अतस्तस्यासाभ्यं नास्तीत्यर्थः ॥
संप्रति तदंशोत्पत्तावुपायं दर्शयति—-
उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ।। ५९ ।।
उमेति ॥ ते कार्यार्थिनः यूयं संयमस्तिमितं समाधिनिश्रलं शंभो: मनः उमारूपेण उमासौन्दर्येण । रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । प्रन्थावृत्तौ नाटकादायाकारश्लोकयोरपि । इति विश्वः ॥ अयस्कान्तेन मणिविशेषेण । कस्कादिषु च इति सकारः । लोहवत् भयोधातुमिव । तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययो मृग्यः । आक्रटुम् आहर्तु यतध्वम् उद्युक्ता भवत ॥ उभे एव क्षमे वोदुभयोबींजमाहितम् ।
सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम || ६० ॥
उभे इति ॥ उभयोः शंभोर्मम च आहितं निषिक्तं बीजं तेजो वोढुं सा बा उमा शंभोः अष्टमूर्तेः तस्य इयं तदीया जलमयी मूर्तिः वा मम । उमे एव क्षमे । न तृतीयेत्यर्थः ॥ वाशब्दो द्वन्द्वार्थे, न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने || अत्र दीपकालंकारः प्राकरणिकयोरुमा महेश्वरयोरप्राकरणिकयोब जलमूर्त्यो चौपम्यस्य गम्यत्वात् । यथाह भोजराजः –प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम् इति ॥ न चेयं तुल्ययोगिता तस्याः केवलप्रस्तुत विषयत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति ॥
तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः ।
मोक्ष्यते सुरबन्दीनां वेणीवर्यविभूतिभिः ॥ ६१ ॥ तस्येति ॥ तस्य शितिकण्ठस्य अष्टमूर्तेः आत्मा । पुत्र इत्यर्थः ॥ आत्मा वै पुत्रनामासि इति श्रुतेः ॥ वः युष्माकं सेनापतेर्भावः सैनापत्यम् ॥ पत्यन्त-
१ प्रतिडितम् २ सोम. ३ सेनापत्यम् ५ बणिबन्धानदूषितान्.
द्वितीयः सर्गः ।
2/
४३
पुरोहितादिभ्यो यक् इति यक्प्रत्ययः ॥ उपेत्य प्राप्य वीर्यविभूतिभिः शौर्य संपत्तिभिः सुरबन्दीनां वेणी: मोक्ष्यते विस्रंसयिष्यति ॥ तारकासुरं हनिष्यतीति भावः ॥
इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे । मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः ॥ ६२ ॥
इतीति ॥ [ विश्वयोनिः ] विश्वस्य योनिः कारणम् ॥ योनिः स्त्रीणां भगस्थाने कारणे ताम्रिके पणे । इति वैजयन्ती । विबुधान सुरानू इति व्याहृत्य अभिधाय तिरोदधे अन्तर्हितवान् । ते देवाः अपि मनसि [ आहितकर्तव्याः ] आहितं कर्तव्यं यैस्ते तथोक्ताः सन्तः दिवं स्वर्ग आययुः प्रापुः ॥
तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः ।
मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा ।। ६३ ।।
||
}
सत्रेति ॥ [ पाकशासनः ] पाको नाम कश्चिदसुरस्तस्य शासन इन्द्रः तत्र हरचित्ताकर्षणकृत्ये कन्दर्पं निश्चित्य साधकत्वेनेति शेषः || कार्यसंसिद्धौ [ त्वराद्विगुणरंहसा ] त्वरयौत्सुक्येन द्वौ गुणौ यस्य तद्विगुणं द्विरावृत्तं रहो वेगो यस्य तेन तथोक्तेन । गुणस्तु वृत्तिशब्दादिज्योन्द्रियामुख्यतन्तषु । इति वैजयन्ती ॥ मनसा अगमत् । सहमारेत्यर्थः । गमेर्लुङ् । लदित्वाच्चलेरङादेशः || अथ से ललितयोषिद्भ्रूलताचा रुनं
रतिवळयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरात्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ।। ६४ ।।
अथेति ॥ अथ स्मरणानन्तरम् । स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । वा संज्ञायाम् इत्यनङ् ॥ [ ललितयोषिद्धलताचारुश्रृङ्गं ] ललितं त्रिषु सुन्दरम् इत्यमरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लत इव चारुणी श्रृझे कोटी यस्य तत्तथोक्तं चापम् । [ रतिवलयपदाङ्के ] रतिः स्मरप्रिया । रतिः स्मरप्रिया इत्यमरः । तस्या वलयपदानि कङ्कणस्थानान्यङ्कविह यस्य तथोके कण्ठे आसज्य लगयित्वा ॥ चापकण्ठविशेषणाभ्यां श्रृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य श्रृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते । [ सहचरमधुहस्तन्यस्त
१ कर्म - कार्य-संसिद्धि; कार्यसंसिद्धये. २ सुललित ३ शार्ङ्गम्. ४ आसाद्यः ५ ष्पकेतुः
४४
कुमारसंभवे
चूताङ्कुरास्त्रः ] सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चताङ्कुरमेवात्रं यस्य स तथोक्तः । प्राञ्जलिः सन् । शतमखम् इन्द्र उपतस्थे सङ्गतवान् ॥ सङ्गतिकरणार्थादात्मनेपदम् ॥ अत्र स्वभावोक्तिः स्वभावोक्तिरसौ चारुयथावद्वस्तुवर्णनम् । इति ॥ मालिनीवृत्तमेतत्-ननमयययुतेयं मालिनी भोगिलोकैः । इति तलक्षणात् ॥
इति श्रीमन्महामहोपाध्याय कोलाचल महिनाथसूरिविरचितया संजीवनीसमाक्ष्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये ब्रह्मसाक्षात्कारो ( ब्रह्मनिगमनो ) नाम द्वितीयः सर्गः ।
तृतीयः सर्गः ।
तस्मिन् मघोनस्त्रिदशान्विहाय
सहस्रमणां युगपत्पपात । प्रयोजनापेक्षितया प्रभूणां
प्रायश्चलं गौरवमाश्रितेषु ॥ १ ॥
तस्मिन्निति ॥ मघोनः इन्द्रस्य अक्ष्णां सहस्रं त्रिरावृत्ता दश परिमाणमेषामिति त्रिदशान् देवान् । संख्ययाव्ययासम्भादूराधिकसंख्याः संख्येये इति बहुव्रीहिः । बहुव्रीहौ संख्येयेइति इच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्त्वा तस्मिन् कामे युगपत् पपात । सहस्रेणाक्षिभिरद्राक्षीदित्यादरातिशयोक्तिः । ननु सुचिरपरिचितानेकसुरपरित्यागेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्कयार्थान्तरं न्यस्यति - प्रायः भूम्ना प्रभूणाम् आश्रितेषु सेवकेषु विषये गौरवम् आदरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः ॥ स वासवेनासनसन्निकृष्टमितो निषीदेति विसृष्टभूमिः । भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तं मिथः प्राक्रमतैवमेनम् || २ ||
स इति ॥ स कामो वासवेन इन्द्रेण असनस्य सिंहानस्य सन्निकृष्टं सन्निहितम् आसन सन्निकृष्टं यथा तथा ॥ शेषषष्ट्यायं समासः कृद्योगलक्षणया तु न । न लोकाव्ययनिष्ठा खलर्थ तृनाम् इति षष्ठीनिषेधात् ॥ इतः निषीय इहोपविश इति विसृष्टभूमिः दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादम् अनुग्रहं मूर्ध्ना
१ निसृष्ट. २ प्रतिबन्ध.
तृतीयः सर्गः ।
४५
प्रतिनन्द्य संभाव्य मिथः रहसि ॥ मिथोऽन्योन्यं रहस्यपि । इत्यमरः ॥ एनम् इन्द्रम् एवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमत उपक्रान्तवान् ॥ प्रोपाभ्यां समर्थाभ्याम् इत्यात्मनेपदम् ॥
आज्ञापय ज्ञातविशेषपुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संबंधितमाज्ञया ते ॥ ३ ॥
आज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार । ज्ञातपुंविशेषेस्यर्थः । सापेdsपि गमकत्वात्समासः || आज्ञापय । तदिति शेषः । उत्तरवाक्ये यच्छन्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोग निर्वन्धः ॥ किं तदित्याह - लोकेषु ते तव यत्करणीयं कर्तव्यम् अस्ति । संस्मरणेन प्रवृत्तं उत्पन्नं ते तव अनुग्रहं प्रसादम् आज्ञया नियोगेन संवर्धितं वृद्धं गमितम् इच्छामि । संस्मरणकृतमनुग्रई केनचिन्नियोगेन वर्धय । कचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः ॥ तुमुन्नन्तपाठे जिर्थे यत्नः कार्यः ॥
न च मे किंचिदसाध्यमस्तीत्याह-
केनाभ्यसूया पैदकाङ्गिणा ते
नितान्तदीधैर्जनिता तपोभिः । यावद्भवत्याहितसायकस्य
मत्कार्मुकस्यास्य निदेशवर्ती ॥ ४ ॥
केनेति ॥ पदकाङ्क्षिणा स्वराज्यकामेन केन पुंसा नितान्तदीधैः अतिप्रभूतैः तपोभिः ते तव अभ्यसूया ईर्ष्या जनिता । ब्रूहीति शेषः । किमर्थम् । यावत् यतः स भवद्वैरी आहितसायकस्य संहितवाणस्य अस्य मत्का मुकस्य निदेशे वर्तत इति निदेशवर्ती आज्ञावशः भवति । अविलम्बेनैव भविष्यतीत्यर्थः । वर्तमानसामीप्ये वर्तमानवद्वा इति लट् ॥
संप्रति चतुर्वर्गे मोक्षमधिकृत्याह-
असंमतः कस्तव मुक्तिमार्ग
पुनर्भवक्लेशभयात्प्रपन्नः । बद्धश्विरं तिष्ठतु सुन्दरीणा-
मारेचितभ्रूचतुरैः कटाक्षैः ॥ ५ ॥
असंमत इति ॥ तव असंमतः कः पुनरुत्पत्तिः । संसार इति यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयात् मुक्तिमार्गे प्रपन्नः तं वद । यतः सोऽपि [ आरेचितभ्रूतुरैः ] आरेचिताभिरेकैकशो विवर्तिताभिर्ब्रभिश्चतुरैः सुन्द-
१ संवर्धितुम्. २ फल, ३ तावत्. ४ आरोपित ५ विलासैः.
४६
कुमारसंभवे
रीणां कटाक्षैः बद्धः चिरं तिष्ठतु । आरेचितलक्षणं तु स्याद्भुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याकुटिं विदुः ॥ इति ॥
धर्मार्थावधिकृत्याह—
अध्यापितस्योशनसापि नीति प्रयुक्तरागर्मणिधिर्द्विषस्ते ।
कस्यार्थों वद पीडयामि
सिन्धोस्तटादोघ इव प्रवृद्धः ॥ ६ ॥
अध्यापितस्येति ॥ उशनसा शुक्रेण नीति नीतिशास्त्रम् अध्यापितस्य अपि । अपिशब्दाच्छुक्रशिष्याणामप्रवृष्यत्वं गम्यते । गतिबुद्धि-इत्यादिना द्विकमैकादिधातोर्ण्यन्तात्प्रधानेकर्मणि तः । अप्रवाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः इतिवचनात् । ते द्विषः तत्र शत्रोः कस्य अर्थधर्मौ [ प्रत्युक्तरागप्रणिधिः ] प्रयुक्तः प्रहितो रागों विषयाभिलाष एवं प्रणिधितो येन सोऽहम् । प्रणिधिः प्रार्थनं चरे इति यादवः । प्रवृद्धः ओधः प्रवाहः सिन्धोः नयाः तटौ इव पीडयामि वद ||
काममधिकृत्याह—
कामेकपत्नीव्रतदुःखशीलां
लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां
कण्ठे स्वयंग्राहनिपक्तवाहुम् ॥ ७ ॥
1
कामिति ॥ [ एकपत्नीव्रतदुःखशीलां ] एकः पतिर्यस्याः सैकपत्नी पतिव्रता । नित्यं सपत्न्यादिषु इति ङीप् । तस्य व्रतं पातिव्रत्यं तेन दुःखशीलां दुःखस्वभावाम् । दृढव्रतामित्यर्थः । शीलं स्वभावे सद्वृत्ते इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लीलं मनः त्वचित्तं प्रविष्टां कां नितम्बिनीं नारी मुक्तलज्जां सती कण्टे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंप्राहा । विभाषा ग्रहः इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमो जलचरे प्राह एवेति नियमादिति । स्वयंग्राहा च सा निषकबाहुश्च तां तथाभूताम् इच्छसि । त्वदर्थे पतिव्रतामपि ताद्भ्रंशंयिष्यामीत्यर्थः । एतचेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः - अहल्यायै जारः इति ॥
त्रिविधा नायिका | स्वकीया परकीया साधारणी चेति । तत्र परकीय प्रत्युतम् । इतरे प्रत्याह—
१ प्रणिधे:.तृतीयः सर्गः ।
कयासि कामिन्सुरतापराधा-
त्पादानतः कोपनयावधूतः । तस्याः करिष्यामि दृढानुतापं
प्रवालशय्याशरणं शरीरम् ॥ ८ ॥
3
*येति ॥ हे कामिन कामुक सुरतापराधात् । अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रिया अवधूतः ति रस्कृतः असि । तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव वालश-
व्याशरणं करिष्यामि इति ॥
प्रसीद विश्राम्यतु वीर वज्रं
शरैर्मदीयैः कतमः सुरारिः ।
विभेतु मोधीकृतवाहुवीर्यः
स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥ ९ ॥
प्रसीदेति ॥ हे वीर प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु । उदारतामित्यर्थः । मदीयैः शरैः मोघीकृतबाहुवीर्यः विफली कृतभुजशक्तिः कतमः दैत्यदानवादिषु यः कश्चन सुरारिः ॥ वा बहूनां जातिपरिप्रश्ने उतमच इति डचमच्प्रत्ययः ॥ [ कोपस्फुरिताधराभ्यः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योsपि विभेतु । किमु वक्तव्यं पुम्भ्य इत्यर्थः । सकृद्धीतः सर्वतो विमेतीति भावः । भीत्रार्थानां भयहेतुः इत्यपादानत्वात्पश्चमी ॥
तव प्रसादात्कुसुमायुधोऽपि
सहायमेकं मधुमेव लब्ध्वा | कुर्या हरस्यापि पिनाकपाणे-
धैर्यच्युतिं के मम धन्विनोऽन्ये ॥ १० ॥
तवेति ॥ किं बहुना तव प्रसादात् अनुग्रहात् कुसुमायुधोऽपि अतिdorasहम् एकं मधुं वसन्तम् एव सहायं लब्ध्वा [ पिनाकपाणेः ] पिनाकः पाणो यस्य स पिनाकपाणिः । प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ । तम्य हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानि कुर्याम् । कर्तुं शक्नुयामित्यर्थः । शकि लिङ्ग च इति शक्यार्थे लिङ् || अन्ये धन्विनः धनुर्भूतः मम के । न केऽपि इत्यर्थः । किं शब्दः कुत्सायाम् । कुत्साप्रश्रवितर्केषु क्षेपे किंशब्दः इष्यते इति शाश्वतः ॥
१ सदसापराधः .
कुमारसंभवे
अथोरुदेशादवतार्य पाद-
माक्रान्ति संभावितपादपीठम् । संकल्पितार्थे विवृतात्मशक्ति-
माखण्डलः काममिदं बभाषे ॥ ११ ॥
अथेति ॥ अथ स्मरवाक्यश्रवणानन्तरम् आखण्डलः सहस्राक्षः ऊरुदेशात् पादम् [आकान्तिसंभावितपादपीठम् ] आक्रान्त्याक्रमणेन संभावितं पादपीठं यस्मिंस्तद्यथा तथा अवतार्य सङ्कल्पितार्थे हरचित्ताकर्षणरूपे विषये विवृतात्मशक्तिम् ’ कुर्या हरस्यापि ’ -इत्यादिना प्रकटीकृतस्वसामर्थ्य कामं स्मरम् इदं वक्ष्यमाणं बभाषे ॥
सर्व सखे त्वय्युपपन्नमेत-
दुभे ममास्त्रे कुलिशं भवांश्च ।
वज्रं तपोवीर्यमद्दत्सु कुण्ठं
त्वं सर्वतोगामि च साधकं च ॥ १२ ॥
सर्वमिति ॥ हे सखे । सखे इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वयि उपपनं सिद्धम् । मम कुलिशं वज्रं भवांश्श्रोभ अस्त्रं । तत्र वज्रं [ तपोवीर्यमहत्सु ] तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुटं प्रतिबद्धप्रसरम् | त्वम् अनं सर्वतोगामि च साधकं च । तापसेष्वप्य कुण्ठमित्यर्थः ॥
अवैमि ते सारमतः खलु त्वां
कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
व्यादिश्यते भूधरतामवेक्ष्य
कृष्णेन देहोद्वहनाय शेषः ॥ १३ ॥
अवैमीति ॥ हे सखे ते सारं बलम् अवैमि वेद्मि । अतः खलु अतएव आत्मसमं मतुल्यं त्वां गुरुणि महति कार्ये’तस्मै हिमाद्रेः ’ - ( ३।१६ ) इति वक्ष्यमाणे नियोक्ष्ये । स्वराद्यन्तोपसर्गादिति वक्तव्यम् इति वार्तिकादात्मनेपदनियमः । तथाहि । सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याहकृष्णेन विष्णुना धरतीति धरः । पचाद्यच् । भुवो घरो भूधरस्तस्य
भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा शेषः
भावस्ततां भूधरताम् । सर्पराजो देहोद्वहनाय
स्वदेहमुद्बोढुम् । ‘क्रियार्थोपपदस्य’ - इत्यादिना चतुर्थी । व्यादिश्यते नियुज्यते । शेषशायी हि भगवान् ॥
१ अक्रान्ति.
२ सङ्कल्पितेऽर्थे.
तृतीयः सर्गः ।
नियोगाङ्गीकारं सिद्धवत्कर्तुमाह–
आशंसता वाणगतिं वृषाङ्के
कार्य त्वया नः प्रतिपन्नकल्पम् । निबोध यज्ञांश भुजामिदानी
मुचैर्द्विपामीप्सितमेतदेव ॥ १४ ॥
४९
आशंसेति ॥ वृषाङ्के हरे बाणगतिं बाणप्रसरम् आशंसता कथयता । कुर्या हरस्यापि पिनाकपाणे: ( ३।१० ) इत्यादिनेति शेषः । त्वया नः अस्माकं कार्य प्रतिपन्नकल्पम् अङ्गीकृतप्रायम् । ‘ईषदसमाप्तौ ’ - इत्यादिना कल्पप्प्रत्ययः । कथमेतदत आह— इदानीं उचैः उन्नता द्विषो येषां तेषाम् उचैर्द्विषां यज्ञांशभुजां देवानाम् । एतेन द्विषलुप्तयज्ञभागत्वं सूच्यते । ईप्सितम् आप्तुमिष्टम् एतदेव हरेः वाणप्रयोगरूपमेव निबोध | हरायत्तं बुध्यस्वेत्यर्थः । वुधबोधने इति धातोर्लोट । अत्र आशंसता प्रार्थयमानेन इति नाथव्याख्यान मनाथव्याख्यानम् । आपूर्वयोः शास्तिर्शसत्यरिच्छार्थत्वे आत्मनेपदनियमात् । याञ्जार्थत्वस्याप्रामाणिकत्वात ‘कुर्या हरस्यापि ’ -( ३11० ) इत्यन्त्रानयोरभावादयोगाच्चेति ॥
कि तत्कार्य कथं वा तस्य हरायत्तत्वं कुतो वा मदपेक्षेत्यत्रा—
अमी हि वीर्यप्रभवं भवस्य
जयाय सेनान्यमुशन्ति देवाः ।
स च त्वदेकेपुनिपातसाध्यो
ब्रह्माङ्गभ्रूर्ब्रह्मणि योजितात्मा ॥ १५ ॥
अमी इति ॥ हि यस्मात् अमी देवाः जयाय शत्रुजयार्थे भवस्य हरस्य वीर्यप्रभवं तेजः संभूतं सेनान्यं सनापतिम् उशन्ति कामयन्ते । वश कान्तौ इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः । कृतमन्त्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे । वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः । मन्त्रन्यासपूर्वकं ब्रह्म ध्यायन्नित्यर्थः । स भवः च [ त्वदे केषुनिपातसाध्यः ] त्वदेके पोस्तवैकबाणस्य निपातेन साध्यः । अनन्यसाध्योऽयमस्मिन्नवसर इति भावः ॥
तस्मै हिमाद्रेः प्रयतां तनूजां
यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः
१ अर्थमत्र.
सैव क्षमेत्यत्मावापदिष्टम् ॥ १६ ॥
२ ब्रह्मनियोजितात्मा. ३ जितात्मने,
५०
कुमारसंभवे
तस्मा इति ॥ यतात्मने नियतचित्ताय तस्मै भवाय । रुच्यर्थानां प्रीयमाणः इति संप्रदानत्वाच्चतुर्थी । प्रयतां हिमाद्रेस्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याहयोषित्सु स्त्रीषु मध्ये । यतश्च निर्धारणम् इति सप्तमी । क्षमा शक्ता [ तद्वीर्यनिषेकभूमिः ] तस्य हरस्य वीर्य रेतः तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वती एव इति आत्मभुवा ब्रह्मणा उपदिष्टम् । उभे एव क्षमे वोदुम ( २।६० ) इत्यादिनोक्तमित्यर्थः ॥
सापीदानीं सन्निकृष्टैव तस्येत्याह —–
गुरोर्नियोगाच्च नगेन्द्रकन्या
स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वस्ति इत्यप्सरसां मुखेभ्यः
श्रुतं मया मत्प्रणिधिः स वर्गः ॥ १७ ॥
गुरोरिति ॥ नगेन्द्रकन्या पार्वती च गुरोः पितुः नियोगात् शासनात् अधित्यकायां हिमाद्रेरूर्वभूमौ । भूमिरूपर्वमधित्यका इत्यमरः । उपाधिभ्यां व्यकन्नासनारूढयोः इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् । कर्मणो रोमन्थतपोभ्यां वर्तिचरोः इति क्यइप्रत्ययः । ततः शतृप्रत्ययः ॥ स्थाणुं रुद्रम् अन्वास्ते उपास्त इत्यर्थः । इति इदं मया अप्परसां मुखेभ्यः श्रुतम् । न चैतदेतिमात्रमित्याह - स वर्गः सोऽप्सरसां गणः मत्प्रणिधिः मम गूढन्चरः । प्रणिधिः प्रार्थने चरे इति यादवः ॥
गच्छ सिद्धये कुरु देवकार्य-
मर्थोऽयमर्थान्तरभाव्य एव ।
अपेक्षते प्रत्ययमुत्तमं त्वां
बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ १८ ॥
तदिति ॥ तत् तस्मात् सिद्धचै कार्यसिध्यर्थं गच्छ । देवकार्यं कुरु । आशिषि लोट् ॥ अयमर्थः प्रयोजनम् अर्थान्तरभाव्यः कारणान्तरसाध्यः एव । तच कारणान्तरं पार्वतीसन्निधानमिति भावः । अर्थ : प्रकार विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ॥ इति विश्वः ॥ तथापि बीजसाध्यअङ्कुरः बीजाङ्कुरः उदयात् उत्पत्तेः प्राक् अम्भः इव त्वाम् उत्तमं प्रत्ययं परमं कारणम् अपेक्षते ॥ प्रत्ययो ऽधीनशपथज्ञानविश्वास हेतुषु । इत्यमरः । तस्मादस्मिन्नर्थ तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः ॥
तस्मिन्सुराणां विजयाभ्युपाये
१ अध्यास्ते.
तवैव नामास्त्र गतिः कृती त्वम् ।
२ प्रत्ययसङ्ग लब्धौ ३ अस्मिन्. ४ काम.
तृतीयः सर्गः ।
अप्यप्रसिद्धं यशसे हि पुंसा-
मनन्यसाधारणमेव कर्म ॥ १९ ॥
५१
तस्मिन्निति । सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन् हरे अस्त्रगतिः अस्त्रप्रसरः तवैव नाम ॥ नामेति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतः स्त्वं कृती कृतमस्यास्ताति कृती कृतार्थः । तथाहि : अप्रसिद्धम् अपि अनन्यसाधारणमेव कर्म पुंसां यशसे हि ! इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः ॥
प्रोत्साहनार्थं स्तौति—
सुराः समम्यर्थयितार एते
कार्य त्रयाणामपि विष्टपानाम् ।
चापेन ते कर्म न चातिहिंस्र-
महो वतासि स्पृहणीयवीर्यः ॥ २० ॥
सुरा इति । एते सुराः समभ्यर्थयितारः याचितारः । कार्य प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि | सर्वलोकार्थमित्यर्थः । कर्म ते तव चापेन । न त्वन्येनेति भावः । अतिहिंस्रम् अतिघातुकं च न | अहो बत इति संबोधने || अहो वतानुकम्पायां खेदे संबोधनेऽपि च । इति विश्वः ॥ अथवा अहो आश्चर्ये । वतेत्यामन्त्रणे सन्तोषे च इति । यतामन्त्रणसन्तोष खेदानुक्रोशविस्मये इति विश्वः । स्पृहणीयवीर्यः असि आश्चर्यविक्रमोऽसि ॥ आश्रय स्पृहणीयं च इति । नानार्थकोशः ॥
मधुश्च ते मन्मथ साहचर्या-
दसावनुक्तोऽपि सहाय एव । समीरणो नोदयिता भवेति
व्यादिश्यते केन हुताशनस्य ॥ २१ ॥
मधुरिति । हे मन्मथ । असौ मधुश्च वसन्तोऽपि ते साहचर्यात् सहचरत्वात् एव अनुक्तोऽपि अप्रेरितोऽपि सहायः सहकारी एव । तथाहि । समीरणः वायुः हुताशनस्य अमेः नोदयिता प्रेरकः भवेति केन व्यादिश्यते ॥ अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथग्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम् । तदुक्तम्यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता इति ॥
१ समीरणश्चोदयिता, समीरण मेरे पिता-
५२
कुमारसंभवे
तथेति शेषामित्र भर्तुराज्ञा-
मादाय मूर्ध्ना मदनः प्रतस्थे । ऐरावतास्फालनकर्कशेन
हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ २२ ॥
तथेति ॥ तथा अस्तु इति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता । इति विश्वः || माल्याक्षतादिदाने स्त्री शेषा इति वैजयन्ती केशवौ । आज्ञां मूर्ध्ना आदाय शिरसा गृहीत्वा मदनः प्रतस्थे । समवप्रविभ्यस्थः इत्यात्मनेपदम् । इन्द्रः [ ऐरावतास्फालनकर्कशेन ] ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्कं मदनदेहं पस्पर्श । हस्तस्पर्शेन संभावयामासेत्यर्थः । शेषामिवाज्ञाम् इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः सन्देहसङ्कर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाहामिवेत्युपमा । अथ न दत्ता तर्हि शेषात्वेनोत्प्रेक्षिता । शेषादानं तु सन्दिग्धमिति ॥
स माधवेनाभिमतेन सख्या
रत्या च साशङ्कमनुप्रयातः । अङ्गव्ययमार्थितकार्यसिद्धिः
स्थाण्वाश्रमं हैमवतं जगाम ।। २३ ।।
स इति ॥ स मदनः अभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेष्या च साशङ्कं सङ्कटमापतितमिति सभयम् अनुप्रयातः सन् । तथा [ अव्ययप्रार्थितकार्यसिद्धिः ] अङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्धियैन
तथोक्तः । शीर्त्वा मृत्वापि सर्वथा देवकार्य सावयिष्यामीति कृतनिश्चयः सन्नि स्वर्थः । हैमवतं हिमवति भवं [ स्थाण्वाश्रमं ] स्थाणो स्वस्याश्रमं जगाम ॥
तस्मिन्वने संयमिनां मुनीनां
तपःसमाधेः प्रतिकूलवर्ती ।
सङ्कल्पयो नेरभिमानभूत-
मात्मानमाधाय मधुर्जजृम्भे ॥ २४ ॥
तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमता मुनीनां [ तपःसमाधेः ] तपसः समाधेरेकाप्रतायाः प्रतिकूलं वर्तत इति प्रतिकूलवर्ती विरोधी मधुः वसन्तः संकल्पयोनेः मनोभवस्य अभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजस्वरूपम् आधाय सभि - वाय जजृम्भे प्रादुर्बभूव । वसन्तधर्मान् प्रवर्तयामासेत्यर्थः ॥
१ दिग्बारणा २ कर्मसिद्धिः,
वसन्तधर्मानाह-
तृतीयः सर्गः ।
कुवेरगुप्तां दिशमुष्णरश्मौ
गन्तुं प्रवृत्ते समयं विलङ्घय | दिग्दक्षिणा गन्धवहं मुखेन
व्यलीकनिःश्वासमिवोत्ससर्ज ॥ २५ ॥
५३
कुबेरेति ॥ उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं सङ्गमकालं च विलङ्घन्य अकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च दिशम् उदीचीं स्त्रीलिङ्गाक्षिप्ता कांचिन्नायिका च गन्तुं चलितुं सङ्गन्तुं च प्रवृत्ते सति दक्षिणा दिक दाक्षिण्यवती नायिका च मुखेन अग्रभागेन वक्त्रेण च । वदतीति वहः | पचाद्यच् । गन्धस्य वहं गन्धवहम् अनिल व्यलीकेन दुःखेन निःश्वासस्तं व्यलीकनिश्वासमिव । दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः । इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोलङ्घनेन पराङ्गनासङ्गति प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ता इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषणसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्टते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । न च श्लेष एव प्रकृताप्रकृतवि - षयः उभयश्लेषे विष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिःश्वासरूपचेतनधर्मसंभावनार्थे दक्षिणस्या दिशो नायिकया सहाभेदमासादयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षा निर्वहतीति वाच्यसिद्धयङ्गभूत इत्युत्पश्यामः ॥
असूत सद्यः कुसुमान्यशोकः
स्कन्धात्मभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां
संपर्कमासिञ्जितनूपुरेण ॥ २६ ॥
असूतेति ॥ अशोकः वृक्षविशेषः सद्यः स्कन्धात् प्रकाण्डात् प्रभृत्येव । स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयदः । भाष्यं च मूलात्प्रभृत्यप्राद्वक्षांस्तक्ष्णुवन्ति इति । कार्तिक्याः प्रभृत्याग्रहायणी मासे । इत्यादि । सपल्लवानि कुसुमानि असूत । उभयमप्यजीजनादित्यर्थः । [आसिञ्जितानुपुरेण] आसिजितो नुपुरो यस्य तेन । सिधातोरकर्मकात् गत्यर्थाकर्मक-इत्यादिना कर्तरिक्तः । सुन्दरीणां पादेन संपर्क ताडनं ना अपैक्षत । सनूपुररवेण स्त्री-
१ जुष्टाम्.
५४
कुमारसंभवे
चरणेनामिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत् ॥ इति । तथाहिपादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो सुखसीधुसितः । आलोकितः कुरुबकः कुरुते विकाशमालोडितस्तिलक उत्कलिको विभाति ॥
सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे । निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ||२७|| सद्य इति ॥ मधुः वसन्त एवेषुकारः [प्रवालोद्गमचारुपत्रे] प्रवालोद्गमाः पलवाकुरा एव चारूणि पत्राणि पक्षा यस्य तस्मिन् । पत्रं वाहनपक्षयोः इत्यमरः ॥ नवं चूतं चतकुसुमं तदेव बाणस्तस्मिन् नवचूतवाणे समाप्तिं नीते सति सद्योः मनोभवस्य धन्विनः नामाक्षराणीव द्विरेफान भ्रमरान् निवेशयामास निदधौ ॥ अत्र प्रवालपत्रे इत्याद्येकदेशविवर्तिरूपकं मधोरिपुकारत्वनिरूपणं सूचयनामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरूपकोत्थापितेयमुत्प्रेक्षा ॥
वर्णप्रकर्षे सति कर्णिकारं
दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्र्यविधौ गुणानां
पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥ २८ ॥
वर्णेति ॥ कणिकारं कर्णिकारकुसुमम् । अवयवे च प्राण्योषधिवृक्षेभ्यः इत्युत्पन्नस्य तद्धितस्य पुष्पफलमूलेषु बहुलम् इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कर्षे सति अपि निर्गन्धतया हेतुना स्वतः दुनोति स्म पर्यंतापयत् । लट् स्मे इति भूतार्थे लट् । तथाहि । प्रायेण विश्वसृजः विधातुः प्रवृत्तिः गुणानां सामय्यविधौ साकल्यसंपादनविषये पराङ्मुखी । सर्वत्रापि वस्तुनि किंचिद्वैकल्यं संपादयति । यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यत इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥
वालेन्दुवक्राण्यविकाशभावा-
द्वभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां
नखक्षतानीव वनस्थलीनाम् ॥ २९ ॥
बालेन्द्विति ॥ अविकाशभावात्
निर्विकाशस्वात्मुकुलभावाद्धेतोः [ बालेन्दुवक्राणि ] बालेन्दुरिव वक्राणि अतिलोहितानि अतिरक्तानि पलाशानि किंशुकपुष्पाणि । पलाशे किंशुकः पर्णः इत्यमरः । वसन्तेन पुंसासमागतानां सङ्गतानां वनस्थलीनां स्त्रीणां सद्यः सद्यो दत्तानि । पुराणे-
१ निर्गन्धमिति.
तृतीयः सर्गः ।
५५
‘ष्वतिलौहित्याभावादिति भावः । नखक्षतानीव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति । नखक्षतानीव इति जातिस्वरूपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । विशेषणसामर्थ्यादप्रस्तुतस्य
यत्वे समासोक्तिरिष्यत इति हि लक्षणम् ॥
लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिळकं प्रकाश्य । रागेण बालारुणकोमळेन चूतपवालोष्ठमलञ्चकार ॥ ३० ॥ लग्नेति ॥ मधुश्रीः वसन्तलक्ष्मीः [लग्नद्विरेफाञ्जनभक्तिचित्रं ] लभद्विरफो एवाजनभक्तयः कञ्जलरचनास्ताभिचित्रं चित्रवर्ण तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्त्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेण अरुणिना तेनैव लाक्षारागेण चतप्रवाल एवौष्ठस्तं चूतप्रवालोष्टम अलञ्चकार प्रसाधयामास ॥ अत्र रूपकालंकारः ॥
मृगाः पियलद्रुममञ्जरीणां रजःकणैर्विभितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः ॥ ३१ ॥ मृगा इति ॥ [ पियालद्रुममञ्जरीणां ] पियालनुमा राजादनवृक्षाः । राजादनं पियालश्च इत्यमरः । तेषां मजर्यस्तासां रजःकणैः [ विनितदृष्टिपाताः ] विनिताः सञ्जातविघ्ना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः मदोद्धताः भृगाः प्रत्यनिलम् अनिलाभिमुखं [ मर्मरपत्र मोक्षाः ] ममेरा मर्मरशब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ताः वनस्थलीः विचेरुः वनप्रदेशेषु चरन्ति स्म । देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । इति चरतेः सकर्मकत्वम् ॥
१ निवेश्य । २ प्रियाल - लु ।
चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज | मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ||३२|| चूताङ्कुरेति ॥ [ चूताङ्कुरास्वादकषायकण्ठः ] चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । सुरभावपथे रक्ते कषायः इति केशवः । पुमान्कोकिलः पुंस्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । मधुरं चुकूज इति यत् तत् कूजनम् एव [ मनस्विनीमानविघातदक्षं ] मनस्विनीनां मानविघाते रोषनिरासे दक्षं स्मरस्य वचनं मानं त्यजतेत्याज्ञानवचनं जातम् । कोकिलकूजितश्रवण्णानन्तरं स्मराज्ञप्ता इव मानं जहुरित्यर्थः ॥
हिमव्यपायाद्विशदा घराणामपाण्डरीभूतमुखच्छ्वीनाम् ॥ स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ||३३||
१ आपाण्डुरीभूत.
५६
कुमारसंभव
मिति ॥ [ हिमव्यपायात् ] हिमस्य व्यपायादपगमात् [ विशदाधराणां ] विशदा नीरुजा अधरा ओष्ठा यासां तास म् । आपाण्डरीभूतमुखच्छवीनाम् कुङ्कुमपरिहारादिति भावः । किंपुरुषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्गमः पदं चक्रे । धमोदयात्स्वंदी दो भूदित्यर्थः । विदारत्वं मधूच्छि ष्टराद्दित्यादिति भावः । हेमन्तेषु नार्यो बिम्बोष्ठेषु मधूच्छिष्टं शीतभयाद्दधतीति
प्रासद्धम् ॥

तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् । प्रयत्न संस्तम्भितविक्रियाणां कथंवेिदीशा मनसां बभूवुः ||३४|| तपस्विन इति || [ स्थाणुवनौकसः] स्थाणोर्वनमोको येषां ते तपस्विनः तत्रत्या मुनयः समानकाल आद्यन्तावस्या आकालिकाम् | अकालभवत्वादुत्पत्त्यनन्तरविनाशिनीमित्यर्थः । आकालिकडाद्यन्तवचने इति समानका लादिकट्प्रत्ययः प्रकृतेराकाल आदेशश्च निपातितः । ‘टिड्डू णन्’ - इत्यादिना ङीप् । केचिदकालाद्देहाध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकीं मधुप्रवृत्तिं वीक्ष्य [ प्रयत्नसंस्तम्भितविक्रियाणां ] प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः ॥ तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने । काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवत्रः ||३५|| तमिति । [ आरोपितपुष्पचापे ] आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन् [ रतिद्वितीये ] रतिर्द्वितीया यस्य तस्मिन् रतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्रामे सति द्वन्द्वानि स्थावराणि जङ्गमानि च मिथुनानि [ काष्ठागतस्नेहरसानुविद्धं ] काष्ठा उत्कर्षः । काष्टोत्कर्षे स्थितौ दिशि इत्यमरः । तां गतो यः स्नेहः इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः । प्रेमा ना प्रियता हार्द प्रेम स्नेहः इत्यमरः । स एव रसस्तेनानुविद्धं संपृकं भावं रत्याख्यं शृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवत्रः प्रकटीचक्रुः । शृङ्गारचेष्टाः प्रार्वतन्तेत्यर्थः ॥ ताश्चेष्टा आह मधु इत्यादिभिश्चतुर्भिः- मधु द्विरेफः कुसुमैकपात्रे पपौ मियां स्वामनुवर्तमानः । शृङ्गेण चे स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥ ३६ ॥ मध्विति ॥ द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफोः भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटःशब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफत्वाद्दिरेफो भ्रमरः । [ कुसुमैकपात्रे ] कुसुममेवैकं साधारणं पात्रं १ संस्पर्श.तृतीयः सर्गः । ५७ तस्मिन् मधु मकरन्दम् । मधु मधे पुष्परसे इति विश्वः । स्वां प्रियां भृङ्गीम् अनुवर्तमानः अनुसरन् पपौ । तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शबलव कृष्णसारः कृष्णमृगः वर्णो वर्णेन इति समासः च । [ स्पर्शनिमीलिताक्षीं ] । स्पर्शेन स्पर्शसुखेन निमीलिताक्षी मृगीं शृङ्गेण अकण्डूयत कर्षितवान् ॥ कण्ड्रादिभ्यो यग् इति यक् । ततः कर्तरि लङ् ॥ ददौ रसात्पजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोषमुक्तेन विसेन जायां संभावयामास रथाङ्गनामा ॥ ३७ ॥ ददाविति । रसात् अतिरागात करेणुः करिणी ॥ करेणुरिभ्यां स्त्री नेभे इत्यमरः । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुस्तस्य गन्धोऽस्यास्तीति पहूजरेणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकः अर्ध यथा तथेोपभुक्तेन [ अर्धोपभुक्तेन ] अर्धजग्धेन बिसेन जायां संभावयामास । स्वजग्धशेषं ददावित्यर्थः ॥ गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्रासितपत्रलेखम् । पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषचुम्बे ॥ ३८ ॥ गीतान्तरेष्विति ॥ किंपुरुषः किन्नरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः [ किंचित्समुच्छ्रासितपत्रलेखम् ] किंचिदीषत्समुद्दासिता विश्लेषिताः पत्रलेखा यस्य तत् । [ पुष्पासवाघूर्णितनेत्रशोभि ] पुष्पाणामासवो मर्य पुष्पासवः पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात् । पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुङ्क्रान्ताभ्यां नेत्राभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्येषु चुचुम्बे चुचुम्ब || पर्याप्तपुष्पस्तवकस्तनाभ्यः स्फुरत्प्रवाळोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनंम्र शाखाभुजबन्धनानि ।। ३९ ।। पर्याप्तेति ॥ [ पर्याप्तपुष्पस्तबकस्तनाभ्यः ] पर्याप्ताः समप्राः पुष्पस्तबका एव स्तना यासां ताभ्यः ॥ स्वाङ्गाश्वोपसर्जनादसंयोगोपधात् इति विकल्पान्न डीप् ॥ [ स्फुरत्प्रवालोष्ठमनोहराभ्यः ] स्फुरन्तः प्रवाला : पल्लवाः एवौष्ठास्तैर्मनेोहराभ्यः [ लतावधूभ्यः ] लता एव वध्वस्ताभ्यः सकाशात् तरवोऽपि १ सरपङ्कज २ चुचुम्बै ३ संजात. ४ आनम्र. પ. कुमारसंभवे लिङ्गादेव पुंस्त्वं गम्यते । [ विनम्रशाखाभुजबन्धनानि ] विनम्राः शाखा एव भुजास्तैर्बन्धनानि अवापुः । ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत्किमुतान्येषामिति भावः । एतच तरुलतानामपि चेतनत्वादुक्तम् । यथाह मनुः - अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विताः । इति । अत्र रूपकालंकारः ॥ श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्दरः प्रसंख्यान परो बभूव । आत्मेश्वराणां न हि जातु विभाः समाधिभेदप्रभवो भवन्ति ॥ ४० ॥ श्रुतेति ॥ अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान् हरः श्रुताप्सरोगीतिरपि । दिव्याङ्गनागानमा कर्णयन्त्रपीत्यर्थः । प्रसंख्यानपरः आत्मानुसन्धानपरः बभूव । तथाहि । [ आत्मेश्वराणाम् ] आत्मनचित्तस्येश्वराणां नियन्तृणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः । घञर्थे कप्रत्ययः । जातु कदाचिदपि । [ समाधिभेदप्रभवः ] समाधिभेदे समाधिभने प्रभवः समर्थाः न भवन्ति ॥ लतागृहद्वार गतोऽथ नन्दी वामप्रकोष्ठार्पितमवेत्रः । मुखार्पितैकाङ्गुलिसंज्ञयैव माचापलायेति गणान्व्यनैषीत् ॥४१॥ लतेति ॥ अथ [ लतागृहद्वा रगतः ] लतागृहद्वारं गतः [ वामप्रकोष्ठार्पितमवेत्रः ] वामे प्रकोष्ठेऽर्पितमवेत्र धारितहेमदण्डः नन्दी नन्दिकेश्वरः । नन्दी भृङ्गिरिटस्तण्डुनन्दनौ नन्दिकेश्वरे । इति कोशः । [ मुखार्पितैकाङ्गुलिसंज्ञया ] मुखेऽर्पितायाः सरोषविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुले स्तर्जन्याः संज्ञया सूचनया एव । संज्ञा स्याच्चेतना नाम हस्ताद्यैरर्थसूचना । इत्यमरः । गणान् प्रमथाम् चापलाय चापलं कर्तु मा भवत इति । क्रियार्थोपपदस्य इत्यादिना चतुर्थी । व्यनैषीत् शिक्षितवान् ॥ न केवलं गणा एव विनीताः किंतु जरायुजादिचतुविधं प्राणिजातमपीत्याह- निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् | तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ।। ४२ ।। निष्कम्पेति ॥ निष्कम्पवृक्षम् । इदमुद्भिजोपलक्षणम् । निभृतद्विरेफ निश्रलभृङ्गम् । स्वेदजोपलक्षणमेतत् । मूकाण्डजं निःशब्दपक्षिसरीसृपादिकम् । एतेनाण्डजजातिरुक्ता । शान्तमृगप्रचारम् । जरायुजोपलक्षणमेतत् । सर्वे एव काननं तच्छासनात् नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भम् इवें अवतस्थे ॥ नृगवाया जरायुजाः । स्वेदजाः कृमिदशाद्याः पक्षिसर्पादयोऽण्डजाः । उद्भिदस्तरुगुल्माद्याः । इत्यमरः ॥ तृतीयः सर्गः । ५९ दृष्टिपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणे | प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ||४३|| दृष्टिप्रपातमिति ॥ कामः प्रयाणे यात्रायां पुरोगतः शुक्रो यस्मिन्देशे तं पुरःशुकं देशम् इव । प्रतिशुकं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शुक्रसमो राजा इतसैन्यो निवर्तते ॥ इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु [ संसक्तनमेरुशाखं ] संसक्ता अन्योन्यसंसृष्टा नमेरूणा सुरपुन्नागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् । आस्पदं प्रतिष्ठायाम् इति निपातः । विवेश ॥ स देवदारुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ॥ ४४ ॥ स इति । आसन्नशरीरपातः आसन्नमृत्युः स कामः [ शार्दूलचर्मव्यवधानवत्याम् ] शार्दूलचर्मणा व्यवधानवत्याम् । व्याघ्रचर्मास्तुतायामित्यर्थः मोक्षश्रीर्व्याघ्रचर्मणि इति प्राशस्त्यादिति भावः ॥ देवदारुमवेदिकायाम् आसीनम् उपविष्टं संयमिनं समाधिनिष्टं त्रियम्बकं त्रिनेत्रं ददर्श । केचिसाहसिकाः त्रिलोचनम् इति पेटुः । त्र्यम्बकमित्युक्ते पादपूरणव्यत्यासात्रियम्बकमिति पादपूरणार्थेौऽयमयङादेशइच्छान्दसो महाकविप्र योगादभियुक्तैरङ्गीकृतः । तमेव देवं षट्गिः श्लोकैर्वर्णयति पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं सन्नमितोभयांसम् । उत्तानपाणिद्वयसन्निवेशात्मफुल्ल राजीवमिवाङ्कमध्ये ॥ ४५ ॥ पर्यङ्केति ॥ [ पर्यङ्कबन्धस्थिर पूर्वकायम् ] पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकार्य निश्चलोत्तरार्धम् [ ऋज्वायतं ] ऋजुरायतयतस्तं [ संनमितोभयांसम् ] सन्नमितावुभावसौ यस्य तं तथोक्तम् । वृत्तिविषये उभशब्दस्थाने उभयशब्दप्रयोग इत्युक्तं कैयटेन । [ उत्तानपाणिद्वयसन्निवेशात् ] उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य सन्निवेशः संस्थानं तस्मात् अङ्कमध्ये [ प्रफुल्लराजीवम् ] प्रफुल्लं राजीवं पङ्कजं यस्य तम् इव स्थितम् । वीरासने वसिष्ठः एक पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवारुं वीरासनमुदाहृतम् ॥ इति । तथा योगसारे उत्तानिते करतले करमुत्तानितं परम् । आदायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ॥ इति ॥ भुजङ्ग मोजटाकलापं कर्णवसक्तं द्विगुणाक्षसूत्रम् - | कण्ठप्रभासङ्ग विशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ||४६ ॥ १ ऋज्वायतासं० २ उद्ध, आबद्ध, आविद्ध. ३ कर्णावतंस. ४ मृगत्व चम् . ६० कुमारसंभवे भुजङ्गमेति । [ भुजङ्गमोन्नद्वजटाकलापं भुजङ्ग मनोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् । कर्णावसक्तम् । कर्णावलम्बीत्यर्थः । अतएव द्विगुणाक्षसूत्रम् द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तम् । कण्ठप्रभासङ्गविशेषनीलां ] कण्ठप्रभाणां सङ्गेन मिश्रणेन विशेषनीलामतिनीलां ग्रन्थिमती बन्धनयुकां कृष्णत्वचं कृष्णमृगाजिनं दधानम् ॥ किंचित्प्रकाशस्तिमितोग्रतारै- विक्रियायां विरतमसः । नेत्रैरविस्पन्दितपक्ष्ममालै- लक्ष्यीकृतप्राणमधोमयूखैः ॥ ४७ ॥ किंचिदिति ॥ [ किंचित्प्रकाशस्तिमितोग्रतारैः ] किंचित्प्रकाशा ईषत्प्रकाशास्तिमिता निश्चला उग्राश्व ताराः कनीनिका येषां तैः । तारकाक्ष्णः कनीनिका इत्यमरः । भ्रूविक्रियायां श्रविक्षेपेविरतप्रसङ्गः प्रसक्तिरहितैः । अविस्पन्दितपक्ष्ममालैः अचलितपक्ष्मपंक्तिभिरधः प्रसृता मयूखा येषां तैः अधोमयूखैः नेत्रैः । त्रिनेत्रत्वाद्बहुवचनम् : लक्ष्यीकृतघ्राणं नासाग्रनिविष्टदृष्टिमित्यर्थः । करणान्यवहिष्कृत्य स्थाणुवनिश्चलात्मकः । आत्मानं हृदये ध्यायेन्नासाग्रन्यस्तलोचनः ॥ इति योगसारे ॥ अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् । अन्तश्चराणां मरुतां निरोधान्निवोतनिष्कम्पमित्र प्रदीपम् ॥ ४८ ॥ अवृष्टीति ॥ [ अन्तञ्चराणां] अन्तश्चरन्तीत्यन्तश्वराः तेषां मरुतां प्राणादीनां निरोधात् देतो: अवृष्टिसंरम्भम् अविद्यमानवर्णसंभ्रमम् अम्बुवाहम् इव स्थितम् । एतेन प्राणनिरोधः सूचितः । अनुत्तरङ्गम् अनुद्भूततरङ्गम् अपामाधारं हदं इव स्थितम् । एतेनापाननिरोधः सूचिनः । तथा [ निवातनिष्कम्पम् ] निवाते निर्वातदेशे निष्कम्पं निथलं प्रदापम् इव स्थितम् । एतेन शेषवायुनिरोधः सूचितः । निवातावाश्रयावातौ इत्यमरः ॥ कपालनेत्रान्तरलब्धमार्गे- ज्योतिः परो हैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्या बालस्य लक्ष्मी गुपयन्तमिन्दोः ॥ ४९ ॥ कपालेति ।। [ कपालनेत्रान्तरलब्धमार्गेः ] कप लनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमाँगैः शिरस्तः ब्रह्मरन्धात् । पञ्चम्यास्तसिल् । उादतैः उद्भूतैः २ लक्षीकृत. ३ निर्वाण. ९ विगत. तृतीयः सर्गः । ६१ ज्योतिः प्ररोहैः तेजोङ्करैः [ मृणालसूत्राधिकसौकुमार्या ] मृणालसूत्राधिकं सौकुमार्य मार्दवं यस्यास्तां बालस्येन्दोः शिरथन्द्रस्य लक्ष्मी ग्लएयन्तम् ॥ मनो नवद्वारनिषिद्धवृत्ति हृदिव्यवस्थाप्य समाधिवश्यम् । यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ ५० ॥ मन इति ॥ [ नवद्वारनिषिद्धवृत्ति ] नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस्य तत्तथोक्तम् । [ समाधिवश्यं ] समाधिना प्रणिधानेन वयं वशंगतम् । यत्प्रत्ययः । प्रणिधानं समाधानं समाधिश्व समाश्रयः । इति हलायुधः ॥ मनः हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः यतो निर्याति विषयान्यमिचैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ॥ इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः । यं न क्षरति इति अक्षरम् अविनाशिनं विदुः विदन्ति । विदो लटो वा इति झेर्जुस् । तम् आत्मानमात्मनि स्वस्मिन् अवलोकयन्तं साक्षात्कुर्वन्तम् । स्त्रातिरेकेण परमात्मनोऽभावादिति भावः ॥ स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् । नालक्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात् ॥ ५१ ॥ स्मरेति ॥ स्मरः कामः तथाभूतं पूर्वोक्तरूपं मनसाप्यधृष्यम् अयुग्मनेत्रं विषमाक्षम् अदूरात् पश्यन । [ साध्वससन्न हस्तः ] साध्वसेन सत्रहस्तो विश्वथपाणिः सन् । स्वहस्तात्स्नस्तं शरं चापम् अपि चापं च न अलक्षयत् न विवेद । भीतो मुह्यतीति भावः ॥ निर्वाणभूयिष्ठमथास्य वीर्य सन्धुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवताभ्या मदृश्यत स्थावरराजकन्या ।। ५२ ।। निर्वाणेति ॥ अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् । नष्टप्रायमित्यर्थः । अस्य स्मरस्य बीर्यं बलं वपुर्गुणेन सौन्दर्येण सन्धुक्षयन्तीव पुनरुजीवयन्तीव स्थिता वनदेवताभ्यां सखीभूताभ्याम् अनुप्रयाता अनुगता स्थावरराजकन्या पार्वती अष्टश्यत दृष्टा ॥ तामेवाह चतुर्भिः- अशोकनिर्भर्टिसतपद्मराग माकृष्टमद्युतिकर्णिकारम् । मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती ॥ ५३ ॥ अशोकेति । [ अशोकनिर्मत्सितपद्मरागम् ] अशोकपुष्पेण निर्भसितास्तिरस्कृताः पद्मरागा येन तत्तत्रोक्तम् । [ आनुष्टहेमद्युतिकर्णिकारम् ] आफू १ वेद-त्रह्मविदः । २ सिन्दुरवारम्. ६२ कुमारसंभवे मन आहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यस्मिंस्तत्तथोकम् । [ मुक्तांकलापीकृतसिन्धुवारं ] मुक्ताकलापीकृतानि सिन्धुवाराणि निर्गुण्डीकुसुमानि यस्मिंस्तत् । सिन्धुवारेन्द्र सुरसौ निर्गुण्डीन्द्राणिकेत्यपि । इत्यमरः । वसन्तपुष्पाष्येवाभरणं [ वसन्तपुष्पाभरणं ] वहन्ती ॥ आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । पर्याप्तं पुष्पस्तबकावनम्रा सञ्चारिणी पल्लविनी लतेव ॥ ५४ ॥ आवर्जितेति ॥ स्तनाभ्यां किंचिद् आवर्जिता ईषदानमिता इव । तरुगाकस्य राग इव रागो यस्य तत् [ तरुणार्करागं ] बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसाना आच्छादयन्ती । अतएव पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती सञ्चारिणी लतेव । स्थितेति शेषः || स्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसरदामकाचीम् । न्यासीकृतां स्थानविदा स्मरेण मौवीं द्वितीयाँमिव कार्मुकस्य ५५ स्तामिति ॥ स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । [ कार्मुकस्य ] कर्मणि प्रभवतीति कार्मुकं धनुः । कर्मण उकम् इत्युकञ्प्रत्यः तस्य । द्वितीयां मौवम् इव स्थिताम् । अत्र हि न्यस्ता मौर्क्युतरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्त्रस्तां चलितां [केसरदामकाञ्चीम् ] केसरदाम बकुलमाला सैव काश्री तां पुनःपुनः अवलम्बमाना हस्तेन धारयन्ती ॥ सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् । प्रतिक्षणं संभ्रमलोकदृष्टि लीलारविन्देन निवारयन्ती ॥ ५६ ॥ सुगन्धीति । [ सुगन्धिनिःश्वासविवृद्धष्णं ] सुगन्धिभिर्निश्वासैर्विवृद्धतृष्णम् । विम्बतुल्योऽधरो बिम्बाधरः । वृत्तौ मध्यपदलोपः स्यात् इति वामनः । तस्यासन्नचरं खनिकृष्टचरं द्विरेफंभ प्रतिक्षणं [ संभ्रमलोलदृष्टिः ] संभ्रमेण लोलरष्टिय लाक्षी सती लीलारविन्देन निवारयन्ती ॥ तां वीक्ष्य सर्वावयवानवद्यां रतेरपि हीपेदमादधानाम् । जितेन्द्रिये शकिनि पुष्पचपः स्वकार्यसिद्धिं पुनराशशंसे ॥५७॥ तामिति ॥ [ सर्वावयवानवद्याम् ] सर्वावयवेष्यनवद्यामगम् । अनयपण्य इति निपातः । रतेः कामकलत्रस्य अपि ह्रीपद लखानिमित्तम् आवधानाम् । १ सुजातपुष्प. २ अवरोधयन्ती. १ पुष्प. ४ द्वितीयमौदामिव ५ हीमति [ atqft). ६ पुण्यकेतु ७ स्वकर्म. ८ मास. बुतीयः सर्गः । ६३ न्यूनतामावहन्तीमित्यर्थः । तां पार्वतीं वीक्ष्य पुष्पचापः कामः जितेन्द्रिये । दुर्जयेऽपीत्यर्थः । शूलिनि शिवे विषये स्वकार्य सिद्धिं पुनः आशशंसे चकमे । पूर्व साम्ब ससनहस्तः ( ३ । ५१ ) इत्यादिना कार्यसिद्धेरुन्मूलितस्वाभिधानादिह पुनरित्युक्तम् ॥ भविष्यतः पत्युरुमा च शंभो: समाससाद प्रतिहार भूमिम् । योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरूपारराम ॥५८॥ भविष्यत इति ॥ उमा च भविष्यतः पत्युः शंभो: प्रतिहारभूमिं द्वारदेशं समाससाद । स्त्री द्वाद्वरं प्रतीहारे इत्यमरः । स शंभुः चा अन्तः [ परमात्मसंज्ञम् ] परमात्मेति संज्ञा यस्य तत् परं मुख्यम् । परं दूरान्यमुख्येषु इति यादवः । ज्योतिः दृष्ट्वा साक्षात्कृत्य योगात् ध्यानात् । योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु । इत्यमरः । उपारराम उपारतः । व्यापरिभ्यो रमः इति परस्मैपदम् ॥ ततो भुजङ्गाधिपतेः फणाग्रैरधः कथंचिद्धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निविडं बिभेद ॥ ५९ ॥ तत इति ॥ ततो भुजङ्गाधिपतेः शेषस्य फणाद्यैः अधः भूमेरधः [कथंचिद्धृतभूमिभागः ] कथंचित् अतियत्नेन धृतो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोकः । वायुधारणा हितलाघवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्रानिरुद्धानां विमुक्तिः पुनः सञ्चारो येन स कृतप्राणविमुक्तिः ईशः निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार ॥ तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् । प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥ ६० ॥ तस्मा इति ॥ अथ नन्दी तस्मै भगवते । क्रियाग्रहणाचतुर्थी । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेन उपेताम् सेवार्थमागतामित्यर्थः । शैलसुतां शर्शस निवेदयामास । भर्तुः स्वामिनः [ भ्रूक्षेपमात्रानुमतप्रवेशां ] भूक्षेपमात्रेण संज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशाम् एनां शैलसुतां प्रवेश- यामास च । तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य । व्यकीर्यत त्र्यम्बकपादमूले पुष्पोयचः पल्लवभङ्गभिन्नः ॥ ६१ ॥ तस्या इति ॥ तस्या: पार्वत्याः सखीम्यां पूर्वोकाभ्यां [ स्वहस्तलूनः ] स्वहस्तेन लूनः उपचितः पल्लवभङ्गभिन्नः किसलयशकलमिश्रः शिशिरा- १ उपासितं सा च पिनाकपाणिम्. २ अन्तर्गतम्. ३ अनुमित. ६४ कुमारसंभवे त्ययस्य वसन्तस्य संबन्धी पुष्पोश्चयः पुष्पप्रकरः । हस्तादाने चेरस्तेये इतिधञ्विषयत्वात्कवीनामय प्रामादिकः प्रयोग इति क्लमः । व्यम्बकपादमूलं प्रणिपात पूर्व नमस्कारपूर्वकं व्यकीर्यत विक्षिप्तः ॥ उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् । चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ।। ६२ ।। उमेति ॥ उमापि [ नीलालकमध्यशोभि ] नीलालकानां मध्ये शोभत इति तथोक्तम् । अलकन्यस्तमित्यर्थः । नवकर्णिकारं विस्रसयन्ती [ कर्णच्युतपल्लवेन ] कर्णात् च्युतः पलवो यस्य तेन कर्णच्युतपल्लवेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार । क्रियाग्रहाणात्संप्रदानत्वम् ॥ अनन्यभाजं पतिमाहीति सा तथ्यमेवामिहिता भवेन । न हीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ||६३ || अनन्येति ॥ सा कृतप्रणामा देवी भवेन हरेण । अन्यां न भजतीति तम् अनन्यभाजम् । भजो ण्विः इति ण्विप्रत्ययः । सर्वनाम्रो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । पतिमाहीति तथ्यं सत्यम् एव अभिहिता उक्ता । उत्तरत्र तथैव संभवादिति भावः । अभिदधातेनुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथाहि । ईश्वरव्याहृतयः महापुरुषोक्तयः कदाचित् अपि लोके भुवने लोकस्तु भुवने जने इत्यमरः ॥ विपरीतं विसंवादिनम् अर्थम् अभिधेयं न पुष्णन्ति । न बोधयन्तीत्यर्थः ॥ कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श || ६४ ॥ काम इति ॥ कामस्तु बाणावसरं प्रतीक्ष्य उमासन्निधानादयमेव बाणप्रयोगसमय इति ज्ञात्वा पतङ्गेन तुल्यं पतङ्गवत् शलभवत् । समौ पतङ्गशलभौ इत्यमरः । तेन तुल्यं क्रिया चेद्वतिः इति वतिप्रत्ययः । वह्निमुखं विविक्षुः प्रवेष्टुमिच्छुः । विशतेः सन्नन्तादुप्रत्ययः । उमायाः समक्षमक्ष्णः समीपम् उमासमक्षम् । अव्ययीभावे शरत्प्रमृतिभ्यः इति समासान्तो ऽच्प्रत्ययः । [ हरबद्धलक्ष्यः ] हरे बद्धलक्ष्यः सन् । शरासनस्य ज्यां मौर्वी मुहुः आममर्श परामृष्टवान् ॥ । अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररूचा करेण । विशोषितां भानुमतो मयूखैर्मन्दाकिनी पुष्कर बीजमालाम् ॥ ६५ ॥ अथेति ॥ अथ गौरी । तपोऽस्यास्तीति तपस्वी । अस्मायामेधात्रजो विनिः इति विनिप्रत्ययः । तस्मै तपस्विने गिरिशाय ताम्ररुचा रकवर्णेन करेण तृतीयः सर्गः । भानुमतोः अंशुमतः मयूखैः विशोषितां [ मन्दाकिनी पुष्कर बीजमालाम् ] मन्दाकिन्याः पुष्कराणि पद्मानि तेषां बीजानि तेषां माला जपमालिकाम् उपनिन्ये समर्पितवती ॥ प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधच बाणम् ॥ ६६ ॥ प्रतिग्रहीतुमिति || त्रिलोचनः च प्रणयिप्रियत्वाद् अर्थिप्रियत्वात् ताम् अक्षमालां प्रतिग्रहीतुं स्वीकर्तुम् उपचक्रमे । पुष्पं धनुर्यस्य स पुष्पधन्वा काम च । वा संज्ञायाम् इत्यनङादेशः । संमोह्यतेऽनेनेति संमोहनं नाम । नामेति प्रसिद्धौ । अमोघं बाणं सायकं धनुषि समधत्त संहितवान् ॥ हरस्तु किंचिपरिलुप्तधैर्यचन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ ६७॥ हर इति ॥ हरस्तु हरोऽपि चन्द्रोदयारम्भे अम्बुराशिः इव किंचित् ईषत् परिलुप्तधैर्यः । न तु प्राकृतजनवदत्यन्तलुप्तधैर्य इति भावः । [ बिम्बफलाधरोष्टे ] बिम्बफल तुल्यो ऽधरोष्टो यस्य तस्मिन् उमामुखे विलोचनानि व्यापारयामास । त्रिभिरपि लोचनैः साभिलाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उक्तः ॥ विवृण्वती शैलसुतापि भावमः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ६८ ॥ 1 विवृण्वतीति ॥ शैलसुतापि स्फुरद्वालकदम्बकल्पैः । विकसकोमलनपीसदृशैः । पुलकितैरित्यर्थः । ईषदसमाप्तौ इत्यादिना कल्पप्प्रत्ययः । अङ्गैः भावं रत्याख्यं विवृण्यती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन त्रीडाविभ्रान्तनेत्रेण मुखेन असाचि साचि संपद्यमाना साचीकृता तिर्यकृता । तिर्यगर्थे साचि तिरः इत्यमरः । तस्थौ । हिया मुखं साचीकृत्य स्थितेत्यर्थः । न केवलं हरस्यैव देव्या अप्युदितो रतिभाव इति भावः ॥ अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्वलन्निगृह्य | हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ६९ ॥ अथेति ॥ अथ अयुग्मानि नेत्राणि यस्य सः अयुग्मनेत्रः त्रिनेत्रः वशित्वात जितेन्द्रियत्वात् इन्द्रियक्षोभं पूर्वोक्तमिन्द्रियविकारं पुनर्बलवत् दृढं निगृह्य निवार्य स्वचेतोविकृतेः स्वचित्तविकारस्य हेतुं कारणं दिक्षुः द्रष्टुमिच्छुः विशामुपान्तेषु वष्टिं ससर्ज प्रसारयामास ॥ १ परिवृत. ६६ कुमारसंभवे स दक्षिणापाङ्गनिविष्टमुष्टिं नेतांसमाकुश्चित सव्यपादम् । ददर्श त्रीकृतचारूपापं महर्तुमभ्युद्यतमात्मयोनिम् ॥ ७० ॥ स इति ॥ स भगवान् [ दक्षिणापाङ्गनिविष्टमुष्टिं ] दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिर्यस्य तं नतांसम् [ आकुञ्चितसव्यपादम् ] आकुचितः सन्यपादो यस्य तम् | आलीढाख्यस्थानके स्थितमित्यर्थः । चकीकृतचारुचापं मण्डलीकृतसौम्य कोदण्डं प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श । भालीवलक्षणमाह यादवः स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्त्यन्तरगौ पादौ मण्डलं तोरणाकृती | समानौ स्यात्समपदमाली पदमप्रतः । दक्षिण वाममाकुञ्च्य प्रत्यालीढं विपर्ययः ॥ इति ॥ तपः परामर्शविवृद्धमन्यो भ्रूभङ्ग दुष्प्रेक्ष्यमुखस्य तस्य । स्फुरदार्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ७१ तप इति । [ तपः परामर्शविवृद्धमन्योः ] तपः परामर्शेन तपस आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य [ भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य ] भ्रूभङ्गेण दुष्प्रेक्ष्यं दुर्दर्श मुखं यस्य तस्य हरस्य तृतीयाद् अक्ष्णः स्फुरन् उद्दीप्यमानः उदर्चिः उद्भूतज्वालः कृशानुः अभिः सहसा अतर्कितमेव । अतर्किते तु सहसा इत्यमरः । निष्पपात किल निश्चक्राम खलु || क्रोधं प्रभो संहर संहरेति यावद्विरः खे मरुतां चरन्ति । तावत्स वहिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ७२ ॥ क्रोधमिति ॥ हे प्रभो स्वामिन् क्रोधं संहर संहर निवर्तय निवर्तय । चापले द्वे भवत इति वक्तव्यम् इति वार्तिकेन द्वित्वम् । संभ्रमेण वृत्तिचापलम् इति काशिका । इति एवं मरुतां देवानां गिरत् वाचः खे व्योम्नि यावत् चरन्ति प्रवर्तन्ते तावत् तत्कालमेव भवस्य नेत्राज्जन्म यस्य स भवनेत्रजन्मा । अवयों बहुव्रीहिर्व्यधिकरणो जन्मायुत्तरपद इति वामनः । स वह्निः मदनं भस्मैवावशेषो यस्य तं भस्मावशेषं चकार । ददाहेत्यर्थः ॥ तीव्राभिषङ्गप्रभवेण वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ॥ ७३ ॥ तौति ॥ तीव्राभिषङ्गप्रभवेण अतिदुःसहाभिभवसंभवेन । अभिषङ्गस्वभिभवे सह आक्रोशनेऽपि च । इति वैजयन्ती । इन्द्रियाणां चक्षुरादीनां वृतिं व्या पारं संस्तम्भयता प्रतिबभ्रता मोहेन मूर्च्छया । कर्त्रा । रतिः मदनभार्या । १ई : बी. 1तृतीयः सर्गः । मुहूर्तम् [ अज्ञातभर्तृव्यसना ] अज्ञातं भर्तृव्यसनं भर्तृनाशो यया सा तथोक्ता सती कृतोपकारेव बभूव । सहसा दुःखोपनिपातान्मुमूर्खेत्यर्थः । मोहेन दुःखसंवेदनाभावात्तस्योपकारकत्वोक्तिः ॥ तमाशु विनं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य । स्त्रीसन्निकर्ष परिहेतुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ ७४ ॥ तमिति ॥ तपस्वी तपोनिष्ये भूतपतिः शिवः तपसः विघ्नम् अन्तरायभूतं तं कामम् आशु वज्रः अशनिः वनस्पतिं वृक्षम् इव अवभज्य भक्त्वा स्त्रीसन्निकर्षे स्त्रीसन्निधानं परिहर्तुमिच्छन् । तस्यानर्थहेतुत्वादिति भावः ! सभूतः सगणः सन् अन्तर्दधे ॥ शैलात्मजापि पितुरुच्छिर सोऽभिलाषं व्यर्थ समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिर्मुखी कयाचित् ॥ ७५ ॥ शैलात्मजेति ॥ शैलात्मजा पार्वती उच्छिरसः उन्नतशिरसो महतः पितुः अभिलाषं हरो वरोऽस्त्विति मनोरथं ललितं सुन्दरम् आत्मनः वपुः च व्यर्थ निष्फलं समर्थ्य विचार्य सख्योः समक्षं पुरः इति च हेतुना अधिकं जातलजा [ अधिकजातलज्जा ]। समानजनसमक्षमवमानस्यातिदुःसहत्वादिति भावः । शून्या निरुत्साहा सती कथंचित् कृच्छ्रेण भवनस्याभिमुखी [ भवनाभिमुखी ] जगाम || सैपदि मुकुलिताक्षी रुद्रसंरम्भभीत्या दुहितरमनुकम्प्यामद्विरादाय दोर्भ्याम् । सुरगज इव विभ्रत्पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः ॥ ७६ ॥ सपदीति ॥ सपदि अद्रिः हिमवान् [ रुद्रसंरम्भभीत्या ] ह्रस्य संरम्भास्को - पान्द्रीत्या । संरम्भः संभ्रमे कोपे इति विश्वः । मुकुलिताक्षीं निमीलितनेत्राम् । बहुव्रीहौ समक्ष्णोः स्वाद्वात्यच् इति षच्प्रत्ययः । पितौरादिभ्यश्च इति ङीष् । अनुकम्पितुमहीम् अनुकम्प्याम् । ऋहलोत इति ण्यत्प्रत्ययः । दुहितरं १ कोप । २ परिहर्तकामः सौन्द्रदेव ३ समीक्ष्य ४ अभिमुखं. ५ भयं स ६ दवामा-यामः, ६८ कुमारसंभवे दोर्भ्यामादाय दन्तयोर्लमां दन्तलतां पद्मिनीं नलिनी विभ्रत्सुरगंज इव [ वेगदीर्घीकृताङ्गः ] वेगेन रयेण दीर्घीकृताङ्ग आयतीकृतशरीरः सन् । पन्थानं प्रतिगता मार्गानुसारिणी गतिर्यस्य स प्रतिपथगतिः आसीत् ॥ इति श्रीमन्महामहोपाध्यायकोला चलमल्लिनाथसूरिविरचितया संजीवनी समाख्यया व्याख्यया सभेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये मदनदहनो ( निग्रहो ) नाम तृतीयः सर्गः चतुर्थः सर्गः । मूच्छिता रतिरित्युक्तम् । संप्रति तद्वृत्तान्तमेवाह– अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता । विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥ १ ॥ भयेति ॥ अथ अनन्तरं मोहो ‘मूर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोहैकशरणा सती । परायणमभिप्रेते तत्परे परमाश्रये । इति यादवः । विवशा मूढत्वानिष्टा कामवधूः रतिः । असह्यवेदनम् असह्या दुःसहा वेदना यस्मिंस्तत्तथोक्तम् । विधवाया गतभर्तृकाया भावो वैधव्यम् । नवं च तद्वैधव्य येति नववैधव्यम् | नवग्रहणं दुःसहत्वद्योतनार्थम् । प्रतिपादयिष्यता अनुभावयिष्यता । क्रियार्थक्रियायां लट् । विधिना दैवेन । विधिविधाने देवे च इत्यमरः । विवोधिता । वैधव्यानुफलोऽयं विधिरिति भावः । अस्मिन्सर्गे वियोगिनीवृत्तानि विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी । इति लक्षणात् ॥ अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने । न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् || २ | अषेति ॥ सा रतिः [ प्रलयान्तोन्मिषिते ] प्रलयान्ते मूच्छवसाने । प्रलयो नष्टचेष्टता इत्यमरः । उन्मिषिते उन्मीलिते विलोचने । अवधानं परं प्रधानं ययोस्ते अवधानपरे दिदृक्षयावद्दिते चकार । दृष्टव्याभावात्तु न विवेदेस्याह - नैति ॥ प्रियं कामम् अतृप्तयोः तृप्तिं न गतयोः । नित्यदिदृक्षमाणयोरित्यर्थः । तयोः लोचनयोदर्शन किया पेक्षया संबन्धे षष्ठी । अत्यन्तविलुप्तं दर्शनं स्वलोचनयोः करणयोर्यस्य कर्मभूतस्य तम् अत्यन्तविलुप्तदर्शनं सन्तं न विवेद न ज्ञातवती । प्रियनाशापरिज्ञानादिक्षां चक्रे इति तात्पर्यार्थः ॥ १ निमग्नः । चतुर्थः सर्गः । 1 ६९ अर्यि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृतिः क्षितौ हरकोपानलभस्म केवलम् ॥ ३ ॥ अयीति ॥ अयीति प्रश्ने । अयि प्रश्नानुनययोः इति विश्वः । अयि जीवि तनाथ जीवसि प्राणिषि कच्चिद् इत्यभिधायोत्थितया तया रत्या पुरः अग्रे क्षितौ पुरुषस्य आकृतिरिवाकृतिर्यस्य तत् पुरुषाकृति केवलं एकं हरकोपानलभस्म ददृशे दृष्टम् । न तु पुरुष इति भावः ॥ अथ सा पुनरेव विह्वला वसुधालिङ्गन सरस्तनी । विललाप विकीर्णमूर्धजा समदुःखामित्र कुर्वती स्थलीम् ||४|| अथेति ॥ अथ भस्मदर्शनानन्तरम् पुनरेव विह्वला विक्लवा वसुधालिङ्ग नधूसरस्तनी वसुधालिङ्गनेन क्षितिलुण्ठनेन धूसरौ धूसरवण स्तनौ कुचौ यस्याः सा तथेोक्ता | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीष् । विकीर्णमूर्धजा विकीर्णा विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थली वनभूमिम् तत्रत्यान्प्राणिन इत्यर्थः । जानपद कुण्डगोणस्थल -इत्यादिना ङीष् । समदुःखां स्वतुल्यशोकां कुर्वतीय विललाप परिदेवितवती । विलापः परिदेवनम् इत्यमरः ॥ उपमानमभूद्विलासिनां करणं यचव कान्तिमत्तया । तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥५॥ उपेति ॥ तव यत्करणं गात्रम् । करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि । इत्यमरः । कान्तिमत्तया सौन्दर्येण हेतुना विलासिनां विलसनशीलानां कामिनाम् । वौ कपलस - इत्यादिना घिनुण्प्रत्ययः उपमीयते येन तद् उमानम् अभूत् । तत् करणम् इदम् ईटशीं दशाम् अवस्थां गतं प्राप्तम् । भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि । कर्तरि लट् । तथाहि - स्त्रियः कठिनाः खलु । कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरूपोऽर्थान्तरन्यासः । धीरसंचारिणो दृष्टिर्गतिर्गोषभाविता । स्मितपूर्व तथालापो विलास इति कीर्तितः ॥ क नु मां त्वदधीन जीवितां विनिकीर्य क्षणभिन्नसौहृदः । नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः ॥ ६ ॥ केति ॥ हे प्रिय क्षतसेतुबन्धनः भग्नसेतुबन्धनो जलसङ्घातः जलौघो नलिनीमिव । जलैकायत्तजीवितामिति शेषः । त्वदधीनजीवितां त्वदायसत्राणां मां क्व तु विनिकार्य कुत्र वा निक्षिप्य क्षण भिन्नसौहृदः क्षणत्यक्तसौहार्दः सन् । विद्रुतः पलायितः असि । नु विषादे । यथा पद्मिनी परिताज्य वारिपूरो गच्छति तथा मां विहाय गतोसीति । सौहृदस्य सेतुरुपमानम् । सेतुसौ- १ धूतराकृतिः । an हमारसंभवे हृदयोः स्थितिहेतुत्वेन साम्यम् । सुहृदो भावः सौहृदम् । युवादित्वादण्प्रत्ययः । हृदयस्य हल्लेखयदण्लासेषु इति हृदादेशः । अणि हृद्धावान हृद्भगसिन्ध्यन्ते पूर्वपदस्य च इत्युभयपदवृद्धिः । हृद्भूतस्याण्विधाने तूराभपदवृद्धिः स्यात् । यथा सुहृदो भाषः सौहार्दमिति । तदेवाद वामनः सौहृददौर्हृदशब्दावनणि हद्भावात् इति ॥ कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपयन्त्यै रतये न दीयते ॥ ७ ॥ कृतेति ॥ हे प्रिय त्वं मे मम विप्रियम् अप्रियं कृतवान् न असि । मया च ते तव प्रतिकूलम् अप्रियं न कृतम् । परस्परजीवितस्य परस्पराधीनत्वात्कुतः परिभवशङ्केति भावः । अकारणं निष्कारणम् एव । परस्परापकार रूपकारणाभावेऽपीत्यर्थः । क्रियाविशेषणमेतत् । विलपन्त्यै । त्वदर्शनार्थिन्या अपीति भावः ॥ रतये किं कथं दर्शनं न दीयते । क्रियाग्रहणाचतुर्थी ॥ विप्रियमाशङ्कते - स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि र्वा ॥ ८ ॥ स्मरसीति ॥ हे स्मर । गोत्रस्खलितेषु नामव्यत्यासेषु ( अन्यस्त्रीनाम्ना ममाह्रानेषु ) । गोत्रं नान्यचले कुले इति विश्वः । मेखलागुणैर्बन्धनं स्मरसि उस स्मरसि वा । विकल्पे किं किमुत च इत्यमरः । च्युत केशरैश्रेष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तानि [ च्युत केशरदूषितेक्षणानि ] अवतंसोत्पलताडनानि । सधूलिक्षेपताडनानीत्यर्थः । स्मरसि वा । अपकारस्मरणादिदमदर्शनमिति भावः ॥ हृदये वसतीति मत्प्रियं यदवोचस्तदवैमिकैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ ९ ॥ 1 हृदय इति । हृदये वससि इति स्मरवाक्यानुवादः । इत्येवंरूपं मत्प्रियं यदवोचः उक्तवानसि । श्रूञो लुङि वच उम् इत्युमागमः । तत्कैतवमवैमि मिध्येति मन्ये । इदं वचनम् उपचारपदं परस्य रञ्जनार्थे यदसत्यभाषणं स उपचारस्तस्य पदं स्थानम् | कैतवस्थानमिति यावत् । न चेत् त्वमनङ्गः अशरीरः कथं रतिः अक्षता अविनष्टा । आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ॥ न च मे कश्चिद्विचारः किंतु लोकः शोच्यत इत्याहपरलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तवः । विधिना जन एष वश्चितस्त्वदधीनं खलु देहिनां सुखम् ॥ १०॥ १ प. चतुर्थः समः । ७१ परलोकेति ॥ [परलोकनवप्रवासिनः ] परलोकं प्रति नवप्रवासिनः अचिरप्रोषितस्य । अनेनानुगमन कालानतिपातः सूच्यते । तव पदवीं मार्गे प्रतिपत्स्ये । स्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेन एष जनः लोकः वञ्चितः प्रतारितः । देहिनां सुखं स्वदधीनं लय्यधीनं खलु । अधिशब्दस्य शौण्डादिकत्वात् सप्तमी शौण्डैः इति समासः । अभ्युत्तरपदात् इति स्वप्रत्ययः । एवमन्यत्रापि । सुखप्रदाभावे कुतः सुखमिति भावः । सति कामे हि विषयाः सुखकारिणः || तदेवाह- रजनीतिमिरावगुण्ठितेपुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ॥ ११ ॥ रजनीति ॥ हे प्रिय । [ रजनीतिमिरावगुण्ठिते ] रजनीतिमिरेण अवगुण्ठित आटते पुरमार्गे घनशब्द विक्लवाः गर्जितभीताः प्रियाः अभिसारिकाः कामिनां वसतिं प्रापयितुं त्वद्वते त्वां विना । अन्यारादितरतें - इत्यादिना पञ्चमी । कः ईश्वरः शक्तः । न कश्चिदित्यर्थः । न हि कामान्धानां भीतिरस्तीति भावः ॥ नयनान्यरुणानि घूर्णयन्वचनानि स्खलन्पदे पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ।। १२ ।। नयनानीति ॥ अरुणानि नयनानि घूर्णयन भ्रमयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुतिः । वचनानि स्खलयन विपर्यासयन् । प्रमदानां वारुणीमदः मधमदः अधुना त्वय्यसति विडम्बना अनुकृतिमात्रम् । मदनाभाव मदस्य निष्फलस्वादिति भावः । तथा च शिशुपालवधे तां मदो दयितसमभूषः ( १० । ३४ ) इति ॥ अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः । बहुलेऽपि गते निशाकरस्तनुतां दुखमनङ्ग मोक्ष्यति ॥ १३ ॥ अवगम्येति ॥ हे अनङ्ग अशरीर । प्रियबन्धोः प्रियसखस्य तव वपुः शरीरं कधीकृतम् अकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टम् अवगम्य ज्ञात्वा निष्फलोदयः । उद्दीप्याभावादुद्दीपन वैफल्यमिति भावः । निशाकरः चन्द्रः बहुले कृष्णपक्षे गते अपि तनुतां कार्य्यं दुःखं यथा तथा कृच्छ्रात् मोक्ष्यति । वृषा वृद्धिरिति दुःखायिष्यत इत्यर्थः ॥ हरिवारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः । बद संगति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ १४ ॥ इमारसमवे हरितेति ॥ [ हरितारुणचारुबन्धनः ] हरितं चारुणं च । वर्णो वर्णेन इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य तथोक्तः । [ कलपुंस्कोकिलशब्दसूचितः ] । कलेन मधुरेण पुंस्कोकिलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च | चूतचर्वणकार्यत्वात्कलशब्दस्येति भावः । नवचूतप्रसवः नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति वद । अन्यस्य पुष्पबाणस्याभावादिति भावः || अलिपरिनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता । विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदितीव माम् ॥ १५ ॥ अलीति ॥ त्वया अनकेशः बहुशः धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकायै गुणवत्कर्मणि च नियोजिता अधिकृता इयम् अलिपङ्किः करुणस्वनैः दानस्वनैः विरुतैः कूजितैः गुरुशोकां दुर्भरदुःखाम् । गुरुस्तु गोष्पतै। श्रे गुरौ पितरि दुर्भरे ॥ इति शब्दार्णवः । माम् अनुरोदितीव । उपसर्गात्सकर्मकत्वम् । रुदादिभ्यः सार्वधातुके इतीडागमः ॥ प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ १६ ॥ प्रतिपद्येति ॥ तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्य उत्थितः सन् [ मधुरालापनिसर्गपण्डितां ] । मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भः कोकिलां रतिदूतिपदेषु सुरतदूतीस्थानेषु आदिश आज्ञापय । प्रगमानामेव दौत्याधिकार इति भावः । ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्गभयाद्ह्रस्वः । अपि माषं मषं कुर्याच्छन्दोभने त्यजेद्विरम् । इति केचित् ॥ उणादयो बहुलम् इति बहुलग्रहणाद्हस्व इति वल्लभः ॥ शिरसा प्रणिपत्य याचिता न्युपगूढानि सर्वेपथूनि च । सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे ॥ १७ ॥ शिरसेति ॥ हे स्मर | शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि । द्वितोऽथुच् इत्यथुच्प्रत्ययः । सात्त्विकान्तरोपलक्षणमेतत् । स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः ॥ इति । उपगूढानि आलिङ्गनानि च । नपुंसके भावेकः । तानि अनुभूतप्रकाराणि रहः एकान्ते सुरतानि च संस्मृत्य मे शान्तिः न अस्ति । अत्र समानकर्तृकत्वं दुर्घट समानक्रियापेक्षास्तीति केचित् ॥ १ बिततेः २ स्वरे. तुर्थः सर्गः । ७३ रचितं रतिपण्डित त्वया स्वयमङ्गेषु ममेदमार्तवम् । धियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ १८ ॥ रचितमिति ॥ हे रतिपण्डित रतिकुशल । त्वया ममाद्वेषु अवयवेषु स्वयं रचितम् । ऋतुरस्य प्राप्तः आर्तवं वासन्तम् । ऋतोरण इत्यण्प्रत्ययः । कुसुमप्रसाधनं पुष्पाभरणम् इदम् धियते अवतिष्ठते । शृञ् अवस्थाने इति धातोस्तीदादिकात्कर्तरि लट् । तव तत् प्रसादकं चारु सुन्दरं वपुः तु न दृश्यते ॥ विबुधैसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः । तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ १९ ॥ विबुधैरिति ॥ दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैः देवैः । अनभिज्ञत्वं च ध्वन्यते । यस्य मञ्चरणस्य परिकर्मणि प्रसाधने । प्ररिकर्म प्रसाधनम् । इत्यमरः ॥ असमाप्ते सति स्मृतः असि । तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं रचितलाक्षारागं कुरु एहि आगच्छ ॥ अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते । चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥ २० ॥ अहमिति || अहं पतङ्गवर्त्मना शलभमार्गेण अभिप्रवेशेनेत्यर्थः । पतङ्गः शलभे वामौ मार्जारेsh शरे खगे। इति वैजयन्ती । एत्य आगत्य पुनः ते अकाश्रयणी उत्सङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । वर्तमानसामीप्ये वर्तमानवद्वा इति लट् । हे प्रिय । दिवि स्वर्गे चतुरैः सुरकामिनीजनैः असरोगणैः यावन्न विलोभ्यसे विलोभविष्यसे । यावत्पुरानिपातयोर्लट् इति लट् ॥ मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे । वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि ॥ २१ ॥ मदनेनेति ॥ हे रमण | त्वामनुयामि यद्यपि अनुगमिष्याम्येव । वर्तमानसामीप्ये वर्तमानवद्वा इति लट् । यद्यपीत्यवधारणे इति केशवः । किंतु रतिः मदनेन विनाकृता । वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जीविता किल इति इदं वचनीयं निन्दा मे मम व्ययस्थितं स्थिरमभूत् ॥ क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया । सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ||२२|| क्रियतामिति ॥ [ परलोकान्तरितस्य ] परलेोकेऽन्तरितस्य व्यवहितस्य । मृतस्येत्यर्थः । ते तव मया अन्त्यमण्डनं कथं केम प्रकारेण क्रियताम 1 २ प्रति १ खमनकः. ७४ कुमारसंभवे क्रियतामित्यत्र कामचारे लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छ मण्डनमपि न संभवतीत्यर्थः । कुतः । अङ्गेन च जीवितेन च समं सह एव अतर्किताम् अविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः ॥ ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिर्वण्णधन्वनः । मधुना सह सस्मितां कथां नयनोपान्तर्विलोकितं च यत् ॥२३॥ ऋजुतामिति ॥ शरम् ऋजुताम् आर्जवं नयतः [ उत्सङ्गनिषण्णधनवमः ] उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । धनुषश्च इत्यनङादेशः । ते तव मधुना वसन्तेन सह । मधुर्दैत्ये वसन्ते च चैत्रे च इति विश्वः ॥ सस्मितां कथाम् आलापं तथा यत् नयनोपान्तविलोकितम् अपाङ्गवीक्षणम् । ते इत्यनुषङ्गः । तत् च स्मरामि ॥ क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः । न खलूग्ररुषा पिनाकिना गमितः सोऽपिः सुहृद्रतां गतिम् ||२४|| केति ॥ हृदयं गच्छतीति हृदयङ्गमः हृद्यः । खच्प्रकरणे गमेः सुप्युपसंख्यानम् इति खच्प्रत्ययः । अरुर्द्विषदजन्तस्य मुम् इति मुमागमः । ते तव सखा [ कुसुमायोजितकार्मुकः ] कुममैरायोजितमारचितं कार्मुकं येन । कार्मुकनिर्माता मधुः वसन्तः क्व नु क्क वा । गत इति शेषः । अथवा सोऽपि उग्ररुषा तीम्रकोपेण पिनाकिना ईश्वरेण [ सुहृद्गतां ] सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्मतामित्यर्थः । न गमितः खलु न प्रापितः किम् । जिज्ञासानुनये खलु इत्यमरः ॥ अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवहितः । रतिमभ्युपपत्तुमातुरं मधुरात्मानमदर्शयत्पुरः ।। २५ ।। अथेति ॥ अथ तैः परिदेविताक्षरैः विलापवचनैः हृदये दिग्धशरैः विषलिप्तमुखैः शरैः इव आहतः सन् । विषाक्ते दिग्धलिप्तकौ इत्यमरः । मधुः वसन्तः आतुराम् आपन्नां रतिमभ्युपपत्तुम् अनुग्रहीतुम् । आश्वासयितुमित्यर्थः । अभ्युपपत्तिरनुग्रहः इत्यमरः । आत्मानं पुरः अदर्शयत् । आविरभूदित्यर्थः ॥ तमवेक्ष्य रुरोद सा भृशं स्तेनसंबाधमुरो जघान च । स्वजनस्य हि दुःखमग्रतो विकृतद्वारमिवोपजायते ॥ २६ ॥ तामति ॥ सा रतिः तं मधुम अवेक्ष्य दृष्ट्वा भृशं रुरोद । स्तनौ संबाध्य स्तन संबाधम् । परिक्लिश्यमाने च इति णमुल् । उरः जघान ताडितवती च । तथाहि । स्वजनस्य अग्रतः दुःखं [ विवृतद्वारं] विवृतमपसारितं द्वारं कपार्ट यस्य तत् इव उपजायते आविर्भवति । उच्छृङ्गलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः ॥ १ निषेक, निषक २ विलोकितानि च ३ दिग्भफर्के: ४ इवार्दितः ५ गुरु. चतुर्थः सर्गः । इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् । तैदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकंर्बुरम् ॥। २७ ॥ इतीति ॥ दुःखमस्याः संजातं दुःखिता । संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिः एनं वसन्तम् इत्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त पश्य । सुहृदः त्वत्सखस्य किं स्थित किमुपस्थितम् । तद् इदं कपोतकर्बुरं पारावतशबलं कणशः चूर्णीभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते विक्षिप्यते । पश्य भस्मीभूतस्ते सुहृदित्यर्थः ॥ आये संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः । दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ २८ ॥ अयीति ॥ अयि स्मर संप्रति दर्शनं देहि । एष माधवः वसन्तः पर्युत्सुकः त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्कयाहनृणां पुरुषाणां दयितासु प्रेम अनवस्थितम् अस्थिरम् | चलमित्यर्थः । सुहृज्जने प्रेम तु न चलं खलु ॥ ईदृशाः सुहृदः कति न सन्तीत्याशङ्कय न कोऽपीत्याह- अमुना ननु पार्श्ववर्तिना जगदाझां ससुरासुरं तव । बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥ २९ ॥ अमुनेति ॥ ननु मदन । पार्श्ववर्तिना सहचरेण अमुना वसन्तेन ससुरासुरं सुरासुरसहितं जगत् बिसतन्तुगुणस्य मृणालसूत्र मौर्वीकस्य [ पेलवपुष्पपत्रिणः ] पेलवान कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तत्र धनुषः आज्ञां कारितम् | जगताज्ञा कारितेत्यर्थः । हृकोरन्यतरस्याम् इति जगतः कर्मत्वम् ॥ गत एव न ते निवर्तते स सखा दीप इवानिलाहत: । अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ ३० ॥ गत इति ॥ स ते सखा अमिलाइतः वायुताडितः दीपः इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिः इव तिष्ठामीति शेषः । दशा वर्तावस्थायां वस्त्रान्ते स्युर्दशा अधि । इति विश्वः । कुतः । अविषह्यव्यसनेन सोतुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य । धूमवस्वानष्टदीपदशासाम्यं धूमध्च व्यसनमेवेत्यर्थः । वर्तिरपि दीपे नष्टे धूमिता भवति ॥ १ यदू. २ प्रकीर्यते. ३ पाण्डुरम्. ४ सइत्स चचलम्. ५ कोमल, पेशल, ६ व्यसनमधूमिताम् भूपिताम् । ७६ कुमारसंभवे विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता । अर्नपायिनि संश्रयद्रुमे गजभने पतनाय वल्लरी ॥ ३१ ॥ विधिनेति ॥ ननु बसन्त कामवधे मदनवधे मां विमुखता वर्जयता | अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो घातुकः पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसम् अर्धवधः कृतम् । अर्धो वा एष आत्मनो यत्पत्नी इति श्रुतेः । पत्युः स्वस्य चाश्रयाश्रयीभूतयोरेकपदार्थत्वाभिप्रायेणार्वोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियम. श्रामामपि विधिरननेव हतवानिति तात्पर्यम् । एतदेवोपपादयतिअनपायिनि अनपायित्वेन विश्वस्ते संश्रयद्रुमे आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः । पतितुमेव सालमित्यर्थः । तुमर्थांच्च भाववचनात् इति चतुर्थी ॥ तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् । विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् ॥ ३२ ॥ तदिति ॥ तत् तस्मात्कारणादुतप्रकारेण । अन्यथापि मरणस्यावश्यं भावादिस्थर्थः । अनन्तरं भवता इदं वक्ष्यमाणं बन्धुजनप्रयोजनं वन्धुकृत्यं क्रियताम् । प्रार्थनायां लोट् । तदेत्रोपदिशति - ननु वसन्त । विधुरां विवश मां ज्वलनातिसर्जनाद् अमिदानात् पत्युरन्तिकं प्रापय । अभिप्रवेशनं कारयेत्यर्थः ॥ कर्तव्यश्चायमर्थः स्त्रीणामित्याह— शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ ३३ ॥ शशिनेति ॥ कौमुदी चन्द्रिका शशिना सह यांति । शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडित् सौदामनी मेघेन सह प्रलीयते प्रणश्यति । कर्तरि लट् । प्रमदाः स्त्रियः पतिवर्त्म गच्छन्तीति पतिवर्त्मगाः पतिमार्गानुगामिन्यः इति तावद्विवेतनैरल्पचेतनैः । अविवेकिभिरपीत्यर्थः । नाथस्तु पृथग्जनैरिति पपाठ । प्रतिपत्रं ज्ञातम् । अलवणा यवागूः अनुदरा कन्या इतिवदल्पत्वाभिप्रायेण विचेतनैरपीति निर्देशः । पतिवर्त्मगा इत्यत्र स्मृतिः –आर्ते मुदिते हृष्टा प्रोषित मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ इति ॥ अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना । नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ ३४ ॥ १ अनचापि महतापि हि २ संश्रिता मे. ३ भर्तुः ४ विलीयते. 1चतुर्थः सर्गः । * अमुनेति ॥ अमुना पुरोवर्तिना सुभगेन शोभनेन प्रियगात्रनाभस्मना एव एवकारो मण्डनान्तर निवृयः । कषायितस्तनी रजितस्तनी । रागे काभे arratsar निर्यासे सौरभे रसे । इति वैजयन्ती || नवपल्लवसंस्तरे यथा नवपल्लवतल्प इव विभावसौ वहौ तनुं शरीरं रचयिष्यामि । निधास्यामीत्यर्थः ॥ कुसुमास्तरणे सहायतां बहुशः सौम्य गतस्त्वमावयोः । कुरु संप्रति तावदाशु मे प्रणिपाता अलियाचितश्चिताम् ।। ३५ ।। कुसुमेति ॥ हे सौम्य साधो । त्वम् आवयोः रतिपश्चबाणयोः बहुशः बहुवारं कुसुमास्तरणे पुष्पश्यने सहायतां गतः । संप्रति प्रणिपाताञ्जलिना * याचितः । अञ्जलिपूर्वकं प्रार्थितः समित्यर्थः । आशु मे चितां काष्ठचयं कुरु कुरुष्व । यथेह तथामुत्रोपकर्तव्यं मित्रेणेत्यर्थः ॥ तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः । विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥ ३६ ॥ तदम्विति ॥ तत् चिताकरणम् अनु अनन्तरं मप्यर्पितं मदर्पितं ज्वलनम् अमिं दक्षिणवातवीजनैः मलयमारुतसंचारणैः त्वरयेः । स्वरितं ज्वलयेत्यर्थः । स्वराहेतुमाह–ते तव विदितं खलु । मतिबुद्धिपूजार्थेभ्य इति वर्तमाने कः । तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरः मां विना क्षणम् अपि न उत्सहते न हृष्यति । तथा त्वया ज्ञातमेवेत्यर्थः ॥ इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ । अविभज्य परत्र ‘तं मया सहितः पास्यति ते सबान्धवः||३७|| इतीति ॥ अपि च इति एवं विधाय कृत्वा नौ आवाभ्याम् एक एव सलिलस्याञ्जलिः दीयताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितः अविभज्य पास्यति ॥ परलोकविधौ च माधव स्मरमुद्दिस्य विलोलपल्लवाः । निवपेः सहकारमञ्जरी: प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥ परलोकेति ॥ किं च । माधव वसन्त । परलोकविधौ पिण्डोदको दिकमणि स्मरम् उद्दिश्य [ विलोलपल्लवाः ] विलोलाः पलवा यासु ताः सहकारमञ्जरीः धूतवहरीः नित्रयेः देहि । हि यस्मात्कारणार ते सखा स्मरः [मियचूतप्रसवः ] प्रियाः चूतप्रसवा यस्य स तथोक्तः ॥ १ मत्. ७८ कुमारसंभवे इति विमुक्तये स्थितां रतिमाकाशभवा सरस्वती । शफरीं हृदशोषविक्लवां प्रथमा दृष्टिरिवान्त्रकम्पयत् ॥ ३९ ॥ इतीति ॥ इति [ देहविमुक्तये ] देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् । कृतनिश्चयामिति यावत् । रतिम आकाशभवा सरस्वती अशरीरा वाक् [ हृदशोषविक्रयां ] हृदस्य जलाधारस्य शोषेण विक्लवां शफरी प्रोष्ठीम् । प्रोष्ठी तु शफरी द्वयोः । प्रथमा वृष्टिः वर्षम् इव अन्वकम्पयत् अनुकम्पितवती । सदयमुवाचेत्यर्थः । कृपा दयानुकम्पा स्यात् इत्यमरः ॥ कुसुमायुधपत्नि दुर्लभस्तव भर्ता न चिराद्भविष्यति । शृणु येन स कर्मणा गतः शलभत्वं हैरलोचनार्चिषि ।। ४० । । | कुसुमेति ॥ हे कुसुमायुधपत्नि रते । तव भर्ता चिरात् चिरं दुर्लभः न भविष्यति । किं त्वचिरमेव सुलभो भविष्यतीत्यर्थः । शृणु । तत्कर्मेति शेषः । येन कर्मणा स ते भर्ता [ हरलोचनाचिषि ] इरलोचनस्यार्चिज्वला । ज्वाला भासो नपुस्यर्चिः इत्यमरः । तस्मिन् शलभत्वं गतः । समौ पतशकभी इत्यमरः ॥ तदेव कर्मोपाचष्टे अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्मजापतिः । अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥ ४१ ॥ अभिलाषेति || उदीरितेन्द्रियः । प्रेरितेन्द्रियः स्मरेणेतिशेषः । प्रजापतिः ब्रह्मा स्वसुतायां सरस्वत्याम् अभिलाषम् अनुरागम् अकरोत् । अथ तेन प्रजापतिना विक्रियाम् इन्द्रियविकारं निगृह्य निरुष्य अभिशप्तः सन् । एतत्फलं दाहात्मकं स्वकर्मफलम् अन्वभूत् ॥ शापावधिरपि तेनैवोक्त इत्याह श्लोकद्वयेन -परिणेष्यति पार्वती यदा तपसा तत्मवणीकृतो हरः । उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥ ४२ ॥ इति चाह स धर्मयाचितः स्मरेशापावधिदां सरस्वतीम् । अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराचं योनयः ॥ ४३ ॥ परिणेष्यतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन [ तत्प्रवणीकृतः ] तस्यां पार्वत्यां प्रवणीकृ- १ विकार २ अन्यकम्पत. ३ रोचनार्चिषाम्, ४ स मोजयिष्यति. ५ स्मरशामा भवाम्. चतुर्थः सर्गः । ७९ तोऽभिमुखीकृतः हरः शिवः यदा पार्वतीं परिणेष्यति उद्रक्ष्यति । तदा उपलधसुखः प्राप्तानन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । सङ्गमयिष्यति । इति एवं । [ स्मरशापावधिदां ] स्मरशापास्यावघिदामवसानदायिनीं सरस्वतीं वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आहवशिनः जितेन्द्रियाः च अम्बुधारः च अशनेअमृतस्य च इति उभयो: योनयः प्रभवाः । वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ तदिदं परिरक्ष शोभने भवितव्याप्रियसङ्गमं वपुः । रविपीतजला तपात्यये पुनरोधेन हि युज्यंते नदी ॥ ४४ ॥ तदिति ॥ हे शोभने तत् तस्मात्कारणात् [ भवितव्यप्रियसङ्गमं ] भवितव्यो भविष्यन्प्रियसङ्गमो यस्य तत्तथोक्तम् इदं वपुः परिरक्ष । तथाहि । रविपीतजला नदी तपात्यये प्रावृषि । प्रावृट् तपात्यये इति हलायुध । पुनरोधेन प्रवाहेण युज्यते सङ्गच्छते हि ॥ इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाच्च कुसुमायुधबन्धुरेन- माश्वासयत्सुचरितार्थपदैर्वचोभिः ॥ ४५ ॥ इत्थमिति ॥ इत्थम् अनेन प्रकारेण अदृश्यरूपं किमपि भूतं कश्चित्प्राणी । युक्के क्ष्मादावृते भूर्त प्राण्यतीते समे त्रिषु । इत्यमरः ॥ रतेः मदनदाराणां मरणव्यवसायबुद्धिं मरणोद्योगबुद्धि मन्दीचकार । निवारयामासेत्यर्थः । मूढाल्पापटुनिर्भाग्या मन्दाः इत्यमरः । अथ कुसुमायुधवन्धुः वसन्तश्च तत्प्रत्ययात् तस्मिन्भूते विश्वासात् । प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । इत्यमरः । पनां रति [ सुचरितार्थपदैः ] सुष्ठु चरितार्थानि पदानि येषां तैः वचोभिः वाक्यैः आश्वासयत् । सर्वथा ते देवताप्रसादात्प्रियसङ्गमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारेत्यर्थः ॥ अथ मदनवधूरुपप्लवान्तं व्यसनकशा पैरिपाळ्यांबभूव । शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥ ४६ ॥ १ पूर्व १ एताम्. निपासू कुमारसंभवे अथेति ॥ अथ अनन्तरं [ व्यसनकृशा ] व्यसनेन दुःखेन कृशा मदनवधूः रतिः उपप्लवान्तं विपदवधिं [ किरणपरिक्षयधूसरा ] किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभस्य | सायंचिरम् - इत्यादिना टयुप्रत्ययः । शशिमः चन्द्रस्य लेखा प्रदोषं रात्रिम् इव परिपालयांबभूव प्रतीक्षांचक्रे । पुष्पिताप्रावृत्तम् - अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा | इति लक्षणात् ॥ इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृती कुमारसंभवे महाकाव्ये रतिविलापो नाम चतुर्थः सर्गः । पञ्चमः सर्गः तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥ १ ॥ तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणां अक्ष्णोः समीपे समक्षं पुरतः । अव्ययं विभक्तिसमीपसमृद्धि - इत्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिना ईश्वरेण [भग्नमनोरथा ] भग्नः खण्डितो मनोरथः अभिलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रूपं सौन्दर्य निनिन्द । घि मे रूपं यद्धरमनोहरणाय नालमिति गर्हितवतीत्यर्थः । युक्तं चैतदित्याह तथा हि । चारुता सौन्दर्य प्रियेषु पतिषु विषये [ सौभाग्यफला ] सौभाग्यं प्रियबाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते । नो चेद्विफलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्-जतौ तु वंशस्थमुदीरितं नरै इति लक्षणात् ॥ १ मिम्ये हि. इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशेः ॥ २ ॥

पचमः सर्गः ।
८१
इयेषेति ॥ सा पार्वती समाधिम् एकाग्रताम् आस्थाय अवलम्ब्य तपोभिः वक्ष्यमाणनियमैः कारणभूतैः आत्मनः स्वस्य अवमध्यरूपतां सफलसौन्दर्य कर्तुम् इयेष इच्छति स्म । तपसा शिवं वशीकर्तुमुद्युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तत् द्वयम् अवाप्यते । किं तद्वयम् । तथाभूता विधा प्रकारो यस्य तत् तथाविधं प्रेम मेहः । येनार्थीहरा हरस्य भवेदिति भावः । तादृशः पतिञ्च । यो मृत्युंजय इति भावः । द्वयमेव खलु स्त्रीणामपे क्षितं । यद्भर्तृवाल्लभ्यं जीवद्भर्तृकत्वं चेति । तच तपश्चर्येकसाध्यमिति निश्चिकायेत्यर्थः
। अत्र मनुः - यडुष्करं यदुरापं यदुर्ग यच दुस्तरम् । तत्सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥ इति ॥ निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनित्रतात् ॥ ३ ॥ निशम्येति । मेना मेनका च गिरीशप्रतिसक्तमानसां हरासतचितां तपसे तपश्चरणाय कृतोद्यर्मा कृतोद्योगां सुतां निशम्य श्रुत्वा एनां पार्वतीं वक्षसा परिरभ्य आलिङ्गय महतः मुनिव्रतात् तपसो निवारयन्ती उवाच । मुनित्रतादित्यत्र यद्यपि मुनित्रतस्य मेनकाया अनीप्सितत्वात् वारणार्थानामीप्सितः इति नापादानत्वं तथापि कृत्तेद्यमामिति मानसप्रवेशोक्तत्वात् ध्रुवमपायेऽपादानं इत्यपादानत्वमेव स्यात् । यथाह भाष्यकारः - यश्च मिथ्या संप्राप्य निवर्तते तच । ध्रुवमपायेऽपादानम् इति प्रसिद्धम् ॥ सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह– मनीषिताः सन्ति गृहेषु देवता- स्तपः क वत्से क च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ ४ ॥ मनीषिता इति । हे वत्से । मनस ईषिता इष्टाः । मनीषिताः । शकन्ध्वादित्वात्साधुः । देवताः शक्यादयो गृहेषु सन्ति । त्वं ता आराधयेति शेषः । तपः क्व । तवेदं तावकम् । युष्मदस्मदोरन्यतरस्यां खच इत्यण्प्रत्ययः । तवकममकावेकवचने इति तवकादेशः । वपुः च क्व । तथाहि । पेलवं मृदुलं शिरी- १ गिरीशं प्रति सक्त, त्रिनेत्र प्रतिसक्त, २ गृहेऽपि. ८२ कुमारसंभवे षपुष्पं भ्रमरस्य भृवस्य पदं पदस्थिति सहेत । पतत्रिणः पुनः पक्षिवस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योपभोगयोग्यं ते वपुर्न दारुणतपः क्षममिस्यर्थः ॥ अत्र दृष्टान्तालंकारः ॥ इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ।। ५ ।। इतीति ॥ इति एवम् अनुशासती उपदिशन्ती मेना प्रवेच्छां स्थिरव्यवसायां सुतां पार्वतीम् उद्यमात् उद्योगात्तपोलक्षणात् नियन्तुं निवारयितुं न श. शाक समर्धा नाभूत् । तथाहि । इप्सितार्थ स्थिर निश्चयं इष्टार्थे स्थिर निश्चय मननिम्नाभिमुखं पयः च कः प्रतीपयेत् प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः । rasaणं पय इष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितेः । अर्थान्तरन्यासालंकारः ॥ कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी । अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥ ६ ॥ कदाचिदिति || अथ कदाचित मनस्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञम् अभिलाषाभिनं पितरं हिमवन्तम् [ आसन्नसखीमुखेन ] आसन्न सख्याप्तसखी सैव मुखमुपायः । मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि । इति विश्वः ॥ तेन । [ फलोदयान्ताय ] फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थम् आत्मनः स्वस्य अरण्यनिवासं वनवा - सम् अयाचत । दुह्याच्-इत्यादिना द्विकर्मकत्वम् ॥ अथानुरूपाभिनिवेशतोषिणा कृताम्भनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिम ॥ ७ ॥ अथेति ॥ अथ गौरी [ अनुरूपाभिनिवेशतोषिणा ] अनुरूपेण योग्येन अभिनिवेशेनाप्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा १ मच्छाम सुते. पाव । कृताभ्यनुज्ञा तपः कुर्विति कृतानुमतिः सती पश्चात् तपःसिद्धयुत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् । न तु हिंसप्राणिप्रचुर मितिभावः । शिखरं शुक्रं जगाम ययौ ॥ विमुच्य सा दारमहार्यनिश्चया विलोलर्यष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्ण संहति ॥ ८ ॥ विमुच्येति || अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी [ विलोलयेष्ठिप्रविलुप्तचन्दनम् ] विलोलाभिश्वलाभिर्यष्टिभिः प्रतिसरैः प्रविलुप्तं प्रसृष्ट चन्दनं स्तनान्तरगतं येन तं तथोक्तं हारं मुक्तावलीं विमुच्य विहाय बालारुurag बालार्कपिङ्गलं [ पयोधरोत्सेधविशीर्ण संहति ] पयोधरयोः स्तनरुणबभ्रु योरुत्सेधेनोच्छ्रायेण विशीर्णा विघटिता संहतिरवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः ॥ यथा प्रसिद्धैर्मधुरं शिरोरुहै- र्जटाभिरप्येवमभूत्तदाननम् | न षट्पदश्रेणिभिरेव पङ्कजं सशैवळासङ्गमपि प्रकाशते ॥ ९ ॥ यथेति ॥ तस्या देव्या आननं तदानन प्रसिद्धैर्भूषितैः । प्रसिद्धौ ख्यातभूषितौ इत्यमरः । रोहन्तीति कहाः । इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैः मूर्धजैः यथा मधुरं प्रियम् अभूत् । स्वादुप्रियौ तु मधुरो इत्यमरः । जटाभिः अपि एवं मधुरमभूत । तथाहि । पङ्कजं पद्मं षट्पदश्रेणिभिः भ्रमरपक्तिभिः एव न किंतु सह शैवलासन सशैवलासङ्गम् अपि । तेन सहेति तुल्ययोगे इति बहुव्रीहिः । प्रकाशते । शैषलेनापि शोभत एवेत्यर्थः ॥ प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् । अकारि तत्पूर्वनिबद्धया तथा सरागमस्या रसनागुणास्पदम् ॥ १० ॥ १ दृष्टि. २ चन्दना ३ रूप. ४ हिराणाम्. વા कुमारसंभवे प्रतीति ॥ सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुण्यात्कृतरोमाचा त्रिगुणां त्रिरावृत्ता यां मौजीं मुञ्जमयीं मेखला व्रताय तपसे बभार । [ तत्पूर्वनिवद्धया ] तदेव पूर्व प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौजा अस्याः देव्याः [ रसनागुणास्पदम् ] रसना गुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितम् अकारि कृतम् । सौकुमार्यातिशयादिति भावः ॥ विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तथा करः ॥ ११ ॥ विसृष्टेति ॥ तया देव्या विसृष्टरागात् त्यक्तलाक्षारसरञ्जनात् अधरात् अधरोष्ठात् निवर्तितः । निसृष्टरागात् इति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा [ स्तनाङ्गरागारुणितात् । स्तनाङ्गरागेणारुणितादरुणीकृतात । पतनसमये तस्य स्तनयोरुपरोधादिति भावः । कन्दुकात् च निवर्तितः । [ कुशाङ्करादानपरिक्षताङ्गलिः ] कुशाङ्कराणामादानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य सो तथोक्तः करः पाणिः अक्षसूत्रप्रणयी अक्षमालासहचरः कृतः ॥ महाईशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एवं केवले ॥ १२ ॥ महार्हेति ॥ [ महार्हशय्यापरिवर्तनच्युतैः] महानही मूल्यं यस्याः सा महाह श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैटैः स्वकेशपुष्पैः अपि यां देवी दूयते स्म क्लिश्यति स्म । पुष्पाधिकसौकुमार्यादिति भावः । सा देवी बाहुलतामुपधत्ते उपधानीकरोतीति बाहुलतोपधायिनी सती केवले संस्तरणरहिते स्थण्डिले भूमौ एव अशेत शक्तिवती । तथा निषेदुषी उपविष्टा च । वसुव इति वसुः । उगितश्च इति ङीप् । भूमावेव शयनादिव्यवहारो न जातूपरीत्यर्थः ॥ पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् । १ निक्षपम्. पञ्चमः सर्गः । कतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ १३ ॥ ₹ ૫ पुनरिति ॥ नियमस्थया व्रतस्थया तया देव्या द्वये अपि द्वय पुनः ग्रहीतुं पुनरानेतुं निक्षेपः अर्पितमित्र निक्षेपत्वेनार्पितं किमु । कचित् द्वषु इति प्रामा दिकः पाठः । कुत्रद्वये किं द्वयमर्पितमित्याह -तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलोलदृष्टं नचलावलोकितं च । व्रतस्थायां तस्यां तयोरदर्शनालतादिषु दर्शनाचार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः ॥ अतन्द्रिता सा स्वयमेव वृक्षकान घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहोsपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ १४ ॥ अतन्द्रितेति ॥ सा देवी स्वयमेव अतन्द्रिता असततन्द्रा सर्त । तारकादित्वादितच्प्रत्ययः । वृक्षकान् स्वल्पवृक्षान् । अल्पे इत्यल्पार्थे कप्रत्ययः । घटस्तनप्रस्रवणैः] घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिः व्यवर्धयत् । गुहः कुमारः अपि प्रथमाप्तजन्मनां प्रथमलब्ध जन्मनाम् । अप्रजाताना. मित्यर्थः । येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम न अपाकरिष्यति । उत्तरत्र कुमारोदयेपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः ॥ अरण्यबीजाञ्जलिदानलालिता- स्तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात् पुरः सखीनाममिमीत लोचने ॥ १५ ॥ अरण्येति ॥ [ अरण्यबीजाञ्जलिदानलालिताः ] अरण्यबीजानां नीवारादीनामज लयस्तेषां दानेन लालिताः हरिणाः च तस्यां देव्यां तथा विशश्वसुः विस्रम्भं जग्मुः । समौ विस्रम्भविश्वासौ इत्यमरः । यथा कुतुहलात् औत्सुक्यात् तदीयैः हरिण सबन्धिभिः नयनैः नेत्रैः करणैः । स्वकीये लोचने सखीनां पुरः पुरतः । अनेन तेषां संबन्ध सहत्वमुक्तम् । अमिमीत । अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयेनैतैः कुतूहलात्पुरोये वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वान्नात्मन इत्याहुः । माह् माने इत्यस्माद्धातोर्कङ् । इयमेव खलु विश्वासस्य पराकाष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः ॥ १ दृष्टिस्. ક્ कुमारसंभवे तपः प्रमायमाह कृताभिषेकां हुतजातवेदसं स्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोभ्युपागम- न धर्मवृद्धेषु वयः समीक्ष्यते ॥ १६ ॥ कृतेति ॥ कृताभिषेकां कृतस्नानां हुतजातवेदसं हुतामिकाम् । कृतहोमामित्यर्थः । त्वचा वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगुत्तरासगवतीम् । अधीतमस्या अस्तीति अधीतिनीं स्तुतिपाठादि कुर्वतीम् । इष्टादिभ्यश्च इत्ती निप्रत्ययः । तां देवी क्षिवः द्रष्टुमिच्छवः ऋषयः मुनयः अभ्युपागमन् समुपागताः । न चात्र कनिष्ठसेवादोष इत्याहधर्मवृद्धेषु वयः न समीक्ष्यते न प्रमाणीक्रियते । सति धर्मज्यैष्ठये वयोज्यैष्टर्य न प्रयोजकमित्यर्थः । तथा च मनुःन तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवा: स्थविरं विदुः ॥ इति ॥ विरोधिसत्त्वोज्झितपूर्वमत्सरं दुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तच्च बभूव पावनम् ॥ १७ ॥ विरोधौति || [ विरोधिसत्त्वोज्झित पूर्वमत्सरं ] विरोधिभिः सवैर्गोव्याप्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । द्रुमैः [ अभीष्टप्रसवार्चितातिथि ] अभीष्टप्रसवेनेष्टफलेनार्चिताः पूजिताः अथितयो यस्मिंस्ततथोक्तम् । [ नवोटजाभ्यन्तरसंभृतानलं ] नवानामुटजानां पर्णशालानामभ्यन्तेरषु संभूताः संचिता अनला अमयो यस्मिंस्ततथोक्तं तच्च तपोवनं पावयतीति पावनं वभूव । अहिंसातिथिसत्कारामिपरिचर्याभिर्जगत्पावनं बभूबेयर्थः ॥ ’ यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षिन्तम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ १८ ॥ १ सर्वसमापिसाधमम् ।पञ्चमः सर्गः यदेति । सा देवी यदा यस्मिन् काले तावता तावत्प्रमाणेन [ पूर्वतपःसमाधिन ] पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काङ्कितं फलं लभ्यं लब्धुं शक्यं नामंस्त अशक्यममंस्तेत्यर्थः । तदा तत्काले । अविलम्बेनेत्यर्थः । स्वशरीरस्य मार्दवं मृदुत्वं सौकुमार्यम् अनपेक्ष्य अविगणय्य महत् दुश्वरं तपः चरितं साधयितुं प्रचक्रमे उपचक्रमे ॥ मं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाद्यत || ध्रुवं वपुः काञ्चनपद्मर्निर्मितं मृदु प्रकृत्या चं ससारमेव च ।। १९ ।। क्रममिति ॥ या देवी कन्दुकलीलया कन्दुकक्रीडया अपि कुमं ययौ ग्लानिं प्राप । तया देव्या मुनीनां चरितं तीव्रं तपः व्यगाह्यत प्रविष्टम् । अत्रोत्प्रेक्षते ध्रुवम् अस्याः वपुः [ काञ्चनपद्मनिर्मितं ] काञ्चनपद्येन सुवर्णकमलेन निर्मितं घटितम् । अतएव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि कानस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वादेव्या वपुष: सुकुमारस्यापि तीव्रतपःक्षमत्वमित्युत्प्रेक्षार्थः ॥ शुचौ चतुर्णा ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभा- मनन्यदृष्टिः सवितारमैक्षत ॥ २० ॥ शुचाविति ॥ शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजाम् अग्नीनां मध्यगता सती । नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजः विजित्य । न विद्यतेऽन्यत्र दृष्टिर्यस्याः सा अनन्यदृष्टिः सती सवितारं सूर्यम् ऐक्षत ददर्श । ग्रीष्मे पश्चाभिमध्यस्थो वर्षासु स्थण्टिलेशयः । इति स्मरणात् । पञ्चाग्निमध्ये तपश्वचारेत्यर्थः । सवितैव पञ्चमोऽभिःअभिः सविता सवितैवाग्मिः इति श्रौतलिङ्गा ॥ तथातितप्तं सवितुर्गभस्तिभि- मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥ २१ ॥ १ संनिभम् २ हि. ३ तथाभितप्तम् तथापि नमस् ce कुमारसंभवे तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैः तथा पूर्वोक्तप्रकारेण अतितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां वृधौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किंत्वस्य मुखस्य दीर्घयोः अपाङ्गयोः केवलं नेत्रान्तयोरेव शनैः शनैः मन्दमन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्यादित्यर्थः ॥ अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः किल पारणाविधि- नर्वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ २२ ॥ अयाचितेति ॥ अयाचितोपस्थितम् अप्रार्थितोपनतं केवलम् अम्बु उदकं रसात्मकस्य अमृतमयस्य [ उडुपतेः] उडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयः च तस्याः पार्वत्याः पारणाविधिः अभ्यवहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यपदेश: साधनान्तरव्यावृत्त्यर्थः । किल इति प्रसिद्धौ । [ वृक्षवृत्तिव्यत्तिरिक्तसाधनः ] वृक्षाणां या वृत्तिजीवनोपायस्तद्वयतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिः न बभूव । वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् । अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः ॥ निकामतप्ता विविधेन वह्निना नभश्वरेणेन्धन संभृतेन स । तपात्यये वारिभिरुक्षिता नवै- र्भुवा सहोष्पाणममुञ्चदूर्ध्वगम् ॥ २३ ॥ निकामेति ॥ विविधेन । पञ्चविधेनेत्यर्थः । नभश्वरेण खेचरेण । आदित्यरूपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकामम् अत्यन्तं तप्ता सा अम्बिका तपात्यये ग्रीष्मान्ते । प्रावृषीत्यर्थः । नवैः वारिभिः उक्षिता सिता सती भुवा पश्चानित्तया सह ऊध्वर्गम् ऊर्ध्वप्रसृतम् ऊष्माणं वाष्पम् अमुञ्चत् ॥ प्रीष्मोष्मवाष्पमुष्माणम् इति यादवः ॥ स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपात चूर्णिताः । बलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदविन्दवः ॥ २४ ॥ १ इत्तिः २ सामन. ३ द्विबिन. ४ च. पञ्चमः सर्गः । स्थिता इति ॥ [ प्रथमोदविन्दवः ] उदकस्य बिन्दवः उदविन्दवः । मन्थौ. दन - इत्यादिनोदकशब्दस्योदादेशः । प्रथमे उदबिन्दवः । प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते । तथा च चिरत्वनाभ्यन्तरगमनयोर्नि वहः । तस्याः पार्वत्याः पक्ष्मसु नेत्र लोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां सान्द्रवं क्षणमिति नैग्ध्यं च गम्यते । अनन्तरं [ ताडिताधराः ] ताडिता व्यथितोऽघर ओष्ठो यैस्ते तथोक्ताः । एतेनाधरस्य मार्दवं गम्यते । ततः [ पयोधरोत्सेधनिपातचूर्णिताः ] पयोधरयोः स्वनयोः उत्सेधे उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः । कुत्रकाठिन्यादिति भावः । तदनु बलीषु उदररेखासु स्खलिताः । निनोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रतिबन्धबाहुल्यादिति भावः । नाभि प्रपेदिरे प्रविष्टाः । न तु निर्जग्मुः । एतेन नाभेर्गाम्भीर्य गम्यते । अत्र प्रतिपदमर्थवत्त्वात्परिकरालंकारः ॥ शिलाशय तामनिकेतवासिनीं निरन्तरास्त्रन्तरवातदृष्टिषु । व्यलोकयमिषितैस्तडिन्मयै- महातपःसाक्ष्य इव स्थिताः क्षपाः ॥ २५ ॥ शिलाशयामिति ॥ निरन्तरासु नीरन्ध्रासु अन्तरे मध्ये वातो यासां तादृश्यो या वृष्टयस्तासु अन्तरवातवृष्टिषु । न निकेते गृहे वसतीति अनिकेतवासिनीम् । अनावृतदेशवासिनीमित्यर्थः । शिलायां शेत इति शिलाशयां शिलातलशायिनीम् । अधि करणे शेतेः इत्यप्रत्ययः । तां पार्वती [ महातपः साक्ष्ये] साक्षाद्रष्टा साक्षी । साक्षाद्रष्टरि संज्ञायाम् इतीनिप्रत्ययः । तस्य कर्म साक्ष्यम् । महातपसः साक्ष्ये स्थिताः क्षपाः तडिन्मयैः विद्युद्रपैः उन्मिर्षितैः अवलोकनैः व्यलोकयन् इव । इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते । साक्ष्यं तु आदित्यचन्द्राव निलोऽनलच द्यौर्भूमिरापो हृदयं यमश्च । अश्व रात्रिच उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् । इति प्रमाणसिद्धस्वानोत्प्रेक्ष्यमित्यनुसंधेयम् ॥ एवं वर्षासु विहितं तपःप्रकारमुक्त्वा संप्रति हेमन्ते तपश्चरणप्रकारमाह– निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥ २६ ॥ निनायेति ॥ सा पार्वती । [ अत्यन्तहिमोत्किरानिलाः ] उत्तिरन्ति १ अत्यर्थ, अत्यर्थहिमोत्तरानिका:. • कुमारसंभवे क्षिपन्तityस्किराः । इगुपधज्ञा इत्यादिना कः । अत्यन्तं हिमानामुरिकराअनिला यासु ताः सहस्यरात्री: पौषरात्रीः । पौषे तैषसहस्यौ द्वौ इत्यमरः । उदके वास उदवासः । पेषवासवाद्दनधिषु च इत्युदादेशः । [ उदवासतत्परा ] उदवासे तत्परा आसता तथा [ परस्पराक्रन्दिनि ] परस्परमाक्रन्दिन्यन्योन्यमाक्रोशिनि पुरः अग्रे वियुक्ते विरहिणि । वियोगं प्राप्ते इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोः चक्रवाकयोः मिथुने इन्हें कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमिथुने कुरा न तु कामितयेति वाच्यानवकाशः | अप्सु वासस्तु देमन्ते क्रमशो वर्धयेसपः । इति मनुः ॥ मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषार वृष्टिक्षत पद्मसंपदां सरोजसन्धानमिवाकरोदपाम् ॥ २७ ॥ मुखेनेति ॥ सा पार्वती निशि रात्रौ [ पद्मसुगन्धिना ] पद्मवत्सुगन्धिना सुरभिणा । गन्धस्येत्-इत्यादिनेकारः । [ प्रवेपमानाधरपत्रशोभिना ] प्रवेपमानः कम्पमानोऽघर ओष्ठ एवं पत्रं दलं तेन शोभत इति तथोक्तेन मुखेन [तुषार वृष्टिक्षतपद्मसंपदां ] तुषारऋष्ट्या तुद्दिनवर्षेण क्षता नाशिताः पद्मसंपदो यासां तासाम् अपां सरोजसन्धानं पद्मसङ्घट्टनम् अकरोद् इव । इत्युत्प्रेक्षा लंकारः । पद्मान्तरं तुहिनेनोपहन्यते तन्मुखपद्मं तु न तथेति व्यतिरेकालंकारे। व्यज्यते इत्युभयोः सङ्करः ॥ स्वयंविशीर्णदुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ २८ ॥ स्वयमिति । [ स्वयंविशीर्णदुमपर्णवृत्तिता ] स्वयं विशीर्णानि स्वतव्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परमुत्कर्षो हि । काष्ठोत्कर्षे स्थितौ दिशि इत्यमरः । तया देव्या पुनः तत् पर्णवर्तनम अपि अपाकीर्णम अपाकृतम् । अतः पर्णापाकरणाद्धेतोः । [प्रियंवदां ] प्रियं वदतीति प्रियंवदा ताम् । प्रियवशे वदः खच् इति खच्प्रत्ययः । अरुर्द्विषदजन्तस्य - मुम इति मुमागमः । तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमयेऽविद्यमानं पर्णभक्षणं यस्याः सा अपर्णेति वदन्ति च । नामान्तरसमुश्वयार्थश्वकारः । स्वयं प्रियंवदाः परेषामपि प्रियवादभाजनानि भवन्तीति भावः । अत्र अपर्णाम् १ पत्र पञ्चमः सर्गः । ११ इत्यपपाठ इतिशब्दाभिहिते द्वितीयानुपपत्तेः । यथाह वामन: - निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् इति ॥ मृणालिकापेलवमेवमादिभि- व्रतैः स्वमंङ्गं ग्लैपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्वकार सा ॥ २९ ॥ मृणालिकेति ॥ मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयम् अ शरीरम् एवम् आदिभिः एवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैः व्रतैः अहव निशा च अहर्निशम् । समाहारे द्वन्द्वैकवद्भावः । अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती सा पार्वती कठिनैः । क्लेशस हैरित्यर्थः । शरीरैः उपार्जितं संपादितं तपस्विनाम् ऋषीणां तपः दूरम् अत्यन्तम् अधश्चकार । अतिशिश्ये इत्यर्थः । तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्पर्यार्थः ॥ अथाजिनाषाढधरः प्रगल्भवाग्- ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कचिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ।। ३० ।। अथेति ॥ अथ अनन्तरम् [ अजिनाषाढधरः ] अजिनं कृष्णमृगत्वम् । आषाढः प्रयोजनमस्येत्माषादः पालाशदण्डः । पालाशो दण्ड आषाढः इत्यमरः । विशाखाषाढादण्मन्यदण्डयोः इत्यण्प्रत्ययः । तयोर्धरस्तथोक्तः । प्रगल्भवाक् प्रौढवचन: ब्रह्ममयेन वैदिकेन तेजसा । ब्रह्मवर्चसेनेत्यर्थः । ज्वलन्निव स्थितः । इवशब्दो निर्धारणार्थः । कश्चिद अनिर्दिष्टः जटिलः जटावान् । ब्रह्मचारीति शेषः । पिच्छादित्वादिल प्रत्ययः । शरीरबद्धः बद्धशरीरः । शरीरवानित्यर्थः । वाहिताग्न्यादिषु पाठात्साधुः । प्रथमाश्रमः यथा ब्रह्मचर्याश्रम इव । यथाशब्द इवार्थे । तपोवनम् । देव्या इति शेषः । विवेश प्रविष्टवान् ॥ १ कोमल, तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती २ तवक्रम. ३ क्षपयन्ती. २९-३० लोकयोर्मध्ये क्षेपकोऽयं दृश्यते– 1 सुराः समु ( तदु ) द्वश्यि नगेन्द्रकन्यया कृतं तपः शंभुदशक्रियाक्षमम् । याच तं भणिपत्य दुःखिताः पतिं चमून सुतमाजिहेतुम् (हेतवे ) ॥ ११ कुमारसंभवे भवन्ति साम्येsपि निविष्टचेतसा वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ३१ ॥ तमिति || अतिथिषु साध्वी आतिथेयी । पथ्यतिथि - इत्यादिना वञ्प्रत्ययः । टिड्ढाणव् इत्यादिना ङीप् । पार्वती तं ब्रह्मचारिणं बहुमानपूर्वया बहुमानः पूर्वो यस्यास्तया । गौरवपूर्वयेत्यर्थः । सपर्यया अर्चया । सपर्यार्चार्हणाः समाः इत्यमरः । प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तादृशी प्रतिपत्तिरत आहसाम्ये सति अपि निविष्टचेतसां स्थिरचित्तानां वपुर्विशेषेषु व्यक्तिविशेषेषु अतिशयितं गौरवं यासु ताः अतिगौरवाः अतिगौरवसहिताः क्रियाः चेष्टाः भवन्ति । प्रवर्तन्ते इत्यर्थः । साधवो न साम्याभिनिवेशिन इति भावः ॥ विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ।। ३२ ।। विधीति । सः ब्रह्मचारी विधिना प्रयुक्ताम् अनुष्ठितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय नाम । नामेत्यपरमार्थे । अथ उमाम् ऋजुनैव विलासरहितेनैव चक्षुषा पश्यन अनुज्झितक्रमः अस्य कोचितपरिपाटीकः सन् । वक्तुं प्रचक्रमे प्रारेभे ॥ अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ ३३ ॥ अपीति ॥ अत्रापिशब्दः प्रश्ने । क्रियार्थ होमादिकर्मानुष्ठानार्थम् । समिघश्च कुशाच समित्कुशम् । जातिरप्राणिनाम् । इति द्वन्द्वैकवद्भावः । सुलभम् अपि सुलभं कश्चित् । जलानि ते तव स्नानविधिक्षमाणि नानक्रियायोग्यानि अपि कचित् । किंच स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्तसे अपि । देहमपीडयित्वा तपश्चरसि कश्चिदित्यर्थः । युक्तं न नामैतत् । खलु यस्मात् शरीरम् आद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्धया धनादिना च बहुभिः साध्यते तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाममोक्षणावतुर्वर्गाः 1 १ अधि. २ प्रति गुह्य ३ अयि ४ क्रियामै ५ विधी. • पञ्चमः सर्गः । ९३ साध्यन्ते । अतएव सततमात्मानमेव गोपायीत इति श्रुतिः । अन्यथाबलमारम्भो निदानं क्षयसम्पदामिति भावः ॥ अपि त्वदावर्जित वारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ ३४ ॥ अपीति ॥ [ त्वदावर्जितवारिसंभृतं ] त्वयावर्जितेन सिकेन वारिणा संभूतं जनितम् आसां वीरुधां लतानां प्रवालं पलवम् अनुबन्धि अपि अनुस्यूतं किम् । यत् प्रवालं चिरोज्झितश्चिरकालत्वको लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्तकपाटलेन ते तब दन्तवाससा अधरेण । ओष्टाधरौ तु रदनच्छदौ दशनवाससी इत्यमरः । तुलां साम्यम् आरोहति । गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वायोगेऽपि तुल्यार्थैरतुलोपमाभ्याम् — इति न तृतीयाप्रतिषेधः तत्र सूत्रे सदृशवाचिन एवं ग्रह्णादिति ॥ अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि प्रचलैर्विलोचनै- स्तवाक्षि सादृश्यमिव प्रयुञ्जते ।। ३५ ।। अपीति ॥ [ करस्थदर्भप्रणयापहारिषु ] करस्थान्दर्भान्प्रणयेन स्नेहेनापरदन्तीति ते तथोक्तेषु । सापराधेष्विति भावः । करस्थदर्भप्रणयापराधिषु इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु । हरिणेषु विषये ते मनः प्रसन्नम् अपि न क्षुभितं किम् । सापराधेष्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि । ये हरिणाः प्रचलैः चञ्चलैः विलोचनैः नेत्रैः तवाक्षिसादृश्यं प्रयुते व अभिनयन्तीव । प्रयन्नत्वान्मृगनेत्राणि त्वन्नयनेनाभ्यां साम्यमुपयान्तीति मावः । उत्पलक्षेपचलैः इति पाठान्तरे उत्पल कम्पचलैः । भावानयने द्रव्यानयनमिति न्यायेन क्षिप्यमाणोत्पलचलैरित्यर्थः ॥ I यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । १ अभि. २ सापत्म्यम्. ९४ कुमारसंभवे तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ ३६ ॥ यदिति ॥ हे पार्वति रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवति । इति यदुच्यते । लोकैरिति शेषः । तद्वचः न व्यभिचरति न स्खलतीति अव्यभिचारि सत्यम् । यत्राकृतिस्तत्र गुणाः । न सुरूपाः पापसमाचारा भवन्ति । इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते - तथाहि । हे उदारदर्शने आयताक्षि । सुरूपे इत्यर्थः । अथवोन्नतज्ञाने । विवेकवतीत्यर्थः । ते तव शीलं सदृत्तम् । शीलं स्वभावे सद्वृते इत्यमरः । तपस्विनाम् अपि उपदिश्यते अनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्ताम् उपदेशतां गतं प्राप्तम् । मुनयोपि त्वां वीक्ष्य स्ववृत्ते प्रवर्तन्त इति भावः ॥ विकीर्णसप्तर्षिबलिंमहासिभि स्तथा न गाङ्गः सलिलैर्दिवच्युतैः । यथा त्वदीयैश्वरितैरना विलै- महीधरः पावित एष सान्वयः ॥ ३७ ॥ विकीर्णेति । एष महीधरः हिमवान् । [ विकीर्णसप्तर्षिवलिप्रहासिभिः ] सप्त च ते ऋषयश्च सप्तर्षयः । दिक्संख्ये संज्ञायाम् इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः पुष्पोपहारैः प्रहसन्ति नैः तथोक्तैः दिवः अन्तरिक्षात् च्युतैः गाँङ्गैः सलिलैः तथा न पावितः । अनाविलैः अकलुपैः त्वदीयैः चरितैः यथा सान्वयः सपुत्रपौत्रः पावितः पवित्रीकृतः ॥ अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि । त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥ अनेनेति ॥ हे भाविनि प्रशस्ताभिप्राये । अनेन कारणेन धर्मः सविशेषं सातिशयम् अद्य मे । [ त्रिवर्गसारः ] त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्ग: । त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः । इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यत् यस्मात्कारणात् [ मनोनिर्विषयार्थकामया ] मनसो निर्विषयावर्थकामौ यस्यास्तया त्वया एकः धर्मः एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः । अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः || संप्रति मनोरथं जिज्ञासुः प्रस्तौति– १ प्राहिभिः २ भामिनि, पञ्चमः सर्गः । प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि । यतः सतां सन्नतगात्र सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ ३९ ॥ १५ प्रयुक्तेति ॥ आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं [ प्रयुक्तसत्कारविशेषं ] मां परम अन्यं संप्रतिप्रत्तुम् अवगन्तुं न अर्हसि । हे सन्नतगात्र सन्नताङ्गि अङ्गगात्र कण्ठेभ्यः इति वक्तव्यात् ङीप् । यतः कारणान्मनस ईषिभिः मनीषिभिः विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां सङ्गतं सख्यं सप्तभिः पदैरापयत इति साप्तपदीनं सप्तपदोश्वारणसाध्यम् उच्यते । तचावयोस्त्वत्कृत सत्कारप्रयोगादेव सिद्धमित्यर्थः । साप्तपदीनं सख्यम् इति निपातनात्साधु ॥ अतोऽत्रे किंचिद्भवतीं वक्षमां द्विजतिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥४०॥ अत इति ॥ हे तपोधने अतः सख्याद्धेतोः अत्र प्रस्तावे बहुक्षमां बहूतिसहाम् । यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद् ब्राह्मत्वाद् उपपन्नचापलः सुलभधाष्टर्थः अयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किंचित्प्रष्टुमनाः प्रष्टुकामः । तुम्काममनसोरपि इति मकारलोपः । रहसि भवं रहस्ये गोप्यं न चेत्प्रतिवक्तुम अर्हसि ॥ प्रष्टव्यमाह- कुले प्रसूतिः प्रथमस्य वेधसत्रिलोक सौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वयस्तपः फलं स्यात्किमतः परं वेद ॥ ४१ ॥ कुल इति ॥ प्रथमस्य वेधसः हिरण्यगर्भस्य कुले अन्ववाये प्रसूतिः उत्पत्तिः । यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः । इति ब्रह्मपुराणवचनात् ॥ वपुः शरीरं [त्रिलोकसौन्दर्य ] त्रयाणां लोकानां सौन्दर्यम् इवोदितम् एकत्र समाहृतम् । ऐश्वर्यसुखं संपत्सुखम् अमृग्यम् अन्वेषणीयं न भवति । किंतु सिद्धमेवेत्यर्थः । वयः नवम् । यौवनमित्यर्थः । अतः परम् अतोऽन्यत् किं तपःफलं स्य मद । अस्ति चेदिति शेषः । न किंचिदस्तीत्यर्थः ॥ भवत्यनिष्टादपि नाम दुःसहा- न्मनस्विनीनां प्रतिपत्तिरीदृशी ॥ १ यथा. २ अय. ३ मे… प्रतिगोस् ४ तत्थितम् ५ तब. ९५ कुमारसंभवे विचारमार्गमहितेन चेतसा न दृश्यते तच्च कुशोदरि त्वयि ॥ ४२ ॥ भवतीति ॥ दुःसहात् ) सोढुमशक्याद् अनिष्टाद् भर्त्रादिकृतात् अपि मनस्विनीनां घोरस्त्रीणाम् ईदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्यो इति केशवः । भवति नाम । नामेति संभावनायाम् ॥ [ विचारमार्गमहितेन ] विचारमार्गे प्रहितेन चेतसा चित्तेन तद अनिष्टं च हे कृशोदरि त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसंभावितत्वादित्यर्थः ॥ अनिष्टाभावमेव प्रपञ्चयति– अलभ्यशोकाभिभवेयमाकृति- विमानना सुभ्रुकुतः पितुर्गृहे । पर्रोभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥ ४३ ॥ अलभ्येति ॥ हे सुभ्रु । इयं त्वदीया आकृतिः मूर्तिः [ अलभ्यशोकाभिमवा] अलम्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता । दृश्यत इति शेषः । असंभावितश्चायमर्थ इत्याहपितुर्गृहे विमानना अवमानः कुतः न संभाव्यत एवेत्यर्थः । न चाप्यन्यस्माद्भावात्याह–पराभिमर्शः परधर्षणं तु तव न अस्ति । पन्नगरत्न सूचये फणिशिरोमणिशलाको । ग्रहीतुमित्यर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति चतुर्थी । करं हस्तं कः प्रसारयेत् । सुभ्रु इत्यत्र भ्रूशब्दस्योवस्थानीयत्वात् नेयङुवङ्स्थानावस्त्री इति नदीसंज्ञाप्रतिषेधात् अम्बार्थनद्योर्हस्वः इति हस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु अप्राणिजातज्ज्ञादीनाम् इत्यत्र अलाबूः कर्कन्धूः इत्युकारान्तादप्यूङ्प्रत्ययमुदाजहार भाष्यकार एतस्मादेव ज्ञापकात्कचिदूकारान्तस्याप्यूडन्त - त्वामदत्वे हस्वत्वमित्याहुः । अतएवाह वामनः ऊकारादप्यूङ् प्रकृतेः ( प्रवृत्तेः ) इति सुत्रः कुतस्तात गृहेऽवमाननम् इति पाठान्तकरणं तु साहसमे वो कोपपत्तिसंभवात् । अन्यत्रापि सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता योषिताम् इत्यादिप्रयो गदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गपसङ्गाचत्यलं गोष्टीभिः ॥ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ ४४ ॥ १ सन्दरि २ पराणमर्शः.पञ्चमः सर्गः । किमिति ॥ हे गौरि किमिति केन हेतुना यौवने त्वया आभरणानि अपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद्वुञ्प्रत्ययः । वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि । इति विश्वः । तल शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे स्फुटाः प्रकट वन्दस्तारकाच यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिः अरुणाय सूर्यसुताय कल्पते यदि अरुणं गन्तुं कल्पते किम् । वद ब्रूहि । क्रियार्थोपदस्य इत्यादिना चतुर्थी । दीप्यमानशशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः ॥ तपः प्रयोजनं निराकर्तुमाह- दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ।। ४५ ।। दिवमिति ॥ दिवं स्वर्ग प्रार्थयसे कामयसे यदि तर्हि श्रमः तपश्चरणप्रयासः वृथा निष्फलः । यदि स्वर्गार्थे तप्यसे ततः श्रमं मा कार्षीः । कुतः । तव पितुः हिमवतः प्रदेशाः देवभूमयः स्वर्गपदार्थाः । तत्रस्या इत्यर्थः । अथ उपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसा अलम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथाहि । रत्नम् । कर्तृ । न अन्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किंतु तद्रत्नं मृग्यते । प्रहीतृभिरिति शेषः । नहि वरार्थे त्वया तपसि वर्तितव्यं किंतु तेनैव त्वदर्थमिति भावः ॥ वरवाचकाक्षरश्रवणामन्तरमेव देव्या उष्णोच्छ्रासमा लक्ष्य प्रश्नेषु च प्रत्युत्तरमनुपलभ्य स्वयमेवाशङ्कयाह- निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गोहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ ४६ ॥ निवेदितमिति ॥ सोष्मणा निःश्वसितेन निःश्वासवायुना निवेदितम् । चिन्तानुभावेनोष्णोच्छ्रासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसनेनेत्याहमनस्तु तथापि मे संशयमेव गाहते प्राप्नोति । कुतः । ते तव । कृत्यान कर्तरि वा इति षष्ठी । प्रार्थयितव्यः प्रार्थयितुमई एव न दृश्यते । प्रार्थित - दुर्लभः प्रार्थितो दुर्लभः स कथं भविष्यति । नास्स्येवेत्यर्थः ॥ 1 ९८ कुमारं भवे अथ पतिप्रार्थनामेव सिद्धवत्कृत्वाह- अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः लम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥ ४७ ॥ अहो इति । अहो चित्रम् । तवेप्सितः अप्तुमिष्टः युवा कः अपि स्थिरः कठिनः । वर्तत इति शेषः । कुतः । यः युवा चिराय चिरात्प्रभृति कर्णोत्पल शून्यतां गते प्राप्त कपोलदेशे गण्डस्थले थाः शिथिलबन्धना अतएव लम्बिन्यस्ताः श्लथलम्बिनी: [ कलमाग्रपिङ्गलाः ] कलमाः शालि - विशेषास्तेषामग्राणि तद्वत्पिङ्गलाः जटाः उपेक्षते । यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नृनं वज्रहृदय इत्यर्थः ॥ मुनिवतैस्त्वामतिमात्रकर्शितां दिवाकरौप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ ४८ ॥ मुनिवतैरिति ॥ मुनिव्रतैः चान्द्रायणादिभिः [ अतिमात्रकशिताम् ] अतिमात्रमत्यन्तं कर्शितां कृशीकृतां [ दिवाकराप्लुष्टविभूषणास्पदां ] दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाच्च श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवा अहनि शशाङ्कलेखामिव स्थितां त्वां पश्यतः सचेतसः जीवतः कस्य पुंसः मनः न दूयते न परितप्यते । अपि तु सर्वस्यैवेत्यर्थः ॥ अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो- र्न क्रमात्मीयमरालपक्ष्मणः ॥ ४९ ॥ अवैमीति ॥ तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण । कर्त्रा । वचितं विप्रलब्धम् अवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनः अरालपक्ष्मणः कुटिलरोम्णः । अरालं वृजिनं जिह्वाम् इत्यमरः । अस्य १ बन्धनीजंटा, बन्ध लम्बिनीर्जटा कपोलें. २ करस्पृष्ट. पञ्चमः सर्गः । ९९ स्वदीयस्य चक्षुषः आत्मीयं वक्रं मुखं चिरं लक्ष्यं विषयं न करोति । दृष्टिपथं न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्कलात्मलाभो जात इति भावः ॥ कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ।। ५० ।। कियदिति ॥ हे गौरि । कियत किंप्रमाणकम् । किमधिकमित्यर्थः । चिरं श्रम्यसि तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि [ पूर्वाश्रमसंचितं ] पूर्वाश्रमः प्रथमाश्रमो मस्त संचितं संपादितं तपः विद्यते । [तदर्धभागन] अर्धा भाग तेन तस्य तपोऽभागनेकदेशेन काङ्क्षितम् इष्टं वरम् उपयन्तारं लभस्व । तं वरं साधु सम्यक् वेदितुं जानुम इच्छामि । यद्यसौ योग्यो भवति तदा ममापि संमतिरिति भावः ॥ इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनी विवर्तिताननन ॥ ५१ ॥ इतीति ॥ इति इत्वं द्विजन्मना हिजन प्रविश्य अन्तरीया । आप्तवदहस्यमुद्भाव्येत्यर्थः । अभिहिता उता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नभूत् । लगयेति शेषः । अथो अनन्तरं परिपार्श्ववर्तनीं वयस्यां सखीं [ विवर्तितानञ्जननेत्र ] विवर्तितं विचालितमनजन व्रतवशादर्जित कजलं नेत्रं यस्मिन्कर्मणि तत्तथा ऐक्षत | नेत्रज्ञयैव प्रत्युत्तर वाचयांचकारेत्यर्थः ॥ सखी तदीया तमुवाच वर्णिनं निवोध साधो तत्र चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥ सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् । वर्णः प्रशस्तिः इति क्षीरस्वामी | सोऽस्यास्तीति वर्णिनं ब्रह्मचारिणम् । वर्णाह्मचारिणि इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् । तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोध अवगच्छ । आकर्णयेत्यर्थः । बुध अवगमने इति १०० कुमारसंभवे धातोर्भीवादिक लोट् । श्रोतव्यं किं तदाह-यस्मै लाभायेदं यदर्थम् ॥ अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् इति वार्तिकनियमात्क्रियाविशेषणम् । पतया पार्वत्या अम्भोजं पद्मम् उष्णवारणम् आतपत्रम् इव वपुः शरीरं तपःसाधनं कृतम् । तपः प्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ॥ दृङमनःसङ्गसंकल्पां जागरः कृशताऽरीतः । ह्रीत्यागोन्मादमूच्छन्ता इत्यनङ्गदशा दश । इति । तत्रास्याः काश्चिदशाः क्रममनादृत्यैव योजयतिइयमित्यादिभिः षड्भिः श्लोकः । इयं महेन्द्रप्रभृतीनिधिश्रिय- चतुर्दिगीशानवमत्य मानिनी । अरूपहार्य मदनस्य निग्रहा- पिनाकपाणि पतिमाप्तुमिच्छति ।। ५३ ।। इयमिति || मानिनी इन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्यभिमानवती इयं पार्वती अधिश्रियः अधिश्वर्यान् महेन्द्रप्रभृतीन् इन्द्रादींश्चतसृणां दिशामीशान् [ चतुर्दिगीशान ] इन्द्रवरुणयमकुबेरान् । तद्धितार्थ इत्यादिनोत्तरपदसमासः । अवमत्य अवधूय मदनस्य निग्रहात् निवर्हणाद्धेतोः । अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीति अरूपहार्य पिनाकः पाणौ यस्य तं पिनाकपाणि हरम् । प्रहरणार्थेभ्यः परे निष्टासप्तम्यौ भवतः इति साधु । पर्ति भर्तारम् आप्तुमिच्छति । एतेन सङ्कल्पावस्थां सूचिता ॥ असह्यहुङ्कारनिवर्तित: पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातक्षिणो- द्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ ५४ ॥ असह्येति ॥ पुरा पूर्वे [ असह्यहुङ्कारनिवर्तितः ] असह्येन सोढुमशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरम् अप्राप्तमुखः अप्राप्तफल: विशीर्णमूर्तेः नष्टशरीरस्य अपि पुष्पधन्वनः कामस्य शिलीमुखः बाणः इमां पार्वती हृदि [ व्यायतपातम् ] व्यायतः । सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन् कर्मणि तत्तथा अक्षिणोत् अकर्शत् । दग्धदेहस्यापि मार्गणो लग्भः । मृदुः सर्वत्र बाध्यते इति भावः । अनेन विवृण्वती शैलसुतापि भावम् ( श६८ ) इत्यत्रोक्तं चक्षुः प्रीतिमनःसङ्गाख्यमवस्थाद्वयमनन्तरावस्थोपयोगितयानूद्य. कार्यावस्था सूचिता ॥ १ स्मरारिम्. २ भक्षणोत्. पञ्चमः सर्गः । तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका | न जातु वाला लभते स्म निर्वृति तुपारसङ्घातशिलातलेष्वपि ।। ५५ ।। १०१ तदेति ॥ तदेति च्छेदः । तदा प्रभृति । तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा प्रभृतियोगे पञ्चमीनियमात् ॥ पितुर्गृहे उन्मदना उत्कटमन्मथा [ ललाटिकाचन्दनधूसरालका | ] ललाटस्थालंकारो ललाटिका तिलकः । कर्णललाटात्कनलंकारे इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरवर्णा अलकाचूर्णकुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि [ तुषारसङ्घातशिलातलेषु ] तुषारसङ्घातास्तुपारघनास्त एक शिलास्तासां तलेषूपरिभागेषु अपि निर्वृतिं मुखं न लभते स्म । एतेनारत्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ॥ उपात्तवर्णे चरिते पिनाकिनः सवाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किन्नरराजकन्यका वनान्तसङ्गीत सखी र रोदयत् ।। ५६ ।। उपात्तेति ॥ इयं पिनाकिनः शंभो: चरिते त्रिपुरविजयादिचेष्टिते उपात्तaf प्रारब्धगीतमे । गीतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते । इति हलायुधः । [ सवाष्पकण्ठस्खलितैः ] सबाध्पे गद्दे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिअन्तरूपैः । करणैः । [ वनान्तसङ्गीतसखीः ] वनान्ते सङ्गीतेन निमित्तेन सखीर्वयस्याः किन्नरराजकन्यकाः अनेकशः बहुशः अरोदयत् अश्रुमोक्षमकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्य किन्नर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलन लक्षण कार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्थाप्रादुर्भावो व्यज्यतेऽन्यथा सखीरोदनानुपपत्तेरिति । द्वादशावस्थापक्षे तु प्रलापावस्था च व्यज्यते । प्रलापो गुणकीर्तनम् इत्यालंकारिकाः ॥ १ विबुध्यते. त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यर्बुध्यत । क नीलकण्ठ व्रजसीत्यलक्ष्यवा- गसत्यकण्ठार्पितबाहुबन्धना ॥ ५७ ॥ १०२ कुमारसंभवे त्रिभागेति ॥ किचेति चार्थः । [ त्रिभागशेषासु ] शिष्यत इति शेष । कर्मणि घन् ॥ त्रिभ्यो भागेभ्यः शेषास्ववाशेष्टासु । यद्वा रात्रस्त्रियामत्वेन प्रसिद्धत्वात् तृतीयो भागस्त्रिभागः ॥ संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा शतशः सहस्रांश: इति । त्रिभागः शेपो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निर्माल्य मीलयिला सहसा सद्यः । हे नीलकण्ठ । क्व व्रजसि कुत्र गच्छमीति [ अलक्ष्यवाक् ] अलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता । तथा [ असत्यकण्ठार्पित बाहुबन्धना ] असत्ये मिथ्याभूते कण्टे अर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ ॥ स्वप्नसादृश्यप्रतिकृतिदर्शनतदद्भस्पष्टस्पर्शख्याश्चत्वारो विरहिणां विनोदाः । तत्र स्वप्नसन्दर्शनमुक्त्वा प्रतिकृतिदर्शनमाह– यंदा बुधैः सर्वगतस्त्वमुच्य से । न वेत्सि भावस्यमिमं कथं जनम् । इति स्वस्तलिखित मुग्वया रहस्युपालभ्यत चन्द्रशेखरः ।। ५८ ।। यदेति । यदा सत इत्यर्थः । यदेति तावित्युक्त्वा गगव्याख्यानेऽस्योदातत्वात् । त्वं प्रैः मनापिभिः सर्वगतः सर्वव्यापीति उच्यसे । तल इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् । वय्यनुरागिणमित्यर्थः । इमं जनम् । इममित्यात्मनिर्देशः । कथं न वेत्सि न जानासि इति मुग्धया मूढया । अकिंचित्करचित्रगतोपालम्भः इत्यजानानयेत्यर्थः । तथा [ स्वहस्तोहिखितः ] स्वहस्तनोहिखितचित्रे लिखितः चन्द्रशेखरः रहसि एकान्ते । सखीमात्रसमक्षमित्यर्थः । उपालभ्यत साधिक्षेपमुक्त । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीरामक्षकरणाज्जात्यागो व्यज्यत एव ॥ यदा च तस्याधिगमे जगत्पते- रपश्यदन्यं न विधिं विचिन्वत | तदा सहास्माभिरनुज्ञया गुरो- रियं प्रपन्ना तपसे तपोवनम् ।। ५९ ।। यदेति ॥ जगत्पतेः तस्य ईश्वरस्य अधिगमे प्राप्तौ अन्यं विधिं उपायं विचिन्वती मृगयमाणा यदा न अपश्यत् तदा इयं पार्वती गुरोः पितुः अनुज्ञया अस्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता ॥ २ चित्ते लि० ३ वितन्वती. ९ यतः. पञ्चमः सर्गः । द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमॉलिसंश्रयः ।। ६० । १०३ द्रुमेष्विति || संख्या पार्वत्या स्वयं [ कृतजन्मसु ] कृतं जन्म येषां तेषु । स्वयं रोपितेष्वित्यर्थः । [ तपःसाक्षिपु ] तपसः साक्षिषु साक्षाद्रषु एषु द्रुमेषु अपि फलं दृष्टं चम् | जनितमित्यर्थः । अस्याः पार्वत्याः शशिमौलिसंश्रयः चन्द्रशेखरविषयः मनोरथः तु परोहाभिमुखः अङ्कुरोन्मुखः अपि न दृश्यते । प्ररोहस्त्वरः इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाडुरोदयोऽप्यस्ति । फलाशां तु दुरापास्तेत्यर्थः ॥ न झिस प्रार्थितदुर्लभः कदा सखीभिरत्रोत्तरमीक्षितामिमाम् । नपःकुशामभ्युपगत्स्यते सखीं पेव सीतां तदवग्रहक्षताम् ॥ ६१ ॥ नेति ॥ प्रार्थितः सन्दुर्लभः प्रार्थितदुर्लभः स देवः [ तपःकृशां ] तपा कृशी क्षीणामतएव सखीभिः अस्त्रोत्तरम् अनु प्रधानं यथा भवति तथा ईक्षितामिमां नः सखीं [ तदवग्रहक्षतां ] वेन्द्रस्यावग्रहेणानाच्या क्षतां पीडिताम् । वृष्टिर्व तद्विप्रतिग्राहाग्रही सभी । इत्यमरः ॥ अवग्रहः वर्षप्रतिबन्ध इत्यर्थः । सीतां कृभुवम् । सीता लाकूडपद्धतिः इत्यमरः । वृषा वासवः इव । वासवो वृत्रहा वृषा इत्यमरः ॥ कदा अभ्युपपत्स्यते कदा अनुग्रहीष्यति न वेद्मि । अत्र वाक्यार्थः कर्म | तदवग्रहतमित्यत्रावग्रहक्षतामित्यनेनैव गतार्थत्वे तरपदस्य वैयर्थ्यापत्तस्तदिति भिन्नं पदं वेद्यत्यस्य कर्मेति युक्तमुत्पश्यामः ॥ अगृढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया । अयीदमेवं परिहास इत्युमा- मपृच्छदव्यञ्जितहर्षलक्षणः ॥ ६२ ॥ अगूढेति ॥ इङ्गितज्ञया पार्वतीहृदयाभिज्ञया । इतिं हृद्वतो भावः इति सज्जनः । तथा गौरीसख्या इति एवम् अगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवेदितः ज्ञापितः । [ नैष्ठिकसुन्दरः ] निष्ठा मरणमवधिर्यस्य स १बद्धम् २ अस्त्राकुलम्. १०४ कुमारसंभवे नैष्ठिको यावज्जीवब्रह्मचारी । सुन्दरो विलासी । नैष्ठिकथासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविवक्षायां विशेषणस नासः । किंतु नैष्ठिकत्वविशेषणेन कामित्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोधः । [ अव्यञ्जितहर्षलक्षणः ] अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरेि । अयति कोमलामन्त्रणे । इदं त्वत्सखीभाषितम् एवम् | सत्यं किमित्यर्थः । परिहासः केलिवी । द्रवकेलिपरीहासाः इत्यमरः ॥ इति एवम् उमाम् अपृच्छत् पृष्टवान् ॥ अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ।। ६३ ।। अथेति ॥ अथ अनन्तरम् अद्रेः तनया पार्वती मुकुलीकृताङ्गुलौ संपुटीकृताङ्गुलौ । अग्रश्वासौ हस्तश्चेति समानाधिकरणसमासः । हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भदाभेदादिति वामनः । तम्मिन् अग्रहस्ते [ स्फटिकाक्षमालिकाम् ] स्फटिकानामक्षमालिकां जपमालिकाम् समर्पयन्ती आमुचती कथंचित् महता कठेन चिरव्यवस्थापितवाक चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णे यथा तथा अभाषत बभाषे ॥ किमुवाचेत्याह- यथा श्रुतं वेदविदां वर त्वया जनोऽयमुचैः पदलनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ ६४ ॥ यथेति ॥ हे वेदविदां वर वैदिकश्रेष्ट । त्वया यथा श्रुतं सम्यक्श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । [ उच्चैः पदलङ्घनोत्सुकः ] उच्चैःपदस्य शिवला भरूपोन्नतस्थानस्य लङ्घन आक्रमण उत्सुकः । किमत्रायुक्तमित्यत्राहइदं तपः [ तदवाप्तिसाधनं ] तदवाप्तेस्तस्याचैः पदस्यावाप्तेः प्राप्तेः साधनं किल । किलेत्यलीके | अतितुच्छत्वादसाधकमेवेत्यर्थः । तर्हि त्यज्यतामि’स्याशङ्कय दुराशा मां न मुञ्चतीत्याशयेनाह - मनोरथानां कामानाम् अगतिः आविषयः न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ॥ १ मण्डल. पञ्चमः सर्गः । अथाह वर्णी विदितो महेश्वर- स्तदर्थिनी त्वं पुनरेव वर्तसे । अमङ्गलाभ्यासरति विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥ ६५ ॥ १०५ अथेति ॥ अथ वर्णी ब्रह्मचारी । वर्णिनो ब्रह्मचारिणः इत्यमरः । आह । उवाचेत्यर्थः । आहेति भूतार्थे लट्प्रयोगो भ्रान्तिमूल इत्याह वामनः । किंमित्याहमहेश्वरः महादेवः विदितः । मया ज्ञायत इत्यर्थः । बुद्ध्यर्थत्वाद्वर्तमाने कप्रत्ययः । तद्योगात्षष्टी च । येन त्वं प्राग्भग्नमनोरथा कृतेति भावः । पुनरेव त्वं तमीश्वरमर्थयते तदर्थिन्येव तत्कामैव वर्तसे । तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्तत्राह -[ अमङ्गलाभ्यासरति ] अमङ्गलाभ्यासे अमङ्गलाचारे रतिर्यस्य तं तथोक्तं तम् ईश्वरं विचिन्त्य विचार्य तवानुवृत्तिम् अनुसरणं कर्तुं न उत्सहे । नानुमन्तुं शक्नोमीत्यर्थः ॥ अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः । करेण शंभोवलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥ अवस्त्विति || अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिः अवस्तुनिर्बन्धपरे पार्वति । [ आमुक्तविवाह कौतुकः ] आमुक्तमासन्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स ते अयं करः । कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले । इति शाश्रतः । वलयीकृताहिना भूषणीकृत सर्पेण शंभो: महादेवस्य करेण करणभूतेन । [ तत्प्रथमावलम्बनं ] तदेव प्रथमं तत्प्रथमम् । अपरिचितत्वादतिभयंकरमिति भावः । तच तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद्दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ॥ त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः । वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितविन्दुवर्षि च ॥ ६७ ॥ १ रतम्. २ भुजेन. १०६ कुमारसंभवे त्वमेवेति ॥ हे गौरि । त्वम् एव स्वयम् आत्मना । तावत् इति मानार्थे। यावमात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति । कलहंसलक्षणं कलहंसचिहम् । चिह्न लक्ष्म च लक्षणम् इत्यमरः । वध्वा नवोढाया दुकूलं वधूदुकूलम् । क्यूः स्नुषा नवोटा स्त्री इति विश्वः । तथा [ शोणितविन्दुवर्षि ] शोणितबिन्दून्वर्षतीति तथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासथ । तत्पिनाकिनः इत्याशयः । एते कदाचित् जात्वपि योगं संगतिम् अर्हतः यदि अर्हतः किम् । एतत्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणकाले वधूवरयन्तयन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु दुकूलधारिण्यास्तव कथं सङ्घटष्यत इति भावः ॥ चतुष्क पुष्पमकरावकीर्णयोः परोऽपि को नाम तवानुंमन्यते । अलक्तकाकानि पदानि पादयो विकीर्णकेशासु पोतभूमि ॥ ६८ ॥ चतुष्केति ॥ [ चतुष्कपुपत्रकरावकीर्णयोः ] चतुष्के विशेषेयः पुष्पप्रकरस्तत्रायकीर्णयोन्यस्तः । कुमास्तृदिव्यमनचारीचितयोरित्यर्थः । तव पादयोः अलककाकानि बजारांधतानि पदानि पादाकाराणि पादन्यासचिद्यानि । पदं शब्दे च वाक्ये च व्यवसायापदेशयः । पाददाहूयाः इति विश्वः । विकोणी विक्षिप्ताः केशाः बावशिरोहा यातु तायु विकीर्णकेशासु । अतत्स्थं तत्र दृष्टं च इति वचनात् स्वानाचोपसर्जनादसंयोगी बात् इति विकल्पान्न ङीप् । परेतभूमिषु प्रेतभूमिषु ॥ स्मशानेपित्यर्थः । परोऽपि शत्रुरपि को नाम अनुमन्यते । न कोऽपीत्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य परेतभूसंचारित्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः ॥ अयुक्तरूपं किमतः परं बंद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन्दरिचन्दनस्पदे पदं चिताभस्मरजः करिष्यति ।। ६९ ।। अयुक्तेति ॥ त्रिनेत्रवक्षः । त्र्यम्बकालिङ्गनमित्यर्थः । तव तत्संबन्धितया सुलभम् अपि सुप्रापं च । भवतीति शेषः ॥ तवेति शेषे षष्टी । न लोकाव्ययइत्यादिना कृद्योगलक्षणपष्ठया निषेधात् । अतः परम् अस्मात्रिनेत्रवक्षोलाभादन्यद अयुक्तरूपम् अत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । प्रशंसायां रूपम् इति रूपप्प्रत्ययः । कुतः । यत् यस्मात्कारणात् [हरिचन्दनास्पदे] हरिचन्दनस्यास्पदे १ अनुमंस्यते. २ भवत. ३ अङ्गते.पञ्चमः सर्गः । २०७ स्थानभूते अस्मिन् स्तनद्वये [ चिताभस्मरजः ] चिताभस्म स्मशानभस्म तदेव रजचूर्णम् । कर्तृ । पदं करिष्यति पदं निधास्यति । भवस्य भस्माङ्गरागादिति भावः ॥ इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धक्षष्टितं स्वया महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥ इयमिति ॥ इयं च तं तव पुरतः आदावेव अन्या विडम्बना । परिहास इत्यर्थः । कासेत्यत्राह - ऊढया परिणीतया । वह्नेः कर्मणि क्तः । वारणराजहार्यया त्वया अधिष्टितम् आरुढं वृद्धमुक्षाणं वृद्धाक्षम् । अचतुरइत्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखः भविष्यति उपहसिष्यति यत् । इयमिति पूर्वेण संबन्धः । स्मेरेति नमिकम्पिस्म्यजस - इत्यादिना स्प्रत्ययः ॥ द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः । कला च सा कान्तिमती कलावत- स्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ ७१ ॥ द्वयमिति ॥ पिनाकिनः ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया | क्रियमाणयेति शेषः । संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह—-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्धार्थत्वान्न यच्छन्दापेक्षा | तदुक्तं काव्यप्रकाशे –प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते । इति ॥ कान्तिमती । नित्ययोगे मतुप् । कलावतः चन्द्रस्य कला षोडशो भागः च । अस्य लोकस्य नेत्रकौमुदी | नेत्रानन्दिनं त्यर्थः । त्वं च | कान्तिमतीत्वनेत्र कौमुदीत्वविशेषणये रुमयत्राप्यन्वयः । प्रागेकैव शोच्या । संप्रति तुत्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यत्वं च निकृष्टाश्रयणादिति भावः ॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्ध : कुलमिच्छन्ति मिष्टा - श्रमितरे जनाः ॥ इति लोकानामाभाषणम् । तत्र किंचिदपि नास्तीत्याह– वपुर्विरूपाक्षमलक्ष्यजन्पता दिगम्बरत्वेन निवेदितं वसु । १ कपालिनः १०८ कुमारसंभवे वरेषु यद्भाळमृगाक्षि मृग्य ते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ७२ ॥ वपुरिति ॥ वपुः तावदस्य विरूपाणि विकृतरूपाण्यक्षीणि नेत्राणि यस्य तद् विरूपाक्षम् । बहुव्रीहौ सत्रध्यक्ष्णोः स्वाङ्गात्षच इति षच्प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी । अतो न सौन्दर्यवार्तापीत्यर्थः । [ अलक्ष्यजन्मता ] अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तता | कुलमपि न ज्ञायत इत्यर्थः । अलक्षिता जनिः इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । जनिरुत्पत्तिरुद्भवः इत्यमरः । बसु वित्तं दिगम्बरत्वेन एव निवेदितम् । नास्तीति ज्ञापितमित्यर्थः । यदि वित्तं भवति तदा कथं दिगम्बरो भवति । अतो ज्ञेयं निर्धनोऽयमिति । किंबहुना हे बालमृगाक्षि पार्वति वरेषु वोदृषु । वरो जामातृवोढारौ इति विश्वः । यत् रूपवित्तादिकं मृग्यते कन्यातद्वन्धुभिरन्विष्यते तत् त्रिलोचने त्र्यम्बके व्यस्तम् । एकम् अपि समस्तं मा भूदिति भावः । अस्ति किम् । नास्त्येवेत्यर्थः ॥ निवर्तयास्मादसदीप्सितान्मनः क तद्विधस्त्वं क्व च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी र्न स्मशानशूलस्य ने यूपसत्क्रिया ॥ ७३ ॥ निवर्तयेति ॥ अस्मादसदीप्सितात् अनिष्टमनोरथात् मनः निवर्तय निवारय । तद्विधः सा पूर्वोक्ता विधा प्रकारो यस्य तथोक्तः अमङ्गलशील इत्यर्थः । क । महदन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभाग्यचिह्ना त्वं च क्व । अतो न तवायम इत्यर्थः । तथाहि । साधुजनेन । साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् इति विश्वः ॥ स्मशानशूलस्य स्मशानभूमिनिखातस्य मध्यशङ्कोः । वैदिकी वेदोक्ता यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कारो यूपसत्क्रिया न अपेक्ष्यते नेष्यते । यथा स्मशानशूले यूपसत्क्रिया न क्रियते तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुश्चिततमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥ ७४ ॥ इतीति ॥ इति एवं प्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति १ भनेक्षते २ हि. ३ भूलतया. . पञ्चमः सर्गः
। १०९ [ प्रवेपमानाधरलक्ष्यकोपया ] प्रवेपमानेन चत्रलेनाधरेणाधरोष्ठेन लक्ष्योः अनुमेय: कोप: कोवो अस्यास्तथोक्तया तया पार्वत्या उपान्तलोहिते प्रान्तरक्ते विलोचने [ विकुचितभूलतं ] विकुबिते कुटिलिते चलते यस्मिंस्तत्तथा । सभङ्गमित्यर्थः । तिर्यक् साचि आहिते निहिते । अनादरा तिर्यगैक्ष्यतेत्यर्थः ॥ उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमान्थ माम् । अलोक सामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाचरितं महात्मनाम् ।। ७५ ।। ‘उवाचेति ॥ अथ पनं ब्रह्मचारिणं उवाच च । किमिति । परमार्थतः तत्त्वतः हरें न वेत्सि न जानासि नूनम् । कुतः । यतः मामेवम् उक्तया रीत्या आत्यं ब्रवीषि ॥ वः पञ्चानामादितः - इति रूपसाद्धः | अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह - मन्दाः मूढाः । मूढाल्पापटुनिर्भाग्या मन्दाः । इत्यमरः । लोकसामान्यमितरजनसाधारणं न भवति इति अलोक सामान्यम् अचिन्त्यहेतुकं दुर्बोधकारणकं महात्मनां चरितं द्विषन्ति हेत्वपरिज्ञानादूषयन्ति । विद्वासस्तु कोऽप्यत्र तुरस्तीति बहु मन्यन्त इत्यर्थः ॥ संप्रति अमङ्गलाभ्यासरतिम् ( ५/६५ ) इत्याद्युक्तदूषणजातं विपदित्यादिभिः षड्भिः श्रोकैः परिहर्तुमारभते - i विपत्तीकारपरेण मङ्गलं निषव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥ ७६ ॥ विदिति ॥ विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थः । उपसर्गस्य मनुष्ये बहुलम् इति दीर्घः । भूतिसमुत्सुकेन ऐश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । तत्र साधुः इति यत्प्रत्ययः । शरणं गृहरक्षेत्रोः इत्यमरः । जगतः शरण्यस्तस्य जगच्छरण्यस्य नि. राशिषः निरभिलाषस्य सतः शिवस्य । आशीरुरगदंष्ट्राय विप्रवाक्याभिलाषयोः । इति शाश्वतः ॥ [ आशोपहतात्मवृत्तिभिः ] आशया तृष्णयोपहता दूषितात्मवृत्तिरन्तः करणवृत्तिर्येषां तैः एमालेः किम् । वृथेत्यर्थः । पूर्वे मङ्गलमित्येकवचनस्य ! जायापत्वादेभिरिति बहुवचनेन परामशौ न विरुध्यते । इष्टावाप्यनिष्टपरिहारार्थिनो हि मङ्गलाचार निर्बन्धः । तदुभया संसृष्टस्य तु यथाकथंचिदास्ताम् ॥ को दोष इत्यर्थः । ऐोन अमङ्गलाभ्यासरतम् ( ५/६५ ) इत्युक्तं प्रत्युक्तम् ॥ १० ११० कुमारसंभवे अकिंचनः सन्प्रभवः स संपद त्रिलोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्याविदः पिनाकिनः ॥ ७७ ॥

अकिंचनेति ॥ स हरः । न विद्यते किंचन द्रव्यं यस्य स अकिंचनः दरिद्रः सन् | संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसद्मगोचरः श्मशानाश्रयः सन् । [ त्रिलोकनाथः ] त्रयाणां लोकानां नाथः । तद्धितार्थ — इत्या - दिनोत्तरपदसमासः । स देवो भीमरूपः भयङ्कराकारः सन् । शिवः सौम्यरूप इत्युदीर्यते उच्यते । अतः पिनाकिनः हरस्य [ याथार्थ्याविदः ] यथाभूतोऽर्थो यथार्थस्तस्य भावो याथार्थ्य तत्त्वं तस्य विदः न सन्ति । लोकोत्तर महिना निर्लेपस्य यथा कथंचिदवस्थानं न दोषायेति भावः । एतेन अवस्तुनिर्बन्धपरे ( ५/६६ ) इति परिहृतं वेदितव्यम् ॥ देवस्य लौकिकमलौकिकं च प्रासावनं नास्तीत्याशयेनाह - विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथवेन्दु शेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ ७८ ॥ विभूषणेति ॥ विश्वं मूर्तिर्यस्येति विश्वमूर्तेः अष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैद्भासत इति भूषणोद्भासि स्यात् । पिनद्धभोगी आमुक्तभुजङ्गमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात्कर्मणि क्तः । वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः । गजाजिनालम्बि स्यात् । अथवा दुकूलधारि स्यात् । कपालमस्यास्तीति कपालि ब्रह्मशिरः कपालशेखरं वा स्यात् । इन्दुशेखरं वा स्यात् । न अवधार्यते न निर्धार्यते । सर्व संभवतीत्यर्थः । एतेन त्वमेव तावत् (५२६७ इति ) लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये । तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यैते मौलिभिरम्बरौकसाम् ॥ ७९ ॥ १ स लोकनाथः २ यथात्म्य. ३ अथ चन्द्रशेखरम् ४ संस्पर्शम् ५ विलुप्यते पञ्चमः सर्गः । १११ तदिति । [ तदङ्गसंसर्गम् ] तस्य शिवस्थानं तस्य संसर्गम् अवाप्य आसाद्य चिताभस्मैव रजो विशुद्धये कल्पते । अलं पर्याप्नोतीत्यर्थः । अलमथेयोगात् नमः स्वस्तिस्वाहाइत्यादिना चतुर्थी । ध्रुवं शोधकत्वम् । प्रमाणसिद्धमित्यर्थः । प्रमाणमेवाह - तथाहि । प्रसिद्धमेवेत्यर्थः । [ नृत्याभिनयक्रियाच्युतं ] नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जक चेष्टाविशेषः स एव क्रिया तया निमितेन च्युतं पतितम् | चिताभस्मरजः इति शेषः । अम्बरौकसां देवानां मौलिभिः विलिप्यते नियते । अशुद्धं चेत्कथमिन्द्रादिभिर्धियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ यदुक्तम् दिगम्बरत्वेन निवेदितं वसु ( ५/७२ ) इयं च तेऽन्या पुरतो विडम्बना ( ५१७० ) इत्यादि च तत्रोत्तरमाह- असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिवारणवाहनो वृषा । करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥ ८० ॥ असंपद इति ॥ [ प्रभिन्नदिग्वारणवाहनः ] प्रभिन्नो मदस्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः । ऐरावतेनोढ इत्यर्थः ॥ वृषा देवेन्द्रः असंपदः दरिद्रस्य वृषेण गच्छतः वृषभारूतस्य तस्य ईश्वरस्य पादौ मौलिना मुकुटेन उपगम्य प्रणम्येत्यर्थः । [ विनिद्रमन्दाररजोरुणाङ्गुली ] विनिद्राणां विकसितानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अङ्गलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्द्रादीनामपि वन्द्यस्येन्दुमौले: किं संपदा वृषारोहणे वा को दोष इत्यर्थः ॥ यदुक्तम् अलक्ष्यजन्मता ( ६।७२ ) इति तत्रोत्तरमाह- विवक्षता दोषमपि च्युतात्मना त्वयैमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ ८१ ॥ विवक्षतेति ॥ च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तमिच्छता अपि त्वयेशं प्रति एकम् अलक्ष्यजन्मता इत्येतदेकम् । वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः । यम् ईश्वरम् आत्मभुवोऽपि ब्रह्मणोऽपि । ब्रह्मात्मभूः सुरज्येष्ठः इत्यमरः । कारणम् आमनन्ति उदाहरन्ति । विद्वांस इति १ विवृण्वता. ११२ कुमारसंभवे

शेषः । पाघ्राध्मास्थानादाण इत्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवः लक्ष्यजन्मा भविष्यति । अनादिनिधनस्य भगवतः कारणशङ्का कलङ्कव नान्विष्यत इत्यर्थः ॥
अलं विवादेन यथा श्रुतस्त्वया
तथाविधस्तविदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं
न कामवृत्तिर्वचनीयमीक्षते ॥ ८२ ॥
अलमिति ॥ अथवा विवादेन कलहेन अलम् । त्वया यथा येन प्रकारेण स ईश्वरः श्रुतः अशेषं कात्स्न्येन तथाविधः तावत्प्रकार एवं अस्तु ! मम मनस्तु अनेश्वरे [ भावैकरसम् ] भावः शृङ्गार एकोऽद्वितीयो रस आस्वायो यस्य तत्तथा स्थितम् । तथाहि । कामवृत्तिः स्वेच्छाव्यवहारी वचनीयम् अस्थानसङ्गापवादं नेक्षते न विचारयति । न हि स्वेच्छ संचारिणो लोकापवादाद्विभ्यतीति भावः ॥
निवार्यतामालि किमप्ययं बटुः
पुनर्विचक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोsपभाषते
शृणोति तस्मादपि यः स पापभाक् ।। ८३ ।।
निवार्यतामिति ॥ हे आलि सखि । आलिः सखी वयस्या च इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोष्टः अयं बदुः माणवकः पुनः किम् अपि विवक्षुः वतुमिच्छुः । वः सन्नन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासीत्याह - तथाहि । यः महतः पूज्यान् अपभाषते अपवदति न केवलं स पापभाक् भवति । किंतु तस्मात् अपभाषमाणात्पुरुषात् यः शृणोति सोऽपि पापभाक् । भवतीति शेषः । अत्र स्मृतिः - गुरोः प्राप्तः परीवादो न श्रोतव्यः कथंचन । कर्णौ तत्र पिवातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ इति ॥
संप्रति गन्तव्यपक्षमाश्रयते–
इतो गमिष्याम्यथवेति वादिनी
चचाल बाला स्तनभिन्नवल्कला ।
स्वरूपमास्थाय च तां कृतस्मितः
समाललम्बे वृषराजकेतनः ॥ ८४ ॥
५ श्रुतम्. २ ताहरू. ३ वर्श… स्थिरम्. ४ तोन्नताघर: ५ महता विभाषते.
६ रय. ७ आधाय.
पञ्चमः सर्गः ।
११३
इत इति ॥ अथवा इतः अन्यत्र गमिष्यामि इति वादिनी वदन्ती [ स्तनभिन्नवल्कला ] स्तनाभ्यां भिन्नवत्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनः वृषभध्वजः च स्वरूपमास्थाय निजरूप माश्रित्य कृतस्मितः सन् । तां पार्वतीं समाललम्बे जग्राह ॥
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेपणाय पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ ।। ८५ ॥
तमिति ॥ तं देवं वीक्ष्य वेपथुमती सरसाङ्गयष्टिः स्विन्नगात्री । महादेवदर्शनेन देव्याः सात्त्विकभावोदय उक्तः । निक्षेपणाय अन्यत्र विन्यासाय उद्धृतम् उत्क्षिप्तं पदम् अग्रिम् उद्वहन्ती शैलाधिराजतनया पार्वती [ मार्गाचलव्यतिकराकुलिता ] मार्गेऽचलस्तस्य व्यतिकरेण समाहत्या | अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुः नदी इव । देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । इत्यमरः ॥ न ययों न तस्थौ । लजयेति भावः । वसन्ततिलकावृत्तमेतत् ॥
अद्य प्रभृत्यवनताङ्गि तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्नाय सा नियम क्रमयुत्ससर्ज
क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ ८६ ॥
अद्येति ॥ चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति अद्य प्रभृति अस्मादिनादारभ्येत्यर्थः । प्रकृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थी लक्ष्यते । तव तपोभिः क्रीतः । दासू दाने दासत आत्मानं ददातीति दासः अस्मीति वादिनि वदति सति सा देवी अह्नाय सपदि । द्राग्झटित्य असाहाय दाङ्म सपदि द्रुतम् । इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशं उत्ससर्ज । फलप्राप्त्या क्लेशं विसस्मारेत्यर्थः । तथाहि । क्लेशः फलेन फलसिद्धया पुनर्नवतां विधत्ते । पूर्ववदेवाक्लिष्टतामापादयतीत्यर्थः । सफलः क्लेशो न क्लेश इति भावः ॥ इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये तपःफलोदयो नाम पञ्चम सर्गः ।
१ निक्षेप एव.
११४
कुमारसंभवे
षष्ठः सर्गः ।
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥ १ ॥ अथेति ॥ अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विश्वमात्मा स्वरूपं यस्येति । विश्वस्यात्मेति वा । विश्वात्मने शिवाय मिथो रहसि । मिथोऽन्योन्यं रहस्यपि इत्यमरः । सखी सन्धिदेश अतिससर्ज । क्रियामात्रप्रयोगेऽपि संप्रदानस्वाश्चतुर्थी । किमिति । भूभृतां नाथः हिमवान् मे मम दाता सन् । प्रमाणीकियतामिति । दातृत्वेन प्रमाणीक्रियतामित्यर्थः ॥ प्रार्थनायां लोट् ॥ पित्रा दीयमानायाः परिग्रहो मम महाननुग्रह इति भावः ॥
तथा व्याहृतसन्देशा सा बभौ निभृता प्रिये । चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी || २ ||
तयेति ॥ तया सख्या । सखीमुखेनेत्यर्थः । व्याहृतसन्देशा उक्तवाचिका प्रिये हरविषये निभृता निश्चला । परमासक्तेत्यर्थः । सा गौरी मधौ वसन्ते निभृता स्थिरा परभृतया कोकिलयोन्मुखी मुखरा परभृतोन्मुखी । मुखशदेनाभिभाषणव्यापारी लक्ष्यते । तथा च परभृतामुखेन व्याहरन्तीत्यर्थः । परभूतेति क्रियाशब्दविवक्षायाम् जातेरस्त्री -इति ङीष्प्रत्ययो न भवति । तयेत्युपमेयस्य व्यस्तत्वादुपमानवाचि परमृताशब्दस्य समासः सोढव्यः । अथवा नृद्भरणं संपदापदत्वाक्विप् । परैर्भुव्यत्यास्तया परमृतेति व्यासेन व्याख्येयम् । पदमञ्जरीकारस्तु परैर्भियत इति कर्मणि विपमाह । चूतयष्टिः चूनशाखा इव अभ्यासे अन्तिके बभौ । सदेशाभ्याससविधसमर्यादसवेशवत् । उपकण्ठान्दिकाभ्यर्णाभ्यमा अप्यभितोऽव्ययम् । इत्यमरः ॥
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
ऋषीज्ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ।। ३ ॥
स इति । स प्रकृतः । शास्तीति शासनः । बहुलग्रहणात्कर्तरि ल्युट् ॥ स्मरस्य शासनः ईश्वरः तथेति प्रतिज्ञाय । तथा करिष्यामीत्युक्त्वेत्यर्थः । उमाम् कथम् अपि कृच्छ्रेण विसृज्य । तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयांन तेजोरूपान् सप्तऋषीन् अङ्गिरःप्रभृतीन सस्मार स्मृतवान् ॥
ते प्रभामण्डलैव्यम द्योतयन्तस्तपोधनाः । सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥ ४ ॥
त इति ॥ ते तप एव धनं येषा ते तपोधनाः सप्तर्षयः प्रभामण्डलैः तेज:-
पठः
छः सर्गः ।
११५
पुत्रैः व्योम आकाशं द्योतयन्तः प्रकाशयन्तः | अरुन्धत्या सह वर्तन्त इति सारुन्धतीकाः सन्तः । नद्यूतश्च इति कप् । सपदि प्रभोः ईश्वरस्य पुरः पुरोभागे प्रादुरासन् प्रत्यक्षा बभूवुः ।
इतः परं षड्भिः श्लोकैस्तानेव मुनीन् वर्णयति—
आप्लुतास्तीरमन्दार कुसुमोत्किरवीचिषु ।
व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ॥ ५ ॥
आप्लुता इति ॥ [ तीरमन्दारकुसुमोत्किरवीचिषु ] उत्किरन्ति विक्षिपन्तीत्युक्तिराः । इगुपध -इत्यादिना कप्रत्ययः । तीरे ये मन्दाराः कल्पवृक्षास्तेषां कुसुमानामुत्किरा वीचयस्तरका येषां तेषु [ दिङ्नागमदगन्धिषु ] दिङ्नागार्ना दिग्गजानां मदगन्धो येष्विति तथेोक्तेषु व्योमगङ्गाप्रवाहेषु आकाशगङ्गास्रोतःसु
आप्लुताः स्नाताः ॥
मुक्तायज्ञोपवीतानि बिभ्रतो हैमैवल्कलाः ।
रत्नाक्षसूत्राः प्रवज्यां कल्पवृक्षा इवाश्रिताः ॥ ६ ॥ मुक्तेति ॥ [ मुक्तायज्ञोपवीतानि ] मुक्तानां मौक्तिकानां यज्ञोपवीतानि । मुक्तामयानीत्यर्थः । बिभ्रतः दधानाः । हेममयानि वल्कलानि येषां ते हैमवल्कलाः । रत्नमयान्यक्षसूत्राणि येषां ते रत्नाक्षसूत्राः । प्रव्रज्यां प्रव्रजनम् । जयजोर्भावे क्यप् इति क्यप् ॥ आश्रिताः कल्पवृक्षा इव स्थिताः ॥ अत्र चतुर्थाश्रमवाचिना प्रव्रज्याशब्देन वानप्रस्थाश्रमो लक्ष्यते । जहुः परिप्रनीडां प्राजापत्यास्तपस्विनः ( ६ । ३४ ) इति सपत्नीकत्वाभिधानात् । सुतविन्यस्तपत्नी कस्तया चानुगतोऽपि सन् । इति वानप्रस्थस्योभयथा स्मरणात् ॥
अधःप्रस्थापिताश्वेन समावर्जितकेतुना ।
सहस्ररश्मिना साक्षात्सप्रणाममुदीक्षिताः ॥ ७ ॥
अध इति ॥ अधःप्रस्थापिताश्वेन । पूर्वमण्डलो परिवर्तित्वात्सप्तर्षिमण्डलस्येति भावः । समावर्जित केतुना तन्मण्डलाघातशङ्कया नामितध्वजेन सहस्त्ररश्मिना सूर्येण साक्षात् स्वयमेव सप्रणाममुदीक्षिताः । गमनाभ्यनुज्ञादानपर्यन्तमित्यर्थः । भगवतः सूर्यस्याप्युपास्या इति भावः ॥
आसक्त बाहुळतया सार्धमुद्धृतया भुवा ।
महावराहदंष्ट्रायां विश्रान्ताः मळयापदि ॥ ८ ॥
भासतेति ॥ पुनः किंविधाः । प्रलयापदि कल्पान्तसङ्कटे आसक्त बाहुलतथा । दंष्ट्रायामिति शेषः । उद्धृतया । दंष्ट्रयेति शेषः । भुवा सार्धं भरण्या सह महावराहवंष्ट्रायां विभ्रान्ताः । महाप्रलयेऽप्यविनाशिन इत्यर्थः ॥
१ कुमोस्कर. २ आकाशगङ्गास्रोतःसु.
३ हेम. ४ शश्वत्. ५ उद्धतमा.
११६
कुमारसंभवे
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥ ९ ॥
सर्गेति । विश्वयोः ब्रह्मणः अनन्तरं सर्गशेषस्य प्रणयनात् । ब्रह्मसृष्टावशिष्टसृष्टेः करणाद्धेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिर्व्यासादिभिः पुरातनाः धातारः इति कीर्तिताः । विश्वयोनेरिति संबन्धमात्रे षष्ठी तस्यानन्तरमिति भाष्ये दर्शनात् । अपादानत्वविवक्षायां तु पञ्चमी । अयमदः शब्दो यथाशब्दावृत्तादनन्तरस्येति शाबरभाष्ये दर्शनात् । तथा अथातो धर्मजिज्ञासा बेदाध्यायादनन्तरम् इत्याचार्याः | कविश्व पुराणपत्रापगमादनन्तरम् इति । एवमन्यत्रापि द्रष्टव्यम् |
प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥ १० ॥ प्राक्तनानामिति ॥ प्राक्तनानां जन्मान्तरभवानां विशुद्धानां निर्मलामां परिपाकं फलदानोन्मुखावं उपयुषां गतानां तपसां फलानि उपभुञ्जानाः अपि तपस्विनः तपोनिष्ठाः । प्रारब्ध भोगिनो निस्पृहाचेति भावः । कुलकम् ॥
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा | साक्षादिव तपः सिद्धिर्वमा बरुन्धती ॥ ११ ॥
तेषामिति ॥ तेषाम् ऋषीणां मध्यगता साध्वी पतिव्रता । अतएव पत्युः वसिष्ठस्य [पादार्पितक्षणा ] पादयोरपितेक्षणा निविष्टदृष्टिः अरुन्धती साक्षात् प्रत्यक्षा तपः सिद्धिः इव । तेषामेवेति शेषः । तेषां मध्यगतेति लिङ्गवचनादिसाम्यादियमुपमा ॥ बहु भूयिष्ठं बभासे भाति स्म।।
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
स्त्रीपुमानित्यनास्यैषा वृत्तं हि महितं सताम् ॥ १२ ॥ तामिति ॥ ईश्वरः भगवान् ताम् अरुन्धतीं मुनींच अगौरवभेदेन समानप्रतिपत्त्या अपश्यत् दृष्टवान् । न चायमविवेक इत्याहहि यस्मात् स्त्री पुमान व इति एषा अनास्था स्त्रीपुंसभेदो न विवक्षितः । किंतु सतां साधूनां वृत्तं चरित्रमेव महितं पूज्यम् ॥ गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः । इति भावः ॥
तदर्शनादभूच्छं भोर्भूयन्दारार्थमादरः ।
क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ॥ १३ ॥
१ भूयः २ साधन स्.षष्ठः सर्गः ।
११७
तदिति । तद्देशनात् अरुन्धतीदर्शनात् शंभो: दारार्थ दारपरिग्रहार्थम् आदरः भूयान् बहुतरः अभूत् । ननु दाराः कुत्रोपयुज्यन्त इत्यत्राह धर्म्याणां धर्मादनपेतानाम् । धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः । क्रियाणाम् इज्यादीनां सत्यः पतिव्रताः पत्न्यः सत्पत्न्यः । पत्युनों यज्ञसंयोगे इति ङीप् । नकारश्च मूलकारणं खलु ॥
धर्मेणापि पदं शत्रें कारिते पार्वतीं प्रति ।
पूर्वापराधभीतस्य कामस्योच्छ्रसितं मनः || १४ ||
धर्मेणेति ॥ धर्मेण दारसत्रिवृक्षालक्षणेन अपि । कर्त्रा । शर्वे ईश्वरे पार्वतीं प्रति पदं कारिते सति ॥ होरन्यतरस्याम् इति शर्वस्याणिकर्तुः कर्मत्वम् ॥ पूर्वापराधभीतस्य कामस्य मनः उच्छसितम् । पुनरुज्जीवनावकाशो भवतीति सप्रत्याशमभूदित्यर्थः ॥
‘अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् । इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ॥ १५ ॥
अथेति ॥ अथ अनूचानाः साङ्गवेदप्रवक्तारः || अनूचानः प्रवचने सानेऽधीती गुरोस्तु यः । इत्यमरः ॥ उपेयिवाननाश्राननृचानश्व इति निपातः ॥ [ प्रीतिकण्टकितत्वचः ] प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः । ते सर्वे मुनयः जगद्गुरुं हरं मानयित्वा पूजयित्वा इदं वक्ष्यमाणम् ऊचुः ॥
या सम्यगात्रातं यदन विधिना हुतम् ।
यच्च तप्तं तपस्तस्य विपक्कं फलमद्य नः ॥ १६ ॥
यदिति ॥ ब्रह्म वेदः । वेदस्तत्त्वं तपो ब्रह्म इत्यमरः || सम्यक् नियमपूर्वकम आम्नातम् अधीतमिति यत् । अग्नौ विधिना
अग्नौ विधिना हुतम् इति यत् तपः चान्द्रायणादिकं तप्तम् इति च यत् तस्य अध्ययनेज्यातपोरूपस्य आश्रम - त्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनमन्यथावृत्त्यान्वयप्रसङ्गात् । न च नपुंसकैकवद्भावोऽनपुंमकेनेति नियमात् ॥ फलं कार्यम् अद्य नः अस्माकं विपक्वम् । सुनिष्पन्नमित्यर्थः । कर्मणि तः । पचो वः इति निष्ठातस्य वत्वम् ॥
तदेव फलमाह—
यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोरथैस्याविषयं मनोविषयमात्मनः ॥ १७ ॥
१ प्रथमे २ प्रणिपत्य. ३ अव्यपथम्
१९८
कुमारसंभवे
यदिति ॥ यत् यस्मात्कारणात् जगताम् अध्यक्षेण अधिपेन त्वया वयं मनोरथस्य अभिलाषस्य अविषयम् अगोचरम् आत्मनः स्वस्य मनोविषयं मनोदेशम् आरोपिताः प्रापिताः । तस्माद्विपकं फलमिति पूर्वेण संबन्धः । सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेष्या भवाम इति परमोत्कृष्टा वयमिति भावः ॥
तदेवोपपादयति-
यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः ।
किं पुनब्रह्मेयोनेर्यस्तव चेतसि वर्तते ॥ १८ ॥
यस्येति । यस्य जनस्य चेतास वर्तेथाः । येन स्मर्थस इत्यर्थः । स तावत् एव कृतिनां कृत्यकृत्यानां वरः श्रेष्ठः । [ ब्रह्मयोने:] ब्रह्मणो वेदस्य वेधसो वा योनेः : कारणस्य । यद्वा वेदप्रमाणकस्य । तव चेतसि यः वर्तते । त्वया स्मर्यत इत्यर्थः । किं पुनः । स कृतिनां वर इति किमु वक्तव्यमित्यर्थः ॥
सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् ।
अद्य तच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव ।। १९ ।। सत्यमिति । अर्कात् सूर्यात् च सोमात् चन्द्रात् परम् उचैः पदं स्थानम् अध्यास्महे तिष्ठामः । वयमिति शेषः । सत्यम् । अधिशीस्थास कर्म इति कर्मत्वम् । अद्य तु । तव । कर्तुः । [ स्मरणानुग्रहात् ] स्मरणमेवानुग्रहः प्रसादस्तस्माद्धेतोः । ताभ्याम् अर्केन्दुभ्याम् उच्चैस्तरम् अत्युचं पदम्। अध्यास्महे इति संबन्धः ॥ उच्चैस्तरमिति द्रव्यप्रकर्षत्वान्नामुप्रत्ययः ॥
त्वत्संभावितमात्मानं बहु मन्यामहे वयम् ।
प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ २० ॥
त्वदिति ॥ वयं त्वया संभावितं संस्कृतं त्वत्संभावितम् आत्मानम् आमस्वरूपं बहु अधिकं यथा तथा मन्यामहे । तथाहि । उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायः प्रायेण भूना प्रत्ययं विश्वासम् आधत्ते जनयति । सर्वस्यापि महाजनपरिग्रह एव पूज्यता हेतुरित्यर्थः ॥
!
या नः प्रीतिर्विरूपाक्ष त्वदनुध्यानसंभवा ।
सा किमवेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥ २१ ॥ येति ॥ हे विरूपाक्ष । त्वदनुध्यान संभवा त्वत्कर्तृकम्मरणजन्या नः अस्माकं या प्रीतिः सा प्रीतिः तुभ्यं किमावेद्यते किमर्थ निवेद्यते । तथाहि ।
१ विश्वयोने. २ तस्मात्. ३ आख्यायते-
षष्ठः सर्गः ।
११९
देहिनां प्राणिनाम् अन्तरात्मा अन्तर्यामी असि । सर्वसाक्षिणा त्वयास्मत्प्रीति-
नावेदितापि ज्ञायत एव यतस्ततो न वुद्धबोधनं संभवतीति भावः ।
साक्षादृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा ।
प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥ २२ ॥
साक्षादिति ॥ हे देव साक्षात् प्रत्यक्षेण दृष्टोऽसि । अञ्जसा पुनः तस्वतस्तु त्वां वयं न विद्मः । दृश्यमानस्य रूपस्यातात्विकत्वादिति भावः । अतः प्रसीद अनुगृहाण | आत्मानं निजस्वरूपं कथय । न चाकथितं तत्सुबोधमित्याह-धियां बुद्धीनां पथि न वर्तसे । अतस्त्वयैव त्वद्रूपं कथनीयमित्यर्थः ॥
तात्त्विकं रूपं तावदास्तां न दृश्यमानमपि रूपं तत्त्वतो रूपयितुं शक्यमित्याह-
किं येन सृजसि व्यक्तमुत येन विभर्षि तत् ।
अथ विश्वस्य संहर्ता भागः कतम एष ते ॥ २३ ॥
किमिति ॥ हे देव । एष दृश्यमानः ते भागः मूर्तिः किम् । येन भागेन व्यक्तं प्रपवं सृजसि सः । यत्तदोर्नित्यसंबन्धात्सर्वत्र तच्छन्दोऽध्याहार्यः । उत येन भागेन तत् व्यक्तं विभर्षि पालयसि स वा । अथ यः भागः तस्य विश्वस्य संहर्ता स वा । किमादयः सन्देदे । कतमः । ब्रह्मविष्णुमहेश्वरेष्वयं कतमः भागः तदुच्यतामित्यर्थः ॥
ननु हर इत्येवं निश्चयात्कथमयं संशयस्तत्राह -
अथवा सुमहत्येषा प्रार्थना देव तिष्ठतु । चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ||२४||
अथवेति ॥ अथवा हे देव सुमहती गुह्यतमत्वादतिदुर्लभेत्यर्थः । एषा प्रार्थना निजरूपनिरूपणप्रार्थना तिष्ठतु । किंतु चिन्तितोपस्थितान् चिन्तितेन चिन्तिताः वोपस्थिताः चिन्तितोपस्थिस्तान् नः अस्मान् तावच्छाधि आज्ञापय किं करवाम || प्रार्थनायां लोट् । अलमप्रस्तुतेन प्रस्तुते तावन्नियुङ्क्ष्वेत्यर्थः ॥
अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः ।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ।। २५ ।। अथेति । अथ परमेश्वरः मौलिगतस्य इन्दोः तन्वीम् अल्पाम् । कलामात्रत्वादिति भावः । प्रभां कान्ति विशदैः शुभ्रः दशनांशुभिः उपचिन्वन वर्धयन् प्रत्याह । प्रत्युवाचेत्यर्थः ||
विदितं वो यथा स्वार्था न मं काचित्प्रवृत्तयः ।
ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥ २६ ॥
१२०११
कुमारसंभवे
विदितमिति ॥ हे मुनयः काश्चित् अपि मे प्रवृत्तयः व्यापारा स्वार्थाः न भवन्ति यथा तथा वः युष्माकं विदितम् ॥ वाक्यार्थः कर्म । बुद्धयर्थत्वाद्वर्तमाने क्तः । तद्योगात्षष्ठी। प्रवृत्तिपारार्थ्यं प्रमाणमाह - ननु अष्टाभिः मूर्तिभिः इत्थंभूतः इस प्रकारं परार्थप्रवृत्तिरूपं प्राप्तः । प्राप्तौ इति धातोः कर्तरि कः ॥ सूचितः ज्ञापितः अस्मि । मत्स्त्रमूर्तिचेष्टया स्वपारार्थ्यमनुमेयमित्यर्थः ॥ सोऽहं तृष्णातुरैर्दृष्टिं विद्युत्वानिव चातकैः । अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ २७ ॥ सोऽहमिति । सः परार्थवृत्तिः अहं तृष्णातुरैः चातकेः वृष्टिं विद्युत्वान मेष व अरिविप्रकृतैः शत्रुपीडितैः दवैः प्रसूत पुत्रेोत्पादनं प्रति याचितः ॥ याच दुहादित्वादप्रधाने कर्मणि तः ॥
अत: आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥ २८ ॥
भित इति ॥ अतः सुरप्रार्थितत्वाद्धेतोः आत्मजन्मने पुत्राय । पुत्रमुत्पादयि.. तुमित्यर्थः । क्रियार्थोपपदस्यइत्यादिना चतुर्थी । पार्वतीं यजमानः यष्टा ।.. पूजो: शानम् इति ज्ञानन्प्रत्ययः । हविभक्तः अमेः उत्पत्तये अरणिस् अभिमन्थनदारुविशेषम् इव । निर्मन्थ्यदारुणि त्वरणिर्द्वयोः इत्यमरः । आहई संग्रहीतुमिच्छामि ||
तामस्मदर्थे, युष्माभिर्याचितव्यो हिमालयः ।
|| विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥ २९ ॥
तामिति ॥ अस्मदर्थे अस्मत्प्रयोजने निमित्ते सति युष्माभिः तां पार्वती हिमालयः हिमवान् याचितव्यः ॥ याचेहादित्वादप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्याह-[ सदनुष्ठिताः ] सद्भिः सत्पुरुषैरनुष्ठिताः संघटिता: संबन्धाः यौनायो विक्रियायै वैकल्योत्पादनाय न कल्पन्ते न पर्याप्नुवन्ति । . न समर्था इत्यर्थः । अलमर्थयोगाचतुर्थी ॥
न चाहं लौल्यात्त्रियंमिच्छामि किं तु देवोपकाराय । यद्येवं निखिलदेवेषु विद्यमानेषु हिमगिरेः शिलाभूतस्य कन्यापरिणयेच्छा कथमित्युक्ते स एव मे श्वाध्यसंबन्धोऽत्रभवान्दिमेवानित्याह–:
उनतेन स्थितिमता धुरमुहता भुवः ।
तेन योजितसंबन्धं वित्त मामप्यवञ्चितम् ॥ ३० ॥
उन्नतेनेति ॥ उन्नतेन प्राशुना प्रसिद्धेन च स्थितिमता प्रतिष्ठावता भुवः
1, ‘धुरं भरिम्ला निर्वाहकेणेत्यर्थः तेन हिमवता [योजित संबन्धं ]
g: adf: 1
सर्ग: ।
१२१
याजितः सङ्घटितः संबन्धो यौनसंबन्धो यस्य तं माम् अपि अवचितम् अव्यामोहितं वित्त जानीत । विद ज्ञाने इति धातोलोट् ॥
ताई स किं वाच्य इत्याशङ्कयाद–
एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यत । भवत्प्रणीतमाचारमामनन्ति हि साधवः ॥ ३१ ॥
एवमिति । कन्यार्थ कन्याप्रदानाय स हिमवान् एवं वाच्यः इति वः सुमभ्यं न उपदिश्यते । कुतः हि यस्मान साधवः विद्वांसः [ भवत्प्रणीतं ] भवद्भिः प्रणीतं स्मृतिरूपेण निबद्धम् आचारम आमनन्ति उपदिशन्ति । न हि स्वयमुपदेष्टारः परोपदेशमपेक्षन्त इत्यर्थः ॥
आयप्यरुन्धती तत्र व्यापारं कर्तुमर्हति ।
मावविध कार्ये पुरन्ध्रीणां प्रगल्भता || ३२ ॥
आयति || आर्या या अरुन्धत्यपि तत्र विवाहकृत्ये व्यापारं साहाय्यं कर्तुम अर्हति । तथादि । प्रायेण प्राचुर्येण एवंविधे कार्य विवाहादिकायें । दुर्घट इत्यर्थः । पुरन्ध्रीणां कुटुम्बिनीनाम् । स्यात्तु कुटुम्बिनी पुरन्ध्री इत्यमरः । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीणामेव घटनापाटवमिति भावः ॥
तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
महाकोशी पातेऽस्मिन्सङ्गमः पुनरेव नः || ३३ ॥
तदिति ॥ तत् तस्मात्कारणात् ओषधिप्रस्थं नाम हिमवत्पुरं हिमवनगरं सिद्धये कार्यसिद्धयर्थं प्रयात गच्छत । अस्मिन पुरोवर्तिनि [ महाकोशीप्रपात ] महाकोशी नाम तत्रत्या काचित नदी तस्याः प्रपाते भृगौ एव । सा नदी यत्र पतति तस्मिन्नित्यर्थः । प्रपातस्त्वतटो भृगुः इत्यमरः । नः अस्माकं पुनः सङ्गमः । अस्त्विति शेषः । भवत्समागमं प्रतिपालयन्महमिहैव निवत्स्यामीत्यर्थः ॥
तस्मिन्संयमिनामाद्ये जाते परिणयोन्मुखे ।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः || ३४ ॥
तस्मिन्निति ॥ संयमिनां योगिनाम् आद्ये तस्मिन् देवरे परिणयोन्मुखे विवाहोत्सुके जाते सति प्रजापतेरिमे प्राजापत्याः । ब्रह्मपुत्रा इत्यर्थः । तपस्विनः मुनयः [ परिग्रहव्रीडां ] परिग्रहैः पत्नीभित्रीडाम् । गार्हस्थ्यनिमित्तामित्यर्थः । पत्नीपरिजनादानमूलशापाः परिग्रहाः इत्यमरः । जहुः तत्यजुः । जहातेर्लिटि रूपम् । न हि समान गुणदोषेषु व्रीडागंमाऽस्तीति भावः ॥
gok
१ उत्सुके
22
२ तपोधना
१२५
कुमारसंभवे
ततः परंममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
भगवानपि संप्राप्तः प्रथमोहिमस्पदम् ।। ३५ ।।
तत इति ॥ ततः अनन्तरं मुनिमण्डलं मुनिसमूहः परमम् इत्युक्त्वा ओम् दत्युक्त्वा | अनुमन्येत्यर्थः । अव्ययमेतत् । ओमेवं परमं मतम् इत्यमरः । प्रतस्थे । भगवान् श्वरः अपि प्रथमोद्दिष्टं पूर्वसङ्केतितम आस्पदं स्थानं महाकोशीप्रपातं संप्राप्तः ॥
ते चाकाशमसिश्याममुत्पत्य परमर्षयः । आसेदुरोषधिप्रस्थं मनसा समरंहसः || ३६ ||
त इति ॥ मनसा समरंहसः मनस्तुल्यवेगा ते परमर्षयः च । पूर्वश्लोका के वरसमुचयार्थत्रकारः । [ असिश्यामं ] असिवच्छयामं नीलम् आकाशं खं प्रति उत्पत्य औषधिप्रस्थं हिमवत्पुरम् आसेदुः । सद्यः प्रापुरित्यर्थः ॥
इतः परं दशभिः ठोकरोषधिप्रस्थमेव वर्णयति-
अलकामतिवाद्यैव वसतिं वसुसंपदाम् । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥ ३७ ॥ मलकामिति ॥ वसुसंपदां वनसमृद्धीनां वसति स्थानम् अलका कुबेरनगरीम् अतिवाह्य परिच्छिद्येति यावत् । उपनिवेशितम् इव स्थितम् । तथा [ स्वर्गाभिष्यन्दवमनम् ] स्वर्गस्याभिष्यन्दोऽतिरेकः अतिरिक्तजन इति यावत । तस्य मनं निःसारणं कृत्वा उपनिवेशितमिव स्थितम् । उभयत्रापि कौटिल्यः -भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहेन स्वदेशाभि"यन्दवमनेन वा निवेशयेत । इति । अलकामरावत्यतिशयितसमृद्धिकामेत्यर्थः ॥
गङ्गास्रोतः परिक्षिप्तं वमन्तर्ज्वलितौषधि |
बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥ ३८ ॥
गति || [ गङ्गास्रोतः परिक्षिसं ] गङ्गायाः स्त्रोतोभिः प्रवाहैः परिक्षिप्तं परिवेष्टितम् । तैरेव सपरिखमित्यर्थः । [ वप्रान्तर्ज्वलितौषधि ] वप्रश्वयः । प्राका रचैत्यमिति यावत । स्याच्चयां वप्रमस्त्रियाम् इत्यमरः । तस्यान्तर्मध्ये ज्वलिताः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् । ज्वलितौषधित्वाशत्रिषु संचारिणा दीपनिरपेक्षमित्यर्थः । [ बृहन्मणिशिलासालं ] बृहद्विपुलो मणिशिलानां माणि - क्यानां सालः प्राकारो यस्य तत्तथोक्तम् ॥ प्राकारो वरणः सालः इत्यमरः ॥ अत एव गुप्तावपि संवरणेऽपि मनोहरम् । अकृत्रिमदुर्गसंवरणमिति भावः ॥
१ प्रमाणम् २ आश्रमम्. ३ अथ. ४ मुनिपुङ्गवाः ५ इन ६ विनिदशितम् ७ स्वर्गादपि..
छः सर्गः ।
जितसिंहमया नागा यत्राश्वा बिलयोनयः ।
१२३
यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ।। ३९ ॥ जितेति ॥ यत्र पुरे नागाः गजाः [ जितसिंहभयाः ] जितं सिंहेभ्यो भय यैस्ते तथोक्ताः सिंहाधिकबला इत्यर्थः । नाथस्तु पदं तुपारस्रुतिधौतरक्तम् (१६) इत्येतद्विरोषभयात् वीतवीतभयाः इति पपाठ । तथा न भेतव्यं तत्र वनगजान सिंहहतत्वाभिधानात् । अत्र त्वोषधिप्रस्थगजाना हिमवन्महिना सिंहातिरेकसंभ वेनाविरोधादिति । वीतबीतभयाः इति पाठे वीतं विगतं नीतात्पादाङ्कुकर्मभ्यां भयं येषां ते तथोक्ताः । स्वभावविनीता इत्यर्थः । पादकर्म युर्त प्रोक्तं यातमशवारणम्। उभयं वीतमाख्यातम् इति यादवः । अश्वाः विलयोनयः बिलसंभवाः। अन्यत्र तु न तथेति वैचित्र्यम् । उक्तं चअमृताद्वाप्पतो वहेर्वेदेभ्योऽण्डाच गमतः । साम्रो हयानामुत्पत्तिः समधा परिकीर्तिता ॥ इति । यक्षाः प्रसिद्धाः किंपुरुषाः किन्नराच पौराः । वनदेवताः एव योषितः । नतु मानुष्य इत्यर्थः ॥
शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम् ।
अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः ॥ ४० ॥
शिखरेति ॥ यत्र पुरे [ शिखरासक्तमेघानां ] शिखरेष्वासक्ता मेघा येषां तेषां वेश्मनां सबन्धिनः । [ अनुगर्जितसन्दिग्धाः ] अनुगर्जितानि प्रतिगजितानि तैः सन्दिग्धा मुरजस्वनाः करणैः तालव्यवस्थापकैस्ताडनविशेषैः । तदुक्तं राजकन्दर्पेण नृत्यावादित्रगीतानां प्रयोगवशभेदिनाम् । संस्थानं ताडनं रोधः करणानि प्रचक्षते ॥ इति । व्यज्यन्ते स्फुटीक्रियन्ते ॥
यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः ।
गृहयन्त्र पताकाश्रीरपौरादर निर्मिता ॥ ४१ ॥
यत्रेति ॥ यत्र नगरे विलोलविटपांशुकैः । विलोलानि चञ्चलानि विटपेवंशुकानि येषा तैः कल्पद्रुमैः एव [ अपौरा दरनिर्मिता ] अपौरादरेण पौरादरं विनैव निर्मिता । अयत्नसिद्धेत्यर्थः । [ गृहयन्त्रपताकाश्रीः ] गृहेषु यानि यन्त्राण्याधारदारुणि तेषु पताकास्तासां श्रीः संभवतीति शेषः । तत्र लम्बाम्बराः कल्पतरव एवं वैजयन्तीति संभाव्यन्त इत्यर्थः ॥ यत्र स्फटिकहर्म्येषु नक्तमापन भूमिषु ।
ज्योतिषां प्रतिविम्बानि प्राप्नुवन्त्युपहारताम् ॥ ४२ ॥ यत्रेति ॥ यत्र पुरे नक्तं रात्रौ स्फटिकहर्म्येषु आपानभूमिषु पानगोडीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिविम्बानि उपहारतां पुष्पोपहारत्वं मौक्तिकोपहारत्वं वा प्राशुवन्ति ॥
१ मन्द्रगर्जित. २ सोपान० ० पति.
कमारसंभवे
यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः || ४३ ॥
यत्रेति ॥ यत्र पुरे दुर्दिनेषु मेघाच्छत्रदिवसेषु नक्तम् [ औषधिप्रकाशेन ] ओषधीनां तृणज्योतिषां प्रकाशन संचरन्त एभिरिति संचराः पन्थानः ॥ गोवरसंचर –इत्यादिना घप्रत्ययान्तो निपातः । दर्शितसंचरा प्रकाशितमार्गाः अभिसारिकाः कान्तार्थिन्यः ॥ कान्तार्थिनी तु या याति सङ्केतं साभिसारिका । इत्य
तु मरः । तमिस्राणां तमसाम || कृद्योगात्कर्मणि षष्टी || अनभिज्ञाः । त्मासि नाभिजानन्तीत्यर्थः ॥
यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात् ।
}
रतिवेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥ ४४ ॥ यौवनान्तमिति ॥ यस्मिन पर वयः यौवनान्तं यौवनावधिकम सर्वेऽप्यजा इत्यर्थः । तथा कुसुमायुधात् । कामात् । अन्य इति शेषः। अन्तकः । मृत्युः न । अस्तीनिशेषः । विरहिणां तादुत्पादकत्वादन्तकत्वापचारः । कामं विना मृत्युर्नास्तीत्यर्थः । अतएव तत्कार्यमूतमरणाभाव इत्याशयेनाह –रतीति । रतिखेदसमुत्पन्ना निद्रा सुप्तिरेव संज्ञाविपर्ययः वेदनापगमः । न तु दीर्घनिद्रारूप इत्यर्थः । अत्रत्याः सर्वेऽजरामरा इति ठोकतात्पयि भन्तयत्यन्तं करोतीन्त्यन्तकः || अन्तयतेस्तत्करोतीति व्यन्ताद्यत्प्रत्ययः ॥
भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गलितर्जनैः ।
यत्र कोपः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥४५॥ मेदिभिरिति । यत्र पुरे प्रियाः युवानो मंदिभिः धूमवद्भिः [सकम्पोठैः ] सकम्पा ओष्ठा येषु तै: [ ललिताङ्गलितर्जनैः ] ललितान्यति जनानि येषु तैः स्त्रीणां कोपैः मानाख्यैः । आप्रसादार्थिनः ] आप्रसाई प्रसाद पर्यन्तमर्थिनो याचकाः कृताः । न तु शत्रुकोपैरिति भावः ॥
सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् ।
यस्य घोपवनं बाह्यं गन्धवन्धमादनम् ॥ ४६ ॥
सन्तानकेति ॥ किंचेति चार्थः । [ सन्तानकतरुच्छाया सुप्तविद्याधराcare ] सन्तानकनरोच्छायासु सुप्ता विद्याधरा देवताविशेपास्त एवाध्वगा यस्मिस्तत्तथोक्तं गन्धवद् गन्ध कयं गन्धमादनं नाम गिरिः यस्य पुरस्य बहिर्भवं बाह्यम् उपवनम् आरामः || सन्तानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि शलभच्छायम् इक्षुच्छायम् इतिवत्समर्थ च्छाया निष्पत्तेस्तदपेक्षाभावात छाया बाहुल्ये इति नपुंसकत्वं नास्तीत्यनुसन्धेयम् ॥ अत्र गन्धवद्गन्धमादनम् इत्यागन्तुकः पाठः.
१ समुत्थाना, २ सुगन्धिर्गन्धमादनः.
षष्ठः सर्गः ।
१२५
प्राचीन पाठस्तु गुगन्धिगन्धमादनः इति पुंलिङ्गान्तः । अतएव क्षीरस्वामिना गन्धमादनमन्ये च इत्यत्र गन्धेन मादयतीति गन्धमादन इति व्याख्याय प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं सुगन्धिर्गन्धमादनः इति कालिदास इति ॥
अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।
स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥ ४७ ॥
अथति || अथ ते दिवि भवा दिव्याः मुनयः हिमवतः इदं हैमवतं पुरं प्रेय स्वर्गाभिसन्धिना स्वर्गदेशेन यत्सुकृतं ज्योतिष्टोमायनुष्ठानं तत् स्वर्गाभिसन्धिसुकृतं वञ्चनां प्रतारणा इव मेनिरे हिमवन्नगरमवेक्ष्य स्वर्गस्य पुण्यफल वा वेदेन वयं विप्रलब्धा इत्यर्थः । स्वर्गादतिरमणीयमिति भावः । ते नि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुर्जटाभारैर्लिखितानलनिलैः ॥ ४८ ॥
न इति ॥ लिखितानलनिश्चलैः । चित्रगतज्वलन निष्पन्दैरिति वेगप्रकर्षोक्तिः । जटाभारैः उपलक्षिताः ते मुनयः । [ उन्मुखद्वाःस्थवीक्षिताः ] द्वारि तिष्ठन्तीति द्वाःस्थाः द्वारपालकाः ॥ प्रतीहारे द्वारपालद्वाःस्थद्वाः स्थितदर्शकाः । इत्यमरः ॥ उन्मुखैरूर्ध्वमुखैर्द्वाःस्थैवक्षिताः सन्तः । न तु विनिवारिता इत्यर्थः ॥ गिरेः हिमवतः सद्मनि वेगात् अवतेरुः अवतीर्णवन्तः ॥
गगनादवतीर्णा सा यथावृद्धपुरःसरा ।
तोयान्तर्भास्करालीव रेजे मुनिपरंपरा ॥ ४९ ॥
गगनादिति || गगनादवतीर्णा अवरूढा [ यथावृद्ध पुरःसरा ] यथावृद्ध वृद्धानुक्रमेण स्थिताः पुरःसरा अग्रेसरा यस्यां सा तथोक्ता । अनुपसर्जनाधिकारान्न ङीप् ॥ सा मुनिपरंपरा मुनिपङ्किः तोयान्तः तोयाभ्यन्तरे भास्क राली प्रतिबिम्बितार्कपतिः इव रेजे । एतेन मुनीनां तेजस्वित्वेऽपि सुखसं• दर्शनं सूचयति । भास्करार्णा भूयिष्ठत्वसंभावनार्थं तोयान्तरित्युक्तम् । अतएव बहुत्वासिद्धिव ॥
तानर्ध्यानमादाय दूरात्प्रत्युद्ययौ गिरिः ।
नमयन्सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥ ५० ॥
तानिति ॥ गिरिः हिमवान् अर्घ्यम् अर्घार्थं जलम् आदाय सारगुरुभिः । अन्तःसारदुर्भरैः पादन्यासैः वसुन्धरा नमयन् अधः प्रापयन् । अर्धमईन्ति इति अर्ध्यान पूज्यान् ॥ दण्डादित्वाद्यप्रत्ययः ॥ तान् मुनीन् दूरात्प्रत्युद्ययौ ॥
संप्रति हिमवन्तमेव जङ्गमस्थावररूपद्वयसाधारणैर्विशेषणैर्विशिनष्टि–
१ नतः, २ निश्चलाः
१२६
कुमारसंभवे
धातुताम्रावरः प्रांशुदेवदारुवृहद्भुजः ।
प्रकृत्यैव शिलारस्कः सुव्यक्तो हिमवानिति ॥ ५१ ॥
वाविति ॥ धातुताम्राधरः । धातुवत्ताम्रोऽधरो यस्य स तथोक्तः । अन्यत्र चातुरेव ताम्रो यस्य । प्रांशुः उन्नतः । उभयत्रापि समानम् | [ देवदारुगृहदुजः ] देवदारुवन्तौ भुजौ यस्य स तथोक्तः । देवदारव एव बृहन्तौ भुजौ यस्येत्यन्यत्र । प्रकृत्या स्वभावेन एव शिलावदुरो यस्य स शिलोरस्कः । शिलैवेत्यन्यत्र । उरःप्रभृतिभ्यः कप इति कप् । अतः हिमवानिति सुव्यक्तः । वर्तमाने क्तः । सत्यं स एवायं हिमवानिति तद्धर्मप्रत्यभिज्ञानादवधारित इत्यर्थः ॥
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ।। ५२ ।। विधीति । स हिमवान् [ विधिप्रयुक्तसत्कारैः ] विधिना शास्त्रेण प्रयुक्तसत्कारैः कृतार्चनैः शुद्धकर्मभिः अदुष्टचरितैः । शुद्धान्तप्रवेशा हरित्यर्थः । तैः मुनिभिः स्वयं मार्गस्य दर्शयतीति दर्शकः दर्शयिता सन् । पश्यतेयंन्तादण्प्रत्ययः । शुद्धान्तम् अन्तःपुरम आक्रमयामास । प्रवेशयामासेत्यर्थः । अत्र क्रमेरगत्यर्थत्वात् गतिबुद्धि - इत्यादिना तैरित्यस्य न कर्मत्वम् ॥
तत्र चेत्रासनासीनान्कृतासनपरिग्रहः ।
इत्युवाचेश्वरान्वाचं प्राञ्जलिर्भूरेश्वरः || ५३ ॥
तत्रेति ॥ वेयं लताविशेषः । तत्र शुद्धान्ते वेत्रासनासीनान वेत्रमयविष्टरोपविधान ईश्वरान् प्रभून्मुनीन् भूधरेश्वरः हिमवान् कृतासनपरिग्रहः । उपविष्टः सन्नित्यर्थः । प्राञ्जलिः कृताञ्जलिः सन् । इति एवं वाचम् उवाच ॥
अपमेघोदयं वर्षमदृष्टकुसुमं फलम् ।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ५४ ॥
अपेति ॥ अतर्कितोपपन्नम् अविचारितमेवोपगतम् । अत्यन्तासंभावितमित्यर्थः । वः युष्माकं दर्शनम् अपमेघोदयं वर्षम् अनम्रा वृष्टिस्तथा [ अष्टकुसुमं ] अदृष्टं कुसुमं यस्य तत्तथोक्तं फलं च तत् मे प्रतिभाति । अतिदुर्लभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुमरूपकारणयोरभावेऽपि वर्षफलरूप कार्ययोरुदयाभिधानाद्विभावना । मुनिदर्शनस्य विशिष्टवृत्तित्वेन च रूपणादूपकालंकारवेत्युभयोः संसृष्टिः ॥
मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् ।
भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ॥ ५५ ॥
१ सत्कारान २ देशकः. ३ मानू. ४ नीचासन. ५ पृथिवीवर:,
1पट:
सर्ग: ।
१२७
मूढमिति ॥ भवदनुग्रहात् आत्मानं मां मूढं बुद्धि विनाकृतं बुद्धम् इव मुढो भूत्वा यो बुद्धवास्तमिव । कर्तरि कः । आयसम् अयोविकार हैमीभूतम इव | आयसत्वं विहाय सौवर्णत्वं प्राप्तमिवेत्यर्थः । भूमेः भूलोकात दिवं स्वर्गम् आरूढमिव मन्ये । ज्ञानरूपस्थानान्यच मे परमुत्कृष्यन्त इति भावः ॥
अग्रप्रभृति भूतानामधिगम्योऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते ।। ५६ ।।
अयेति ॥ अद्यप्रभृति इत आरम्भ भूतानां प्राणिनां शुद्धये अधिगभ्योऽस्मि । शुद्धयर्थिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् यत् अर्हद्भिः सद्भिः अध्यासितम् अधिष्ठितम् । जुष्टमिति यावत् । तत्तीर्थे प्रचक्षते । निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ । इत्यमरः ॥
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ।
अवैमि
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। ५७ ॥ अवैमीति ॥ हे द्विजोत्तमाः । आत्मानं मां द्वयेन एव पूतं शुद्धम् अवगच्छामि। केन द्वयेन । मूर्ध्नि गङ्गाप्रपातेन मन्दाकिनीपातेन वः युष्माकं [धौतपादाम्भसा ] धौतयोः क्षालितयोः पादयोरम्भसा छ । गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं गम्यते । तच प्रस्तुता प्रस्तुतयोः इति दीपकालंकारः । प्रियः प्रियतराख्यानम् इति लक्षणात्प्रियोऽलंकार इति केचित् ॥
जगमं ष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥ ५८ ॥ जङ्गममिति ॥ हे मुनयः । द्विरूपं जङ्गमस्थावरात्मकत्वाद्विप्रकारकम् अपि मे वपुः [ विभक्तानुग्रहं । विभज्य कृतप्रसादं मन्ये । कुतः जङ्गमं वपुः वः युष्माकं प्रैष्यभावे कैंकर्ये । स्थितमिति शेषः । प्राोढोढ्येषैष्येषु वृद्धिर्वव्या इति वृद्धिः । नियोज्यकिंकरप्रेष्यभुजिष्यपरिचारकाः इत्यमरः । स्थावरं वपुः चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत्कर्मसु नियोजनं मूर्धनि पादन्यासवेति तात्पर्यार्थः ॥
भवत्संभावनोत्थाय परितोषाय मूर्च्छते ।
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ।। ५९ ।। भवदिति || व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि [ अपि ] । महान्त्यपीत्यर्थः । मे मम अङ्गानि भवत्संभावनोत्थाय युष्मदनुग्रहअन्याय मूर्च्छते व्याप्नुवते परितोषाय न प्रभवन्ति न पर्याप्नुवन्ति । अलमर्थयोगाचतुर्थी । यथा महत्त्वपि मद्गात्रेषु न माति तथा मे हृर्षो वर्धत इत्यर्थः ॥
१ पचते. २ प्रेक्ष्यभावेन ३ विरूपम्; देरूप्यम्. ४ अभिम्यात.
१२०
कुमारसंभव
न केवलं दरीसंस्थं भास्वतां दर्शनेन वः । अन्तर्गतमपास्तं में रजसोपे परं तमः || ६० ॥
नति | भारतां तेजस्विनाविव च वः युष्माकं दर्शनेन केवलं दरीसंस्थं गुहागतं तमः चान्तरूपमेव नापास्तम् । किंतु मे अन्तर्गतम् अन्तरात्मगतं रजसः रजोगुणात् परम् अनन्तरं तमः अज्ञानरूपमपि अपास्तम् । रजस्तु पादन्यासरेवापास्तमिति भावः । प्रसिद्धैस्त्रिद्भिर्वाह्यं नमोउपास्यन एभित्त्वान्तरमपीति व्यतिरेको व्यज्यते ॥
कर्तव्यं वो न पश्यामि स्याच्चेतिक नोपपद्यते ।
मन्ये नाव प्रस्थानं भवतामिह ।। ६१ ॥
कर्तव्यमिति ॥ कर्तव्यं कार्य वः युष्माकं न पश्यामि । निस्पृहत्वादिति भावः । अथ स्यात्चंत विद्येत यदि किं न उपपद्यते किनाम न संभवति । सर्व सुलभमेवेत्यर्थः । अथवा किमत्र प्रयोजनचिन्तयेत्याह–मत्पावनाय मच्छोधनाय एव भवताम् इह विषये प्रस्थानम् । इमं देशमुद्दिश्येदं प्रयाणामित्यर्थः । मन्ये तर्कयामि ॥
तथापि तावत्कम्पिविदाज्ञां मे दातुमर्हथ ।
Į
विनियोगप्रसादा हि किंकराः प्रभविष्णुषु ॥ ६२ ॥ तथापीति ॥ तथापि भवतां निःस्पृहत् कस्मिंश्चित् । कर्मणीति शेषः । आज्ञाम् इदं कुवित्यादेशं तावद इदानों मे मह्यं दातुम अर्हथ मदनुग्रहबुयेति भावः । हि यम्मात किंकराः नृत्याः । प्रभवन्तीति प्रभविष्णुषु प्रषु विषये । सुवय इतीष्णुच्प्रत्ययः । [ विनियोगप्रसादाः ] विशेषेण नियोगो विनियोगः प्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्ताः । अन्यथा स्वस्वा मिभात्री निष्फल इति भावः ॥
एते वयममी द्वारा: कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था वाह्यवस्तुषु ॥ ६३ ॥
एत इति ॥ किं बहुना । एते वयम् अमी दाराः इयं [ कुलजीवितं ] कुलस्य जीवितं प्राणभूता । परमप्रेमास्पदमित्यर्थः । कन्या । अत्र एषां मध्ये येन जनेन वः कार्ये प्रयोजनं व्रत तमिति शेषः । येन सोऽपि दीयत इति भावः । रत्नहिरण्यादिकं तु न मे गभ्यमित्याह–बाह्यवस्तुषु कनकरश्नादिषु अनास्था अनादरः । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । अदेयं न किंचिदस्तीति भावः ॥
१ उपदिश्यते २. इदम्..
पत्रः सर्गः ।
इत्यचित्रांस्तमेवार्थे गुहांमुग्वविमर्पणा ।
द्विरिव प्रतिशत व्याजहार हिमालयः ॥ ६४ ॥ इतीति ॥ इत्युचिवान् उक्तवान् । वचैः मुप्रत्ययः । हिमालयः हिसबान् [ गुहामुखविसर्पिणा ] गुहानां मुखेषु विवरेषु विसर्पनीति तथोक्ते: प्रतिशवंदन तम् एव पूर्वोक्तमेव अर्थ हिः द्विवारम् । विनितुभ्यः सुवदति सच् त्ययः । व्याजहार बनाये ।
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु ।
ऋपयो नोदयामासुः प्रत्युवाच स भूवरम् ॥ ६५ ॥ अथेति ॥ अथ अनन्तरम् उपय: [ उदाहरणवस्तुप ] उदाहरणानि कथाप्रसङ्गस्त एवं वस्तुत्यर्थास्ति । अयं नयमीत्यग्रणीतम् असण्यं प्रयत्नम् । सत्सूद्विषइत्यादिन किए । अग्रप्रामान्या नयतेरिति वक्तव्यम इति पत्रम् अङ्गिरसं नामाप नीदयामासुः प्रतिवन् प्रेरयामासः सः अध हिमवन्तं प्रत्युवाच
उपपन्नमिदं सर्वमनः परमपि न्याये ।
मनसः शिखराणां च सदृशी ते समुन्नतिः ।। ६६ ।। उपपन्नमिति ॥ इदम् एते वयमभी द्वारा: । ६ । ६३ ) इत्यायुक्तं सर्वम अतः परम् अतोऽधिकम् अपि त्वयि उपपन्नं युज्यते । तथा हि । ने मनसः शिखराणां च समुन्नतिः सदृशी । शिखराणीव मनी महोन्नतसि त्यर्थः । किं नाम दुष्करमुन्नत चित्तानामिति भावः । प्रस्तुताप्रस्तुतयोर्मनःशिखर योरौपम्यस्य गम्यत्वाद्दीपकालंकारः ॥
स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुधिराधारतां गतः ।। ६७ ॥ स्थान इति ॥ त्वां स्थावरात्मानं स्थावररूपिणं विष्णुमाहुः । स्थाव हिमालयः इति गीतावचनात् । म्याने युक्तम्
यताऽव्ययात । सुन द्वे सांप्रते स्थाने इत्यमरः । तथा हि । कुक्षिः चराचराणां जङ्गमस्थावररूपिणां भूतानां पृथिव्यादिनाम् आधारतां गतः । तदेव विष्णोः कुक्षिरेवंभूत इति भावः ।
1
गामधास्यत्कथं नागी मृणाल मृदुभिः फणैः ।
आ रसातलमूलात्त्वमवालम्बिप्यथा न चेत् ॥ ६८ ॥
१ उक्तवान् २दरी. ३ हिमाचला. ४ चोदयामासुः परयामासः ५ मी षिणः ६ सदृशैः-
११०
कुमारसंभवे
गामिति ॥ नागः शेषाहिः मृणालमृदुभिः बिसकोमलैः फणैः गां भुर्व कथम् अधास्यत् धारयेत् । त्वम् आ रसातलमूलात् पातालपर्यन्तम् । विकल्पादसमासः । न अवालम्बिष्यथः चेत् पादैनविलम्बेथा यदि । त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपत्त्यभावालृप्रयोगश्विन्त्यः ॥
अच्छिन्नामलसन्ताना समुद्रोयनिवारिताः ।
पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥ ६९ ॥ भच्छिन्नेति ॥ [ अच्छिन्नामलसन्तानाः ] अच्छिना अविच्छिन्ना अमलाश्च सन्तानाः प्रबन्धाः प्रवाहाच यास तास्तथोक्ताः । [ समुद्रोर्म्यनिवारिताः ] समुद्रोर्मिभिरनिवारिताः । पारगमनादन्तः प्रवेशाश्चेति भावः । ते तव कीर्तयः सरितश्च गंज्ञादयः पुण्यत्त्रात् पवित्रत्वात् लोकान पुनन्ति पावयन्ति । लोकपावनाः खलु पुण्य का इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालंकारः ॥
यथैव श्लाध्यते गङ्गा पादेन परमेष्ठिनः ।
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ।। ७० ।। यथेति ॥ गङ्गा भागीरथी । [ प्रभवेण ] प्रभवत्यस्मादिति प्रभवस्तेन कारणेन पर मे तिष्ठतीति परमेष्ठिनः विष्णोः । परमे कित्प्रत्ययः । तत्पुरुषे कृति बहुलम् इत्यलुक्। परमेबर्हिर्दिव्यग्निभ्यः स्थः इति षत्वम् । पादेन चरणेन यथा एव लाध्यते प्रशस्यते तथैव द्वितीयेन प्रभवेण उच्छिरसा त्वया लभ्यते । दरिचरणवनीर्थस्यापि तीर्थभूतस्त्वामेति भावः ॥
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः ।
त्रिविक्रमोद्यतस्यासीत्स तुं स्वाभाविकस्तव ॥ ७१ ॥ तिर्यगिति॥ तिर्यक् ऊर्ध्वमधस्तात् च व्यापकः । सर्वव्यापीत्यर्थः । महिमा महत्त्वं हरेः [ त्रिविक्रमोद्यतस्य ] त्रिषु विक्रमेषूद्यतस्य सत आसीत् । त्रिविक्रमोयतस्यापि कदाचिदेव । न तु सर्वदेत्यर्थः । तव तु स व्यापको महिमा स्वाभाविकः नित्यसिद्ध इत्यर्थः ॥
यज्ञभागांमध्ये पदमातस्थुषा त्वया । उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥ ७२ ॥
यज्ञेति ॥ यज्ञभागभुजाम् इन्द्रादीनां मध्ये पदम् आतस्थुषा निहितवता त्वया उच्चैः उन्नतं हिरण्यस्य विकारो हिरण्मयम्। दाण्डिनायनहास्तिनायन इत्यादिनिपातनात्साधु । सुमेरोः शृङ्गं शिखरम् । प्राधान्यं च ध्वन्यते ।
१ निवारिताः. २ लोकस. ३ मभावेण.
४ च ५ तथा.
vu: en:
१३१
प्राधान्यसान्वोश्व इत्यमरः । वितथीकृतं व्यथा कृतम् । तस्य यज्ञभागाभावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम्-हिमवती हस्ती इति श्रुतिः ।।
काठिन्यं स्थावरे काये भवता सर्वमर्पितम् ।
इदं तु ने भक्तिनम्रं संतामाराधनं वपुः ॥ ७३ ॥ काठिन्यमिति ॥ भवता सर्वे काठिन्यम् । अनम्रत्वमित्यर्थः । स्थावरे स्थिरे काये । शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सताम् अर्हताम् आराधनं पूजासाधनं ते इदं वपुः तु । जङ्गममित्यर्थः । भक्तिनम्रम् । काठिन्यलेशोऽप्यत्र नास्त्यन्यथा नम्रत्वासंभवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते ॥
तदागमन कार्य नः शृणु कार्य तवैव तत् । श्रेयसामुपदेशात्तु वयमंत्रांशभागिनः ॥ ७४ ॥
तदिति ॥ तत् तस्मात् नः अस्माकम् [ आगमनकार्य ] आगमनस्य कार्य प्रयोजनं शृणु। तर कार्य चतव एव । नत्वस्माकमित्यवधारणार्थ एवकारः । वयं तु श्रेयसामुपदेशात अत्र कार्य अंशभागिनः । स्वमेवात्र फलभाग्वयमुप देष्टार इति भावः ॥
कार्यमेवाह–
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् ।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥ ७५ ॥
अणिमेति ॥ यः शंभुः [ अणिमादिगुणोपेतम् ] अणिमादिभिरभिर्गुणैर्वाच्यभूतैरुपेतम् | अद्यैश्वर्यवाचकमित्यर्थः । अतएव [ अस्पृष्टपुरुषान्तरम् ] अस्पृष्ट पुरुषान्तरं येन तं तथोक्तं पुरुषान्तरम्यानभिधायकम् । तस्यैवैवंगुणत्वादित्यर्थः । उच्चैः : परमम् ईश्वरः इति शब्दम् । निरुपपदेश्वरशब्दमित्यर्थः । सार्धचन्द्रम अर्धचन्द्रयुक्तम् | अर्धचन्द्रं चेत्यर्थः । बिभर्ति ||
1
कलितान्योन्यसामथ्र्यैः पृथिव्यादिभिरात्मभिः ।
येनेदं धियते विश्वं धुर्यैर्यानमिवाध्वनि ।। ७६ ।।
कलितेति ॥ येन शंभुना [ कलितान्योन्यसामयैः ] कलितं धृतिसंग्रहादि - स्त्रस्वगुणसंपादितमन्योन्यसामर्थ्यं परस्पर सहकाररूपं यैस्तथोक्तः । स्वस्वरूपसामर्थ्यमन्योन्याधेयमेवेति भावः । पृथिव्यादिभिः आत्मभिः । अष्टाभिर्मूर्तिभिरित्यर्थः । इदं व्यक्तं विश्वं धुरं वहन्तीति धुर्यैः अभ्यैः । धुरो यड्डुको इति यत्प्रत्ययः । अध्वनि यानं रथ इव धियते ॥
१ आराधक: अर्हदाराधनम्. २ यथा; यत्. ६ भाजिनः ७ गुणोत्थानम्. ८ कल्पिता.
३ तथा. ४ च. ५ आप. ९ यस्य.
१० धार्यते.
कुमारसंभव
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् । अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥ ७७ ॥
योगिन इति ॥ योगिनः अध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्वरं सर्वभूतान मिनम्। परमात्मस्वरूपिणमित्यर्थः । क्षेत्रं पत्नीशरीरयोः इत्यमरः । यं शंभुं विचिन्वन्ति सगले । मनीषिणः विद्वांसः यस्य शंभो: प स्थानम् [ अनावृत्तिभयम ! अविद्यमानाः पुनः संसारापत्तेर्भयं यत्र
त्याभूतम् आ
स ते दुहितरं सवत्साक्षी विश्वस्य कर्मणाम् ।
वरदः शंरसंक्रामितः पदः ॥ ७८ ॥
१ इति ॥ विश्वस्य जगतः कर्मणां साक्षी | साक्षारि संज्ञायाम् इतोनिप्रत्ययः । वरानिशन्ददाति वरदः । तऽनुप | इति कप्रत्ययः ॥ स पूर्वतः गंगा अम्मामतः पद जगा निवेशितवाक्यैः सेदुहितरं साक्षात् वृणुते : अम्मन्मुखेन स्वमंत्र यात रायर्थः ॥
तमर्थमेव भारत्या सुतया योक्तुमहसि ।
अशोच्या हि पितुः कन्या सप्रतिपादिता ॥ ७९ ॥ तमिति ॥ तं शंभु भारत्या वाचा अर्थम् अभिषेयम इव सुतया दुहित्रा यातुं मयितुम अर्हसि । जत्र नागयोम्पमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तम् । वागर्थाविव संपृक्क ( रघुवंशे ११ ) इत्यत्रापि । तथाहि । [ प्रतिपादिता] सत्रे प्रतिपादिना दत्ता कन्या पितुः अशोच्या ||
गुणान्तरम’ याद-
यावन्त्येतानि भूतानि स्थावराणि चराणि च ।
मातरं कल्पयन्त्वेनामीशो हि नंगतः पिता ॥ ८० ॥ यावन्तीति ॥ स्थावराणि चराणि च यावन्त्येतानि भूतानि । सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मात् ईशः जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः ।
प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
चरण रञ्जयत्वस्यानूडामणिमरीचिभिः ॥ ८१ ॥ प्रणम्यति ॥ विबुधाः देवाः शितिकण्ठाय शिवाय प्रणम्य तदनन्तरं नीलकण्ठप्रणामानन्तरम् अस्याश्चरणौ चूडामणिमरीचिभिः रञ्जयन्तु ईश्वरपरिमद्दादखिलदेवतावन्द्या भववित्यर्थ ॥
L
संक्रमितः २, ३ जगताम्
षष्ठ सर्गः ।
उमा वधूर्भवाम्दाता याचितार हमे वयम् ।
१३३
वर शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ।। ८२ ॥ उमेति ॥ उमा वधूः ॥ भवान् दाता । इमे वयं याचितारः प्रार्थकाः । शंभुः वरः वोढा । एष विधिः एषा सामग्री [ त्वत्कुलोद्भूतये ] स्वरकुलस्यो - तय उच्छ्रयाय अलं पर्याप्तः हि । नमः स्वस्तिस्वाहास्वधा - इत्यादिना चतुर्थी ॥ अस्तोतुः स्तूयमानस्य वन्यस्यानन्यवन्दिनः । सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः || ८३ ॥ अस्तोतुरिति ॥ स्वयमन्यस्तोता न भवतीति अस्तोतुः किंतु स्तूयमानस्य सर्वस्तुत्यस्य वन्द्यस्य जगद्वन्यस्य स्वयमन्यं न वन्दत इति अनन्यवन्दिनः विश्वगुरोः देवस्य सुतासंबन्धविधिना यौनसंबन्धाचरणेन गुरुः भव । यो नान्यं स्तौति न वन्दते तस्यापि त्यो वन्द्यथेत्यहो तव भाग्यवत्तेत्यर्थः
एवंवादिनि देव पार्श्वे पितुरवोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥ ८४ ॥ एवमिति । देवर्षो अङ्गिरस एवं वादिनि सति पार्वती पितुः पार्श्वे अधोमुखी सती । लजयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ । लज्जावशात्कमलदलगणानाव्याजेन हर्षे जुगोपेत्यर्थः । अनेनावहित्थाख्यः संचारी भाव उक्तः । तदुक्तम् - अवहित्था तु लजादेर्हर्षाद्याकारगोपनम् इति ॥
शैल: संपूर्ण कामोऽपि मेनामुखमुदैक्षत ।
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः || ८५ ॥ शैल इति ॥ शैलः हिमवान, संपूर्ण कामोऽपि । दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत । उचितोत्तरजिज्ञासयेति भावः । तथाहि । प्रायेण कुटुम्बिनः गृहस्थाः कन्यार्थेषु कन्याप्रयोजने [ गृहिणीनेत्राः ] गृहिण्येव नेत्र कार्यज्ञानकारणं येषां ते तथोक्ताः । कलत्रप्रधानवृत्तय इत्यर्थः ॥
मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् । भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥ ८६ ॥
मेन इति ॥ मेनापि पत्युः हिमालयस्य तत्सर्वम् अभीप्सितं कार्य मेमे अङ्गीचकार । तथाहि । [ पतिव्रताः ] पतिरेव व्रतं यासां ताः भर्तुः इष्टे अभीप्सिते न विद्यते व्यभिचारो यासां ताः अव्यभिचारिण्यः भवन्ति । भर्तृचित्ताभिप्रायज्ञा भवन्तीति भावः ॥
१ कन्यार्थे हि . २ सद्यः. ३ समीहितम्.
25
१३४
कुमारसंभवे
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः ।
आददे वचसामन्ते मङ्गलालंकृतां सुताम् ॥ ८७ ॥ इदमिति ॥ स हिमवान् वचसामन्ते मुनिवाक्यावसाने अत्र मुनिवाक्ये इर्द उत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतम् उत्तरम् इति बुद्धया चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतो मङ्गलालंकृतां सुताम् आददे हस्ताभ्यां जग्राह ॥
एहि विश्वात्मवत्से भिक्षांसि परिकल्पिता ।
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ८८ ॥
एहीति ॥ हे वत्से पुत्रि एहि आगच्छ । त्वं विश्वात्मने शिवाय भिक्षा परिकल्पिता असि निश्चिता असि । रत्नादिस्तम्बपर्यन्तं सर्वे भिक्षा तपस्विनः इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया [ गृहमेधिफलं ] गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इद्द परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः ॥
एतावदुक्त्वा तनयामृपीनाह महीधरः ।
इयं नमति वः सर्वास्त्रिलोचनवधूरिति ॥ ८९ ॥
एतावदिति ॥ महीधरः हिमवान् तनयाम् एतावत् पूर्वोक्तम् उक्तवा ऋषीन् आह । किमिति । इयं त्रिलोचनवधूः त्र्यम्बकपत्नी वः सर्वान नमति इति । त्रिलोचनवधूरिति सिद्धवदभिधानेनाविप्रतिपन्नं दानमिति सूचयति ॥
ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः ।
आशीर्भिरेषयामासुः पुरःपाकाभिरम्बिकाम् ॥ ९० ॥ ईप्सितार्थेति ॥ ते मुनयः । [ ईप्सितार्थक्रियोदारं ] ईप्सितार्थ क्रिययेष्टार्थकरणेनोदारं महत् । उदारो दातृमहतोः इत्यमरः । गिरेः हिमवतो वचः चचनम् अभिनन्द्य साध्विति संस्तुत्य अम्बिकाम् अम्बाम् । पच्यत इति पाकः फलम् । पुरःपाकाभिः पुरस्कृतफलाभिः आशीर्भिः आशीर्वादः एधयामासुः संवर्धयामासुः ॥
तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।
अङ्कमारोपयामास लज्जमानामरुन्धती ।। ९१ ॥
तामिति ॥ [ प्रणामादरस्रस्तजाम्बूनद्वतंसकाम् ] प्रणामादरेण नमस्काराच्या सस्ते जाम्बूनदे सुवर्णविकारौ वतंसके कनककुण्डले यस्यास्तां लज्जमानां ताम् अम्बिकाम् अरुन्धन्ती अङ्कमारोपयामास । रुदः पोsन्यतरस्याम् इति पकारः ॥
१ शर्पणे २ भिक्षा त्वम्.
षष्ठः सर्गः ।
तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ ९२ ॥
१३५
तदिति ॥ [ दुहितृस्नेहविक्लवाम् ] दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोक्ष्यत इति भाताम् । अतएवाश्रूणि मुखे यस्यास्ताम् अश्रुमुखीं तस्या अम्बिकाया मातरं तन्मातरं मेनां च । अन्या पूर्वे यस्यास्ति सोऽन्यपूर्वः । सर्वनाम्नो वृत्तिविषये पुंवद्भावः इति पूर्वपदस्य पुंवद्भावः । स न भवतीत्यनन्यपूर्वस्तस्य अनन्यपूर्वस्य । सापन्यदुःखमकुर्वत इत्यर्थः । वरस्य वोढुः गुणैः मृत्युञ्जयस्वादिभिः विशोकां निर्दुःखाम् अकरोत् ॥
वैवाहिक तिथिं पृष्टास्तत्क्षणं हरबन्धुना ।
ते त्र्यहादूर्ध्वमाख्याय चेरुचीरपरिग्रहाः ॥ ९३ ॥ वैवाहिकीमिति ॥ चीरपरिग्रहाः वल्कलमात्रवसनाः ते तपस्विनः तत्क्षणं तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीं विवाहयोग्य तिथिं पृष्टाः केत्यनुयुक्ताः सन्तः । त्रयाणामह्नां समाहाररूयहः । तद्धितार्थोत्तरपदसमाहारे च इति समासः । राजाहः सखिभ्यष्टच् इति टच्प्रत्ययः । द्विगुत्वादेकवचनम् । रात्राहाहा: पुंसि इति पुंलिङ्गता । तस्मात् त्र्यहात् ऊर्ध्वम् उपरि आख्याय चतुर्थेनि विवाह इत्युक्त्वा चेरुः चलिताः ||
ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थे तद्विसृष्टाः खमुद्ययुः ॥ ९४ ॥ ते इति ॥ ते मुनयः हिमालयम् आमन्त्र्य साधु यामेत्यापृच्छ्य पुनः शूलिनं हरं सङ्केतस्थानस्थं प्राप्य सिद्धं निष्पन्नम् अर्थ प्रयोजनम् अस्मै निवेद्य च ज्ञापयित्वा च [ तद्विसृष्टाः ] तेन शूलिना विसृष्टाः खम् आकाश प्रति उद्ययुः उत्पेतुः । अत्र संक्षिप्तार्थाभिधानात्संक्षेपो नाम गुण उक्तः । तदु’कम् - संक्षिप्तार्थाभिधानं यत्संक्षेपः परिकीर्तितः इति ॥
भगवान्पशुपतिखयमात्रविलम्बमपि सोढुं न शशाक तदौत्सुक्यादित्याद—
पशुपतिरपि तान्यहानि कृच्छ्रा-
दगमयदासुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्यु-
र्विभुमपि तं यदमी स्पृशन्ति भावाः ।। ९५ ॥
पशुपतिरिति ॥ उत्कं मनो यस्य स उत्कः । उत्क उन्मनाः इति निपातः । अद्रिसुतासमागमोत्कः पार्वतीपरिणयोत्सुकः पशुपतिः अपि तानि ।
१ दुहितुः २ चेलुः ३ प्रेक्ष्य ४ तस्मै.
१३६
कुमारसंभवे
श्रीणीति शेषः । अहानि कुच्छ्रात् अगमयत् अयापयत् । कविराद - अमी भावा: औत्सुक्यादयः संचारिणः अवशम् इन्द्रियपरतन्त्रम् अपरं पृथग्जनं कं न विप्रकुर्युः न विकारं नयेयुः । यत् यस्मात् विभुं समर्थम् । जितेन्द्रियमिति यावत् । तं स्मरहरम् अपि स्पृशन्ति । विकुर्वन्तीत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजन विकारः कैमुतिकन्यायादापततीत्यर्थापत्तिरलंकारः । तथा च सूत्रम् - दण्डापूपिकयार्थान्तरपतनमर्थापत्तिः इति । अर्थान्तरन्यास इति केचित्तदुपेक्षणीयम् । युक्तिस्तु विस्तरभयान्नोच्यते । पुष्पिताप्रावृत्ताम् - अयुजि नयुगरफतो यकारो युजि च नजौ जरगाथ पुष्पिताग्रा । इति लक्षणात् ॥ इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृती कुमारसंभवे महाकाव्ये उमाप्रदानों नाम षष्ठः सर्गः ।
सप्तमः सर्गः ।
अथौषधीनामधिपस्य वृद्धौ
तिथौ च जामित्रगुणान्वितायाम् । समेतबन्धुर्हिमवान्सुताया
विवाहदीक्षाविधिमन्वतिष्ठत् ॥ १ ॥
अथेति ॥ अथ त्र्यहानन्तरं हिमवान् औषधीनाम् अधिपस्य चन्द्रस्य वृद्धौ शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च [ जामित्रगुणान्वितायाम् ] जामित्रं लमात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च महराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिमिधर्मस्तथापि तद्वारा तिथेरपि तथा व्यपदेशे न दोषः । समेतबन्धुः युक्तबन्धुः सन् । सुतायाः दुहितुः [ विवाहदीक्षाविधिम् ] विवाददीक्षा विवाहसंस्कार: सैव विधिः कर्म तम् अन्वतिष्ठत् कृतवान् ॥
वैवाहिकैः कौतुक संविधानैर्गृहे गृहे व्यग्रपुरान्धवर्गम् ।
आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ २॥ वैवाहिकैरिति ॥ अनुरागात् प्रीतिवशात् गृहे गृहे प्रतिगृहम् । वीप्साय द्विर्भावः । [ वैवाहिकैः ] विवाहः प्रयोजनमेषामिति वैवाहिकानि तैः । प्रयो-सतमः सर्गः:
१३७
जनम् इति टक् । कौतुक संविधानैः मङ्गलार्थ संपादनैः [ व्ययपुरन्धिर्वगम् ] व्यम्रो व्याकुलः पुरन्ध्रिवर्ग : कुटुम्बिनीसो यस्मिंस्तत्तथोक्तं सानुमतः अद्रेः पुरं बाह्यमोषधिप्रस्थम् अन्तःपुरम् अवरोधनं च [ एककुलोपमेयम् ] एककुलेन एकगृहेण वोपमेयम् आसीत् । सजातीयगणे गोत्रे गृद्देऽपि कथितं कुलं इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमाद्रे: प्रजाराग उक्तः । अत्र सर्व संपन्नमेवेत्यर्थः ॥
सन्तानकाकीर्णमहापथं त-
चीनांशुकैः कल्पितकेतुमालम् । भासोज्ज्वलत्काञ्चनतोरणानां
स्थानान्तरं स्वर्ग इवावभासे || ३ ||
सन्तानकैरिति || [ सन्तानकाकीर्णमहापथं] सन्तानकैर्मन्दारकुसुमैराकीर्णा आस्तृता महापथा राजकीयपथा यस्मिंस्तत्तथोक्तम् । चीनांशुकैः पटवनैः [ कल्पितकेतुमालम् ] कल्पिता विरचिताः केतुमाला ध्वजपङ्कयो यस्य तत्तथोक्तम् । काञ्चनतोरणानां भासा प्रभया उज्ज्वलत् दीप्यमानं तत् पुरं स्थानान्तरं मेरोरन्यत्र स्थितः स्वर्ग इवै आवभासे । उत्प्रेक्षालंकारः ।
एकैव सत्यामपि पुत्रपङ्क्तौ
चिरस्य दृष्टेव मृतोत्थितेव ।
आसन्नपाणिग्रहणेति पित्रो-
रुमा विशेषच्छसितं बभूव ॥ ४ ॥
एकैवेति ॥ [ पुत्रपौ ] पुत्राव दुहितरश्च पुत्राः । भ्रातृपुत्रौ स्वदुहिंतुभ्याम् इत्येकशेषः । पुत्रौ पुत्रच दुहिता च इत्यमरः । तेषां पङ्क्तौ सङ्के सत्याम् अपि उमा एका एव चिरस्य दृष्टेव चिरान्नष्टलब्धेव मृतोत्थितेव मृत्वा पुनरुत्पन्नेव आसन्नपाणिग्रहणा आसन्नविवाहा इति । भर्तृगई गमिष्यतीति हेतोरित्यर्थः । पित्रोः मातापित्रोः । पिता मात्रा इत्येकशेषः । [ विशेषोच्छु सितं ] विशेषेणोच्छ्वसितं प्राणभूता बभूव । पुमपत्यादपि अधि कप्रेमास्पदमभूदित्यर्थः ॥
अङ्काययावङ्कमुदीरिताशीः
सा मण्डनान्मण्डनमन्वभुङ्क ।
१ चतुःपथम् . २ भासा ज्वलत्. २ स्थानान्तरस्वर्गः ४ चिरेण ५ उपोदपाणि.
१३८
कुमारसंभवे
सवान्धान्नोऽपि गिरेः कुलस्य
स्नेहस्तदेकायतनं जगाम ॥ ५ ॥
अङ्कादिति ॥ सा पार्वती उदारिताशीः प्रयुक्ताशीर्वादा सती अङ्कादङ्कम् उत्सङ्गं ययौ । मण्डनात् मण्डनान्तरम् अन्यत् मण्डनम् अन्वभुङ्क । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छन्नित्यर्थः । तच स्नेहनिबन्धनमेवेत्याह-संबन्धिभिन्नः स्वपुत्रादिभिर्भिन्नो विभक्तः अपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तत् जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः ॥
मैत्रे मुहूर्ते शशलाञ्छनेन
योगं गतामुत्तरफल्गुनीषु । तस्याः शरीरे प्रतिकर्म चक्र-
बन्धुत्रियो याः पतिपुत्रवत्यः || ६ ||
मैत्र इति ॥ अथ मैत्रे मित्रदैवत्ये मुहूर्ते । उदयमुहूर्ता तृतीयमुहूर्त इत्यर्थः । आर्द्रः सार्द्रस्तथा मैत्रः शुभो चासव एव च इति वृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे | फल्गुनी प्रोष्ठपदानां च नक्षत्रे इत्येकस्मिन्नपि बहुवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम् । प्रतिकर्म प्रसाधनम् इत्यमरः । चकुः । कीदृश्यः । याः पतिपुत्रवत्यः । जीवद्भर्तृका जीवदपत्याश्वेत्यर्थः ॥
प्रतिकर्मप्रकारमेव प्रपञ्चयति-
सा गौरसिद्धार्थनिवेशद्भि-
दूर्वामवाले: प्रतिभिन्नशोभम् । निर्नाभिकौशेयमुपात्तवाण-
मभ्यङ्गनेपथ्यमलञ्चकार ॥ ७ ॥
सेति ॥ सा गौरी गौरसिद्धार्थनिवेशवद्भिः श्वेतसर्षपप्रक्षेपवद्भिः दूर्वाप्रवालैः दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं [ निर्नाभिकौशेयं ] निर्नाभ्यतिक्रान्तनाभि कौशेयं वस्त्रविशेषो यस्मिंस्तत्तथोक्तम् । कौशेयं कृमिकोशोस्थम् इत्यमरः । उपात्तवाणं गृहीतशरम् । शरः क्षत्रियया प्रायः इति मनुस्मरणात् । अभ्यङ्गनेपथ्यम् अभ्यङ्गवेशम् अलञ्चकार । अलङ्कारमप्य
चकारेत्यर्थः ॥
१ रागम्.
सप्तमः सर्गः ।
बभौ च संपर्कमुपेत्य बाला
नवेन दीक्षाविधिसायकेन । करेण मानोर्वहुलावसाने
सन्धुक्ष्यमाणेव शशाङ्करेखां ॥ ८ ॥
१३९
बभाविति ॥ किं च इति चार्थः । बाला नवेन [ दीक्षाविधिसायकेन ] दीक्षाविधौ विवाहकृत्ये यः सायकस्तेन संपर्कमुपेत्य बहुलावसाने कृष्णपक्षात्यये । शुक्लपक्षादावित्यर्थः । भानोः करेण किरणेन सन्धुक्ष्यमाणा उपचीयमाना । सलिलमये शशिनि खेदधितयो मूच्छितास्तमो नैशम् | क्षप व्यन्ति इत्यादिवचनात् । शशाङ्करेखेव बभौ ||
तो लोकल्केन हृताङ्गतैला-
माझ्यानकाले यकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं
नार्यश्चतुष्काभिमुखं व्यनैपुः ॥ ९ ॥
तामिति ॥ लोध्रकल्केन लोध्रचूर्णेन [ हृताङ्गतैलां ] हृतमङ्गतैलं यस्यास्ताम् । कृतोद्वर्तनामित्यर्थः । [ आश्यानकालेयकृताङ्गरागाम् ] आश्यानमीषच्छुष्कं तेन कालेयेन गन्धद्रवेण कृताङ्गरागाम । कृतस्नैग्ध्यामित्यर्थः । अथ जायकम् । कालेयकं च कालानुसार्ये च इत्यमरः ॥ अभिषेकयोग्यं वासः वस्त्रं वसानां स्नानशाटीमाच्छादयन्तीं तां पार्वतीं नार्यः [ चतुष्काभिमुखं ] चतुष्कं चतुःस्तम्भगृहं तदभिमुखं व्यनैषुः स्नानगृहं निन्युरित्यर्थः ॥ विन्यस्तवैदर्य शिलातलेऽस्मि-
नबद्धमुक्ताफलभक्तिचित्रे | आवर्जिताष्टापदकुम्भतोयैः
सतूर्यमेनां स्नपयांवभूवुः ॥ १० ॥
विन्यस्तेति ॥ [ विन्यस्तवैदूर्यशिलातले ] विन्यस्तं वैदूर्यशिलातलं मरकतशिलाप्रदेशो यस्मिंस्तस्मिन् [ आबद्धमुक्ताफलभक्तिचित्रे ] आबद्वान मुक्ताफलानां भक्तिभी रचनाभिश्वित्रे अस्मिन् चतुष्के एनां पार्वतीम् । [ आवर्जिताष्टापदकुम्भतोयैः ] आवर्जितानामान मितानामष्टापदकुम्भानां कनककलशानां तोयैः सतूर्य मङ्गलवाद्ययुक्तं यथा तथा स्नपयांबभूवुः । अष्टसु लोहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् । अष्टन: संज्ञायाम् इति दीर्घः । अष्टापदं स्यात्कनकम् इति विश्वः ॥
१ लेखा. २ अभिमुखीमनेपुः ३ शिले च तस्मिन् ४ अविद्ध.
१४०
कुमारसंभवे
सा मङ्गलस्नानविशुद्धगात्री
गृहीतत्युद्गमनीयवस्खा | निर्वृत्तं पर्जन्यजलाभिषेका
मफुलकाशा वसुधेव रेजे ॥ ११ ॥
सेति । । [ मङ्गलस्नान विशुद्धगात्री ] मङ्गलार्थस्नानेन विशुद्धगात्री निर्मलाङ्गी [ गृहीतपत्युद्गमनीयवस्त्रा ] पत्युर्वेरस्योद्गमनीयवस्त्रं धौतवस्त्रम् । धौतमुद्गमनीयं स्यात् इति हलायुधः । तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् इत्यमरः । युगग्रहणं तु प्रायिकाभिप्रायम् । अतएवात्र क्षीरस्वामी-युगं प्रायशो लक्ष्यं तदेव इति व्याख्याय गृहीत्तपत्युद्गमनीयवस्त्रा इत्येतदेवोदाहृतवान् । गृहीतं पतिं प्रत्युद्गमनीयवस्त्रं यया सा । धौतमाच्छादितवतीत्यर्थः । सा पार्वती [ निर्वृत्त पर्जन्यजलाभिषेका ] निर्वृत्तो निष्पन्नः पर्जन्यस्य जलेनाभिषेको यस्याः सा तथोक्ता । [ प्रफुल्लकाशा ] प्रफुलतीति प्रफुर्छ काशं काशपुष्पं यस्याः सा तथोक्ता वसुधेव रेजे शुशुभे ॥
तस्मात्प्रदेशाच्च वितानवन्तं
युक्तं मणिस्तम्भचतुष्टयेन । पतिव्रताभिः परिगृह्य निन्ये
कुप्तासनं कौतुकवेदिमध्यम् ॥ १२ ॥
तस्मादिति ॥ किंच इति चार्थः । तस्मात् प्रदेशात् स्नानप्रदेशात वितामवन्तम् उचयुक्तम् । अत्री षितानमुद्दोचः इत्यमरः । मणिस्तम्भचतुष्टयेन युक्तं [ क्लृप्तासनं ] क्लृप्तं सज्जमानमासनं यस्मिंस्तं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य दोर्भ्यामालिङ्गय निन्ये नीता । प्रसाधनार्थमित्यर्थः ॥
तां प्राङ्मुखीं तत्र निवेश्य तन्वीं
क्षणं व्यलम्बन्त पुरोनिषण्णाः । भूतार्थशोभाहियमाणनेत्राः
प्रसाधने सन्निहितेऽपि नार्यः ॥ १३ ॥
तामिति ॥ नार्थः प्रसाधिकाः तां तन्वीं पार्वतीं तत्र वेदिमध्ये प्राङ्मुखीं निवेश्य उपवेश्य पुरोनिषण्णाः अग्रे स्थिताः । प्रसाध्यतेऽनेनेति प्रसाधने अलंकार साधनवर्गे सन्निहित अपि [ भूतार्थशोभाहियमाणनेत्राः ] भूतार्था सत्यरूपा | स्वाभाविकीति यावत् । या शोभा रामणीयकं तया हियमाणा-
१ शुद्धोद्रमनीय. २ निवृत्त, ३ प्रति.
सममः सर्गः ।
१४१
न्याकृष्यमाणानि नेत्राणि यासां तास्तथोक्ताः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधनेनेति तूष्णीं तस्थुरित्यर्थः ॥
धूपोष्मणा त्याजितमाईभावं
केशान्तमन्तःकुसुमं तदीयम् । पर्याक्षिपत्काचिदुदारबन्धं
दुर्वावता पाण्डुमधूकदाना ॥ १४ ॥
धूपेति ॥ काचित् प्रसाधिका धूपोष्मणा करणेनार्द्रभावमादत्वं त्याजितम् । पचादिषु पाठाद्विकर्मकत्वम् । त्यजतेर्ण्यन्तादप्रधाने कर्मणि तः । अन्तःकुसुमम् अन्तर्निक्षिप्तकुसुमं तस्या इमं तदीयं केशान्तं केशपाशं दूर्वावता मध्ये मध्ये प्रथितदूर्वेण पाण्डुमधूकदाना हरितमद्रुमकुसुममाल्येन । मधूके तु गुडपुष्पमधुदुमौ इत्यमरः । उदारबन्धं रम्यबन्धं यथा तथा पर्याक्षिपत् बबन्ध ॥
विन्यस्तशुक्लागुरु चक्रुरंङ्ग
गोरोचनापत्रविभक्तमस्याः ।
सा चक्रवाकाङ्कित सैकताया-
स्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ।। १५ ।।
विन्यस्तेति ॥ अस्या गौर्याः अङ्गं गात्रं [ विन्यस्तशुक्लागुरु ] विन्यस्तं विरचितं शुक्लागुरु यस्मिंस्तत् [ गोरोचनापत्रविभक्तं ] गोरोचनायाः पत्रैः पत्ररचनाभिर्विभक्तं विशेषितं च चक्रुः । सा तथाभूता गौरी [ चक्रवाकाङ्कितसैकतायाः ] चक्रवाकैरङ्कितं सैकतं यस्यास्तस्याः त्रिस्रोतसः गङ्गायाः कान्ति शोभाम् अतीत्य अतिक्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यं त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वान्न स्वपदेनोपात्तम् ॥
लग्नेद्विरेफं परिभूय पद्मं
समेघलेखं शशिनश्च विम्बम् ।
तदाननश्रीरलकैः प्रसिद्धै-
विच्छेद सादृश्यकथाप्रसङ्गम् ॥ १६ ॥
लग्नेति ॥ प्रसिद्धैः भूषितैः । प्रसिद्धौ ख्यातभूषितौ इत्यमरः । अलकैः उपलक्षिता [ तदाननश्रीः ] तस्याः गौर्या आननश्रीः लग्नद्विरेफं पद्मं समेघलेखं मेघलेखायुक्तं शशिनः बिम्बं च परिभूय तिरस्कृत्य [ सादृश्यकथाप्रसङ्गम् ] सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्गं प्रसक्ति सादृश्यं वाड्यात्रप्रसक्तमपि चिच्छेद अभिनत् । प्रसक्तयोः पद्मचन्द्रयोः परिभूतत्वा-
१ धूपेन संमार्जितम् २ आसत. ३ अस्याः ४ विभङ्गमङ्गम्. ५ लीन.
१४२
कुमार संभवे
वन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवाक्यार्थस्य सादृश्य कथाच्छेदं प्रति हेतुत्वेनोपन्यासात्काव्यलिङ्गमलंकारः । लक्षणं तूक्तम् ॥
कर्णार्पितो लोकषायरूक्षे
गोरोचनाक्षेपेनितान्तगौरे |
तस्याः कपोले परभागलाभा-
द्वबन्ध चक्षूंपि यवमरोहः ॥ १७ ॥
कर्णेति ॥ तस्याः गौर्याः [ कर्णार्पितः ] कर्णेऽर्पितो निक्षिप्तो यवप्ररोह: यवाङ्कुरो [ लोधकषायरूक्षे ] लोनस्य वृक्षविशेषस्य कषायेण विलेपनेन रूक्षे विशदे । उद्वर्तिते इत्यर्थः । कषायो रसभेदे स्यादङ्गरागे विलेपने इति विश्वः । [ गोरोचनाक्षेपनितान्तगौरे ] गोरोचनायाः क्षेपेण विन्यासेन नितान्तगौरेऽत्यन्तारुणे । गौरः श्वेतेऽरुणे पीते इति विश्वः । कपोले गण्डस्थले परभागलाभात् वर्णोत्कर्ष प्राप्तेः चक्षूंषि । नृणामिति शेषः । बबन्ध जहार । आचकर्षेत्यर्थः । गोरोचनारुणे गण्डस्थले पाण्डुरो यवाङ्कुरो विजातीयवर्णसन्निधानालब्धवणोत्कर्षः संचक्षुराकर्ष कोऽभूदिति भावः ॥
रेखाविभक्तः सुविभक्तगात्र्याः
किंचिन्मधूच्छिष्टविष्टरागः । कामप्यभिख्यां स्फुरितैरपुष्य-
दासन्नलावण्यफलोऽधरोष्ठः ॥ १८ ॥
रेखेति || सुविभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या [ रेखाविभक्तः ] रेखया मध्यगतया विभक्त: मुश्लिष्टः [ किंचिन्मधूच्छिष्टविमृष्टरागः ] किंचिदषिन्मधूच्छिष्टेन सिक्थकेन विसृष्टो विशेषेण निर्मलीकृतो रागो यस्य स तथोक्तः । मधूच्छिष्टं तु सिक्थकम् इति, निर्णितं शोधितं मुष्टम् इति चामरः । अन्यत्रोक्तम्–अलौहित्यापगमायाधरेषु सिक्थकलेपः क्रियते । [ आसन्नलावण्यफलः ] आसनं सन्निहितं लावण्यफलं सौन्दर्य प्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तः अधरोष्ठः स्फुरितः भाविशुभशंसिभिः स्पन्दैः काम् अपि अनिर्वाध्याम् अभिख्यां शोभाम् अपुष्यत् पुपोष । अभिख्या नामशोभयोः इत्यमरः ॥
पत्युः शिरश्चन्द्रकलामनेन
स्पृशेति संख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशी-
माल्येन तां निर्वचनं जघान ॥ १९ ॥
१ भेद. २ च विभक्त ३ वट
सप्तमः सर्गः ।
१४३
पत्युरिति ॥ सख्या । कर्ता । चरणौ रञ्जयित्वा लाक्षारसातौ कृत्वा । कृताशीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन । रजने द्वयोरपि नियमाचरणावित्युक्तवाप्यौचित्यात्ताडनविधावे कतरपरामर्श इत्याहुः । पत्युः ईश्वरस्य शिरश्चन्द्रकलाम् । सुरतविशेष इति शेषः । स्पृश ताडय इति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया । माल्यं मालाख जौ इत्यमरः निर्वचनं यथा तथा । तूणीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः शृङ्गारानुभाव उक्तः । तदुक्तम्-प्राप्तकालं तु यद्वयात्कुर्याद्वा विहृतं हि तत् इति ॥
तस्याः सुजातोत्पलपत्रकान्ते
मसाधिकाभिर्नयने निरीक्ष्य |
न चक्षुषोः कान्तिविशेषबुद्धया
कालाज्ञ्जनं मङ्गलमित्युपात्तम् ॥ २० ॥
तस्या इति ॥ प्रसाधिकाभिः अलकत्रभिः [ सुजातोत्पलपत्रकान्ते ] सुजाते सम्यगुत्पन्ने उत्पलपत्रे इव कान्ते रम्ये तस्या नयने निरीक्ष्य कालाअनम् अञ्जनविशेषः चक्षुषोः कान्तिविशेषबुद्धया । शोभातिशयो भविष्यतीति बुद्धयेत्यर्थः । नोपान्तं न गृहीतम् । किंतु मङ्गलं शुभम् इति हेतोः उपा न्तम् । निसर्गसुभगस्य किमाहार्य काडम्बरेणति भावः ॥
सा संभवद्भिः कुसुमैर्लतेव
ज्योतिर्भिरुद्भिरिव त्रियामा । सरिद्विहङ्गैरिव लीयमान-
रामुच्यमानाभरणा चकासे ॥ २१ ॥
सेति ॥ आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी संभवद्भिः उत्पद्यमानैः कुसुमैर्लतेव । अनेन पद्मरागेन्द्रनीलादीन्याभरणानि सूचितानि लताकुसुमानां नानावर्णत्वात् । उद्यद्भिः उदयं गच्छद्भिः ज्योतिभिः उडुभिः त्रियामा रात्रिः इव । अनेन मौक्तिकानि कथितानि । लीयमानैः आश्रयद्भिः । निषीदद्भिरित्यर्थः । विहङ्गैः चक्रवाकैः सरिद् इव । अनेन सुवर्णाभरणानि सूचितानि । विहङ्गाश्च तत्सूचनाय चक्रवाका अभिमताः । चकासे रेजे । अत्र लताकुसुमादीनां सहजसंबन्धिनामुपमानत्वेनोपादानादाहार्यकमपि तस्याः सहजमिवाशोभतेति भावः ॥
आत्मानमालोक्य च शोभमान-
मादर्शविम्बे स्तिमितायताक्षी ।
१ समीक्ष्य.
१४४
कुमारसंभवे
हरोपयाने त्वरिता बभूव
atri प्रियालोकफलो हि वेषः || २२ ||
आत्मानमिति ॥ किंच इति चार्थः । गौरी शोभमानम् आत्मानं निजशरीरम् आदर्शनिम्त्रे दर्पणमण्डले ! दर्पणे मुकुरादश इत्यमरः । स्तिमितायताक्षी आदरात्रिश्वलायतलोचना सती आलोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यमा बभूव । स्त्रीणां वेपो नेपथ्यम् [ प्रियालोक फलः ] प्रियस्य भर्तुरालोको दर्शन फलं प्रयोजनं यस्य स तथोक्तः हि । अन्यथारण्यचन्द्रिका स्यादिति भावः ।
अनेन कालाक्षमत्वलक्षणमौत्सुक्यमुक्तमित्यनुसन्धेयम् ॥
अंधाङ्गुलिभ्यां हरितालमाई
माङ्गल्यमादाय मनःशिलां च । कर्णावसक्तामलदन्तपत्रं
माता तदीयं मुखमुन्नमय्य ॥ २३ ॥
अथेति ॥ अथ प्रसाधनानन्तरं माता मेनका माङ्गल्यं मङ्गलार्थम् आई द्वयं हरितालं वर्णद्रव्यविशेषं मनःशिलां धातुविशेषं चाङ्गुलिभ्यां तर्जनीमध्यमाभ्याम् आदाय [कर्णावसक्तामलदन्तपत्रं ] कर्णयोरवसते लग्ने अमले दन्तपत्रे यस्य तत्तथोक्तं तस्याः पार्वत्या इदं तदीयं मुखम् उन्नमय्य । विवाहदीक्षातिलकं चकार इत्युत्तरथ्येकेनान्वयः ॥
उमास्तनाद्भेदमनु मद्धो
मनोरथो यः प्रथमं बभूव । तमेव मेना दुहितुः कथंचित्
विवाहदीक्षातिलकं चकार ॥ २४ ॥
उमेति॥ [उमास्तनोद्भेदम् ] उमायाः स्तनोद्भेदम् अनु । स्तनोदयमारभ्येत्यर्थः प्रवृद्धः वृद्धिं गतः प्रागेवोत्पन्न इति भावः । यो मनोरथः वाञ्छा । वाञ्छा लिप्सा मनोरथः इत्यमरः । प्रथमं मनोरथान्तरात्प्राक् । अयमेव प्रथमो मनोरथ इत्यर्थः । बभूव । मेना दुहितुः तमेव मनोरथभूतमेव । तद्विषये तत्तोपचारः । [विवाहवीक्षातिलकं ] विवाहदीक्षायां विवाहकृत्ये तिलकं कथंचित् कृच्छ्रेण चकार आनन्दबाष्पान्धतयेति शेषः । विवाहानन्तरभावित्वादन्येषामयमेव प्रथमो मनोरथ इति भावः । युग्भकम् ॥
बबन्ध चास्राकुलदृष्टिरस्याः
स्थानान्तरे कल्पितसन्निवेशम् ।
१ अङ्गुलीभ्याम् २ मङ्गल्यम्.
1
सममः सर्गः ।
धात्र्यङ्गुलीभिः प्रतिसार्यमाण-
मूर्णामयं कौतुकहस्तसूत्रम् ॥ २५ ॥
१४५
बबन्धेति । अस्याः पार्वत्याः [ अस्राकुलदृष्टिः ] अत्रैरानन्दबाष्पैराकुलदृष्टिर अतएव स्थानान्तरे [कल्पित सन्निवेशं] कल्पितः सन्निवेशो निक्षेपो यस्य तत् । स्वस्थानादन्यत्र स्थापितमित्यर्थः । अतएव धात्र्यङ्गुलीभिः धात्र्या उपमातुरङ्गुलीभिः प्रतिसार्यमाणं स्वस्थानं प्राप्यमाणम् ऊर्णामयं मेषादिलोमनिर्मितम् । ऊर्णा मेषादिलोम्नि स्यात् इत्यमरः । कौतुक हस्तसूत्रं मङ्गलहस्तसूत्रम् । कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले इति शाश्वतः । बबन्ध च । मेनेति शेषः । पूर्वोक्ततिलकक्रियासमुच्चयार्थचकारः ॥
क्षीरोदवेलेव सफेनपुजा
पर्याप्तचन्द्रेव शरत्रयामा । नवं नवक्षामनिवासिनी सा
भूयो बभौ दर्पणमादधाना ।। २६ ।।
क्षौरोदेति ॥ नवं नूतनं क्षौमं दुकूलं निवस्त आच्छादयतीति नवक्षौमनियाखिनी । वस्तेराच्छादनार्थाणिनिः । तथा नवं दर्पणमादधाना बिभ्रती सा गौरी सफेनपुञ्जा सडण्डीरपङ्किः । [ क्षीरोदवेला ] क्षीरमुदकं यस्य स क्षीरोदः क्षीरसमुद्रः । उदकस्योदः संज्ञायाम् इत्युदादेशः । तस्य वेला तीरभूमिः इव । वेला काले च जलधेस्तीरनीरविकारयोः इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्रा शरत्रियामा शरद्रात्रिः इव भूयः भूयिष्ठं बभौ चकासे ॥
तामर्चिताभ्यः कुलदेवताभ्यः
कुलप्रतिष्ठां प्रणमय्य माता ।
अकारयत्कारयितव्यदक्षा
क्रमेण पादग्रहणं सतीनाम् ।। २७ ।।
तामिति ॥ [ कारयितव्यदक्षा ] कारयितव्येषु दक्षा कारयित्री । कर्मोपदेशकुशलेत्यर्थः । माता मेना । प्रतितिष्टत्यस्यामिति प्रतिष्ठा । आतश्चोपसर्गे इति कः । स्त्रियां टाप् । कुलस्य प्रतिष्ठां कुलालम्बनभूताम् । स्थितिकारिणीमित्यर्थः । तां गौरीम् । अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यः गृहदेवताभ्यः प्रणमय्य प्रणामं कारयित्वा । ल्यपि लघुपूर्वात् इति णेरयादेशः । सतीनां पतिव्रतानां पादग्रहणं पादाभिवन्दनं क्रमेण अकारयत् कारयामास । हक्रोरन्यतरस्यामिति अन्यत्र च नमेरकर्मकत्वात् गतिबुद्धि - इत्यादिना अणि कर्तुः कर्मत्वम् ॥
१३
१४६
कुमारसंभवे
अखण्डितं प्रेम लभस्व पत्यु-
रित्युच्यते तार्भिरुमा स्म नम्रा । तया तु तस्यार्धशरीरभाजा
पश्चात्कृताः स्निग्धजनाशिषोऽपि ॥ २८ ॥
अखण्डितमिति ॥ नम्रा प्रणता उमा ताभिः सतीभिः पत्युः शिवस्य अखण्डितम् अक्षतं प्रेम लभस्व प्राप्नुहि इति उच्यते स्म अभिहिता । लट् स्मे इति भूतार्थे लट् । तस्य हरस्य । अर्ध शरीरस्यार्धशरीरम् । अर्ध नपुंसकं इति समासः । तद्भजतीति अर्धशरीरभाजा तथा गौर्या तु स्निग्धजनाशिषः बन्धुजनाशीर्वादाः अपि पश्चात्कृताः अधरकृिनाः । ततोऽप्यधिकफललाभादिति भावः ॥
इच्छाविभूत्योरनुरूपमद्रि-
स्तस्याः कृती कृत्यमशेषयित्वा । सभ्यः सभायां सुहृदास्थितायां
तस्थो वृषाङ्कागमनप्रतीक्षः ॥ २९ ॥
इच्छेति ॥ कृती कुशलः । सभार्या साधुः सभ्यः । सभाया यः इति यप्रत्ययः। अद्रिः हिमवान् इच्छाविभूत्योः उत्साहैश्वर्ययोः अनुरूपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यम् अशेषयित्वा शेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दातत्करोतीति व्यन्तात त्वाप्रत्ययः । सुहृदास्थितायां बन्धुजनाकान्तायां सभायां संसदि [ वृषाङ्कागमनप्रतीक्षः ] वृषाङ्कस्य हरस्यागमनं प्रतीक्षत इति तथोक्तः सन् । कर्मण्यण् इत्यण् । तस्थौ स्थितः ॥
तावद्भवस्यापि कुबेरशैले
तत्पूर्वपाणिग्रहणानुरूपम् । प्रसाधनं मातृभिरादृताभि-
न्यस्तं पुरस्तात्पुरंशासनस्य ॥ ३० ॥
तावदिति ॥ तावत् । यावद्वौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः । कुबेरशैले कैलासे । [ तत्पूर्वपाणिग्रहणानुरूपम् ] तदेव पूर्व तत्पूर्वं तच तत्पाणिप्रइणं तस्यानुरूपं प्रसाधनं अलङ्कारसामग्री । आहताभिः सादराभिः । कर्तरि क्तः । मातृभिः ब्राह्मीप्रभृतिभिः सप्तमातृकाभिः । पुरं शास्तीति पुरशासनस्तस्य पुरशासनस्य । कर्तरि ल्युट् । भवस्यापि पुरस्तात् अत्रे न्यस्तं निक्षिप्तम् ॥
१ असो. २ कामात्. ३ बंधु. ४ आगमनं प्रतीक्य. ५ वरस्य ६ स्मर-सप्तमः सर्गः ।
तङ्गौरवान्मङ्गलमण्डनश्रीः
सा पस्पृशे केवलमीश्वरेण । से एव वेषः परिणेतुरिष्टं
भावान्तरं तस्य विभोः प्रपेदे ॥ ३१ ॥
१४७
तदिति ॥ ईश्वरेण शिवेन सा मङ्गलमण्डन श्रीः शुभप्रसाधनसंपत् तद्गौरवात् तासु मातृष्वादरात् केवलं पस्पृशे । स्पृटैव न तु दन इत्यवधारणार्थ: केवलशब्दः । केवलं चावधारणे इति शाश्रतः । किंतु तस्य विभोः देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेष एव परिणेतुः लोक उद्वोदुः इष्टम् अपेक्षितं भावान्तरं रूपान्तरं प्रपेदे | अङ्गरागादिरूपतां प्रापेत्यर्थः ॥
भावान्तरापत्तिमेवाह-
बभूव भस्मैव सिंताङ्गरागः
कपालमेवामलशेखर श्रीः | उपान्तभागेषु च रोचनाङ्को
गजाजिनस्यैव दुकूलभावः ।। ३२ ।।
बभूवेति ॥ भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव । कपालमेव [ अमलशेखरश्रीः ] अमलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्य एव उपान्तभागेषु अगलप्रदेशेषु [ रोचनाङ्कः ] रोचनैवाङ्को हंसादिचित्रं यस्य स तथाक्तः दुकूलभावः पांशुकत्वं च बभूव भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः ||
शङ्खान्तरद्योति विलोचनं य-
दन्तर्निविष्टामं कपिङ्गन्तारम् | सान्निध्यपक्षे हरितालमय्या-
स्तदेव जातं तिलकक्रियायाः ॥ ३३ ॥
शङ्खति ॥ [ शङ्खान्तरद्योति ] शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोकम् ॥ शङ्खो निधौ ललाटास्त्रि इत्यमरः । [ अन्तर्निविष्टामलपिङ्गतारम् ] अन्तर्निविष्टा मध्यगतामला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । तारकाक्ष्णः कनीनिका इत्यमरः । यद् विलोचनं तत् विलोचनम् एव हरितालमय्याः वर्ण द्रव्यविशेषविकारस्य तिलकक्रियायाः तिलकरचनायाः सन्निधिरेव सान्निध्यं तदेव पक्षः साध्यम् । पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु । इति यादवः । तस्मिन् सान्निध्यपक्षे जातम् । प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् ॥
१ स्व.
I
२ कृता ०. ३ भावेषु. ४ नेत्रांतर ५ अनल.
१४८
कुमारसंभवे
यथाप्रदेशं भुजगेश्वराणां
करिष्यतामाभरणान्तरत्वम् । शरीरमात्रं विकृतिं प्रपेदे
तथैव तस्थुः फणरत्नशोभाः ॥ ३४ ॥
1
यथेति ॥ यथाप्रदेशं प्रदेशान्प्रकोष्ठादीननतिक्रम्य आभरणान्तरत्वं कङ्कणाद्याभरणविशेषत्वं करिष्यतां संपादयिष्यतां भुजगेश्वराणां शरीरमात्रं शरीरमेव विकृतिं रूपान्तरं प्रपेदे । फणरत्नशोभाः तथा एव तस्थुः । तासां तथैवोपादेयत्वादिति भावः ॥
दिवापि निष्ठयूतमरीचिभासा
बाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौले-
चूडामणेः किं ग्रहणं हरस्य ।। ३५ ।।
दिवापीति ॥ दिवा दिने अपि [ नियूतमरीचिभासा ] निष्ठयूता उद्गीण मरीचिभासः किरणकान्तयो यस्य तेन । बाल्यात् अल्पतनुत्वात् अनाविष्कृतलाञ्छनेन अदृश्यमानकलकेनेत्यर्थः । चन्द्रेण नित्यं सर्वदा प्रतिभिन्नमौलेः सङ्गतमुकुटस्य हरस्य चूडामणेः ग्रहणं स्वीकारः किं किमर्थम् । चन्द्रचूडामणेर्देवस्य किमन्यैश् चूडामणिभिरिति भावः ॥
इत्यद्भुतकप्रभवः प्रभावा-
त्मसिद्ध नेपथ्यविधेर्विधाता । आत्मानमासन्नगणोपनीते
खड्ने निषक्तप्रतिमं ददर्श ।। ३६ ।।
इतीति ॥ इति इत्थं प्रभावात् सामर्थ्यात् [ प्रसिद्ध नेपथ्यविधेः] प्रसिद्धस्य नेपथ्यविधेर्वेषसंविधानस्य विधाता निर्माता । अतएव [ अद्भुतैकप्रभवः ] अद्भुतानामाश्रर्याणामेकप्रभवो मुख्यनिधिः स देवः [ आसन्नगणोपनीते ] आसनगणेन पार्श्वस्थवर्गेण । प्रमथगणेनेत्यर्थः । उपनीते आनीते खड़े निषक्तप्रतिमं संक्रान्तप्रतिबिम्बं आत्मानं ददर्श । वीरपुरुषाणामेष आचारः ॥
स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तब्रहत्प्रमाण-
मारुह्य कैलासमिव प्रतस्थे ॥ ३७ ॥
१ अत्यद्भुत. २ नेपथ्यविधिः,
सप्तमः सर्गः ।
१४९
स इति ॥ स देवः नन्दिभुजावलम्बी नन्दिकेश्वरभुजावलम्बनः सन् । [ शार्दूलचर्मान्तरितोरुपृष्ठं ] शार्दूलचर्मणा व्याघ्रचर्मणान्तरितमाच्छादितमुरु विशालं पृष्ठं यस्य तं तथोक्तम् । शार्दूलद्वीपिनौ व्याघ्रे इत्यमरः । [ तद्भक्तिसंक्षिप्त बृहत्प्रमाणं ] तस्मिन्देवे भक्त्या संक्षिप्तं संकोचितं बृहत्प्रमाणं यस्य तं गोपर्ति षमं कैलासमिव आरुह्य प्रतस्थे चचाल ॥
तं मातरो देवमनुव्रजन्त्यः
स्ववाहनक्षोभचलावतंसाः ।
मुखैः प्रभामण्डलरेणु गौरैः
पद्मकरं चक्रुरिवान्तरीक्षम् ॥ ३८ ॥
तमिति ॥ तं देवम् अनुव्रजन्त्यः अनुगच्छन्त्यः [ स्ववाहनक्षोभचलाघतंसाः ] स्ववाहनानां क्षोभेण प्रकम्पेण चलावतंसाञ्चलकुण्डलाः मातरः सप्तमातृका: [ प्रभामण्डल रेणु गौरैः ] प्रभामण्डलान्येव रेणवः परागास्तैगौरैः अरुणैः । गौरोऽरुणे सिते पीते इति यादवः । मुखैः अन्तरीक्षम् आकाशं पद्माकरम् इव चकुः ॥
तासां च पश्चात्कनकप्रभाणां
काली कपालाभरणा चकासे । बलाकिनी नीलपयोदराजी
दूरं पुरः क्षिप्तशतदेव ॥ ३९ ॥
तासामिति ॥ कनकप्रभाणां सुवर्णवर्णानां तासां मातृणां पश्चात् कपालाभरणा । सितकपालालंकारेत्यर्थः । काली महाकाली देवी च । कृष्णवर्णत्वसूचनाय काली संज्ञयाभिधानम् । बलाकिनी बलाकावती । व्रीह्यादित्वादिनिः । दूरं यथा तथा [ पुरः क्षिप्तशतह्रदा ] पुरोऽग्रे क्षिप्ताः प्रसारिताः शतह्रदा विद्युतो यस्याः सा तथोक्ता नीलपयोदराजी कालमेघपङ्किः इव चकासे ॥
ततो गणैः शूलभृतः पुरोगे-
रुदीरितो मङ्गलतूर्यघोषः । विमानश्रृङ्गाण्यवगाहमान:
शशंस सेवावसरं सुरेभ्यः ॥ ४० ॥
तत इति ॥ ततः अनन्तरं शूलभृतः शिवस्य पुरो गच्छन्तीति पुरोगैः अप्रेसरैः । अन्यत्रापि दृश्यत इति वक्तव्यम् इति गमेर्डप्रत्ययः । गणैः प्रमथैः उदीरितः उत्पादितः मङ्गलसूर्यघोषः मङ्गलवाद्यध्वनिः विमानशृङ्गाणि
१ भाक्षोभ २ पद्माकरीचक्रुः ३ अन्तरिक्षम् ४ राजिः.
१५०
कुमारसंभवे
अवगाहमानः सन् । सुरेभ्यः विमानस्थेभ्य: सेवावसरं शशंस । सुराः प्रस्थानत्र्यध्वनिमाकर्ण्यायमेव नः सेवावसर इत्याजग्मुरित्यर्थः ॥
सुराणां सेवाप्रकारमेवाह-
उपाददे तस्य सहस्ररश्मि-
स्त्वष्ट्रा नवं निर्मितमातपत्रम् | स तद्दुकुलादविदूरमौलि -
भौ पतङ्ग इवोत्तमाङ्ग ॥ ४१ ॥
उपाददे इति ॥ तस्य दरस्य सहस्ररश्मिः सूर्यः स्वष्टा विश्वकर्मणा निर्मितं नवं आतपत्रं उपाददे । घृतवानित्यर्थः । अत्रोत्प्रेक्षते[तकूलात् ] तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलात् अविदूरमौलिः । तद्दुकूलस्यासन्नमौलिरित्यर्थः । स हरः उत्तमाने शिरसि । उत्तमानं शिरः शीर्षम् इत्यमरः । पतन्ती गङ्गा यस्य स पतद्गङ्गः इव बभौ । तकुलादित्यत्र दूरान्तिकार्थः षष्ठयन्यतरस्याम् इति दूरायोगे विकल्पेन पचमी | नाथेनोक्तम् अन्यारात् इत्यत्रारा च्छन्दस्यार्थग्रहणार्थत्वात्पञ्चमीति तदनाकरम् । किंचास्य शास्त्रोक्तविकरुपापवादत्वात् दूरं ग्रामस्य इत्यादिषष्ठी प्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव ॥
मूर्ते च गङ्गायमुने तदानीं
सचामरे देवमसेविषाताम् ।
समुद्रगारूपविपर्ययेऽपि
सहंसपाते इव लक्ष्यमाणे ॥ ४२ ॥
मूर्ते इति ॥ गङ्गा च यमुना च गङ्गायमुने मूर्ते विग्रहधारिण्यौ सचामरे चामरसहिते सत्यौ । अतएव [ समुद्रगारूपविपर्यये ] समुद्रगा नदी तस्या रूपं स्वरूपं तस्य विपर्यये अपि अभावेऽपि । सह हंसपातेन हंससंचारेण वर्तेतेइति सहंसपाते इव । तेन सहेति तुल्ययोगे इति बहुव्रीहिः । वोपसर्जनस्य इति सभावः । लक्ष्यमाणे दृश्यमाने सत्यों तदानीं विवाहसमये देवमसेविषाताम् अभजताम् च । सेवतेर्लुङ् । गङ्गायमुने चामरग्राहिण्यौ देवमुपतस्थतुरित्यर्थः ॥
तमभ्यगच्छत्प्रथमो विधाता
श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
जयेति वाचा महिमानमस्य
संवर्धयन्तौ हविषे वह्निम् ॥ ४३ ॥
तमिति ॥ प्रथमः आद्यः विधाता चतुर्मुखस्तथा श्रीवत्सलक्ष्मा श्रीवत्साङ्कः पुरुषः विष्णुः च साक्षात् तं देवम् अभ्यगच्छत् संमुखमा गयौ ।
१ वहम्गाक्रमिव माहम् २ सहस्रपाते. ३ एष.
सप्तमः सर्गः ।
२५१
किं कुर्वन्तौ । जय इति वाचा जयशब्देन अस्य ईश्वरस्य महिमानं महत्त्वं हविषा वह्निम् इव संवर्धयन्तौ वृद्धिं गमयन्तौ ॥
न चानुचितमेतदुक्तमित्याह-
एकैव मूर्तिभिदे त्रिधा सां
सामान्यमेषां प्रथमावरत्वम् । विष्णोईरस्तस्य हरिः कदाचि-
द्वेधास्तयोस्तावपि धातुरीयौ ॥ ४४ ॥
एकैवेति ॥ सा एकैव मूर्तिस्त्रिधा ब्रह्मविष्णुशिवात्मकत्वेन विभिदे । औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अतएवैषां त्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्टभावः सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति कदाचित् हरः विष्णोः आद्यः । कदाचित् हरिः तस्य आद्यः । कदाचिद्वेधाः तयोः हरिहरयोः आद्यः । कदाचित् तौ हरिहरौ अपि धातुः टुः आधौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् ॥
तं लोकपालाः पुरुहूतमुख्याः
श्रीलक्षणोत्सर्गविनीतवेषाः । दृष्टिप्रदाने कृतनन्दिसंज्ञा-
स्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ ४५ ॥
तमिति ॥ पुरुहूतमुख्याः इन्द्रादयः लोकपालाः [ श्रीलक्षणोत्सर्गविनीतवेषाः ] श्रीलक्षणानामैश्वर्यचिहाना छत्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननिमित्ते । दर्शनप्रदानार्थमित्यर्थः । [ कृतनन्दिसंज्ञाः ] कृता नन्दिनः प्रतीहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृतहस्तादिसूचना इत्यर्थः । संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना । इत्यमरः । [ तद्दर्शिताः ] तेन नन्दिना दर्शिताः अयमिन्द्रः प्रणमत्ययं चन्द्र इत्यायुक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः । तं भवं प्रणेमुः प्रणताः ॥
कम्पेन मूर्धः शतपत्रयोनिं
वाचा हरिं वृत्रहणं स्मितेन ।
आलोकमात्रेण सुरानशेषान्
संभावयामास यथाप्रधानम् ॥ ४६ ॥
१ असौ. २ ईडयो.
१५३
कुमारसंभवे
कम्पेनेति ॥ स देवः शतपत्रयोनिं चतुर्मुखं मूर्भः कम्पेन तथा हरिं याचा संभाषणेन वृत्रं हतवन्तं वृत्रहणम् इन्द्रम् | ब्रह्मणत्रेषु किप् इति किप् । स्मितेन मन्दहासेन अशेषान् सुरान् आलोकमात्रेण दृष्टिमात्रेणेत्थं यथाप्रधानं यथाई संभावयामास ||
तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस्तान्स्मितपूर्वमाह । विवाहयज्ञे विततेऽत्र सूर्य-
मध्वर्यवः पूर्ववृता मयेति ॥ ४७ ॥
तस्मा इति । तस्मै शिवाय सप्तर्षिभिः । दिक्संख्ये संज्ञायाम् इति समासः । पुरस्तात् अग्रे [ जयाशीः ] जयेत्याशीः ससृजे प्रयुक्ता । तान् सप्तर्षीन् स्मितपूर्वमाह । किमिति । वितते विस्तृते अत्र प्रवर्तिते [ विवाहयज्ञे ] विवाह एव यज्ञस्तस्मिन् । यूयं मया [ पूर्ववृताः ] पूर्वमेव प्रार्थिता: अध्वर्यवः ऋत्विजः इति । विशेषवाचिना सामान्यमुक्तम् ॥ विश्वावसुप्राग्रहरेः प्रवीणः
सङ्गीयमानत्रिपुरावदानः | अध्वानमध्वान्तविकारलङ्घय-
स्ततार ताराधिपखण्डधारी ॥ ४८ ॥
विश्वावस्थिति ॥ [ विश्वावसुप्राग्रहरैः ] विश्वावसुर्नाम कश्चिन्धवों देवगायकस्तत्प्राग्रह रैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणैर्निपुणैर्वा । प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः । इत्यमरः । [ सङ्गीयमानत्रिपुरावदानः ] त्रयाणा पुराणां समाहारस्त्रिपुरम् । तद्धितार्थोत्तरपद - इत्यादिना समाहारसमासः । पात्रादिभ्यः प्रतिषेधो वक्तव्यः इति स्त्रीलिङ्गान्ततानिषेधः । त्रिपुरस्य संबन्ध्यवदानं पूर्ववृत्तं कर्म विजयरूपं त्रिपुरावदानं तत्सङ्गीयमानं स्तूयमानं यस्य स तथोक्तः । अवदानं कर्म वृत्तम् इत्यमरः । ध्वान्तं तमः । मोह इति यावत् । तद्विकारेण रागादिना लक्ष्योऽभिभवनीयो न भवतीति अध्वान्तविकारलङ्घन्यः । विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुः अध्वानं मागें
ततार अत्यगच्छत् ॥
खे खेळगामी तमुवाह वाह:
सशब्दचामीकरकिङ्किणीकः । तटाभिघातादिव लग्नपङ्के
धुन्वन्मुहुः प्रोतघने विषाणे ॥ ४९ ॥
सप्तमः सर्गः ।
१५३
खे इति ॥ खे आकाशे खेलं सुन्दरं गच्छतीति खेलगामी । [ सशब्दचामीकरकिङ्किणीकः ] सशब्दाः शब्दायमानाचामीकरकिङ्किण्यः काञ्चनक्षुष्टिका यस्य स तथोक्तः । किङ्किणी क्षुद्रघण्टिका इत्यमरः । नद्यूतश्च इति कप् । वाह्यतेऽनेनेति वाहः वृषभः । करणे घञ् । प्रोतघने स्यूतमेघे अतएव तटाभिघातात् रोधोभेदात् लग्नपङ्के लिष्टकर्दमे इव स्थिते विषाणे शृङ्गे मुहुः धुन्वन् तं हरम् उवाह वहति स्म ॥
स प्रापदप्राप्तपराभियोगं
नगेन्द्रगुप्तं नगरं मुहर्तात् । पुरो विलमैरदृष्टिपातैः
सुवर्णसूत्रैरिव कृष्यमाणः ॥ ५० ॥
स इति ॥ स वाहः [ अप्राप्तपराभियोगम् ] अप्राप्तः पराभियोगः शत्रुसमाकान्तिर्यस्य तत्तथोक्तम् । [ नगेन्द्रगुप्तं ] नगेन्द्रेण हिमवता गुप्तं रक्षितं नगरम् ओषधिप्रस्थं पुरः अग्रे विलग्नैः संक्रान्तैः हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाणः इव मुहूर्तात् प्रापत् । अन्यथा कथं दूरस्याशुप्राप्तिः स्यादिति भावः । पुरः प्रसृता दरदृष्टयः पिङ्गलवर्णत्वात्सौवर्णानि वृषाकर्षणदामानीवालक्ष्यन्तेत्यर्थः ॥
तस्योपकण्ठे घननीलकण्ठः
कुतूहलादुन्मुखपौरदृष्टः । स्वाणचिह्नादवतीर्य मार्गा-
दासन्न भूपृष्ठमियाय देवः ॥ ५१ ॥
तस्येति ॥ तस्य पुरस्य उपकण्ठे अन्तिके घनो मेघ इव नीलः कण्ठो यस्य स घननीलकण्ठः देवः कुतूहलात् दर्शनौत्सुक्यात् [ उन्मुखपौरद्दष्टः ] उन्मुखैः परैर्दृष्टः सन् । स्वबाणचिह्नात् त्रिपुरविजयसमये स्वबाणाङ्कात् मार्गात् कुतश्चिदाकाशदेशात् अवतीर्य अवरुह्य आसन्नभूपृष्ठं निकटभूतलम्
इयाय प्राप ||
तमृद्धिमद्बन्धुजनाधि रूढै-
वृन्दैर्गजानां गिरिचक्रवर्ती । प्रत्युज्जगामागमनप्रतीतः
प्रफुल्लवृक्षैः कटकैरिव स्वैः ॥ ५२ ॥
१ कृष्यमाणम्. २ स्ववाहबाहास. ३ वाहात्.
१५४
कुमारसंभवे
तमिति । [ आगमनप्रतीतः ] आगमनेन शिवागमनेन प्रतीतो हृष्टः गिरिचक्रवर्ती पर्वताधिराजो हिमवान् [ ऋद्धिमद्बन्धुजनाधिरूढैः ] ऋद्धिमता वस्त्रालंकारादिसमृद्धेन बन्धुजनेनाधिरूढैः । अनेन बन्धूनां समस्वाम्यं सूचितम् । गजानां वृन्दैः [ प्रफुल्लवृक्षैः ] प्रफुला विकसितकुसुमा वृक्षा येषु तैः स्वैः स्वकीयैः कटकैः नितम्बैः इव तं हरं प्रत्युज्जगाम अभिययौ । कटकोsस्त्री नितम्बोऽद्रेः इत्यमरः ॥
वर्गावुभौ देवमहीधराणां
द्वारे पुरस्योद्घाटितापिधाने । समीयतुर्द्धरविसर्विघोषों
भिन्नैक सेतू पयसामिवाधौ ॥ ५३ ॥
वर्गाषिति ॥ [ दूरविसर्पि घोषौ ] दरविसर्प दूरगामी घोषो ययोस्तौ । देवाश्व महीधराश्च तेषां देवमहीधराणाम् उभौ वर्गों उद्घटितापिधाने अपनीतकवाटे पुरस्य द्वारे भिन्नो दीर्ण एकसेतुः याभ्यां तौ भिन्नैकसेतू पयसाम ओघौ प्रवाह इव समीयतुः सङ्गतौ ॥
दीमानभूद्भूमिधरो हरेण
त्रैलोक्यवन्द्येन कृतप्रणामः । पूर्व महिम्ना स हि तस्य दूर-
मावर्जितं नात्मशिरो विवेद ॥ ५४ ॥
होमानिति ॥ भूमिधरः हिमवान् । [ त्रैलोक्य वन्येन ] त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वाख्यञ्प्रत्ययः । तस्य वन्येन नमस्कार्येण हरेण कृतप्रणामः सन् ॥ ऋत्विक्पतृव्यश्वशुरमातुलानां यवीयसाम् । प्रवयाः प्रथमं कुर्यात्प्रत्युत्थायाभिवादनम् ॥ इति स्मरणात् । हीमानभूत् । महादेवं प्रति स्वयमरूपत्वात्संकोचं प्रापेत्यर्थः । ननु विदितेश्वरमहिम्नः स्वयं प्रागेव प्रणतस्य जामातुराचारमात्रस्वीकारे कः संकोच इति शङ्कां निरस्यति - पूर्वमिति ॥ हि यस्मात् स हिमवान् पूर्वे प्रागेव तस्य ईश्वरस्थ महिम्ना सामर्थ्येन दूरम् अत्यन्तम् आवर्जितं नमितम् आत्मशिरः न विवेद । सत्यं स्वयं प्रणतत्वानुसन्धाने न संकोचः । तदनुसन्धानं त्वौत्सुक्यान्नास्तीति भावः ॥
स प्रीतियोगाद्विकसन्मुखश्रीजमातुरग्रेसरतामुपेत्य । प्रावेशयन्मन्दिरमृद्धमेन-
मागुल्फेंकीर्णापणमार्गपुष्पम् ॥ ५५ ॥
१ दरात्. २ माङ्गल्य.
सप्तमः सर्गः ।
१५५
स इति ॥ प्रीतियोगात् सन्तोषसंबन्धात् विकसन्मुखश्रीः विकसन्ती मुखश्रर्थस्य स तथोक्तः स हिमवान् । जायां मिमीते जानातीति जामातुः वरस्य । पृषोदरादित्वात्साधुः । जामाता दुहितुः पतिः इत्यमरः । अग्रेसरतां पुरोगामित्वम् उपेत्य एनं देवम् आगुल्फं पादप्रन्थिपर्यन्तं कीर्णानि पर्यस्तान्यापणमार्गेषु पण्यवीथिकासु पुष्पाणि यस्मिंस्तत् आगुल्फकीर्णापणमार्गपुष्पम् । तद्व्रन्थी त्रुटिके गुल्फौ इत्यमरः । ऋद्धं समृद्धं मन्दिरं नगरम् । मन्दिरं नगरेऽगारे मन्दिरो मकरालये । इति विश्वः । प्रावेशयत् ॥
तस्मिन्मुहूर्ते पुरसुन्दरीणा-
मीशानसन्दर्शनलालसानाम् ।
मासादमालासु बभूवुरित्थं
त्यक्तान्यकार्याणि विचेष्टितानि ॥ ५६ ॥
तस्मिन्निति ॥ तस्मिन्मुहूर्त हरपुरप्रवेशसमये [ ईशानसन्दर्शनलालसानाम् ] ईशानस्य सन्दर्शने लालसानां लोलुपानाम् । लोलुपो लोलभो लोलो लालसो लम्पट] सः । इति यादवः ॥ पुरसुन्दरीणां प्रासादमालासु इत्थं वक्ष्यमाणप्रकारेण त्यक्तान्यकार्याणि विसृष्टकार्यान्तराणि विचेष्टितानि व्यापाराः । नपुंसके भावे क्तः इति कः । बभूवुः आसन् ॥
तान्येवाद पञ्चभि: लोकै:
आलोकमार्ग सहसा व्रजन्त्या
कयाचिदुद्वेष्टनवान्तमाल्यः ।
बर्द्ध न संभावित एव ताव-
त्करेण रुद्धोऽपि च केशपाशः ॥ ५७ ॥
आलोकमार्गमिति || आलोकमार्ग दर्शनपथम् । गवाक्षमित्यर्थः । सहसा व्रजन्त्या गच्छन्त्या कयाचित् उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनोऽतएव वान्तमाल्य उद्गीर्णमाल्यश्च यः स उद्वेष्टनवान्तमाल्यः करेण रुद्धः गृहीतः अपि च केशपाशः केशकलापः । पाशः पक्षश्च हस्तच कलापार्थाः कचापरे । इत्यमरः ॥ तावत् आलोकनमार्गप्राप्तिपर्यन्तं बद्धम् । बन्धनायेत्यर्थः । न संभावितः न स्मृतः एव ॥
प्रसाधिकालम्बितमग्रपाद-
माक्षिष्य काचिद्रवरागमेव । उत्सृष्टलीलागतिरा गवाक्षा-
दलक्तकाङ्कां पदवीं ततान ॥ ५८ ॥
१ न केशहस्तः; हि कशपाशः. २ उन्मृष्ट.

१५६ कुमारसंभवे प्रसाधीति ॥ काचित् स्त्री [ प्रसाधिकालम्बितं ] प्रसाधिकयाऽलंकलम्बितं नातं द्रवरागमेव आर्द्रालक्तकमेव । [ अग्रपादम् ] अग्रश्रासौ पादव अग्रपादः । इति समानाधिकरणसमासः । हस्ताग्रामहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम् । इति वामनः । तम् आक्षिप्य आकृष्य उत्सृष्टलीलागतिः त्यक्तमन्दगमना सती आ गवाक्षाद गवाक्षपर्यन्तम् । पदद्वयमेतत् । पदवीम् अलक्तकाङ्कां लाक्षारसचिह्नां ततान चकार ॥ विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसन्निकर्ष 1 aat शलाकामपरा वहन्ती ।। ५९ ।। विलोचनमिति । अपरा स्त्री दक्षिणं विलोचनम् अञ्जनेन संभाव्य अलंकृत्य [ तद्वचितवामनेत्रा ] तद्वचितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा तथोक्ता सती । तथैव तेनैव रूपेण शलाकाम् अञ्जनकूर्चिकां वहन्ती बिभ्रती वातायनसन्निकर्ष गवाक्षसमीपं ययौ । दक्षिणग्रहणं संभ्रमाद्वयुत्क्रमद्योतनार्थम् । सम्यं हि पूर्व मनुष्या अञ्जते इति श्रुतेः ॥ जालान्तरमेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ६० ॥ जालातन्रेति ॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिः गवाक्षमध्यप्रसारितदृष्टिः सती [ प्रस्थानभिन्नां] प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वस्त्रग्रन्थि - म् । नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि । इति विश्वः ॥ न बबन्ध नामभ्रात् । किंतु [नाभिप्रविष्टाभरणप्रभेण] नाभिं प्रविष्टा आभरणानां कङ्कणानां प्रभा यस्य तेन । प्रभैव नाभेरावरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य Tar तस्थौ ॥ अर्घाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलती । कस्याश्विदासीद्रसना तदानी- मगुष्ठमूलार्पितसूत्रशेषा ॥ ६१ ॥ अर्घाचितेति ॥ सत्वरं सवेगम् उस्थितायाः कस्याश्चिदर्धमान्चिता मणिभिगुम्फिता अर्धाविता दुर्निमिते संभ्रमादुःखेन निक्षिप्ते । डुमिन् प्रक्षेपणे इति १ अञ्चिता,सप्तमः सर्गः । १५७ धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गटना सती रसना मेखला तदानीं तस्मिन्नवसरे [ अङ्गुष्ठमूलार्पितसूत्रशेषा] अङ्गुष्टमूलेऽर्पितं लगितं सूत्रमेव शेष। यस्याः सा आसीत् ॥ तासां मुखैरासवगन्धगर्भे- र्व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलने त्रभ्रमरैर्गवाक्षाः संहस्रपत्राभरणा इवासन् ॥ ६२ ॥ तासामिति तदानीं सान्द्रकुतूहलानां तासां स्त्रीणाम् [आसवगन्धगर्भैः] आसवगन्धो गर्ने येषां तैः । [विलोलनत्रभ्रमरैः] विलोलानि नेत्राण्येव भ्रमरा येषु तैः मुखैः व्याप्तान्तराः छन्नावकाशाः गवाक्षाः सहस्रपत्राः भरणा इवासन् । कमलाळकृता इव स्थिता इत्यर्थः ॥ तावत्पताकाकुलमिन्दुमौलि- रुत्तोरणं राजपथं प्रपेदे । प्रासादशृङ्गाणि दिवापि कुर्वञ्ज्योत्स्नाभिषेक द्विगुणयु॑तीनि ॥ ६३ ॥ तावदिति ॥ तावत् तस्मिन्नवसरे इन्दुमौलिः ईश्वरः दिया अपि प्रासादशृङ्गाणि [ ज्योत्स्नाभिषेकद्विगुणद्युतीनि] ज्योत्स्नामा अभिषेकेण स्नपनेन द्विगुणयुतानि द्विरावृत्तकान्तीनि । ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु । ’ इति वैजयन्ती । कुर्वन् पताकाकुलं पताकाभिराकुलं व्याकीर्णम् उत्तोरणम् उच्छ्रिततोरणं राजपथं प्रपेदे ॥ तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथाहि शेषेन्द्रियवृत्तििारसां सर्वात्मना चक्षुरिव प्रविष्टा ॥ ६४ ॥ तमिति ॥ एक एव दृइयो दर्शनीयः तम् एकदृश्यं तम् ईश्वरं नयनैः पिवन्त्यः अतितृष्णया पश्यन्त्य इत्यर्थः । ’ ताः शङ्करं दृष्टिभिरापिबन्त्यः ’ इति वा पाठः । नार्यः विषयान्तराणि ततोऽन्यान् विषयान् । शब्दादीनित्यर्थः । न जग्मुः । न विदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादिप्रवृत्तिः १ मफुलपद्या. २ च्छवीनि. ६१-६२ श्रीकयोर्मध्येऽयं लोको दृश्यते– स्तनं घयन्तं तनयं विहाय विलोकनाय खरया बजन्ती । सप्रस्तुताभ्यां पदवी स्तनाभ्यां सिषेच काचित्पयसा गवाक्षम् || १४ १५८ कुमारसंभवे सर्वात्मना स्वरूपकात्स्न्र्त्स्न्येन चक्षुः प्रविष्टेव । श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण महणाशक्तेश्वधुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु । अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ॥ अथ पौराङ्गनावचनान्याह - स्थाने तपो दुश्वरमेतदर्थ- मपर्णया पेलवयापि तप्तम् । या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्गशय्याम् || ६५ ॥ स्थाने इति || पेलवया कोमलया अपि अपर्णया पार्वत्या एतस्मै शिवाय एतदर्थम् । अर्थेन सह नित्यसमासः सर्वलिङ्गता च इति विशेष्यनिघ्नत्वम् । दुरं तपस्तमं स्थाने युक्तम । कुतः । या नारी अस्य ईश्वरस्य दास्यं दासीत्वम् अपि लभेत सा कृतार्था स्यात् । या अङ्क एव शय्या ताम् अङ्कशय्यां लभेत सा किमुत । कृतार्थेति किमु वक्तव्यमित्यर्थः ॥ परम्परेण स्पृहणीयशोभं न चेदिदं इन्द्रमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां विफॅलोऽभविष्यत् ६६ परस्परेणेति ॥ स्पृहणीयशोभं सर्वेराशास्यमानसैौन्दर्यम् इदं द्वन्द्वं मिथुनम् । द्वन्द्वं रहस्यइत्यादिना निपातः । परस्परेण न अयोजयिष्यत् चेत् न योजयेयदि प्रजानां पत्युः विधातुः अस्मिन्द्रये द्वन्द्वे [ रूपविधानयत्नः ] रूपविधाने सौन्दर्यनिर्माण यत्नः प्रयासः विफलः अभविष्यत् भवेत् । एतदनुरूपस्त्रीपुंसान्तराभावादिति भावः । “लिनिमित्ते लृङ् क्रियातिपत्तौ " इति लट् ॥ न नूनमारुढरुषा शरीरमनेन दग्धं कुसुमायुधस्य । aisiदमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः ॥६७ || नेति ॥ आखदरुपा प्ररूढकोपेन अनेन हरेण कुसुमायुधस्य कामस्य शरीरं न दग्धं नूनं किंतु कामः असुं देयमुदीक्ष्य दृष्ट्टा व्रीडात् सौन्दर्येण जितोऽस्मीति लज्जया स्वयमेव संन्यस्तदेहः त्यक्तदेह इति मन्ये इत्युत्प्रेक्षा । न स्वयं न्यस्ताकृतेः कोपः संभवतीति भावः ॥ अनेन संबन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण । मूर्धानमालि क्षितिधारणोच्चमुच्चैस्तरं वक्ष्यति शैलराजः ॥ ६८ ॥ अनेनेति ॥ हे आलि सखि । ‘आलि: सखी वयस्याऽथ ’ इत्यमरः । शैलराजः हिमवान् । विष्टया इत्यानन्देऽव्ययम् । [ मनोरथप्रार्थित ] मनोरथैः १ कोमलया. २ वितथ. २ अवस्य ४ अवाप्य ५ पालनो ६ उच्चैस्तराम्. सप्तमः सर्गः । १५९ प्रार्थितमवरुद्धम् । अभिलाषविषयीकृतमित्यर्थः । ’ प्रार्थना याच्यावरोधयोः ’ इत्यभिधानात् । अनेन ईश्वरेण सम्बन्धमुपेत्य अवाप्य [ क्षितिधारणोचं ] क्षितिधारणेन उच्चमुन्नतं मुर्धानमुत्रैस्तरम् उन्नततरम् | उच्चैरित्यव्ययात्तरप् प्रत्ययः । मूर्ध्नो द्रव्यत्वान्नामुप्रत्ययान्तो निपातः । “किमेत्तिव्ययघादाम्वद्रव्यप्रकर्षे " इत्यनेन द्रव्यप्रकर्षे तस्य विधानादिति । वक्ष्यति धारयिष्यति । वहते || इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः । केयूर चूर्णीकृतलार्जमुि हिमालयस्यालयमाससाद ॥ ६९ ॥ इतीति ॥ त्रिनेत्रः त्र्यम्बकः । त्रिनेत्रत्रिनयनशब्दयोः “क्षुम्नादिषु च” इति णत्वाभावः । इति इत्थम् ओषधिप्रस्थ विलासिनीनां संबन्धिनीः श्रोत्रसुखा: श्रवणमधुराः कथाः आलापान् शृण्वन [केयूर चूर्णीकृतलाजमुष्टिं ] केयूरैः अंगदैश्चूर्णीकृता लाजानां मुष्टयो यस्मिंस्तं तथोक्तम् । तत्रावकीणी आचारलाजा अन्तराल एवांगदेवर्णपेषं पिष्यन्त इति पुरंध्रिजनसंबन्धातिशयोक्तिः । हिमालयस्य हिमवतः आलयं भवनम् आससाद ॥ तत्रवतीर्याच्युतदप्तहस्तः शरवनाद्दीधितिमानिवोक्षणः । कान्तानि पूर्व कमलासनेन कक्ष्यान्तराण्यद्विपतेर्विवेश ॥ ७० ॥ तत्रेति ॥ तत्र हिमवदालये [ अच्युतदत्तहस्तः ] अच्युतेन विष्णुना दत्तहस्तो वितीर्णहस्तावलम्बः सन् शरद्धनात् शरन्मेघात् । शरद्विशेषणान्मेघस्य शुभ्रस्वं गम्यते । दीधितिमान् सूर्यः इव उक्ष्णः वृषात् अवतीर्य कमलासनेन पूर्वम् अग्रे क्रान्तानि प्रविशनि अद्रिपतेः कक्ष्यान्तराणि गेहप्रकोष्टान्तराणि विवेश ।’ कक्ष्या कच्छे वरत्रायां काञ्च्यां गेहे प्रकोष्टके ’ इति यादवः ॥ तमन्वगिन्द्रप्रमुखाच देवाः सप्तर्षिपूर्वाः परमर्षयश्च । गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥ ७१ ॥ तमिति ॥ तम् ईश्वरम् अन्वक् अनुपदम् । अव्ययमेतत् । ‘अन्वगन्वक्षमनुगेऽनुपदं क्लीवमभ्ययम् ’ इत्यमरः । इन्द्रप्रमुखाः देवाः च । सप्तर्षयः पूर्वे येषां ते सप्तर्षिपूर्वाः । " न बहुव्रीहौ " इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयः च । te सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः " इति तत्पुरुषः । १ मुष्टि: २ ततः ३ कक्षान्तराणि ४ अन्वगच्छन्. १६० कुमारसंभवे गणाः प्रमथाः च । उत्तमार्थाः महाप्रयोजनाः प्रशस्तं प्रकृष्टम् | अमोधमित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तम् आरम्भम् इव गिर्यालयं हिमबम्मन्दिरम् अभ्यगच्छन् । प्राविशभित्यर्थः ॥ तत्रेश्वरो विष्टरभाग्यथाव- त्सरत्नमध्ये मधुमच्च गव्यम् । नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वममन्त्रंवर्जम् ॥ ७२ ॥ तत्रेति ॥ तत्र हिमवदालये ईश्वरः विष्टरभाक आसनगतः । उपविष्ट इत्यर्थः । यथावत् यथाहम् । विधिवदित्यर्थः । सरत्मं रत्नसहितम् अर्घ्यम् अर्घार्थ जलम् । मधु क्षौद्रमस्मिन्नस्तीति मधुमत् । गवि भवं गव्यं । दधि च मधुपर्कमित्यर्थः । ’ दधिमधुनी सर्पिर्वा मध्वलाभे ’ इत्याश्वलायनगृह्यसूत्रात् । नवे दुकूले च इति सर्वे नगोपनीतं हिमवदानीतमर्ध्यादिकम् मन्त्रान्वर्जयित्वा मन्त्रवम् । ततो नसमासः । अमन्त्रवर्जम् । मन्त्रान्न वर्जयित्वेत्यर्थः । " द्वितीयायां च " इति णमुल्प्रत्यय इत्याह न्यासकारः " अनुदात्तं पदमेकवर्जम् " इत्यत्र । प्रत्यग्रहीत् स्वीकृतवान् ॥ दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधंदक्षैः । वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥ ७३ ॥ दुकूलेति ॥ अथ दुकूलवासाः दुकूलं वसान इत्यर्थः । स हरः विनीतैः अनुद्धतैः अवरोधेषु ये दक्षास्तैः अवरोधदक्षैः वधूसमीपं निन्ये नीतः । कथमिव । [ स्फुटफेनराजिः ] स्फुटा फेनानां राजिर्यस्य सः । उदकमस्यास्तीति उदन्वान् समुद्रः ।" उदन्वानुदधौ च " इति निपातनात्साधुः । नवैः अचिरोदितैः चन्द्रपादैः चन्द्रकिरणैः वेलासमीपमिव ॥ तथा वृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या । प्रसन्नचेतः सलिलः शिवोऽभूत् संसृज्यमानः शरदेव लोकः ॥ ७४ ॥ तथेति ॥ [ प्रवृद्धाननचन्द्रकान्त्या ] आननं चन्द्र इव । इत्युपमितसमासः । प्रवृद्धाननचन्द्रस्य कान्तिर्यस्यास्तया तथोक्तया तया कुमार्या शरदा लोक इव संसृज्यमानः संगच्छमानः शिवः [ प्रफुल्लचक्षुः कुमुदः ] चक्षूंषि कुमुदानीव तानि प्रफुल्लानि यस्य स तथोक्तः । प्रसन्नचेतः सलिलः १ • पनीते. २ वन्ध्यम् ३ रक्षैः ४ सकाशम् ५ विवृद्ध. 1 सप्तमः सर्ग: 1 श्वेतः सलिलमिव तस्प्रसन्नं यस्य स तथोक्तः । अभूत् । शरलोकयोरपि यथोचितं विशेषणानि योज्यानि ॥ ७४ ॥ तयोः समापत्तिषु कातराणि किंचिद्वयवस्थापितसंहृतानि । हीयन्त्रणां तत्क्षणमन्त्रभूष- नन्योन्यकोलानि विलोचनानि ॥ ७५ ॥ तयोरिति ॥ तयोः वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि ।’ अधीरे कातर: ’ इत्यमरः । द्रष्टुमसमर्थानीति भावः । किंचित् ईषत् व्यवस्थापितानि स्थिरीकृतानि पश्चारसंहतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि । " पूर्वकाल० " इत्यादिना तत्पुरुषः । [ अन्योन्यलोलानि] अन्योन्यस्मिल्लोलानि सतृष्णानि । ’ लोलवलसतृष्णयो: ’ इत्यमरः । विलोचनानि दृष्टयः तत्क्षणं तस्मिन्क्षणे हीयन्त्रणां हिया निमित्तेन संकोचम अन्वभूवन् ॥ तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः । उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् ॥ ७६ ॥ तस्या इति ॥ अष्टमूर्तिः शिषः । तस्मादीश्वराच्छङ्कत इति तच्छद्दिनः । तीतस्येत्यर्थः । अतएव उमातनौ उमाशरीरे गूढतमोः गुप्तशरीरस्य स्मरस्थ पूर्व प्ररोहमिष प्रथमाङ्कुरमिव स्थितं शैलगुरूपनीतं शैलगुरुणा हिमवतोपनीतं प्रापितम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं साम्राङ्गलि राि तस्याः पार्वत्याः करं जग्राह ॥ रोमोनमः प्रादुरभूदुमायाः स्विनङ्गुलिः पुङ्गवकेतुरासीत् । वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥ ७७ ॥ रोमोद्रम इति ॥ उमायाः रोमोनमः रोमाश्वः प्रादुरभूत् । पुमान्गौः पुंगवो वृषभः । " गोरसद्धितलुकि " इति टच् । स केतुविद्धं यस्य स पुयकेतुः शिवः स्विन्नाङ्गुलिः आसीत् । अत्रोत्प्रेक्षते - पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोः वधूवरयोः मनोभवस्य वृत्तिः अवस्थितिः समं विभक्तेव १ आनशिरे मुहूर्त-मनोग्राम. २ उमास्मना २ शक्तिः ४ चित्रा०. १६२ कुमारसंभव समीकृतेवेत्यर्थः । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिसंस्पर्शकृतत्वमुत्प्रेक्ष्यते । ननु कन्या तु प्रथमसंगमे स्विन्नकरचरणा भवति, पुमांस्तु रोमाञ्चितो भवतीति वात्स्यायनेन विपरीतमुक्तमिति चेनैष दोषः । एभिरनयोर्भाव परीक्षेतेति वाक्यशेष एभिरिति बहुवचनेन स्वेदरोमानग्रहणस्य सकलसात्त्विको पलक्षणत्वावगमेनानियमावधारणात् । अतएव रघुवंशेऽन्यथाभिधानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्वघृवंशसंजीविन्यां ( ७।२२ ) सुव्यक्तमवोचम् । सात्त्विकास्तु स्तम्भप्रलय रोमाञ्चाः स्वेद । वैवर्ण्यवेपथू | अश्रुवैस्वर्यमित्यथै सात्त्विकाः परिकीर्तिताः । इति ॥ $ प्रयुक्तपाणिग्रहणं यदन्य- द्वधूवरं पुष्यति कान्तिमग्र्याम् । सांनिध्य योगादनयोस्तदानीं कि कथ्यते श्रीरुभयस्य तस्य ।। ७८ || प्रयुकेति ॥ यत् यस्मात्कारणात [ प्रयुक्तपाणिग्रहणं ] प्रयुक्तं पाणिग्रहणं यस्य तत्तथोक्तम् । अन्यत् लौकिकम् । वधू वरश्व वधूवरम् । समाहारे इन्दैकवद्भावः । तदानीं पाणिग्रहणकाल अनयोः उमाशिवयोः सांनिध्ययोगात् संनिधिभावात् अभ्याम् उत्तमां कान्ति शोभां पुष्यति पुष्णाति । तस्य उभयस्य उमामहेश्वररूपस्य मिथुनस्य श्रीः किं कथ्यते । यत्प्रसादादन्यस्य शोभालाभस्तस्य शोभा किमु वक्तव्येत्यर्थः । विवाहसमये गौरीशिवौ वधूवरायनुप्रविशेताम् ’ इत्यागमः ॥ प्रदक्षिणप्रक्रमणात्कुशानो- रुदर्चिषस्तन्मिथुनं चकासे । मेरोरुपान्तेष्विव वर्तमान- मन्योन्यसंसक्त महस्त्रियामम् ।। ७९ ।। प्रदक्षिणेति ॥ तन्मिथुनम् उदचिषः उन्नतज्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणात् चकासे । किमिव । मेरोः उपान्तेषु परिसरेषु वर्तमानम् आवर्तमानम् । मेरु प्रदक्षिणीकुर्वदित्यर्थः । [ अन्योन्यसंसक्तम् ] अन्योन्येन संसक्तं संगतम् । मिथुनस्याप्येतद्विशेषणम् । अहश्व त्रियामा च अहस्त्रियामं रात्रिंदिवम् इव । समाहारे द्वन्द्वैकवद्भावः ॥ तौ दंपती त्रिः परिणीय वह्नि- मन्योन्य संस्पर्शनिमीलिताक्षौ । स कारयामास वधूं पुरोधा- स्तस्मिन्समिद्धार्चिषि काजमोक्षम् ॥ ८० ॥ सप्तमः सर्गः । १६३ ताविति ॥ स पुरस्तादेव हितं विधत्ते इति पुरोधाः पुरोहितः [अन्योन्यसंस्पर्शनिमीलिताक्षौ ] अन्योन्यस्य संस्पर्शेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दंपती कर्मभूतौ । जायाशब्दस्य दंभावो निपातितः । वह्नि त्रिः त्रिवारम् । द्वित्रिचतुर्भ्यः सुच् " इति सुच् । परिणीय परितो नीत्वा । प्रदक्षिणीकार्येत्यर्थः । नयतेर्द्विकर्मकान्ध्यम् । समिद्धार्चिषि दीप्तज्वाले तस्मिन् व वधूं लाजमोक्षम् लाजविसर्गे कारयामास । हकोरन्यतरस्याम् इति विकल्पादणि कर्तुः कर्मत्वम् ॥ सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय । कपोलससर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ८१ ॥ सेति ॥ सा वधूः [गुरूपदेशात् ] गुरोः पुरोधस उपदेशात् [ इष्टगन्धं] इष्ट: घ्राणतर्पण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं विनाय । [ कपोलसंसर्पिशिखः ] कपोलसंसर्पिणी शिखा यस्य स तथोक्तः स धूमः तस्याः गौर्याः मुहूर्तकर्णोत्पलतां प्रपेदे । धूमस्य विसृमरत्वान्मुहूर्त ग्रहणम् ॥ तदीपदार्द्रारुणगण्डलेख- मुच्छ्रासिकालाञ्जनरागमक्ष्णोः । वधूमुखं कान्तयवावर्तस- माचार धूमग्रहणाबद्धभूव ।। ८२ ।। तदिति ॥ तत् वधूमुखम आधारधूमग्रहणात् आचारप्राप्तधूमत्वात् [ ईषदाद्ररुणगण्डलेखम् ] ईषदादे स्विने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथोक्तम् । अक्ष्णोः [ उच्छासिकालाञ्जनरागम् ] उच्छ्रास्युद्रच्छन्कालाजनस्य रागः अञ्जनं यस्य तत्तथोक्तम् । [ क्लान्तयवायतंसं ] क्लान्तो यवावर्तसो यवाङ्कुरकर्णपूरो यस्य तत्तथाभूतं बभूव । ‘लाजाअहिं विसृज्य धूमा जिघेत् ’ इति प्रयोगवृत्तिकारः ॥ १ पूर्वसाक्षी. वधूं द्विजः माह तवैष वत्से विवाह प्रति कर्मसाक्षी । शिवेन भर्चा सह धर्मचर्या कार्या स्वया मुक्तविचारयेति ॥ ८३ ॥ १६४ कुमारसंभवे वधूमिति ॥ अथ वधूं द्विजः पुरोधाः प्राह । किमिति । हे वत्से एष वह्निः तव विवाहं प्रति । विवाह कर्मणीत्यर्थः । कर्मसाक्षी कर्मद्रष्टा । भर्त्रा शिवेन सह मुक्तविचारया निर्विचारया त्वया धर्मचर्या धर्माचरणं कार्या कर्तव्या इति । अयं च प्राजापत्य विवाहो द्रष्टव्यः । यथाहाश्वलायनः-’ सह धर्म चरत इति प्राजापत्यः ’ इति ॥ आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या । निदाघकालोल्वणतपयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ ८४ ॥ आलोचनान्तमिति ॥ भवस्य पत्न्या भवान्या । इन्द्रवरुणभवशर्वरुद्र० " इत्यादिना ङीप् । आनुगागमश्च । आलोचनान्तं नेत्रान्तपर्यन्तम् । " आडू मर्यादाभिविध्योः " इत्यव्ययीभावः । भवणे श्रोत्रे वितत्य विस्तार्य तत् पूर्वोक्तं गुरोः याज्ञिकस्य वचनं ‘सद धर्मे चर’ इति वाक्यं [निदाघकालोल्बणतापया ] निदाघकाले ग्रीष्मकाल उल्बणतापयोत्कटसन्तापया पृथिव्या प्रथमम् आयं माहेन्द्र पार्जन्यम् अम्भः इव पीतम् । अत्यादरेण शुत्रावेत्यर्थः ॥ ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ॥ ८५ ॥ ध्रुवेणेति ॥ प्रियं दर्शनं यस्य कर्मभूतस्य । तेन प्रियदर्शनेन ध्रुवेण शाश्वतेन भर्त्रा [ ध्रुवदर्शनाय ] ध्रुवस्य नक्षत्रविशेषस्य दर्शनाय । ‘ध्रुवो भभेदे क्ली तु निश्चिते शाश्वते त्रिषु । इत्यमरः । प्रयुज्यमाना दृश्यतामिति प्रेर्यमाणा ही सन्नकण्ठी हिया हीनस्वरा सा वधूः कथमपि आननमुन्नमय्य दृष्ट इत्युवाच ॥ इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ । प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥ ८६ ॥ ce इत्थमिति ॥ इत्थम् अनेन प्रकारेण । इदमस्थमुः " इति थमुप्रत्ययः । विधिज्ञेन विवाहप्रयोगज्ञेन । शास्त्रज्ञेनेत्यर्थः । पुरोहितेन हैमवतेन प्रयुक्त. १ श्रवणी. २ नप्तयेव. ३ कण्डा. सप्तमः सर्गः । १६५ पाणिग्रहणोपचारौ कृतविवाहकर्माणी प्रजानां पितरौ तो उमामहेश्वरौ पद्मासनस्थाय पद्मासनोपविष्टाय पितॄणां पित्रे पितामहाय ब्रह्मणे । ‘पितामहो विरिचौ स्यात्तातस्य जनकेऽपि च ।’ इति विश्वः । “पितृव्यमातुलमातामहपितामहाः " इति निपातनात्साधुः । प्रणेमतुः नमश्चक्रतुः । पितामहस्य पित्रोरपि पूज्यत्वादिति भावः ॥ वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति । वाचस्पतिः सन्नपि सोऽष्टमृत त्वशास्यचिन्तास्तिमितो बभूव ॥ ८७ ॥ वधूरिति ॥ वधूः कन्या विधात्रा ब्रह्मणा । हे कल्याणि शोभने । वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरसूः भवेति प्रतिनन्द्यते स्म । आशि षमुक्तेत्यर्थः । स विधाता वाचस्पतिः वागीश्वरः अपि सन् । कस्कादिषु पाठात साधुः । अष्टमूर्ती शिवे [ आशास्यचिन्तास्तिमितः ] आशास्यमाकाङ् क्ष्यं तत्र चिन्ता विचारस्तस्यां स्तिमितो मन्दः बभूव । तस्य निरीहस्याशास्याभावादाशिषि स्तिमितत्वमित्यर्थः || कुप्पाचारां चतुरस्रवेदीं तावेत्य पश्चात्कनकासनस्थौ । जायापती लौकिकमेषणीय- माद्रक्षतारोपणमन्वभूताम् ॥ ८८ ॥ लृप्तेति । तौ जायापती वधूवरौ पश्चात् नमस्कारान्तरं [ कृप्तोपचारां ] कृप्ता रचिता उपचाराः पुष्परचनादयो यस्यां तां चतुरस्रवेदीमेत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकं लोके विदितं । आचारप्राप्तमित्यर्थः । अतएव एषणीयम् आशास्यम् । तथाहि । लौकिकाचारं मनसापि न लंघयेत् इति शास्त्रादवश्य कर्तव्यमित्यर्थः । इषेरिच्छार्थादनीयप्रत्ययः । आर्द्राक्षितारोपणमन्वभूताम् ॥ पत्रान्तलमैर्जल बिन्दु जांळे- राकृष्टमुक्ताफलजालशोभम् । तयोरुपर्यायतनालदण्ड- माधत्त लक्ष्मीः कमलातपत्रम् ॥ ८९ ॥ १ भूतावाशास्य २ एषितव्यम् ३ वृन्दे: ४ भक्ति १६६ कुमारसंभवे पत्रान्तेति ॥ लक्ष्मीः श्रीदेवी [ पत्रान्तलग्नैः ] पत्रान्तेषु दलप्रान्तेषु लमैः जलबिन्दुजालैः [ आकृष्टमुक्ताफलजालशोभम् ] आकृष्टा आहृता मुक्ताफलजालेन प्रान्तलम्बिना मुक्ताकलापेन या शोभा सा येन तत्तथोक्तम् । [ आयतनालदण्डम् ] आयतं दीर्घ नालमेव दण्डो यस्य तत् [ कमलातपत्रं ] कमलमेवातपत्रं तव तयोः उपरिआधत्त दधौ || द्विधा प्रयुक्तेन च वाकायेन सरस्वती तन्मिथुनं नुनाव । संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥ ९० ॥ द्विधेति ॥ अथ सरस्वती वाग्देवी च द्विधा संस्कृतप्राकृतरूपेण द्वैविध्येन प्रयुक्तेन उच्चारितेन वाड्मयेन शब्दजालेन तन्मिथुनं नुनाव तुष्टाव | ‘णु स्तुतौ ’ इति धातोर्लिट् । केन कमित्याह-संस्कारेति । [ संस्कारपूतेन ] संस्कारेण शास्त्रव्युत्पत्त्या पूतेन प्रकृतिप्रत्यय विभागशुद्धेन । संस्कृतेनेत्यर्थः । वरेण्यं वरणीयम् । श्लाध्यमित्यर्थः । वृणोतेरैणादिक एन्यप्रत्ययः । वरं वोदारं शिवम् । [ सुखमाद्यनिबन्धनेन ] मुखेन प्राह्यं सुबोधं निबन्धनं रचना यस्य तेन वाङ्मयेन । प्राकृतभाषयेत्यर्थः । वधूम् । नुनावेत्यनेन संबन्धः ॥ C तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसां मुहूर्त प्रयोगमाद्यं ललिताङ्गहारम् ॥ ९१ ॥ ताविति ॥ तौ दंपती संधिषु मुखादिनिर्वहणान्तेषु पञ्चसंधिषु । तदुक्तं दशरूपके - ’ मुखं प्रतिमुखं गर्भः सावमर्षोपसंहृतिः । ’ इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्यादिवृत्तिविशेषम् । रसानुगुण्येनेति शेषः । तदुक्तं भूपालेनकौशिकी स्यात्तु शृङ्गारे रसे वीरे तु सात्वती । रौद्रबीभत्सयोर्वृत्तिर्नियतारभटी पुनः ॥ शृङ्गारादिषु भाव रसेष्विष्टा तु भारती ॥ ’ तथा । ’ कौशिक्यारभटी चैव सात्वती भारती तथा । चतस्रो वृत्तयो ज्ञेयास्तासु नाय्यं प्रतिष्ठितम् ’ इति ॥ रसान्तरेषु शृङ्गारादिरसभेदेषु । ’ शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः । इत्यमरः । ’ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताच्या रसाः पूर्वैरुदाहृताः ’ इति । प्रतिबद्धरागं प्रतिनियमेन प्रवर्तितो वसन्तललितादिरागो यस्मिंस्तत् । यस्मिन्र से यो रागो विहितस्तदनुसारेण प्रयुक्तरागमित्यर्थः । यथाह काइल:-’ रौद्रेऽद्भुते तथा वीरे पुंरागेण प्रगीयते । शृङ्गारहास्यकरुणाः स्त्रीरागेणसप्तमः सर्गः । १६७ प्रकीर्तिताः ॥ भयानके च बीभस्से शान्ते गयो नपुंसके ॥’ इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् । अङ्गहारोङ्गविक्षेपः इत्यमरः । आदौ भवम् आद्यम् । रूपकान्तरप्रकृतिभूतमित्यर्थः । तदुक्तम्’ आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधा:’ । इति ॥ अप्सरसाम उर्वश्यादीना [ प्रयोगम् ] प्रयुज्यत इति प्रयोगो रूपकम् । नाटकमित्यर्थः । आद्यमिति विशेषणात् । तं मुहूर्तमपश्यतां दृष्टवन्तौ । " पाप्राध्मास्था० " इत्यादिना दृशेः पश्यादेशः || देवास्तदन्ते हरमूढभार्य किरीटबद्धाञ्जलयो निपत्य । शापावसाने प्रतिपन्नमूर्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥ ९२ ॥

देवा इति ॥ देवाः इन्द्रादयः तदन्ते तस्य प्रयोगदर्शनस्यान्तेऽवसाने ऊढभार्य परिणीतवार हरं [ किरीटबद्धाञ्जलयः ] किरीटेषु बद्धा अअलयो येषां ते तथोक्ताः सन्तः । निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेः लब्धशरीरस्य परिणयति पार्वती यदा इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्चशरस्य कामस्य कर्तुः सेवां ययाचिरे । पुनः समासादितशरीरस्य तस्य सेवा स्वीक्रियतामिति प्रार्थयामासुरित्यर्थः । ’ दुह्यापच्-’ इत्यादिना द्विकर्मकत्वम् ॥ तस्यानुमेने भगवान्विमन्यु- व्यापारमात्मन्यपि सायकानाम् । काप्रयुक्ता खलु कार्यविद्भि- विज्ञापना भर्तृषु सिद्धिमेति ।। ९३ ।। तस्येति ॥ विमन्युः विगतक्रोधः भगवान् ईश्वरः आत्मन्यपि तस्य कामस्य सायकानां व्यापारमनुमेने । तथाहि । कार्यविद्भिः कार्यज्ञैः । अथवा कालविद्भिः अवसरज्ञैः । [कालप्रयुक्ता] काले योग्यावसरे प्रयुक्ता अनुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिमेति खलु । सफला भवतीत्यर्थः । अयमेवास्य स्मरसेवास्वीकारो यदात्मन्यपि तत्साय कव्यापार मङ्गीकृतवानिति ॥ अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य क्षितिघरपतिकन्यामाददानः करेण । कनककलशयुक्तं भक्तिशोभासनार्थं क्षितिविरचितशय्यं कौतुकागारमागात् ।। ९४ ।। अथेति ॥ अथ इन्दुमौलिः ईश्वरः तान् विबुधगणान् विसृज्य क्षिति. धरपतिकन्यां पार्वती करेणाददानः कनककलशयुक्तं मङ्गलार्थमन्त- १ मतिलब्ध, २ काले, ३ कालविद्भिः ४ रक्षा, 1 १६८ कुमारसंभवे निहित हेममयपूर्णकुम्भ [ भक्तिशोभासनाथ ] भक्तयः पुष्पादिरचनास्तासां शोभया सनाथम् । सहितमित्यर्थः । [ क्षितिविरचितशय्यं ] क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पं यस्मिंस्तत्तथोक्तं कौतुकागारम् आगात् शय्यागृहं जगाम 1 अत्राश्वलायनः - ‘अत ऊर्ध्वमक्षारालवणाशिनावधः शायिनौ ब्रह्मचारिणौ स्याताम्’ इति ॥ अत ऊर्ध्व विवाहादूर्ध्वम् । आ त्रिरात्रादिति शेषः । ‘त्रिरात्रं द्वादशरात्रं ’ वा इति वचनात् । तथा कामशास्त्रेऽपि ‘अथ परिणयरात्रौ प्रक्रमेनैव किंचित्तिषु च रजनीषु स्तब्धभावा दुनोति । त्रिदिनमिह न भिन्द्याद्रह्मचर्ये न चास्या हृदयमननुरुध्य स्वेच्छया नर्म कुर्यात् ’ ॥ इति ॥ नवपरिणयलज्जाभूषणां तत्र गौरीं artyrरन्तीं तत्कृताक्षेपमीशः । वदनमपहरन्ती अपि शयनसखीभ्यो दत्तवाचं कथंांच- प्रेमथमुखविकारैर्हासयामास गूढम् ।। ९५ ।। नवेति ॥ तत्र कौतुकागारे ईशः ईश्वरः [नवपरिणयलज्जाभूषणां ] नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव [ तत्कृताक्षेपं ] तेनेश्वरेण कृताक्षेपं कृताकर्षणम् । उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वतीम् । अयं लज्जानुभावः । अनुभावान्तरमाह-शयन सखीभ्यः अपि शयने सहशायिनीभ्यः नर्मसहचरीभ्योऽपीत्यर्थः । कथंचित् कृच्छ्रेण वृत्तवाचं दनोत्तरां गौरी [ प्रमथमुखविकारैः ] प्रमथा गिरिटिप्रभृतयो हास्यरसाधिदेवताः पशुपतेः पारिषदाः । यथाह भरत:-’ शुङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः ’ इति ॥ प्रमथाः स्युः पारिषदाः ’ इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैः गूढम् अप्रकाश हासयामास । हासाद्युपायैलेनामपाकर्तुं प्रवृत्त इत्यर्थः । यथाह गोनर्द :‘हासेन मधुना नर्मवचसा लज्जितां प्रियाम् । विलुमलजां कुर्वीत निपुणैश्च सखीजनैः ॥ इति ॥ इति श्रीमन्महामहोपाध्यायको लाचलमल्लिनाथसूरिविरचितया संजीवि - नौ समाख्यया व्याख्यया समेतः श्रीकालदासकृती कुमारसंभवे महाकाव्ये उमापरिणयो नाम समम सर्गः । १ कृतात्क्षेप. २ प्रथम.