०८

पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति । भावसाध्वसपरिग्रहादभूत् कामदौहृदसुखं मनोहरम् ॥ १ ॥ प्रकाशिका अथोपक्षिप्तं नववधूविषयं देवस्य प्रथमानुरागानन्तरसम्भोगं वर्णयति— पाणीति । ’ तथा परिणयोद्वाहौ विवाहः पाणिनीडनमिति सिंहः । कामविषये यद् दौहृदम् इच्छा, तत् कामदौहृदम् । तेन च तद्विषयभूत आलिङ्गनादिर्लक्ष्यते । तज्जनितं सुखं कामदौहृदसुखम् । सम्भोगसुखमित्यर्थः । तस्य च विवाहानन्तरत्ववचनेन प्रथमानुरागानन्तरत्वमुक्तम्। तदानन्तर्याच्च देव्या देवं प्रति भावस्याभिलाषस्य साध्वसस्याधाष्टर्यस्य च परिग्रहः । अथवा भावमिश्रं साध्वसं भावसाध्वसम्। साध्वसस्यैव प्राधान्येन सम्भोगस्वादुत्वजनकत्वेनोत्तरश्लोकेषु वर्णयिष्यमाणत्वात् समासेऽपि तस्यैव प्राधान्यमङ्गीकार्यम् । तच्च भावमिश्रत्वाद् रमणीयम्। तस्य परिग्रहाद् देवं प्रति तत् सुखं मनोहरमभूत् । नायिकाभावदर्शनप्रवृद्धभावस्य नायकस्य तस्याः साध्वसपरतन्त्रत्वात् कथश्चिदसमग्रलभ्यमानानि मनोरथगुणितान्यालिङ्गनादीनि मनो जहुरित्यर्थः ॥ १ ॥ विवरणम् अथ पूर्वसर्गोपक्षिप्तं देवस्य नववधूविषयं प्रथमानुरागानन्तरसम्भूतं सम्भोगं वर्णयितुमष्टमः सर्गोऽयमारभ्यते । तत्र माधवेनोक्तम् — अत्राष्टमः सर्गो गौरीसम्भोगवर्णनाद् वाचयितुं श्रोतुं व्याख्यातुं च न युक्तः, एतच्छीलानां देवताशापादायुषः क्षयो भविष्यतीति । दक्षिणावर्तेन पुनः - अस्य प्रकरणस्य शिवयोः सम्भोगविषयत्वाद् सभावार्थान् विविच्य वक्तुं बिभेमि। तस्मादन्वयमात्रमत्राधिक्रियत इत्युक्तम् । अरुणाचलनाथेन तु तदुभयमपि दूषितम् । अयं किल तस्याभिप्राय ः – पार्वतीपरमेश्वरयोः शरीरग्रहणमात्रमपि लोकानुग्रहार्थमेव । यथोक्तं भगवता ‘विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः’ (६.२६) इति । देव्या अपि शरीरग्रहणादिकं लोकानुग्रहार्थमेवेति देवीमाहात्म्यादिषु तत्र तत्र प्रतिपादितम् । त्रिविधा हि लोके जनाः मुक्ता मुमुक्षवः सक्ताश्चेति । तत्र मुक्तानां कृतकृत्यत्वादेतयोर्लीलायितानां सञ्चिन्तनश्रवणादिभिः परब्रह्मानुभवतुल्यकुल्यः परमाह्लादो अष्टमः सर्गः ४८९ भवतीत्यनुग्रहो भूयानेव । मुमुक्षूणां तु लीलायितश्रवणानुसन्धानादिभिरन्तःकरणशुद्धिरूपो महाननुग्रहः स्पष्ट एव । किञ्च महत्तरैरपि तपश्चरणैरुभाभ्यामपि तदनुग्रह एव कृतः, इत्थं कर्तव्यमित्युपदेशमात्रपरत्वात् तयोस्तपश्चरणानाम् । कामिनां तु चित्तावर्जनं सम्भोगशृङ्गारानुगृहीतकथाश्रवणेनैव सुकरमिति लीलागृहीतशरीरौ भगवन्ताविमं प्रकारमारब्धवन्तौ । येन केनापि प्रकारेण भगवति मनः प्रणिधानमेव मुक्तिकारणमित्युक्तं भागवते— कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वा । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ इति। महाकविरपि कामिनां चित्तं पार्वतीपरमेश्वरपादारविन्दासक्तं विधातुमेवाष्टमेऽस्मिन् सर्गे वात्स्यायनशास्त्रानुसारिणीं पदवीमुररीचकार । तस्माल्लोकोत्तरलौकिकनायकव्यवहारमखिलजनानुग्रहार्थमनुकुर्वतोरेतयोर्महानटयोस्तदनुगुणानां प्रबन्धानां निर्माणतद्व्याख्यानश्रवणादिभिरनुग्रह एव भूयानाविर्भवति । तदनुबद्धानि वचनानि तु स्तुतावेव पर्यवस्यन्तीत्यलमतिप्रसङ्गेन । प्रकृतमेवानुसरामः । वक्ष्यमाणमेवार्थं संक्षेपतः प्रतिपादयति- पाणीति । पाणिपीडनविधेः अनन्तरं शैलराजदुहितुः हरं प्रति भावसाध्वसपरिग्रहात्। कामदौहृदसुखं मनोहरम् अभूत् । पाणिपीडनं विवाहः । ‘विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयमाः पाणिपीडनमित्यमरः । पाणिपीडनस्य विधिः पाणिपीडनविधिः। विधिर्विधानम् । तस्यानन्तरम् । शैलराजस्य दुहितुः पुत्र्याः पार्वत्याः हरं प्रति परमेश्वरमुद्दिश्य भावस्याभिलाषस्य साध्वसस्य अधाष्टर्यस्य च परिग्रहात् स्वीकारात् । भावमिश्रस्य साध्वसस्य स्वीकारादिति मध्यमपदलोपी वा समासः । तथात्वे साध्वसस्यैव प्राधान्यं प्रतिपादितं भवति । साध्वसं हि सम्भोगे स्वादुतां जनयति । अत एवोत्तरश्लोकेषु तथैव प्रतिपाद्यते । कामविषयं दौहृदं कामदौहृदम्। दौहृदमिच्छा । तया च तद्विषयभूतमालिङ्गनचुम्बनादिकं लक्ष्यते । तज्जनितं सुखं कामदौहदसुखम् । सम्भोगसुखमित्यर्थः । मनोहरमभूत् हरं प्रतीत्यत्राप्यनुषज्यते । अत्र सम्भोगसुखस्य पाणिपीडनानन्तरत्वकथनेन प्रथमानुरागानन्तरभवत्वमुक्तं, तेन च देव्या देवं प्रति भावसाध्वसपरिग्रहस्योपपत्तिः, तेन च कामसुखानां देवमनोहरत्वम् । साध्वसपरतन्त्रायां देव्यामसमग्रलभ्यानि मनोरथशतगुणितान्यालिङ्गनादीनि देवस्य मनो जहुरित्यर्थः ॥ १ ॥ व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥२॥ ४९० तदेव वर्णयति— कुमारसम्भवे प्रकाशिका व्याहृतेति। प्रियावचनश्रवणकौतुकिना देवेन तत्प्रसङ्गार्थं व्याहृता सा प्रतिवचो दातुं नारभतैव। गमननिवारणार्थं गृहीतांशुकापि गन्तुमेवैच्छत् । आलिङ्गयमानापि पराङ्मुखी शयनमसेवत । एवं परस्परसंल्लापादिषु साध्वसादसमग्रेष्वपि ‘दुर्लभाभिनिवेशी काम’ इति न्यायात् स तस्य प्रीतये बभूवेत्यर्थः । अत्र दक्षिणावर्त आह- यतः ह - ‘अस्य प्रकरणस्य शिवयोः सम्भोगविषयत्वाद् रसभावान् विविच्य वक्तुं बिभेमि, तस्मादन्वयमात्रादि क्रियत’ इति । एतदल्पज्ञताविलसितं, प्रसिद्धलौकिकोत्तमनायकव्यवहारमनुकुर्वतोरनयोर्महानटयोर्लीलामात्रात्मिकासु प्रवृत्तिषु परमार्थबुद्धिर्यस्यास्ति तस्यैवायं दोषः । यस्य तु सा नास्ति तस्य तद्विवेचनमपि शिवयोः स्तुतिः पर्यवस्यति ॥ २ ॥ विवरणम् उक्तमर्थमेव विस्तरतः प्रतिपादयति व्याहृतेत्यादिना- व्याहृतेति । सा व्याहृता प्रतिवचः न सन्दधे । सा पार्वती व्याहता मञ्जुलतरवल्लभासँल्लापश्रवणकौतुकाद् देवेन प्रसङ्गार्थं किमप्युक्ता सती प्रतिवचः उत्तरवाक्यं न सन्दधे नोपाददे । पुनश्च सम्मुखावस्थानमात्रेऽपि लज्जिताया देव्याः प्रियवचनश्रवणानन्तरभवां प्रवृत्तिमाह – अवलम्बितांशुका गन्तुम् ऐच्छद् इति । गमननिवारणार्थं देवेनावलम्बितं गृहीतमंशुकं वस्त्रं यस्याः तथाभूतापि । गन्तुमैच्छत् ततो गमनं कर्तुं केवलमारेभे । शयनेऽपि साध्वसपारतन्त्र्यमाह – पराङ्मुखी शयनं सेवते स्म इति । पराङ्मुखी सादरमालिङ्गयमानाप्यनभिमुखी सती शयनं शय्यां सेवते स्म असेवत । इत्थं परस्परसँल्लापादिषु दुर्लभेष्वपि देवस्य तद्विषयं रागोत्कर्षमाह-सा तथा अपि पिनाकिनः रतये इति । सा पार्वती । तथापि सँल्लापादिषु दुर्लभेष्वपीत्यर्थः । पिनाकिनः परमेश्वरस्य रतये प्रीतये । बभूवेति शेषः । दुर्लभाभिनिवेशी काम’ इति न्यायोऽनेन दर्शितः ॥ २ ॥ कैतवेन शयिते कुतूहलात् पार्वती प्रतिमुखं निपातितम्। चक्षुरुन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत्॥३॥ अष्टमः सर्गः प्रकाशिका अथ षड्भिः श्लोकैः साध्वसस्य क्रमाच्छैथिल्यं दर्शयति- ४९१ कैतवेनेति । मयि सुप्ते किमियं करिष्यतीति ज्ञातुं व्याजसुप्ते देवे तत्स्वापपरीक्षाकुतूहलेन तन्मुखाभिमुखं चक्षुः पुनस्तस्मिन् सनर्मस्मितमुनिमषितलोचने सति विद्युता प्रतिहतमिव ससाध्वसं निमीलयामासेत्यर्थः । अत्र सुप्तस्यापि कमितुर्मुखनिरीक्षणात् साध्वसस्य किञ्चिच्छैथिल्यमुक्तम् । इत उत्तरेष्वपि यथोत्तरं शैथिल्यमवसेयम् ॥३॥ विवरणम् अथ परिचयवशात् क्रमेण साध्वसशैथिल्यं दर्शयति षड्भिः श्लोकैः । तत्रादौ सुप्ते भर्तरि तन्मुखनिरीक्षणं शक्यमासीदिति साध्वसस्य पूर्वावस्थातः किञ्चिच्छैथिल्यमाह- कैतवेनेति । प्रिये कैतवेन शयिते पार्वती कुतूहलात् प्रतिमुखं निपातितं चक्षुः प्रिये सस्मितम् उन्मिषति विद्युदाहतम् इव न्यमीलयत् । प्रिये कान्ते कैतवेन व्याजेन शयिते सुप्ते। स्वापमुपगते मयि किमियं करिष्यतीत्यवधारयितुं स्वापव्याजमुपगते सतीत्यर्थः। कुतूहलात् तन्मुखारविन्दविलोकनकौतुकात् । प्रतिमुखं तन्मुखाभिमुखं निपातितं नितरां पातितम् । सुखावलोकनं यथा भवति तथा निवेशितमित्यर्थः । चक्षुः लोचनम्। सस्मितं सनर्मस्मितमित्यर्थः । उन्मिषति उन्मीलितवति सति । चक्षुरिति अत्राप्यनुषज्यते । विद्युता सौदामन्या आहतं प्रतिहतमिव न्यमीलयद् निमीलितवती । उत्प्रेक्षया चक्षुर्निमीलनस्य साध्वसादस्वतन्त्रता द्योत्यते ॥ ३ ॥ नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः । तदुकूलमथ चाभवत् स्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥४॥ प्रकाशिका नाभीति । नीवीविस्रंसनाय नाभिदेशन्यस्तो देवस्य करो वेपथुमत्या तया सलज्जया रुद्धः, तथापि प्रियतमसन्निधानवशात् तस्या दुकूलं स्वयमेव दूरविस्रस्तनीविकमासीदित्यर्थः। यथाह रसिकचूडामणिरमरुकः - ‘कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्’ इति । अत्र नीवीस्पर्शस्य रोधात् तत्प्राग्भावी स्तनमर्दनादिः करव्यापारस्तया सोढ इति प्रतीयते ॥ ४ ॥ ४९२ कुमारसम्भवे विवरणम् पुनरपि क्रमेण साध्वसस्य पूर्वावस्थातः शैथिल्यमाह- ISTE सकम्पया तया रुरुधे । नाभीति । नाभिदेशनिहितः शङ्करस्य करः नीवीविस्रंसनकाङ्क्षया नाभिदेशे नाभिप्रदेशे निहितः न्यस्तः शङ्करस्य परमेश्वरस्य करः हस्तः सकम्पया लज्जापारतन्त्र्याद् वेपथुमत्या तया पार्वत्या रुरुधे रुद्धोऽभूत् । इत्थं लज्जाया अनुभावमुक्त्वा रागस्याप्यनुभावं दर्शयति — अथ च तद्दुकूलं स्वयं दूरम् उच्छ्वसितनीविबन्धनम् अभवद् इति । अथ च तथापीत्यर्थः । तद्दुकूलं तस्याः पार्वत्याः दुकूलं वसनम्। स्वयं देवस्य करव्यापारेण विनैवेत्यर्थः । दूरमत्यन्तमुच्छ्वसितं विस्रस्तं नीव्या बन्धनं यस्य तथाविधमभूत् । यद्यपि देवेन नीवीविस्रंसनाय नाभिदेशे निहितः करो देव्या रुद्धः, तथापि प्रियतमसन्निधानवशाद् देव्या दुकूलं स्वयमेव विस्रस्तनीवीबन्धनमभूदित्यर्थः । प्रियतमसन्निधाने स्त्रीणां नीवी स्वयमेव विगलतीति कामशास्त्रप्रसिद्धम् । अमरुकेण चोक्तं’कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनादिति । अत्र नीवीविस्रंसनिरोधवचनेन तत्पूर्वभाविनः स्तनविमर्दनचुम्बनादिव्यापारा देव्या कथमपि सोढा इति प्रतीयते । तेन च भावसाध्वसयोर्मध्ये साध्वसस्य पराजयारम्भो व्यज्यते ॥ ४ ॥ एवमालि ! निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥५॥ प्रकाशिका एवमिति । एवंशब्देन सामान्यवाचिनापि कश्चिदेव समुचितः प्रियसेवाप्रकारोऽभिधीयते। शङ्करः सर्वाकारमधुर इत्यर्थः । तेन तत्सेवायाः परमस्वादुत्वमुक्तम् । अत्र प्रियाभिमुखवर्तित्वलक्षणकारणबलात् प्रबलेनाकुलत्वहेतुना साध्वसेन साध्वसनिग्रहात्मकोपायोपदेशपूर्वके प्रियसेवाप्रकारोपदेशे स्मृतिजनकः संस्कार एव प्रमोषं नीतः । अत्र चातुष्षष्टिकविषये सख्युपदेशश्रवणग्रहणव्यवसायः साध्वसशैथिल्यं द्योतयति ॥ ५ ॥ विवरणम् अथ सखीजनकृतस्य कामशास्त्रानुसारिणः प्रियतमसेवाप्रकारोपदेशस्य श्रवणं तत्त्वतस्तदर्थावधारणं च क्रमेण शक्यमासीदिति भङ्गयन्तरेणाह अष्टमः सर्गः ४९३ एवमिति । आलि ! त्वया शङ्करः निगृहीतसाध्वसं रहसि एवं सेव्यताम् इति सखीभिः उपदिष्टं प्रिये प्रमुखवर्तिनि सा न अस्मरत् । आलि ! हे सखि ! । अस्मान् प्रति साध्वसमवलम्ब्यालम् । अस्मदुक्तमर्थं सम्यगवधारयेत्यनया सम्बुद्ध्या व्यज्यते । शं सुखं करोतीति शङ्करः । अनेन रूपतः शीलतोऽपि माधुर्यमुक्तम्। तेन तत्सेवायाः परमानन्दकरत्वं प्रतिपादितम्। निगृहीतसाध्वसमिति क्रियाविशेषणम्। निगृहीतं परित्यक्तं साध्वसं यथा भवति तथा सेव्यतामित्यर्थः । रहसि विजने । अनेन साध्वसनिग्रहस्य सुकरत्वमुक्तम् । एवमित्यनेन कामशास्त्रप्रसिद्धः प्रियतमसेवाप्रकारोऽभिधीयते । सेव्यताम् आराध्यताम् । इतिशब्दः उपदेशप्रकारवाची । सखीभिः आत्मनः प्रियवयस्याभिः । अनेन विस्रम्भास्पदत्वमुक्तम्। तेन च उपदेशयोग्यत्वं प्रतिपादितम्। ‘विमुक्तलज्जां कुर्वीत निपुणैश्च सखीजनैरिति न्यायोऽनेन दर्शितः । उपदिष्टम् अर्थमित्यर्थात् सिध्यति । प्रिये कान्ते प्रमुखवर्तिनि अभिमुखावस्थानशीले सति सा पार्वती नास्मरत् । स्मरणाभावे हेतुमाह — आकुलेति । प्रियाभिमुखवर्तित्वलक्षणेन कारणेनानुगृहीतात् साध्वगादुत्पन्नेन मनोविकारेणाकुलेत्यर्थः । अत एव प्रियतमसेवाप्रकारोपदेशस्मृतिजनकस्य संस्कारस्यापि प्रमोषोपपत्तिः । पूर्व हि ‘अपि शयनसखीभ्यः’ (७.९४) इत्यत्र सखीजनेष्वपि कथञ्चिद् वाग्दानमुक्तम् । इदानीं तु सखीजनोपदेशश्रवणं तदर्थग्रहणं च शक्यमासीदिति साध्वसस्य शैथिल्यं प्रतिपादितम् ॥५॥ अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम्। वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥६॥ प्रकाशिका अपीति । अवस्तुनि त्वयात्र गगने गन्धर्वनगराकारं दृष्टं न वेत्येवमादितुच्छे वस्तुन्यपि प्रश्नः कथाप्रवृत्तये वाङ्मश्रणाय । अनङ्गशासनमित्यनेन परमधूर्तोऽपि स तद्गुणजालाकृष्टस्तथा तदनुवर्तने प्रायतिष्टेति द्योत्यते । वीक्षितेन परिगृह्य तदाकारविलोकितेन धूर्तोऽयमिति परिचिन्त्य । अत्र मूर्धेत्यादिना यद्यपि कथाप्रवृत्तेर्निवृत्तिरुक्ता, तथाप्युत्तरप्रवृत्तेः वीक्षणाच्च लज्जाया गलितप्रायतां द्योत्यते ॥ ६ ॥ विवरणम् अथ क्रमेण प्रियतमावलोकनतद्वचनश्रवणावधारणादिकं शक्यमासीदित्याह-४९४ कुमारसम्भवे अपीति। पार्वती कथाप्रवृत्तये अवस्तुनि अपि प्रश्नतत्परम् अनङ्गशासनं वीक्षितेन परिगृह्य मूर्धकम्पमयम् उत्तरं ददौ । कथायाः परस्परसंल्लापस्य प्रवृत्तये उत्पत्तये। वाङ्मिश्रणायेत्यर्थः । अवस्तुनीति विषयसप्तमी । अत्यन्तशून्ये वस्तुनि विषयेऽपीत्यर्थः । प्रश्ने अनुयोगे तत्परं तात्पर्यवन्तम् । अद्य प्रभाते गगनमण्डले गन्धर्वाणां नगरमाविर्भूतम् । तत्र च गन्धर्वराजः सभार्यः प्रतिवसति स्म । तत् किं त्वया दृष्टम् अथवा न दृष्टमित्यादीनि शून्यानि वस्तूनि परस्परवा‌ङ्मिश्रणमात्राकाङ्क्षया पृच्छन्तमित्यर्थः । अनङ्गशासनमित्यनेन यः किल परमधूर्तः पूर्वं कामदेवमपि निजग्राह, सोऽपीदानीं देवीगुणगणाकृष्टचित्तस्तदनुसरणे तथा प्रयासं कृतवानिति द्योत्यते। वीक्षितेन तदाकारावलोकनेन परिगृह्य अङ्गीकृत्य । परमधूर्तोऽयमित्य-वधार्येत्यर्थः । आकारैरिङ्गितैर्गत्या स्वरहासावलोकनैः । नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः ॥ (मनुस्मृ. ८. २६) । इति स्मृतेरिति भावः । मूर्धकम्पमयं शिरः कम्पस्वरूपमुत्तरं ददौ दत्तवती । शिरसश्चालनेन धूर्तप्रश्नोचितमुत्तरं दत्तवतीत्यर्थः । अत्र यद्यपि परमसाध्यायाः कथाप्रवृत्तेरलाभः कण्ठेनोक्तः, तथापि वीक्षितेन परिगृह्येत्यनेन मूर्धकम्पमयमुत्तरं ददावित्यनेन च लज्जाया विगलितप्रायत्वं द्योत्यते ॥ ६ ॥ शूलिनः करतलद्वयेन सा सन्निरुध्य नयने हृतांशुका । तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥७॥ प्रकाशिका शूलिन इति । यच्चक्षुः पिधानानिर्वृतेर्यत्नस्य मोघत्वं तेन विधुरा व्याकुलाभूत् । अत्र नीवीस्रंसनस्य सोढत्वप्रतीतेर्लज्जाशैथिल्यविशेषो ध्वन्यते ॥७॥ विवरणम् अथ भगवदनुवृत्तिबलेन लज्जायास्ततोऽपि शैथिल्यं दर्शयति- शूलिन इति । रहसि हृतांशुका सा करतलद्वयेन शूलिनः नयने सन्निरुध्य तस्य ललाटलोचने पश्यति मोघयत्नविधुरा अभूत् । रहसि विजने हृतम् अंशुकं वसनं यस्याः सा पार्वती। करयोस्तलं करतलं तयोर्द्वयेन । उभाभ्यां करतलाभ्यामित्यर्थः । शूलिनः परमेश्वरस्य नयने उभे नेत्रे सम्य‌ङ्निरुध्य पिधाय अष्टमः सर्गः ४९५ पुनरपि तस्य परमेश्वरस्य ललाटगते लोचने नेत्रे पश्यति सति मोघो निष्फलः प्रयत्नो यस्याः सा तथा । अत एव विधुरा व्याकुला अभूत् । हृतांशुका देवी काञ्चीगुणस्थानचञ्चलानि देवस्य नयनाञ्चलान्यवलोक्य तेषां त्रयाणां मध्ये करद्वयेन नयनद्वयं पिधाय नयनान्तरपिधाने करान्तराभावेन निर्वृतिमलभमाना निष्फलनेत्रद्वयपिधानप्रयासा व्याकुला संबभूवेत्यर्थः । अत्र नीवीविस्रंसनमपि देव्या सोढमिति प्रतीयते। अत एव लज्जाशैथिल्यम् ॥७॥ चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहने। क्लिष्टमन्मथमपि प्रियं प्रभो- दुर्लभप्रतिकृतं वधूरतम्॥८ ॥ प्रकाशिका चुम्बनेष्विति । अत्र बहुवचनेन चुम्बनविशेषाणां क्रमात् सोढत्वं द्योत्यते । अधरदानराहित्यादिना साध्वसशेषानुवृत्तिर्ध्वन्यते । दुर्लभं प्रतिकृतं चुम्बने सीत्कृतमित्यादि यत्र। अत एव क्लिष्टमन्मथमसमग्रेच्छमपि रतं वधूस्वभावसमुचितत्वात् तस्य प्रियमासीदित्यर्थः ॥ ८ ॥ विवरणम् अथ क्रमेण देवकृताः सर्वेऽपि व्यापारा देव्या सोढाः । साध्वसस्य तु देव्याः प्रतिव्यापारनिरोधमात्र एव व्यापार इत्याह-

चुम्बनेष्विति । वधूरतं क्लिष्टमन्मथम् अपि प्रभोः प्रियम् । वध्वा नवोढायाः रतं रतिः । क्लिष्टमन्मथम् । मन्मथशब्देनात्र सम्भोगेच्छा लक्ष्यते, क्लिष्टशब्देन चासम्पूर्णत्वम् । क्लिष्टः असम्पूर्णः मन्मथः सम्भोगेच्छा यस्मिंस्तथाभूतं सदपि । असमग्रेच्छमपीत्यर्थः । प्रभोः परमेश्वरस्य प्रियमिष्टम् । अभूदिति शेषः । वधूरतमसम्पूर्णमनोरथमपि तादृशस्वभावस्य नवोढाजनसमुचितत्वाद् देवस्यातिप्रियमेवाभूदित्यर्थः । क्लिष्टमन्मथत्वमेव हेतुभिर्दर्शयति – चुम्बनेष्वित्यादिना । चुम्बनेषु अधरदानवर्जितम्। अत्र चुम्बनेष्विति बहुवचनेन तत्पूर्वभाविनामालिङ्गनविशेषाणां चुम्बनविशेषाणां च क्रमेण सोढत्वं द्योत्यते । अधरस्य दानेन वर्जितं विरहितम् । प्रियतमेन बहुविधेषु चुम्बनेषु कृतेष्वपि निजाधरार्पणविरहितमित्यर्थः । अनेन साध्वसशेषस्यानुवृत्तिरुक्ता । आलिङ्गनेष्वपि साध्वसशेषानुवृत्तिमाह – अदयोपगूहने सन्नहस्तम् इति । अदये निर्दये उपगूहने आलिङ्गने सन्नौ स्रस्तौ हस्तौ यस्मिंस्तत् तथा। अनुरागातिशयादपदयेष्वालिङ्गनेषु प्रवृत्तेष्वपि निजकरद्वयव्यापाररहितमित्यर्थः । ४९६ कुमारसम्भवे इत्थं विशेषतः प्रतिपाद्य विस्तरभयात् सामान्यतः प्रतिपादयति - दुर्लभप्रतिकृतमपि । दुर्लभानि दुःखेन लभ्यानि प्रतिकृतानि प्रतिव्यापारा यस्मिन् । चुम्बने सीत्कृतं, ताडने ताडनमित्यादिप्रतिव्यापारररहितमित्यर्थः । तथाविधमपि वधूरतं देवस्य हृदयमाजहारेत्यर्थः । तत्र वधूरतत्वं हेतुः ॥ ८ ॥ यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् । यद् रतं च सदयं प्रियस्य तत् पार्वती विषहते स्म नेतरत्॥९॥ इत्थं क्रमाद् वध्वाः प्रयोगप्रकारमाह- प्रकाशिका साध्वसशैथिल्यं प्रदर्श्य तद्विषयचातुष्षष्टिक- यदिति । मुखग्रहणं मुखपानम् । दत्तं पातितम् । अव्रणपदम् अजनितव्रणपदमित्यर्थः । सदयं प्रहरणादिरहितम् । नेतरदिति नायिकाया नात्यन्तमन्मथरसाभिज्ञत्वेन मन्दरागत्वात् । अयमेवार्थो रघुवंशे दृष्टान्तीकृतः [ सदयमित्यादिना] ‘नवपाणिग्रहणां वधूमिव’ (८.७) इति । कामसूत्रकारैरप्युक्तं – ‘कुसुमसुकुमारा हि योषितः। तास्त्वनधिगतोपक्रमैरि’ त्यादिना ॥ ९ ॥ विवरणम् इत्थं क्रमेण वध्वा साध्वसशैथिल्यं प्रतिपाद्य तद्विषयान् कामशास्त्रप्रसिद्धान् चतुषष्टिसङ्ख्यापरिमितान् प्रयोगान् सङ्क्षिप्याह— , यदिति । पार्वती प्रियस्य अक्षताधरं मुखग्रहणं यद्, अव्रणपदं दत्तं नखं च यत्, सदयं रतं च यत् तद् विषहते स्म इतरद् न । प्रियस्य कान्तस्य । क्षतः दन्तपातैर्विदलितः अधरो येन तत् क्षताधरं, तथाविधं न भवतीत्यक्षताधरम्। तादृशं मुखग्रहणं मुखपानं यत् । व्रणानां पदं व्रणपदं पदं स्थानं, तद् यस्य न विद्यते तदव्रणपदम्। दत्तं पातितम् । व्रणपदरहितं नखपातं च यदित्यर्थः । सदयं प्रहरणादिरहितं रतं च यत् तद् विषहते स्म सोढवती । इतरत् क्षताधरं मुखग्रहणं, सव्रणं नखपातं, प्रहरणादिसहितं रतं च न सेहे । नायिकाया अत्यन्तमन्मथरसाभिज्ञत्वाभावेन रागमान्द्यादिति भावः । अत एव वक्ष्यति – ‘ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखीलताम्’ (८.१३) इति । रघुवंशे चायमेवार्थो दृष्टान्तत्वेन दर्शितः-

अष्टमः सर्गः सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ (८.७) ४९७ इति । वात्स्यायनेनाप्युक्तं— ‘कुसुमसुकुमारा हि योषितः । तास्त्वनधिगतोपक्रमैः’ ( ३.२ ) इत्यादिना ॥ ९ ॥ रात्रिवृत्तमनुयोक्तुमुद्यतं सा प्रभातसमये सखीजनम् । नाकरोदपकुतूहलं रहः / ह्रिया शंसितुं च / तु हृदयेन तत्वरे ॥१०॥ प्रकाशिका रात्रिवृत्तमुक्त्वा प्रभातवृत्तं द्वाभ्यां श्लोकाभ्यामाह रात्रीति । अनुयोक्तुं प्रष्टुम् । अपकुतूहलं नाकरोदिति लज्जयोत्तरं न ददावित्यर्थः । शंसितुं च हृदयेन तत्वर इति हर्षेण रहसि ताभ्यः प्रत्येकं निवेदयितुमैच्छदित्यर्थः ॥ १० ॥ विवरणम् इत्थं रात्रिवृत्तमुक्त्वा प्रभातवृत्तं द्वाभ्यां श्लोकाभ्यामुच्यते । तत्रादौ शयनादुत्थाय सखीजनसन्निधिं गताया देव्या वृत्तमाह- रात्रीति । सा प्रभातसमये रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सखीजनम् अपकुतूहलं नाकरोत् । रात्रौ निशि कान्तसन्निधौ सञ्जातं वृत्तं वृत्तान्तम् अनुयोक्तुं प्रष्टुम् उद्यतम् उद्युक्तम्। तद्भावपरिज्ञानादकृतसविस्तरप्रश्नमिति भावः । सखीजनं प्रियसखीसमाजम् अपकुतूहलम् अपगतकुतूहलं नाकरोद् न कृतवती । उत्तरश्रवणे हि कुतूहलनिवृत्तिर्भवति । लज्जयोत्तरं न ददावित्यर्थः । दर्शनानन्तरमेव रात्रिवृत्तं प्रष्टुमुद्युक्ते सखीजने लज्जया वदनमवनमयामासैवेत्यर्थः । इत्थं लज्जाया अनुभावमुक्त्वा प्रियतमानुरागस्यानुभावमाह - रहः शंसितुं हृदयेन तत्वरे च इति । रहः विजने शंसितुं निवेदयितुं हृदयेन मनसा तत्वरे त्वरां कृतवती । हर्षोद्रेकवशाद् रहसि ताभ्यः प्रत्येकं कथयितुं सद्य एव तासां पृथग्भावमैच्छदित्यर्थः ॥ १० ॥ दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । प्रेक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥११॥ ४९८ कुमारसम्भवे प्रकाशिका दर्पण इति । परिभोगशब्देन नखक्षतादि लक्ष्यते । बिम्बं प्रतिबिम्बम् । कानि कान्यपि नयननिमीलनादीनि । बहुवचनेन युगपदनेकविकारोत्पत्तिर्दर्शिता, वीप्सया त्वनेकवारमन्येषां च विकाराणामुत्पत्तिः । अपिशब्दयुक्तश्च किंशब्दोऽनाख्येयत्वं द्योतयति ॥ ११ ॥ दर्पणदर्शनप्रकारमाह- सम्बन्धः । विवरणम् दर्पण इति । दर्पणे परिभोगदर्शिनी सा पृष्ठतः निषेदुषः प्रणयिनः बिम्बम् आत्मनः अनुबिम्बं प्रेक्ष्य लज्जया कानि कान्यपि चकार च । दर्पणे मुकुरे । परिभोगशब्देनात्र परिभोगोत्पन्नानि दन्तक्षतादीनि लक्ष्यन्ते । कार्यकारणभावश्च परिभोगस्वरूपसाक्षात्कारप्रतीतिः फलम्। तेन च तद्दर्शनस्य प्रीतिजनकत्वं व्यज्यते । परिभोगान् द्रष्टुं शीलमस्या इति तथा कुतूहलातिशयात् सर्वदा दर्शनं णिनिप्रत्ययार्थः । पृष्ठतः पृष्ठभागे निषेदुषः स्थितवतः । देवीभावनिरीक्षणकौतुकात् पृष्ठभागे स्थित्वा तत्प्रतिबिम्बमालोकयत इत्यर्थः । अवलोकनकौतुके हेतुमाह — प्रणयिन इति । प्रणयोऽस्यास्तीति प्रणयी । प्रणयः प्रेमा। ‘प्रणयास्त्वमी। विस्रम्भयाच्ञाप्रेमाण’ इत्यमरः । बिम्बं प्रतिबिम्बम् । आत्मनः अनुबिम्बं निजप्रति - बिम्बस्य पश्चात् । ‘अव्ययं विभक्ति - ’ (२.१.६ ) इत्यादिना पश्चादर्थेऽव्ययीभावः । प्रेक्ष्य अवलोक्य लज्जया हेतुभूतया कानि कान्यपि नयननिमीलनवदनविनमनादीनि । अत्र बहुवचनेन युगपदेव बहूनां विकाराणामुत्पत्तिर्दर्शिता । वीप्सया पुनरनेकवारमन्येषां विकाराणामप्युत्पत्तिर्घोत्यते । अपिशब्दयुक्तः किंशब्दो वक्तुमक्यतां प्रतिपादयति । पार्वती दर्पणे सम्भोग - चिह्नावलोकनसमये भावपरीक्षार्थं पृष्ठभागावस्थितस्य प्रियतमस्य प्रतिबिम्बं निजप्रतिबिम्बस्य पश्चादवलोक्य मनसां वचसामप्यगोचरान् विकारान् युगपदेव कृतवतीत्यर्थः ॥ ११ ॥ नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् । भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ १२ ॥ अष्टमः सर्गः ४९९ प्रकाशिका इत्थं नववधूसम्भोगमुपवर्ण्योपसंहरति- नीलकण्ठेति । समाश्वसदित्यनेन महता प्रयत्नेन लब्धस्यापि देवस्यातिगम्भीरप्रकृतित्वेनाविगाह्यत्वात् तद्विषये दुहितुर्वाल्लभ्यस्य संशयितत्वात् तदेकजीविताया मेनायाः शोकस्तत्परिभोगदर्शनपर्यन्तमनुवृत्त इति द्योत्यते । अस्यति क्षिपति ॥ १२ ॥ विवरणम् इत्थमुपवर्णितं देवस्य नववधूविषयं सम्भोगमुपसंहरति- नीलकण्ठेति । जननी नीलकण्ठपरिभुक्तयौवनां तां विलोक्य समाश्वसत् । जननी देव्या माता मेना । अत्र जननीशब्दप्रयोगेण तदेकजीविताया मेनायाः पुत्रीविवाहावसानपर्यन्तमनुरूपभर्तृप्राप्तिसन्देहजनितायाः पीडाया अनुवृत्तिः, विवाहानन्तरं पुनरप्यत्यन्तदुश्चरतपश्चरणादिना कृच्छ्रलब्धस्याप्यनुरूपस्य वल्लभस्यातिगम्भीरप्रकृतित्वेनाविगाह्यहृदयत्वादस्य मे दुहिता वल्लभा वा स्यादवल्लभा वा स्यादिति सन्देहजनितायाः पीडाया अनुवृत्तिरिति जननसमयादारभ्यैतावन्तं कालं पीडापात्रत्वं द्योत्यते। नीलकण्ठेन परमेश्वरेण परिभुक्तम् अनुभूतं यौवनं यस्यास्ताम् । अत्र नीलकण्ठशब्देनाभिरूप्यादिभिरनुरूपत्वमुक्तम् । परिभुक्तयौवनामित्यनेन देवस्य तद्विषया चित्तासक्तिरुक्ता । तां पार्वतीं विलोक्य विशेषेणावलोक्य । नखदन्तक्षतादिपरिभोगचिह्वैर्देवस्याभिलाषावगमपर्यन्तं दृष्ट्वेत्यर्थः । अत एव समाश्वसद् आश्वस्ताभूत् । जननसमयादारभ्य क्रमेण परिवर्धमानं तापमपाचकारेत्यर्थः । उक्तमर्थमर्थान्तरन्यासेन समर्थयते - वधूजनः भर्तृवल्लभतया हि मातुः मानसीं शुचम् अस्यति इति । वधूजनः स्त्रीजनः भर्तुः कान्तस्य वल्लभतया इष्टतया । हिशब्दः प्रसिद्धौ । मातुः जनन्याः मानसीं मनसि भवां शुचं दुःखम् अस्यति परित्यजति। मातरो हि दुहितृजननादारभ्य कथं मे दुहिता भविष्यति कुत्र वा गमिष्यति भर्तुरभिमता वा भविष्यति अनभिमता वा भविष्यतीत्यादिचिन्तया प्रतिक्षणं विजृम्भमाणं दुःखं भर्तृवल्लभत्वावधारणानन्तरमेव परित्यजन्तीति लोकप्रसिद्धमित्यर्थः॥ १२ ॥ वासराणि कतिचित् कथञ्चन स्थाणुना पदमकार्यत प्रिया । ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥१३॥ ५०० कुमारसम्भवे प्रकाशिका इत्थं यथा क्रमं प्रयुक्तस्योपक्रमस्य सिद्धिमाह — । वासराणीति । द्वितीयया तू पदकारणस्यासमाप्तिद्यत्यते । समाप्तौ तू अपवर्गे तृतीयैव स्याद् वासरैरिति । कथञ्चन प्रयत्नेन पदमकार्यत मन्मथरसज्ञान इत्यर्थः । पदशब्देनात्राभिमुख्यं लक्ष्यते, मन्मथशब्देन च सम्भोगः । रतौ दुःखं शीलं यस्याः सा रतिदुःखशीला । रतिदुःखशीलता रतौ वामत्वम् । यदाह – ‘मुग्धा नववयः कामा रतौ वामा मृदुः क्रुधि’ (दशरूपके २.१६) इति । शनैः शनैर्मुमोचेति लज्जाया झटित्यनपगमात्॥१३॥ विवरणम् इत्थं देवेन यथाक्रमं प्रयुक्तस्य नववधूविषयस्योपक्रमस्य सिद्धिमाह - वासराणीति । स्थाणुना प्रिया कतिचिद् वासराणि कथञ्चन पदम् अकार्यत । स्थाणुना परमेश्वरेण प्रिया पार्वती कतिचिद्वासराणि कानिचिद्दिनानि । अत्यन्तसंयोगे द्वितीया। अनेन पदकारणस्य पुनरप्यपरिमाप्तिर्धोत्यते । परिमाप्तौ पुनः ‘अपवर्गे तृतीया (२.३.६) इति वासरैरिति तृतीयैव स्यात् । अत एव वक्ष्यति— ‘मेखलापनयलोलतां गतं हस्तमस्य शिथिलं रुरोध च’ (८.१४) इति । कथञ्चन कृच्छ्रात्। पदशब्देनात्राभिमुख्यं लक्ष्यते । सम्भोगरसज्ञान इत्यर्थात् सिध्यति । अकार्यतेति ‘डुकृञ् करणे’ इत्यस्माद् धातोर्णिचि कर्मणि रूपम् । स्थाणुना प्रिया सम्भोगरसज्ञानं प्रापितेत्यर्थः । अवगतसंम्भोगरसाया देव्याः प्रवृत्तिमाह — ज्ञातमन्मथरसा शनैः शनैः रतिदुःखशीलतां मुमोच इति । ज्ञातमन्मथरसा, मन्मथशब्देन सम्भोगो लक्ष्यते। ज्ञातसम्भोगरसेत्यर्थः । लज्जायाः सद्य एवापगमानुपपत्तेः शनैः शनैरित्युक्तम्। सम्भोगरसावगमक्रमेणेत्यर्थः । रतौ सुरते दुःखं दुष्करं शीलं शीलनं प्रवर्तनं यस्याः सा रतिदुःखशीला तस्या भावस्तत्ता ताम् । सुरते वामस्वभावत्वमिति यावत्। तदुक्तं दशरूपके — ‘मुग्धा नववयः कामा रतौ वामा मृदुः क्रुधि’ इति । मुमोच तत्याज । क्रमेण अनुकूला जातेति भावः ॥ १३ ॥ सस्वजे प्रियमुरोनिपीडितं प्रार्थितं मुखमनेन नाहरत् । मेखलापनयलोलतां गतं हस्तमस्य शिथिलं रुरोध च ॥१४॥ अष्टमः सर्गः प्रकाशिका ५०१ सस्वज इति । उरोनिपीडितमिति क्रियाविशेषणम् । अत्रालिङ्गने स्वयंप्रवृत्तिः मुखग्रहणेऽप्रातिकूल्यं मेखलापनयने किञ्चित् प्रातिकूल्यमित्यनुसन्धेयम् ॥ १४ ॥ विवरणम् क्रमेणानुकूलत्वप्राप्तिमेव प्रकटयति- सस्वज इति । अत्र सेति कर्तृपदमध्याहार्यम् । सा प्रियम् उरोनिपीडितं सस्वजे । प्रियं वल्लभम् । उरोनिपीडितमित्यालिङ्गनक्रियाविशेषणम् । उरो वक्षः निपीडितं नितरां पीडितं यथा भवति तथा सस्वजे आलिलिङ्ग । प्रियतमं तदवसरे स्वयमेव गाढमालिङ्गितवतीत्यर्थः । अत्रालिङ्गने स्वयंप्रवृत्तिरुक्ता । मुखग्रहणे तु न तथेत्याहअनेन प्रार्थितं मुखं न अहरद् इति । अनेन प्रार्थितं पातुमभ्यर्थितं मुखं वदनं नाहरद् न हृतवती । मुखग्रहणे पूर्ववत् प्रातिकूल्यं न चकारेत्यर्थः । नीवीविस्रंसने पुनः किञ्चित् प्रातिकूल्यं जातमित्याह - अस्य मेखलापनयलोलतां गतं हस्तं शिथिलं रुरोध च इति । अस्य प्रियस्य मेखलायाः काञ्चयाः अपनये नीवीबन्धनप्रदेशात् किञ्चिदपनयने लोलतां चलत्वं गतं प्राप्तं हस्तम् । शिथिलमिति रोधनक्रिया-विशेषणम् । शिथिलं मन्दं यथा भवति तथा रुरोध च । नीवीविस्रंसे किमपि प्रातिकूल्यं चकारेत्यर्थः । अत्रालिङ्गने स्वयंप्रवृत्तत्वाद् मुखग्रहणे प्रातिकूल्याभावाद् नीवीविस्रंसे किञ्चित् प्रातिकूल्याच्च लज्जाया गलितप्रायत्वं द्योत्यते । तत्र च सम्भोगरसावगमो हेतुः ॥ १४॥ भावसूचितमदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम् । कैश्चिदेव दिवसैस्तदा तयोः प्रेम रूढमितरेतराश्रयम्॥१५॥ प्रकाशिका भावेति । भावसूचितम् अभिप्रायविशेषैर्व्यञ्जितं, लज्जापगमात् । अदृष्टविप्रियम्, अत्यन्तानुकूलवृत्तित्वात् । चाटुमद्, विस्रम्भप्रकर्षात् । एते च प्रेमप्रकर्षहेतवः । क्षणवियोगकातरमिति प्रकर्षप्रकारः । तदा विस्रम्भणकाले। रूढं प्रकर्षवदभूत् । इतरेतराश्रयं तयोः प्रेम कैश्चिद् दिवसैरेव, न तु पक्षैर्मासैर्वा तदेत्थं प्ररूढमासीदित्यर्थः ॥ १५ ॥ ५०२ कुमारसम्भवे विवरणम् किं बहुना, तयोः परस्परस्नेहः प्रकर्षपदवीमारुरोहेत्याह- भावेति । इतरेतराश्रयं तयोः प्रेम कैश्चिद् दिवसैरेव तदा रूढम् । इतरेतरं परस्परमाश्रयो यस्य तत् तथा । देवीप्रेम्णो देव एवाश्रयः, देवप्रेम्णस्तु देवीत्यन्योन्यावलम्बनमित्यर्थः । तयोः पार्वतीपरमेश्वरयोः प्रेम स्नेहः कैश्चिद् दिवसैः अल्पैरहोभिरेव । न तु कैश्चिन्मासैः, नापि कैश्चित् पक्षैः, किन्तु दिवसैरेवेत्येवशब्दार्थः । तदा विस्रम्भोपपादनसमये रूढं प्ररूढम् । आसीदिति शेषः । गुणश्रवणपरस्परदर्शनादिषु तयोर्यः परस्परस्नेहः सञ्जातः, स तदानीं प्रकर्षपदमारुरोहेत्यर्थः । प्रेम्णः प्रकर्षप्राप्तौ हेतुं विशेषणत्रयेण दर्शयति – भावेत्यादिना । भावसूचितं भावैः अभिलाषद्योतकैः कटाक्षविक्षेपादिभिः सूचितं व्यञ्जितम् । लज्जापगमात् परस्परानुरागद्योतकैर्भावविशेषैः प्रकाशितमित्यर्थः । अभिलाषगूहने विस्रम्भाभावादभिलाषस्यापि शनैः शनैरपगमप्रसङ्गादेवमुक्तम्। तथा अदृष्टविप्रियम् । अदृष्टमनुपलब्धं विप्रियमप्रियं यस्मिंस्तत् तथा । अत्यन्तानुकूलवृत्तित्वादप्रियलेशेनापि विरहितमित्यर्थः । तथा चाटुमत् चाटुः प्रियोक्तिरस्त्यस्मिन्निति चाटुमत् । विस्रम्भातिशयवशात् प्रियोक्तिशतोपबृंहितमित्यर्थः । प्रेम्णः प्रकर्षप्रकारमाहक्षणवियोगकातरम् इति । क्षणवियोगे क्षणकालभवे वियोगेऽपि कातरं भीतम् । एतादृशस्य संयोगस्य कदाचिदप्यन्यथाभावो मा भूदित्यनिशं प्रार्थयमानमित्यर्थः । ‘अपायदर्शी स्नेह’ इति न्यायादिति भावः ॥ १५ ॥ तं यथात्मसदृशं वरं वधू- रन्वरज्यत वरस्तथैव ताम् । सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकनिर्वृतः॥१६॥ प्रकाशिका अथ तस्य तयोः प्रेम्णः परस्परमन्यूनत्वमाह - । तमिति । अनुर्लक्षणे कर्मप्रवचनीयः । नापगच्छतीत्यनपगा । मुखशब्दो लाक्षणिकः प्रतिवस्तुतामुत्तम्भयति । वरस्यानुरञ्जनकौशलस्य सिद्धत्वाद् वध्वनुराग उपमानतयोक्तः ॥ १६ ॥ विवरणम् इत्थं परस्परप्रतिरूढस्य तयोः प्रेम्णः परस्परमन्यूनत्वमाहMer अष्टमः सर्गः ५०३ तमिति । वधूः तं वरम् अनु यथा वरः ताम् अनु तथा एव अरज्यत । वधूः नवोढा तं परमेश्वरं वरं भर्तारम् । अनुर्लक्षणे कर्मप्रवचनीयः । वरं लक्षीकृत्येत्यर्थः । यथा यादृशेन प्रकारेण अरज्यत, वरो भर्ता तां पार्वती लक्षीकृत्यापि तादृशेन प्रकारेणैवारज्यत रक्तोऽभूत् । तत्र हेतुः - आत्मसदृशमिति । आत्मनः सदृशम् आभिजात्याभिरूप्यादिगुणैः समानम् । वध्वा आत्मसदृशीत्वमनेनैव सिध्यतीति पृथगनुपादानम्। सदृक्शब्दस्य द्वितीयान्तो वायं शब्दः । अत्रोभयोरपि परस्परानुरागमात्रस्य वक्तव्यत्वेऽपि वध्वनुरागस्योपमानत्वेनोपादानं तस्यैव प्राधान्यं द्योतयितुम् । वरस्यानुरागो ह्यनुरञ्जनप्रकारेण सिद्धः । देवे देव्या अनुरञ्जनोद्युक्ते सति देवी तथा नामारज्यत, यथा वध्वनुरागो वरानुरागस्य दृष्टान्तत्वमुपगच्छेदिति भावः ॥ अत्र प्रतिवस्तूपमामाह - सागरादित्यादिना । तत्रादौ वध्वनुरागस्य प्रतिवस्तूपमामाह — जाह्नवी सागराद् अनपगा हि इति । जाह्नवी गङ्गा सागरात् समुद्राद् न अपगच्छतीत्यनपगा । हिशब्दः प्रसिद्धौ । नहि जाह्नवी सागरमपहायान्यत्र कुत्रापि गच्छतीत्यर्थः । वरानुरागस्य प्रतिवस्तूपमामाह - सः अपि तन्मुखरसैकनिर्वृतः इति । सः सागरः तस्या मुखे यो रसः जलं तेनैकेनैव निर्वृतः सुखितः । अत्र मुखशब्दो लक्षणयाग्रभागवाची प्रतिवस्तुतां प्रकटयति, वदनेऽपि श्लिष्टत्वात् ॥ १६ ॥ शिष्यतां निधुवनोपदेशिनः । शङ्करस्य रहसि प्रपन्नया । शिक्षितं युवतिनैपुणं तया यत् तदेव गुरुदक्षिणीकृतम्॥१७॥ प्रकाशिका शिष्यतामिति। रहसि सम्प्रयोगे । युवतिनैपुणं युवतिकर्मसु कौशलम् । रहसि यद् युवतिनैपुणं शिक्षितमित्यन्वयः । अत्र पूर्वार्धे वरस्यानुरञ्जने कौशलमनुवादद्वारेण दर्शितम्, उत्तरार्धे विधेयत्वेन वध्वा इत्यवसेयम् ॥ १७ ॥ विवरणम् देवस्य प्रियानुरञ्जनप्रकरणमुपसंहरति- शिष्यतामिति । तया निधुवनोपदेशिनः शङ्करस्य शिष्यतां प्रपन्नया रहसि यद् युवतिनैपुणं शिक्षितं, तद् एव गुरुदक्षिणीकृतम्। तया पार्वत्या निधुवनं रतम् उपदेष्टुं शीलमस्येति स तथा तस्य शङ्करस्य शिष्यत्वं प्राप्तया सत्या रहसि विजने । युवतयः स्त्रियः तदुचितं नैपुणं वैदग्ध्यं युवतिनैपुणम् । शिक्षितमभ्यस्तम् । तदेव गुरुदक्षिणीकृतं गुरुदक्षिणतां प्रापितम् । पार्वती हरशिक्षितेनैव सुरतवैदग्ध्येन हरं५०४ कुमारसम्भवे परितोषयामासेत्यर्थः। अत्र पूर्वार्धे नायकस्य नायिकानुरञ्जनकुशलत्वमनुवादद्वारेणोक्तम्। उत्तरार्धे तु नायिकाया नायकानुरञ्जनवैदग्ध्यं विधिमुखेनैवोपात्तमिति विभागः। नायकानुरञ्जनकौशलस्य पूर्वं प्रपञ्चितत्वमनुवादद्वारेण कथने हेतुरित्यवसेयम्॥१७॥ दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा । शीतलेन निरवापयत क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ १८ ॥ प्रकाशिका दष्टेति। दष्टमुक्तमित्यनेनाक्षताधरमुखग्रहणस्य विपर्यय उक्तः । अधरोष्ठमिति उत्तरोष्ठे दशनव्यापारनिषेधात् । वेदनेत्यादिना नववधूत्वाद् दशनव्यापारस्य नातिसोढत्वमुक्तम्। मौलिचन्द्रशकलेन निर्वापणं जातविस्रम्भतां ध्वनयति ॥ १८ ॥ विवरणम् अथ द्वाभ्यां श्लोकाभ्यां देव्या देवविषये प्ररूढो विस्रम्भातिशयः प्रदर्श्यते । तत्रादौ देव्याः स्ववैक्लब्यशमनाय स्वयमेव देवविषयां प्रवृत्तिमुक्त्वा विस्रम्भातिशयं दर्शयति- दष्टेति । अम्बिका दष्टमुक्तम् अधरोष्ठं शूलिनः मौलिचन्द्रशकलेन क्षणं निरवापयत्। अम्बिका पार्वती । पूर्वं दष्टं पश्चान्मुक्तं चेति दष्टमुक्तम् । अनेन पूर्वोक्तस्य ‘यन्मुखग्रहणमक्षताधरम्’ (८.९) इत्यादेर्विपर्यय उक्तः । अधरञ्चेममोष्ठं चेत्यधरोष्ठम्। उत्तरोष्ठे दशनव्यापारस्य कामशास्त्रे निषिद्धत्वादधरपदोपादानम् । शूलिनः परमेश्वरस्य मौलौ यच्चन्द्रशकलं चन्द्रकला तेन क्षणं क्षणकालं निरवापयद् निर्वापितवती। अपनीतवेदनमकरोदित्यर्थः । वेदनायां अनुभावमाह – वेदनाविधुतहस्तपल्लवेति। वेदनया पीडया विधुतौ कम्पितौ हस्तपल्लवौ पल्लवाविव हस्तौ यया सा तथा। अनेन नवोढात्वाद् दशनव्यपाराणामनतिसोढत्वमुक्तम् । मौलिचन्द्रशकलस्य निर्वापणसामर्थ्यमाह-शीतलेनेति ॥ १८ ॥ चुम्बनादलकचूर्णरूषितं शङ्करोऽपि नयनं ललाटजम्। उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥१९॥ अष्टमः सर्गः प्रकाशिका ५०५ चुम्बनादिति । चुम्बनादधरचुम्बनसमय इत्यर्थः । ललाटजमिति । तस्यालक सन्निकर्षसम्भवात्। शङ्करोपीऽति । न केवलमम्बिका शूलिनो मौलिचन्द्रशकलेनाधरं निर्वापितवती, सोऽपि तन्मुखमरुता ललाटाक्षीत्यर्थः ॥ १९ ॥ विवरणम् देवगतवैक्लब्यशमनायापि देव्या एव प्रवृत्तिमुक्त्वा ततो विस्रम्भातिशयमाह- चुम्बनादिति । शङ्करः अपि चुम्बनाद् अलकचूर्णरूषितं ललाटजं नयनं पार्वतीवदनगन्धवाहिने ददौ । शङ्करोऽपि । न केवलं देवी दष्टमुक्तमधरं देवैस्य मौलिचन्द्रशकलेन निर्वापितवती, अपितु शङ्करोऽपि देवीमुखानिलेन ललाटलोचनं निर्वापितवानित्यपिशब्दार्थः । चुम्बनात् पार्वतीकृताधरचुम्बनाद् अलके यच्चूर्ण गन्धसंस्कारचूर्णं तेन रूषितं सम्पृक्तं ललाटजं ललाटभवं नयनं नेत्रम् । अधरचुम्बनसमये ललाटजस्यैव लोचनस्यालकसन्निकर्षसम्भवाल्ललाटजमिति विशेषणम् । गन्धं वोढुं शीलमस्येति गन्धवाही वायुः । पार्वत्या वदने मुखे यो गन्धवाही तस्मै दत्तवान् । देव्या सरभसविहितादधरचुम्बनात् तत्समये ललाटघटितानामलकानां गन्धसंस्कारचूर्णैराकुलीकृतं ललाटलोचनं परमेश्वरः पार्वतीवदनमारुतेनैव विगतवेदनमकरोदित्यर्थः । अत्र देव्याः परमेश्वरस्य ललाटलोचननिर्वापणप्रवृत्तिर्विस्रम्भातिशयं ध्वनयति । देवस्य निर्वापणनियोगः परिज्ञातविस्रम्भतां द्योतयति । पार्वतीवदनमारुतेन लोचननिर्वापणे कृते सति फलान्तरमप्याह—उच्छ्वसत्कमलगन्धये इति । उच्छ्वसतः विकसतः कमलस्य गन्ध इव गन्धो यस्य तस्मै । विकसितचरे हि कमले मधुलवानां भृङ्गमारुतादिभिरपहतत्वाद् गन्धोऽपि मान्द्यमुपेयादित्युच्छ्वसत्पदप्रयोगः । देव्याः पद्मिनीत्वात् स्वाभाविकपद्मगन्धबन्धुरायेत्यर्थः । ‘उपमानाच्च’ (५.४.१३७) इति गन्धशब्दस्येकारः समासान्तः ॥ ११ ॥ एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः । शैलराजभवने सहोमया मासमात्रमवसद् वृषध्वजः ॥२०॥ प्रकाशिका उपसंहरति- एवमिति । इन्द्रियसुखमिन्द्रियानुकूलं वर्त्म सम्भोगः, तस्य सेवनात् । ५०६ कुमारसम्भवे अनुगृहीतमन्मथ इत्यनेन ‘तस्यानुमेने’ (७.९२) इत्यादिनोक्तस्यात्मनि कामव्यापाराभ्यनुज्ञानस्य निर्वहणं दर्शितम् । मासमात्रमिति एवं भुञ्जानो नवोढां मासेन वशीकुर्यादिति गोनर्दीयवचनात् । शैलराजभवन इति सम्पूर्णसकलसमृद्धिकत्वं ध्वनितम्॥ २० ॥ विवरणम् इत्थं देव्याः प्ररूढविस्रम्भत्वमुपपाद्योपसंहरति- एवमिति । वृषध्वजः शैलराजभवने उमया सह मासमात्रम् अवसत् । वृषध्वजः परमेश्वरः शैलराजस्य हिमवतः भवने गृहे । अनेन सम्पूर्णसकलसमृद्धित्वं ध्वनितम्। उमया पार्वत्या सह । मासमात्रमित्यन्तसंयोगे द्वितीया । ’ एवं भुञ्जानो नवोढां मासेन वशीकुर्यादि ति गोनर्दीयवचनान्मासपदप्रयोगः । अवसद् उवास । भगवान् परमेश्वरः सकलसम्पत्समृद्धे हिमवत्पुर एव निवसन् नवोढां पार्वतीं मासमात्रेणैवात्मानुकूलां वितेन इत्यर्थः ॥ ‘तस्यानुमेने भगवानि’ त्यादिना यः कामदेवशरव्यापारः स्वस्मिन्ननूदितः, तस्यापि निर्वहणं दर्शयतिइन्द्रियसुखस्य वर्त्मनः एवं सेवनाद् अनुगृहीतमन्मथः इति । इन्द्रियाणां सुखस्य सुखकरस्य वर्त्मनः मार्गस्य । सम्भोगस्येत्यर्थः । एवंशब्देन पूर्वोक्तमवाङ्मनसगोचरं सेवनं परामृशति । सेवनाद्धेतोरनुगृहीतः कृतानुग्रहो मन्मथो येन स तथा । यथा मन्मथस्यायमस्मदनुकूल एवेदानीं सञ्जात इति मतिरुत्पद्येत तथा तदनुकूलोऽभूदित्यर्थः ॥ २० ॥ सोऽनुमान्य हिमवन्तमात्मभू- रात्मजाविरहदुःखपीडितम् । तत्र तत्र विजहार संपत- नप्रमेयगतिना ककुद्मता ॥२१॥ प्रकाशिका इत्थं रागसरणिमवतीर्णस्य देवस्य देशकालादिलक्षणामुद्दीपनसम्पदं नवनवां वर्णयितुमुपक्रमते- स इति । अनुमान्याभ्युपगमय्य । आत्मनो भवतीत्यात्मभूः । कारणान्तरनिरपेक्षमस्य भवनमस्तीत्यर्थः । ततश्च भवनेऽपि निरेपक्षस्य परं स्वातन्त्र्यं ध्वन्यते । तच्च तत्र तत्र विहरणे हिमवदनिवार्यत्वे च हेतुः । आत्मजाविरहदुःखेन भाविनाप्युत्प्रेक्ष्यमाणेन। पीडितमित्यनेन तदनुमाननस्य दुष्करत्वं द्योत्यते । तत्र तत्रेति वैचित्र्यस्य रसावहत्वात् । अप्रमेयगतिना मनोवायुप्रभृतिभिरप्युपमातुमशक्येन ककुद्मता सम्पतन् न त्वैश्वर्यविशेषेणेति लौकिकव्यापारानुकरणपरत्वमुक्तम्॥ २१ ॥ अष्टमः सर्गः विवरणम् ५०७ इत्थं कामुकसरणिमवतीर्णस्य भगवतः पार्वतीसहचरस्य तत्तद्देशकालविशेषरूपामुद्दीपनसम्पदं वर्णयितुमारभते- स इति । सः हिमवन्तम् अनुमान्य ककुद्मता तत्र तत्र सम्पतन् विजहार सः वृषध्वजः हिमवन्तं श्वशुरभूतं गिरिराजम् अनुमान्य अनुमतिं कारयित्वा । ककुद्मता वृषेण, न तु चिन्तितदेशप्राप्तिकारिणा निजैश्वर्यमात्रेण । अनेन तत्तद्देशविशेषदर्शनकुतूहलिन्या देव्याश्चित्तानुवर्तनमुखेन लौकिकव्यापारानुसरणं देवस्योक्तम् । तत्र तत्र तेषु तेषु रमणीयेषु देशेषु सम्पतन् गच्छन् विजहार क्रीडामातेने । देवस्य तत्र तत्र विहरणे तनयावियोगपीडितेन हिमवताप्यनिवार्यगमनत्वे च हेतुमाहआत्मभूरिति । आत्मन एव भवतीत्यात्मभूः । स्वशरीरपरिग्रहेऽपि परानपेक्ष इत्यर्थः । अनेन देवस्य स्वातन्त्र्यं ध्वन्यते । हिमवदननुमाननस्यात्यन्तदुष्करत्वं दर्शयतिआत्मजाविरहदुःखपीडितमिति । आज्मजायाः पुत्र्याः विरहेऽनन्तरक्षणे भावितया सम्भाव्यमाने वियोगे यद् दुःखं तेन पीडितं परवशम्। आत्मजायाः पितृमातृवियोगदुःखं तु देववियोगकातरतया शान्तमित्यनेवैव ध्वन्यते। ककुद्मतो मनोनुकूलगमनत्वमाह — अप्रमेयगतिनेति । अप्रमेया मारुतमनः प्रभृतिभिरप्युपमातुमशक्यत्वादपरिच्छेद्या गतिः गमनं यस्य तेन ॥ २१ ॥

मेरुमेत्य मरुदाशुवाहनः पार्वतीस्तनपुरस्कृतः कृती । हेमपल्लवविभङ्गसंस्तरा- नन्वभूत् सुरतमर्दनक्षमान्॥२२॥ नानादेशविहरणप्रकारं वर्णयति- प्रकाशिका मेरुमिति । मरुदिवाशुगति वाहनं यस्य । तत्कालविशेषणं चैतत् । वाहनेऽभिमुखस्थापितायाः पार्वत्याः स्तनाभ्यां पुरस्कृतः । अनेन लेशतोऽपि सम्भोगविच्छेदासहत्वं ध्वनितम्। कृती तत एव धन्यमानी । हेमेति हेमपल्लवशकलकल्पितशयनानि ॥ २२ । विवरणम् ‘तत्र तत्र विजहार सम्पतन्’ (८.२५) इति, यदुक्तं, तदेव विस्तरतः प्रतिपादयति षड्भिः श्लोकैः । तत्रादौ महामेरुशिखरेषु सुरतमाह- ५०८ कुमारसम्भवे मेरुमिति । अत्र स इति कर्तृपदमध्याहार्यम् । सः मेरुम् एत्य हेमपल्लवविभङ्गसंस्तरान् अन्वभूत् । मेरुं महामेरुम् एत्य प्राप्य । विभङ्गशब्दो लक्षणया भग्नद्रव्यवाची। तत्कालावलूनत्वान्मनोहरत्वप्रतीतिः फलम् । हेममयैस्तत्कालावलूनैः पल्लवैर्विरचितान् संस्तरान् शयनीयानि अन्वभूद् अनुभूतवान् । हेममयैस्तत्कालावलूनैः कल्पवृक्षपल्लवैः कृतं शयनीयमसेवतेत्यर्थः । दूरतरमेरुशिखरप्राप्तौ भगवतः कः प्रयास इत्याहमरुदाशुवाहन इति । अत्राशुशब्दस्याशुगतीत्यर्थः। मरुदिवाशुगति वाहनं यस्य स तथा । देवस्य सम्भोगविच्छेदे क्षणमात्रमप्यसहनत्वं दर्शयति – पार्वतीस्तनपुरस्कृत इति । पार्वत्याः स्तनाभ्यां पुरस्कृतः अग्रभागे कृतः । वाहनोपरि स्वाभिमुखमेव स्थापितायाः पार्वत्याः स्तनाभ्यामग्रतः कृत इत्यर्थः । अनेनाभिमुखावस्थानमुक्तम्। अथवा पुरस्कृतः पूजितः । आलिङ्गित इत्यर्थः । ‘पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृत’ इत्यमरः । अनेन गमनसमयेऽपि सम्भोगानामविच्छेदो ध्वन्यते । अत एव कृती धन्योऽहमित्यभिमानीत्यर्थः । हेमपल्लवसंस्तराणामितरसंस्तरेभ्यो व्यतिरेकमाहसुरतमर्दनक्षमानिति । सुरतेषु यन्मर्दनं चरणाद्यभिहननं तत्र क्षमान् शक्तान्। इतराणि हि शयनीयानि बहुविधकरणभेदसहितेषु सुरतेषु चरणादिव्यापारासहत्वेन जीर्णतामुपगच्छेयुरिति भावः ॥ २२ ॥ पद्मनाभवलयाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः । मन्दरस्य कटकेषु चाभवत् स प्रियावदनपद्मषट्पदः ॥ २३ ॥ प्रकाशिका पद्मेति । इदं विशेषणं ‘महतां चोपलक्षणमि’ त्युदात्तोऽलङ्कारः । नवाः प्रथमोद्गताः अमृतविप्रुषः प्राप्तवत्स्वित्यनेन तत्रस्थानां जङ्गमस्थावराणां धन्यत्वं नित्यसुभगत्वं च ध्वनितम्॥ २३ ॥ मन्दराद्रौ सुरतमाह- विवरणम् पद्मेति । सः मन्दरस्य कटकेषु च प्रियावदनपद्मषट्पदः अभवत् । मन्दरस्य मन्दराचलस्य कटकेषु प्रस्थेषु । ‘कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियामित्यमरः । चकारः पूर्वोक्तसुमेरुसमुच्चयार्थः । प्रियायाः वल्लभायाः प्राधान्यात् अष्टमः सर्गः ५०९ वदन एव पद्मे पङ्कजे षट्पदः भ्रमरोऽभवत्। पङ्कजमकरन्दमिवेन्दिन्दिरश्चन्द्रशेखरः प्रियावदनाधरामृतमास्वादितवानित्यर्थः । मन्दरकटकानामखिलेन्द्रियप्रीतिकरत्वप्रतिपादनमुखेनोद्दीपनत्वं विशेषणद्वयेन प्रदर्श्यते । तत्रादाविन्द्रियाणां मध्ये नेत्रस्यैव तत्प्रीतिकरत्वमाह—पद्मनाभवलयाङ्किताश्मस्विति । पद्मनाभस्य श्रीनारायणस्य वलयैः अङ्गदैः अङ्किताः लाञ्छिताः अश्मानः दृषदो येषु तेषु । ‘पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषदिति सिंहः । पुरा किल जलनिधिमथने विषण्णेषु सुरासुरवृन्देषु नारायणः स्वयमेव कराभ्यां मन्दराचलं गृहीत्वा ममन्थेति पुराणेषु श्रूयते । तदा तत्करगतानां हेमवलयानां शिलाभिः सह सङ्घर्षवशात् सम्प्राप्तहेमलेखसकलशिलातलेष्वित्यर्थः । इतरेन्द्रियप्रीतिकरत्वमाह – नवाः अमृतविप्रुषः प्राप्तवत्स्विति । नवाः प्रथमोद्गताः । मथनदण्डे हि प्रथमोद्गतं नवनीतादिकं सक्तं भवति । अनेन तद्गतानाममृतविप्रुषामितरापेक्षया स्वादिष्ठत्वमुक्तम् । अमृतस्य हि त्वगिन्द्रियप्रीतिकरत्वमुक्तं रघुवंशे दृष्टान्तत्वेन – ‘निषिञ्चन्तमिवामृतं त्वचि ’ (३.२६) इति । सर्वेन्द्रियप्रीतिकरत्वमेवमेव द्रष्टव्यम् । अमृतानां विप्रुषो बिन्दून् । ‘पृषन्ति बिन्दुपृषतौ पुमांसौ विप्रुषः स्त्रिय’ इत्यमरः । प्राप्तवत्सु अधिगतेषु । अनेन विशेषणेन तत्रत्यानां स्थावराणां जङ्गमानां च धन्यत्वं नित्यसुभगत्वं च ध्वन्यते । अत्र सम्पतत्स्वप्यमृतबिन्दुषु प्रियावदनपद्ममकरन्दास्वादनप्रतिपादनेन देवस्यामृतबिन्दुष्वनादरोऽपि ध्वनितः । अत्र पद्मनाभेत्यादिना भगवतः श्रीनारायणस्य वर्ण्यमानमन्दराचलोत्कर्षप्रतिपादनार्थमङ्गत्वेन प्रतिपादनादुदात्तमलङ्कारः । ‘उदात्तं वस्तुनः सम्पन्महतां चोपलक्षणमिति [ काव्यप्रकाशे] । उपलक्षणमङ्गभावः ॥ २३ ॥ वारणध्वनितभीतया तया कण्ठसक्तमृदुबाहुबन्धनः । एकपिङ्गलगिरौ जगद्गुरु- निर्विवेश विशदाः शशिप्रभाः ॥ २४ ॥ प्रकाशिका DIE वारणेति। रावणेति केचित् पठन्ति । मृद्विति बाहुविशेषणम्। एकपिङ्गलो वैश्रवणः । जगद्गुरुरित्यनेन सर्वत्राप्रतिहतेच्छत्वं द्योत्यते । विशदा ज्योत्स्नाः, तासां च कैलाससम्बन्धादतिविशदत्वं ध्वन्यते ॥ २४ ॥ कैलासशिखरेषु सुरतमाह- विवरणम् वारणेति । जगद्गुरुः एकपिङ्गलगिरौ विशदाः शशिप्रभाः निर्विवेश जगतां ५१० कुमारसम्भवे गुरुर्नियन्ता परमेश्वरः । अनेन तदीप्सितानां सर्वत्राप्यप्रतिहतत्वं द्योत्यते । एकपिङ्ग एवैकपिङ्गलः वैश्रवणः । किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः । यक्षैकपिङ्गलबिलः श्रीदः पुण्यजनेश्वरः ॥ इत्यमरः । तस्य गिरौ कैलासे । विशदाः निर्मलाः । अनेन मेघमुक्तत्वं पूर्वपक्षसम्बन्धाद् रजनीमुखोपभोग्यत्वं रजतमयकैलासशिखरसम्बद्धत्वादतिविशदत्वं च द्योत्यते। शशिनश्चन्द्रस्य प्रभाः ज्योत्स्नाः निर्विवेश अनुबभूव । तत्र रममाणस्य देवस्य सुखान्तरमपि जातमित्याह - वारणध्वनितभीतया तया कण्ठसक्तमृदुबाहुबन्धनः इति । वारणानां गजानां ध्वनिताच्छब्दाद् भीतया तया पार्वत्या कण्ठे सक्तं सज्जितं मृद्वोः कोमलयोर्बाह्वोर्बन्धनमालिङ्गनं यस्य स तथा । तस्य देशस्य गजेन्द्रबहुलत्वान्मध्ये मध्ये गजबृंहितभीतया देव्या गाढगाढमालिङ्गित इत्यर्थः । कामिनीनां सभयालिङ्गनस्य कामुकानां श्लाघ्यत्वप्रसिद्धेरेवमुक्तम् । यथाहुः- कोपप्रशमने भीतौ वियोगे पुनरागमे । सम्भोगे च समाश्लेषो विशेषेण सुखावहः ॥ इति। रावणध्वनितभीतयेति केचित् पठन्ति । तन्मते कैलासोद्धरणोद्युक्तस्य रावणस्य ध्वनिताद् भीतयेत्यर्थः ॥ २४ ॥ तस्य जातु मलयस्थलीरते- धूतचन्दनलतः प्रियाक्लमम् । आचचाम सलवङ्गकेसर- चाटुकार इव दक्षिणानिलः ॥२५॥ प्रकाशिका तस्येति । जातु कदाचित् । धूतेति कम्पितचन्दनशाखः । प्रियायाः क्लमं रतिश्रमम्। चाटुकारः प्रियवादी, वन्दीत्यर्थः । वन्दिपक्षे तु धूता आक्षिप्ता चन्दनलता येन । देवि! त्वत्सादृश्ये चन्दनलतापि दूरस्थेत्याक्षेपः । सलवङ्गकेसरः पुष्पाञ्जलिप्रक्षेपार्थं गृहीतलवङ्गकेसरः ॥ २५ ॥ मलयाचले सुरतमाह - विवरणम् तस्येति । दक्षिणानिलः जातु मलयस्थलीरतेः तस्य प्रियाश्रमम् आचचाम । अष्टमः सर्गः 1 ५११ दक्षिणानिलो मलयानिलः । दर्दुरानिल इति पाठे दर्दुरध्वनियुक्तो वायुरित्यर्थः । जातु कदाचित् । ‘कदाचिज्जात्वि’ त्यमरः । मलयो मलयाचलः तस्य स्थल्यां प्रदेशे रतिः सुरतं यस्य तस्य परमेश्वरस्य प्रियायाः श्रमं पुरुषायितादिजनितं शरीरसादम् । प्रियाक्लममिति वा पाठः । आचचाम निश्शेषमपाचकारेत्यर्थः । अत्रोपमामाहचाटुकारः इव इति । चाटुः श्लाघावचनम् । ‘अस्त्री चाटुश्चटुः श्लाघे ‘त्यमरः । चाटु करोतीति चाटुकारः प्रियवादी वन्दी । यथा प्रभातसमये वन्दी स्तुतिवचनैः परिश्रममपाकरोति, तथा दर्दुरानिलोऽपीत्यर्थः । अत्र वचनप्रतिवस्तुतया दर्दुरपदोपादानम्। उपमानोपमेययोः साधारणं धर्ममाह — धूतेत्यादिना विशेषणद्वयेन । धूतचन्दनलतः धूताः कम्पिताश्चन्दनलताः येन । अनेनानिलस्य सौरभ्यातिशय उक्तः । वन्दिपक्षे तु धूताः आक्षिप्ताश्चन्दनलता येनेति योजनीयम्। हे देवि ! स्वाभाविकसौरभ्यशालित्वेन यद्यपि भवत्याश्चन्दनलतायाश्च सादृश्यं प्रतीयते, तथापि प्रकृतिकठिना चन्दनलता त्वत्सादृश्यविषये दूरादवस्थितैवेत्याक्षेपप्रकारः । तथा सलवङ्गकेसरः लवङ्गानां वृक्षविशेषाणां केशरैः कुसुमकिञ्जल्कैः सहितः । ‘किञ्जल्कः केशरोऽस्त्रियामि’त्यमरः । वन्दिपक्षे पुष्पाञ्जलिप्रक्षेपार्थं करगृहीतलक्ङ्गकेसर इत्यर्थः॥२५॥ हेमतामरसताडितप्रिया

तत्कराम्बुविनिमीलितेक्षणा । खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥२६॥ प्रकाशिका हेमेति । हेमपद्मेन ताडितः प्रियो यया । तत्करेति भर्तृकरोत्पीडिताम्बुनिमीलितलोचना । खे तरङ्गिणीं मन्दाकिनीम् । नाभिदघ्ने पयसि विहरन्त्या देव्या मेखलास्थाने मीनेषु सञ्चरत्सु मेखलाद्वैगुण्यं प्रतिभातीति मीनेति विशेषणम् ॥ २६ ॥ विवरणम् इत्थं वनक्रीडाप्रकारमुक्त्वा जलक्रीडाप्रकारमाह- हेमेति । उमा खे तरङ्गिणीं व्यगाहत । उमा पार्वती खे आकाशे वर्तमानां तरङ्गिणीं नदीम् । आकाशगङ्गामित्यर्थः । व्यगाहत विगाहते स्म । पार्वती परमेश्वरेण सह जलक्रीडार्थं मन्दाकिनीमगाहतेत्यर्थः । जलक्रीडाप्रकारं सङ्क्षिप्याहहेमेत्यादिना विशेषणद्वयेन। हेमतामरसताडितप्रिया हेममयेन तामरसेन पद्मेन ताडितः अभिहतः प्रियो भर्ता यया सा तथा । ताडनसमये प्रियस्य प्रवृत्ति ५१२ कुमारसम्भवे देवीविशेषणद्वारेणाह - तत्कराम्बुविनिमीलितेक्षणा इति । तत्करे प्रियकरे यदम्बु जलं तेन हेतुना विनिमीलिते विशेषेण मीलिते अक्षिणी यया सा तथा । भर्तृकरोत्पीडितजलपतनसमये निमीलितलोचनेत्यर्थः । जलविहारसमये देव्याः शोभान्तरं च जातमित्याह — मीनपङ्क्तिपुनरुक्तमेखला इति । मीनानां मत्स्यानां पङ्क्त्या आवल्या कर्तृभूतया पुनरुक्ता अर्थाद् द्वैरूप्यमापादिता मेखला काञ्ची यस्याः सा तथा । नाभिदघ्ने पयसि परस्परं ताडनजलप्रक्षेपादिभिर्विहरन्त्या देव्या मेखलापदे मीनजालेषु परितः सञ्चरत्सु मेखलाद्वैरूप्यं प्रतीतमासीदित्यर्थः ॥ २६ ॥ तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् । नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरैक्ष्यत ॥ २७ ॥ ( प्रकाशिकाया अत्राऽभावः ) विवरणम् इत्थं मन्दाकिन्यां कृतविहारं त्राताया देव्यास्तदनुरूपं प्रसाधनप्रकारमाह- तामिति । नन्दने पारिजातकुसुमैः तां प्रसाधनम् अयुग्मलोचनः सुरवधूभिः सस्पृहं चिरम् ऐक्ष्यत । नन्दनोद्याने पारिजातकुसुमैः कल्पवृक्षपुष्पैः तां पार्वतीं प्रसाधयन् अलङ्कुर्वन् अयुग्मलोचनस्त्रिनेत्रः सुरवधूभिः सुरसुन्दरीभिः सस्पृहं साभिलाषं यथा भवति तथा ऐक्ष्यत ईक्षितोऽभूत् । तत् तु न क्षणमात्रं किन्तु चिरं चिरकालम् । ‘कालाध्वनोः ’ (२.३.५) इति द्वितीया । पारिजातकुसुमानां विशेषमाह – पुलोमतनयालकोचितैः इति । पुलोमतनया शची तस्या अलकानामेवोचितैः योग्यैः । अन्याभिः सुरवधूभिर्मनसाप्यगम्यैरित्यर्थः । नन्दनोद्याने पौलोमीव्यतिरिक्तसुरवधूजनदुर्लभैः कल्पवृक्षकुसुमविशेषैः प्रियामलङ्कुर्वन्नयुग्मलोचनः सुरसुन्दरीभिः अपिनामानेन सह कदाचिदप्यस्माकमेवमवस्थानं भवेदिति साभिलाषं मुहुर्मुहुरवलोकितोऽभूदिति भावः ॥ २७ ॥ इत्यभौममनुभूय शङ्करः पार्थिवं च वनितासखः सुखम् । लोहितायति कदाचितातपे गन्धमादनवनान्यवर्तत ॥ २८ ॥ अष्टमः सर्गः ५१३ प्रकाशिका प्रकृतोपसंहारेण प्रकरणान्तरमारभते- इतीति । अभौमं मेरुमन्दरादिगतम् । पार्थिवं मलयगतम् । वनितासख इति सुखस्य सम्भोगाङ्गत्वमुक्तम् । आतपे लोहितायतीति वक्ष्यमाणप्रकरणप्रस्तावार्थम् । गन्धमादनस्यौषधिप्रस्थप्रत्यासन्नत्वाद् गन्धमादनवनाद् गन्धमादनवनमुद्दिश्य। न्यवर्ततेत्युक्तम् ॥ २७ ॥ विवरणम् ‘तत्र तत्र विजहार सम्पतन्’ (८.२१) इति यदुक्तं तदुपसंहृत्य सन्ध्याचन्द्रोदयाद्युद्दीपनवर्णनपुरस्सरं सुरतं वर्णयितुं तदुचितदेशप्राप्तिमाह- इतीति । शङ्करः अभौमं पार्थिवं च सुखं वनितासखः इति अनुभूय कदाचिद् आतपे लोहितायति गन्धमादनवनं न्यवर्तत। भौमं भूमिभवं न भवतीत्यभौमम् । मेरुमन्दरस्वर्गापगादिदिव्यप्रदेशभवमित्यर्थः । पार्थिवं पृथिवीभवम् । मलयाचलादिगतमित्यर्थः । चशब्दो विस्तरणभयादनुक्तानामन्येषां च समुच्चयार्थः । सुखं सम्भोगसुखमित्यर्थः। अत एवोक्तं – वनितासख इति । वनितायाः सखा सन् । वनितया सहेत्यर्थः । अत्यर्थजनितानुरागा स्त्री वनिता । ‘वनिता जनितात्यर्थानुरागायां च योषिती ‘त्यमरः । इति पूर्वोक्तक्रमेण अनुभूय । कदाचिदित्यनेन बहुकालानुभव उक्तः । आतपे सूर्यप्रभायां लोहितायति रुधिरवदाचरति रक्तवर्णत्वमुपयाति । दिनान्तसमय इत्यर्थः । इदं च वक्ष्यमाणसन्ध्यादिवर्णनप्रस्तावार्थमुक्तम् । गन्धमादनवनं प्रति न्यवर्तत। गन्धमादनवनादिति पाठे गन्धमादनवनमुद्दिश्येत्यर्थः । ल्यब्लोपे पञ्चमी । न्यवर्तत निवृत्तोऽभूत्। गन्धमादनवनस्यौषधिप्रस्थोद्यानभूतत्वान्न्यवर्ततेत्युक्तम्। यथोक्तं— ‘यस्य चोपवनं बाह्यं सुगन्धिर्गन्धमादनः’ (६.४६ ) इति । कामगेन वृषेण दयितया सह तत्र तत्र सञ्चरन् परमेश्वरः कदाचिदोषधिप्रस्थसमीपवर्तिनं गन्धमादनाचलमेवोद्दिश्य प्रतिनिवृत्तोऽभूदित्यर्थः ॥ २८ ॥ तत्र काञ्चनशिलातलाश्रयी नेत्रगम्यमवलोक्य भास्करम् । दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥२९॥ प्रकाशिका तत्रेति । नेत्रगम्यं सुखदर्शनम्। अनेन नयिकादृष्टिदानयोग्यतां द्योतयति ।५१४ कुमारसम्भवे भास्करमवलोक्येति व्याहारस्य तद्विषयत्वं सूचयति । दक्षिणेत्यादिना समुचितप्रदेशस्थितिरुक्ता । सहधर्मचारिणीमिति आत्मनिर्विशेषत्वं द्योतयति ॥ २९ ॥ विवरणम् अथ सुरतवर्णनानामुद्दीपनपूर्वकत्वादवश्यवर्णनीयानां सन्ध्याचन्द्रोदयादीनां पृथगेव वर्णने सति प्रकृतमपहाय कथान्तरारम्भेण रम्भङ्गमाशङ्क्य रसानुसारी महाकविर्नायिकानायकसंल्लापमुखेनैव सन्ध्यादिवर्णनं कर्तुमुपक्रमते - तत्रेति । अत्र स इत्यध्याहार्यम्। सः तत्र काञ्चनशिलातलाश्रयी नेत्रगम्यं भास्करमवलोक्य दक्षिणेतरभुजव्यपाश्रयां सहधर्मचारिणीं व्याजहार । तत्र गन्धमादनवने काञ्चनमयं शिलातलं शिलाप्रदेशमाश्रयितुं शीलमस्येति तथा । सुखासीनत्वादासनस्थैर्यं णिनिप्रत्ययार्थः । काञ्चनशब्द उद्दीपनसस्पदं द्योतयति । नेत्रैर्गम्यं प्राप्यम्। प्रभापरिक्षयात् सुखदृश्यमित्यर्थः । अनेन सुकुमारतरनायिकादृष्टिपातयोग्यत्वं ध्वन्यते । भास्करम् आदित्यम् अवलोक्य व्याजहारेत्यनेन व्यवहाराणां तद्विषयत्वं सूचितम् । दक्षिणेतरो वामो भुजः व्यपाश्रय आश्रयो यस्यास्ताम्। वामपार्श्वस्थितामित्यर्थः । अनेन समुचितप्रदेशवर्तित्वमुक्तम्। प्रोद्वीक्षणाख्यो भावश्च दर्शितः । प्रोद्वीक्षणं नाम वामपार्श्वे स्त्रियं स्थापयित्वा चन्द्रादिदर्शनमिति भोजः । सहधर्मचारिणीं भार्याम् । सह धर्मं चरितुं शीलमस्या इति तथा । अनेनात्मनिर्विशेषत्वं देव्याः प्रतिपादितम् । व्याजहार उक्तवान् । भगवान् परमेश्वरो गन्धमादनवने काञ्चनमयीं काञ्चन शिलामधिष्ठाय सम्प्राप्तास्तमयत्वात् प्रभापरिक्षयेण सकललोकदृष्टिगोचरं भास्करमुद्दिश्य प्रियतमां व्याहृतवानित्यर्थः ॥ २९ ॥ पद्मेति । सङ्क्रम्यमाणायाः पद्मकान्तिमरुणत्रिभागयोः सङ्क्रमय्य तव नेत्रयोरिव । संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥३०॥ प्रकाशिका न्यायादन- अरुणस्त्रिभागस्तृतीयो भागो ययोः । अनेन पुनरुपादानाय पद्मकान्तेः ‘वृद्धिः समानैः सर्वेषामिति पचयाभिसन्धिर्धोत्यते। सङ्क्रमणेन च संह्रियमाणस्याह्नः सारभूता पद्मकान्तिरिति ध्वन्यते, यतो गृहादौ कस्मिश्चिदवयविनि संह्रियमाणे सारभूतं दार्वादि क्वचिन्निक्षिप्यते । पद्मकान्तिसङ्क्रमणोत्प्रेक्षायां च तन्नेत्रयोः सम्भोगकालप्रत्यासत्त्या अष्टमः सर्गः ५१५ वर्धमानकान्तिकत्वं हेतुः । संक्षये कल्पान्ते । उपमानेन संह्रियमाणस्यातिविततत्वं तत्संहर्तुः स्वतन्त्रत्वं च द्योत्यते ॥ ३० ॥ विवरणम् उक्तिप्रकारानेवाह पद्मेत्यादिना । तत्रादौ वक्ष्यमाणमर्थं सङ्क्षिप्य दर्शयति- पद्मेति । अहर्पतिः असौ अहः संहरति । अह्नां पतिरहपतिः आदित्यः । असौ तेजःपरिक्षयात् प्रत्यक्षतया लक्ष्यमाणः । सहस्तनिर्देशं चेदं वचनम् । अहः दिवसम् । ‘दिनाहनी वा तु क्लीबे दिवसवासरावित्यमरः । संहरति सम्यग् हरति विनाशयति । अत्रोपमामाह—प्रजेश्वरः संक्षये जगद् इव इति । प्रजानां जनानाम् ईश्वरः प्रजेश्वरः । सृष्टिस्थितिसंहारकारी परमात्मेत्यर्थः । अनेन प्रजासंहारे प्रजेश्वरस्येवाह्नः संहारेऽप्यहर्पतेः स्वातन्त्र्यं ध्वन्यते । संक्षये, क्षय एव संक्षयः कल्पान्तः, तस्मिन् । ‘संवर्त प्रलयः कल्पः क्षयः कल्पान्त इत्यपी’ त्यमरः । जगत् प्रपञ्चमिव। अत्र संह्रियमाणस्याह्नः प्रपञ्चदृष्टान्तेन तस्यापि प्रपञ्चवदतिविततत्वं ध्वन्यते, संहारस्य विस्मयकरत्वं च । उत्प्रेक्षामप्याहपद्मकान्तिम् अरुणत्रिभागयोः तव नेत्रयोः सङ्क्रमय्य इव इति । पद्मानां कान्ति शोभाम् । अरुणः रक्तवर्णः त्रिभागस्तृतीयो भागो ययोस्तयोः । अत्र त्रिभागशब्दस्त्रिभागशेषासु निशास्वितिवद् (कु. ५.५७)द्रष्टव्यः । अनेन नेत्रविशेषणेन नेत्रयोः पद्मकान्तिसङ्क्रमणयोग्यत्वमुक्तम् । तेन च पुनरुपादानाय सङ्क्रम्यमाणायाः पद्मकान्तेरपचयाभावनिश्चयः सङ्क्रमणहेतुद्यत्यते । ‘वृद्धिः समानैः सर्वेषामिति न्यायात् । नेत्रयोरित्यधिकरणसप्तमी। सङ्क्रमय्य सङ्क्रमणं कृत्वेव । संह्रियमाणस्याह्नः सारभूतां पद्मकान्ति तदुचिते प्रदेशे निक्षिप्य संरक्ष्येवेत्यर्थः । यद्वत् पुरातने गृहादाववयविनि नवीकरणाय संह्रियमाणे सति तत्सारभूतं दार्वादिकं कुत्रचित् प्रदेशे निक्षिप्यते, तद्वदित्यर्थः । अत्र देवीनेत्रयोः सम्भोगप्रत्यासत्त्या परिवर्धमानकान्तित्वं पद्मकान्तिसङ्क्रमणोत्प्रेक्षायां हेतुः ॥ ३० ॥ शीकरव्यतिकरं मरीचिभि- र्दूरयत्यवनते विवस्वति इन्द्रचापपरिवेषशून्यतां निर्झराः प्रसवितुर्व्रजन्ति ते ॥ ३१ ॥ प्रकाशिका शीकरोति । व्यतिकरः संपर्कः । दूरयति दूरीकुर्वति। अपनयतीत्यर्थः । दक्षिणावर्तस्त्वाहदूरयतीत्यस्य साधुत्वं मृग्यम् । तथाहि दूरशब्दात् ‘तत्करोति’ (ग. सू. ३.१.२६) इति णिचि कृते ‘णाविष्ठवत्प्रातिपदिकस्येति इष्ठवद्भावः ५१६ कुमारसम्भवे स्यात् । ‘स्थूलदूर — ‘(६.४.१५६) इत्यादिना पूर्वस्य यणो लोपो गुणश्च भवति । तदा दवयतीति रूपं स्यादिति । अत्र वामनेन– ‘प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च’ (ग.सू.३.१.२६) इति बहुलग्रहणात् समर्थितम् । नानाप्रभासमुदाय इन्द्रचापः, तत्परिवेषस्तन्मण्डलं, तेन शून्यताम्। जले पतन्तोऽर्ककिरणा नानावर्णसमुदायमण्डलानि कुर्वन्ति । तेषु गतेषु तान्यपि गच्छन्तीति प्रसिद्धिः । प्रसवितुः पितुः ॥ ३१॥ विवरणम् सूर्य एव सर्वेषामपि तेजसां प्रवर्तक इति यदुच्यते, तत् सत्यमेव । अत एव तस्मिन् गतप्राये तेजोऽन्तराण्यपि नश्यन्तीत्याह- शीकरेति । अवनते विवस्वति मरीचिभिः शीकरव्यतिकरं दूरयति ते प्रसवितुः निर्झराः इन्द्रचापपरिवेषशून्यतां व्रजन्ति । अवनते आसन्नास्तमयत्वादधोमुखे । इदं तु मरीचिभिः शीकरव्यतिकरदूरीकरणे हेतुः । विवस्वति आदित्ये मरीचिभिः किरणैः शीकरव्यतिकरं शीकरैः जलकणैः व्यतिकरं सम्पर्कम् । दूरयति दूरीकुर्वति । अपनयति सतीत्यर्थः । ननु दूरशब्दात् तत्करोतीति णिचि कृते ’ णाविष्ठवत् प्रातिपदिकस्ये’ तीष्ठवद्भावात् ‘स्थूलदूर - ’ इत्यादिना सूत्रेण यणादेर्लोपः पूर्वस्य गुणश्च भवति । तदा दवयतीत्येव रूपं स्यादिति कथं दूरयतीति । उच्यते । ‘प्रातिपदिकाद्धात्वर्थे बहुलम् -’ इति (वामनेन?) बहुलग्रहणादिति ब्रूमः । ते प्रसवितुः तव पितुर्हिमवत इत्यर्थः । निर्झराः वारिप्रवाहाः । इन्द्रचापो नाना रत्नप्रभासमुदायः, तस्य परिवेषो मण्डलं, तेन शून्यतां शून्यत्वं व्रजन्ति । जलशीकरेषु पतन्तो रविकिरणा नानावर्णसमुदायमण्डलानि विरचयन्ति । रविकिरणेषु निवृत्तेषु तान्यपि निवर्तन्त इति प्रसिद्धिः । सूक्ष्मदर्शिनां प्रत्यक्षभूतश्चायमर्थः । सूर्यमण्डलस्याधोमुखत्वात् समुन्नतेभ्यो हिमवच्छिखरेभ्यो निपततां जलप्रवाहशीकराणां रविकरसम्पर्काभावान्नानाप्रभामण्डलान्यपि निवृत्तानीत्यर्थः ॥ ३१॥ दष्टतामरसकेसरत्यजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः । निघ्नयोः सरसि चक्रवाकयो- रल्पमन्तरमनल्पतां गतम् ॥३२॥ प्रकाशिका दष्टेति । दैवबलात्कारेण चञ्चपुटद्वयदष्टपद्मकेसरत्यागपूर्वकमन्योन्यपराङ्मुखीकृतकण्ठयोः परस्परादर्शनादिना तथा वैशसमनुभवतोश्चक्रवाकदम्पत्योरल्पमपि अष्टमः सर्गः ५१७ देशव्यवधानं सद्य एव सहस्रयोजनव्यवधानमिव जातमित्यर्थः । अनेन दैवादावयोः किञ्चित्कासमागमे सति न केवलं भवत्या, मयापि महद् वैशसमनुभूतमिति द्योतयन्नुपेक्षापराधशल्यं परमधूर्तः प्रियतमाहृदयादुद्धरति ॥ ३२ ॥ विवरणम् अपिच चक्रवाकमिथुनान्यपि वियुक्तानीत्याह- दष्टेति । सरसि चक्रवाकयोः अल्पम् अन्तरम् अनल्पतां गतम् । सरसि पद्माकरे। ‘पद्माकरस्तटाकोऽस्त्री कासारः सरसी सरः’ इत्यमरः । चक्रवाकयोः चक्रवाकदम्पत्योः अल्पमन्तरम् अत्यल्पमेव देशव्यवधानम् अनल्पतां गतम् । सहस्रयोजनपरिमितमिव जातमित्यर्थः । सरसि परिवर्तमानयोः पद्मपत्रमात्रान्तरितयोश्चक्रवाकदम्पत्योर्दैववशादत्यल्पमपि देशव्यवधानं परस्परदर्शनविलापश्रवणाद्यभावादनेकसहस्रयोजनपरिमितमिव जातमिति भावः । अनेन परस्परविरह उक्तः । विरहस्यानुभावमाह — दष्टेत्यादिना विशेषणत्रयेण । दष्टतामरसकेसरत्यजोः दष्टं कबलनार्थं चञ्चद्वयेन गृहीतं तामरसस्य पद्मस्य केसरं किञ्जल्कं त्यजत इति दष्टतामरसकेसरत्यजौ तयोः । अर्धकबलिततामरसकेसरमपि परित्यजतोरित्यर्थः । अनेन विषयनिवृत्तिरूपा मदनावस्था दर्शिता । उन्मादावस्थामप्याह — क्रन्दतोरिति । उच्चैस्तरामाक्रन्दनं कुर्वतोरित्यर्थः । विरहप्रकारमेवाह - विपरिवृत्तकण्ठयोरिति । अन्योन्यपराङ्मुखीकृतग्रीवयोः । प्रियतमावस्थितं देशमपहाय वलितग्रीवमितस्ततश्चक्षुर्विक्षिपतोरित्यर्थः। एवंविधे वैशसे हेतुमाह - निघ्नयोरिति । ‘अधीनो निघ्न आयत्तः स्वच्छन्द’ इत्यमरः । विधिपराधीनयोरित्यर्थः । स्निग्धयोरिति वा पाठः । अनेन परमधूर्तो देवः ‘न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ’ (५.५५) इत्यादिसखीवचनमनुसन्दधानः त्वद्विरहात् प्रणयपराधीनेन मयापि चक्रवाकवदेवं वैशसमनुभूतमिति द्योतयन् प्रियतमाहृदयगतमुपेक्षाशल्यं दैववैपरीत्यदोषप्रतिपादनमुखेनोद्धृतवानित्यवसेयम्॥ ३२ ॥ स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम्। आविभातचरणाय गृह्णते वारि वारिरुहरुद्धषट्पदम् ॥ ३३ ॥ प्रकाशिका स्थानमिति । आह्निकमह्नो योग्यम्। सल्लकीति भक्षितशेषसल्लकीशाखाशकलसुरभितम् । सल्लकी गजप्रिया लता । आविभातचरणाय विभातादारभ्य ५१८ कुमारसम्भवे यच्चरणं भक्षणं तस्मै पर्याप्तं वारि गृह्णते । वारिरुहरुद्धषट्पदमित्यनेन भ्रमरबाधाराहित्यमुक्तम्। वारिरुहपत्रलोचन इति वा पाठः । पत्रसंपुट इत्ययुक्तः पाठः। इदमत्रानुसन्धेयं— दन्तिनो ह्यातपभयात् कुत्रापि तरुषण्डे दिवसमतिवाहयन्तः स्वैरं सल्लक्यादिभक्षणं कुर्वन्ति । ततो दिवसान्ते निर्गत्य भक्षितानुरूपं जलं पिबन्तीति ॥ ३३ ॥ विवरणम् आदित्यास्तमये गजानामपि समवस्थानमाह- स्थानमिति । वारिरुहपत्रलोचने! दन्तिनः आह्निकं स्थानम् अपास्य आविभातचरणाय वारि गृह्णते । वारिरुहस्य पङ्कजस्य पत्रे दले इव लोचने यस्याः तस्याः सम्बुद्धिरियम् । दन्तिनः गजाः आह्निकम् अह्नो दिवसस्य योग्यं स्थानम् । निरातपं वनप्रदेशमित्यर्थः । अपास्य परित्यज्य आविभातचरणाय विभातादारभ्य यच्चरणं भक्षणं तस्मै । पर्याप्तमिति शेषः । वारि जलम्। गृह्णते उपाददते । ‘ग्रह उपादाने’ इति धातुः । पिबन्तीति यावत् । आह्निकस्य स्थानस्य मनोहरत्वमाह - सल्लकीविटपभङ्गवासितमिति । सल्लकी गजप्रिया । गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा । महेरणा कुन्दुरुकी सल्लकी ह्रादिनीति च ॥ इत्यमरः । तस्या विटपानां ये भङ्गाः शकलानि तैर्वासितं सुरभीकृतम् । दन्तिनो हि सन्ततातपानि दिनानि शीतलेषु वनप्रदेष्वतिवाहयन्ति। सल्लकीशकलानि च कवलयन्ति। दिवसावसानेषु तु सरोवरमवगाह्य भक्षितानुरूपं जलं पिबन्ति । यथोक्तं पालकाप्ये- इति ॥ ३३ ॥ आतपभीता नागा वनभुवि तरुषण्डमण्डिते कुहचित् । अतिवाहयन्ति दिवसान् सलिलं गृह्णन्ति सन्ध्यासु ॥ पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे! विवस्वता । दीर्घया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ ३४ ॥ प्रकाशिका पश्येति । तापनीयं तपनीयमयम्। पश्चिमदिगन्तलम्बित्वात् प्रतिमाया दीर्घत्वम् ॥ ३४ ॥ अष्टमः सर्गः ५१९ अत्यद्भुतमन्यच्च पश्येत्याह- विवरणम् पश्येति मितकथे! पश्चिमदिगन्तलम्बिना विवस्वता दीर्घया प्रतिमया सरोम्भसां तापनीयं सेतुबन्धनं निर्मितम् इव पश्य । मिता स्वल्पा कथा यस्यास्तस्याः सम्बुद्धिरियम् । हे स्वल्पभाषिणीत्यर्थः । मितभाषितत्वमुत्तमनायिकाधर्मः । पश्चिमाया दिशः अन्ते अवसाने लम्बितुं शीलमस्येति तथा। अनेन प्रतिमाया दीर्घत्वे हेतुरुक्तः । विवस्वता सूर्येण कर्त्रा । दीर्घया सरसां पश्चिमदिग्भागादारभ्य पूर्वदिग्भागपर्यन्तं तरङ्गेषु दृश्यमानयेत्यर्थः । प्रतिमया प्रतिबिम्बेन करणभूतेन । संरसि यान्यम्भांसि तेषाम्। तपनीयं सुवर्णं तन्मयं सेतोर्बन्धनं कृतमिव । पश्य अवलोकय । पश्चिमदिगन्तावस्थिते विवस्वति वीचिभिन्नायतत्वप्रतिमाया दीर्घतया सरसां पूर्वभागपर्यन्तमवस्थितत्वाज्जले तपनीयमयसेतुर्निर्मित इव प्रतिभातीत्यर्थः ॥ ३४ ॥ उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ ३५॥ प्रकाशिका उत्तरन्तीति । उच्चैर्देशप्राप्तिरुत्तरणम् । विनिकीर्य विक्षोभ्य । अत्रावगाढपङ्कत्वं हेतुः । दंष्ट्रिणः ‘ब्रीह्यादिभ्यश्च’ (५.२.११६) इतीनिः । इदमुत्प्रेक्षाया मूलम् । अयमर्थो रघुवंशेऽप्युक्तः स पल्वल’ (२.१६) इत्यादिना ॥ ३५ ॥ वराहाणामवस्थानं दर्शयति- विवरणम् उत्तरन्तीति । वनवराहयूथपाः अतिवाहितातपाः पल्वलं विनिकीर्य उत्तरन्ति । वने वर्तमानानां वराहाणां यूथं समूहं पान्ति रक्षन्तीति वनवराहयूथपाः । वराहाधिपतय इत्यर्थः। अतिवाहितः गमितः आतपः आतपसमयो यैस्तथाभूताः सन्तः । पल्वलं वेशन्तम् । ‘वेशन्तः पल्वलं चाल्पसर’ इत्यमरः । विनिकीर्य विक्षोभ्य उत्तरन्ति उन्नतं देशं गच्छन्ति निम्नात् । पल्वलप्रदेशादिति शेषः । अत्र यूथपानामुत्तरणवचनेन यूथानामप्युत्तरणमर्थादुक्तं भवति। आतपभीता वराहाः पल्वलेष्वातपसमयमतिवाह्य दिनावसाने पल्वलादुद्गच्छन्तीत्यर्थः । अयं च वराहाणां स्वभावः । उक्तं च रघुवंशे’स पल्वलोत्तीर्णवराहयूथानि इति । विनिकीर्य ५२० कुमारसम्भवे पल्वलमिति यदुक्तं, तत्र हेतुमाह – गाढपङ्कमिति । गाढः पङ्को यस्मिंस्तत् । परिपूर्णपङ्कमित्यर्थः । वराहयूथपानां स्वरूपविशेषमाह — दंष्ट्रिण इति । दंष्ट्राः सन्त्येषामिति दंष्ट्रिणः। ब्रीह्यादित्वादिनिः । दंष्ट्राद्वितयविद्योतमाना इत्यर्थः । अत एवोत्प्रेक्षते — दष्टभङ्गुरबिसाङ्कुराः इव इति । दष्टः सन्दष्टः भङ्गुरः भञ्जनशीलः बिसानां मृणालानामङ्कुरो यैस्ते तथा । बिसाङ्कुराणां धावल्यं निशिताग्रत्वं चोत्प्रेक्षाबीजम् । अत्र भङ्गुरशब्दो भक्षणसौकर्यं द्योतयन् बिसाङ्कुरदंशने हेतुमुद्घाटयति। अवसरे भक्षणार्थं गृहीतमृदुलमृणालाङ्कुरा इवेत्यर्थः ॥ ३५ ॥ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः । हीयमानमहरत्ययातपं पीवरोरु ! पिबतीव बर्हिणः ॥ ३६ ॥ प्रकाशिका एष इति । वृक्षशिखरे कृतास्पद इत्यनेन ‘आवासवृक्षोन्मुख - बर्हिणानि’(रघु. २.१७) इत्यनुसंहितम् । जातरूपेति । हेमद्रवपीतबर्हमण्डलः । हीयमानमहरत्य - यातपमित्यत्रेदमनुसन्धेयं—क्षीयमाणानां तेजसां प्रसराः सदृशेषु तेजोन्तरेषु प्रतिफलन्ति । तदानीं तानि तेजोन्तराणि क्षीयमाणांस्तेजः प्रसरान् गृह्णन्तीव प्रतिभान्ति । ततो जातरूपरसगौरमण्डलो बर्हिणः स्वसंक्रान्तं हीयमानमहरत्ययातपं पिबन्नुत्प्रेक्ष्यते । अमुमेवार्थमनुसन्धास्यति ‘सिंहकेसरसटासु’ (८.४६) इत्यादिना ॥ ३६ ॥ मयूराणामवस्थानं दर्शयति— विवरणम् एष इति । पीवरोरु ! वृक्षशिखरे कृतास्पदः एषः बर्हिणः अहरत्ययातपं पिबति इव। पीवरौ महान्तौ ऊरू यस्यास्तस्याः सम्बुद्धिः । वृक्षस्य शिखरे अग्रे । ‘शिरोऽग्रं शिखरं वा नेत्यमरः । कृतं विहितमास्पदं स्थानं येन स तथा । सन्ध्यामयमात्रमवलोक्य वृक्षाग्रे कृतावास इत्यर्थः । शिखण्डिनो हि दिवसावसानसमयादारभ्य प्रभातपर्यन्तं व्याघ्रादिभयादत्युन्नतेषु वृक्षाग्रेषु निवसन्ति । अत एवोक्तं रघुवंशे’आवासवृक्षोन्मुखबर्हिणानी’ति [ रघु. २.१७] । बर्हिणः बहीं । ‘मयूरो बर्हिणो बह’ त्यमरः । अह्नो दिवसस्य अत्यये अवसाने य आतपः तं पिबतीव । उत्प्रेक्षायां हेतुमाह – जातरूपरसगौरमण्डल इति । जातरूपं काञ्चनम्। ‘चामीकरं जातरूपं महारजतकाञ्जने’ इत्यमरः । तस्य रसो द्रवः तद्वद् गौरं पीतम् । ‘गौरोऽरुणे सिते पीते’ इत्यमरः । मण्डलशब्देन मण्डलवान् लक्ष्यते । सुवर्णद्रवपीतशिखण्डमण्डल अष्टमः सर्गः इत्यर्थः ॥ हेत्वन्तरमप्याह — हीयमानमिति । प्रतिक्षणं

५२१ परिक्षीयमाणम् । अत्र सुवर्णद्रवपीतेषु शिखण्डिशिखण्डमण्डलेषु तत्समानवर्ण दिनान्तातपं प्रतिफलितं प्रतिक्षणं परिक्षीयमाणं चावलोक्य अनेन पीयत इवायं दिनान्तातप इत्युत्प्रेक्ष्यते । शिखण्डमण्डलस्य दिनान्तातपतुल्यवर्णत्वं दिनान्तातपस्य परिक्षीयमाणत्वं चोत्प्रेक्षाबीजम् ॥ ३६ ॥ । पूर्वभागतिमिरप्रवृत्तिभि- र्व्यक्तपङ्कमिव जातमेकतः । खं हृतातपजलं विवस्वता भाति किञ्चिदिव शोषवत् सरः ॥३७॥ प्रकाशिका पूर्वेति । प्राचीमूलप्रवृत्ततिमिरं विवस्वता संक्षिप्तातपजलमाकाशमेकतः स्फुटपङ्केन किञ्चिच्छुष्केण सरसा सदृशं प्रतिभातीत्यर्थः । नत्वेवमर्थस्थितौ पूर्व इवशब्दः प्रवृत्तिभिरिति शाब्दश्च हेतुरनुपादेयः । न । उत्प्रेक्षाया विवक्षितत्वात् । ननु पूर्वभागनिर्देशेनैवोत्प्रेक्ष्यमाणस्य व्यक्तपङ्कत्वस्याप्यर्थात् क्वाचित्कत्वसिद्धावेकत इत्यनुपादेयम्। न। वास्तवमुपमानभूतसरोविशेषणत्वमभिप्रेत्य प्रयुक्तत्वात् । तथा चार्थस्थितिर्दर्शिता । इवशब्दस्त्वत्र किञ्चिन्निरूप्यते । तस्य ह्युपमावाचित्वे सर इवेत्युपमाननिकट एव प्रयोगो मुख्यः । चादीनां हि निपातानां समुच्चेतव्यादिनिकटे प्रयोगो नियतः । तथा चोपपादितमाचार्येण महिम्रा (व्यक्तिविवेके क्रमभेदप्रस २.३६ कारिकया)। इह तु सरोविशेषणस्य शोषवदित्यस्य यद् विशेषणमीषदर्थवाचि किञ्चिदिति, तन्निकटे प्रयोगः । स क्रमभेददुष्ट एव । अथ किञ्चिदित्यस्य किमपीत्यर्थः सरोविशेषणत्वं च तर्हि तदेवानुपादेयम्, उपमायानुपयोगित्वात् । तस्मादिवशब्दस्य वाक्यालङ्कारार्थत्वं युक्तम् । यथा ‘आवर्जिता किञ्चिदिव स्तनाभ्याम्’ (कु.३.५४ ) इति । यथा वा ‘मध्यं वयः किञ्चिदिव स्पृशन्ती ‘ति । तथा च खं किञ्चिदिव शोषवत् सरो भातीत्यन्वयः । विवस्वता हृतातपजलमित्युभयविशेषणमिति दक्षिणावर्तः । तदसत् । शोषवत्त्वस्य धर्मस्याधिक्यात् । अवस्थाभेदेन बहुत्वाद् प्रवृत्तिभिरिति बहुवचनम् ॥ ३७ ॥ विवरणम् सूर्यास्तमयावसरे गगनस्यावस्थानं दर्शयति- पूर्वेति । विवस्वता हतातपजलं खं किञ्चिदिव शेषवत् सरः भाति । विवस्वता आदित्येन । जलमिवातपः आतपजलम् । स्वच्छत्वमत्र साधारणधर्मः । हतं ५२२ कुमारसम्भवे सङ्क्षिप्तम् । आतपजलं यस्य तादृशं खम् आकाशं किञ्चिदिव किमपि । इवशब्दो वाक्यालङ्कारे । यथा ‘आवर्जिता किञ्चिदिव स्तनाभ्याम्’ इत्यत्र ‘मध्यं वयः किञ्चिदिव स्पृशन्तीत्यत्र च । शेषोऽस्यास्तीति शेषवत् सरः । ‘कासारः सरसी सर’ इत्यमरः । भाति प्रतिभाति । देशान्तरं गन्तुकामेन विवस्वता सङ्क्षिप्तातपजलं व्योम किमप्यवशिष्टसलिलसरोरूपेण प्रतिभातीत्यर्थः । उत्प्रेक्षा चेयम् । ननु किमर्थमयमिवशब्दो वाक्यालङ्कारे निक्षिप्तः । सर इव भातीत्युपमैवास्तु । मैवम् । तस्योपमावाचित्वे सर इवेत्युपमाननिकटे प्रयोगस्यैव मुख्यत्वात् । यदाह महिमा - ‘चादीनां हि निपातानां समुच्चेतव्यादिसन्निधौ प्रयोगो नियत’ इति । इह तु किञ्चिदित्यस्य शब्दस्य निकटे प्रायुङ्क्त । नापि किञ्चिदित्येतत् सरोविशेषणमपि । सरोविशेषणस्य शेषवदित्यस्य विशेषणत्वात् । तस्मादुपमापक्षेऽत्र क्रमभेददुष्ट एवायमिवशब्दः । न च गत्यन्तरे सम्भवति क्लिष्टार्थोपादानं युक्तम् । तस्मादयमिवशब्दो वाक्यालङ्कारार्थ एवेत्यलमनेन । उत्प्रेक्षान्तरविवक्षया खं विशिनष्टि — पूर्वभागतिमिरप्रवृत्तिभिः एकत व्यक्तपङ्कम् इव जातम् इति । पूर्वभागे प्राचीदिग्भागे यास्तिमिराणां प्रवृत्तयस्ताभिः । अत्र तिमिरप्रवृत्तीनामवस्थाभेदाद् बहुत्वम् । एकत एकस्मिन् भागे । व्यक्तं पङ्कं यस्य तथाभूतमिव जातम् आपन्नम्। भास्वति पश्चिमदिगन्तावस्थिते सति प्राचीदिगन्तप्रसृतैस्तिमिरैरेकस्मिन् भागे व्यक्तपङ्कमिव प्रतीयमानमित्यर्थः ॥ ३७ ॥ आवसद्भिरुटजाङ्गणं मृगै- र्मूलसेकसरसैश्च वृक्षकैः । आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥३८॥ प्रकाशिका आवसद्भिरिति । आवसद्भिरधितिष्ठद्भिः । उटजाङ्गणं पर्णशालापुरोभागम् । मूलसेकः सायंकालिकः, तेन सरसैः स्निग्धच्छायैः । वृक्षकैर्बालवृक्षैः । उदीरिताग्नयः प्रणीताग्नयः । अत्र श्रीभरणहेतवश्चत्वारः । तत्र शाब्दत्वेन द्वावुपादाय किमित्यार्थत्वेनान्यावुपात्तवानिति न ज्ञायते । प्रक्रमाभेदस्तु सुभगः ॥ ३८ ॥ विवरणम् मुनिजनाश्रमाणामपीदानीं शोभाधिक्यं जातमित्याह- आवसद्भिरिति । आश्रमाः उटजाङ्गणम् आवसद्भिः मृगैः मूलसेकसरसैः वृक्षकैः च श्रियं बिभ्रति । उटजानां पर्णशालानाम् अङ्गणं पुरोभागम् आवसद्भिः अष्टमः सर्गः ५२३ अधिवसद्भिः । क्रमेण पूर्यमाणत्वं वर्तमानप्रत्ययस्यार्थः । मृगैः एणैः । मूले यः सेकः सायङ्कालीनः, तेन सरसैः स्निग्धच्छायैः । वृक्षकैः अल्पार्थे कः । बालवृक्षैरित्यर्थः । चशब्दः समुच्चयार्थः । श्रियं शोभां बिभ्रति दधति । आश्रममृगा हि प्रभातसमयादारभ्य दिनान्तपर्यन्तं बहुलतृणेषु प्रदेशेषु चरन्तः सायमुटजाङ्गणेषु निवसन्ति। उटजाङ्गणमधितिष्ठद्भिर्नानावर्णैर्मृगैः सिक्तमूलतया स्निग्धच्छायैर्वृक्षैश्च मुनिजनाश्रमा नयनयोः प्रीतिं वितरन्तीत्यर्थः । इत्थं दृष्टानुसारिणीं शोभां हेतुद्वयेन प्रतिपाद्य अदृष्टानुसारिणीं शोभां हेतुद्वयेनाह— प्रविशदग्निधेनव इत्यादिना । प्रविशन्त्य आगच्छन्त्यः अग्निधेनवो होमधेनवो येषु ते तथा । अनेन होमवेलाप्रत्यासत्तिर्ध्वन्यते । अत्रापि पूर्वपदेन वर्तमानार्थः । तथा उदीरिताग्नयः उदीरिताः प्रणीताः गार्हपत्याहवनीयदक्षिणाग्नयो येषु ते तथा । अग्निहोमात् पूर्वकालीनमग्निप्रणयनं नाम वैदिकं कर्मानेनोच्यते । अनेन तत्तत्काले तत्तदनुष्ठानप्रतिपादनेन मुनीनां धन्यत्वं ध्वन्यते । अत्राश्रमाणां श्रीभरणे चत्वारो हेतवः । तत्राद्यं हेतुद्वयं दृष्टोपयोगि, द्वितीयं चादृष्टोपयोगीति विभागं दर्शयितुमाद्यहेतुद्वयं मृगैर्वृक्षैक्ष शोभन्त इति शब्दत एव निर्दिष्टम् । अन्यत् पुनराश्रमविशेषणत्वेनार्थादिति न प्रक्रमभेददोषमावहति। नहि वैदिकोऽयमग्निहोत्रहोमो मृगागमनवृक्षसेचनतुल्यकक्ष्यः । ये मृगैर्वृक्षकैर्धेनुभिरग्निभिश्च श्रियं बिभ्रतीत्येकवाक्यता स्यादित्यलमतिविस्तरेण ॥ ३८ ॥ बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् । षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमुत्तरम् ॥३९॥ प्रकाशिका बद्धेति । बद्धकोशं जातसङ्कोचम् । वसतिः प्रतिश्रयः । प्रीतिपूर्वमुत्तरं दातुमिव क्षणं सावशेषविवरं तिष्ठतीत्यन्वयः । सन्तो हि प्रतिश्रयार्थिने प्रीतिपूर्वमुत्तरं दातुं किञ्चित् स्फुरितामुखास्तिष्ठन्ति । अन्तरमिति क्वचित् पाठः ॥ ३९ ॥ कति पङ्कजानामवस्थां दर्शयति- विवरणम् तबद्धेति । कुशेशयं बद्धकोशमपि क्षणं सावशेषकुहरं तिष्ठति । कुशेशयं कमलम्। ‘सहस्रपत्रं कमलं शतपत्रं कुशेशयमित्यमरः । बद्धः कोशो येन तद्५२४ कुमारसम्भवे बद्धकोशम् । जातसङ्कोचमित्यर्थः । अपिशब्दो विरोधवाची । नहि जातसङ्कोचस्य पद्मस्य सावशेषकुहरत्वमुपपद्यते । तथापि क्षणं क्षणकालं सावशेषम् अवशेषसहितं कुहरं बिलं यस्य तथाभूतं सत् तिष्ठति । ‘कुहरं विवरं बिलमित्यमरः । सकलमपि पङ्कजकुलम् आसन्नसन्ध्यत्वाज्जातसङ्कोचमपि रविकिरणानामत्यन्तविनाशाभावात् क्षणकालं किञ्चिदवशिष्टबिलं तिष्ठतीत्यर्थः । पङ्कजानां तथावस्थाने हेतुमुत्प्रेक्षतेवसतिं ग्रहीष्यते षट्पदाय प्रीतिपूर्वम् उत्तरं दातुम् इव इति । वसतिमावासस्थानं ग्रहीष्यते ग्रहीतुमारब्धवते । लृटः शत्रादेशः । षट्पदाय भ्रमराय । प्रीतिपूर्वमिति दानक्रियाविशेषणम्। प्रीतिः पूर्वं यथा भवति तथा। आदरपूर्वमित्यर्थः । उत्तरं प्रतिवचनं दातुमिव। सन्तो हि गृहागतेभ्यः पान्थेभ्यस्तदभ्यर्थनात् पूर्वमेव तद्विवक्षितस्य वाक्यस्य प्रतिवचनं दातुं किमपि विकसितमुखाम्बुजास्तिष्ठन्ति । अन्तरमिति पाठे प्रीतिपूर्वमवकाशं दातुमिवेत्यर्थः । विवृतकुहरेषु सरसिजेषु षट्पदप्रवेश उत्प्रेक्षामूलम् ॥ ३९ ॥ दूरमग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥४०॥ प्रकाशिका दूरेति । दूरावनतत्वात् सङ्ख्येयरश्मिना ॥ ४० ॥ विवरणम् मार्ताण्डमण्डलमण्डितां पश्चिमामाशां दर्शयति- दूरेति । वारुणी दिक् दूरमग्नपरिमेयरश्मिना अरुणेन भानुना भाति । वारुणी वरुणसम्बन्धिनी दिक् पश्चिमाशा दूरमत्यन्तं मग्नेन अवनतेन अत एव परिमेयरश्मिना परिमेयाः सङ्ख्येया रश्मयो यस्य तेन । आसन्नास्तमयत्वेनात्यन्तावनतत्वात् सङ्ख्येयरश्मिजालेनेत्यर्थः । अरुणेन रक्तवर्णेन भानुना आदित्येन भाति शोभते । अत्रोत्प्रेक्षामाह – केसरवता बन्धुजीवतिलकेन मण्डिता कन्यका इव इति । केसराः किञ्जल्का अस्य सन्तीति केसरवान् तेन । बन्धुजीवतिलकेन । बन्धुजीव इति रक्तवर्णः कुसुमविशेषः । तन्मयेन तिलकेन । मण्डितालङ्कृता कन्यका कुमारीव अत्र । रश्मिप्रतिवस्तुत्वेन केशराणामुपादानम् ॥४० ॥ अष्टमः सर्गः सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वनैः । भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥४१॥ प्रकाशिका ५२५ सामभिरिति । सहचरा बालखिल्यादयः । सहस्रशः सहस्रम् । अग्नौ परिकीर्ण निक्षिप्तं तेजो येन । किरणोष्मपायिन इति तपोविशेष उक्तः । अस्मिन्नर्थे सर्वत्र श्रुतिः किल मूलम् ॥ ४१ ॥ विवरणम् सूर्यसहचराणां बालखिल्यादीनामस्तमयसमुचितां स्तुतिं दर्शयति- सामभिरिति । सहस्रशः सहचराः अग्निपरिकीर्णतेजसं भानुं सामभिः संस्तुवन्ति । सहस्रशः सहस्रसङ्ख्यायुक्ता इत्यर्थः । सहैव चरन्तीति सहचराः बालखिल्यादयः । अग्नौ परिकीर्णं निक्षिप्तं तेजो येन तम । आदित्यो रात्रावग्नि प्रविशतीति श्रुतिप्रसिद्धिः । उक्तं च रघुवंशे - ‘दिनान्ते निहितं तेजः सवित्रेव हुताशनः’ ( ४.१) इति । भानुम् आदित्यं सामभिः सामवेदैः सम्यक् स्तुवन्ति । स्तुतौ सम्यक्त्वं नामाक्षरस्वरमात्रादीनामन्यूनानधिकत्वम्। बालखिल्यादयो हि सन्ततमादित्यगमनानुसारेणैव गच्छन्ति । ऋग्भिः प्रभाते संस्तुवन्ति, यजुर्भिर्मध्याह्ने, सामभिः सन्ध्यायामिति च श्रुतिप्रसिद्धम् । साम्नां स्वरप्रधानत्वाद् बालखिल्यादीनां स्वरमाधुर्यं प्रदर्शयन् सामानि विशिनष्टि – स्यन्दनाश्वहृदयङ्गमस्वनैरिति । स्यन्दने सूर्यरथे ये अश्वाः वाजिनः तेषां हृदयङ्गमाः मनोहारिणः स्वना येषां तैः । स्यन्दनाश्वानां गानाकर्णनकुतूहलं तदिङ्गितैरवधार्यत इत्यर्थः । बालखिल्यानां तपोविशेषमहिमानमाह – किरणौष्ण्यपायिन इति । किरणानां रविकिरणानाम् औष्ण्यं पातुं शीलमेषामिति तथा। रविकिरणोष्मणैव शरीरवृत्तिं कुर्वन्त इत्यर्थः । अयमपि तपोविशेषः । श्रुतिप्रसिद्धः ॥ ४१ ॥ सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः । अस्तमेति युगभुग्नकेशरैः सन्निधाय दिवस महोदधौ ॥ ४२ ॥ ५२६ कुमारसम्भवे प्रकाशिका सोऽयमिति । गगनावतरणवशाद्धयानामानतशिरोधरत्वम् । ततश्चान्ये विशेषणे । युगस्य स्वस्थानच्युतत्वात् केसराणां कुटिलत्वम्। सन्निधायेत्याद्युत्प्रेक्षागर्भमभिधानम्॥ ४२ ॥ रवेरस्तमयप्रकारमेव वर्णयति- विवरणम् यातीत्यर्थः । सोऽयमिति । सः अयं दिवसं महोदधौ सन्निधाय आनतशिरोधरैः हयैः अस्तम् एति । सः यो बालखिल्यादिभिः स्तुत स इत्यर्थः । अयमिति सहस्तनिर्देशं वचनम्। आनतः अधः प्रदेशगमनवशात् सन्नतः शिरोधरो ग्रीवा येषां तादृशैः हयैः अश्वैः अस्तप्राप्तिसाधनभूतैः दिवसम् अहः महोदधौ समुद्रे सन्निधाय स्थापयित्वा अस्तमेति अदर्शनं प्राप्नोति । अस्तमित्यदर्शनेऽव्ययम् । ‘अस्तमदर्शने’ इति सिंहः । अस्ताचलं वा । बालखिल्यादिभिः स्तूयमानो रविरयमुन्नताद् गगनप्रदेशादधःप्रदेशावतरणवशादवनतशिरोधरैर्हयैरस्तं दिवसं महोदधौ सन्निधायेत्युत्प्रेक्षागर्भभभिधानम् । महोदधिमात्रे रविकिरणदर्शनमुत्प्रेक्षाहेतुः। दिवसं दृश्यमानमन्दातपे समुद्रे निक्षिप्येवेत्यर्थः । अथाश्वानामानतशिरोधरत्वहेतुकं विशेषणद्वयमाह – कर्णचामरविघट्टितेक्षणैः । कर्णयोरलङ्कारार्थं बद्धे ये चामरे ताभ्यां विघट्टिते अभिहते ईक्षणे विलोचने येषां तैः । आनतशिरोधरत्वेन हेतुना कर्णावसक्तचामराभिहतनेत्रैरित्यर्थः । तथा युगभुग्नकेशरैः युगेन हेतुना भुग्नाः कुटिलाः केसराः स्कन्धरोमाणि येषां तैः । स्कन्धावस्थितस्य युगस्य दूरावतरणवशेन स्वस्थानात् च्युतत्वात् तत्सन्निवेशविशेषेण कुटिलस्कन्धरोमभिरित्यर्थः । अत्राश्वानामवतरणस्वभावोक्त्या स्वभावोक्तिः ॥ ४२ ॥ खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः । तत् प्रकाशयति यावदुत्थितं मीलनाय खलु तावतश्च्युतम्॥४३॥ प्रकाशिका खमिति । प्रसुप्तमिव तमसा संवृतत्वात् । संस्थितेऽस्तमिते । ईदृशी वक्ष्यमाणप्रकारा। गतिः स्वभावः । तद् महत् तेजः । यावद् यत्प्रमाणम् । तावतस्तत्प्रमाणस्य। च्युतमस्तमितम्। दक्षिणावर्तस्तु– ‘यद्यप्ययमर्थस्तेजोमात्र- अष्टमः सर्गः ५२७ सुलभस्तथापि प्रकृतं रविमपेक्ष्य महत इति विशेषणमित्याह । तन्न । यतोऽर्थान्तरे सामान्यरूपेऽन्वितं यद् विशेषणं तत् प्रकृतं विशेषमेव विशेषयतीति न युक्तम् । किञ्च महत एव तेजसोऽपाये तावतो मीलनं भवति । अल्पस्य त्वपाये तादृशान्येनापि प्रकाशः संभवति ॥ ४३ ॥ विवरणम् आदित्यास्तमये जातं विशेषमाह- खमिति । रवौ संस्थिते खं प्रसुप्तमिव । रवौ आदित्ये । संस्थिते अस्तमित इत्यर्थः। खम् आकाशं प्रसुप्तं प्रकर्षेण सुप्तं स्वापमुपगतमिव। भवतीति शेषः । अस्तमिते रवौ व्योमप्रदेशस्तमसा संवृतत्वान्निष्प्रभो भवतीत्यर्थः । उक्तमर्थमर्थान्तरन्यासेन समर्थयते - महतः तेजसः गतिः ईदृशी इति । महतः अत्युत्कृष्टस्य तेजसः गतिः स्वभावः ईदृशी वक्ष्यमाणप्रकारा । वक्ष्यमाणप्रकारविशिष्टत्वं महतस्तेजसो नियतमित्यर्थः । तमेव प्रकारमाह - तद् उत्थितं यावत् प्रकाशयति च्युतं तावन् मीलनाय खलु इति । तद् महत् तेजः उत्थितमुदितं यद् यावद् यत्प्रमाणं प्रकाशयति अभिद्योतयति च्युतं अस्तमितं सत् तावतः तत्प्रमाणस्य मीलनाय अप्रकाशनाय । पर्याप्तं भवतीति शेषः । खलुशब्दः प्रसिद्धौ । महत्तरं तेजः समुत्थितं सद् यावन्तमर्थजातं प्रकाशयति, अस्तमितं तु तत् तावतोऽर्थजातस्य मीलनाय पर्याप्तं भवतीति भावः ॥ ४३ ॥ सन्ध्ययाप्यनुपदं रवेः पदं धर्म्यमस्तशिखरे समर्पितम्। प्राक् तथेयमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥ ४४ ॥ प्रकाशिका सन्ध्ययेति। अनुपदमन्वगित्यर्थः । धर्म्यं धर्मोपेतम् । एतच्च विशेषणं नायिकात्वारोपपिशुनम् । अस्तो गिरिविशेषः । रवेरनुपदं सन्ध्ययाप्यस्तशिखरे पदं समर्पितमित्यन्वयः । प्रागित्यादि श्लेषगर्भो हेतूपन्यासः । उदयः संपदपि । पुरस्कारः पूजापि । अत्र समासोक्तिरलङ्कारः । शृङ्गाराभासव्यवहारस्त्वत्र भोजदृशा । अस्माभिस्त्वनौचित्यप्रवृत्तानां रसादीनामाभासत्वमिष्यते॥ ४४ ॥ विवरणम् प्रसन्ध्याकालोऽपि सम्प्राप्तं इत्याह- ५२८ कुमारसम्भवे सन्ध्ययेति । सन्ध्यया अपि रवेः अनुपदम् अस्तशिखरे पदं समर्पितम् । सन्ध्ययापीत्यपिशब्दस्य न केवलं रविणेत्यर्थः । रवेः आदित्यस्य अनुपदं पश्चादित्यर्थः। अस्तशिखरे अस्तगिरेः शिखरे पदं पादः समर्पितं न्यस्तम्। यदा रविरस्तमयोन्मुखस्तदुचितं प्रदेशमधिवसति तदा सन्ध्ययापि तस्मिन्नेव प्रदेशे पादविन्यासः कृत इत्यर्थ । युक्तं चैतदित्याह — धर्म्यमिति । धर्मादनपेतं यथा भवति तथेत्यर्थः । एतच्च क्रियाविशेषणम् । इदं नायिकात्वारोपसूचकम्। निधनेऽपि पतिमार्गानुसारित्वं हि नायिकाधर्मः । धर्म्यत्वमेव श्लेषगर्भेण हेतुनोपपादयति – प्राग् उदये तथा पुरस्कृता इयम् आपदि तं कथं न अनुयास्यति । प्रागितः पूर्वं सर्वदापि । आदित्यपक्षे स्वोदयसमये, नायकपक्षेऽभ्युदये सम्पदीत्यर्थः । तथा लोकोत्तरेण प्रकारेणेत्यर्थः। पुरस्कृता अग्रतः कृता पूजिता च । इयं सन्ध्या नायिका च । आपदि अस्तमये विपदि च। तम् आदित्यं नायकं च । आपदि अस्तमये विपदि च । तम् आदित्यं नायकं च। कथं नानुयास्यति, अनुयास्यत्येवेत्यर्थः। आदित्येन स्वोदयसमये सन्ध्या पुरस्क्रियते, आदित्योदयपूर्वभावित्वात् पूर्वसन्ध्यायाः । ‘विचेयतारकः कालः सन्ध्या सूर्योदयावधिः’ इति स्मृतेः । अर्धास्तमयादारभ्य नक्षत्रदर्शनावधिका पुनरपरसन्ध्या । ‘यावन्नक्षत्रदर्शनमि’ति स्मृतेः । अत्र समासोक्तिरलङ्कारः॥४४॥ रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि ! भान्त्यमूः। द्रक्ष्यसि त्वमिति वेलयानया वर्तिकाभिरिव साधु वर्तिताः ः118411 प्रकाशिका रक्तेति । वर्तिकाभिस्तूलिकाभिः । वर्तिता विन्यस्तरागविशेषाः ॥ ४५ ॥ सन्ध्यारागमेव वर्णयति— विवरणम् रक्तेति । कुटिलकेशि ! पयोमुचां कोटयः अमूः रक्तपीतकपिशा ः भान्ति । कुटिला वक्राः केशा यस्यास्तस्याः सम्बुद्धिः । ’ स्वाङ्गाद् – ’ ( ४.१.५४) इत्यादिना ङीष् । पयोमुचां मेघानां कोटयः पङ्क्तयः । अमूः इति सहस्तनिर्देशं वचनम् । रक्ता रक्ताम्बुजतुल्यवर्णा। ‘रक्तः शोणः कोकनदच्छविरित्यमरः । पीता हरिद्रातुल्यवर्णाः । ‘पीतो गौरो हरिद्राभ’ इत्यमरः । कपिशा ः कृष्णलोहितवर्णाः । ‘श्यावः स्यात् कपिशो धूम्रधूमलौ कृष्णलोहित’ इत्यमरः । भान्ति शोभन्ते । जलधरा एते नानावर्णा अष्टमः सर्गः ५२९ भासन्ते । तान् पश्येत्यर्थः । नानावर्णतयावस्थाने हेतुमुत्प्रेक्षते - त्वं द्रक्ष्यसि इति अनया वेलया वर्तिकाभिः साधु वर्तिताः इव इति । त्वं पश्यसीति हेतोः अनया वेलया सन्ध्यया वर्तिकाभिः तूलिकाभिः साधु सम्यग् यथा भवति तथा वर्तिता विन्यस्तरागविशेषा इव । उत्कृष्टस्त्रीनिकटगमने हि स्त्रीभिरलङ्कृताभिर्भवितव्यमिति हेतोरिवेत्यर्थः। अनया वेलयेति सन्ध्यायां प्रसाधिकात्वारोपपूर्वको व्यवहारः ॥ ४५ ॥ सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च। पश्य धातुशिखरेषु भानुना संविभक्तमिव सान्ध्यमातपम्॥४६॥ प्रकाशिका सिंहेति । केसराणि श्मश्रुरोमाणि, सटाः स्कन्धरोमाणीति दक्षिणावर्तः । केशवस्तु तौ पर्यायावाह । तत्पक्ष एव हि युगभुग्नकेसरत्वं सुघटम्। तदत्र सटा समूहः । भूभृतामिति सन्ध्यातपसम्बन्धहेतुमुन्नतदेशस्थिति द्योतयन् सर्वशेषः ॥ ४६ ॥ विवरणम् सन्ध्यातपो विगतप्राय इत्याह- सिंहेति । सान्ध्यम् आतपं पश्य । सान्ध्यं सन्ध्याकालभवम् आतपं रविकिरणं पश्य। सन्ध्यातपमुत्प्रेक्षते - भानुना भूभृतां सिंहकेशरसटासु पल्लवप्रसविषु द्रुमेषु धातुशिखरेषु च संविभक्तम् इव इति । सन्ध्यातपानामत्युन्नतप्रदेशेष्वेवावस्थानोपपत्तेरत्र भूभृतामिति शब्दस्त्रिष्वपि स्थानेषु योजनीयः । भानुना आदित्येन । भूभृतां पर्वतानाम् । सम्बन्धषष्ठी चेयम्। सिहानां केसरसटासु स्कन्धरोमावलीषु । पर्वतोपरि वर्तमानानां सिंहानां रक्तवर्णेषु स्कन्धरोमसमूहेष्वित्यर्थः । पल्लवप्रसविषु किसलयपुष्पवत्सु द्रुमेषु वृक्षेषु । पर्वतसम्बन्धिनां वृक्षाणां रक्तेषु पल्लवपुष्पेषु चेत्यर्थः । धातुप्रचुरेषु शिखरेषु । गैरिकपूरितेषु शृङ्गेष्वित्यर्थः । संविभक्तं सम्यग् विभक्तम्। विभज्य दत्तमिवेत्यर्थः । एकेन हि बहुभ्यो दीयमानं वस्तु परिक्षीयमाणं भवतीति भावः ॥४६॥ पाष्णिमुक्तवसुधास्तपस्विनः पावनाम्बुरचिताञ्जलिक्रियाः । ब्रह्म गूढमभिसन्ध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी ॥४७॥ ५३० कुमारसम्भवे प्रकाशिका यथा ‘पादाग्रस्थितया’ (रत्नावली. १. १) इत्यादौ । पाष्र्णीति । पादाग्रस्थिता इत्यर्थः । जलाद्यञ्जलिदाने तथा स्थितिः प्रसिद्धा, पाष्णिमुक्तवसुधत्वं प्राणायामवशादिति केचित् । पावनाम्बुरचिताञ्जलिक्रिया इति पाठः । ब्रह्म वेदम् । गूढमुपांशु । अभिसन्ध्यं सन्ध्यामुद्दिश्य । शुद्धये नित्यानुष्ठानं ह्यात्मशुद्धिफलम् । इदं च प्रस्तावकं वक्ष्यमाणस्य देवकर्तृकस्य सन्ध्यावन्दनस्य ॥ ४७ ॥ विवरणम् द्विजानां सन्ध्यावन्दनमप्यारब्धमित्याह—

पाष्र्णीति । अमी तपस्विनः ब्रह्म अभिसन्ध्यं गूढं गृणन्ति । तपोऽस्त्येषामिति तपस्विनः । ‘अस्मायामेधास्रजो विनिः’ (५.२.१२१) । इदं च विहितकालानतिक्रमे हेतुः । ब्रह्म वेदम् । सावित्रीमुचमित्यर्थः । अभिसन्ध्यं सन्ध्यामुद्दिश्य । गूढमिति क्रियाविशेषणम्। उपांशु यथा भवति तथा। गृणन्ति उच्चरन्ति । एते तपस्विनः सावित्रीमृचं सन्ध्यामुद्दिश्योपांशूच्चरन्तीत्यर्थः । सन्ध्योपासनस्य फलमाह — शुद्धय इति । आत्मशुद्धय इत्यर्थः । नित्यानुष्ठानं ह्यन्तःकरणशुद्धिफलम् । सन्ध्योपासनस्य पूर्वकालीनं जलाञ्जलिदानं सप्रकारमाह - पाष्णिमुक्तवसुधाः पावनाम्बुरचिताञ्जलिक्रिया इति । पाणिभ्यां गुल्फयोरधोभागाभ्यां परित्यक्ता वसुधा भूमिर्यैस्ते तथा । पाणिभ्यां वसुधां मुक्त्वा पादाग्रमात्रावस्थिता भूत्वेत्यर्थः । पावनैः विशुद्धैः अम्बुभिः रचिता कृता अञ्जलिक्रिया जलाञ्जलिदानरूपा क्रिया यैस्तथा । जलाद्यञ्जलिदाने पादाग्रमात्रेणावस्थितिः प्रसिद्धा, यथा ‘पादाग्रस्थितये’त्यादौ । तपस्विनां विहितानुष्ठाने हेतुमाह – आदृता इति । कृतादराः । कृतबहुमाना इत्यर्थः । बहुमाने हेतुमाह — विधिविद इति । विधिमर्थवादाद्युपबृंहितं विधिवाक्यं विदन्तीति तथा । वेदार्थवेदिन इत्यर्थः । अयं च श्लोको वक्ष्यमाणस्य देवकर्तृकस्य सन्ध्यावन्दनस्य प्रस्तावकत्वेनोक्तः ॥ ४७ ॥ तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि । त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ॥ ४८ ॥ प्रकाशिका तदेव प्रस्तौति अष्टमः सर्गः ५३१ तदिति । प्रस्तुताय तपस्विभिरारब्धाय । नियमाय नियमं कर्तुम् । मामपि नियमायानुमन्तुमर्हसि मयापि नियमो यथानुष्ठीयते तथानुमन्तुमर्हसीत्यर्थः । विनोदयिष्यति विनोदं कारयिष्यति। विनोदश्च सुखेन कालयापनम् ॥४८ ॥ विवरणम् देवकर्तृकं सन्ध्यावन्दनमेव प्रस्तौति- तदिति । तत् त्वं प्रस्तुताय नियमाय माम् अपि मुहूर्तम् अनुमन्तुम् अर्हसि । तद्, यस्मादेतैः सन्ध्यावन्दनमारब्धं तस्मादित्यर्थः । अनेन कालातिपातो मा भूदिति ध्वन्यते । प्रस्तुताय तपस्विभिरारब्धाय नियमाय नियमं कर्तुम् । मामपि, यथा तपस्विभिरयं नियमोऽनुष्ठीयते तथा मयापि कर्तव्योऽयं विधिरित्यर्थः । मुहूर्त क्षणकालम् । यथैते मुनयश्चिरकालं सन्ध्यामुपासते, अहं तु त्वद्विरहासहिष्णुतया न तथेत्यर्थः। अनुमन्तुम् अनुज्ञातुम् अर्हसि योग्या भवसि । ननु त्वद्वियोगविधुराया मम तदानीं का गतिः, अत आह— वल्गुवादिनि ! (विनोदनिपुणः) सखीजनः त्वां विनोदयिष्यतीति । वल्गु सुन्दरं यथा भवति तथा वदितुं शीलमस्या इति तथा । अनेन परस्परसंल्लापकौशलं द्योत्यते । अत एव विनोदनिपुण इति सखीजनविशेषणम्। विनोदे सुखेन कालयापने विदग्धः सखीजनः सखीसमाजः विनोदयिष्यति विनोदं कारयिष्यति । सखीसमाजः परस्परसंल्लापादिभिस्तव सुखेन कालयापनं कारयिष्यत्येव मा खिद इति भावः ॥ ४८ ॥ निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगा- माललाप विजयामहेतुकम् ॥४९॥ प्रकाशिका निर्विभुज्येति । निर्विभुज्य कुटिलीकृत्य । दन्तैरधरमवष्टभ्येत्यर्थः । एतच्चासूयाव्यञ्जकम् । अवधीरणाऽनादरः । समीपगां नित्यासन्नाम् । विजयेति देव्याः सखी। अहेतुकं प्रस्तावशून्यम् । अयं च बिब्वोको नाम भावः । ‘गर्वाभिमानादिष्टेऽपि बिब्वोकोऽनादरक्रिये ‘ति । अनादरकार्यमनिमित्तं सम्भाषणं सख्या ॥ ४९ ॥ विवरणम् इत्थमुक्त्वा देवे सन्ध्योपासनार्थं गते देव्याः प्रवृत्तिमाह- निर्विभुज्येति । ततः शैलराजतनया दशनच्छदं निर्विभुज्य समीपगां विजयाम् अहेतुकम् आललाप । ततः भगवतः सन्ध्यावन्दनप्रयाणानन्तरं शैलराजतनया ५३२ कुमारसम्भवे पार्वती दशनच्छद्रम् अधरं निर्विभुज्य कुटिलीकृत्य । दन्तैरधरमवष्टभ्येत्यर्थः । अनेनासूया व्यज्यते। समीपगां नित्यासन्नाम् । विजयां विजयाख्यां सखीम् । अहेतुकमिति क्रियाविशेषणम् । हेतुशून्यं यथा भवति तथा आललाप उक्तवती । अत्राहेतुकमित्यनेनासूयायां हेत्वभाव उक्तः । प्रणयमात्रहेतुकत्वं च द्योत्यते । देवे सन्ध्यां प्रणमति सति सन्ध्यायाः स्त्रीत्वादन्यवधूप्रणाममसहमाना देवी सासूयं प्रियवयस्यामुक्तवतीत्यर्थः। अधरदंशनेन सूचितामसूयां वचनेऽपि सूचयामासेत्याह – वाचि भर्तुः अवधीरणापरा इति । वाचि वचने न मनसीत्यर्थः । भर्तुः प्रियतमस्य । अनेन कोपस्य प्रणयमात्रहेतुत्वमुक्तम् । अवधीरणायामनादरे परा तत्परा । अनादरस्य कार्यं प्रियसखीं प्रत्यनिमित्तसम्भाषणम्। भर्तर्यनादरद्योतकं वचनं प्रियसखीं प्रति व्याजहारेत्यर्थः । अनेन श्लोकेन बिब्वोको नाम भावः प्रतिपादितः । यथोक्तं—‘गर्वाभिमानादिष्टेऽपि बिब्वोकोऽनादरक्रिया’ इति ॥ ४९ ॥ ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान् विधिम् । पार्वतीमवनतामसूयया प्रत्युपेत्य पुनराह सस्मितम्॥५०॥ प्रकाशिका ईश्वर इति । मन्त्रपूर्वमित्यनेन किञ्चित्कालविलम्बं द्योतयति । अवनतामवाङ्मुखीम्। असूयया सन्ध्यावन्दनजनितया । स्मितं तु तवासूयेयमस्थान इत्युपालम्भपरम्। अनेनाचरितेन ‘रागी वीतरागो वा नाचारं लङ्घयेदिति लोकसंशिक्षणमाचरति देवः ॥ ५० ॥ विवरणम् अथ रसानुसारी महाकविरालपनप्रकाराणां साक्षाद् रसानुगुणत्वाभावात् तानुपेक्ष्य देवस्यानुसरणप्रकारमेव वक्तुमुपक्रमते - ईश्वर इति । ईश्वरः अपि दिवसात्ययोचितं विधिं मन्त्रपूर्वम् अनुतस्थिवान् असूयया अवनतां पार्वतीं प्रत्युपेत्य पुनः सस्मितम् आह ! ईश्वरोऽपीति त्रैलोक्याधिपतित्वात् तदुपास्याया देवताया अभावेऽपीत्यर्थः । तेन च रागिभिरपि मोहाद् विहितकर्मपरित्यागो न कर्तव्य इति लोकशिक्षार्थत्वं सन्ध्यानुष्ठानस्य द्योत्यते । दिवसात्यये सध्यायाम् उचितं योग्यं विधि विधानम् । मन्त्रपूर्वमित्यनुष्ठानक्रियाविशेषणम्। मन्त्रपूर्वं यथा भवति तथा अनुतस्थिवान् अनुष्ठितवान् सन् । अनेन मन्त्रोच्चारणमात्रेणैव कालविलम्ब इति ध्वन्यते, तेन च विरहासहत्वम् । अष्टमः सर्गः ५३३ असूयया, सन्ध्यावन्दनसम्भूतयेति शेषः । अवनताम् अवाङ्मुखीं पार्वतीं प्रत्युपेत्य प्रत्यागम्य । पुनः पुनरपीत्यर्थः । पूर्वमपि भगवद्वचनस्य प्रकृतत्वात् । सस्मितं स्मितसहितं यथा भवति तथा आह उक्तवान् । अस्थाने तवेयमसूयेति स्मितेन द्योत्यते । तच्चोपालम्भे पर्यवस्यति । आहेति तिङ्प्रतिरूपकं भूतार्थेऽव्ययमित्युक्तमसकृत्। देवः सन्ध्याकालोचितं कर्म त्वरितं विधाय सन्ध्यावन्दनजनितयासूययानतवदनां देवीं प्रत्यागम्य पुनरपि सस्मितमुवाचेत्यर्थः ॥ ५० ॥ मुञ्च कोपमनिमित्तकोपने! सन्ध्यया प्रणमितोऽस्मि नान्यथा । किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥५१॥ प्रकाशिका मुञ्चेति। अनिमित्तकोपन इति स्मितसूचित उपालम्भः । नान्यथा न कामाभिसन्धिना, किन्तु धर्माभिसन्धिनेत्यर्थः । कथमेवं जानीयामित्याह - किं न वेत्सीति। तव सहधर्मचारिणं चक्रवाकसमवृत्तिं जानास्येवेत्यर्थः । चक्रवाका ह्येकजानयः प्रसिद्धाः ॥ ५१ ॥ वचनप्रकारमेवाह— विवरणम् मुञ्चेति । अनिमित्तकोपने! त्वं कोपं मुञ्च । अनिमित्तं निमित्तरहितं यथा भवति तथा कोपं कर्तुं शीलं अस्या इति तथा । अनया सम्बुद्ध्या स्मितसूचितमुपालम्भमेव वाचि निवेशितवानित्यवसेयम्। त्वं कोपं मुञ्च परित्यज । निमित्तराहित्यात् परित्याज्य एवायं कोप इति भावः । कथं निमित्ताभावः, अत आह— अहं सन्ध्यया प्रणमितः अस्मि इति । सन्ध्यया प्रणमने प्रयोजककर्त्या प्रणमितः प्रकर्षेण नमितः नमनं कारितोऽस्मि । ‘णमु प्रहृत्वे’ इति धातोर्णिचि निष्ठा । मान्तत्वाद् वृध्द्यभावः । सन्ध्याप्रणमनमेव मया कृतम् । कस्तव कोपावकाश इति भावः । ननु सन्ध्यया प्रणमितोऽसीति मया ज्ञातमेव । अत एव मे कोप इत्यत्राह - अन्यथा नेति । यथा त्वया कामापेक्षयेति कल्पितं, तथा न, अपि तु धर्मापेक्षयैवेत्यर्थः । ननु तत्र किं प्रमाणमित्यत्राह — त्वम् आत्मनः सहधर्मचारिणं चक्रवाकसमवृत्तिं न वेत्सि किम् इति । आत्मनः तवेत्यर्थः । सहधर्मचारिणं सहचरं चक्रवाकेण समा तुल्या वृत्तिर्यस्य तम् । न वेत्सि किं, जानास्येवेत्यर्थः । त्वं सर्वदा त्वया सहैव वर्तमानं मां चक्रवाकतुल्यधर्माणं किं न जानासि । जानास्येवेत्यर्थ । चक्रवाको ह्येकजानिः५३४ कुमारसम्भवे जायावियोगकातरश्चेति प्रसिद्धम् । उक्तं च रघुवंशे - ’ रथाङ्गनाम्नोरिव भावबन्धनम्’ ( ३.२४ ) इति ॥ ५१ ॥ निर्मितेषु पितृषु स्वयम्भुवा या तनुः सुतनु ! पूर्वमुज्झिता । सेयमस्तमुदयं च सेवते तेन मानिनि ! ममात्र गौरवम् ॥५२॥ अभिसंहिते धर्मे गौरवमाह- प्रकाशिका निर्मितेष्विति । अत्र भविष्यत्पुराणवचनं- पितामहः पितॄन् सृष्ट्वा मूर्ति तामुत्ससर्ज ह। सा प्रातः सायमागत्य सन्ध्यारूपेण पूज्यते ॥ एनां सन्ध्यां यतात्मानो ये तु दीर्घमुपासते । दीर्घायुषो भविष्यन्ति नीरुजाः पाण्डुनन्दन ! ॥ इति ॥ ५२ ॥ विवरणम् जगद्गुरोरप्यात्मनः सन्ध्यायां गौरवे हेतुमाह- निर्मितेष्विति । मानिनि ! सुतनु ! स्वयम्भुवा पितृषु निर्मितेषु या तनुः पूर्वम् उज्झिता सा इयम् अस्तम् उदयं च सेवते । स्वयम्भुवा ब्रह्मणा पितृषु अग्निष्वात्तादिषु निर्मितेषु सत्सु या तनुः शरीरं पूर्वम्, इदानीं विद्यमानस्य शरीरस्य ग्रहणात् पूर्वमित्यर्थः। उज्झिता त्यक्ता सेयं तनुः अस्तम् अस्तमयपर्वतम् उदयम् उदयपर्वतं च सेवते । ब्रह्मा पितृसर्गानन्तरं तत्सृष्टिकर्तृभूतं शरीरं परित्यज्य शरीरान्तरं गृहीतवान् । परित्यक्तं तच्छरीरं तु सन्ध्यारूपेण परिणतम् । तदेव सर्वैरुपास्यत इत्यर्थः । भविष्यत्पुराणप्रसिद्धश्चायमर्थः प्रजापतिः पितॄन् सृष्ट्वा मूर्ति तामुत्ससर्ज ह। सा प्रातः सायमागत्य सन्ध्यारूपेण पूज्यते ॥ एनां सन्ध्यां यतात्मानो ये तु दीर्घमुपासते । दीर्घायुषो भविष्यन्ति नीरुजाः पाण्डुनन्दन ! ॥ । इति । नन्वस्तु तथा प्रस्तुते किमायातमित्यत्राह — मानिनि! तेन मम अत्र गौरवम्

इति । हे मानिनि ! अभिमानवति! परित्याज्य एवायमभिमान इति भावः । तेन, अष्टमः सर्गः ५३५ यस्मात् कारणात् सन्ध्यायाः पितामहशरीरत्वं, तस्मात् कारणादित्यर्थः । अत्र सन्ध्यायां गैरवं बहुमानः । पितामहस्य भगवतापि पूज्यत्वं प्रागेवोक्तं’प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय (कुमा. ७.८६) इति ॥ ५२ ॥ तामिमां तिमिरवृत्तिपीडितां भूमिलम्बमिव सम्प्रति स्थिताम् । एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ५३ ॥ प्रकाशिका तामिति । तां, यैवं विश्वमहनीया । तिमिरस्य वृत्तिः प्रसरः, तेन पीडितां प्रतीच्यामेव संकोचिताम्। ततश्च नदीप्रवाहवदायतावस्थानाम् । भूमिलम्बं ‘लबि अवस्रंसन’ इति धातोः सप्तम्यन्त उपपदे ‘समासत्तौ’ (३.४.५०) इति णमुल् । भूमौ लम्बित्वेत्यर्थः ॥ ५३ ॥ विवरणम् इत्थं परमार्थवचनेन प्रशान्तकोपां देवीं प्रति पुनरपि प्रस्तुतमेवार्थमधि- कृत्याह- तामिति । त्वं तिमिरवृत्तिपीडितां ताम् इमां पश्य । तिमिरस्य तमसो वृत्त्या प्रसरेण पीडितां निरस्तप्रसराम् । वर्धमानेन तमसा प्रतीच्यामेव दिशि सङ्कोचं प्रापितामित्यर्थः। दक्षिणोत्तरदिगन्तव्यापिनीं परिहृतपूर्वदिगन्तां चेति भावः । अनेन नदीप्रवाहवदायतावस्थानं सूचितम् । तां या पितामहपरिणामभूतत्वाद् विश्वलोकमहनीया तामित्यर्थः । इमामिति सहस्तनिर्देशं वचनम्। दृश्यमानां सन्ध्यामित्यर्थः । पश्य अवलोकय । अत्यन्तरक्तवर्णा पूर्वभागे तिमिरपरिपूर्णा सन्ध्या सम्प्रति नयनरमणीया वर्तते । सावधानमवलोकयेत्यर्थः । सन्ध्यायाः कालविशेषवशादवस्थाविशेषप्राप्तिमुत्प्रेक्षामुखेन दर्शयति – सम्प्रति भूमिलम्बमिव स्थितामिति । सम्प्रति इदानीम्। कालविशेषेण सन्ध्यारागस्याधोभागमात्रवर्तित्वादित्यर्थः । भूमिलम्बं ‘लबि अवस्रंसन’ इत्यस्माद्धातोः सप्तम्यन्तोपपदे ‘समासत्तौ’ इति णमुलन्तोऽयं शब्दः । भूमौ लम्बित्वेत्यर्थः । स्थितामवस्थिताम् । सम्प्रति सन्ध्यारागस्याधोभागमात्रवर्तित्वाद् भूमौ निरन्तरावस्थिततया प्रतीयमानामित्यर्थः । अत एवोत्प्रेक्षतेएकतः तटतमालमालिनीं धातुरसनिम्नगाम् इव इति । एकतः एकस्मिन् भागे । पूर्वभाग इति भावः । तटतमालमालिनीम् तटं तीरप्रदेशः । तमालाः कृष्णवर्णा वृक्षविशेषाः । माला समूहः । तटे वर्तमानानां तमालानां मालास्त्यस्यामिति तथा । ५३६ कुमारसम्भवे ‘व्रीह्यादिभ्यश्च’ (५.२.११३) इतीनिः । ’ धातुर्मनश्शिलाद्यद्रेरि’ ति सिंहः । रसो जलम्। निम्नगा नदी । धातुप्रचुरो रसो धातुरसः । धातुरसमयी निम्नगा धातुरसनिम्नगा तामिव । दक्षिणोत्तरप्रवाहवतीं पूर्वभागे तमालपरिवृतां धातुप्रचुरजलपरिपूर्णां नदीमिव दृश्यमानामित्यर्थः । अरुणाचलनाथस्तु –— महता प्रयासेनात्रत्यमिवशब्दमुपमाद्योतकपक्षे निक्षिप्तवान् । बालप्रबोधार्थिनो वयं तु प्रतीतिबलादुत्प्रेक्षापक्षे निक्षिपामः ॥ ५३ ॥ सान्ध्यमस्तमितशेषमातपं रक्तरेखमपरा बिभर्ति दिक् । साम्परायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुज्झितम्॥५४॥ प्रकाशिका सान्ध्यमिति । आतपं प्रकाशम् । रक्तरेखं रक्तरेखारूपम् । मण्डलायं खङ्गः । उज्झितं क्षिप्तम् । नन्वत्रेव पूर्वत्राप्युपमानस्य क्रियान्वयेन भवितव्यम् । न चासौ सिध्यति । धातुरसनिम्नगाया देवीदर्शनविषयस्यासिद्धत्वात् । उच्यते । न ह्युपमानस्य सर्वत्र क्रियान्वयः । तर्ह्यपमानवाचिपदं केनान्वयमुपेयात् ? उपमेयवाचिना । ननु कस्तयोः सम्बन्धः । विशेषणविशेष्यभावः । तत्रोपमानं विशेषणं, शुक्लादिवद् व्यावर्तकत्वात्। अन्यद् विशेष्यं, पटादिवद् व्यावृत्तप्रत्ययविषयत्वात् । अत एव वागर्थावित्यादौ द्वितीयादिविभक्तियोगः । ननु तथापि क्रियान्वयेन भवितव्यम् । सर्वेषामेव विशेषणपदानां विशेष्यपदवत् क्रियापदान्वयस्य वाक्ये वाक्यविदामिष्टत्वात्। उच्यते । स ह्यन्वयः प्रथमं सत्त्या प्रतीतिपथमवतरति । न तु विश्रान्तिपदं भवति । विश्रान्तिपदं तु पाठिको विशेषणविशेष्ययोरन्वयः । स एव च व्यवहाराङ्गं वास्तवश्च । अत एव हि श्रौत्यामुपमायां तयोः समानविभक्ति- कत्वम् ॥५४॥ विवरणम् सन्ध्यारागस्य ततोऽपि न्यूनत्वात् तमेव रुधिरोक्षितेन खङ्गेनोपमिनोति — सान्ध्यमिति । अपरा दिक् सान्ध्यम् अस्तमितशेषं रक्तलेखम् आतपं बिभर्ति । अपरा दिक् पश्चिमाशा सान्ध्यं सन्ध्याकालभवम् अस्तमितस्य विनष्टस्य शेषम् अत एव रक्तलेखं रक्तलेखारूपम् आतपं प्रकाशं बिभर्ति दधाति । अस्तमितप्रायतल्लेखारूपं सन्ध्यारागं पश्चिमाशा दधातीत्यर्थः । अत्रोपमामाह — साम्यरायवसुधा सशोणितं तिर्यग् उज्झितं मण्डलाग्रम् इव इति । साम्यरायवसुधा युद्धभूमिः । अष्टमः सर्गः ५३७ ‘युद्धायत्योः साम्परायः’ इत्यमरः । सशोणितं शोणितेन रुधिरेण सहितं तिर्यक् तिरश्चीनं यथा भवति तथा उज्झितं क्षिप्तं मण्डलाग्रं करवालम् । ‘कौक्षेयको मण्डलाग्रः करवालः कृपाणवद्’ इत्यमरः, तमिव । यथा रणक्षितिः शोणितोक्षितं म्रियमाणैस्तिर्यक् क्षिप्तं मण्डलाग्रं दधाति, तथा पश्चिमाशा सन्ध्यानुरागमित्यर्थः । सन्ध्यारागस्य खड्गोपमया खड्गोपमया सूर्यास्तमयप्रदेश एव तिर्यगवस्थानं सूचितम् ॥ ५४ ॥ अत्र यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा । एतदन्धतमसं निरङ्कशं दिक्षु दीर्घनयने ! विजृम्भते ॥५५ ॥ प्रकाशिका यामिनीति। यामिनीदिवससन्धिसम्भवे सान्ध्य इत्यर्थः । सुमेरुणेति पौराणिकपक्षावलम्बनेन भणितिः। निरङ्कुशं निष्प्रतिबन्धम् ॥ ५५ ॥ विवरणम् अपिच तेजोलेशस्यापि विनष्टत्वादन्धकारावृतमिदं जगज्जायत इत्याह- यामिनीति । हे दीर्घनयने! यामिनीदिवससन्धिसम्भवे तेजसि सुमेरुणा व्यवहिते अन्धतमसम् एतद् दिक्षु निरङ्कुशं विजृम्भते । दीर्घे नयने यस्यास्तस्याः सम्बुद्धिः। यामिन्याः रात्र्याः दिवसस्य च सन्धिर्यामिनीदिवससन्धिः, तस्मिन् सम्भव उद्भवो यस्य तस्मिन्। तेजसि सान्ध्ये तेजसीत्यर्थः । सुमेरुणा महामेरुणा व्यवहिते कृतव्यवधाने सति अन्धतमसम् अत्यन्तप्रवृद्धं तम इत्यर्थः । ध्वान्ते गाढेऽन्धतमस’ मित्यमरः । दिक्षु सर्वासु दिक्षु निरङ्कुशम् । अत्र मत्तगजस्वैरसञ्चारप्रतिबन्धकवाचिनाङ्कुशशब्देन प्रतिबन्धमात्रं लक्ष्यते । अन्धतमसस्य गजवदनिवारणीयत्वप्रतीतिः फलम् । निष्प्रतिबन्धं यथा भवति तथा विजृम्भते वर्धते । पश्येति शेषः । सुमेरुणा व्यवहित इति पौराणिकमतानुसारेणोक्तम्। सूर्यः सुमेरुं प्रदक्षिणीकरोतीति तन्मतम् । अत्रान्धतमसस्य पुनर्वर्धनानुपपत्तेरन्धतमसं विजृम्भत इत्यस्यान्धतमसरूपेण वर्धत इत्यर्थो द्रष्टव्यः । अत साध्यसाधनभावश्चात्र सम्बन्धः । एवोत्तरश्लोके ‘नोर्ध्वमीक्षणगतिरित्यादिना तमसः प्रवृद्धत्वावस्थां वक्ष्यति ॥ ५५ ॥ ५३८ कुमारसम्भवे नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न च पुरो न पृष्ठतः । लोक एष तिमिरौघ उत्थिते गर्भवास इव वर्तते निशि ॥ ५६ ॥ प्रकाशिका नोर्ध्वमिति । अभितः पार्श्वतः । गर्भवास इवेति । तत्रापि नोर्ध्वादावीक्षण- गतिः ॥ ५६ ॥ विवरणम् अन्धतमसविजृम्भणे लोकस्यावस्थामाह- नोर्ध्वमिति। तिमिरौधे उत्थिते ऊर्ध्वम् ईक्षणगतिः न । तिमिराणाम् ओघे समूहे उत्थिते प्रवृद्धे सति ऊर्ध्वम् ऊर्ध्वभागे । ईक्षणानां नेत्राणां गतिः प्रवृत्तिः न । भवतीति शेषः । तमसि प्रवृद्धे नेत्राणामूर्ध्वभागप्रवृत्तिर्न भवतीत्यर्थः । अधोभागेऽपि नास्तीत्याह — अधः च अपि न इति। अधः अधोभागेऽपि च न । ईक्षणगतिरधोभागेऽपि नास्तीत्यर्थः । पार्श्वद्वयेऽपि नास्तीत्याह - नाभितः इति । अभितः पार्श्वतः । चशब्दोऽत्राप्यनुषज्यते । पार्श्वद्वयेऽपि नेत्राणां गतिर्न भवतीत्यर्थः । पुरोभागेऽपि नेत्रप्रवृत्तिर्नास्तीत्याह – पुरश्च न इति । पुरः पुरोभाग इत्यर्थः । पृष्ठेऽपि नास्तीत्याह — पृष्ठतः न इति । चशब्दोऽत्रापि द्रष्टव्यः । पृष्ठतः पृष्ठभागे इत्यर्थः । तमसि प्रवृद्धे कुत्रापि न नेत्रप्रवृत्तिरित्यर्थः । अत एवोत्प्रेक्षते - एषः लोकः निशि गर्भवासे वर्तते इव इति । एषः दृश्यमानो लोकः गर्भवासे गर्भगृहे । ‘गर्भागारं वासगृहमित्यमरः(?)। शीतातपादिनिवारणार्थं पाषाणवृक्षादिभिः कल्पितं गृहं गर्भगृहमित्युच्यते । नहि तत्राप्यूर्ध्वादावीक्षणगतिः सम्भवति । ‘लोक एष तिमिरेण वेष्टित’ इति वा पाठः ॥ ५६ ॥ शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् । सर्वमेव तमसा समीकृतं धिङ महत्त्वमसतां हतान्तरम् ॥५७॥ अष्टमः सर्गः प्रकाशिका ५३९ शुद्धमिति । समीकृतं निर्विशेषीकृतम्। असताम् असाधूनाम्। तमश्च भाऽभावरूपत्वादसत्। अतः श्लेषाविद्धोऽयमर्थान्तरन्यासः । हतान्तरमपहतविशेषम् । असतां महत्त्वं यदि स्यात्, तन्निह्नुतेतरपदार्थगतविशेषं भवतीत्यर्थः॥ ५७॥ विवरणम् अपिच सर्वमपि जगदैकरूप्यमुपगतमित्याह- शुद्धमिति । शुद्धम् आविलम् अवस्थितं चलं वक्रम् आर्जवगुणान्वितं च यत् तत् सर्वम् एव तमसा समीकृतम् । शुद्धं निर्मलम् | आविलं कलुषम्। ‘कलुषोऽनच्छ आविल’ इत्यमरः । मलोपहतमित्यर्थः । अवस्थितं निश्चलं चलं चञ्जलं वक्रं कुटिलम् आर्जवगुणान्वितम् अकुटिलत्वेन गुणेनान्वितं सहितं च यद् द्रव्यं, तत् सर्वमेव तमसा अन्धकारेण समीकृतं निर्विशेषीकृतम्। समलनिर्मलानाम् अचलचञ्चलानाम् अवक्रवक्राणां च पदार्थानां तमसा तत्तद्विशेषदर्शननिरोधद्वारेण साम्यमापादितमित्यर्थः । अत्र श्लेषानुविद्धमर्थान्तरन्यासमाह — असतां महत्त्वं हतान्तरं धिग् इति। असताम् असाधूनाम्। तमसश्चाभावरूपत्वादसत्त्वमस्ति । अभावरूपं तम इति तार्किकाणां मतमनुसृत्यैवमुक्तम् । महत्त्वम् औन्नत्यं प्रवृद्धत्वं च। हतम् अपहतम् अन्तरम् विशेषो येन तत् तथा । धिगिति निन्दावचनमव्ययम् । ‘धिङ् निर्भर्त्सननिन्दयो’रित्यमरः । यद्यसतां क्वचिन्महत्त्वमुत्पद्येत, तर्हि धिग् । न (ते) जनानां जातिकर्मादिकृतं विशेषमीक्षन्त इति भावः ॥ ५७ ॥ नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये । पुण्डरीकमुखि ! दिङ्मुखं यथा कैतकैरिव रजोभिराहतम्॥५८॥ प्रकाशिका नूनमिति । उन्नमति उदयते । वर्तमानसामीप्ये लट् । दिङ्मुखम् अर्थात् प्राचीमुखम्। यथेत्युपपादनद्योतकम् । ‘दिङ्मुखं हरेरिति केचित् पठन्ति ॥ ५८ ॥ विवरणम् अथ चन्द्रोदयं वर्णयितुमुपक्रमते- नूनमिति । यज्वनां पतिः शार्वरस्य तमसः निषिद्धये उन्नमति नूनम् । यज्वनां मुरारिः – ‘गौराङ्गीवदनोपमासुकृतमादत्ते पतिश्चन्द्रः । यदाह पतिर्यज्वनाम्’- ५४० कुमारसम्भवे [ अनर्घ्यराघवे ] इति । शार्वरस्य शर्वरीभवस्य तमसः तिमिरस्य निषिद्धये निषेधाय उन्नमति उदयते । वर्तमानसामीप्ये लट् । नूनमिति निश्चयवाचकमव्ययम्। ‘नूनं तर्केऽथ निश्चय’ इत्यमरः । सर्ववर्णविभागविनाशकारिणस्तमसः शान्तये द्विजानामधिपः सद्य एवोदेष्यतीति वयं निश्चिनुम इत्यर्थः । ननु तत्र किं प्रमाणम् (अत्राह ) – पुण्डरीकमुखि ! यथा दिङ्मुखं कैतकैः रजोभिः आहतम् इव इति । पुण्डरीकं पद्मम् । पुण्डरीकमिव मुखं यस्याः । ‘दिङ्मुखं हरेरि’ ति केषाश्चित् पाठः । तन्मते हरेरिन्द्रस्य दिशो मुखमित्यर्थः । यथेत्युपपादनद्योतकमव्ययम् । यस्मात् प्रकाराद्धेतोरित्यर्थः । दिङ्मुखं दिशो मुखम् । प्राच्या इत्यर्थात् सिध्यति । कैतकैः केतकीकुसुमसम्बन्धिभिः रजोभिः कुसुमरेणुभिः आहतम् अनुविद्धमिव । भवतीति शेषः । यस्मादिदं प्राचीदिङ्मुखं केतकीकुसुमरेणुभिरनुविद्धमिव भवति, तस्मात् तमोनिरोधाय चन्द्रः समुदेष्यत्येवेत्यर्थः ॥ ५८ ॥ मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका । त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥ ५९ ॥ प्रकाशिका मन्दरेति । सतारकेत्यस्य प्रतिवस्तु प्रियसखीसमागतेति, मन्दरान्तरितमूर्तित्वस्य पृष्ठतः स्थितिः ॥ ५९ ॥ विवरणम् किञ्च चन्द्रोऽप्युदितप्राय एवेत्याह- मन्दरेति । मन्दरान्तरितमूर्तिना शशभृता सतारका निशा लक्ष्यते । मन्दरेण मन्दराचलेन अन्तरिता आच्छादिता मूर्तिः शरीरं यस्य तेन । शशभृता चन्द्रेण तारकाभिर्नक्षत्रैः सहिता निशा रात्रिः लक्ष्यते अवलोक्यते । चन्द्रोऽयं मन्दराचलगूढशरीरः सन् आत्मनः प्रियतमां सतारकां निशामवलोकयतीत्यर्थः । मन्दारचलस्य गन्धमादनपूर्वभागावस्थितत्वादन्तरितत्वप्रतीतिः । अत्रोपमामाहवचनानि श्रोष्यता पृष्ठतः मया प्रियसखीसमागता त्वम् इव इति । वचनानि विस्रम्भवाक्यानि श्रोष्यता श्रोतुकामेनेत्यर्थः । पृष्ठतः पृष्ठभागे। स्थितेनेति शेषः । प्रियसखीसमागता प्रियाभिः अनेन विस्रम्भसँल्लापयोग्यत्वमुक्तं, सखीभिर्वयस्याभिः समागता सहिता त्वमिव । यथा प्रियसखीभिः सह तव सुखावस्थानसमये मद्विषयान् विस्रम्भसँल्लापानाकर्णयितुकामेन मया कदाचित् त्वमवलोक्यसे, तथेत्यर्थः ।

अष्टमः सर्गः ५४१ अनेनात्मनः प्रेमप्रकाशनं देवेन कृतमित्यवसेयम् । अत्र सतारकेत्यस्य प्रतिवस्तुत्वेन प्रियसखीसमागतेत्युक्तं मन्दरान्तरितमूर्तिनेत्यस्य तु पृष्ठतः स्थितेनेति ॥ ५९ ॥ रुद्धनिर्गमनमा दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मिता । एतदुद्गिरति रात्रिचोदिता दिग् रहस्यमिव चन्द्रमण्डलम् ॥६०॥ प्रकाशिका रुद्धेति । आ दिनक्षयाद् दिनव्यपगमावधि । अनेनाविस्रब्धजनसन्निधानपरिहारो ध्वनितः। रात्रिर्नायिकेव दिग् दूतीवेत्येकदेशविवर्तिन्युपमेयम् । उद्दीपकत्वसाम्याद् रहस्येन चन्द्रमण्डलस्योपमितिः ॥ ६० ॥ विवरणम् अपिच, तस्मादपि शनैः शनैरयमुद्गच्छति शीतभानुरित्याह- रुद्धेति । दिग् रात्रिचोदिता एतत् चन्द्रमण्डलम् उद्गिरति । दिक् प्राचीत्यर्थात् सिध्यति । रात्र्या निशया चोदिता प्रेरिता सती । एतदिति सहस्तनिर्देशं वचनम् । चन्द्रमण्डलं चन्द्रबिम्बम् उद्गिरति उद्वमति । अत्रोपमामाह - रहस्यम् इव इति । यथा नायिकाचोदिता दूती प्रियतमगतं प्रियतरं रहस्यवृत्तान्तं वदनादुद्वमति, तथेत्यर्थः । अत्र रहस्येन चन्द्रमण्डलस्योपमितिरुद्दीपकत्वसाम्यादिति द्रष्टव्यम् । साधारणं धर्ममाह — दिनक्षयाद् आरुद्धनिर्गमनम् इति । दिनस्य क्षयो दिनक्षयः । अत्राभिविधौ आङ्। दिनव्यपगमावधीत्यर्थः । रुद्धं निरुद्धं निर्गमनम् उद्गमनम् यस्य तत् तथा । रात्रिसमागमपर्यन्तं निरुद्धप्रसरमित्यर्थः । रहस्यपक्षे अविस्रब्धजनश्रवणपरिहारार्थं दिवसावसानपर्यन्तं रक्षितमित्यर्थः । दिनान्ते हि सर्वे जनाः यथागतं गच्छन्तीति भावः। चन्द्रोदयरहस्यवचनयोरारम्भदशां प्रकाशयन् दिशं विशिनष्टिपूर्वदृष्टनुचन्द्रिकास्मिता इति । पूर्वमेव दृष्टं तनु अत्यल्पं चन्द्रिकैव स्मितं यस्याम् । अनेन स्मितपूर्वाभिभाषित्वमुक्तम् । चन्द्रोदयारम्भे हि तनुतरा चन्द्रिका पूर्वमुद्गच्छति । अत्र चन्द्रमण्डलस्य रहस्योपमितिरुपमाशब्देनैवोक्ता । रात्रेर्नायिकोपमा दिशो दूत्युपमा चार्थादायातीत्येकदेशविवर्तिनीयमुपमा॥ ६० ॥ पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा। विप्रकृष्टविवरं हिमांशुना चक्रवाकमिधुनं विडम्ब्यते ॥ ६१ ॥ ५४२ कुमारसम्भवे प्रकाशिका पश्येति । पक्वफलिनीफलसाम्यमुदयरागात् । बिम्बाभ्यां बिम्बप्रतिबिम्बाभ्यां लाञ्छिते वियत्सरोम्भसी यस्य । वियत्स्थमुदयारुणं बिम्बं सरोम्भःस्थं प्रतिबिम्बं च परस्परं विप्रकृष्टान्तरे विघटितं चक्रवाकमिथुनं विडम्बयत इत्यर्थः ॥ ६१ ॥ विवरणम् चन्द्रोदयानन्तरं वियति दृश्यमानं चन्द्रबिम्बं सरसि दृश्यमानं तत्प्रतिबिम्बं च आश्चर्यरूपं दृश्यत इत्याह- पश्येति । बिम्बलाञ्छितवियत्सरोम्भसा अत्र हिमांशुना विप्रकृष्टविवरं चक्रवाकमिथुनं विडम्ब्यते पश्य । बिम्बाभ्यां बिम्बप्रतिबिम्बाभ्यां लाञ्छिते अङ्किते वियत्सरोम्भसी वियदाकाशं सरसामम्भश्च यस्य तेन । विप्रकृष्टं दूरं विवरमन्तरं यस्य तादृशं चक्रवाकद्वन्द्वं विडम्ब्यते अनुक्रियते पश्य अवलोकय । पश्येत्यर्थागतमपि दर्शनीयत्वातिशयं द्योतयितुं प्रयुक्तम् । आकाशदेशस्थं चन्द्रबिम्बं सरोजलस्थं तत्प्रतिबिम्बं च बिम्बस्य दूरोन्नतत्वेन परस्परविप्रकृष्टत्वाद् निशायां परस्परवियुक्तं चक्रवाकमिथुनमनुकुरुतः, सावधानमवलोकयेत्यर्थः । उपमात्रार्थी । चन्द्रबिम्बप्रतिबिम्बयोश्चक्रवाकदम्पत्योश्च सरः प्रदेशदृश्यमानत्वमप्युपमाहेतुः । किञ्च वर्णसाम्यमप्यस्तीत्याह — पक्वफलिनीफलत्विषा इति । रक्तवर्णफला कापि लता फलिनीशब्दार्थः । ‘फलिनी शक्रपुष्यपी’ त्यमरः । फलिन्याः फलं फलिनीफलम् । त्विट् शोभा । पक्वस्य फलिनीफलस्य । त्विडिव त्विड् यस्य तेन । रक्तवर्णेनेत्यर्थः । चक्रवाकमिथुनस्य रक्तवर्णत्वं प्रसिद्धम् ॥ ६१ ॥ शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोमला- श्छेत्तुमग्रनखसम्पुटैः कराः ॥६२॥ प्रकाशिका शक्यमिति । अत्र वामनः - ’ शक्यमिति रूपमलिङ्गवचनस्यापि कर्माभिधायां सामान्योपक्रमात्’ (५.२.२३) इति । सामान्योपक्रमो विशेषाविवक्षा । अप्रगल्भत्वेनापि नवोदयत्वं लक्ष्यते । यवसूचिर्यवाङ्कुरः । सूचिवत् सूचिः, तद्वत् कोमलाः । कोमलत्वं चारोपितम् । तेन च छेदस्य शक्यतारोपः । एवञ्च सर्व एवायं वाक्यार्थ उपचारप्राणकः । अमुं च प्रकारं संभवभणितिरिति केचिदाचक्षते । नखसंपुटैः अन्योन्याभिमुखनखयुगलसन्निपातैः ॥ ६२ ॥ अष्टमः सर्गः ५४३ विवरणम् चन्द्रिकापि मन्दं मन्दं प्रसरतीत्याह- शक्यमिति। ओषधिपतेः नवोदयाः कराः तव कर्णपूररचनाकृते अग्रनखसम्पुटैः छेत्तुं शक्यम् । ओषधिपतेः चन्द्रस्य नवः उदयः येषां ते तथा कराः रश्मयः तव कर्णपूररचनाकृते कर्णावतंसनिर्माणार्थम् । अग्रनखो नखाग्रम् । सम्पुटः सन्निवेशविशेषः । अग्रनखयोः सम्पुटाः अग्रनखसम्पुटाः तैः । अन्योन्याभिमुखनखाग्रनिपातनैरित्यर्थः। छेत्तुं छेदनं कर्तुं शक्यं योग्यम् । अत्र वामनः - ‘शक्यमिति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योपक्रमाद्’ (५.२.२३) इति । अत्रसामान्योपक्रमादित्यस्य विशेषविवक्षाभावादित्यर्थः । तस्माच्छक्यमित्यत्र विशेषविवक्षाभावाल्लिङ्गवचनविशेषाभावः । अत्र शक्यं यत्किञ्चिदस्तीति सामान्येनोपक्रमे किं तच्छक्यमित्याकाङ्क्षायां विशेषरूपो वाक्यशेषो द्रष्टव्यः । यथा - ‘शक्यमरविन्दसुरभिः’ ( शाकु. ३.४) इत्यादौ, ‘शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः’ इत्यत्र च । चन्द्रकराः सम्प्रत्यभिनवप्रवृत्तत्वात् तव कर्णपूरनिर्माणार्थं नखाग्रलाव्या इत्यर्थः । चन्द्रकराणां कर्णपूरयोग्यत्वमप्यस्तीत्याहअप्रगल्भयवसूचिकोमला इति । अप्रगल्भा अभिनवोदितत्वादतिमृदुला ये यवसूचयः यवाङ्कुराः सूचिवद्भान्तीति सूचयोऽङकुराः तद्वत् कोमलाः मृदुतराः । अत्र चन्द्रकराणामभिनवोदितत्वात् कोमलत्वमारोपितं, तेनच्छेदनयोग्यत्वमप्यारोप्यते । तस्मात् समस्तोऽप्ययमुपचारप्राणको वाक्यार्थः ॥ ६२ ॥ अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ ६३ ॥ प्रकाशिका अङ्गुलीभिरिति । अत्रोपमारूपकोत्प्रेक्षाणां सङ्करः ॥ ६३ ॥ विवरणम् सम्प्रति रजनीशशिनौ सुरतोद्युक्तनायिकानायकत्वेन प्रतीयेते इत्याह- अङ्गुलीभिरिति । शशी अङ्गुलीभिः केशसञ्चयम् इव मरीचिभिः तिमिरं सन्निगृह्य रजनीमुखं चुम्बति इव । शशी चन्द्रः अङ्गुलीभिः केशानां कचानां सञ्चयं समूहमिव मरीचिभिः रश्मिभिः तिमिरं तमः सन्निगृह्य सम्यङ् निगृह्य गृहीत्वा रजन्या मुखं पूर्वभागं वदनं च चुम्बतीव । यथा नायको नायिकायाश्चिकुरनिकुरुम्बं५४४ कुमारसम्भवे कराङ्गुलीभिः सम्यग् गृहीत्वा वदनं चुम्बति, तथा चन्द्रोऽपि अधोभागवर्तिनां तिमिराणामुपरिभागे करं प्रसार्य स्थितत्वादुपलब्धनिशामुखसम्बन्धत्वाच्चाङ्गुलीभिश्चिकुरं गृहीत्वा वदनं चुम्बतीवेत्युत्प्रेक्षते । चुम्बनजनितस्यानन्दस्यानुभावोऽपि मुखे दृश्यत इवेत्याह — कुड्मलीकृतसरोजलोचनमिति । कुड्मलीकृतं मुकुलीकृतं सरोजमेव लोचनं यस्य तत् । अस्माकमप्युपभोगकालः सम्प्राप्त इत्यनेन ध्वन्यते । अत्र अङ्गुलीभिः केशसञ्चयमिवेत्यत्र उपमा, कुड्मलीकृतसरोजलोचनमिति रूपकं, रजनीमुखं चुम्बतीवेत्युत्प्रेक्षेत्युपमारूपकोत्प्रेक्षाणां समासोक्तेश्चात्र सङ्करः ॥ ६३ ॥ पश्य पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् । लक्ष्यते द्विरदभोगदूषितं संप्रसीददिव मानसं सरः ॥ ६४ ॥ प्रकाशिका पश्येति । पार्वतीति श्लाघागर्भम् सम्बोधनम् । सामिभिन्नमर्धक्षिप्तम्। द्विरदभोगदूषितं गजस्नानक्रीडाकलुषितम्॥ ६४ ॥ विवरणम् चन्द्रिकायां प्रसृतायां तिमिरमपि शनैः शनैः शाम्यतीत्याह- पश्येति। पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलं द्विरदभोगदूषितं सम्प्रसीदद् मानसं सरः इव लक्ष्यते पश्य । हे पार्वतीति श्लाघागर्भं सम्बोधनम् । नवैः अभिनवोदितैः इन्दुरश्मिभिः चन्द्रकिरणैः कर्तृभूतैः । अत्र नवत्वं तिमिरस्य सामिमिन्नत्वे हेतुः । सामीत्यर्धवाचकमव्ययम्। ‘सामि त्वर्धे जुगुप्सने’ इत्यमरः । भिन्नं क्षिप्तम्। सामिभिन्नमर्धक्षिप्तं तमो यत्र तादृशं नभस्तलम् आकाशप्रदेशः द्विरदानां गजानां भोगेन स्नानक्रीडादिना दूषितं कलुषीकृतम् । नह्यतिमहतस्तस्य सरसः समस्तकलुषितत्वं समस्तकलुषितत्वं यस्य कस्यचित् क्रीडया सम्भवतीति द्विरदपदोपादानम्। सम्प्रसीदत् सम्यक् स्वच्छतामुपगच्छत् । अत्र वर्तमाननिर्देशेन प्रतिक्षणं प्रसादाधिक्यं द्योत्यते । मानसमिति देवानां सरसो नाम । लक्ष्यते दृश्यते । नभसो विस्तृतत्वान्मानसेनोपमा । पश्य सावधानमवलोकयेत्यर्थः । चन्द्रकिरणानामभिनवोदितत्वात् तैरर्धक्षिप्ततिमिरमिदं नभस्तलं पूर्वं गजस्नानक्रीडादूषितत्वात् स्वयमेव क्रमेण प्रसादमुपगच्छन्मानसं सर इव लक्ष्यते । अतिचित्रमेतत् सावधानमवलोकयेत्यर्थः । एतादृशी दशा नभस्तलस्य क्षणान्तरे विनश्यति । तस्मात् सद्य एवावलोकयेति भावः ॥ ६४ ॥ इत्यर्थः अष्टमः सर्गः हे रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः । विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ ६५ ॥ पूर्व भाग प्रकाशिका ५४५ रक्तेति। रक्तशब्देन विषयासक्तिः, मण्डलशब्देन स्वराष्ट्रं प्रकृतिशब्देनामात्यादयश्च ध्वन्यते। यथा राजा नवो यौवनारम्भे रागदूषितप्रवृत्तित्वात् क्षयलोभविरागादिकलुषितमण्डलः पश्चात् स्वाभाविकेनामात्यादिकृतेन च विनयेन युक्तः सन्नपगतरागः शुद्धमण्डलो भवति, तथायमपीत्युपमाध्वतिः ॥ ६५ ॥ विवरणम् चन्द्रोऽयमुदयरागमपहाय स्वाभाविकेन वैशद्येनान्वितो जात इत्याह- रक्तेति। एषः चन्द्रमाः रक्तभावम् अपहाय परिशुद्धमण्डलः जातः । चन्द्रमाः चन्द्रः। रक्तभावं रक्तत्वम् । उदयरागमिति यावत् । अपहाय परित्यज्य परितः समन्ताच्छुद्धं मण्डलं बिम्बं यस्य तथाभूतो जातः । युक्तं चैतदित्याह - कालदोषजा विक्रिया निर्मलप्रकृतिषु स्थिरोदया न खल्विति । कालदोषाज्जाता विक्रिया विकारः निर्मलप्रकृतिषु निर्मलस्वभावेषु स्थिरो निश्चलः उदय आविर्भावो यस्याः तथाविधा न खलु । खलुशब्दः प्रसिद्धौ । निर्मलस्वभावेषु कालदोषजो विकारो न स्थिर इत्यर्थः । अत्र रक्तशब्देन विषयेष्वत्यन्तसक्तिः, मण्डलशब्देन स्वराष्ट्र, प्रकृतिशब्देनामात्यादयश्च ध्वन्यन्ते । ततश्च यथा तावदभिनवो राजा यौवनारम्भे रागादिदूषितवृत्तित्वात् किञ्चित् कालं विरागादिकलुषितमण्डलो भवति पुनश्च कालान्तरे स्वाभाविकेन वा वृद्धामात्यकृतेन वा विनयेन भूषितो भूत्वा विगतरागः शुद्धमण्डलो जायते, तथायमपीत्युमाध्वनिः ॥ ६५ ॥ किञ्चिदिवं उन्नतेषु शशिनः प्रभा स्थिता घणमिति दक्षिण निम्नसंश्रयपरं निशातमः । नूनमात्मसदृशि प्रकल्पिता सियास्तस्यावसर वेधसैव गुणदोषयोर्गतिः ॥६६॥ प्रकाशिका उन्नतेष्विति । नूनं निश्चये । गुणदोषाभ्यां धर्मिणौ लक्ष्येते ॥ ६६ ॥ ५४६ कुमारसम्भवे विवरणम् शशिनि दूरोन्नते सति निम्नप्रदेशेषु केषुचिदेव तमो दृश्यत इत्याह- उन्नतेष्विति । शशिनः प्रभा उन्नतेषु स्थिता । शशिनः चन्द्रस्य प्रभा चन्द्रिका उन्नतेषु उन्नतप्रदेशेषु स्थिता। अतिविशदा चन्द्रिका समुन्नतेषु स्थलेषु प्रसृताभूदित्यर्थः। अतिमलिनं तिमिरं तु न तथेत्याह — निशातमः निम्नसंश्रयपरम् । निशायां यत् तम् ध्वान्तं निम्नानाम् अवटतटाकादीनां संश्रये सम्यगाश्रये परं तत्परम् । अभूदिति शेषः । अतिमलिनं तिमिरमधः प्रदेशवर्ति जातमित्यर्थः । ब्रह्मण एवायं कौशलविशेष इत्याह – गुणदोषयोः आत्मसदृशि [स्थाने] गतिः वेधसा एव प्रकल्पिता नूनम् इति । अत्र गुणदोषशब्दाभ्यां गुणी दोषवांश्च लक्ष्यते । आश्रयाश्रयिभावश्च सम्बन्धः । नैर्मल्यमालिन्ययोराधिक्यप्रतीतिः फलम् । आत्मसदृशि आत्मना सदृग् आत्मसदृक् तस्मिन् । गतिः प्राप्तिः वेधसा ब्रह्मणा । एवशब्दो जनान्तरव्यावृत्त्यर्थः। प्रकल्पिता प्रकर्षेण कल्पिता । सम्यक् कल्पितेत्यर्थः । नूनंशब्दो निश्चये। गुणवतां चन्द्रिकाप्रभृतीनां यदात्मयोग्ये समुन्नते स्थले गतिः कल्पिता, यच्च दोषवतां तमः प्रभृतीनां तदधिष्ठानयोग्ये निम्नप्रदेश एव वर्तनं, कल्पितं, तत् परमेष्ठिन एव कौशलविशेषो नान्यस्तेत्यर्थः । आत्मसदृशी इति पाठे आत्मसदृशी गतिः प्राप्यभूमिरित्यर्थः । अर्थान्तरन्यासप्रकारश्चायम् ॥ ६६ ॥ चन्द्रपादजनितप्रवृत्तिभि- श्चन्द्रकान्तजलबिन्दुभिर्गिरिः । मेखलातरुषु निर्वृतानिमान् बोधयत्यसमये शिखण्डिनः ॥६७॥ प्रकाशिका चन्द्रेति । प्रवृत्तिः स्यन्दः । मेखलाशब्दस्तरूणां नीचैर्वृत्तित्वं द्योतयति । बोधश्च प्रभातकालभाव्यवश्यायबिन्दुशङ्कया । शिखण्डिन इति नीडाश्रयत्वात्॥६७॥ विवरणम् इत्थमुदिते शशिनि चन्द्रकान्तशिलानां प्रवृत्तिमाह- इतरपक्षिणां चन्द्रेति । असौ गिरिः यन्द्रपादजनितप्रवृत्तिभिः चन्द्रकान्तजलबिन्दुभिः मेखलातरुषु निर्वृतान् इमान् शिखण्डिनः असमये बोधयति । असौ गिरिर्गन्धमादनः चन्द्रस्य पादै रश्मिभिः जनिता उत्पादिता प्रवृत्तिः स्यन्दो येषां तथाभूतैः चन्द्रकान्तशिलानां जलबिन्दुभिः मेखलायां पर्वतस्य नितम्बभागे ये तरवः वृक्षाः अष्टमः सर्गः ५४७ तेषु । निर्वृतान् सुखसुप्तानित्यर्थः । इमान् दृश्यमानान् शिखण्डिनः बर्हिणान् । असमये अकाले। प्रभातकालात् पूर्वमेवेत्यर्थः । बोधयति विगतस्वापान् करोति । प्रभातसमय एव पक्षिणां बोधः सम्भाव्यते। अत्र तु गिरेश्चन्द्रकान्तप्रचुरत्वाच्चन्द्रकान्तेषु चन्द्रोदये जलप्रवाहसम्भवाच्च शिखण्डिनस्तज्जलपतनसमये प्रभातसमयसम्भावितावश्यायबिन्दुशङ्कया प्रभातकालात् पूर्वमेव प्रबुद्धा भवन्तीत्यर्थः । इतरपक्षिणां नीडाश्रयत्वान्नीडे च जलपतनासम्भवाच्छिखण्डिन इत्युक्तम्। अत एव तेषामिदानीमेव केकाकोलाहलः श्रूयत इति भावः । चन्द्रकान्तशिलानां पर्वतसम्भूतत्वात् पर्वत एव बोधयतीत्युक्तम् ॥ ६७ ॥ कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिह पश्य सुन्दरि ! | हारयष्टिगणनामिवांशुभिः कर्तुमागतकुतूहलः शशी ॥ ६८ ॥ प्रकाशिका कल्पेति । कल्पवृक्षाणां हि कुसुमं हारादि ॥ ६८ ॥ विवरणम् कल्पवृक्षाणामग्रभागावस्थितेषु चन्द्रकरेषु विशेषमाह - 1 कल्पेति । सुन्दरि ! शशी सम्प्रति (इह) कल्पवृक्षशिखरेषु (प्र) स्फुरद्भिः अंशुभिः हारयष्टिगणनां कर्तुम् आगतकुतूहलः इव पश्य । सुन्दरि ! हे सर्वावयवरमणीये! । शशी चन्द्रः सम्प्रति एतस्मिन् काले इहास्मिन् गन्धमादने कल्पवृक्षाणां शिखरेषु अग्रभागेषु प्रकर्षेण स्फुरद्भिः शोभमानैः । हारयष्टीनां यष्ट्याकाराणां हाराणां मौक्तिकानां गणनां सङ्ख्यानं कर्तुं विधातुम् आगतं प्राप्तं कुतूहलं येन तथाभूत इव । पश्य अवलोकय । कल्पवृक्षकुसुमानां हारादिरूपत्वात् सम्प्रति चन्द्रोऽयं कल्पवृक्षोपरि पतद्भिरात्मनः करैस्तद्गतानां हाराणां परिगणनायां कुतूहलात् प्रवृत्त इव दृश्यते। सावधानमवलोकयेत्यर्थः । हारयष्टीनां गणनार्हत्वं चन्द्रकराणां तत्समीपवर्तित्वं चोत्प्रेक्षाहेतुः ॥ ६८ ॥ उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम् । भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः ॥ ६९ ॥ ५४८ कुमारसम्भवे प्रकाशिका पशु उन्नतेति । उन्नतावनतभागवत्तया अर्थाद् गिरेरेव । सतिमिरा तिमिरशबला गिरेश्चन्द्रिका। भक्तिभिर्भक्तिरेखाभिः । बहुविधाभिर्बहुप्रकारसन्निवेशाभिः । अत्र भक्तिरेखारहितानि गजाङ्गानि तिमिरस्थानीयानि ॥ ६९ ॥ विवरणम् पर्वतप्रसृतानां चन्द्रकराणां विशेषमाह- उन्नतेति । उन्नतावनतभागवत्तया सतिमिरा गिरेः इयं चन्द्रिका बहुविधाभिः भक्तिभिः अर्पिता मत्तहस्तिनः भूतिः इव भाति । उन्नताः तुङ्गाः अवनता निम्नाश्च भागाः प्रदेशाः सन्त्यस्येत्युन्नतावनतभागवान् तस्य भावस्तत्ता तया हेतुभूतया । पर्वतस्य निम्नोन्नतप्रदेशवत्त्वात् । सतिमिरा तिमिरसहिता । तिमिरशबलेत्यर्थः । गिरेः पर्वतस्य । चन्द्रिका गिरौ विसर्पन्ती चन्द्रिकेत्यर्थः । बहुविधाभिः बहुप्रकारसन्निवेशाभिः भक्तिभिः भक्तिरेखाभिः अर्पिता न्यस्ता । मत्तहस्तिनः महागजस्य । गिरेर्महत्त्वादिदं विशेषणम् । भूतिः भस्मेव भाति शोभते । ‘भूतिर्भस्मनि सम्पदि’ इत्यमरः । उन्नतप्रदेशे चन्द्रिकाप्रवृत्तिः निम्नप्रदेशे तिमिरप्रवृत्तिरिति पूर्वमेवोक्तम् । गिरेरुन्नतावनतभागवत्त्वाद् गिरौ प्रसृता तिमिरशबलचन्द्रिका महागजस्योपरि कुशलजनैर्विचित्राकारा विहिता भक्तिरेखेव राजत इत्यर्थः । पर्वतो मत्तहस्तिवद् भाति। सतिमिराः गिरिप्रदेशाः गजाङ्गवच्छोभन्ते । क्वचित् क्वचित् प्रसृता चन्द्रिका तु तदङ्गे भस्मभिः कृता भक्तिरेखेव राजत इति भावः ॥ ६९ ॥ एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् मुक्तषट्पदविरावमम्भसां भिद्यते कुमुदमा निबन्धनात् ॥७०॥ प्रकाशिका एतदिति । एतत् कुमुदमित्यन्वयः । उच्छ्वसितपीतम् उच्छ्वसितेन दलशैथिल्येन पीतम्। सातिशयपीतमिति केचिद् व्याचक्षते । आनिबन्धनाद् आ वृन्तात्। अत्र पारतद्रवपायिना पश्चाद् सोढुमशक्तेन उत्क्रोशता भिन्नशरीरेण साम्यं प्रतीयते ॥ ७० ॥ विवरणम् दूरोदिते शशिनि कुसुदान्यपि सम्यग् विकसन्तीत्याह-’ अष्टमः सर्गः ५४९ एतदिति । अम्भसाम् एतत् कुमुदं निबन्धनाद् आ भिद्यते । अम्भसां जलानाम्। कुमुदं, जले वर्तमानमित्यर्थः । कुमुदमिति जात्येकवचनम्। सकलमपि कुमुदकुलमित्यर्थः । निबन्धनाद् आ । निबन्धनं वृन्तम्। मर्यादायामाङ् । वृन्तप्रदेशावधीत्यर्थः । भिद्यते भेदमाप्नोति । विकसतीत्यर्थः । शशिकराणां सम्यक् प्रसृतत्वात् कुमुदान्यपि सम्यग् विकसन्तीत्यर्थः। वृन्तपर्यन्तं विकासे हेतुमुत्प्रेक्षते - ऐन्दवं प्रभारसं सोढुम् अक्षमम् इव इति । ऐन्दवम् इन्दुसम्बन्धिनम्। प्रभारसं प्रभाणां रसं वीर्यम्। ‘शृङ्गारादौ गुणे वीर्ये विषे रागे द्रवे रस’ इत्यमरः । सोढुम् अक्षमम् अशक्तमिव। दलेषु पतितानां चन्द्रकराणां वीर्यं सोढुमशक्यत्वादिवेत्यर्थः । मृदुतरं हि वस्तु गुरुतरवस्तुभरणे सति विहङ्गाधिष्ठिता लतेव सन्नतं भवतीति भावः । कुमुदानां विकासारम्भदशामेवाह - उच्छ्वसितपीतमिति । उच्छ्वसितेन उच्छ्वासेन । भावे निष्ठा । दलशैथिल्येन हेतुनेत्यर्थः । पीतं पीतवर्णम् । रक्तकुमुदापेक्षयैवमुक्तम् । कुमुदेषु मधुकराणां मधुपानजनितः कोलाहलोऽपि सञ्जात इत्याहमुक्तषट्पदविरावमिति । मुक्तः प्रयुक्तः षट्पदानां भ्रमराणां विरावो येन तत् तथा। उदीरितमधुकरनिनादमित्यर्थः । अत्र कुमुदस्य पीतपारतद्रवेण पश्चात् तद्वीर्य सोढुमशक्तेन भिन्नसर्वाङ्गेण क्रन्दता पुरुषेण साम्यं प्रतीयत इति समासोक्तिः ॥ ७० ॥ पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् । मारुते चलति चण्डि ! केवलं व्यज्यते विपरिवृत्तमंशुकम्॥७१॥ प्रकाशिका पश्येति। कल्पतरुलम्बीति, तेषां हि पल्लवान्यंशुकानि । शुद्धया तुषारादिसम्पर्करहितया जनितरूपसंशयम् इदमंशुकमियं ज्योत्स्नेति विवेक्तुमशक्यमित्यर्थः । तवांशुकपरिवर्तने परिकुप्यसीति द्योतनाय चण्डीति पदम्। मारुतपरिवर्तितत्वाज्ज्योत्स्नातो भिद्यत इत्यर्थः ॥ ७१ ॥ विवरणम् व्यज्यते, कल्पवृक्षप्रवालानामंशुकरूपत्वात् तद्गतानां चन्द्रकराणां मनोहारित्वातिशयमाह- पश्येति । कल्पतरुलम्बि ज्योत्स्नया जनितरूपसंशयम् अंशुकं मारुते चलति विपरिवृत्तं केवलं व्यज्यते । चण्डि ! त्वं पश्य । कल्पतरौ लम्बितुं शीलमस्येति तथा । कल्पतरौ लम्बमानमित्यर्थः । कल्पतरूणां हि पल्लवान्यंशुकानि । यदाह शक्तिभद्रो हनूमद्वाक्यप्रकरणे - 19 ५५० कुमारसम्भवे एषां पल्लवमंशुकानि कुसुमं मुक्ताः फलं विद्रुमं वैडूर्यं दलमङ्कुरो मरकतं हैमं च शाखाशतम् । एते के जगतीरुहो वनजुषोऽप्यज्ञातपूर्वा मया प्रायः सारममी दिवो विटपिनः किं तैर्ममान्यो भरः ॥ इति । ज्योत्स्नया चन्द्रिकया कर्तृभूतया जनितः उत्पादितः रूपे स्वरूपे संशयो यस्य तत् तथा । अंशुकस्य चन्द्रिकायाश्च वर्णसाम्यादिदमंशुकमियं ज्योत्स्नेति विवेक्तुमशक्यमित्यर्थः । अंशुकं वमनं मारुते वायौ चलति वाति सति । विपरिवृत्तं विशेषेण परिवृत्तम्। सञ्जातपरिवर्तनमित्यर्थः । इदं च हेतुगर्भं विशेषणम् । केवलशब्दोऽवधारणे। ज्योत्स्नातो भिद्यत इत्यर्थः । कल्पतरुपल्लवभूतानामंशुकानां ज्योत्स्नायाश्च कल्पतरुशाखावलम्बितत्वाद् रूपसाम्याच्चेदमंशुकमियं ज्योत्स्नेति विवेक्तुमशक्यत्वेऽपि वायौ वात्यंशुकानां चलनदर्शनाद् ज्योत्स्नायाश्च तदभावान्मारुतपरिवर्तितस्यांशुकत्वं निश्चीयत इत्यर्थः । हे चण्डि ! कोपने! त्वं सावधानं पश्य अवलोकस्य । अत्र चण्डीति सम्बुद्ध्या तवांशुकपरिवर्तने त्वं कुप्यसीति द्योत्यते । ज्योत्स्नाया अंशुकत्वसाम्ये हेतुमाह - शुद्धयेति । तुषारादिसम्पर्कराहित्यानिर्मलयेत्यर्थः ॥ ७१ ॥ शक्यमङ्गलिभिरुद्धृतैरधः शाखिनां पतितपुष्पपेशलैः । पत्रजर्जरशशिप्रभालवै- रेभिरुत्कचयितुं तवालकम्॥७२॥ प्रकाशिका शक्यमिति । अध इत्यपादानवाचि द्रष्टव्यम् । पेशलैर्मधुरैः । पत्रेति । पत्रैर्विच्छिन्नायाः शशिप्रभाया लेशैः उत्कचयितुं सम्बन्धुम् । ‘कच दीप्तिबन्धनयोरिति धातुः । एतदपि वाक्यं पूर्ववद् द्रष्टव्यम्॥ ७२ ॥ विवरणम् तरूणां पत्रान्तरालैर्निर्गतानामधः प्रदेशेषु दृश्यमानानां चन्द्रकिरणानामुद्दीपनत्वातिशयमाह- शक्यमिति। शाखिनाम् अधः अङ्गुलिभिः उद्धृतैः एभिः पत्रजर्जरशशिप्रभालवैः तव अलकम् उत्कचयितुं शक्यम् । शाखिनां वृक्षाणाम्। अधः अधोभागादित्यर्थ । अङ्गुलिभिरुद्धृतैर्गृहीतैः सद्भिः एभिः दृश्यमानैः । पत्रैः । अष्टमः सर्गः ५५१ वृक्षलतादीनां पर्णैर्हेतुभूतैर्जर्जरैः विच्छेदं गतैरित्यर्थः, शशिनश्चन्द्रस्य प्रभाणामशूनां लवैर्लेशैः साधनभूतैः। अलकशब्देनात्र केशा एवोच्यन्ते । उत्कचयितुं, ‘कच दीप्तिवन्धनयोरिति धातुः । बन्धुमित्यर्थः । शक्यं योग्यम् । पत्रविच्छिन्नप्रसराश्चन्द्रकराः शाखिनामधः प्रदेशादङ्गुल्ययैरुद्धृत्य तव शिरोरुहबन्धनं कर्तुं युक्ता इति भावः । शशिप्रभाणां शिरोबन्धनयोग्यत्वमेव विशेषणेनोपपादयतिपतितपुष्पपेशलैरिति। शाखिभ्यः पतितानि यानि पुष्पाणि तद्वत् पेशलैः सुन्दरैः । मालाकारेण बद्धैरेव हि पुष्पैरनुदिनं तव शिलोबन्धनं क्रियते । इदानीं पुनरेभिरेव कर्तुं युक्तमित्यर्थः । अत्रापि ‘शक्यमोषधिपतेर्नवोदयाः’ (८.६२) इतिवत् समस्तोऽयमुपचारप्राणको वाक्यार्थः ॥ ७२ ॥ एष तारमुखि ! योगतारया युज्यते तरलबिम्बया शशी । साध्वसादुपगतप्रकम्पया कन्यकेव नवदीक्षया वरः ॥ ७३ ॥ प्रकाशिका एष इति । यस्यां तारायां चन्द्रस्तिष्ठति, सा योगतारा। तरलबिम्बत्वं प्रातीतिकम्। नवदीक्षया प्रत्यग्रविवाहदीक्षया । अनेन देव्याः प्रथमावस्थास्मारणं नर्माचरति ॥ ७३ ॥ विवरणम् अथ चन्द्रवर्णनमुखेनैव सम्भोगकालप्रत्यासत्तिं भङ्गयन्तरेण दर्शयति- एष इति । तारमुखि ! एष शशी तरलबिम्बया योगतारया युज्यते । तारमत्युज्ज्वलं मुखं यस्याः तस्याः सम्बुद्धिरियम् । शशी चन्द्रः । तरलं चञ्चलं बिम्बं मण्डलं यस्याः तया । चञ्चलमण्डलयेत्यर्थः । अत्र मण्डलस्य चञ्चलत्वं प्रातिभासिकम्। नक्षत्रादयो हि दूरावलोकनसमये किञ्चिच्चलन्तीति प्रतीयन्त इति तेषां स्वभावः । इदं च नववधूत्वोपमाने हेतुः । योगतारया । इन्दुर्यस्यां तारकायां तिष्ठति, सा योगतारा। युज्यते योगं प्राप्नोति । इन्दुरयमद्यतनसम्बन्धयोग्यया स्वकान्तया तारकया सङ्गच्छत इत्यर्थः । अनेनावयोरपि सम्भोगकालः प्राप्त इति ध्वन्यते । अत्रोपमामाह — वरः साध्वसाद् उपगतप्रकम्पया नवदीक्षया कन्यया इव इति । वरः भर्ता साध्वसाद् अधाष्टर्थ्याद् उपगतः प्राप्तः प्रकम्पः प्रकृष्टः कम्पो वेपथुर्यया तया । नवा प्रत्यग्रा दीक्षा विवाहदीक्षा यस्याः तया । नवोढयेत्यर्थः । यथा वरः साध्वसपरतन्त्रत्वादुपगतवेपथुप्रकर्षया कन्यया सङ्गच्छते तथायं चन्द्रोऽपीत्यर्थः । ५५२ कुमारसम्भवे अनेन वाक्येन देवो देव्याः प्रथमसङ्गमावस्थानकर्मणो देवीमन्मथोद्दीपनार्थमनु- स्मारितवानित्यवसेयम् ॥ ७३ ॥ पाकभिन्नशरकाण्डगौरयो- रुल्लसत्प्रतिकृतिप्रपन्नयोः । रोहतीव तव गण्डरेखयो- उदगीरोधा पुरस्कृता श्चन्द्रबिम्बनिहिताक्षि ! चन्द्रिका ॥ ७४ ॥ नाय प्रकाशिका पाकेति । पाकेन भिन्नं संभिन्नम्। उल्लसन्त्या प्रतिकृत्या चन्द्रप्रतिमया प्रपन्नयोः । पाकेत्यादि चन्द्रिकायाः प्रतिफलने हेतुः । प्रतिफलनाच्चन्द्रप्रतिबिम्बनाच्च चन्द्रिकारोहणोत्प्रेक्षा । चन्द्रबिम्बनिहिताक्षीति समग्रकान्तिभाजनयोरात्मगण्डरेखयोः स्फीतयोर्मुधा चन्द्रं पश्यसि । तदेतावेवादर्शतले पश्येत्युपालम्भपरं कृति स्मृतेः। अर्थास्तमयादार विवरणम् दर्शनमिति सम्बोधनम्॥७४॥ नक्ष अन अथ देवश्चन्द्रबिम्बादतिमनोहरत्वं देवीवदनस्यैव प्रतिपादयंश्चन्द्रवर्णनमुपसंहरतिपाकेति । चन्द्रबिम्बनिहिताक्षि ! चन्द्रिका तव गण्डरेखयोः रोहति इव । चन्द्रस्य बिम्बे निहिते समर्पिते अक्षिणी यया । अनेन चन्द्राभिमुखावस्थानमुक्तम् । तच्च चन्द्रिकाप्रतिफलने एको हेतुः । समग्रगुणास्पदत्वाद् विजितचन्द्रयोस्तव गण्डरेखयोः सतोः किं मुधा चन्द्रं पश्यसि । आदर्शमादायैते एवावलोकयेत्युपालम्भगर्भेयं सम्बुद्धिः । चन्द्रिका ज्योत्स्ना तव गण्डरेखयोः गण्डप्रदेशयोः रोहणाधिकरणभूतयोः रोहति प्ररोहतीव । चन्द्राभिमुखावस्थितायास्तव गण्डद्वितयाच्चन्द्रिका सततमुद्गच्छतीवेत्यर्थः । चन्द्रिकाप्रतिफलने प्रधानहेतुभूतं गण्डरेखयोरौज्ज्वल्यमाह — पाकभिन्नशरकाण्डगौरयोरिति । पाकेन भिन्नं सम्भिन्नं यच्छरकाण्डं वेणुविशेषदण्डः, तद्वद् गौरयोः । पाकसम्मिश्रं हि शरकाण्डं गौरवर्णं भवति । अत एवोल्लसत्प्रतिकृतिप्रपन्नयोः उल्लसन्त्या शोभमानया प्रतिकृत्या चन्द्रप्रतिमया प्रपन्नयोः प्राप्तयोः । गण्डप्रदेशयोर्निर्मलत्वात् संप्राप्तचन्द्र- प्रतिमयोरित्यर्थः ॥ ७४॥ लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् । तुल्यमा त्वामियं स्थितिमतीमुपस्थिता गन्धमादनवनाधिदेवता ॥ ७५ ॥ अष्टमः सर्गः प्रकाशिका एवं काललक्षणमुद्दीपनमुपवर्ण्य उद्दीपनान्तरं प्रस्तौति- ५५३ लोहितेति। लोहितार्कमणिभाजनं लोहितार्कसदृशं मणिपात्रम्। स्वयं स्वहस्तेन । स्थितिमतीं प्रभावयुक्ताम् । सकलदिव्याङ्गनासेव्यामित्यर्थः । इदञ्च वाक्यं प्रक्रंस्यमानसम्भोगवर्णनप्रसङ्गार्थम् ॥ ७५ ॥ विवरणम् इत्थं सन्ध्याचन्द्रोदयादिरूपमुद्दीपनमुपवर्ण्य मधुपानादिरूपमुद्दीपनं वर्णयितुमुपक्रमते- लोहितेति। गन्धमादनवनाधिदेवता इयं त्वाम् उपस्थिता । गन्धमादनवनस्याधिदेवता अधिष्ठात्री देवता इयं त्वामुपस्थिता प्राप्ता । अत्र वनान्तरे भवती निवसतीति प्रभावादवधार्य त्वत्सेवार्थमियं गन्धमादनवनदेवता सम्प्राप्ता भवतीत्यर्थः । दर्शनकालोचितामुपदामपि स्वहस्तेनैवेयमुद्धरतीत्याह — कल्पवृक्षमधु लोहितार्कमणिभाजनार्पितं स्वयं बिभ्रती इति । कल्पवृक्षपुष्पसम्भवं मधु मद्यम्। अत्र कल्पवृक्षसम्बन्धान्मद्यस्योत्कर्षातिशयो व्यज्यते । भाजनस्याप्युद्दीपनत्वमाहलोहितेत्यादि । लोहितः सन्ध्यारागरक्तो योऽर्कः तत्सदृशे मणिभाजने रत्नपात्रेऽर्पितं न्यस्तं सत् स्वयं स्वहस्तेनैव बिभ्रती वहन्ती । कल्पवृक्षमधु रत्नपात्रे निधाय स्वयमेवोद्वहन्तीत्यर्थः । अत्र स्वयमेवोद्धरणमात्मनः कैङ्कर्यं च द्योतयति । देव्याः सकलदेवतान्तरसेव्यत्वे हेतुमाह — स्थितिमतीमिति । स्थितिर्मर्यादास्त्यस्या इति तथा । स्वप्रभावेणैव प्रवर्तितसमस्तलोकमर्यादामित्यर्थः । अनेन त्रैलोक्यवासिनां सर्वेषामपि सेव्यत्वं देव्याः प्रतिपादितम्। इदं च मद्यानयनं करिष्यमाणस्य सम्भोगवर्णनस्य प्रसङ्गार्थमुपात्तम् ॥ ७५ ॥ आर्द्रकेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः । अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि ! मदः करिष्यति ॥ ७६ ॥ प्रकाशिका आर्द्रेति । आर्द्रकेसरं प्रत्यग्रवकुलम् । वीप्सायां द्विर्वचनम् । मत्तत्वेन मदेऽपि सम्भविनो धर्मा लक्ष्यन्ते । गुणान्तरं स्वभावसिद्धोक्तगुणद्वयव्यतिरिक्तम् । अत्र मधुकार्यत्वेऽप्यार्द्रकेसरसुगन्धित्वस्योपचारान्मदकार्यत्वम् । दक्षिणावर्तस्तु – ‘मधुरिति वा पाठः । मद्यविशेषवाची पुल्लिङ्गान्तो मधुशब्दोऽस्तीत्याद्यवोचत् । तदसत् ।५५४ कुमारसम्भवे पूर्ववाक्ये स्वशब्दनिर्दिष्टस्य मधुनोऽत्र तच्छब्देनापरामर्घुमयुक्तत्वात् । स्वशब्दनिर्देशे वा नापुंसकः संस्कारो युक्तः । अन्यथा लिङ्गप्रक्रमभेदप्रसङ्गः । पुल्लिङ्गनिर्देशे सति चेदमित्युत्तरवाक्ये परामर्शो न युक्तः । इत्थं पद्यत्रयालोचनयात्र पाठो निर्णेयः ॥ ७६ ॥ विवरणम् इत्थं प्रसङ्गागतं मधुपानमेव चाटुवचनमुखेन परिहरन्नाह- आर्द्रेति । विलासिनि! ते मुखम् आर्द्रकेसरसुगन्धि । हे विलासिनि ! विलासवति । अनया सम्बुद्ध्या विलासोऽपि तव स्वाभाविकः, न मधुविकारजन्य इति ध्वन्यते । आर्द्रं प्रत्यग्रं यत् केसरं बकुलकुसुमं तद्वत् सुगन्धि । शोभनो गन्धो यस्य तत् सुगन्धि। ‘गन्धस्येदुत्पूतिसुसुरभिभ्यः’ (५.४.१३५) । मुखसौगन्ध्यं हि मद्यस्य प्रथमं फलम् । तत्तु तव स्वभावसिद्धमेवेति भावः । यत् पुनः शीधुपान समये नयनादौ विशेषतो विलासप्रादुर्भावरूपं फलं, तदपि ते वदनस्य स्वभावसिद्धमेवेत्याह-स्वभावतः मत्तमत्तनयनमिति । स्वभावतः प्रकृत्यैव मत्तमत्तमत्यन्तमत्तं नयनं यस्य तत् तथा । अत्र मत्तशब्देन मधुमदे सम्भविनां विलासादिधर्माणां सत्त्वं लक्ष्यते । द्विर्वचनेन च तेषां पूर्णत्वं, स्वभावत इत्यनेन तेषां नित्यत्वं च द्योत्यते । यस्मादितरनारीणां मधुमदसाध्या एते विकारास्तव स्वभाविकाः, तस्मात् किं तव मधुनेत्याह — अत्र लब्धवसतिः मदः किं गुणान्तरं करिष्यति । अत्र तव मुखे लब्धवसतिः लब्धप्रतिष्ठः मदः मधुमदः किं गुणान्तरं गुणभेदं करिष्यति मधुपानेन तव मुखे लब्धप्रतिष्ठो मदः स्वाभाविकपूर्वोक्तगुणद्वयव्यतिरिक्तं कीदृशं गुणान्तरं विधास्यति । न यादृशतादृशमपि । तस्मात् तव निरुपयोगं मध्विति भावः ॥ ७६ ॥ मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम्। इत्युदारमभिधाय शङ्कर- स्तामपाययत पानमङ्गनाम्॥७७॥ वैयर्थ्यात्मकमाक्षेपं परिहरति- प्रकाशिका मान्येति । अथवा सखीजनभक्तिमात्रमाननात्र गुणान्तरं भविष्यति । तस्मादिदं मधु सेव्यतामित्यर्थः । सखीशब्देन प्रकृता वनदेवता विवक्ष्यते। विशेषणद्वारेणापि गुणान्तरमाह — अनङ्गदीपनमिति । उदारं विदग्धम् । पीयत इति पानं मधु । अपाययत स्वहस्तेनादायेति शेषः ॥ ७७ ॥ अष्टमः सर्गः • ५५५ इत्थमाक्षिप्य समादधाति- विवरणम् मान्येति । अथवा सखीजनः मान्यभक्तिः । अथवेति पक्षान्तरे। तच्च पूर्वोक्तगुणद्वयव्यतिरिक्तगुणान्तरप्रस्तावपरम्। स एव च गुणः सखीजन इत्यादिनोच्यते । सखीशब्देनात्र प्रकृता गन्धमादनवनदेवता विवक्षिता । उपपद्यते च गन्धमादनस्य हिमवत्सन्निहितत्वात् तद्देवतायाः सखीत्वम् । मान्या माननीया भक्तिर्यस्य स तथा । यस्मात् सखीजनभक्तिमानना गुणान्तरं प्रसूते, तस्मात् सेवनीयमिदं मध्विति भावः । अत एवोच्यते - इदं सेव्यतामिति । इदं मधु सेव्यताम् उपयुज्यतामित्यर्थः । पूर्वोक्तगुणद्वयव्यतिरिक्तं गुणान्तरं चास्तीत्याहअनङ्गदीपनमिति । अनङ्गं मदनं दीपयति वर्धयतीति तथा । मदनोद्दीपनादपि मधु सेव्यमित्यर्थः । इत्थमुपवर्णितं भगवद्वचनमुपसंहृत्यार्थान्तरं प्रस्तौति – शङ्करः इति उदारम् अभिधाय ताम् अङ्गनां पानम् अपाययतेति । इति पूर्वोक्तप्रकारेण उदारं विदग्धं यथा भवति तथा अभिधाय उक्त्वा । वचनस्योदारत्वमपि शङ्करेत्यनेन सूचितम्। तामङ्गनां पार्वतीम् । पीयत इदमिति व्युत्पत्त्या पानशब्देनात्र मध्वेव विवक्ष्यते । अपाययत पान कारितवान् । स्वहस्तेनादायेति शेषः । शङ्करः ‘पद्मकान्तिमरुणत्रिभागयोः’ (८.३०) इत्यारम्भ ‘सेव्यतामिदमनङ्गदीपनमित्यन्तेन काललक्षणमुद्दीपनं देवीचित्तावर्जनं च विधाय मधुपानलक्षणमुद्दीपनमपि वल्लभायाः कृतवानित्यवसेयम् ॥ ७७ ॥ पार्वती तदुपयोगसम्भवां विक्रियामपि सतीं मनोहराम्। अप्रतर्क्सविनियोगनिर्मिता- माम्रतेव सहकारतां ययौ ॥ ७८ ॥ प्रकाशिका पार्वतीति। विक्रियामपि, विक्रिया हि धैर्यविपर्ययात्मकत्वाद् दोषः । मनोहरामिति दोषस्य गुणीभावः । अप्रतर्येति सहकारताया विशेषणम् । अप्रतर्क्ष्योऽचिन्त्यप्रभावो यो विनियोगो मणिमन्त्रौषधकालादियोगः, तेन निर्मिताम् । सहकाराः स्वादुफला आम्राः । दक्षिणावर्तस्त्वाह— ‘अप्रतर्क्सविनियोगनिर्मितामाकस्मिकफलरसोपयोगकल्पिताम् । अयमर्थः – कस्यचिदाम्रस्य पूर्वप्रतिपन्ना त्वाम्रता कदाचित् स्वादुफलदर्शनेन यथा सहकारतां प्रतिपद्यते, तथेति ॥ ७८ ॥ विवरणम् अथ देव्या मधुपानविकारं वर्णयति- ५५६ कुमारसम्भवे पार्वतीति । पार्वती तदुपयोगसम्भवां ययौ । तस्य मधुनः उपयोगात् पानात् सम्भवो यस्याः ताम् । ययौ प्राप्तवती । मधूपयोगे यत् सम्भवति, तत् प्राप्तवतीत्यर्थः। वक्ष्यमाणविक्रियापेक्षया स्त्रीलिङ्गत्वम् । तामेव निर्दिशति - विक्रियां सतीम् अपि मनोहराम् इति । विक्रियां विकाररूपिणीं सतीमपि मनोहराम् । विक्रिया हि धैर्यविपर्ययात्मकत्वाद् दोषः । तथाभूतां भवन्तीमपि मनोहरामित्यर्थः । नहि विक्रिया कुत्रापि मनोहरा भवति । देव्या मधूपयोगसम्भवा विक्रिया तु न तथेति भावः । देव्यास्तदुपयोगेन तादृशविक्रियाप्राप्तावुपमामाह - आम्रता अप्रतर्क्सविनियोगनिर्मितां सहकारताम् इव इति । ईषत्स्वादुफलश्चतविशेष इहाम्रशब्देनोच्यते । तस्य भावस्तत्ता। अप्रतर्व्यः अविचिन्त्यप्रभावो यो विनियोगः मणिमन्त्रौषधकालादियोगः, तेन निर्मितां विहिताम्। सहकारताम् अतिस्वादुफलश्चतविशेषः सहकारः, तस्य भावस्तत्ता, तामिव । यथा मन्दस्वादुफलत्वात् पूर्वमाम्रतामुपगता चूतलता पुनर्मणिमन्त्रयोगादतिस्वादुफलां सहकारतां प्राप्नोति, तथा पार्वत्यपि मधुपानेन पूर्वापेक्षयातिमनोहरां विक्रियामवापेत्यर्थः ॥ ७८ ॥ तत्क्षणं विपरिवर्तितहियो- नेष्यतोः शयनमिद्धरागयोः । सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥ ७९ ॥ प्रकाशिका तत्क्षणमिति । विपरिवर्तिता अपनीता हीर्येन । नेष्यतोः प्रापयिष्यतोः । इद्धो रागो यस्य येन च । तत्क्षणं वशवर्तिनी बभूवेत्यन्वयः । कस्य कस्येत्याह — शूलिन इति । अत्र मदवशत्वं शूलिवशत्वहेतुरवसेयम् ॥ ७९ ॥ मधुपानस्य फलमाह- विवरणम्

तत्क्षणमिति । सा सुवदना तत्क्षणं द्वयोः वशवर्तिनी बभूव । सा यैवं कृतपाना। सुवदना शोभनं वदनं यस्याः सा तथा । अनेन मुखशोभाया अपि पूर्वस्मात् किञ्चिदाधिक्यं ध्वन्यते । तत्क्षणं तस्मिन् क्षणे । अनेन मधुपानविकारस्य सद्यःप्रसर उक्तः । द्वयोर्वक्ष्यमाणयोः वशवर्तिनी वशं वर्तितुं शीलमस्या इति तथा बभूव भवति स्म । कस्य कस्य चेत्याकाङ्क्षायामाह — शूलिनः मदस्य च इति । शूलिनः परमेश्वरस्य मदस्य मधुपानजनितस्य विकारस्य । चशब्दः समुच्चयार्थः । अत्र मदवशवर्तित्वं लज्जामपहाय शूलिवशवर्तित्वप्राप्तौ हेतुरित्यवसेयम् । शूलिनि अष्टमः सर्गः

4 ५५७ मदे च श्लिष्टं विशेष (ण) त्रयम् । तत्राद्यमाह – विपरिवर्तितह्नियोरिति । विपरिवर्तिता अपनीता ह्रीर्याभ्यां तयोः । मदो हि लज्जामपनयति । शूली च तदानी चाटुशतवचनेन लज्जामपनीतवानित्यनेनोक्तम्। वक्ष्यमाणासु सर्वास्वपि लीलासु लज्जापगमनस्यैव हेतुत्वादिदं विशेषणं पूर्वमुपात्तम् । पुनश्च लज्जापगमनस्य कार्य द्वितीयेन विशेषणेनाह - शयनं नेष्यतोरिति । शयनं शय्यां नेष्यतोः प्रापयिष्यतोः । मदो हि लज्जामपनीय स्वयमेव शय्यां प्रापयिष्यति, शूली तु करग्रहणादिभिः । लज्जापनये शय्याप्रापणे च रागवृद्धिरेव हेतुरिति तृतीयेन विशेषणेनाहइद्धरागयोरिति । इद्धः प्रवृद्धः रागो येन यस्य च तयोः ॥ ७९ ॥ घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दुमदकारणस्मितम् । आननेन न तु तावदीश्वर- श्चक्षुषा चिरमुमामुखं पपौ ॥८०॥ अत्र मदवशवर्तित्वं वर्णयति- प्रकाशिका घूर्णमानेति । चक्षुषेति मदविकारदर्शनसुखमेवान्वभूदित्यर्थः ॥ ८० ॥ विवरणम् अत्र मदवशवर्तित्वस्यैव शूलिवशवर्तित्वे हेतुत्वादादौ मदवशवर्तित्वं वर्णयतिघूर्णमानेति । ईश्वरः तावद् उमामुखं चक्षुषा चिरं पपौ । ईश्वरः त्रयाणां लोकानां नियन्ता । तस्य तावदीदृशी समवस्था । अन्येषां का कथेत्यनेन द्योत्यते । तावत् तस्यामवस्थायाम्। अनेन तादृशावस्थायाः पूर्वावस्थातो व्यतिरेक उक्तः । उमाया मुखम्। अनेन प्रथमसर्गप्रतिपादितं स्वाभाविकमनोहारित्वं ध्वनितम्। चक्षुषा करणभूतेन । चिरं, न तु कञ्चित् कालम् । पपाविति दर्शने पानोपचारः । तेन च तथा तृषितस्य पानं ग्लानिप्रशमप्रमोदादीन् जनयति तथात्रापीति ध्वन्यते । चक्षुषः करणत्वमात्रमेवात्र विशेष इति द्योतयितुं चक्षुषेत्युक्तम् । अत एव मुखस्य करणत्वं निषेधति - आननेन न त्विति । आननेन वदनेन । तुशब्दोऽत्र विशेषं द्योतयति । अधरपानादिसुखमपहाय देवीवदने मदविकारजनितानतिमनोहरान् विशेषानेवावलोकयन्नतिचिरकालं रेम रेम इति भावः । तदवलोकनस्यैव परमसुखत्वमाहघूर्णमानेत्यादिभिश्चतुभिर्विशेषणैः । घूर्णमाननयनं घूर्णमाने सञ्जायमानकालुष्ये नयने नेत्रे यस्य तत् तथा । स्खलत्कथं स्खलन्ती मदपारवश्यान्मध्ये मध्ये विच्छेदं गच्छन्ती कथा वाक्प्रवृत्तिर्यस्य तत् । असमग्रवर्णपदवाक्यमित्यर्थः । तथैव ५५८ कुमारसम्भवे स्वेदबिन्दुमत् । स्वेदानां स्वेदजलानां बिन्दवः सन्त्यस्मिन्निति तथा । मदविकारजनितस्वेदकणिकालङ्कृतम्। तथा अकारणस्मितम् । अकारणं हेतुशून्यं स्मितं मन्दस्मितं यस्य तत्। एतादृशमुखदर्शनादन्यत् किं सुखसाधनमिति भावः । अत्र मुखविशेषणानां पिपासाविधानाभिप्रायत्वात् परिकरः ॥ ८० ॥ तां विलम्बितपनीयमेखला- मुद्वहञ्जघनभारदुर्वहाम्। ध्यानसंभृतविभूतिभास्वरं प्राविशन्मणिशिलागृहं हरः ॥ ८१ ॥ प्रकाशिका इत्थं सख्यादिसन्निधौ सम्भोगमुपवर्ण्य विविक्ते विविक्ते तं वर्णयितुं देव्याः शूलिवशवर्तित्वमाह- तामिति । विलम्बितपनीयमेखलां रागवेगविगलितहेमकाञ्जीम् । ध्यानेति ध्यानप्रभावसंपादितरतोपकरणम् ॥ ८१ ॥ विवरणम् कीमि एवं तावत् सख्यादिसन्निधौ सम्भोग उक्तः । अथ विविक्तरतं वर्णयितुं देव्याः शूलिवशवर्तित्वमाह- तामिति । हरः ताम् उद्वहन् मणिशिलागृहं प्राविशत् । हरः परमेश्वरः तां पार्वतीम्। उद्वहन् स्वहस्ताभ्यामादरातिशयादुद्धृत्येत्यर्थः । मणिमयीभिः शिलाभिर्निर्मितं गृहं सुरतगृहं प्राविशत् प्रविष्टवान् । अत्र मणिशब्देन नित्योज्ज्वलत्वं ध्वनितं, तेन च रागातिशयमाह - विलम्बितपनीयमेखलामिति । विलम्बिनी रागवेगवशात् पदे पदे विगलनशीला तपनीयमेखला हेमकाञ्ची यस्याः ताम् । रागो हि स्त्रीणां जघनगतं काञ्चीदुकूलादिकं विगालयतीति कामशास्त्रप्रसिद्धम् । उद्धृत्य गमने देव्या जघनगौरवाद् देवेनापि दुर्वहत्वमाह – जघनभारदुर्वहामिति। जघनभारेण दुर्वहां । देवेनापि दुःखेन वोढुं शक्यामित्यर्थः । ननु वनान्तरे कथं सुरतोपकरणसम्भवोपपत्तिरिति किं मणिशिलागृहप्रवेशेनेत्याशङ्क्य मणिशिलागृहं विशिनष्टि — ध्यानसम्भृतविभूतिभास्वरमिति । ध्यानेन ध्यानमात्रेण सम्भृताभिः सम्पादिताभिः विभूतिभिः सुरतोपकरणैः भास्वरं शोभनशीलम् । प्रभावमात्रनिर्मितरतोपकरणशोभमानमित्यर्थः ॥ ८१ ॥ अष्टमः सर्गः तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम्। अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥८२॥ प्रकाशिका लकी ५५९ तत्रेति । अत्र शयनरचनायाः प्रधानाङ्गत्वात् तद्वैशिष्ट्यं वर्णितम् । तदुक्तं मुनिना - ‘सुक्लृप्तमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं बद्धवितानं शयनीय स्याद्’ इति ॥ ८२ ॥ विवरणम् इत्थं सुरतगृहं प्रविष्टस्य देवस्य शयनीयप्राप्तिमाह- तत्रेति । सः तत्र प्रियासखः हंसधवलोत्तरच्छदं शयनम् अध्यशेत । तत्र मणिशिलागृहे । प्रियायाः सखा । दयितया सहेत्यर्थः । हंसाः श्वेतगरुतः । ‘हंसास्तु श्वेतगरुत’ इत्यमरः । हंसवद् धवलम् उत्तरच्छदम् आच्छादनवसनं यस्य तत् शयनं शय्याम् अध्यशेत अधिरुह्याशेत । ‘अधिशीङ्स्थासां कर्म’ (१.४.४६ ) इति अधिशब्दयोगाच्छयनस्य कर्मत्वम् । परमेश्वरो दयितया सह मणिशिलागृहे सिततमायां शय्यायामशेतेत्यर्थः । अत्रोपमामाह — रोहिणीपतिः शारदाभ्रम् इव इति । रोहिणीपतिश्चन्द्रः । अत्र रोहिणीपतिशब्देन रोहिण्या सहेत्ययमर्थो ध्वन्यते । शारद शरत्कालभवम् । अभ्रं मेघः । यथा चन्द्रः प्रियतमया रोहिण्या सह शारदाभ्रमधिशेते, तथेत्यर्थः । शारदाभ्रं हि श्वेततरं भवति । शयनशरदभ्रयोः साधारणं धर्ममाहजाह्नवीपुलिनचारुदर्शनमिति । जाह्नव्या गङ्गायाः पुलिनं सैकतम् । ‘तोयोत्थितं तत् पुलिनं सैकतं सिकतामयमित्यमरः । तद्वच्चारु मनोहरं दर्शनं यस्य तत् । पुलिनं हि सर्वासामपि नदीनां श्वेतं भवति । किं पुनरतिश्वेतसलिलाया जाह्नव्या इति द्योतयितुं जाह्नवीपदोपादानम् । अत्र बहुषु रतोपकरणेषु सत्स्वपि तेषु शय्याया एव प्रधानोपकरणत्वस्य कामशास्त्रप्रसिद्धिस्तन्मात्रवर्णने हेतुरित्यवसेयम्। यदाह वात्स्यायनः– -‘सुक्लृप्तमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं बद्धवितानं शयनीयं स्याद्’ इति ॥ ८२ ॥ क्लिष्टचन्द्रमदयैः कचग्रहै- रुत्पथार्पितनखं समत्सरम् । तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभूदतृप्तये ॥८३॥ ५६० कुमारसम्भवे प्रकाशिका क्लिष्टेति । उत्पथार्पितनखं शास्त्रीयनियमोल्लङ्घिनखकर्म । तदुक्तं ‘रतिचक्रे प्रवृत्ते तु नास्ति शास्त्रं न च क्रमः’ इति । समत्सरं कलहरूपत्वात् सुरतस्य । तदुक्तं’कलहरूपं सुरतमाचक्षत’ इति । मत्सरेण च कृतप्रतिकृतादि द्योत्यते, यद् वधुरते दुर्लभत्वेन प्रागुक्तम्। तदुक्तं- कृते प्रतिकृतं कुर्याच्चुम्बिते प्रतिचुम्बितम् । करणेन च तेनैव ताडिते प्रतिताडितम् ॥ मीकि इति । अयं च प्रागुक्तवधूरतविपर्ययः, प्रौढमन्मथरसत्वेन नायिकाया गाढरागत्वात्। अतृप्तये औत्सुक्याय ॥ ८३ ॥ अथ रतमेव वर्णयति— विवरणम् क्लिष्टेति । तस्य तत् पार्वतीरतम् अतृप्तये अभूत् । तस्य परमेश्वरस्य तत् लोकोत्तरगुणविशिष्टत्वादवाङ्मानसगोचरं पार्वत्या रतं सुरतम् अतृप्तये । अत्रत्योऽयमतृप्तिशब्दो न तृप्त्यभावमात्रवाची, किन्तु अधर्मादिवद् विपरीतवाची । औत्सुक्यायाभवदित्यर्थः। औत्सुक्यकरत्वमेव प्रतिपादयति चतुभिर्विशेषणैः। तत्रादौ रतस्य पूर्वावस्थामाह— अदयैः कचग्रहैः क्लिष्टचन्द्रम् इति । अदयैः निर्दयैः । रागपारवश्यादनधिगतशारीरमार्दवैरित्यर्थः । कचग्रहैः केशग्रहणैः । चुम्बनादिषु सम्भवद्भिरित्यर्थः। क्लिष्टः परिमृदितः चन्द्रः परमेश्वरकोटीरघटितो बालचन्द्रः येन तत् तथा । अथ द्वितीयामवस्थामाह-उत्पथार्पितनखमिति। उत्पथमित्यर्पणक्रियाविशेषणम्। उत्पथमुल्लङ्घितकामशास्त्रक्रमं यथा भवति तथार्पितानि नखानि येन तत् तथा। शास्त्रीयक्रमोल्लङ्घिनखव्यापारमित्यर्थः । इयं च रतस्य परिपूर्णावस्था । तादृश्यां शास्त्रक्रमानादरोऽपि कामशास्त्रप्रसिद्धः । यथोक्तं’रतिचक्रे प्रवृत्ते तु नास्ति शास्त्रं न च क्रमः’ इति । पुनश्च ततोऽप्यधिकोत्कर्षे सति तृतीयं विशेषणंसमत्सरमिति। सुरतस्य कलहरूपत्वान्मत्सरसहितमित्यर्थः । कलहरूपत्वमपि सुरतस्य कामशास्त्रप्रसिद्धम् । ‘कलहरूपं हि सुरतमाचक्षत’ इत्युक्तत्वात् । मत्सरशब्देनात्र कृतप्रतिकृतादिकं द्योत्यते । तदुक्तं- कृते प्रतिकृतं कुर्याच्चुम्बिते प्रतिचुम्बितम् । करणेन च तेनैव ताडिते प्रतिपाडितम् ॥ इति । अनेन वचनेन ‘दुर्लभप्रतिकृतं वधूरतम्’ (८.८) इत्यत्र वधूरते यद् दुर्लभत्वेन पूर्वमुक्तं, तत् सर्वमिदानीं प्रौढतया गाढरागायां नायिकायां सुलभमासीदिति द्योत्यते । रतेरन्त्यावस्थामाह — छिदुरमेखलागुणमिति । छिदुरः स्वय- अष्टमः सर्गः ५६१ मेवच्छेदनशीलः मेखलागुणः काञ्चीकलापो यत्र तत् तथा । बहुविधकरणभेदभाविनामायासानामसहनतया सच्छिन्नमेखलाकलापमित्यर्थः ॥ ८३ ॥ केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु । तेन तत्परिगृहीतवक्षसा तत्र विशेषमाह— नेत्रमीलनकुतूहलं कृतम्॥८४॥ प्रकाशिका केवलमिति । अतृप्तेनापि देवेन केवलं रतक्लान्तामुरसि शयितां प्रियां दयमानेन गलितप्रायायां रजन्यां शयनादरः कृत इत्यर्थः । अत्र केवलशब्देनास्य वाक्यस्य पूर्ववाक्येनैकवाक्यता द्योत्यते । अस्ति चास्यैवैतच्छाया कवेरुक्तिः ‘अस्यापिद्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः" (शाकु. २.१४) इति ॥ ८४ ॥ विवरणम् यद्यपि तथाविधं पार्वतीरतं देवस्य तृप्तये न बभूव, तथापि विशेषोऽस्तीत्याह- केवलमिति । ज्योतिषां पङ्क्तिषु अवनतासु तेन केवलं प्रियतमादयालुना नेत्रमीलनकुतूहलं कृतम्। ज्योतिषां नक्षत्राणां पङ्क्तिषु समूहेषु अवनतासु अत्युज्ज्वलत्वाभावादत्युन्नतां स्थितिमपहाय किञ्चिदानतस्वरूपत्वेन लक्ष्यमाणासु । अनेन प्रभातकालप्रत्यासत्तिरुक्ता । तेनं परमेश्वरेण केवलं प्रियतमायां देव्यां दयालुना दयाशीलेन नेत्रयोर्निमीलने कुतूहलं कौतुकं कृतम् । गलितप्रायायां रजन्यां यदत्र देवेन नेत्रनिमीलनादरः कृतः, तत्र सुरतक्लान्तायां देव्यां दयालुत्वमेव केवलं हेतुः, न तु देव्यास्तत्तादृशमारवीरमहोत्सवानुभवे तृप्तिरिति भावः । यद्यपि देवस्य तत्तादृशं पार्वतीरतं न तृप्तये बभूव, तथापि केवलं प्रियतमायां दयालुतया देवेन शयनादरः कृत इति पूर्वश्लोकेन सहैकवाक्यत्वमस्य श्लोकस्यात्रत्यः केवलशब्दः प्रतिपादयति। देवस्य नेत्रनिमीलनप्रस्तावे देव्याः समवस्थां देवविशेषणमुखेन दर्शयति — तत्परिगृहीतवक्षसेति । तया देव्या परिगृहीतं स्वीकृतं वक्ष उरः प्रदेशो यस्य तेन । अनेन सुरतक्लान्ताया देव्या देवोपरि शयनमुक्तम् ॥ ८४ ॥ ५६२ स इति । कुमारसम्भवे स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम् । मूर्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ॥ ८५ ॥ प्रकाशिका यतस्त एव बुधानामध्यात्मशास्त्रविदां स्तवस्योचितः । सकलतत्त्वातीतमेनं जानन्ति । अन्ये तु लोकसामान्यं जानीयुः । तान् प्रति वास्तवोऽयं परमेश्वरे रागिव्यवहारः । शातकुम्भेति विशेषणं मानसस्य सरसः प्रत्यासन्नत्वात्। वक्ष्यति च ‘रचितमानसोर्मयः’ ( ८.८६ ) इति । सममिति सहोक्तिः । मूर्च्छनया परिगृहीतः कैशिको रागविशेषो यैः । मूर्छनालक्षणे भरतः - ’ क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिता’ इति । गीतानि मङ्गलान्यात्मचरितानि यस्य । परमेश्वरचरितमेव हि परमं मङ्गलम् ॥ ८५ ॥ विवरणम् इत्थमनुभूतवल्लभासुरतस्य निद्रासुखमभिनयतो देवस्य प्रबोधावस्थां वर्णयति— स इति। सः उषसि शातकुम्भकमलाकरैः समं व्यबुध्यत । शातकुम्भं सुवर्णम् । ‘स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्, तपनीयं शातकुम्भमित्यमरः । शातकुम्भमयानि कमलानि शातंकुम्भकमलानि तेषामाकराः शातकुम्भकमलाकराः मानसादयः । मानसस्य सरसो गन्धमादनप्रत्यासन्नत्वादेवमुक्तम् । अत एव ‘रचितमानसोर्मयः’ इति वक्ष्यति । सममिति सहार्थमव्ययम् । ‘साकं सार्धं समं सहेत्यमरः । व्यबुध्यत प्रबुद्धोऽभूत् । य एवं सुरतमनुभूय प्रसुप्तः, सः आत्मपर्यन्तवर्तिभिर्मानसादिपद्माकरैः सार्धं प्रबुद्धोऽभूदित्यर्थः । समं व्यबुध्यतेति सहोक्तिरलङ्कारः । तत् पुनरनेन प्रकरणेन परमेश्वरे रागित्वोपवर्णनं कृतं, तन्न परमार्थतया मन्तव्यमित्याह — बुधस्तवोचित इति । बुधानामध्यात्मशास्त्रविदां स्तवस्य स्तुतेरुचितः । योग्यः । स्वरूपज्ञानाधीना हि स्तुतिः । परमेश्वरस्य स्वरूपज्ञानं तु सकलोपनिषदर्थतत्त्वावधारणेन मृदितकषायाणामेव सम्भवति, नान्येषामिति तेषामेव स्तुतेरयमुचितः । तस्मात् परमेश्वरस्य न सकलजनसाधारणं रागित्वं, लौकिकलोकोत्तरनायकानुगुणां भक्तानुग्रहार्थमारोपितमेवेति भावः । अथ प्रभातसमयोचितां स्तुतिं वर्णयति – मूर्छनेत्यादिना । किन्नरैः गीतमङ्गलः । किन्नरैः किम्पुरुषैः। किन्नराणामेव स्वरमाधुर्यप्रसिद्धेः किन्नरपदोपादानम्। गीतानि मङ्गलान्यात्मचरितानि यस्य स तथा । परमेश्वरचरितमेव हि परमं मङ्गलं, ‘मङ्गलानां च अष्टमः सर्गः ५६३ मङ्गलमित्युक्तत्वात्। प्रभातसमयोचितं रागविशेषं च दर्शयतिमूर्छनापरिगृहीतकैशिकैरिति । अत्र मूर्छनालक्षणं भरतेनोक्तं’ क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिते ‘ति । कैशिकः प्रभातकालोचितो रागविशेषः । मूर्च्छनया परिगृहीतः स्वीकृतः कैशिको यैस्तैः ॥ ८५ ॥ तौ क्षणं शिथिलितोपगूहनौ दम्पती रचितमानसोर्मयः । पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः॥८६॥ प्रकाशिका ताविति । शिथिलितोपगूहनौ, स्वेदापनयनार्थम् । भेदो विकासः । विशेषणाभ्यां शीतत्वं पद्मसुरभित्वं चोक्तम् । गन्धमादनसम्बन्धेन नानाकुसुमसौरभयोग उक्तः । तौ दम्पती सिषेविर इत्यनेन कस्तन्मिथुनं सर्वात्मना न सेवेतेति ध्वन्यते । अर्थान्तरन्यासध्वनिश्चायम् ॥ ८६ ॥ विवरणम् अथ प्रभातवातानामपि तादृशमिथुनसेवां वर्णयति— ताविति । गन्धमादनवनान्तमारुताः तौ दम्पती क्षणं सिषेविरे । अत्रत्योऽयमन्तशब्दः स्वरूपवाची । गन्धमादनपर्वते ये वनान्ताः वनप्रदेशाः तत्रत्या मारुताः तौ दम्पती तत्तादृशौ जायापती । अनेन सर्वजनसेव्यत्वं ध्वनितम्। क्षणं क्षणकालम् । अनेन सेवायास्तादृशावसरप्राप्तिरुक्ता । सिषेविरे सेवितवन्तः । गन्धमादनवायवो देवयोः सुरतश्रममपनीतवन्त इत्यर्थः । अत्र गन्धमादनशब्देन बहुविधमहाकुसुमसौरभ्यशालित्वमुक्तम्। तादृशमारुतसेवासमये देवयोस्तदनुरूपां प्रवृत्तिमाहशिथिलितोपगूहनाविति । शिथिलितं मन्दीकृतम् उपगूहनमालिङ्गनं याभ्यां तौ तथा । शरीरगतस्वेदजलापनयनार्थं परित्यक्तगाढालिङ्गनावित्यर्थः । आलिङ्गनस्य सर्वात्मना परित्यागाभावस्तु रागवशादित्यवगन्तव्यम् । शैत्यमान्द्यसौरभ्यशालिनामेव मारुतानां सुखकरत्वादेतेषां तद्योगित्वमाह — रचितेत्यादिना विशेषणद्वयेन । तत्र शैत्यं मान्द्यं चाह - रचितमानसोर्मय इति । रचितो निर्मितो मानसस्य मानससरसः ऊर्मयः कल्लोला यैस्ते तथा । अत्र मानसोर्मिरचनया परिश्रान्तत्वान्मान्द्यम् ऊर्मिसम्बन्धेन शैत्यं च द्योत्यते । सौरभ्यमाह – पद्मभेदपिशुना इति । पद्मानां कमलानां भेदस्य विकासस्य पिशुनाः सूचकाः । ‘पिशुनौ खलसूचकावित्यमरः । पद्मसौरभ्यशालित्वात् प्रभातसमयभाविनां पद्मविकासानां सूचका इत्यर्थः । अत्र तौ दम्पती सिषेविर५६४ कुमारसम्भवे इत्यनेन तादृशं मिथुनं के न सेवेरन्निति ध्वन्यते। अर्थान्तरन्या- सध्वनिश्चायम्॥ ८६ ॥ ऊरुमूलनखमार्गराजिभि- स्तत्क्षणं हृतविलोचनो हरः । वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥८७॥ प्रकाशिका पुनरप्यनुपशान्तरागस्य यूनो वृत्तं वर्णयति— ऊरुमूलेति । नखमार्गराजिभिर्नखपदरेखाभिः । संयमं बन्धम् । नखपददिदृक्षया रिरंसया च ॥ ८७ ॥ विवरणम् तद्वारणं इत्थं बहुविधेषु सुरतेषु विहितेष्वप्यशान्तरागस्य कामिनो वृत्तं वर्णयति ऊरुमूलेत्यादिभिस्त्रिभिः श्लोकैः ऊरुमूलेति । हरः तत्क्षणं प्रशिथिलस्य वाससः संयमं कुर्वतीं प्रियतमाम् अवारयत्। हरः परमेश्वरः तत्क्षणं तस्मिन् क्षणे प्रशिथिलस्य पूर्वं सुरतावसानसमये वेष्टितस्यापि प्रियतमाङ्गसङ्गवशात् पुनरपि प्रकर्षेण शिथिलस्य गलितस्य वाससः वसनस्य संयमं वेष्टनं कुर्वतीं विदधतीं प्रियतमां दयिताम् अवारयत् निवारितवान् । प्रभातसमये दयिताया वसनपरिधानमवारयदित्यर्थः । वारणे हेतुमाह — ऊरुमूलनखमार्गराजिभिः हृतविलोचन इति । ऊर्वोर्मूले ये नखमार्गाः नखपदानि तेषां राजिभिः रेखाभिः । ’ रेखास्तु राजय’ इत्यमरः । हृतविलोचनः हृतानि विलोचनानि यस्य स तथा। ऊरुमूलगतनखपदप्रेक्षणकुतूहलादित्यर्थः । अनेन रिरंसाया अनुपरमो ध्वन्यते ॥ ८७ ॥ स प्रजागरकषायलोचनं गाढदन्तपददारिताधरम् । आकुलालकमरंस्त रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम्॥८८॥ अष्टमः सर्गः प्रकाशिका ५६५ स इति । अत्र विशेषणानां चतुर्णामप्येकैकं परममुद्दीपनम् । अत एव रागवान् अतिशयितरागोऽरंस्त ॥ ८८ ॥ विवरणम् उदीर्णरागस्य कामिनः सुरतपरिश्रमपिशुनं प्रियतमावदनमपि सुतरां मन्मथोद्दीपनमासीदित्याह- स इति । सः प्रियामुखं प्रेक्ष्य अरंस्त । प्रियाया दयिताया मुखं प्रेक्ष्य विलोक्य । अरंस्त रेमे । परमेश्वरः प्रभातप्रायायामपि रजन्यां दयितामुखकमलावलोकनेनैव रेम इत्यर्थः । प्रियतमामुखस्य तदानीं मन्मथोद्दीपनत्वातिशयमाह – प्रजागरेत्यादिभिश्चतुभिर्विशेषणैः । प्रजागरकषायलोचनम् । प्रजागरेण प्रकृष्टेन जागरेण कषाये कलुषिते लोचने नयने यस्य तत् । निद्राभावकलुषितकान्तविलोचनमित्यर्थः । पुनश गाढदन्तपददारिताधरं गाढेन मग्नेन दन्तपदेन दन्तव्रणेन दारितं क्षतम् अधरं ( ? ) यस्य तत्। दशनव्रणरमणीयाधरमित्यर्थः । तथा आकुलालकम्। आकुलाः कचग्रहणादिभिर्व्याकुलसन्निवेशाः अलका यस्य तत् । तथा च भिन्नतिलकम् । भिन्नः स्वेदादिभिरर्थे विशीर्णः तिलको यस्य तत् । अत्र चतुर्णामपि विशेषणानामेकैकमप्युद्दीपनं, किं पुनरेकत्र मेलनमिति भावः । अत एवाह — रागवानिति । अतिशायने मतुप् । अतिशयितराग इत्यर्थः । प्रतिक्षणविजृम्भमाणाभिलाष इति भावः ॥ ८८ ॥ तेन भङ्गविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् । निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम्॥८९॥ प्रकाशिका तेनेति । भङ्गस्तरङ्गः । निम्नत्वान्मध्ये पिण्डिता समूहीकृता विसूत्रा मेखला यत्र । निर्मले तमोरहिते । अत्र शयनविशेषणैश्चित्ररतानि सूच्यन्ते । तानि च (१९.२५) रघुवंशप्रकाशिकायां दर्शितानि ॥ ८९ ॥ विवरणम् किञ्च, पूर्वातीतचित्ररतपिशुनं शयनीयमपि कामिनो (मनो) जहारेत्याह — तेनेति । निशात्यये निर्मले अपि तेन शयनं नोज्झितम् । निशात्यये प्रभातसमये निर्मले ! तमोविरहित इत्यर्थः । अपिशब्देन शयनमोचनस्य कालातिपातः ५६६ कुमारसम्भवे सूचितः । तेन परमेश्वरेण शयनं नोज्झितं न परित्यक्तम्। प्रभातवेलायां तमोविरहितायामपि तेन कामिना शयनतलमेवावलोक्य कञ्चित् कालमास्थितमित्यर्थः । शयनीयस्य पूर्ववत् चित्ररतसूचकत्वादिति भावः । चित्ररतसूचकत्वमेवाह—भङ्गविषमोत्तरच्छदमित्यादिना विशेषणत्रयेण । भङ्गस्तरङ्गः, तेन पादाघातादिवशाज्जातेन तरङ्गाकारेण संस्थानविशेषेण विषमः निम्नोन्नतः उत्तरच्छदः आच्छादनवसनं यस्य तत् तथा । ‘अत्रोत्तरच्छदस्य निम्नोन्नतत्वप्रतिपादनेन बहवो रतविशेषाः सूचिताः । संविष्टतरमुपविष्टरतमुत्थितरतं चेति त्रिविधा हि करणविशेषाः सङ्क्षेपतः कामशास्त्रप्रतिद्धाः । तत्रैकैकस्यापि करणस्य बहवो बेदाः । ते तु विस्तरभयान्न लिख्यन्ते । तथा मध्यपिण्डितविसूत्रमेखलम् । मध्ये मध्यप्रदेशे पिण्डिता समूहीकृता विसूत्रा सूत्ररहिता मेखला रशना यत्र तत् तथा । शयनीयस्य मध्यभागो हि निम्नो भवतीति प्रागेवोक्तम् । सूत्रप्रोतानां मेखलानां सूत्रे सुरतभेदेन भग्ने सति शयनीयस्य मध्यभागे समूहीभूयावस्थानमनेन दर्शितम्। तेन च विष्णुविक्रमाख्यं रतं सूचितम्। तत्तु गजरतादिषड्भेदभिन्नम्। एवं हि रतिरहस्ये गजरतस्य लक्षणमुक्तं- गृहितस्तनभुजास्यमस्तकामुन्नतस्फिचमधोमुखीं स्त्रियम् । क्रामति स्वकरघृष्टमेहने वल्लभे करिवदैभमुच्यते ॥ इति । विष्णुविक्रमाख्यं तु तस्मादीषद्भेदभिन्नम् । यथात्रैव ‘योषिदेकचरणे समुद्धृते जायते च हरिविक्रमाह्वयम्’ इति । एवंविधे सुरते मेखलाभङ्गः कथं न जायेतेति भावः । तथा चरणरागलाञ्छितम् । चरणे पादे यो राग अलक्तकरसः, तेन लाञ्छितम् अङ्कितम्। अनेन धैनुकं रतं विवक्षितम् । यथोक्तं रतिरहस्य एव- न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये ॥ इति। एते च करणभेदा अनुक्तानामपि करणविशेषाणामुपलक्षणत्वेन प्रतिपादिताः । एतादृशसुरतभेदपिशुनं शयनतलं कथं कामिना परित्यज्यत इति भावः ॥ ८९ ॥ स प्रियामुखरसं दिवानिशं तर्षवृद्धिजनकं सिषेविषुः । दर्शनप्रणयिनामदृश्यता- माजगाम विजयानिवेदितः ॥९०॥ रागस्य धारावाहित्वमाह- अष्टमः सर्गः प्रकाशिका ५६७ स इति । तर्षस्तृष्णा । दर्शनप्रणयिनां देवेन लोकतन्त्रेऽधिकृतानां ब्रह्मादीनां विजयानिवेदितोऽप्यदृश्यतां यदाजगाम, तदपि ब्रह्मादिमनीपितानुसारेण कुमारमुत्पादयिष्यतो देवस्य लीलाविजृम्भितं लोकतन्त्रनिर्वाहार्थमेव, यतोऽसौ रागादिभिरपरामृष्टः । तदुक्तं कैश्चित् – ‘क्लेशकर्मविषाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर’ (पातञ्जल योग. पा. १. सू. २४) इति । एतदेवोक्तं विदितं वो यथा’ । (कुमा.६.२६) इत्यादिप्रकरणे देवेनैव । अयं चाभिसन्धिर्देवस्य सर्वत्रात्र प्रकरणे न विस्मर्तव्यः, अन्यथा तूत्तमदेवतासम्भोगवर्णने ध्वनिकारोक्तमनौचित्यं जागृयात् । ‘अनौचित्यादृते नान्यद् रसभङ्गस्य कारणमिति च तेनैवोक्तम्। देवाभिसन्धौ तु स्मर्यमाणे दूरीभवत्येवानौचित्यविलसितम् । परमार्थबुद्धावेव ह्यनौचित्यान्वेषः संभवति । नहीन्द्रजालविलसितं जानानस्य गन्धर्वनगरं विस्मयाय । ननु रागित्वस्यापरमार्थबुद्धौ कथं शृङ्गारः प्राणिति । प्राणिति । मा प्राणितु । चमत्कारश्च प्राक्प्रतिपादितेन जगद्रक्षणोद्यमात्मना वीरेणैवाङ्गिना रसेन सिद्धः । चमत्कारे च सिद्धे किं शृङ्गारनिबन्धेन । यथा श्रीमद्भागवतादौ गोपीभिः सह भगवतः सम्भोगवर्णने विदितपरमार्थानामनुसन्धातॄणां न कश्चिच्छृङ्गारावेधः, किन्तु जगद्रक्षणोद्यमात्मकवीरावेधो यस्तद्विषयायास्तेषां भक्तिपर्यायाया रतेरुद्दीपकः, तथात्रापि द्रष्टव्यम् । किञ्च एवंविधे विषये यदनौचित्यं तत् कविशक्त्या तिरोहितत्वाद् ग्राम्यत्वेन न प्रतिभासत इति ध्वनिकार उक्तवान् । तत्राभिनवगुप्तपादैर्व्याख्यातं’शक्तितिरस्कृतत्वादिति । सम्भोगशृङ्गारोऽप्यसौ वर्णितस्तथा प्रतिभावनता कविना, यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्शं कर्तुं न ददाति । यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत् तस्मिन्नवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शे, तथात्रापीति भावः’ इति । तत्र यः पौर्वापर्यपरामर्शोऽनौचित्यप्रतिभासहेतुः, स एवास्माकमपि परमेश्वरे रागराहित्यप्रतिभासहेतुः सन्ननौचित्यं व्यावर्तयति । तर्हि ध्वनिकारोक्तस्य संभोगवर्णनानौचित्यस्य कोऽवकाश इति चेद्, अस्त्येवावकाशः इन्द्रादावुत्तमदेवतान्तरे । तत्र च रागस्य वस्तुतः संभवेऽपि लोकमहनीयत्वात् तत्सम्भोगवर्णनं पित्रोः सम्भोगवर्णनमिव लज्जातङ्कादिना चमत्कारभङ्गहेतुः सम्पद्यत इति सर्वं सुस्थम् ॥ ९० ॥ विवरणम् ’ इत्थं प्रवृद्धो रागः कदाचिदपि न विच्छिन्नः, किन्तु धारारूपेणैव सर्वदापि प्रवृत्तोऽभूदित्याह- ५६८ विजयानिवेदित इति । कुमारसम्भवे । स इति । सः दर्शनप्रणयिनाम् अदृश्यताम् आजगाम । दर्शने प्रणयः प्रार्थना अस्त्येषामिति तथा। भगवता लोकतन्त्र नियुक्तानां ब्रह्मादीनामिति अर्थात् सिध्यति । अदृश्यो द्रष्टुमशक्यः तस्य भावस्तत्ता ताम् आजगाम प्राप्तोऽभूत्। दिवानिशमन्तरेव विहरन्नयमात्मदर्शनार्थिनां ब्रह्मादीनामपि दर्शनं न विततारेत्यर्थः । ननु किं दर्शनदानाभावे तदर्थिनां ब्रह्मादीनामागमस्याविज्ञानमेव हेतुः, नेत्याहअपिशब्दोऽत्राध्याहार्यः । विजयया देवीप्रियवयस्यया विज्ञापितोऽपीत्यर्थः । अनेन देवीसखीनामेवान्तः प्रवेशयोग्यतापि ध्वन्यते । दर्शनदानाभावे हेतुमाह - दिवानिशं प्रियामुखरसं सिषेविषुः इति । दिवानिशं सततमित्यर्थः । प्रियामुखे यो रसः अधरामृतं तं सिषेविषुः सेवितुमिच्छुः । प्रियामुखरससेवाभिलाषस्य सन्ततप्रवृत्तत्वादित्यर्थः । सन्ततप्रवृत्तौ हेतुमाहतर्षवृद्धिजनकमिति । तर्षस्तृष्णा, तस्य वृद्धिर्वर्धनं, तस्य जनकमुत्पादकम् ॥ ९० ॥ समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमदृतूनां सार्धमेका निशेव । न च सुरतसुखेषुच्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ॥ ९१ ॥ प्रकाशिका इत्थं रागिजनाचार्यकमाचरतो योगेश्वरस्य तत्रातिप्रसङ्गत्वमाह- समेति । दिवसस्य निशीथतुल्यत्वं कार्यान्तरविमुखत्वात् । तत्र तस्य ऋतूनां सार्धं शतमित्यनेन वत्सराणां पञ्चविंशतिर्गतेत्युक्तम् । इदं च मानुषमानेनेति दक्षिणावर्तः। स नाम कियान् कालो देवानाम् । अनेन चतुर्णां पुरुषायुषभागानामेको भागोऽनीयतेति प्रतीयते। समुद्रान्तर्गतो ज्वलनो बाडवः । तस्य यथा जलतृष्णा वर्धते, तथा देवस्याप्यारोपिता विषयतृष्णा ववृध इत्यर्थः । उपमानेन तु यथा बाडवोऽग्निः कालान्तरे समुद्रं शोषयति, तथा देवोऽपि विषयतृष्णोपलक्षितानां मायाकार्याणामत्यन्तोच्छेदहेतुरिति कविर्व्युत्पाद्यं जनं प्रत्याययति । अयं च शिवयोः संभोग उत्तरसर्गार्थस्य कुमारसम्भवस्य प्रस्तावकतयात्रोक्तः । स एव ह्यत्र प्रबन्धे कार्यभूतः । ननु देवानां मन्त्रिते तारकवध उद्देश्यतया दृश्यते । ततस्तस्यैव प्रबन्धकार्यत्वमङ्गीकार्यम्। उच्यते । परमोद्देश्यत्वेऽपि तारकवधोऽत्र प्रबन्धे न कार्यम्। तथाहि—कार्यं नाम वाक्यार्थविशेषः, येनावच्छिन्नं पदजातं प्रबन्ध इति व्यपदिश्यते । तच्चात्र कुमारसम्भवः । ततश्च तेन व्यपदेशः काव्यस्य शिशुपालवध अष्टमः सर्गः ५६९ इतिवत् । तारकवधस्तु तत्प्रस्तावकतयात्र निमित्तभूत उपक्षिप्तः, यथा किरातार्जुनीये दुर्योधनजयः । निमित्तस्यैव वाक्यार्थत्वे ‘चर्मणि द्वीपिनं हन्ती’ त्यत्रापि चर्मलाभस्य वाक्यार्थत्वं स्याद्, न तु द्वीपिहननस्य । ननु कार्येण सता नायकलाभेन भवितव्यम् । कुमारसम्भवश्च लोकरक्षार्थो लोकतन्त्राधिकृतानां ब्रह्मादीनामेव लाभः । परमपरिपूर्णयोः परमेश्वरयोः स कीदृशो लाभः । नैवम् । तयोरपि लीलया दयया वा ब्रह्मादिभिरधिकृतैर्लोकं तन्त्रयतोः स्वयं च लोकवृत्तमनुकुर्वतोरुपदिशतोश्च स लाभ एव। तर्ह्यारम्भादिभिः कार्यावस्थाभेदैर्नायकगतैर्भवितव्यम्। तदुक्तम्— ‘अवस्था पश कार्यस्ये’त्यादिना । ते चात्र नायकगता न लक्ष्यन्ते, किन्तु ब्रह्मादिगताः । नैवम् । कुमारस्य सम्भूतये खलु योगविसृष्टदेहा सतीदेवी हिमद्भवनेऽवतीर्णा । तत्प्रत्यासत्तये देवोऽपि गौरीशिखरे तप आतिष्ठत् । देवानामारम्भस्तु तत्संघटनार्थः । सर्वत्र ह्याधिकारिकवृत्तोपकारिणा प्रासङ्गिकवृत्तेन भूयते । तच्च दर्शितं ‘सोऽहं तृष्णातुरैर्वृष्टिम्’(६.२७)इत्यादिना । ननु यदि देवैरभ्यर्थ्य परिणयने देवः प्रवर्तितः, तत् किमर्थोऽयं कामवृत्तान्तः कविनोपन्यस्तः । देवीतपश्चर्यामूलत्वेन तस्योपयोगः । तथा च दर्शितं - ’ तथा समक्षं दहता मनोभवम्’ (५.१) इत्यादिप्रकरणे । ननु यदि लोकार्थं परिणयने प्रवृत्तो देवः, तत् किमर्थमनुमतोऽस्य देव्यास्तपश्चर्याक्लेशः । तत्रायमभिप्रायो देवस्य — नाहं कथञ्चिदपि केनापि तपसा विना लभ्य इति लोकस्य विदितमस्त्विति। किञ्च विशिष्टपरिभवो न पथ्य इति प्रथयितुं कामदाहः कृतो देवेन । ‘तपः परमं श्रेय’ इति ख्याययितुं तप आस्थितम् । सवोपकारक्षमं गार्हस्थ्यं श्रेय इत्युपदेष्टुं परिणयनमङ्गीकृतम् । एवं नानाविधात्र प्रबन्धे पुरुषार्थव्युत्पत्तिर्भवतीत्यवसेयम्॥९१ ॥ the pot ये वाक्यार्थविचारकर्कशधियो ये वा रसस्रोतसि स्वेच्छामज्जनकेलिषु व्यसनिनो ये वा शिवौ संश्रिताः । ते निर्मत्सरसावधानमनसो मत्कां मनोहारिणीं संगृह्णन्तु कुमारसम्भवसमुद्बोधाय टीकामिमाम् ॥ ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायाम् अष्टमः सर्गः ॥ १८ ॥ विवरणम् इत्थं रागिजनपदवीमवतीर्णस्य परमेश्वरस्य तत्रैवातिप्रसक्तिमाह- ५७० कुमारसम्भवे फिर समेति । तत्र सङ्गिनः शम्भोः ऋतूनां सार्धं शतम् एका निशा इव अगमत् । तत्र तस्यां पार्वत्यां सङ्गः सक्तिरस्यास्तीति सङ्गी तस्य शम्भोः । ऋतूनां वसन्तादीनामृतूनां सार्धम् अर्धसहितं शतं पञ्चाशदुत्तरं शतम् एका निशेव एका रात्रिरिव अगमद् अत्येति स्म । इत्थं देवीगुणगणाक्षिप्तचित्तस्य देवस्य वसन्तादीनाम् ऋतूनां पञ्चाशदुत्तरं शतम् एका रात्रिरिव सद्य एवातीतमभूदिति भावः । ऋतुशतस्यैकनिशोपमानेन सद्यः प्रयातत्वप्रतीतिरुक्ता । तत्र हेतुः तत्र सङ्गिन इत्यनेनोक्तः। ऋतूनां सार्धं शतमिति । अयमर्थः - एकस्मिन् वत्सरे हि षड् ऋतवः । तथा च सति वत्सराणां पञ्चविंशतिर्गतेत्युक्तं भवति । ते च देवसंवत्सरा इत्यर्थादायाति। कार्यान्तरमपहाय कामुकसरणिमेव देव एतावन्तं कालमुररीचकारेति दर्शयितुम् । ऋतुशतं विशिनष्टि – समदिवसनिशीथमिति । दिवसश्च निशीथश्च दिवसनिशीथौ । निशीथोऽर्धरात्रः । ‘अर्धरात्रनिशीथौ द्वाविति सिंहः । तेन च त्रियामाया मध्यमो भागो लक्ष्यते । स हि शास्त्रेषु सुरतविहितः कालः । दिवसो वासरः । समास्तुल्या दिवसा निशीथाश्च यत्र । अत्र दिवसस्य निशीथतुल्यत्वप्रतिपादनेन कार्यान्तरेष्वनादर उक्तः । अत एव ‘दर्शनप्रणयिनामदृश्यतामाजगाम’ (८.९०) इत्युक्तम्। तथैव तादृशे काले गतेऽपि सुरततृष्णा न शशामेत्याहसुरतसुखेषु छिन्नतृष्णः न बभूव च इति । सुरते यानि सुखानि तेषु छिन्ना विच्छिन्ना तृष्णा औत्सुक्यं यस्य तथाभूतो न बभूव । छिन्नतृष्णत्वप्राप्तिसम्भावनायां सत्यामपि नच्छिन्नतृष्णो बभूवेति चशब्देनोच्यते । ननु चिरकालनिषेवणे कथं न तृष्णोपशमः इतीमामाशङ्कामुपमया परिहरति - समुद्रान्तर्गतः ज्वलनः तज्जलेषु इव इति । समुद्रस्यान्तर्भागं गतः ज्वलनः अग्निः । बाडवाग्निरित्यर्थः । तज्जलेषु तस्य समुद्रस्य जलेष्विव। यथा सन्ततपीतसमुद्रजलस्य बडवानलस्य जलतृष्णा वर्धते, तथा देवस्यापीति भावः । अत्र देवस्य बाडवोपमया यथा बाडवाग्नेः, समुद्रजलतृष्णा न स्वतोऽस्ति, किन्तु द्रष्टृजनप्रतीतिमात्रसिद्धा, तथा देवस्य विषयतृष्णापीति ध्वन्यते । इदं च शिवयोः सम्भोगवर्णनं कुमारसम्भवस्योपक्षेपार्थं कृतम्। कुमारसम्भव एव हि प्रबन्धसाध्य इति पूर्वमेवोक्तम् । ननु प्रबन्धे यत् साध्यं, तेन नायकलाभभूतेन भवितव्यम् । यथा युधिष्ठिरविजयादौ दुर्योधनजयादयः। अत्र तु कुमारोत्पत्तिरिन्द्रादीनामेव कार्यं पुष्णाति, तस्यास्तारकासुरनिग्रहफलत्वात्। परिपूर्णस्य परमेश्वरस्य कुमारोत्पत्त्या तारकानिग्रहणेन वा न कमपि लाभं पश्यामः । मैवम्। लीलया जगत्सर्गस्थितिसंहारव्यापृतस्य परमेश्वरस्यापि जगद्रक्षणजागरूकत्वोपपत्तेः । एवमेव मायापरपर्यायायास्तच्छक्तिभूताया देव्या अपि तदनुविधानोपपत्तिः समर्थनीया । ननु, • अष्टमः सर्गः अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः । ५७१ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ (दशरू. १. १९) इत्युक्ताः कार्यावस्थाभेदा नात्र नायकगता लक्ष्यन्ते । आरम्भो ह्यत्र देवानामेव । ‘तस्मिन् विप्रकृताः काले तारकेण दिवौकसः’ (२.१) इत्युक्तत्वात्। मैवम् — अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी । सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥ (१.२१) इत्यत्र जगद्रक्षणार्थं कुमारोत्पत्तिकामाया देव्या हिमवद्भवनावतारस्योक्तत्वात्। देवोऽपि तत्प्रत्यासत्त्यर्थमेव हिमवत्प्रस्थे तपश्चक्रे । इन्द्रादीनामारम्भस्तु तयोः सङ्घटनार्थमेव, तथा शाकुन्तलादौ सखीप्रभृतीनाम् । अस्मिन् काव्ये महाकविना देवयोस्तपश्चरणप्रतिपादनेन तपसः सकलपुरुषार्थसाधनत्वं प्रतिपादितम्। महाजनपरिभवः समूलनाशाय भवतीति व्युत्पादयितुं कामदहनवृत्तान्त उपवर्णितः । सर्वोपकारक्षमं गार्हस्थ्यमेव परमं श्रेय इति दर्शयितुं विवाहवर्णनं कृतम् । देवस्य भक्तवश्यतां प्रतिपादयितुमष्टमसर्गे देव्या अनुवृत्तिः प्रतिपादिता । इत्थमस्मिन् काव्ये बहवः पुरुषार्था महाकविना प्रतिपादिता इत्यूहनीयमिति सर्वं सुमङ्गलम् ॥ ९१ ॥ सर्गोऽयं चरमो गुणैरचरमः सम्भोगलीलायितं शम्भोरत्र हि वर्ण्यते कवयिता श्रीकालिदासः स्वयम् । व्याख्या तद्विषयेयमद्य जगतां हासाय सञ्जायते सन्तस्त्वत्र तथाप्यणूनपि गुणानास्वादयेयुर्ध्रुवम् ॥ वैदेहीनवसङ्गचम्पुरचनादक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये। व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते मधुरोऽष्टमोऽयमगमत् सर्गे निसर्गोज्ज्वलः ॥ काली च नीलकण्ठश्च तत्परौ यत्प्रिये सदा । तेनेयं रचिता व्याख्येत्यत्र को नाम विस्मयः ॥ माता काली पिता वा पदनतविबुधो नीलकण्ठश्च यस्य भ्राता तु श्रीकुमारः स खलु निखिलमप्युत्थितं विघ्नजातम् । निघ्नन् निघ्नेशकल्पः कृतविवृतितरिर्दुस्तरं कालिदासा- दुद्भूतं काव्यरत्नाकरमिममकरोद् बाललीलानुकूलम् ॥ ५७२ कुमारसम्भवे बहुप्रलापप्रमुखेषु भूरिषु स्फुटेषु दोषेष्विह सम्भृतेष्वपि । गुणाः क्वचित् केचन सन्ति चेदिमान् पिबन्तु भूयिष्ठगुणा महाजनाः ॥ समस्तलोकोपकृतौ कृतोद्यमो य एवमालक्षितसर्वलक्षणः । स्फुटं समाचष्ट कुमारसंभवं नमामि तं देशिकवर्यमादरात्॥ श्वेतग्रामवनाह्वये मुररिपोरारामभूते वरे ग्रामे यः पुरुषोत्तमः समुदभूत् ख्यातः कवीनां पदे । पुत्र्यास्तस्य सुतः स्वमातुलमुखादापीतकौमारत- न्त्राम्भोधिप्रभवामृतो रचितवानेतं स नारायणः ॥ ॥ इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे अष्टमः सर्गः ॥८ ॥ ॥ शुभं भूयात् ॥