०७

अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् । समेतबन्धुर्हिमवान् सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥१॥ प्रकाशिका अथोपक्षिप्तं विवाहं वर्णयितुमुपक्रमते- अथेति । ओषधीनामधिपस्य वृद्धौ, तथा च कालविधाने—‘अर्के कर्कटकन्यकाघटधनुर्मुक्ते भृगौ मन्त्रिणि स्फीतज्योतिषि शीतरोचिषि बलोद्रिक्ते विरिक्ते तिथावि’ति। जामित्रं सप्तमराशिः, तस्य गुणो ग्रहमुक्तत्वम् । तथा सुबोधे’शुद्धो भवेत् सप्तम’ इति । अत्र तु जामित्रशब्देन विवाहो लक्ष्यते, मुख्यार्थाभावात् । जामित्रगुणो विवाहयोग्यता । दक्षिणावर्तस्तु – तनौ च जामित्रेति केचित् पठन्ति । तनौ लग्ने । ‘लग्नादयस्तनुकुटुम्बसहोत्यबन्ध्वि’ त्यादिना लग्नादीनां संज्ञाकरणात् । तच्चायुक्तम् । वैवाहिकी तिथिं पृष्टा इत्युक्तत्वादिति । एतत् त्वयुक्तम् । तिथिप्रश्ने विलग्नगुणस्याप्यपेक्षणीयत्वात् । तस्मात् सोऽपि पाठो न वर्जनीयः । विवाहदीक्षा विवाहोपनयनं, तस्य विधिः तदर्थं कर्तव्यं देवताराधनादिकमनुष्ठानम् । ‘दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेष्वि’ त्यस्माद् धातोर्दीक्षापदं व्युत्पन्नम् । स्त्रीणां विवाह एवोपनयनत्वेन स्मर्यते । ‘वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः’ (२.६७) इति मनुः । अन्वतिष्ठत् कारयामास । ण्यर्थोऽन्तर्भूतः ॥ १ ॥ विवरणम् अथ पूर्वसगपक्षिप्तो विवाहोत्सव ः सप्तमेनानेन सर्गेण वर्ण्यते । तत्रादौ तद्विषयां हिमवतः प्रवृत्तिमाह अथेत्यादिना- । अथेति । अथ हिमवान् ओषधीनाम् अधिपस्य वृद्धौ तिथौ जामित्रगुणान्वितायां च सुतायाः विवाहदीक्षाविधिम् अन्वतिष्ठत् । अथ सप्तर्षिनिर्दिष्टदिवसत्रयात्ययानन्तरम् ओषधीनामधिपश्चन्द्रः । ’ ओषधीशो निशापतिरिति सिंहः । तस्य वृद्धौ वर्धनकाले । पूर्वपक्ष इत्यर्थः । ’ उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोंपनयनगोदानविवाहाः ’ (१.४.१) ‘सार्वकालमेके विवाहम्’ (१४.२) इत्याश्वलायन- ४०८ कुमारसम्भवे

गृह्ये। तन्मतानुसारेणैवेयमुक्तिः । तिथिः प्रतिपदादिः, तस्यां जामित्रगुणान्वितायाम् । जामित्रशब्देनात्र विवाहो लक्ष्यते । जामित्रशब्दो हि लग्नस्य सप्तमराशौ प्रसिद्धः । यथोक्तं मुहूर्तदर्शने – ‘जामित्रास्तकलत्रमन्मथमदद्यूनाभिधं सप्तमम्’ इति । तस्य गुणस्तु ग्रहरहितत्वम् । यथोक्तं सुबोधे – ‘शुद्धो भवेत् सप्तमः’ इति । तस्मात् सप्तमस्य ग्रहरहितत्वं लग्नस्यैवोपपद्यते, न तु तिथेरिति मुख्यार्थासम्भवः । विवाहस्य सप्तमशुद्धया सह नित्यसम्बन्धश्चास्ति । सप्तमशुद्धेरावश्यकत्वप्रतीतिश्च फलम्। तस्माज्जामित्रगुणो विवाहयोग्यता । तिथौ विवाहयोग्यतासहितायां चेत्यर्थः । विवाहयोग्ये दिवस इति यावत् । विवाहयोग्या दिवसाश्च मुहूर्तपदव्यामुक्ताः - ‘इष्टाः कृष्णाष्टमीनेन्द्वजपितृमरुदन्त्योत्तरा मूलमित्रा उद्वाहे’ इति । सुतायाः पुत्र्याः । विवाह एव दीक्षा विवाहदीक्षा । दीक्षाशब्दस्यात्रोपनयनमर्थः । ’ दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु’ इत्यस्माद् धातोर्दीक्षापदव्युत्पत्तिः । विवाह एव हि स्त्रीणामुपनयनम् । यथाह मनुः - ‘वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृत’ इति । तस्माद् विवाहदीक्षा विवाहोपनयनं, तस्य विधिं तदर्थं कर्तव्यं देवताराधनादिरूपमनुष्ठानम् । अन्वतिष्ठद् अनुष्ठापितवान्। अन्तर्भूतण्यर्थोऽयं प्रयोगः । विवाहदीक्षाविधेः पूर्वमङ्गमाह — समेतबन्धुरिति । समेताः संप्राप्ताः बन्धवो यं स तथा । सर्वानपि बन्धुजनानानीय तैः सम्भूयेत्यर्थः ॥ १ ॥ वैवाहिकैः कौतुकसंविधानै- गृहे गृहे व्यग्रपुरन्ध्रिवर्गम्। आसीत् पुरं सानुमतोऽनुरागा- दन्तः पुरं चैककुलोपमेयम् ॥२॥ प्रकाशिका वैवाहिकैरिति। वैवाहिकैर्विवाहप्रयोजनैः । कौतुकसंविधानैः मङ्गलोपकरणसंपादनैः प्रतिसरबन्धोपकरणसंपादनैर्वा । करणे हेतौ वा तृतीया । अनुरागाद् गृहे गृहे व्यग्रो व्यापृत आकुलो वा पुरन्ध्रिवर्ग ः कुटुम्बिनीजनो यत्र । ‘व्यग्रस्तु विगताग्रे स्याद् व्यापृताकुलयोरपी’ति केशवः । एवम्भूतं पुरमन्तःपुरं च एकेन कुलेन वंशेन उपमेयमासीदित्यर्थः ॥ २ ॥ विवरणम् अथ विवाहदीक्षामेवानुक्रमेण वर्णयितुमपक्रमते- वैवाहिकैरिति । सानुमतः पुरम् अन्तःपुरं च एककुलोपमेयम् आसीत् । सानुमतः पर्वतस्य पुरं राजधानी । तस्यां वर्तमाना जना इत्यर्थः । अन्तः पुरम् सप्तमः सर्गः ४०९ अन्तःपुरजनाश्च । एककुलोपमेयम् एकेनैव कुलेनोपमेयम् उपमातुं शक्यमासीत् । सानुमतः पौराणामन्तपुरवासिनां च तदानीमेकवंशोद्भूतत्वप्रतीतिर्जातेत्यर्थः । तत्र च हेतुमाह — वैवाहिकैः कौतुकसंविधानैः अनुरागाद् गृहे गृहे व्यग्रपुरन्ध्रिवर्गमिति । वैवाहिकैः विवाहप्रयोजनैः । कौतुकं मङ्गलम् । ‘कौतूहले मङ्गले च कौतुकं स्याद्’ इति भोजः । अत्र कौतुकशब्देन मङ्गलोपकरणं लक्ष्यते । मङ्गलोपकरणानां संविधानैः सम्पादनैः । हेतौ करणे वा तृतीया । अनुरागाद्धेतोः गृहे गृहे प्रतिगृहम् । व्यग्रः व्याकुलः व्यापृतो वा। ‘व्यग्रस्तु विगताग्रे स्याद् व्यापृताकुलयोरपी’ति केशवः । पुरन्ध्रिवर्गः कुटुम्बिनीजनो यत्र । अन्तः पुरवासिनां जनानां पौरजनानां चानुरागसाम्यनिमित्तेन प्रवृत्तिसाम्येनैकवंशजाता एवैते जना इति द्रष्टृणां प्रतीतिर्जातेत्यर्थः ॥ २ ॥ सन्तानकाकीर्णमहापथं त- च्चीनांशुकैः कल्पितकेतुमालम् । भासा ज्वलत् काञ्चनतोरणाङ्कं स्थानान्तरे स्वर्ग इवाबभासे ॥३॥ प्रकाशिका सन्तानकेति । सन्तानकं देवकुसुमम् । महापथो राजपथः । तत्सामर्थ्यात् तच्छब्देन पुरमेव परामृश्यत इत्यवसेयम् । चीनो जनपदविशेषः ॥ ३ ॥ विवरणम् मङ्गलोपकरणसम्पादनस्य फलमाह - सन्तानकेति । तत् स्थानान्तरे स्वर्गः इव आबभासे । तद् हिमवत्पुरं स्थानान्तरे मेरुशिखरव्यतिरिक्तस्थाने स्वर्ग इव शोभते स्म । हिमवच्छिखरवर्तित्वमात्रमेवास्य स्वर्गाद्विशेष इति भावः । स्वर्गसाम्यमेवोपपादयति — सन्तानकेत्यादिना । सन्तानकाकीर्णमहापथं सन्तानकैर्देवतरुकुसुमैराकीर्णो विकीर्णो महापथो राजमार्गो यत्र तत् । रथ्यासंस्कारस्तत्र कल्पवृक्षपुष्पैरेवेत्यर्थः । पताकाबन्धनेऽपि विशेषमाह – चीनांशुकैः कल्पितकेतुमालम् इति । चीनाख्ये जनपदविशेषे निर्मितैरंशुकैः वसनैः । दुकूलैरिति यावत् । कल्पिता निर्मिताः केतुमालाः पताकाः यत्र तत् । पुरस्य स्वाभाविकीमेव शोभामाह – भासा ज्वलदिति । भासा तेजसा ज्वलद् दीप्यमानम् । तोरणानां विशेषमाह — काञ्चनतोरणाङ्कमिति । काञ्चनैः कनकैः निर्मितानि तोरणान्येवाङ्कः चिह्न यस्य तत् तथा। काञ्चनतोरणानामिति पाठे काञ्चनतोरणानां भासा ज्वलदित्यन्वयः । नहि स्वर्गस्यैतद्व्यतिरिक्तं किमपि गुणान्तरमस्तीति भावः ॥ ३ ४१० कुमारसम्भवे एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव । उपोढपाणिग्रहणेति पित्रो- रुमा विशेषोच्छ्वसिता बभूव ॥ ४ ॥ प्रकाशिका एकैवेति । एकशब्दः केवलार्थः । उपोढपाणिग्रहणा निकटीभूतविवाहा । इतिर्हेतौ । विशेषेणोच्छ्वसिता उल्लसिता । अधिकलालितेत्यर्थः । उमैकैवेत्यन्वयः । ‘महीभृतः पुत्रवतोऽपि’ (कु. १.२६) इत्यादिना या विशेषप्रतिपत्तिरुक्ता, तस्या एवेदानीं विवाहप्रत्यासत्त्या प्रागवस्थाया दूराधिकत्वमुत्प्रेक्षाद्वयेन प्रकाश्यते ॥ ४ ॥ विवरणम् X इत्थमारब्धेषु विवाहकोलाहलेष्वासन्नविवाहायां देव्यां पित्रोः प्रीतिविशेषमाहएकैवेति । पुत्रपङ्क्तौ सत्याम् अपि उमा एका एव उपोढपाणिग्रहणा इति पित्रोः विशेषोच्छ्वसिता बभूव । पुत्राणां पङ्क्तौ समूहे सत्यां भवन्त्यामपि । अपिशब्दोऽयमसम्भावनां द्योतयति । उमा पार्वती एकैव । एकशब्दः केवलार्थः । उपोढं प्रत्यासन्नं पाणिग्रहणं विवाहो यस्याः सा तथा । इतिशब्दो हेतौ । प्रत्यासन्नविवाहत्वादित्यर्थः । पित्रोः हिमवतो मेनायाश्च । विशेषोच्छ्वसिता विशेषेणोच्छ्वसिता उल्लसिता । पूर्वकालाद् विशेषेण लालनास्पदं बभूवेत्यर्थः । ‘महीभृतः पुत्रवतोऽपि दृष्टिरित्यत्र पार्वत्यां यः स्नेहविशेषः प्रतिपादितः, स एवेदानीमनुरूपनायकप्राप्तिहेतुभूतविवाहप्रत्यासत्त्या शतगुणः संबभूवेत्यर्थः । अत एवोत्प्रेक्षते - चिरस्य दृष्टा इव इति । पूर्वमतिचिरकालमदृष्टा सती पुनः सहसा दृष्टेवेत्यर्थः । ततोऽप्यधिकतरलालनीयत्वप्रतिपादकमुत्प्रेक्षान्तरमाह - मृतोत्थिता इव इति । पूर्वं गतजीविता पुनर्दैववशात् सञ्जातजीवितेवेत्यर्थः ॥ ४ ॥ अङ्काद् ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त। सम्बन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥ ५ ॥ प्रकाशिका इतरबन्धुवर्गस्यापि प्रतिपत्तिमाह- सप्तमः सर्गः ४११ अङ्कादिति । यथा कादम्बर्यां – गन्धर्वाणामङ्कादङ्कं सञ्चरन्तीति । उदीरिताशीरिति यानसमयविशेषणम्। मण्डनाद् एकया कृतं मण्डनमनुभूयेत्यर्थः । मण्डिता सत्येव मण्डनमनुबभूवेत्यर्थः । संबन्धिनः पुत्रादयः, तैर्भिन्नो विभक्तः । कुलस्य ज्ञातिसङ्घस्य । तच्छब्देन देवी परामृश्यते । एकशब्दः प्रधानार्थः केवलार्थो वा । तत्कुलस्य पुत्रादिविभक्तः स्नेह एकौघीभूय तामेव जगामेवेत्युत्प्रेक्षागर्भेयमुक्तिः ॥ ५ ॥ विवरणम् अन्येषामपि बन्धुजनानां प्रतिपत्तिविशेषमाह - अङ्कादिति । सा उदीरिताशीः अङ्काद् अङ्कं ययौ । सा पार्वती उदीरिता उच्चारिता आशिषः आशीर्वादा यस्यै तथाभूता सती । प्रयाणसमयविशेषणं चेदम् । अङ्कादुत्सङ्गाद् अङ्कमुत्सङ्गान्तरं ययौ गतवती । तां सर्वेऽप्यङ्कमारोप्याशीर्वादानुदीरयामासुरित्यर्थः । स्नेहातिशयद्योतकं चेदम्। अलङ्कारेऽपि स्नेहातिशयद्योतकं विशेषमाह —– सा मण्डनान्मण्डनमन्वभुङ्क्त इति । एकैकया कृतं मण्डनमनुभूयान्याभिः कृतं मण्डनमनुबभूवेत्यर्थः । मण्डनमत्र बन्धुजनप्रीतिदायानामाभरणानामर्पणम् । बन्धुजनाः पूर्वमेव मण्डितामप्येनां पुनरपि स्नेहातिशयान्मण्डयामासुरित्यर्थः । किं बहुनेत्याह - गिरेः कुलस्य स्नेहः संबन्धिभिन्नः अपि तदेकायतनं जगाम । गिरेः कुलस्य ज्ञातिवर्गस्य स्नेहः वात्सल्यं सम्बन्धिभिः पुत्रादिभिः भिन्नः विभक्तोऽपि । तदेकायतनं, तच्छब्देनात्र देवी परामृश्यते । एकशब्दः प्रधानवाची केवलार्थो वा। आयतनं गृहम् । पार्वतीरूपमेकमेव गृहं जगाम । हिमवत्कुलजातानां स्नेहः पुत्रादिविभक्तोऽप्येकाकारेण तामेव प्राविशदिवेत्युत्प्रेक्षागर्भेयमुक्तिः ॥ ५ ॥ मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु । तस्याः शरीरप्रतिकर्म चक्रु- और gs Flike pomer बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥६॥ प्रकाशिकाक मैत्र इति । सूर्योदयात् तृतीयो मैत्रः । उत्तरफल्गुनीषूत्तराख्यासु तारासु । शरीरस्य प्रतिकर्म रोमादिशोधनम् । अत्र सुबोधिनीवचनं - ‘रोहिण्यैन्दवरेवतीश्वसनभं मूलानुराधा मघा हस्ताश्चोत्तराभत्रयं च शुभदं वैवाहिके कर्मणि’ इति । पतिपुत्रवत्य इति मङ्गलार्थम् ॥ ६ ॥ ॥शु ४१२ कुमारसम्भवे विवरणम् क्रमेण वर्ण्यते । तत्र अथ रोमानखशोधनाभ्यञ्जनस्नानवसनधारणादिकं रोमादिशोधनमाह- मैत्र इति । उत्तरफल्गुनीषु शशलाञ्छनेन योगं गतासु मैत्रे मुहूर्ते बन्धुस्त्रियः तस्याः शरीरप्रतिकर्म चक्रुः । उत्तरफल्गुनीसंज्ञासु तारासु । ‘फल्गुनीप्रोष्ठपदानां च नक्षत्रे (१.२.६० ) इति बहुवचनम्। शशलाञ्छनेन चन्द्रेण योगं गतासु संयोगं प्राप्तासु । उत्तरफल्गुनीनक्षत्रस्य विवाहयोग्यत्वमुक्तं सुबोधिन्यां - ‘रोहिण्यैन्दवरेवतीश्वसनभं मूलानुराधा - मघा - हस्ताश्चोत्तरभत्रयं च शुभदं वैवाहिके कर्मणि’ इति । तत्रोत्तरफल्गुन्या विशेषेण शुभदत्वमुक्तं गौतमेन – ‘विवाहे शुभदात्यन्तं तस्मादुत्तरफल्गुनी ‘ति । मैत्रे मित्रदेवत्ये । मुहूर्ते मुहूर्तशब्दो नाडिकाद्वयवाची । अष्टादश निमेषास्तु काष्ठा त्रिंशत् तु ताः कला । तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्॥ ते तु त्रिंशदहोरात्रः इति सिंहः । सूर्योदयादारभ्य तृतीयो मुहूर्तो मैत्रः । ’ रौद्रः सार्पस्तथा मैत्रः ’ इत्यादिवचनात्। बन्धुभूताः स्त्रियः तस्याः शरीरस्य प्रतिकर्म रोमादिशोधनं चक्रुः । बन्धुस्त्रीष्वपि विशेषमाह - याः पतिपुत्रवत्यः इति । पतिः पुत्राश्च सन्त्यासां तास्तथा । मङ्गलक्रियासु तासामेवोचितत्वादित्थमुक्तम्॥६॥ सा गौरसिद्धार्थनिवेशवद्भि- दूर्वाप्रवालैः प्रतिभिन्नशोभम् । उन्नीविकौशेयमुपात्तबाण- मभ्यङ्गनेपथ्यमलञ्चकार ॥७॥ प्रकाशिका सेति । गौरं धवलम्। निवेशो योगः । दूर्वायाः प्रवालैः पल्लवैः । प्रतिभिन्नं सञ्जातम्। उन्नीवि उद्गतनीविबन्धनं कौशेयं यत्र । अनेन पाणिग्रहणात् प्राक्तनः परिधानप्रकार उक्तः । यथा विद्धसालभञ्जिकायां- कन्येति सूचयति वेषविशेष एव यन्नीलचोलकवती लिखितात्र चित्रे | पाणिग्रहात् प्रभृति तु प्रमदाजनस्य नीवीनिवेशसुभगः परिधानमार्गः ॥ इति । उपात्तबाणम्, अत्र मनुः-

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासोदशा शूद्रया तु वर्णोत्कृष्टस्य वेदने ॥ ( ३.४४) सप्तमः सर्गः ४१३ इति । देवेषु च परमेश्वर एक एव ब्राह्मणः । श्रुतिं चात्र प्रमाणयन्ति । तस्माद् वर्णोत्कृष्टस्य वेदनमत्रावसेयम् । अभ्यङ्गनेपथ्यम् अभ्यङ्गस्याङ्गभूतं प्रसाधनं, स्नानस्य वक्ष्यमाणत्वात्। अलञ्चकार प्रसाधनस्यापि प्रसाधनमभूदित्यर्थः ॥ ७ ॥ विवरणम् सेति । सा अभ्यङ्गनेपथ्यम् अलञ्चकार । अभ्यङ्गस्याङ्गभूतं नेपथ्यमाकल्पम् । ‘आकल्पवेषौ नेपथ्यम्’ इति सिंहः । अलञ्चकार अलङ्कृतवती । अभ्याङ्गार्थं कृतानां मङ्गलालङ्काराणामप्यलङ्कारतामनुबभूवेत्यर्थ । सर्वेषां हि मण्डनं शरीरशोभार्थम् । अस्यास्तु शरीरशोभायाः स्वाभाविकत्वाद् वैपरीत्यं जातमिति भावः । अत एव वक्ष्यति – ‘तां प्राङ्मुखीं तत्र निवेश्य तन्वीम्’ (७.१३) इत्यादि । तानेव मङ्गलालङ्कारानाह विशेषणत्रयेण । तत्र शिरोलङ्कारमाह – ‘गौरसिद्धार्थनिवेशवद्भिः दूर्वाप्रवालैः प्रतिभिन्नशोभम्’ इति । गौराणां धवलानां सिद्धार्थानां सर्षपाणां निवेशो योगो येषामस्तीति तथा तैः । अत्र सिद्धार्थशब्दो यद्यपि धवलसर्षपवाची । ‘सिद्धार्थस्त्वेष धवल’ इत्यमरः । तथापि करिकलभन्यायाद् गौरशब्दोपादानं मङ्गलार्थम्। अत्यन्तधावल्यप्रतीतिश्च फलम् । दूर्वाप्रवालैः दूर्वापल्लवैः । प्रतिभिन्ना सञ्जाता शोभा यत्र तत् तथा । कटितटालङ्कारमाह – उन्नीविकौशेयमिति । उन्नीवि उद्गतनीवीबन्धं कौशेयं दुकूलं यत्र तत् । अनेन स्त्रीणां विवाहात् पूर्व नीवीबन्धरहितः परिधानप्रकार उक्तः । यथोक्तं विद्धसालभञ्जिकायां- कन्येति सूचयति वेषविशेष एव यन्नीलचोलकवती लिखितात्र चित्रे । पाणिग्रहात् प्रभृति तु प्रमदाजनस्य नीवीविशेषसुभगः परिधानमार्गः ॥ इति । हस्तालङ्कारमाह — उपात्तबाणमिति । उपात्तो धृतो बाणः शरो यत्र तत् । अत्र मनुः - शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वासोदशा शूद्रया तु वर्णोत्कृष्टस्य वेदने ॥ इति । देवेषु परमेश्वर एक एव ब्राह्मण इति श्रुतिप्रसिद्धिरिति हिमवतः क्षत्रियत्वमनेन प्रतिपादितम् ॥७॥ बभौ च सम्पर्कमुपेत्य बाला विवाहदीक्षाविधिसायकेन । करेण भानोर्बहुलावसाने सन्धुक्ष्यमाणेव शशाङ्करेखा ॥ ८ ॥४१४ कुमारसम्भवे प्रकाशिका बभाविति । बहुलावसाने पूर्वपक्षप्रतिपदीत्यर्थः । शशाङ्करेखा चन्द्रकला । यथोक्तं’सौषुम्नेन त्वममृतपथेनैत्य शीतांशुभावम्’ इति ॥ ८ ॥ विवरणम् बाणग्रहणमेव विशेषतो वर्णयति- बभाविति । बाला विवाहदीक्षाविधिसायकेन सम्पर्कम् उपेत्य बभौ च । शशाङ्कलेखासाम्यसिद्ध्यर्थं बालेत्युक्तम्। विवाहदीक्षा विवाहोपनयनं, तस्य विधिर्विधानं, तदर्थेन सायकेन शरेण । सम्पर्कं संबन्धम् उपेत्य प्राप्य बभौ शुशुभे च। अत्र चकारेण ‘अभ्यङ्गनेपथ्यमलञ्चकार’ (७.७) इति पूर्वं यदुक्तं, तत्र बाणस्य विशेषं द्योतयति । विवाहदीक्षाविधिसायकेन तु सम्पर्कमुपेत्य बाला शुशुभे च, न केवलमलञ्चकारेत्यर्थः । अत्रोपमामाह — बहुलावसाने भानोः करेण सन्धुक्ष्यमाणा शशाङ्कलेखा एव इति । बहुलः कृष्णपक्षः । ‘बहुलः कृष्णपक्षः स्यादिति भोजः । तस्य अवसाने समाप्तौ । पूर्वपक्षप्रतिपदीत्यर्थः । भानोः सूर्यस्य करेण किरणेन कर्तृभूतेन सन्धुक्ष्यमाणा सम्यग् वर्ध्यमाना । ‘सन्धुक्षणं दीपने स्याद् वर्धने दहनेऽपि चे’ति भोजः । शशाङ्कलेखा चन्द्रकलेव । रविकरैरेव हि शशिकलावर्धनम् । तदुक्तं- इति ॥ ८ ॥ सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः ॥ ता लोध्रकल्केन हृताङ्गतैला- माश्यानकालेयकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखीमनैषुः ॥ ९ ॥ प्रकाशिका तामिति । आश्यानेति ईषदार्द्रयावककृताङ्गरागाम् । ‘अथ यावकं चे’ति चे’ ति सिंहः । सिंहः । स्नानात् प्रागङ्गरागकरणं लोध्रकषायस्य रौक्ष्यं अभिषेकयोग्यं कार्पासादि । चतुष्कं चतुस्तम्भप्रतिष्ठितं मण्डपम् ॥९॥ कालेयकं । परिहर्तुम् । ISIT स्नानोद्योगमाह- विवरणम् सप्तमः सर्गः ४१५ तामिति । नार्यः तां चतुष्काभिमुखीम् अनैषुः । नार्यः स्नानाधिकृताः स्त्रियः । चतुष्कं चतुस्तम्भं मण्डपं तदभिमुखीम् । अनैषुः स्नानमण्डपं प्रापयामासुरित्यर्थः । कीदृशीमित्यत्राह - लोध्रकल्केन हताङ्गतैलामित्यादिना । लोध्रो वृक्षविशेषः, तस्य कल्केन । परिमृदितया त्वचेत्यर्थः । हृतमङ्गगतं तैलं यस्याः ताम् । तथा आश्यानकालेयकृताङ्गरागाम् । आश्यानेन ईषदार्द्रेण । ‘आश्यानमीषद्रार्द्रे स्यादिति भोजः । कालेयेन जावकेन । ‘अथ जावकम्। कालेयकं चेत्यमरः । कृतो विहितः अङ्गरागो यस्याः ताम्। लोध्रकल्कस्य रौक्ष्यं परिहर्तुं स्नानात् प्राक्तनमिदमङ्गरागार्पणमित्यवसेयम् । पुनश्चाभिषेकयोग्यं वासः वसानाम् । अभिषेकः स्नानम्। कौशेयादिवाससामभिषेकयोग्यत्वाभावात् कृतकार्पासवसनपरिधानामित्यर्थः । तैलपरित्यागम्, अङ्गरागार्पणं, वासः परिधानं च विजने प्रदेशे विधाय सतूर्यस्नानार्थं मण्डपमेनां तदधिकृताः स्त्रियः प्रापयामासुरित्यर्थः ॥ ९ ॥ विन्यस्तवैडूर्यशिलातलेऽस्मि - नाविद्धमुक्ताकृतभक्तिलेखे । आवर्जिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयाम्बभूवुः ॥१०॥ प्रकाशिका विन्यस्तेति । आसनार्थन्यस्तवैडूर्यशिलापट्टे । आविद्धेति, सूत्रस्यूतमुक्ता- सम्पादितभक्तिरचने । अष्टापदं स्वर्णम् ॥ १० । सतूर्यस्नानमेवाह- विवरणम् विन्यस्तेति । ताः अस्मिन् आवर्जिताष्टापदकुम्भतोयैः एनां सतूर्य स्नपयाम्बभूवुः। अस्मिन् चतुस्तम्भे मण्डपे । आवर्जितैः आस्रावितैः अष्टापदकुम्भतोयेः । अष्टापदं काञ्चनम्। चामीकरं जातरूपं महारजतकाञ्चने । 3 रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्॥ इत्यमरः । काञ्चनमये कुम्भे सम्भृतैस्तोयैरित्यर्थः । सतूर्यमिति स्नपनक्रियाविशेषणम् । तूर्यशब्दो वाद्यविशेषवाची । सवाद्यघोषमित्यर्थः । स्नापयाम्बभूवुः स्नानं कारितवत्यः । स्नातेर्मित्त्वाद्ध्रस्वः । इदंशब्दोक्तस्य चतुष्कस्य देवीस्नानयोग्यतां दर्शयति विशेषणद्वयेन । तत्रासनसौख्यमाह - विन्यस्तवैडूर्यशिलातले इति । वैडूर्य ४१६ कुमारसम्भवे विडूरदेशोद्भूतो रत्नविशेषः । विन्यस्तं वैडूर्यमयं शिलतलं शिलापट्टं यत्र तस्मिन् । अवस्थानसौख्यप्रदर्शनार्थं तलशब्दनिर्देशः । मण्डपस्य दर्शनीयत्वमाहआविद्धमुक्ताकृतभक्तिलेखे इति । आविद्धाभिः सूत्रप्रोताभिः मुक्ताभिः मुक्ताफलैः कृता सम्पादिता भक्तिलेखा विन्यासविशेषरचना यत्र तस्मिन् । आबद्धमुक्ताफलभक्तिशोभे इति पाठे आबद्धैः सूत्रप्रोतैः भुक्ताफलैः कृतया भक्त्या विन्यासविच्छित्त्या शोभा यत्रेति विग्रहः । सूत्रप्रोतभक्तिरचनाचित्रे चतुस्तम्भमण्डपे वैडूर्यशिलायामासीनां तां काञ्चनकलशजलैः सतूर्यघोषं स्नापयामासुरित्यर्थः॥१०॥ सा मङ्गलस्नानविशुद्धगात्री गृहीतवत्युद्गमनीयवस्त्रम् । निवृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ ११ ॥ प्रकाशिका सेति । विशुद्धमङ्गरागादिरहितम् । ‘धौतमुद्गमनीयं स्यादिति हलायुधः ॥ ११ ॥ विवरणम् अथ कृतमङ्गलस्नानाया देव्या शोभां विशेषेण वर्णयति- सेति । मङ्गलस्नानविशुद्धगात्री उद्गमनीयवस्त्रं गृहीतवती सा निवृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधा इव रेजे। मङ्गलार्थेन स्नानेन विशुद्धमङ्गरागादिरहितं गात्रं शरीरं यस्याः तथाभूता सती । पुनश्च उद्गमनीयवस्त्रं कारुधौतं वसनम् । ‘धौतमुद्गमनीयं स्यादिति हलायुधः । गृहीतवती च सती । निवृत्तः उपरतः पर्जन्यजलाभिषेकः पर्जन्यजलैः मेघजलैः । ‘पर्जन्यो रसदब्देन्द्रावि त्यमरः। अभिषेकः परितः सेको यस्याः तथाभूता सती । पुनश्च शरदि प्रफुल्ला विकसितकुसुमाः काशास्तृणविशेषा यस्यां तथाभूता च सती । वसुधा भूमिरिव रेजे शुशुभे । मङ्गलस्नानेन संक्षालिताङ्गरागा गृहीतधवलवसना पार्वती वर्षजलसंक्षालितपङ्का शरदागमे विकसितकाशपरिष्कृता भूमिरिव रराजेत्यर्थः ॥ ११ ॥ तस्मात् प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन । युक्तं मणिस्तम्भचतुष्टयेन। पतिव्रताभिः परिगृह्य निन्ये ਇਸ ਸ

  • क्लृप्तासनं कौतुकवेदिमध्यम् ॥१२॥ गल सप्तमः सर्गः प्रकाशिका ४१७ तस्मादिति । परिगृह्येत्यादरावधानादिद्योतकम् । कौतुकं प्रतिसरः, तद्बन्धार्था वेदिः कौतुकवेदिः ॥१२॥ विवरणम् अथ देव्या मङ्गलालङ्कारभवनप्रवेशप्रकारमाह— Ter तस्मादिति । सा पतिव्रताभिः परिगृह्य तस्मात् प्रदेशात् कौतुकवेदिमध्यं निन्ये च। परिगृह्य आदाय । सस्नेहबहुमानं निजकरैः परितः संस्पृश्येत्यर्थः । तस्मात् प्रदेशात् स्नानमण्डपात्। कौतुकं प्रतिसरः, तद्वन्धार्थं या वेदिः परिष्कृता भूमिः, तस्या मध्यं मध्यप्रदेशं निन्ये नीता । चकारः पूर्वोक्तस्नानादिसमुच्चयार्थः । अत्र कौतुकबन्धनमन्येषामपि मङ्गलालङ्काराणामुपलक्षणम् । स्नानानन्तरमन्तःपुरसुन्दरीभिरलङ्कारमण्डपं नीतेत्यर्थः । अलङ्कारमण्डपस्य रमणीयतां दर्शयति विशेषणत्रयेण । वितानवन्तम् आबद्धवितानमित्यर्थ । तथा मणिस्तम्भचतुष्टयेन युक्तं मणिमयानां रत्नमयानां स्तम्भानां चतुष्टयेन । सङ्ख्याया अवयवे तयप् । मणिमयैश्चतुर्भिः स्तम्भैरुपेतमित्यर्थः । तथा क्लृप्तासनं क्लृप्तं कल्पितमासनं यत्र तं तथा ॥ १२ ॥ तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः ॥ १३ ॥ प्रकाशिका तामिति । प्राङ्मुखीमिति मङ्गलार्थम् । भूतार्थः सत्यार्थः । भूतार्थश्चासौ शोभा चेति समासः । स्वाभाविकशोभेत्यर्थः । प्रसाधने प्रसाधनसाधने । विवाहाङ्गतया प्रसाधनं कार्यम् । तस्मिश्च कृते स्वाभाविकी कान्तिरपिधीयेत । तस्मात् प्रागेव प्रसाधनादेनां कान्तिमनुभवाम इति तासां विलम्बः ॥ १३ ॥ विवरणम् देव्या मङ्गलालङ्कारप्रस्तावे विशेषमाह- तामिति । नार्यः तां तन्वीं तत्र प्राङ्मुखीं निवेश्य प्रसाधने सन्निहितेऽपि पुरः निषण्णाः क्षणं व्यलम्बन्त । नार्यः अन्तः पुरस्त्रियः तत्र कौतुकवेदिमध्ये । प्राचि पूर्वभागे मुखं यस्याः तथाभूतां सतीं निवेश्य अवस्थाप्य । अत्र प्राङ्मुखावस्थापनं ४१८ कुमारसम्भवे । मङ्गलार्थं, ‘मङ्गल्ये प्राङ्मुखो भवेदिति वचनात् । प्रसाधने प्रसाधनसाधन इत्यर्थः । प्रसाधनमलङ्कारः। सन्निहिते समीपस्थेऽपि । अपिशब्दो विलम्बसम्भावनां परिहरति । पुरः अग्रभाग एव निषण्णाः स्थिताः सत्यः । पुरोनिषण्णत्वमपि कालविलम्बाभावे हेतुः । क्षणं क्षणकालं न तु चिरकालं, मुहूर्तातिक्रमभयादिति भावः । व्यलम्बन्त विलम्बनं कृतवत्यः प्रसाधयितुमिति शेषः । प्रसाधिकाः प्रसाधनसाधनेषु सन्निहितेष्वपि पुरोभाग एव निषण्णाः सत्यः प्रसाधनं कर्तुं क्षणमात्रं कालक्षेपं कृतवत्य इत्यर्थः। विलम्बे हेतुमाह — भूतार्थशोभाह्रियमाणनेत्रा इति । भूतार्थः परमार्थः । भूतार्थश्चासौ शोभा चेति भूतार्थशोभा । स्वाभाविकशोभेत्यर्थः । तया ह्रियमाणानि आह्रियमाणानि नेत्राणि यासां तास्तथा । अत्र पुरोनिषण्णत्वं नेत्रहरणेऽपि हेतुः । अवश्यं कर्तव्यं हि विवाहे प्रसाधनम् । कृते तु प्रसाधने बहुविधैराभरणाङ्गरागादिभिरस्याः स्वाभाविकी कान्तिः पिहिता भवेत् । तस्मात् प्रसाधनात् पूर्वमेवास्याः स्वाभाविकीं कान्ति क्षणमात्रमनुभवाम इति मत्वा व्यलम्बन्तेत्यर्थः । नेत्रहरणमेव वा विलम्बे हेतुः ॥ १३ ॥ धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तः कुसुमं तदीयम् । पर्याक्षिपत् काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ १४ ॥ प्रकाशिका धूपोष्मणेति । अन्तशब्दः स्वरूपवचनः। अन्तःकुसुमं कृत्वेत्यर्थः। पर्याक्षिपद् वेष्टयामास । उदारो विदग्धो बन्धो बन्धप्रकारो यस्य । पाण्डुशब्दः परभागद्योतकः । ‘मधुमतीरोषधीरिति मधूकानि बध्नातीति शम्बिल्यगृह्यवचनान्मधूकधारणम्॥ १४ ॥ विवरणम् अथ मुहुर्तातिक्रमत्वरया तासां प्रसाधनोद्योगमाह- धूपोष्मणेति । काचित् तदीयं केशान्तं दूर्वावता पाण्डुमधूकदाम्ना पर्याक्षिपत् । काचित् काचन प्रसाधिका तदीयं पार्वतीसम्बद्धम् । केशान्तम्, अन्तशब्दोऽयं स्वरूपवाची। ‘अन्तः स्वरूपे पर्यन्ते मृत्यौ मध्यावसानयोः’ इति भोजः । केशस्वरूपमित्यर्थः। दूर्वावता दूर्वायुक्तेन पाण्डुना श्वेतवर्णेन मधूकदाम्ना मधूकपुष्पनिबद्धेन दाम्ना मालया । अत्र मधूकशब्देनैव पाण्डुत्वे सिद्धेऽपि परभागद्योतनार्थमुपादानम्। पर्याक्षिपद् वेष्टयामास । प्रसाधिकासु काचित् पार्वत्याः

सप्तमः सर्गः ४१९ केशं दूर्वाङ्कुरानुविद्धया मधूककुसुममालया बन्धयामासेत्यर्थः । ‘मधूकानि बध्नाती ‘ति शाम्बल्यगृह्यवचनादत्र मधूकधारणमुक्तम् । स्नातोत्तीर्णाया देव्याः केशानामार्द्रत्वादार्द्राणां च बन्धनानर्हत्वादार्द्रतात्यागप्रकारवचनेन केशान्तं विशिनष्टि — धूपोष्मणा आर्द्रभावं त्याजितमिति । अगुरुचन्दनादिभिः संस्कृतो धूमो धूपः, तस्योष्मणा औष्ण्येन करणभूतेन आर्द्रभावम् आर्द्रत्वं कर्म त्याजितं हापितमित्यर्थः । प्रसाधिकाजनेनेति शेषः । आर्द्रभावस्य धूपोष्मणा परित्यागः सौरभ्यातिशयार्थः। सौरभ्यातिशयोत्पादनप्रकारमाह— अन्तः कुसुममिति । अन्तुर्भागे कुसुमानि पुष्पाणि यस्य तम् । दर्शनमात्रेऽपि मनोहरत्वमाह — उदारबन्धमिति । उदारः उत्कृष्टः बन्धः बन्धनप्रकारो यस्य तं तथा ॥ १४ ॥ प्रसन्नशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः । सा चक्रवाकाङ्कितसैकताया- स्त्रिस्त्रोतसः कान्तिमतीत्य तस्थौ ॥ १५ ॥ प्रकाशिका किए प्रसन्नेति । प्रसन्नं स्वच्छम् । गोरोचनापत्रैः विभक्तम् । विभक्तसर्वाङ्गीणशुक्लागुरुविन्यासमित्यर्थः । तस्थौ, कक्ष्यान्तर इति शेषः ॥ १५ ॥ अङ्गरागार्पणप्रकारमाह- विवरणम् प्रसन्नेति । ताः प्रसन्नशुक्लागुरु अस्याः अङ्गं गोरोचनापत्रविभक्तं चक्रुः । प्रसत्रः स्वच्छः । शुक्लगुरुरगुरुविशेषः । अत्र शुक्लागुरुशब्देन तत्कृतमङ्गरागं लक्ष्यते । प्रसन्नं शुक्लागुरुकृतमङ्गरागं यत्र तादृशम् अस्या अङ्गं गोरोचनानिर्मितेन पत्रेण पत्रभङ्गेन विभक्तं कृतविभागं चक्रुः । स्वच्छतरशुक्लागुरुनिर्मिताङ्गरागं तदङ्गं रक्ततरगोरोचनापत्रविभक्तं चक्रुरित्यर्थः । तथाभूताया देव्याः कान्तिविशेषमाह - सा चक्रवाकाङ्कितसैकतायाः त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ इति । सा रक्तगोरोचनाविभक्तशुक्लाङ्गरागा। चक्रवाकैः सुवर्णवर्णैः पक्षिविशेषैः अङ्कितं चिह्नितं सैकतं पुलिनं यस्याः तस्याः त्रिस्रोतसः गङ्गायाः कान्ति शोभाम् अतीत्य अतिक्रम्य तस्थौ । उत्कृष्टे कक्ष्यान्तरे इति शेषः । रक्ततरचक्रवाकाङ्कितसैकतायाः स्वत एव शुक्लतरायास्त्रिस्त्रोतसः कान्तिमधश्चकारेत्यर्थः ॥ १५ ॥ ४२० कुमारसम्भवे लीनद्विरेफं परिभूय पद्मं समेघलेशं शशिनश्च बिम्बम् । तदानन श्रीरलकैः प्रसिद्धै- श्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥१६॥ प्रकाशिका श्री लीनेति । प्रसिद्धैश्चर्णाद्यलङ्कृतैः । प्रसङ्गः प्रस्ताव । सम्भावितसादृश्ययोरनयोः परिभवादेव तदाननस्यान्यसादृश्यं न सम्भाव्यमित्यर्थः ॥ १६ ॥ अलकसंस्कारं भङ्गयन्तरेणाह— विवरणम् लीनेति । तदाननश्रीः प्रसिद्धैः अलकैः लीनद्विरेफं पद्मं समेघलेशं शशिनः बिम्बं च परिभूय सादृश्यकथाप्रसङ्गं चिच्छेद । तस्याः पार्वत्याः आननस्य मुखस्य श्रीः शोभा । ‘श्रीरिन्दिरायां शोभायामित्यमरः । प्रसिद्धैः भूषितैः । ‘प्रसिद्धौ ख्यातभूषितावित्यमरः । कुसुमचूर्णादिसंस्कृतैरलकैरित्यर्थः । लीनोऽधिष्ठितः द्विरेफः भृङ्गो यत्र तादृशं पद्मं पङ्कजं च परिभूय विजित्य । मेघस्य लेखेन खण्डेन सहितं समेघलेखं शशिनश्चन्द्रस्य बिम्बं च परिभूय । सादृश्यस्य कथा सादृश्यकथा, तस्याः प्रसङ्ग प्रस्तावं चिच्छेद दूरतो निराचकार। लीनद्विरेफस्य पद्मस्य समेघलेखस्य चन्द्रबिम्बस्य च लोके तादृशतदाननसादृश्यवार्तायाः सम्भावितत्वात् तयोरनायासेनैव परिभवाच्च सादृश्यवार्तायाः प्रसङ्गोऽपि नाभूदित्यर्थः ॥१६॥ कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाभेदनितान्तगौरे । तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥१७॥ प्रकाशिका EPE कर्णेति । रूप इति केचित् पठन्ति । लोध्रकषायेण रूपों रूषणं यस्य । भेदः सम्भेदः। गौरं पीतम्। ‘परभागो गुणोत्कर्ष" इति यादवः । प्ररोहोऽङ्कुरः ॥ १७ ॥ विवरणम् मङ्गलार्थं यवाङ्कुरकर्णावतंसार्पणमाह- कनक सप्तमः सर्गः ४२१ कर्णेति। कर्णार्पितः यवप्ररोहः तस्याः कपोले परभागलाभात् चक्षूंषि बबन्ध । कर्णयोरर्पितः कर्णावतंसत्वेन न्यस्तः यवस्य दीर्घशूकस्य प्ररोहोऽङ्कुरः कपोले गण्डप्रदेशयोः परभागस्य गुणोत्कर्षस्य लाभात् सिद्धेः । ‘परभागे गुणोत्कर्ष’ इति यादवः । चक्षूंषि नयनानि । द्रष्टृणामिति शेषः । बबन्ध कपोलयोरेव निबद्धमकरोत् । देव्याः कर्णार्पितः कपोलयोर्लम्बमानो यवाङ्कुरो नृणां चक्षुषां गण्डप्रदेशादितरप्रदेशगमनं नानुमनुते स्मेत्यर्थः । परभागलाभमेव प्रदर्शयति विशेषणद्वयेन । लोध्रकषायरूक्षे लोध्रकषायेण लोध्रपङ्केन रूक्षे अत्यन्तधवलत्वाद् दुर्निरीक्षे । मनोहर इत्यर्थः । लोध्रकषायरूप इति वा पाठः । लोध्रकषायेण रूषो रूषणं यस्य तस्मिन् । लोध्रकषायसम्पृक्त इत्यर्थः । तथा गोरोचनाभेदनितान्तगौरे गोरोचनाया भेदः सम्मेदः, तेन नितान्तगौरे अत्यन्तपीते । गोरोचनापत्रनितान्तगौर इति वा पाठः । तादृशे कपोले लम्बमानस्य यवप्ररोहस्य सकलजननेत्रहरणे कः प्रयास इति भावः ॥ १७ ॥ रेखाविभक्तः सुविभक्तगात्र्याः किञ्चिन्मधूच्छिष्टविमृष्टरागः । * कामप्यभिख्यां स्फुरितैरपुष्य- दासन्नलावण्यफलोऽधरोष्ठः ॥ १८ ॥ प्रकाशिका रेखेति । रेखाकारेण विभक्तसन्निवेश इत्यर्थः । मधूच्छिष्टं सिक्थकं तेन किञ्चिद्विमृष्टो विशोधितो रागो यस्य । अत्र वात्स्यायनवचनं - ‘सक्थकमलक्तकं चौष्ठयोर्दत्त्वे ‘ति । तच्च जयमङ्गलायां व्याख्यातम् — ‘अलक्तकपिण्डेनोत्पिष्यौष्ठौ ताम्बूलमुपयुज्य सिक्थगुलिकया ताडयेदित्यर्थ क्रम’ इति । कामप्यनिर्वचनीयाम् । अभिख्यां शोभाम् । स्फुरितैः प्रियतमभावनाजनितैः स्फुरणैरित्यर्थ । आसन्नं लावण्यस्य फलं प्रियोपभोगलक्षणं यस्य । तथाविधस्य स्फुरितं शोभत एवेति भावः ॥ १८ ॥ अधराभरणं वर्णयति- विवरणम् रेखेति । सुविभक्तगात्र्याः अधरोष्ठः स्फुरितैः कामपि अभिख्याम् अपुष्यत् । सुविभक्तं सम्यग्विभक्तं गात्रं शरीरं यस्याः तस्याः । अनेन स्वाभाविकी कान्तिरुक्ता । सा च ‘वपुर्विभक्तं नवयौवनेन ’ (१.३१ ) इत्यत्र दर्शिता। अधरश्चासावोष्ठशेत्यधरोष्ठः । स्फुरितैः स्फुरणैः । प्रियतमभावनाजनितैरिति शेषः । भावनासन्निहित- ४२२ कुमारसम्भवे

प्रयितमदर्शनसञ्जातैः सात्त्विकविकाररूपैरधरस्फुरणैरित्यर्थः । कामप्यनिर्वचनीयाम् अभिख्यां शोभाम्। ‘शोभाभिख्या कान्तिरि’ त्यमरः । अपुष्यत् प्रापदित्यर्थः । अधरोष्ठस्यापि स्वाभाविकीं कान्तिमाह – रेखाविभक्त इति । रेखाकारेण विभक्तः कृतविभागः । रेखाकारेण विभक्तसन्निवेश इत्यर्थः । संस्कारविशेषजां कान्तिमाहकिञ्चिन्मधूच्छिष्टविमृष्टराग इति । मधूच्छिष्टं सिक्थकं तेन किञ्चिद्विमृष्टो विशोधितो रागो लाक्षादिरागो यस्य स तथा । यथोक्तमधरसंस्कारप्रकरणे वात्स्यायनेन’सिक्थकमलक्तकं चौष्ठयोर्दत्त्वे ‘ति । तच्च जयमङ्गलाकारेण व्याख्यातम्‘आदावोष्ठमलक्तपिण्डेनोत्पिष्य पुनश्च ताम्बूलमुपयुज्य सिक्थकगुलिकया शनैश्शनैस्ताडयेदिति। प्रियतमभावनाजनितमधरस्फुरणमपि तदानीं शोभावहमासीदित्याहआसन्नलावण्यफल इति । आसन्नं प्रत्यासन्नं लावण्यस्य प्रियोपभोगलक्षणं फलं यस्य। अत्यन्तप्रत्यासन्नं हि देव्या अधरस्य प्रियतमोपभोगलक्षणं फलमिति तादृशं स्फुरणं तदानीं शोभत एवेति भावः ॥ १८ ॥ पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशी- र्माल्येन तां निर्वचनं जघान ॥ १९ ॥ प्रकाशिका पत्युरिति । अस्य भोजेन व्याख्यानं कृतम् — अनेन रागेण । रञ्जयित्वेति वचनाद् रञ्जनसाधनं लाक्षादिरागो गृह्यते । चरणपरामर्शे त्वाभ्यामिति भवितव्यमिति । अभिनवगुप्तयोजना तु—अनेनेति अलक्तकोपरक्तस्य चन्द्रमसि परभागलाभः । अनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भवितव्यमिति चोपदेशः । शिरोधृता च या चन्द्रकला, तामपि परिभवेति सपत्नीलोकापजय उक्तः । निर्वचनमित्यनेन लज्जावहित्थहर्षेर्ष्यासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते, तथापि कुमारीजनोचितस्याप्रतिपत्तिलक्षणस्यार्थस्योपस्कार(क)तां केवलमाचरति । उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति । माल्येन करधृतेन लीलारविन्देनेत्यर्थः ॥ १९ ॥ तद् निर्वचनशब्दार्थस्य विवरणम् पादयोरलक्तकरसार्पणं भङ्गयन्तरेणाह- पत्युरिति । चरणौ रञ्जयित्वा अनेन पत्युः शिरश्चन्द्रकलां स्पृश इति परिहासपूर्वं सख्या कृताशीः सा तां माल्येन निर्वचनं जघान । चरणौ पादौ सप्तमः सर्गः । ४२३ रञ्जयित्वा अलक्तकरसेन रागयुक्तौ कृत्वा । अनेनेति समनन्तररञ्जितो वामचरणो गृह्यते । अलक्तोपरक्तस्य पादस्य श्वेतांशुकलायां परभागलाभश्च भविष्यति । पत्युर्भविष्यतः शिरसि या चन्द्रकला तां स्पृश। अपराधप्रशमनार्थे पादप्रणामे सरोषं संस्पृशेत्यर्थः । इतिशब्दः पूर्वोक्तप्रकारवाची। परिहासपूर्वमित्याशीर्वादक्रियाविशेषणम् । परिहासः पूर्वं यथा भवति तथा। कृताशीः कृता विहिता आशी आशीर्वादो यस्यै सा पार्वती तां सखीं माल्येन कुसुमेन । करधृतेन लीलाकमलेनेत्यर्थः। जघान ताडनं कृतवती । अत्र ‘पत्युश्शिरश्चन्द्रकलां स्पृशेत्यनेन पादप्रणामचाटुशतवचनादिभिर्विना न झटिति भर्तृवशवर्तिनी भवेत्युपदेशः सूचितः । शिरसि वर्तमानां चन्द्रकलां प्रत्यपि परिभवमाचर, किं पुनः सपत्नीजनं प्रतीति च ध्वन्यते। अत्र निर्वचनशब्दः कुमारीजनोचितमप्रतिपत्तिलक्षणमर्थमेव साक्षात् प्रतिपादयति । लज्जावहित्थहर्षेर्ष्यासाध्वससौभाग्याभिमानप्रभृतयस्तु अप्यप्रतिपत्तिलक्षणस्यार्थस्य शोभामावहन्ति ॥ १९ ॥ तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने समीक्ष्य । न चक्षुषोः कान्तिविशेषबुद्धया कालाञ्जनं मङ्गलमित्युपात्तम्॥२०॥ प्रकाशिका ध्वन्यमाना तस्या इति । सुजातेति सुष्ठुजातत्वेन समग्रगुणत्वं लक्ष्यते । इतिर्हेतौ मननगर्भः। एवं बुद्ध्वेत्यर्थः । उपात्तं प्रसाधनमुपयोजितम् । कान्तिविशेषबुद्ध्या अस्मिन् निक्षिप्ते चक्षुषोः कान्तिविशेषः स्यादिति बुद्ध्या ॥ २० ॥ विवरणम् देव्या नयनप्रसाधने विशेषमाह - तस्या इति । प्रसाधिकाभिः तस्याः सुजातोत्पलपत्रकान्ते नयने समीक्ष्य कालाञ्जनं मङ्गलम् इत्युपात्तम् । प्रसाधिकाभिः अलङ्कारकर्त्रीभिः । सुजातस्य सुष्ठु जातस्य समीचीनपङ्कजलसम्पर्कादिवशाज्जातस्य । अनेन समग्रगुणत्वं लक्ष्यते। सुन्दरस्येत्यर्थः । उत्पलस्य कुवलयस्य पत्रवद् दलवत् कान्ते मनोहरे । अतीव कृष्णे दीर्घे चेत्यर्थः । नयने नेत्रे समीक्ष्य सम्यगवलोक्य । कालाञ्जनं कृष्णवर्णमञ्जनम् । अथवा कालाञ्जनं दीपमषी । ‘कालाञ्जनं दीपमषी कज्जलमिति भोजः । इतिशब्दो हेतौ । मननगर्भश्चायं निर्देशः । मङ्गलमिति बुद्धवेत्यर्थः । उपात्तं प्रसाधने४२४ कुमारसम्भवे उपयोजितमिति यावत्। प्रसाधिका देव्याः कुवलयदलमनोज्ञं नयनद्वयमवलोक्य मङ्गलारम्भेष्ववश्यकर्तव्यमेतदिति बुद्ध्वैव तस्मिन्नञ्जनमर्पयामासुरित्यर्थः । एतदेव स्फुटयति - चक्षुषोः कान्तिविशेषबुद्ध्या न इति । अस्मिन्नर्पिते चक्षुषोः कान्तिविशेषो भविष्यतीति बुद्ध्या न, केवलया मङ्गलबुद्धयैवेत्यर्थः ॥ २० ॥ सा सम्भवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्धिरिव त्रियामा। सरिद् विहङ्गैरिव लीयमानै- रामुच्यमानाभरणा चकाशे ॥२१॥ प्रकाशिका सेति। सम्भवद्भिः प्रादुर्भवद्भिः । अत्रामुच्यमानेष्वाभरणेषु प्रथमं शरीरस्यैवेदं किञ्चिदुज्ज्वलमवयवजातमुन्मिषतीति द्रष्टृणां प्रतीतिः, ततोऽन्यत्वावगमे प्रतिबन्धापगमसमुन्मिषदनाहार्यपदार्थबुद्धिः, ततश्च सम्यग्विचारे त्वाहार्यबुद्धिरिति क्रमादुपमानत्रयेण द्योत्यते । अत्राभरणानां समास उपसर्जनीभावो न हृदयहारी । आभरणैरिति तु युक्तम् ॥ २१ ॥ विवरणम् इत्थमङ्गरागार्पणप्रकारमुक्त्वा हाराद्याभरणार्पणप्रकारमाह- सेति । आमुच्यमानाभरणा सा चकाशे । आमुच्यमानानि अर्प्यमाणानि आभरणानि यस्यां तथाभूता । सा पार्वती चकाशे शोभते स्म । अत्रोपमात्रयमाह सम्भवद्भिरित्यादिना। लता सम्भवद्भिः कुसुमैः इव । लता मालत्यादिका सम्भवद्भिः प्रादुर्भवद्भिः कुसुमैः पुष्पैरिव । अनेनोपमानेन देव्याः शरीरस्यैवैतान्युज्ज्वलतराण्यवयवान्तराणि कानिचित् कानिचित् कालवशात् समुन्मिषन्तीति सहृदयानां प्रतीतिद्यत्यते । पुनश्च विचारदशायामाभरणानामवयवेभ्यो भेदावगमे सति प्रतिबन्धापगमप्रकाश्याः केचित् सहजा एवैते पदार्था इति प्रतीतिरुत्पन्ना। तदनुसारेण द्वितीयामुपमामाह — त्रियामा उद्यद्भिः ज्योतिर्भिः इव इति । त्रियामा रात्रिः उद्यद्भिः सूर्यलोकप्रतिबन्धापगमे सति प्रकाशमानैः ज्योतिर्भिः नक्षत्रादिभिरिव । ततश्च सम्यग्विचारे सति आभरणेष्वर्पणामोचनयोग्यपदार्थत्वावधारणमेव सञ्जातमिति तदनुसारेण तृतीयामुपमामाह - सरित् लीयमानैः विहङ्गः इव इति । सरिन्नदी लीयमानैः वर्षापगमादिवेलायामवतरद्भिः विहङ्गैः हंसादिभिरिव । अनेनोपमानत्रयक्रमप्रदर्शनेन देवीशरीरावयवानामाभरणानां च परस्परसङ्गमयोग्यता दर्शिता । सप्तमः सर्गः ४२५ अत्रामुच्यमानाभरणेत्याभरणानां समासे उपसर्जनीभावो न सहृदयहृदयाह्लादकारी। आमुच्यमानैराभरणैरित्येव वक्तव्यमिति केचिन्मन्यन्ते । तन्मन्दम् । उपसर्जनीभावेऽपि महाकविप्रयोगरसवशात् पृथक्प्रयोगफलसिद्धेः ॥ २१ ॥ आत्मानमालोक्य च शोभमान- मादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव आत्मानमिति । उत्सुका ॥ २२ ॥ स्त्रीणां प्रियालोकफलो हि वेषः ॥ २२ ॥ प्रकाशिका । अक्ष्णोः स्तिमितत्वं प्रियागमनचिन्तया । त्वरिता विवरणम् इत्थं विहितानामलङ्काराणां फलमाह- आत्मानमिति । सा आदर्शबिम्बे शोभमानम् आत्मानम् आलोक्य हरोपयाने त्वरिता बभूव च। आदर्शबिम्बे दर्पणतले शोभमानं स्वाभाविकेन सौन्दर्येण अलङ्कारजनितया कान्त्या च दीप्यमानम् आत्मानं स्वदेहम् आलोक्य दृष्ट्वा हरस्य परमेश्वरस्य उपयाने समीपप्राप्तौ त्वरिता उत्सुका बभूव सञ्जाता च । अत्र चकारेण हरोषयानौत्सुक्यस्य शोभमानात्मस्वरूपदर्शनसमकालीनत्वं द्योत्यते । हृदयगता हरोपयानाकाङ्क्षा नयनद्वये प्रकटाभूदित्याह - स्तिमितायताक्षीति ॥ स्तिमिते प्रियागमनचिन्तया निश्चले । सावधानध्याने हि निश्चलं नयनं भवति । यथोक्तं रघुवंशे’ध्यानस्तिमितलोचन’ (१.७३ ) इति । आयते स्वत एवायते दीर्घे च अक्षिणी यस्याः । आयते सन्तोषवशात् प्रसारिते इति माधवः । उक्तमर्थमर्थान्तरन्यासेन समर्थयते - स्त्रीणां वेषः प्रियालोकफलः हि इति । स्त्रीणां वेषः अलङ्कारः । प्रियालोकफलः प्रियस्यालोक एव फलं यस्य स तथा । हिशब्दः प्रसिद्धौ । प्रियकर्तृकमवलोकनमेव हि स्त्रीणामलङ्कारस्य फलम् ॥ २२ ॥ अथाङ्गलिभ्यां हरितालमार्द्र मङ्गल्यमादाय मनश्शिलां च। कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखमुन्निनाय ॥ २३ ॥ ४२६ कुमारसम्भवे प्रकाशिका अथेति । तस्या मुखं माता कर्णावसक्तामलदन्तपत्रं कृत्वा दक्षिणहस्ताङ्गुलिभ्यां हरितालकल्कं मनश्शिलाकल्कं चादाय वामहस्तेन चिबुके गृहीत्वोन्नामितवतीत्यर्थः ॥ २३ ॥ विवरणम् अथ देवीमात्रा मेनयैवावश्यकर्तव्यं मङ्गलालङ्कारविशेषं वर्णयति त्रिभिः श्लोकैः । तत्रानन्तरश्लोके वक्ष्यमाणस्य विवाहदीक्षातिलकविधानस्याङ्गभूतं मुखोनयनमाह- अथेति । अथ माता तदीयं मुखं कर्णावसक्तामलदन्तपत्रं मङ्गल्यम् आर्द्र हरितालं मनःशिलां च अङ्गुलिभ्यामादाय उन्निनाय । अथ प्रसाधिकाकर्तृकप्रसाधनानन्तरं माता मेना तदीयं देवीसम्बन्धि मुखं कर्णयोरवसक्ते स्थिते अमले निर्मले दन्तपत्रे गजदन्तनिर्मितकर्णावतंसविशेषौ यस्य तथाविधम् । कृत्वेति शेषः । पुनश्च मङ्गल्यं मङ्गलप्रयोजनम् आर्द्र जलसम्बन्धादार्द्रतां प्राप्तं हरितालं हरितालकल्कं मनःशिलां मनःशिलाकल्कं च अङ्गुलिभ्यामादाय गृहीत्वा उन्निनाय चिबुके गृहीत्वोन्नामितवती । हरितालमनश्शिलाभ्यां तिलकं विधातुमिति शेषः । प्रसाधिकाजनकर्तव्यप्रसाधनसमाप्त्यनन्तरं मेना स्वयमेव देव्या वदनमादौ कर्णावसक्तामलदन्तपत्रं कृत्वा दक्षिणहस्ताङ्गुलिभ्यामार्द्र हरितालं मनश्शिलां चादाय चिबुके गृहीत्वा तिलकविधानार्थं मुखमुन्नमय्य मुखदर्शनकुतूहलात् किञ्चित्कालं तूष्णीमेव स्थितवतीत्यर्थः । अत एवोन्नयनमात्रे वाक्यसमाप्तिः, न पुनरुन्नीय तिलकं चकारेत्यत्र ॥ २३ ॥ उमास्तनोद्भेदमनु प्रवृद्धो मनोरथो यः प्रथमं बभूव । तमेव मेना दुहितुः कथञ्चिद् विवाहदीक्षातिलकं चकार ॥ २४ ॥ किमर्थमुन्नामनमित्याह— प्रकाशिका उमेति । अनुर्लक्षणे । उमास्तनोद्भेदकालादारभ्येत्यर्थः । मनोरथो मनोरथविषयः । एवशब्देन इत्थं करिष्यामीति यत्प्रकारविशिष्टोऽभिलषितः, तत्प्रकारमेव तिलकं कृतवतीति द्योत्यते । कथञ्चिदिति दुश्चरतपश्चर्यादिकृच्छ्रमनुसन्धत्ते । अथ च प्रहर्षपरवशत्वात् कथञ्चित् । विवाहदीक्षातिलकं दुहितुः कदा करिष्यामीति यो भर्तृवाल्लभ्यादिभ्यः प्रथमं मनोरथभूमिस्तिलक आसीत्, तमेव मेना कथश्चिच्च- सप्तमः सर्गः ४२७ कारेत्यर्थः । अत्र तथाविधस्य मुखोन्नयनस्य तिलककरणाङ्गत्वेऽप्यनयोः पद्ययोरेकवाक्यत्वं न कृतं मुखमुन्नीय तिलकं चकारेति । तच्च तन्मुखावलोकनकुतूहलिन्यास्तस्यास्तदुन्नयन एवेक्षणं विश्राम्यतीति द्योतयितुम् । यः प्रथमम् उमस्तनोद्भेदमनु प्रवृद्धो मनोरथो बभूव, मेना दुहितुस्तमेव विवाहदीक्षातिलकं कथञ्चिच्चकारेत्यन्वयः॥२४॥ विवरणम् अथ मुखोन्नयनस्य प्रधानकार्यभूतं तिलकविधानमाह- उमेति। यः प्रथमः उमास्तनोद्भेदम् अनु प्रवृद्धः मनोरथः बभूव, मेना दुहितुः तमेव विवाहदीक्षातिलकं कथञ्चिच्चकार । यः विवाहदीक्षातिलकः प्रथमः आदिमः । भर्तृवल्लभत्वगर्भधारणपुत्रजन्मादीनामपि मनोरथविषयत्वात् तद्व्यावृत्त्यर्थं प्रथमशब्दोपादानम्। उमायाः पार्वत्याः स्तनयोः कुचयोः उद्भेदमुद्गमनम् । अनुर्लक्षणे। प्रवृद्धः प्रकर्षेण सम्पूर्णः । उमास्तनोद्भेदं लक्षीकृत्य प्रवृद्धः, उमास्तनोद्भेदकालादारभ्य क्रमेण प्रवृद्ध इति यावत् । मनोरथः मनोरथविषयो बभूव । दुहितुः आत्मनः पुत्र्याः । तं विवाहदीक्षातिलकमेव । विवाहदीक्षा विवाहोपनयनं तदर्थस्तिलको विवाहदीक्षातिलकः, तम् । कथञ्चित् प्रहर्षपरवशत्वेन हस्तनेत्राणां सम्यक्प्रवृत्त्यभावेऽपि यथाकथञ्चिच्चकारेत्यर्थः । तिष्ठन्तु तावद् भर्तृवल्लभत्वादयः, मम पुत्र्या विवाहदीक्षातिलकमेवाहं कदात्र करिष्यामीति यो विवाहदीक्षातिलकः प्रथमो मनोरथविषयो बभूव, तमेव विवाहदीक्षातिलकं मेना कथञ्चिच्चकारेत्यर्थः । अथवा अहं कदा नु दुहितरमनुरूपाय वराय दातुं विवाहदीक्षातिलकं करिष्यामीति यत्प्रकारविशिष्टो मनोरथः प्रथममासीत्, पुत्र्या विहितं दुश्चरतपश्चर्यादिकृच्छ्रमनुभूयापि मेना तत्प्रकारविशिष्टमेव विवाहदीक्षातिलकं कथञ्चिच्चकारेत्यर्थः ॥ २४ ॥ बबन्ध चास्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसन्निवेशम्। ध्यात्र्यङ्गुलीभिः प्रतिसार्यमाण- मूर्णामयें कौतुकहस्तसूत्रम् ॥ २५ ॥ न प्रकाशिका (प्रकाशिकाया अत्राऽभावः ) विवरणम् कौतुकबन्धनमाह- ४२८ कुमारसम्भवे बबन्धेति । सा अस्या ऊर्णामयं कौतुकहस्तसूत्रं बबन्ध च । ऊर्णामयम् ऊर्णातन्तुनिर्मितं विवाहमङ्गलार्थं बन्धनीयं कौतुकाभिधानं हस्तसूत्रम् । बबन्ध च । चकारस्तिलकविधानसमुच्चयार्थः । कौतुकबन्धने स्नेहपारवश्यं । दर्शयतिअस्राकुलदृष्टिरिति । अस्त्रेणानन्दाश्रुणा आकुले परवशे दृष्टी नेत्रे यस्याः सा तथा । अत एव स्थानान्तरे कल्पितसन्निवेशम् । स्थानान्तरे विहितस्थानादन्यत्र कल्पितः कृतः सन्निवेशः अवस्थानं यस्य तत् । अत एव धात्र्या अङ्गुलीभिः प्रतिसार्यमाणम् । धात्र्या उपमात्रा अङ्गुलीभिः प्रतिसार्यमाणं बन्धनोचितस्थानमेव नीयमानम् । हर्षपरवशत्वाद् आनन्दाश्रुभिराकुलदृष्टित्वाच्च मेनया स्थानान्तरे बन्धुमारब्धं कौतुकमुपमाता स्वस्थान एव तया बन्धयामासेत्यर्थः ॥ २५॥ क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा। नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥ २६ ॥ प्रकाशिका क्षीरोदेति । वेला समुद्र [तटं, फेनं] जलविकृतिः । पर्याप्तः पूर्णः । भूयो बहुतरम्। अत्र शुक्लाङ्गरागायास्तस्या नवक्षौमनिवसनत्वं सर्वश्वेतत्वप्रतीत्यर्थम् । ततश्च सर्वश्वेताभ्यामुपमितिः । इत्थमियत्पर्यन्तमत्र प्रबन्धे भक्तिपरवशेन कविना प्रथमं यौवनोद्भेदविशिष्टत्वेन, तदनन्तरं वसन्तपुष्पाभरणशोभत्वेन, पश्चाद् विवाहनेपथ्यशालित्वेन च परदेवतास्वरूपमुपवर्णयता श्रोतृजनानुग्रह कृत इत्यवसेयम् ॥ २६ ॥ विवरणम् दुकूलपरिधानं दर्पणोद्धरणं च भङ्गयन्तरेणाह - क्षीरोदेति । नवक्षौमनिवासिनी नवं दर्पणम् आदधाना सा सफेनपुञ्जा क्षीरोदवेला इव पर्याप्तचन्द्रा शरत्रियामा इव भूयः बभौ । नवम् अभिनवं क्षौमं धवलतरं दुकूलविशेषं (नि) वसितुं परिधातुं शीलमस्या इति तथा नवं विवाहसमये ग्रहणार्थं तदानीमेव निर्मितं दर्पणम् आदधाना करे गृह्णती । फेनानां जलविकाराणां पुञ्जन समूहेन सहिता । क्षीरोदस्य क्षीरसमुद्रस्य । संज्ञायामुदकस्योदादेशः। वेला समुद्र[तटं,फेनं]जलविकृतिः [ तत्पुञ्जन सहिता ] सेव । पर्याप्तः पूर्णः चन्द्रो यस्यां सा शरत्कालरात्रिरिव च । भूयः सुतरां बभौ शुशुभे । शुक्लाङ्गरागत्वेन शुक्लाम्बरत्वेन च सर्वता दर्पणं दधाना च सती देवी सफेनपुञ्जा क्षीरोदवेलेव पूर्णचन्द्रसहिता शरत्कालरात्रिरिव च बभावित्यर्थः । अत्र नवक्षौमनिवासिनीति सप्तमः सर्गः ४२९ विशेषणं देव्याः सर्वश्वेतत्वप्रतीत्यर्थमेव । अत एव सर्वश्वेताभ्यामुभाभ्यामुपमितिः । फेनपुञ्जपूर्णचन्द्रयोस्तु दर्पणप्रतिवस्तुत्वेनोपादानम्। अत्रापि महाकविः पूर्ववत् परदेवतायाः स्वरूपवर्णनं कृतवानित्यवसेयम् । २६ ॥ तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता। अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम्॥२७॥ प्रकाशिका तामिति । कुलदेवताभ्यः राजकुलप्रतिष्ठाभ्यो लक्ष्मीवागादिभ्यः । कुलस्य प्रतिष्ठां संरक्षणीमित्यर्थः । प्रणमय्य ‘ल्यपि लघुपूर्वाद्’ (६.४.५६) इति णेरयादेशः । क्रमेण यथाप्रधानं यथावयश्च यथाभिजनं च ॥ २७ ॥ विवरणम् इत्थं कृतनेपथ्याया देव्याः कुलदेवतावन्दनं पतिव्रतापादाभिवन्दनं चाह तामिति। माता ताम् अर्चिताभ्यः कुलदेवताभ्यः प्रणमय्य सतीनां पादग्रहणं क्रमेण अकारयत्। अर्चिताभ्यः विवाहोत्सवानुगुणया महत्या सपर्यया पूर्व पूजिताभ्यः कुलक्रमार्चिताभ्यो देवताभ्यः । सकलविपत्प्रशमनार्थं स्वकुलपारम्पर्येणार्चिताभ्यो लक्ष्मीदुर्गाभद्रकालीप्रभृतिभ्य इत्यर्थः । प्रणमय्य प्रणामं कारयित्वा। ‘ल्यपि लघुपूर्वाद्’ (६.४.५६) इति णेरयादेशः । सतीनां पतिव्रतानां पादग्रहणमभिवादनम्। ‘समे तु पादग्रहणमभिवादनमित्युभे’ इत्यमरः । क्रमेण आभिजात्यवयःप्रभृतिक्रमेण अकारयत् कारयामास । तां माता कुलक्रमार्चिताभ्यो देवताभ्यः नमस्कारं कारयित्वा पश्चाद् विवाहदर्शनकुतूहलादागतानां बन्धुभूतानां पतिव्रतानामभिवादनं चाभिजात्यवयः प्रभृतिक्रमेण कारयामासेत्यर्थः । मातुस्तस्यां तथाविधे प्रयासे हेतुमाह — कुलप्रतिष्ठामिति । कुलस्य प्रतिष्ठां स्थितिकरीम् । संरक्षणीमित्यर्थः । मेनायास्तादृशे कर्मणि कौशलमाहकारयितव्यदक्षेति । कारयितव्ये कारयितुमुचिते कर्मणि दक्षा कुशला नह्यन्येन जनेन तत्कालोचितं कर्म कारयितुं सर्वेषां कुशलता सम्भवतीति भावः ॥ २७ ॥ प अखण्डितं प्रेम लभस्व पत्यु- रित्युच्यते ताभिरुमा स्म नम्रा । तया तु तस्यार्धशरीरलाभात् पश्चात्कृताः स्निग्धजनाशिषोऽपि ॥ २८ ॥ ४३० कुमारसम्भवे *प्रकाशिका अथ तासां प्रत्यभिवादनमाह- अखण्डितमिति । अखण्डितमन्ययानुपात्तांशमित्यर्थः । नम्रा प्रणामसमये इत्यर्थः । तुशब्दो देव्या महाभाग्यादिगुणसम्पदो विशेषोऽयमिति द्योतयति । पश्चात्कृता अधरीकृताः। प्रेमालाभाच्छरीरलाभस्य दुर्लभत्वात् । अपिशब्देन तदाशिषामेवातिभूम्यवगाहित्वं द्योत्यते ॥ २८ ॥ सिक्क विवरणम् तया गृहीतपादानां च तासां प्रत्यभिवादनप्रकारमाह- अखण्डितमिति । नम्रा उमा ताभिः पत्युः अखण्डितं प्रेम लभस्व इति उच्यते स्म । नम्रा पादानता साधुकारिणी । ताभिः पतिव्रताभिः पत्युः भर्तृभूतस्य हरस्य अखण्डितं सपत्नीभूतयान्ययानुपात्तांशं प्रेम स्नेहं लभस्व प्राप्नुहि इत्युच्यते स्म उक्ताभूत् । पतिव्रतानां पादानता देवी ताभिः पत्युः परं प्रेमास्पदं भवेत्याशीर्वादेनाभिनन्दिताभूदिति भावः । इत्थं कृताशिषो देव्या महाभाग्यादिगुणयोगाद् विशेषमाह — तया तु तस्य अर्धशरीरलाभात् स्निग्धजनाशिषः अपि पश्चात्कृताः इति । तया उमया । तुशब्दो महाभाग्यवत्त्वादिगुणविशिष्टाया देव्या विशेषं द्योतयति । तस्य पत्युः अर्धशरीरलाभात् । शरीरस्यार्धमर्धशरीरम् । ‘अर्धं नपुंसकम्’ (२.२.२) इति समासः । तस्य लाभाद्धेतोः । समविभक्तांशस्य भर्तृशरीरस्य लाभादित्यर्थः । स्निग्धानां जनानामाशिषः आशीर्वादा अपि । अपिशब्देन सतीनां स्निग्धानां च तासामाशीर्वादानामत्युत्कर्षात् पश्चात्करणानुपपत्तिरुक्ता । पश्चात्कृता अधः कृताः । आभिरूप्यवैदग्ध्यसौशील्यसौभाग्यादिगुणविशिष्टया देव्या तु सतीनां स्निग्धानां च तासां भर्तृप्रेमलाभमात्रपरा आशिषो भर्तुः शरीरार्धस्यैव स्वीकारादधः कृता इति भावः ॥ २८ ॥ इच्छाविभूत्योरनुरूपमद्रि- स्तस्याः कृती कृत्यमशेषयित्वा । सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनं प्रतीक्ष्य ॥ २९ ॥ प्रकाशिका इच्छेति । कृत्यमुक्तप्रकारं कौतुकबन्धादि । अशेषयित्वा समाप्य । सभ्यः सभागतसुहृद्विषयसमुदाचारादिनिपुण इत्यर्थः । प्रतीक्ष्य प्रतीक्षमाण इत्यर्थः । सप्तमः सर्गः ४३१ वृषाङ्कशब्देन वृषो धर्मः सोऽस्य चिह्नमिति धर्माधिष्ठातृत्वेन विश्वाधारत्वं विश्वस्पृहणीयत्वं च देवस्य द्योत्यते ॥ २९ ॥ विवरणम् विवाहोत्सवे हिमवता कर्तव्यं कारयितव्यं चार्थजातमुपसंहरति- इच्छेति । अद्रिः इच्छाविभूत्योः अनुरूपं तस्याः कृत्यम् अशेषयित्वा सुहृदास्थितायां सभायां वृषाङ्कागमनं प्रतीक्ष्य तस्थौ । इच्छा पुत्रीविषयोऽभिलाषः कर्तव्यविषयो वा, विभूतिरैश्वर्यं तयोः । अनुरूपं सदृशं तस्याः कृत्यं पार्वतीसम्बद्धं कौतुकबन्धनादिरूपं कर्तव्यजातम् अशेषयित्वा निश्शेषं कृत्वा कारयित्वा च । समाप्येत्यर्थः । सुहृद्भिः बन्धुभिरास्थितायामधिष्ठितायाम्। बन्धुजनपरिपूर्णायां सभायामित्यर्थः । वृषाङ्कस्य वृषकेतनस्य हरस्यागमनं प्रतीक्ष्य हरवृषस्य धर्मरूपत्वप्रसिद्धेर्भगवतो धर्माधिष्ठातृत्वेन सर्वलोकाधारत्वं सर्वलोकस्पृहणीयत्वं च दर्शितम् । तेन च तत्सम्बन्धस्य पुरुपुण्यलभ्यत्वेन हिमवतः सभासम्भाव्यत्वं सूचितम् । कृत्यमशेषयित्वेत्यनेन सभायां स्वैरालापयोग्यता दर्शिता । अत एवाहकृतीति । कृतकृत्य इत्यर्थ । कुशल इति वा । हिमवतः सभागतसुहृद्विषयसमुदाचारनिपुणत्वमाह - सभ्य इति । सभायां साधुः । सज्जनसम्भाषणकुशल इत्यर्थः॥ २९ ॥ तावद् भवस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम्। प्रसाधनं मातृभिरादृताभि- र्न्यस्तं पुरस्तात् पुरशासनस्य ॥३०॥ प्रकाशिका तावता तावदिति । यावता देव्याः कृत्यजातं सख्यादिभिरारभ्यते, कालेनेत्यर्थः। भवस्यापि न केवलमुमायाः । कुबेरशैले कैलासे । तत्पूर्वेति प्रथमविवाहे प्रसाधनस्य सविशेषत्वं द्योतयति । प्रसाधनं वस्त्राभरणादि । मातृभिरादृताभिरिति । बन्धुस्त्रियो हि वरमण्डने कौतुकिन्यो भवन्ति । पुरस्तान्न्यस्तं प्रसाधनाय पुरो निहितम् । पुरशासनस्येत्यनेन चतुर्दशभुवनैकवीरस्य देवस्य शृङ्गाराङ्गभूतः प्रसाधनविधिः शोभावद् इति द्योत्यते ॥ ३० ॥ विवरणम् इत्थं नायिकावृत्तान्तमुपसंहृत्य नायकवृत्तान्तं प्रस्तौति तावदित्यादिना - ४३२ कुमारसम्भवे तावदिति । तावत् कुबेरशैले मातृभिः भवस्यापि प्रसाधनं पुरस्ताद् न्यस्तम् । तावद् यावत् पार्वत्याः प्रसाधनं प्रसाधिकाजनैरारब्धं, तावदेवेत्यर्थः । कुबेरस्य शैले कैलास इत्यर्थः। हरस्य स्वाधिष्ठानभूते शैले ममताभावात् कुबेरशैल इत्युक्तं, न तु गिरीशशैल इति । मातृभिः ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः इत्यादिषु प्रसिद्धाभिः । भवस्य हरस्य । अपिशब्दस्य न केवलमुमाया इत्यर्थः । प्रसाधयत्यलङ्करोति अनेनेति प्रसाधनमलङ्कारः । करणे ल्युट् । वसनाभरणादिकमित्यर्थः। पुरस्तात् पुरोभागे न्यस्तं निहितमासीत् । भगवतः प्रसाधनार्थमिति शेषः । प्रसाधनस्य सविशेषत्वमाह – तत्पूर्वपाणिग्रहणानुरूपमिति । तदेव पूर्वं यस्य तत् तत्पूर्वं, तादृशे पाणिग्रहणे अनुरूपम् उचितम् । प्रथमविवाहोचितमित्यर्थः । ननु स्वेच्छामात्रनिर्मितचतुर्दशभुवनस्य निजाभरणमात्रनिर्माणे कः प्रयास इति किं मातृणां प्रसाधनार्पणप्रयासेन, अत आह— आदृताभिरिति । बन्धुभूता हि नार्यो वरमण्डने विशेषेण कौतुकिन्यो भवन्तीति तासामादरातिशय एव तत्र हेतुरिति भावः । चतुर्दशभुवनैकवीरस्य भगवतः शृङ्गाराङ्गभूतः प्रसाधनविधिरपि शुशुभेतरामित्याह— पुरशासनस्येति। पुरत्रयं शास्तीति पुरशासनः त्रिपुरहरस्येत्यर्थः ॥ ३० ॥ तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण । स्वभाववेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥ ३१ ॥ प्रकाशिका तदिति । तद्गौरवान्मातृषु बहुमानात् । श्रीशब्देन श्रीमल्लक्ष्यते। तस्यैव स्पर्शयोग्यत्वात् । केवलं पस्पृशे न तूपात्ता । तत् कथं परवेष इत्याह – स्वभाववेष इति । स्वाभाविकं भस्मकपालाद्याकल्पजातम्। परिणेतुर्वरस्य । इष्टमपेक्षितम् । भावान्तरमन्यथाभवनम्। विभोरिति हेतुः ॥ ३१ ॥ 1 विवरणम् भगवतः प्रसाधने विशेषमाह— शु तदिति । सा मङ्गलमण्डनश्रीः ईश्वरेण तद्गौरवात् केवलं पस्पृशे । सा मातृभिः अग्रे निहिता । मङ्गलार्थं मण्डनश्रीः । श्रीः शोभा । तस्यश्च सप्तमः सर्गः ४३३ स्पर्शयोग्यत्वाभावाद् अत्र श्रीमल्लक्ष्यते । श्रीमन्मण्डनमित्यर्थः । ईश्वरेण मातृषु गौरवाद् बहुमानात्केवलं पस्पृशे स्पृष्टाभूत् । न तूपात्तापीत्यर्थः । ननु कथं तर्हि विवाहोचितमण्डनोपपत्तिरत आह— विभोः तस्य स्वभाववेषः परिणेतुः इष्टं भावान्तरं प्रपेदे इति । विभोः प्रभोः । अनेनाभरणानामिच्छामात्रेणान्यथात्वप्राप्तौ हेतुरुक्तः । स्वभावसिद्धो वेषः स्वाभाविकमलङ्कारजातम् । भस्मकपालादिकमित्यर्थः । परिणेतुर्वरस्य विवाहोद्युक्तस्येत्यर्थः । इष्टमपेक्षितं भावान्तरमन्यथाभावं प्रपेदे प्राप्तोऽभूत् । भगवतो भस्मकपालादिकं स्वाभाविकमलङ्कारसाधनमेव सिताङ्गरागशिरोलङ्कारकुसुमादिस्वरूपतां प्राप्तमिति भावः ॥ ३१ ॥ बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखर श्रीः । उपान्तभागेषु च रोचनाङ्कः एतदेव प्रपञ्चयति— सिंहाजिनस्यैव दुकूलभावः ॥ ३२ ॥ प्रकाशिका बभूवेति । उपान्तभागेषु पर्यन्तप्रदेशेषु । रोचनाङ्कः रोचनालिखितहंसादिलक्षणः । उक्तञ्च ‘हंसचिह्नदुकूलवान्’ (रघु. १७.२५) इति । केचित् तु विशेषणसम्बन्धयोग्यतार्थं सिंहाजिनं चैवेति पाठमादृत्य भावशब्दः पदार्थवाचीति व्याचक्षते ॥ ३२ ॥ विवरणम् तदेव प्रपञ्चयति बभूवेत्यादिना- बभूवेति । भस्म एव सिताङ्गरागः बभूव । भगवता शरीरे विलिप्तं भस्मैव सितो धवलोऽङ्गरागोऽभूत् । भस्मैव चन्दनाद्यङ्गरागत्वं प्राप्तमित्यर्थः । तथा कपालमेव अमलशेखर श्रीः बभूव । कपालं ब्रह्मशिरः कपालजालम् । अमलो निर्मलः शेखरः शिरोलङ्कारः, तस्य श्रीः । श्रीमाञ्च्छेखर इत्यर्थः । ब्रह्मशिरः कपालमेव निर्मलं शोभमानं च शिरोलङ्कारसाधनमभूदित्यर्थः । सिंहाजिनस्यैव दुकूलभावः च बभूव । सिंहस्याजिनं सिंहाजिनम् । अजिनं चर्म तस्यैव दुकूलभावः च बभूव । सिंहाजिनस्य दुकूलत्वं चासीदित्यर्थः । चकारः पूर्वोक्तालङ्कारपरिणामसमुच्चयार्थः । दुकूलस्य मङ्गलालङ्कारयोग्यत्वं द्योतयितुं दुकूलभावं विशिनष्टि — उपान्तभागेषु रोचनाङ्कः इति । उपान्तभागेषु पर्यन्तप्रदेशेषु रोचनैवाङ्कश्चिह्नं यस्य स तथा । गोरोचनादि-४३४ कुमारसम्भवे लिखितहंसादिलक्षण इत्यर्थः । तादृशमेव हि दुकूलं मङ्गलक्रियायामुचितं, विशेषतश्च विवाहे । यथोक्तमतिथेरभिषेकानन्तरं रघुवंशे- इति । आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीदतिशयप्रेक्ष्यः स राजश्रीवधूवरः ॥ ( १७.२५) तत्र हंसचिह्नदुकूलस्य राजश्रीपरिणयनकालीनत्वमुक्तम्। अत्र केचिद् दुकूलस्यैव रोचनाङ्कत्वं, न तु दुकूलभावस्येति विशेषणविशेष्ययोः परस्परसम्बन्धार्थं सिंहाजिनं चैव दुकूलभाव इति पठन्ति । तन्मते भावशब्दः पदार्थवाची दुकूलपदार्थ इत्यर्थः । वयं तु लक्षणया सम्बन्धं ब्रूमः ॥ ३२॥ शङ्खान्तरद्योति विलोचनं य- दन्तर्निविष्टानलपिङ्गतारम् । सान्निध्यपक्षे हरितालमय्या- स्तदेव जातं तिलकक्रियायाः ॥३३॥ प्रकाशिका शङ्खति । ‘शङ्खो निधौ ललाटास्थ्नी’ति सिंहः । ‘शङ्खस्तु ललाटास्थिमर्मणोरिति केशवः । सान्निध्यपक्षे सान्निध्यकृत्ये । ‘पक्षः पार्श्वगरुत्साध्ये ति यादवः ॥ ३३ ॥ विवरणम् अपि च भगवतो ललाटलोचनमेव हरितालतिलकमासीदित्याह- शङ्खति । शङ्खान्तरद्योति विलोचनं यत् तद् एव हरितालमय्याः तिलकक्रियायाः सान्निध्यपक्षे जातम् । शङ्खो ललाटास्थि । ‘शङ्खो निधौ ललाटास्थ्नी’ त्यमरः । तस्यान्तरे मध्ये द्योतितुं शीलस्येति तथा । तादृशं यद् विलोचनं नेत्रं तदेव । हरितालो धातुविशेषः, तन्मय्याः तिलकक्रियायाः । क्रियाशब्दो द्रव्यपरः । कृतस्य तिलकस्येत्यर्थः । सान्निध्यस्य सन्निधानस्य पक्षे साध्ये ‘पक्षः सहाये मासार्धे साध्यपार्श्वगरुत्सु चे ‘ति भोजः । हरितालतिलकेन यत् साध्यं शोभापादनं तत्र ललाटलोचनमेव जातमित्यर्थः । हरितालतिलकसाम्यप्रतिपादकं विलोचनविशेषणमाहअन्तर्निविष्टानलपिङ्गतारमिति । अन्तर्भागे निविष्टेनानलेन पिङ्गा रक्तवर्णा तारा कनीनिका यस्य तत् तथोक्तम् । हरितालतिलकं हि रक्तवर्णं भवति ॥ ३३ ॥ सप्तमः सर्गः यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् । शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥३४॥ प्रकाशिका ४३५ यथेति। यथाशब्दो वीप्सायाम्। स्वे स्वे प्रदेश इत्यर्थः । आभरणान्तरत्वं हारादित्वम्। विकृतिमन्यथात्वम् ॥३४॥ विवरणम् भुजगानामेव हारकाञ्चीकटकादिभावप्राप्ति भङ्गयन्तरेणाह- यथेति । यथाप्रदेशम् आभरणान्तरत्वं करिष्यतां भुजगेश्वराणां शरीरमात्रं विकृतिं प्रपेदे । यथाशब्दो वीप्सार्थः । प्रदेशो हाराङ्गदादिस्थानम् । स्वेषु स्वेषु प्रदेशेष्वित्यर्थः । आभरणान्तरत्वं तत्तत्स्थानोचितहाराद्याभरणत्वं करिष्यतां कर्तुमारब्धानाम् ! भुजगेश्वरा वासुकिप्रभृतयः तेषाम् । शरीरमात्रं केवलं शरीरमेव । विकृति विकारं हारादिभावं प्रपेदे प्राप्तमभूत् । हारस्थाने हारत्वम्, अङ्गदस्थाने अङ्गदत्वं, काञ्चीस्थाने काञ्चीत्वं च भगवता विधातुमारब्धानां वासुकिप्रभृतीनां शरीरमात्रस्यैव तदानीमन्यथाभावो नेतव्योऽभूदित्यर्थः । मात्रशब्दव्यावर्त्यमर्थान्तरमाह - फणरत्नशोभा ः तथा एव तस्थुः इति । फणे यानि रत्नानि तेषां शोभाः तथैव पूर्ववदेव तस्थुः स्थितिं चक्रुः । आभरणानां रत्नालङ्कृतत्वस्य शोभावहत्वाद् । रत्नानामन्यथात्वप्राप्तौ भगवता न यत्नः कर्तव्योऽभूदित्यर्थः ॥ ३४ ॥ दिवापि निष्ठ्यूतमरीचिभाजा बाल्यादनाविष्कृतलक्षणेन । चन्द्रेण नित्यं प्रतिभिन्नमौले- चूडामणेः किं ग्रहणं हरस्य ॥ ३५ ॥ प्रकाशिका दिवेति । दिवा मरीचिमत्त्वं परमेश्वरपरिग्रहात् । वाल्यात् कलामात्रत्वात् । ग्रहणं वचनम्। सविशेषमुज्ज्वलेनाकलङ्केन चन्द्रेण नित्यसम्बद्धे देवस्य मौलौ चूडामणिरित्थमासीदिति न वक्तव्यमेवेत्यर्थः ॥ ३५ ॥ ४३६ कुमारसम्भवे विवरणम् चूडामणिस्थाने निहितस्य चन्द्रस्य तु स्वरूपमात्रेऽपि न विकारो नेतव्योऽभूदित्याह- दिवेति । नित्यं चन्द्रेण प्रतिभिन्नमौलेः हरस्य चूडामणेः ग्रहणं किम् । नित्यं सर्वदा । चन्द्रेण आह्लादकरेणेत्यर्थः । प्रतिभिन्नो रञ्जितो मौलिर्यस्य तस्य हरस्य परमेश्वरस्य चूडामणेः शिरोलङ्कारस्य ग्रहणं वचनम् । ग्रहणशब्दस्य वचनार्थत्वं प्रसिद्धं ‘वैकुण्ठनामग्रहणमेषामघहरं विदुः’ (श्रीभाग. ६.२.१४) इत्यादौ । किं किमर्थम्। निष्प्रयोजनमित्यर्थः । चन्द्रमसि मूर्धनि वर्तमाने सति हरस्य चन्द्र एव रत्नचूडामणिरासीदिति वचनं निरर्थकमित्यर्थः । अस्य चूडामणेरितरचूडामणिभ्यो व्यतिरेकमाह – दिवा अपि निष्ठ्यूतमरीचिभाजा इति । दिवापि अहन्यपि । निष्ठ्यूतान् निक्षिप्यमाणान् सर्वतः प्रसार्यमाणान् मरीचीन् रश्मीन् भजत इति तथा । रत्ननिर्मिता हि चूणामणयो न दिवसेषु किरणमुद्वमन्ति । हरचूणामणिश्चन्द्रस्तु हरपरिगृहीतत्वान्न दिवाकरकरैरभिभूयते इति युक्तमस्य मरीचीनां सन्ततप्रवृत्तत्वमिति भावः । निर्दोषत्वमाह – बाल्याद् अनाविष्कृतलक्षणेन इति । अनाविष्कृतलक्षणेन इति । बाल्याद् बालत्वात् । कलामात्रत्वादित्यर्थः। अनाविष्कृतमप्रकाशितं लक्षणं कलङ्की येन तेन । ‘कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणमित्यमरः । ’ बभूव भस्मैव सिताङ्गरागः’ (७.३२) इत्यादिवचनानुसारेण निरूप्यमाणे हि भगवतश्चन्द्र एव चूडामणिरासीदिति वक्तव्यम् । तत् तु निष्प्रयोजनम् । तथा सति चन्द्रे दोषारोपणं च स्यात् । न्यूनगुणत्वापादनाच्चन्द्रस्य । आह्लादकरत्वसन्ततप्रवृत्तरश्मित्वनिर्दोषत्वादेरितर- चूडामणिव्यतिरेकस्य विद्यमानत्वादिति भावः ॥ ३५ ॥ इत्यद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर्विधाता । आत्मानमासन्नगणोपनीते टङ्के निषिक्तप्रतिमं ददर्श ॥ ३६ ॥ प्रकाशिका इतीति । अद्भुतो निरूप्यमाणविस्मयनीयः संसारः तदात्मभूतं तत्त्वज्ञातं च । यदाहुः - ‘संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम्’ इति । तस्यैकप्रभवः प्रधानं जन्मकारणम्। तस्य महेन्द्रजालिकस्य प्रभावादित्थं प्रसिद्धनेपथ्यविधिविधानं किमाश्चर्यमिति भावः । प्रसिद्धो लोकसिद्धः । आसन्न आप्तः । टङ्के परशौ । निषिक्ता सङ्क्रान्ता प्रतिमा प्रतिबिम्बो यस्य । इत्थं नेपथ्यविधि परिसमाप्य देवो रत्नादर्शकृत्यं परशुनैव निर्वर्तितवानित्यर्थः ॥ ३६ ॥ सप्तमः सर्गः विवरणम् इत्थमुपवर्णितं नेपथ्यग्रहणमुपसंहरन् दर्पणावलोकनप्रकारमाह- ४३७ इतीति । प्रभावाद् इति प्रसिद्ध नेपथ्यविधेः विधाता आत्मानं टङ्के निषिक्तप्रतिमं ददर्श । प्रभावाद् मायाबलाद् इति उक्तप्रकारेण प्रसिद्धो लोकप्रसिद्धो यो नेपथ्यविधिः तस्य विधाता निर्माता सः । आत्मानं स्वशरीरं टङ्के परशौ । ‘टङ्कः परशुश्च परश्वध’ इति भोजः । निषिक्ता संक्रान्ता प्रतिमा प्रतिबिम्बो यस्य तम् । निविष्टप्रतिममिति वा पाठः । ददर्श दृष्टवान्। यथा भस्मादयः सिताङ्गरागतां गतास्तथा परशुरेवा त्मदर्शोऽभूदिति भावः । इत्थमलौकिकानामाभरणानां प्रसिद्धाभरणत्वप्रापणे भगवतः कः प्रयास इत्याह — अद्भुतैकप्रभव इति । निरूप्यमाणे सति विस्मयनीयः प्रपञ्चएवात्राद्भुतशब्देनोच्यते। तस्यैकः प्रधानभूतः प्रभवः जन्मकारणम् । जगत्सर्गादिकर्तुर्भगवत एवंविधाभरणप्रणयने कः प्रयास इति भावः । टङ्कस्यापि प्रभाववशात् सुकरत्वमाह – आसन्नगणोपनीते इति । आसन्नेन आसन्नपरिचारकेण गणेन भूतगणेन उपनीते समीपे प्रापिते। भगवन्मनोगतवेदिना सेवाविचक्षणेन भूतगणेनानीत इत्यर्थः ॥ ३६ ॥ स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् । तद्भक्तिसंक्षिप्तबृहत्प्रमाण- मारुह्य कैलासमिव प्रतस्थे ॥ ३७ ॥ प्रकाशिका अथ देवस्य श्वशुरकुलप्रयाणं वर्णयितुमुपक्रमते- स इति। गोपतिं वृषम् । शार्दूलेन पर्याणीकृतशार्दूलचर्माणमित्यर्थः । तद्भक्तीति परोक्षपरामर्शिना तच्छब्देन कर्तृभूतत्वादध्यक्षायमाणस्य देवस्य परामर्शो न न्याय्य इति केचिन्मन्वते ॥ ३७॥ विवरणम् अथ भगवतो हिमवत्पुरप्रस्थानं वर्णयितुमुपक्रमते- स इति । सः नन्दिभुजावलम्बी गोपतिम् आरुह्य प्रतस्थे । स य एवं कृतनेपथ्यः दृष्टतत्सामीचीन्यश्च परमेश्वरः । नन्दिनो नन्दिकेश्वरस्य भुजमवलम्बितुं शीलमस्येति तथा । अनेन नन्दिनः सेवाविचक्षणत्वमुक्तम् । गवां वृषाणां पतिं श्रेष्ठम् आरुह्य प्रतस्थे गन्तुमुदयुङ्क्त । तथा देवी दर्पणालोकनानन्तरं हरोपयानत्वरिता ४३८ कुमारसम्भवे बभूव, तथा देवोऽपि तदैव गन्तुमारभतेत्यर्थः । ‘कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन’ इति न्यायोऽनेन दर्शितः । वाहनभूतस्य वृषस्य परिस्तोमविधानप्रकारमाह-शार्दूलचर्मान्तरितोरुपृष्ठम् । इति । शार्दूलो व्याघ्रः । ‘शार्दूलद्वीपिनौ व्याघ्रे’ इति सिंहः । तस्य चर्मणा अजिनेन अन्तरितम् आच्छादितम् उरु महत् पृष्ठं पृष्ठदेशो यस्य तम्। गोपतिमुत्प्रेक्षते-तद्भक्तिसङ्क्षिप्तबृहत्प्रमाणं कैलासम् इव इति । तस्मिन् परमेश्वरे भक्त्या सङ्क्षिप्तं सङ्कोचितं बृहद् अत्यन्तमुन्नतं विस्तृतं च प्रमाणं येन तादृशं कैलासमिव । नित्यं भगवदावासस्थानभूतः कैलास एव भगवतः प्रस्थानसमयेऽपि भगवद्भक्त्या वाहनभावोचितं वेषमादाय सहैव गन्तुमुद्युक्त एवायमिति जनैरुत्प्रेक्ष्यमाणमित्यर्थः । धवलवर्णत्वं महाकायत्वं भगवदधिष्ठितत्वं चात्रोत्प्रेक्षाबीजम् । अत्र कर्तृभूतत्वात् प्रत्यक्षायमाणस्य देवस्य परोक्षपरामर्शिना तच्छब्देन तद्भक्तीति परामर्शो न हृदयङ्गम इति केचिदाहुः । तन्मन्दम्। प्रतीतिस्खलनाभावात् ॥ ३७॥ तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः । मुखैः प्रभामण्डलराजिगौरैः पद्माकरीचक्रुरिवान्तरिक्षम् ॥ ३८ ॥ प्रकाशिका तमिति । राजिः परम्परा । गौरैररुणैः । ‘गौरोऽरुणे सिते पीते’ इति सिंहः । मण्डलराजिग्रहणं मुखानामपि परम्परारूपत्वं ध्वनयति ॥ ३८ ॥ विवरणम् अथ देवपरिजनानामपि प्रस्थानं वर्णयति श्लोकद्वयेन । तत्र ब्रह्माण्यादीनां प्रस्थानमाह तमित्यादिना- तमिति । तं देवम् अनुव्रजन्त्यः मातरः मुखैः अन्तरिक्षं पद्माकरीचक्रुः इव । तं प्रस्थितम् अनुव्रजन्त्यः अनुगच्छन्त्यः मातरः ब्रह्माण्याद्याः मुखैः आत्मीयैर्वदनैः अन्तरिक्षमाकाशम्। पद्मानि पङ्कजानि तेषामाकरः उद्भवस्थानभूतः सरोविशेषः । पद्माकरीचक्रुरित्यभूततद्भावे च्विः । आकाशे दृश्यमानैः पद्मसन्निभैर्वदनैरपद्माकरमेवान्तरिक्षं पद्माकरं चक्रुरिवेत्यर्थः । तासां तात्कालिकं रमणीयत्वविशेषमाह—स्ववाहनक्षोभचलावतंसा इति । स्वेषां निजानां वाहनानां हंसवृषमयूरादीनां क्षोभेण गमनसम्भवेन चलनेन चलाश्चञ्चला अवतंसाः शिरोऽलङ्कारा यासां तास्तथा । मुखानां पद्मसाम्यमेव स्फुटयति – प्रभामण्डलराजिगौरैः इति । मण्डलाकारेण सप्तमः सर्गः ४३९ वर्तमानी प्रभा प्रभामण्डलं, तस्य राजिभिः परम्पराभिर्गौरैररुणैः । ‘गौरोऽरुणे सिते पीत’ इत्यमरः । अत्र मण्डलराजिग्रहणं मुखानामपि परम्परारूपत्वं ध्वनतीत्याकाशस्य पद्माकरसाम्यप्रतिपत्त्युपपत्तिः ॥ ३८ ॥ तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकाशे । वलाकिनी नीलपयोदराजि- दूरं पुरः क्षिप्तशतह्रदेव ॥ ३९ ॥ प्रकाशिका तासामिति । बलाकिनी व्रीह्यादित्वादिनिर्मत्वर्थे । पुरः क्षिप्तशतह्रदा पुरःप्रसारितविद्युत्का । अत्र कालीत्यन्वर्थेन नाम्ना वर्णसाम्यं द्योत्यते ॥ ३९ ॥ विवरणम् भद्रकाल्याः प्रयाणोद्योगं दर्शयति- ॥ तासामिति । कनकप्रभाणां तासां पश्चात् कपालाभरणा काली च चकाशे । कनकं सुवर्णं, तस्य प्रभेव प्रभा यासां तासां मातॄणां पश्चात् पृष्ठभागे काली भद्रकाली । चकारः पूर्वोक्तमातृसमुच्चयार्थः । चकाशे शुशुभे । ‘काशृ दीप्ताविति धातुः । कालीमुत्प्रेक्षते - वलाकिनी नीलपयोदराजिः दूरं पुरः क्षिप्तशतह्रदा इव इति । वलाकाः श्वेतवर्णाः पक्षिविशेषाः । ते सन्त्यस्यामिति वलाकिनी । व्रीह्यादित्वान्मत्वर्थीय इनिप्रत्ययः । नीलानां कृष्णवर्णानां पयोदानां मेघानां राजिः पङ्क्तिः । दूरं दूरभागे । पुर इति पुरोभागवाचकमव्ययम् । पुरोभागे क्षिप्ताः प्रसारिताः शतह्रदाः विद्युतो यया सा तथा । ‘शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा, तडित् सौदामनी विद्युदि’ त्यमरः । अत्र कालीनीलपयोदराज्योः कालीशब्दस्यान्वर्थत्वाद् वर्णसाम्यम्। शिरःकपालानां धवलत्वाद् वलाकासाम्यम्। सुवर्णवर्णानां मातॄणां विद्युत्साम्यम् । काल्याः पश्चाद्गतत्वात् पुरः क्षिप्तशतह्रदमेघसाम्यम्। मातॄणामत्यन्तसामीप्याभावाद् दूरपदप्रयोगोपपत्तिः ॥ ३९ ॥ ततो गणैः शूलभृतः पुरोगै- रुदीरितो मङ्गलतूर्यघोषः । विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥४०॥ ४४० कुमारसम्भवे प्रकाशिका तत इति । उदीरित उत्थापितः । सेवावसरं शशंसेति परमेश्वरदर्शनस्य तैरपि परमार्थदुर्लभत्वं तेषां तत्प्रतीक्षत्वं च द्योत्यते ॥ ४० ॥ वाद्यघोषप्रकारमाह- विवरणम् तत इति । ततः शूलभृतः पुरोगैः गणैः उदीरितः मङ्गलतूर्यघोषः विमानशृङ्गाणि अवगाहमानः सुरेभ्यः सेवावसरं शशंस । ततः प्रस्थानानन्तरं शूलभृतः परमेश्वरस्य पुरोगैः पुरोभागे गच्छद्भिः गणैः भूतगणैः उदीरितः उत्थापितः । मङ्गलं विवाहमङ्गलं, तदर्थः तूर्यघोषः वाद्यविशेषाणां घोषः नादः । विमानानां व्योमयानानाम् । ‘व्योमयानं विमानोऽस्त्री’ त्यमरः । शृङ्गाणि शिरोगृहाणि अवगाहमानः प्रविशन् सन् सुरेभ्यः देवेभ्यः सेवाया अवसरं समयं शशंस निवेदयामास । अत्र बहुषु वाद्येषु निनदत्सु तूर्याणामेव तादृशदूरावस्थितदेवविमानशिरोगृहप्राप्त्युपपत्तेस्तूर्यशब्दोपादानम् । तूर्यश्रवणानन्तरं देवानामागमनदर्शनाच्छशंसेत्युत्प्रेक्षागर्भो निर्देशः । सेवावसरं शशंसेत्यनेन देवैरपि परमेश्वरदर्शनस्य परमार्थतो दुर्लभत्वं तेषां दर्शनाऽवसरप्रतीक्षणपरत्वं च द्योत्यते ॥ ४० ॥ उपाददे तस्य सहस्त्ररश्मि- स्त्वष्ट्रा नवं निर्मितमातपत्रम्। स तद्दुकूलादविदूरमौलि- र्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥४१॥ प्रकाशिका ज्ञापितावसराणां देवानां देवोपस्थानप्रकारमाह- P उपादद इति । तद्दुकूलात् छत्रप्रान्तविलम्बिताद् दुकूलात् । ‘अन्याराद् —’ ( २.३.२९) इत्यत्र सूत्रे आराच्छब्दस्यार्थग्रहणादत्र पञ्चमी । पतद्गङ्गत्वोत्प्रेक्षया गङ्गापतनद्रष्टृणां दिव्यानां तत्स्मरणं द्योत्यते ॥ ४१ ॥ विवरणम् सेवावसरावगमानन्तरं देवानां सेवाप्रकारमाह पञ्चभिः श्लोकैः । तत्र सूर्यकृतां सेवामाह- उपादद इति । सहस्ररश्मिः तस्य आतपत्रम् उपाददे। सहस्ररश्मिरादित्यः तस्य परमेश्वरस्य आतपत्रं सितच्छत्रम् उपाददे गृहीतवान् । सूर्यरश्मिपरिहारार्थमेव हि सप्तमः सर्गः ४४१ सर्वैरातपत्रादानं क्रियते । भगवतस्तु सूर्यः स्वयमेव शरीरमवलम्ब्यातपत्रं गृहीतवानित्यर्थः । विश्वकर्मा तु छत्रप्रदानेनैव सेवितवानित्याहत्वष्ट्रा नवं निर्मितम् इति । त्वष्ट्रा विश्वकर्मणा नवमभिनवं सत् । भगवतो विवाहप्रस्थानार्थं तदानीमेव निर्मितमित्यर्थः । अनेन दर्शनीयतरत्वमुक्तम् । आतपत्रग्रहणजनितं भगवतः शोभाविशेषमाह — तद्दुकूलाद् अविदूरमौलिः सः उत्तमाङ्ग पतद्गङ्गः इव बभौ इति । तस्य आतपत्रस्य दुकूलादत्यन्तधवलाद् वसनविशेषात् । छत्रान्ते लम्बमानादतिधवलात् कौशेयादित्यर्थः । ‘अन्याराद्’ (६.३.२९) इति सूत्रे आराच्छब्दस्यार्थग्रहणादत्राविदूरशब्दयोगे पञ्चमी । अविदूरे समीपे मौलिः शिरो यस्य सः परमेश्वरः उत्तमाङ्गे शिरसि पतन्ती गङ्गा यस्य तथाविध इव बभौ शोभते स्म । अत्र पतद्गङ्गत्वोत्प्रेक्षया पूर्वं गङ्गापतनदर्शिनां दिव्यजनानां तादृशदुकूलदर्शने पूर्वदृष्टगङ्गाप्रपतनस्मरणं द्योत्यते ॥४१ । मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् । समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥ ४२ ॥ प्रकाशिका मूर्ते इति । समुद्रगारूपं प्रवाहरूपम् । सहंसपाते इव लक्ष्यमाणे सहंसपातत्वसम्भावनया दृश्यमाने ॥ ४२ ॥ गङ्गायमुनयोः सेवाप्रकारमाह- विवरणम् मूर्ते इति । गङ्गायमुने च तदानीं मूर्ते सचामरे देवमसेविषाताम् । गङ्गा च यमुना च गङ्गायमुने । चकारः सहस्ररश्मिसेवासमुच्चयार्थः । तदानीं विवाहप्रस्थानसमये मूर्ते मूर्तियुक्ते । गृहीतदेवस्त्रीशरीरे भूत्वेत्यर्थ । सचामरे चामरसहिते असेविषाताम् उपतस्थतुः । भगवतो विवाहप्रस्थानवेलायां गङ्गा च यमुना च नदीरूपमपहाय सुरसुन्दरीरूपमुपादाय च पार्श्वद्वये स्थित्वा चामरव्यजनवीजनैः सेवां व्यधत्तामित्यर्थः। तत्स्वरूपदर्शने सति सहृदयानां प्रतीतिमुत्प्रेक्षामुखेन दर्शयतिसमुद्रगारूपविपर्यये अपि सहंसपाते इव लक्ष्यमाणे इति । समुद्रं गच्छत इति समुद्रगे तयोः यद् रूपं प्रवाहरूपं तस्य विपर्यये व्यत्यासेऽपि । दिव्यस्त्रीरूपधारणे सत्यपीत्यर्थः । अपिशब्दस्तथात्वे हंसपातयोग्यतां निराकरोति । हंसानां पातो ४४२ कुमारसम्भवे हंसपातः । पात उत्पतननिपतनादिरूपो व्यापारः । हंसपातेन सहिते सहंसपाते। इवशब्दो द्रष्टृणां सम्भावनां दर्शयति । लक्ष्यमाणे दृश्यमाने । जनैरिति शेषः । गङ्गायमुनयोः समीपे पुनः पुनर्निपततोरुत्पततोश्च सितव्यजनयोः साक्षात्कारे सति महाजनैः सहंसपातत्वसम्भावनया दृश्यमाने इत्यर्थः ॥ ४२ ॥ तमिति । तमभ्यगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् । जयेति वाचा महिमानमस्य संवर्धयन्त्या हविषेव वह्निम् ॥ ४३ ॥ प्रकाशिका साक्षादिति मूर्त्यन्तराव्यवहितेनात्मीयरूपेणैवेत्यर्थः । भगवान् नारायणो हि सर्वस्मिल्लोककार्ये स्वांशैः प्रवर्तते । इह तु परमेश्वरगौरवान्न तथेति भावः । संवर्धयन्त्येति पाठः । संवर्धयन्ताविति पाठे अभ्यगच्छदित्येकवचनान्वयो न स्यात् । अस्य महिमानं नैसर्गिकं संवर्धयन्त्या स्तुतिवाचा अभ्यगच्छतामित्यर्थः ॥ ४३ ॥ विवरणम् हरिविरिञ्चयोः परमेश्वरविवाहोत्सवप्राप्तौ तत्कृतं सेवाप्रकारं चाह - तमिति । प्रथमः विधाता जयेति वाचा तम् अभ्यगच्छत् । प्रथमो विधाता ब्रह्मा । मरीच्यादीनां सर्गशेषविधायित्वाद् ब्रह्मणो विधातृषु प्राथम्यम् । जयेति वाचा जयेत्यादिरूपया स्तुतिवाचा । सहेति शेषः । तमभ्यगच्छद् अभिमुखीकृत्य गतवान् । हरेरपि प्राप्तिमाह — श्रीवत्सलक्ष्मा पुरुषः साक्षात् च इति । श्रीवत्सलक्ष्मा पुरुषः विष्णुः । श्रीवत्स एव लक्ष्म चिह्नं यस्य स तथा । ’ उरस्यस्य श्रीवत्सो लाञ्छनं मतमित्यमरः । साक्षाद् मूर्त्यन्तराव्यवधानेन । मत्स्यकूर्माद्यंशानामंशिभूतेन स्वेनैव रूपेणेत्यर्थः । नारायणो हि भगवान् सर्वेषु लोककार्येषु निजांशैरेव प्रवृत्त इति पुराणप्रसिद्धम् । अत्र तु परमेश्वरगौरवात् स्वयमेवेति भावः । चशब्दः समुच्चयार्थः । जयेति वाचा तमभ्यगच्छदिति अत्रापि योज्यम् । कीदृशी जयवागित्यत्राह — अस्य महिमानं संवर्धयन्त्या इति । अस्य परमेश्वरस्य महिमानं नैसर्गिकं महत्त्वं । संवर्धयन्त्या सम्यग् वर्धयन्त्या । वाचो महिमसंवर्धकत्वमुपमया स्फुटयति — हविषा वह्निम् इव इति । हविषा आज्येन वह्निमिव । ’ घृतमाज्यं हविः सर्पिरि ति सिंहः । यथा हविषा वह्निं वर्धयति, तथात्मनैवास्य महिमानं संवर्धयन्या वाचेत्यर्थः । सप्तमः सर्गः ४४३ संवर्धयन्ताविति वा पाठः । हविषा वह्निमिव जयेति वाचास्य महिमानं संवर्धयन्तौ इति च योजना । यत् त्वत्राभ्यगच्छदित्येकवचनप्रयोगविरोधात् संवर्धयन्ताविति द्विवचनप्रयोगो न युक्त इत्युक्तं, तदयुक्तम्। उभयकृतसेवाप्रकारवाचित्वादस्य वाक्यस्य द्विवचनप्रयोगोपपत्तेः । अर्थादभूतामिति क्रियान्तरान्वयस्य सिद्धत्वाच्च । क्रियासामान्यवाचिनः शब्दा हि सार्वत्रिकाः ॥ ४३ ॥ एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । विष्णोर्हरस्तस्य हरिः कदाचिद् वेधास्तयोस्तावपि धातुराद्यौ ॥४४॥ प्रकाशिका एकैवेति । मूर्तिः समष्टिरूपा । बिभिदे व्यस्ताभवत् । त्रिधा ब्रह्मविष्णुशिवात्मना । सेति श्रुत्यादिप्रसिद्धा परामृश्यते । सामान्यं, न तु नियतम् । एषां ब्रह्मादीनाम्। प्रथमावरत्वं जन्मतः । तदेव दर्शयति – विष्णोरिति । अयं श्लोकः प्रक्षिप्त इति मन्वते, नायकप्रभावानङ्गत्वात् ॥४४ ॥ विवरणम् इत्थं हरिहरहिरण्यगर्भाणामेकत्र समागमं प्रतिपाद्य तेषामभेदप्रतिपादनंमुखेन नायकभूतस्य परमेश्वरस्य परमात्मस्वरूपत्वं दर्शयत्रत्यन्तोत्कृष्टत्वमाह- एकैवेति । एका एव सा मूर्तिः त्रिधा बिभिदे । एका केवला । सा स्मृतिपुराणप्रसिद्धा मूर्तिः परब्रह्मादिशब्दसिद्धं स्वरूपं त्रिधा ब्रह्मविष्णुहररूपेण बिभिदे भिन्नाभूत् । सृष्टिस्थितिप्रलयकार्यापेक्षयेति शेषः । इदानीं तु यः सेव्यसेवकभावो निर्दिष्टः सोऽपि न स्वाभाविक इत्याह — एषां प्रथमावरत्वं सामान्यम् इति । एषां हरिहरहिरण्यगर्भाणाम् । प्रथमोऽवरश्च प्रथमावरौ तयोर्भावस्तत्त्वम् । जन्मप्रभावादिभिरग्रगण्यत्वं प्रथमत्वम्। तैरनन्तरगण्यत्वमवरत्वम् । तदुभयमप्येषां सामान्यं समानम् । ‘सामान्यं तु समानत्वे समानेऽपि क्वचिद् भवेदिति कौशिकः । एषां जन्मतः प्रभावतश्च यावुत्कर्षापकर्षो तौ न क्वचिदेव नियतौ, किन्तु स्वातन्त्र्यमवलम्ब्य स्वयमेव कल्पिताविति भावः । यथा बालकानां राजामात्य-भृत्याद्यभिनयपूर्विका क्रीडा, तथेत्यर्थः । एतदेव प्रपञ्चयति— विष्णोरित्यादिना । तत्राद्यावित्ययं शब्दो विभक्तिव्यत्ययेन पूर्ववाक्यत्रये योजनीयः । कदाचिद् विष्णोः हरः आद्यः । कदाचिद् यदा तेषां मनसि स्फुरति तदेत्यर्थः । विष्णोरिति सम्बन्धषष्ठी । हरः परमेश्वरः आद्यः प्रभावादिभिरुत्कृष्टः । कस्मिंश्चित्४४४ कुमारसम्भवे काले विष्णोः सम्बन्धिनो हर उत्कृष्ट इत्यर्थः । तस्यैव विष्णोः कदाचिदुत्कर्षमाह - कदाचित् तस्य हरिः आद्य इति । तस्य हरस्य सम्बन्धिनः हरिः विष्णुराद्यः । ब्रह्मणोऽप्युत्कर्षमाह — कदाचित् तयोः वेधाः आद्य इति । तयोर्हरिहरयोः सम्बन्धिनोः वेधाः ब्रह्मा आद्यः । ब्रह्मापेक्षया हरिहरयोरप्युत्कर्षमाह - कदाचित् धातुः तौ अपि आद्यौ इति । धातुर्ब्रह्मणः सम्बन्धिनः तौ हरिहरौ आद्यौ । अयं तु श्लोको नायकोत्कर्षंप्रतिपादकत्वाभावात् प्रक्षिप्त इति केचिन्मन्यन्ते । तदयुक्तम् । नायकस्य परमोत्कर्षप्रतिपादनपरत्वादस्य श्लोकस्य । जगत्सर्गादिकर्ता परब्रह्मादिशब्दसिद्धः परमात्मैवायं परमेश्वर इति ह्यनेन श्लोकेन प्रतिपादितम्। भक्तिपरवशस्य कवेः सर्वस्तुतिरूपो वायं श्लोकः ॥ ४४ ॥ तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः । दृष्टिप्रदाने कृतनन्दिसंज्ञा- स्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ ४५ ॥ प्रकाशिका तमिति । श्रीलक्षणानि छत्रचामरादीनि वेषग्रहणादुल्बणाङ्गरागशेखरादीनि च, तेषामुत्सर्गेण त्यागेन विनीतः स्वामिसन्दर्शनसमयसमुचितविनयप्रकाशको वेषो येषाम् । दृष्टिप्रदाने देवस्य दृष्टिं दापयितुम् । कृता नन्दिनो देवान्तरङ्गामात्यस्य संज्ञा हस्ताद्यैः सूचना यैः । प्राञ्जलयः अञ्जलिं बद्ध्वेत्यर्थ ॥ ४५ ॥ विवरणम् इन्द्रादिलोकपालानां सेवाप्रकारमाह- तमिति । पुरुहूतमुख्याः लोकपालाः प्राञ्जलयः तं प्रणेमुः । पुरुहूतो देवेन्द्रो मुख्यः श्रेष्ठो येषां ते। लोकपालाः लोकान् पालयन्तीति लोकपालाः । एतच्च त्रयस्त्रिंशत्कोटिसङ्ख्यातानामितरेषां देवानामप्युपलक्षणम् । प्राञ्जलयः कृताञ्जलिपुटाः सन्तः तं परमेश्वरं प्रणेमुः प्रकर्षेण नेमुः । भृत्योचितं नमस्कारं चक्रुरित्यर्थः । तेषां स्वामिदर्शनोचितं वेषभूषणादिकं दर्शयति — श्रीलक्षणोत्सर्गविनीतवेषा इति । श्रियो लक्षणानि छत्रचामरवाहनादीनि तेषामुत्सर्गेण परित्यागेन । विनीत इति कर्तरि निष्ठा । स्वामिदर्शनोचितविनयद्योतक इत्यर्थः । तादृशो वेषो येषां ते तथा । वेषः आकारः । ‘वेषः प्रसाधनाकारपरिवेषप्रवेष्टने’ इति भोजः । अत्र वेषग्रहणेनातिबहलाङ्गरागशिरोलङ्कारादिपरित्यागोऽपि प्रतीयते । परमेश्वरानुग्रहार्थनामाह — दृष्टिप्रदाने कृतनन्दिसंज्ञाः इति । देवानां देवामात्यं प्रति दृष्टिप्रदाने इति सप्तमः सर्गः ४४५ निमित्तसप्तमी । दृष्टेः प्रदानं दृष्टिप्रदानम् । देवस्य दृष्टिमात्मनि प्रसारयितुमित्यर्थः । कृता विहिता नन्दिविषया संज्ञा हस्ताद्यैः सूचना यैस्ते तथा । ‘संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना’ इति सिंहः । एते वयं देवप्रसादार्थिनः संप्राप्ता इति नन्दिनं प्रति कृतप्रार्थना इत्यर्थः । इत्थं स्वामिगौरवादाकारेङ्गितादिभिः प्रार्थितस्य प्रधानामात्यस्य प्रवृत्तिमाह — तद्दर्शिता इति । तेन नन्दिना दर्शिताः दर्शनं नीताः । देवेन्द्रोऽयम् अग्निरयं यमोऽयमित्यादिनामोच्चारणपुरस्सरं नन्दिना दर्शिता इत्यर्थः॥४५॥ कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन । आलोकमात्रेण सुरानशेषान् सम्भावयामास यथाप्रधानम् ॥४६॥ प्रकाशिका तेषु समागतेषु यथार्हे देवस्य प्रतिपत्तिमाह- कम्पेनेति । मूर्ध्नः कम्पेनेति गौरवं, वाचेति मित्रभावः,, स्मितेनेति प्रसादः, आलोकमात्रेणेति प्रतिपत्तिमात्रं च द्योत्यते॥४६॥ विवरणम् इत्थमुपस्थितेषु देवेषु देवस्य तत्तज्जनोचितां प्रवृत्तिमाह- कम्पेनेति । सः मूर्ध्नः कम्पेन शतपत्रयोनिं सम्भावयामास । मूर्ध्नः शिरसः कम्पेन चालनेन सम्भावयामास । सम्मानितवान् । अनेन ब्रह्मणि गौरवातिशयः सूच्यते। वाचा हरिं सम्भावयामास । अनेन हरौ सख्यं द्योत्यते । वृत्रहणं स्मितेन । वृत्रहणमिन्द्रं स्मितेन मन्दस्मितेन सम्भावयामास । अनेन तं प्रति प्रसादातिशयः सूचितः । अशेषान् सुरान् आलोकमात्रेण । अशेषानखिलान् सुरान् देवान् आलोकमात्रेण तत्तद्विषयेण केवलेनावलोकनेन सम्भावयामास । अनेन भवतामागमनमस्माभिर्विज्ञातमिति प्रकाश्यते । इत्थं सम्भावनायां हेतुमाह-यथाप्रधानमिति । सम्भावनक्रियाविशेषणमिदम्। प्रधानभूताननतिक्रम्येत्यर्थः ॥ ४६ ॥ ॥। तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस्तान् स्मितपूर्वमाह । विवाहयज्ञे विततेऽत्र यूय- ॥ ४॥ मध्वर्यवः पूर्ववृता मयेति ॥ ४७ ॥ ४४६ कुमारसम्भवे प्रकाशिका तस्मा इति। जयाशीः जयेत्याशीः । ससृजे प्रयुक्ता । पुरस्तादितरदेवर्षिभ्यः पूर्वम् । आह उवाच । इदमस्त्यादिवत् । तिङन्तप्रतिरूपकमव्ययम् । विवाहेत्यादिकया विस्रम्भोक्त्या तेषु देवः परं प्रसादं दर्शयति । यज्ञरूपणया विवाहस्य लोकहितार्थत्वं द्योत्यते । अध्वर्युशब्दो लक्षणया ऋत्विक्पर्यायः ॥ ४७ ॥ विवरणम् अथ देवर्षीणां प्राप्तिं तद्विषयां सम्भावनां चाह- तस्मा इति । सप्तर्षिभिः पुरस्तात् तस्मै जयाशीः ससृजे । सप्तर्षिभिः मरीच्यादिभिः पुरस्ताद् इतरदेवर्षिभ्यः पूर्वम् । जयेत्याशीः आशीर्वादः ससृजे प्रयुक्ता । देवस्य प्रयाणपटहश्रवणानन्तरं सर्वेषु देवर्षिषु सेवार्थं समागतेषु सत्सु तेषां मध्ये सप्तर्षीणामेव प्राधान्यादेते भगवते जयेत्याशीर्वादमुदीरयामासुरित्यर्थः । भगवतस्तेषु प्रतिपत्तिमाह — सः तान् स्मितपूर्वम् आह इति । तान् सप्तर्षीन् । स्मितपूर्वमिति वचनक्रियाविशेषणम् । स्मितं मन्दस्मितं पूर्वं यथा भवति तथा आह उवाच। आहेति लिडर्थे तिङ्प्रतिरूपकमव्ययम् । किमुवाचेत्यत्राह - वितते अत्र विवाहयज्ञे यूयं मया अध्वर्यवः पूर्ववृताः इति इति । वितते विस्तृते । देवगणैरुपदेवगणैर्देवर्षिगणैश्च समाकीर्ण इत्यर्थः । अत्रास्मिन् मयेदानीं करिष्यमाणे विवाहे एव यज्ञे यागे । यज्ञत्वरूपणेन विवाहस्य तारकासुरनिग्रहादिना लोकोपकारकत्वं ध्वन्यते । लोकोपकारकत्वं प्रसिद्धम्— अग्नौ प्राप्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ (मनु. ३.७६) इत्यादिषु । यूयं सदाचारप्रवर्तका भवन्तः । अध्वर्युशब्दो लक्षणया ऋत्विक्पर्यायः । सर्वेषां प्राधान्यसाम्यप्रतीतिः फलम् । पूर्ववृताः पूर्वमेव वृताः । यदा पूर्वं मया ‘तत् प्रयातौषधिप्रस्थम्’ (६.३३ ) इति वचनेन युष्माभिरेवायं श्रमः कर्तव्य इत्ययमर्थोऽप्यर्थादुक्त एवेत्यर्थः । इतिशब्दस्याहेत्यनेनान्वयः । अनेन विस्रम्भभाषितेन देवस्तेषु प्रकृतं प्रसादातिशयं प्रकाशितवानित्यवसेयम्॥४७॥ विश्वावसुप्राग्रसरैः प्रवीणैः संगीयमानत्रिपुरापदानः । अध्वानमध्वान्तविकारलङ्घय- स्ततार ताराधिपखण्डधारी ॥४८॥ सप्तमः सर्गः ४४७ प्रकाशिका विश्वावस्विति । विश्वावसुः प्राग्रसरः पुरस्सरो येषाम् । प्रवीणैर्निपुणैः, अपि च त्रिपुरापदानं त्रिपुरविषयमपदानम् । प्रकृष्टवीणैः । विद्यावाची ॥४८ ॥ ध्वान्तशब्दो लक्षणया- विवरणम् अथ गन्धर्वकृतसेवाप्रतिपादनपुरस्सरं भगवतः प्रयाणं वर्णयति-— विश्वावस्विति। ताराधिपखण्डधारी विश्वावसुप्राग्रसरैः सङ्गीयमानत्रिपुरापदानः अध्वानं ततार। ताराधिपश्चन्द्रः तस्य खण्डं शकलं धर्तुं शीलमस्येति । तथा । अनेन दूरस्थानामपि जनानां दर्शनसौकर्यं ध्वन्यते । विश्वावसुः प्राग्रसरः पुरस्सरो येषां तैः, विश्वावसुप्रभृतिभिरित्यर्थः । विश्वावसुरिति गन्धर्वाणामधीशितुः संज्ञा । सङ्गीयमानं सम्यग् गीयमानं त्रिपुरविषयमपदानम् अद्भुतपराक्रमो यस्य तथाभूतः सन् । अनेन मार्गे त्रिपुरदहनविषयं गानमुक्तम्। अध्वानं मार्गं ततार तीर्णवान्। ‘तू प्लवनतरणयोरिति गीयमानत्रिपुरदहनादिभगवच्चरितैर्विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तूयमानो देवो मार्गमतिक्रान्तवानित्यर्थः । तेषां गानचातुर्यमाहप्रवीणैरिति । निपुणैः । प्रकृष्टा वीणा येषां तैरिति वा । इत्थं देवानामुपदेवानां देवर्षीणां च भगवत्सेवां प्रतिपाद्य किं बहुना महाजनाः सर्वेऽपि तं सिषेविरे इत्याह-अध्वान्तविकारलङ्घय इति । ‘क्षुब्धस्वान्तध्वान्त - ’ (७.२.१८ ) इत्यादिना तमसि निपातितो ध्वान्तशब्दस्तद्गतज्ञाननिरोधकत्वगुणयोगाद् विद्यायां गौणो वर्तते । धातुः । अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणैयोंगाद् वृत्तेरिष्टा तु गौणता ॥ इति न्यायात् । तस्य विकारास्तु परमार्थज्ञाननिरोधादयः, तद्रहिता अध्वान्तविकारास्तैर्लड्ड्यः प्राप्यः । ये परमार्थज्ञानवन्तस्तैः सर्वैरपि सेव्य इत्यर्थः ॥ ४८ ॥ खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः । तटाभिघातादिव लग्नपङ्के धन्वन् मुहुः प्रोतघने विषाणे ॥ ४९ ॥ ४४८ कुमारसम्भवे प्रकाशिका अथ भगवद्गमनस्यालोकसाधारणशोभाभाजनत्वं भगवतो वृषाकृतेर्धर्मस्य स्वरूपं च श्रोतृजनपापनिर्हरणाय कारुणिकः कविरुपवर्णयति- खे इति। खेलं मन्थरम् ॥ ४९ ॥ विवरणम् अथ भगवतो वाहनभूतस्य वृषाकृतेर्धर्मस्य भगवत्सेवाप्रकारमाह- खे इति । वाहः खे तम् उवाह । वाहः वाहनभूत उक्षा खे आकाशे तं परमेश्वरम् उवाह ऊढवान् । गमनप्रकारमाह — खेलगामीति | खेलं मन्थरं यथा भवति तथा गन्तुं शीलमस्येति तथा। अनेन सर्वेषां दर्शनसौख्यमुक्तम् । लोकोत्तरशोभाभाजनत्वमाह — सशब्दचामीकरकिङ्किणीक इति । सशब्दाः शब्दसहिताः चामीकरमय्यः सुवर्णमय्यः किङ्किण्यो यस्य स तथा । गतिवशान्मेघमार्गप्राप्तौ विशेषमाह – प्रोतघने विषाणे मुहुः धून्वन् इति। प्रोताः गमनवेगवशात् सङ्घट्टिताः घना मेघा ययोः तथाभूते । विषाणे शृङ्गे मुहुः पुनः पुनः धून्वन् कम्पयन् । धूननमंत्र मेघापनयनार्थम् । प्रोतघने विषाणे उत्प्रेक्षते - तटाभिघाताद् लग्नपङ्के इव इति । तदेष्वद्रिसानुषु । ‘अथ लिङ्गत्रयें तटम् । प्राहुर्जलाशयप्रान्ते तीरे त्वन्येऽद्रिसानुनी’ ति केशवः । अभिघातादभिहननाद्धेतोः लग्नानि पङ्कानि ययोः तथाभूते इव लक्ष्यमाणे । उक्षाणो हि यथा तटाभिघातलग्नानां पङ्कानामपनयनार्थं विषाणे मुहुर्मुहुः कम्पयन्ति, तथायमपि जनैरुत्प्रेक्ष्यमाण इत्यर्थः । अत्रापि धर्मस्वरूपस्य भगवद्वाहनभूतस्य वृषस्य स्वरूपकथनेन श्रोतृजनपापध्वंसः । कवेरभिप्रायः पूर्ववद् द्रष्टव्यः ॥ ४९ ॥ स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् । पुरोऽवलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणम् ॥५०॥ प्रकाशिका स इति । तच्छब्दो वाहं परामृशति । अप्राप्तेति हिमवत्प्रताप उक्तः । पुरोऽवलग्नैः पुरस्तादवपतितैः । कपिलैर्हरदृष्टिपातैर्हेतुभूतैः सुवर्णसूत्रैः कृष्यमाणमिव लक्ष्यमाणमित्यर्थः ॥ ५०॥ विवरणम् अथ भगवतो हिमवत्पुरप्राप्तिमाह- ४८॥ सप्तमः सर्गः ४४९ स इति । सः मुहूर्ताद् नगेन्द्रगुप्तं नगरं प्रापत् । सः हरवाहनभूतो वृषराजः । मुहूर्तादल्पेन कालेनेत्यर्थः । नगेन्द्रेण हिमवता गुप्तं रक्षितम् । नगरम् ओषधिप्रस्थाभिधानं पुरम् । प्रापत् प्राप्तवान् । ‘आप्ल व्याप्ताविति धातोः ‘पुषादिद्युतादितः परस्मैपदेषु (३.१.५५) इत्यङि रूपम् । हिमवतः प्रभावातिशयं दर्शयन् पुरं विशिनष्टि - अप्राप्तपराभियोगमिति । अप्राप्तः कदाचिदपि न प्राप्तः पराभियोगः परैः शत्रुभिः कृतोऽभियोगः अभिभवो येन तत्। कदाचिदप्यननुभूतपराभिभवमित्यर्थः । अनेन पुरस्य निर्भयत्वप्रतिपादनमुखेन नित्यप्रवृत्तोत्सवत्वं ध्वन्यते । क्षणेन प्राप्यमाणं पुरमुत्प्रेक्षते - पुरः अवलग्नैः हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाणम् इव इति । पुरः पुरस्ताद् अवलग्नैरवपतितैः हरस्य दृष्टिपातैर्दृष्टिप्रचारैर्हेतुभिः सुवर्णमयैः सूत्रैः पाशैः कृष्यमाणमिव लक्ष्यमाणम् । हरदृष्टिपातानां कपिलत्वात्सुवर्णसूत्रत्वोत्प्रेक्षा । नेत्राणां कपिलवर्णत्वं च महापुरुषलक्षणम्। देवीनिवासभूतहिमवत्पुरदर्शनोत्सुकस्य भगवतो दृष्टिपातानामग्रभागस्थिते हिमवत्पुरे निबद्धत्वात् सूत्रैः आकृष्य समीपं नीयमानमिव लक्ष्यमाणमित्यर्थः । वेगेन गमने पुरोभागस्थिते वस्तुन्यागमनप्रतीतिरुत्प्रेक्षाहेतुः । वेगातिशयप्रतीतिश्च फलम् ॥ ५० ॥ तस्योपकण्ठे घननीलकण्ठः तस्येति । कुतूहलादुन्मुखपौरदृष्टः । स्ववाहचिह्नादवतीर्य मार्गा- दासन्नभूपृष्ठमियाय देवः ॥ ५१ ॥ प्रकाशिका उपकण्ठे उपशल्ये । स्ववाहचिह्नाद् मेघचिह्नान्मार्गाद्, मेघपथादित्यर्थः। मेघवाहनकल्पे भगवान् विष्णुर्मेघो भूत्वा हरमवहदिति पुराणे श्रवणादियमुक्तिः। आसन्नभूपृष्ठत्वं गमनस्य प्रत्युद्गमनसौकर्यार्थम् ॥ ५१ ॥ विवरणम् इत्थं हिमवत्पुरपर्यन्तमुपगतस्य देवस्य हिमवत्प्रत्युद्गमनसौकर्यार्थमवस्थानमाहतस्येति । देवः तस्य उपकण्ठे स्ववाहचिह्नाद् मार्गाद् अवतीर्य आसन्नभूपृष्ठम् इयाय । देवः परमेश्वरः तस्य हिमवत्पुरस्य उपकण्ठे समीपे, ग्रामान्त इत्यर्थः । स्ववाहचिह्नात् स्वस्य वाहो वाहनं स्ववाहः, स्ववाह एव चिह्न लाञ्छनं यस्य तादृशान्मार्गाद्, मेघमार्गादित्यर्थः । हरस्य मेघवाहनत्वं प्रसिद्धं हरिपुराणेपुरा किल मेघवाहनकल्पे नारायणो मेघो भूत्वा देवासुरयुद्धे युद्धसन्नद्धं हरमुवाहेति । अत ४५० कुमारसम्भवे एव कपर्दी मेघवाहन इति प्रोक्तम् । अवतीर्य अवरुह्य । आसन्नभूपृष्ठमिति गमनक्रियाविशेषणम्। आसन्नं भूपृष्ठं भूतलं यथा भवति तथा । इयाय जगाम । कैलाशशिखरादारभ्य हिमवद्धामान्तपर्यन्तं मेघमार्गेणैव गत्वा तस्मादारभ्य हिमवतः प्रत्युद्गमनसौकर्यार्थं क्षितितलसमीपव्योपमार्गेणैव गतवानित्यर्थः । भगवद्रूपस्य दिदृक्षूणां मनोहरत्वमाह - घननीलकण्ठ इति । घनो मेघः तद्वन्नीलः कृष्णवर्णः कण्ठो यस्य स तथा । सजलजलधरश्यामलगलप्रदेश इत्यर्थः । तादृशभगवदागमनवेलायां हिमवत्पुरवासिनां भगवद्दर्शनप्रकारमाहकुतूहलाद् उन्मुखपौरदृष्ट इति । कुतूहलात् कौतुकात् उन्मुखैरूर्ध्वमुखैः पौरैर्हिमवत्पुरवासिभिः दृष्टः वीक्षितः । मेघमार्गादवतरणसमय एव पुरवासिभिः कौतुकातिशयादीक्ष्यमाण इत्यर्थः ॥ ५१ ॥ [मल्लिनाथः स्वबाणचिह्नादिति पठति ] तमृद्धिमद्बन्धुजनाधिरूढै- वृन्दैर्गजानां गिरिचक्रवर्ती। प्रत्युज्जगामागमनप्रतीतः प्रत्युद्गमनमाह— प्रफुल्लवृक्षैः कटकैरिव स्वैः ॥५२॥ प्रकाशिका तमिति । ऋद्धिर्वस्त्राभरणादिः । तत्प्रतिवस्तुतया प्रफुल्लत्वमुपात्तम् । प्रतीतो हृष्टः ॥ ५२ ॥ विवरणम् अथ हिमवतः प्रत्युद्गमनप्रकारमाह-

तमिति । गिरिचक्रवर्ती गजानां वृन्दैः तं प्रत्युज्जगाम । गिरिचक्रवर्ती गिरिराजः गजानां वृन्दैः समूहैः, प्रत्युद्गमनसाधनैः । तं परमेश्वरम्। प्रत्युज्जगाम प्रत्युद्गतवान्। गजवृन्दानां शोभातिशयजनकत्वमाह — ऋद्धिमद्बन्धुजनाधिरूढैरिति । ऋद्धिर्वस्त्राकल्पादिः तद्वद्भिः बन्धुजनैरधिरूढैः कृतारोहणैः । तादृशे प्रत्युद्गमने हेतुमाह — आगमनप्रतीत इति। आगमनेन निजगृहप्राप्त्या प्रतीतः सन्तुष्टः । तादृशं प्रत्युद्गमनमुत्प्रेक्षते - प्रफुल्लवृक्षैः स्वैः कटकैः इव । प्रफुल्ला विकसितकुसुमाः वृक्षा येषु तैः स्वैः आत्मीयैः कटकैः प्रस्थैरिव । ‘कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियामित्यमरः । अत्र गजवृन्दप्रतिवस्तुत्वेन कटकानामुपादानं, बन्धुजनप्रतिवस्तुत्वेन वृक्षाणां वस्त्राकल्पादिप्रतिवस्तुत्वेन प्रफुल्लत्वस्येति विभागः ॥ ५२ ॥ सप्तमः सर्गः वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने । समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवौधौ ॥ ५३ ॥ प्रकाशिका ४५१ वर्गाविति । उद्घटितापिधाने उत्सारितकवाटे । अनेन पूर्वं जनसञ्चारार्थ किञ्चिद्विवृतं पुरद्वारमतिविवृतं सेतुरुपात्तः ॥ ५३ ॥ । कृतमिति प्रतीयते। पुरद्वारप्रतिवस्तुतया विवरणम् अथ महेश्वरमहीधरयोः समागमं वर्णयिष्यन्नादौ तत्सैनिकानां समागममाह- वर्गाविति । पुरस्य द्वारे उद्घटितापिधाने देवमहीधराणाम् उभौ वर्गी समीयतुः । पुरस्य द्वारे गोपुरे ‘पुरद्वारं तु गोपुरमित्यमरः । उद्घटितं विवृतम् अपिधानं कवाटं यस्य तथाविधे सति देवानामिन्द्रादीनां महीधराणां महामेरुप्रभृतीनां च वर्गी समूहौ समीयतुः समागमं प्रापतुः । गोपुरकवाटे जनसञ्चारार्थं किमपि विवृते सति उभावपि सैनिकजनौ परस्परसम्मर्दादेव कवाटमतिविवृतं विधाय परस्परमेकीबभूवतुरित्यर्थः। अत्रोपमां दर्शयति – भिन्नैकसेतू पयसाम् ओघौ इव इति। भिन्नः भग्नः एकः साधारणः सेतुर्ययोः तौ पयसां जलानाम् ओघौ प्रवाहाविव। यथा लवणजलशुद्धजलयोः परस्परं संसर्गभयान्मध्ये विहिते सेतौ येन केनचित् कारणेन किमपि भग्ने सति उभावपि जलप्रवाहौ सेतुमुन्मूल्य परस्परसङ्क्रान्तौ भवतः तथेत्यर्थः । अत्र साधारणं धर्ममाह - दूरविसर्पिघोषाविति । दूरे अतिदूरे विसर्पणं कर्तुं शीलमस्येति दूरविसर्पी तथाविधो घोषः गजतुरगसैनिकादिघोषः जलप्रवाहादिघोषश्च ययोः तौ तथा । अत्र कवाटप्रतिवस्तुत्वेन सेतुरुपात्तः । सैनिकद्वयप्रतिवस्तुत्वेन जलप्रवाहद्वयम् । उपमया वर्गद्वयस्यातिमहत्त्वं सूचितम् ॥ ५३ ॥ ह्रीमानभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः । पूर्वं महिम्ना स हि तस्य दूरा- दावर्जितं नात्मशिरो विवेद ॥ ५४ ॥ ४५२ कुमारसम्भवे प्रकाशिका ह्रीमानिति । अत्यन्तमनुचितं मयैतदङ्गीक्रियत इति हीर्जाता । उचितमेव तु संवृत्तमस्य, तत् त्वसौ न विवेदेत्यर्थः । श्रीमहाभारतेऽपीदृशः प्रयोगोऽस्ति । ‘यथार्हां केशवे वृत्तिमवशाः प्रतिपेदिर’ इति ॥ ५४ ॥ विवरणम् अथ हरमहीधरयोः समागमप्रकारमाह- ह्रीमानिति । हरेण कृतप्रणामः भूमिधरः हीमान् अभूत् । हरेण परमेश्वरेण कृतः प्रणामो यस्मै तथाविधः भूमिधरः हिमवान् ह्रीमान् लज्जावानभूत् । श्वसुरत्वेन भाविनो हिमवतो गुरुत्वसम्भवात् तदुचिते नमस्कारे हरेण कृते सति अत्यन्तमनुचितं मयेदङ्गीक्रियत इति हिमवतो लज्जा सञ्जातेत्यर्थः । लज्जाया हेतुमाह — त्रैलोक्यवन्द्येनेति । त्रैलोक्येनापि वन्द्यो मा नमति, मया चेदमिदानीमङ्गीक्रियत इति लज्जा सञ्जातेत्यर्थः । हरदर्शनोचितसमुदाचारस्तु पूर्वमेवावशेन हिमवता कृत इत्याह-स हि पूर्वं तस्य महिम्ना दूराद् आवर्जितम् आत्मशिरः न विवेद इति । सः हिमवान् तुशब्दार्थे हिशब्दः । पूर्वं हरप्रणामात् पूर्वम् । हरदर्शनसमय एवेत्यर्थः । तस्य हरस्य महिम्ना प्रभावेण दूरादावर्जितम् । अत्यन्तमानमितम्। दूरमावर्जितमिति पाठेऽपि स एवार्थः । आत्मशिरः आत्मनः शिरः न विवेद न ज्ञातवान् । हरदर्शनसमय एव हरप्रभावादात्मशिरः स्वयमेव प्रणतमासीत्। तत् त्वसौ न विवेदेत्यर्थः । ईदृशः प्रयोगो महाभारतेऽपि श्रूयते । यथा भगवतः श्रीकृष्णस्य दौत्यं कर्तुं सुयोधनगृहप्रवेशे ‘यथार्हां केशवे वृत्तिमवशाः प्रतिपेदिरे’ इति ॥ ५४॥ स प्रीतियोगाद् विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य । प्रावेशयन्मन्दिरमृद्धमेन- मागुल्फगाढार्पितमार्गपुष्पम् ॥५५॥ प्रकाशिका स इति । अग्रेसरतामुपेत्य उत्सारणकर्मव्यापृत इत्यर्थ । मन्दिरं पुरम् । ऋद्धं मणिमुक्तादिचित्रितम् । गुल्फौ पादग्रन्थिपुटिके ॥ ५५ ॥ विवरणम् अथ भगवतः श्वशुरगृहप्रवेशं वर्णयति- ि । सप्तमः सर्गः ४५३ स इति । सः जामातुः अग्रेसरताम् उपेत्य एनं मन्दिरं प्रावेशयत् । सः हिमवान् जामातुः पुत्र्याः पतेः । ‘जामाता दुहितुः पतिरित्यमरः । जामातृशब्दोऽयं भाविलक्षणया परमेश्वरमाह । अग्रे सरति गच्छतीत्यग्रेसरः तस्य भावस्तत्ता ताम् । उपेत्य प्राप्य। उत्सारणकर्म कृत्वेत्यर्थः । एनं परमेश्वर मन्दिरं पुरं प्रावेशयत् प्रवेशयामास। गौरवातिशयात् स्नेहातिशयाच्च स्वयमेव जनतामुत्सारयन् गिरिचक्रवर्ती परमेश्वरं निजगृहं प्रवेशयामासेत्यर्थः । परमेश्वराग्रेरस्य हिमवतः प्रसादातिशयमाह — प्रीतियोगाद् विकसन्मुखश्रीः इति । प्रीत्या प्रसादेन ‘योगः प्रीतियोगः तस्माद्धेतोः । विकसन्मुखश्रीः विकसन्ती वर्धमाना मुखश्रीः मुखशोभा यस्य तथा । हिमवत्पुरस्य परमेश्वरस्यापि विस्मयकरत्वमाह — ऋद्धमिति । मणिमुक्तादिचित्रितमित्यर्थः । पुरन्ध्रीणामादरातिशयमाहआगुल्फगाढार्पितमार्गपुष्पमिति । गुल्फौ पादजङ्घायाः सन्धिपुटिके। आगुल्फं गुल्फपर्यन्तम् । अभिविधावाङ् । गाढं निविडं यथा भवति तथार्पितं पुरन्ध्रीजनैर्विकीर्णं मार्गे पुष्पं मार्गविकरणीयं पुष्पं यत्र तत् । अनेन मन्दिरविशेषणद्वयेन हिमवतः समृद्ध्यतिशयः प्रीत्यतिशयश्च ध्वन्यते ॥ ५५ ॥ भगवदागमनवेलायां तस्मिन् मुहूर्ते पुरसुन्दरीणा- मीशानसन्दर्शनलालसानाम्। प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥ ५६ ॥ प्रकाशिका तत्क्षणे पुरजनवृत्तान्तं सप्तभिः श्लोकैराह- तस्मिन्निति । इत्थमिति वक्ष्यमाणप्रकारपरामर्शः । त्यक्तान्यकार्याणीति लालसत्वमुपपादितम्। अत्र नायकोत्कर्षप्रतिपादनपरे प्रासङ्गिके पुराङ्गनावृत्तान्तोपवर्णने सम्भ्रमकृतमौत्सुक्यं भावः ॥ ५६ ॥ विवरणम् भगवतः समागमनमये पुरस्त्रीजनवृत्तान्तमाह सप्तभिः श्लोकैः । तत्राद्येन श्लोकेन तमेव सामान्येनाह- तस्मिन्निति । तस्मिन् मुहूर्ते ईशानसन्दर्शनलालसानां पुरसुन्दरीणां प्रासादमालासु इत्थं विचेष्टितानि बभृवुः । तस्मिन् मुहूर्ते भगवतः पुरप्रवेशसमये । मुहूर्तशब्देन कालस्याल्पत्वं सूचयता क्षणान्तरे तद्देशनस्य दुर्लभत्वप्रतिपादनमुखेन४५४ कुमारसम्भवे वक्ष्यमाणस्य सम्भ्रमस्योपपत्तिर्दर्शिता । ईशानः परमेश्वरः, तस्य सन्दर्शने सम्यग्दर्शने लालसा (सम्) औत्सुक्यं यासां तासाम्। ‘लालसे प्रार्थनौत्सुक्ये’ इत्यमरः । पुरसुन्दरीणां पुरस्त्रीणाम् । प्रासादानां सौधानां मालासु समूहेषु ॥ इत्थं वक्ष्यमाणप्रकारेण विचेष्टितानि विविधानि चेष्टितानि व्यापाराः बभूवुः । ईशानसन्दर्शनलालसत्वमेव स्फुटयति - त्यक्तान्यकार्याणीति । त्यक्तानि उपेक्षितानि अन्यानि ईशानसन्दर्शनव्यतिरिक्तानि प्रकृतान्यतिप्रियाण्यलङ्कारकार्याण्यपि यैः तादृशानि विचेष्टितानि बभूवुरित्यर्थः । परमेश्वरे साक्षादेव दर्शनपदवीमागते सति पुरवधूजनाः प्रकृतं प्राधनकार्यमपहाय सत्वरं तद्दर्शनयोग्यं प्रासादजालमारुरुहुरित्यर्थः। अत्र पुरवधूवृत्तान्तप्रकरणे सम्भ्रमोपकृतमौत्सुक्यं प्रतिपाद्यते ॥ ५६ ॥ आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बन्धुं न सम्भावित एव तावत् करेण रुद्धोऽपि च केशहस्तः ॥५७॥ प्रकाशिका आलोकेति । आलोकमार्गं जालमार्गम्। सहसा अविचारितम् । उद्वेष्टनेन गमनरभसगलितबन्धत्वेन वान्तं निर्गतं माल्यं यस्य । न सम्भावितो नाकलितः स्मृतः । तावदालोकमार्गावधीत्यर्थः । केशहस्तः केशचयः । करेण रुद्धोऽपि न केशहस्त इति पाठे तावच्छब्देन क्रम उक्तः । केशहस्तस्तावद् बन्धुं न सम्भावित एव । स्वाधीनेन करतलेन रोधोऽप्यस्य न कृत इत्यर्थः ॥ ५७ ॥ विवरणम् । इत्थंशब्दोक्तान् प्रकारानेव प्रपञ्चयति पञ्चभिः श्लोकैः । तत्र कस्याश्चिदवस्थां दर्शयति- आलोकेति । सहसा आलोकमार्गं व्रजन्त्या कयाचित् करेण रुद्धः अपि च केशहस्तः तावद् बन्धुं न सम्भावितः एव । सहसा अविचारितम्। आलोकाय भगवदालोकनाय मार्गः आलोकमार्गः तम् । गवाक्षमार्गमित्यर्थः । व्रजन्त्या गच्छन्त्या कयाचिन्नार्या करेण हस्तेन रुद्धोऽपि च निरुद्धः सन्नपि च । निरोधार्थं केशहस्तेषु हस्तव्यापारे कृतेऽपि च बन्धुं न सम्भावित इति विरोधं वक्तुमपिचत्येवं शब्दद्वयम् । केशहस्तः केशचयः, प्रशस्तः केशो वा । ‘हस्तयष्टिलतादयः प्रशंसावचना’ इति वचनात् । अनेनात्यन्तमादरपदत्वेऽप्यनादरः सूच्यते । तावत् तदवधि | आलोकमार्गावधीत्यर्थः । बन्धुं बन्धनं विधातुं न सम्भावितः न ज्ञातः । न स्मृत सप्तमः सर्गः ४५५ इत्यर्थः । एवशब्दः स्मरणलेशमपि व्यावर्तयति । बन्धनाभावजातं दोषमाहउद्वेष्टनवान्तमाल्य इति । उद्गतं वेष्टनं यस्य स तथा, अत एव वान्तमाल्यश्च । वान्तानि उद्गीर्णानि माल्यानि पुष्पाणि येन स तथा । अयमभिप्रायः - केशे कुसुमानि निधाय केशायैरेव किञ्चित् परिवेष्ट्य यावद् दाम्ना बन्धुमारभ्यते, तावद् भगवदागमनकोलाहलमाकर्ण्य प्रकृतं केशबन्धनं परित्यज्य सत्वरमुत्थाय प्रस्थितायाः कस्याश्चित् केशहस्ते गमनवेगवशाद् विगलितपरिवेष्टने सति केशकुसुमानि मार्गकुसुमतां प्रपेदिर इति ॥ ५७ ॥ प्रसाधिकालम्बितमग्रपाद- माक्षिप्य काचिद् द्रवरागमेव । उत्सृष्टलीलागतिरा गवाक्षा- दलक्तकाङ्कां पदवीं ततान ॥५८॥ प्रकाशिका प्रसाधिकेति । अग्रपादमिति । ‘राजदन्तादिषु परम् (२.२.३१ ) इत्युपसर्जनस्य पादपदस्य परनिपातः । तदपाठे ‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्’ (५.२.२०) इति वामनोक्तदिशा परनिपातः । येन’ ‘पादाग्रं प्रपदमि’त्यमरसिंहवचनमपि संगतम् । द्रवरागमशुष्कलाक्षारसम् । लीला विलासः ॥ ५८ ॥ विवरणम् अन्यस्याः समवस्थामाह- प्रसाधिकेति । काचित् प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य गवाक्षाद् आ पदवीम् अलक्तकाङ्कां ततान । काचित् पुरवधूः प्रसाधिकयालङ्कर्यालम्बितं प्रसाधनार्थं गृहीतमग्रपादं पादाग्रम्। राजदन्तादिषु पाठादुपसर्जनभूतस्य पादपदस्य परनिपातः । अमरसिंहस्तु तस्मिन्ननन्तर्भावमभ्युपगम्य पादाग्रं प्रपद’ मित्येवोक्तवान् । तन्मतेन तदपाठपक्षे ‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदादि ति वामनोक्तक्रमेण परनिपातः । आक्षिप्य बलादाकृष्य । प्रसाधिकाकरादिति शेषः । गवाक्षाद् वातायनाद् आ । मर्यादायामाङ् । पदवीं मार्गम् वातायनावधिभूतं मार्गमित्यर्थः । अलक्तकाङ्काम् अलक्तको लाक्षारस एवाङ्कः चिह्नं यस्याः तादृशीम्। ततान चकार । पदव्या अलक्तकाङ्कत्वकरणे हेतुं पादविशेषणेनाह-द्रवरागमेव इति । द्रवः अशुष्कः रागः लाक्षारसो यस्मिन् तादृशमेव । स्वाभाविकं सविलासयानमपि तदानीं सम्भ्रमात् परित्यक्तमित्याह — उत्सृष्टा त्यक्ता लीलया विलासेन गतिर्यया सा तथा ॥ ५८ ॥ ४५६ कुमारसम्भवे विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनन्निकर्षं ययौ शलाकामपरा वहन्ती ॥ ५९ ॥ प्रकाशिका विलोचनमिति । दक्षिणमिति सम्भ्रमानुभावः । प्रसिद्धवामोपक्रमलङ्घनमुक्तम्। क्रमे तु किल प्रमाणं श्रुतिः । तेनाञ्जनेन वञ्चितं वामनेत्रं यया । प्रतिश्रुत्य अदानं चात्र वञ्चनम्। यथाह भोजराज ः- अदानं च प्रतिश्रुत्य विसंवादनमेव च । कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम् ॥ इति । प्रतिश्रवश्च नेत्रयोरविशेषेणाञ्जनदानाध्यवसायः ॥ ५९ ॥ विवरणम् अथापरस्याः सम्भ्रमातिशयमाह- विलोचनमिति । अपरा दक्षिणं विलोचनम् अञ्जनेन सम्भाव्य तथा एव वातायनसन्निकर्षं ययौ। अपरा पुरवधूः । आदौ दक्षिणं नेत्रम् अञ्जनेन सम्भाव्य मानयित्वा। सम्भ्रमस्यानुभावोऽयम्, अञ्जनविलेपने श्रुतिप्रसिद्धस्य वामोपक्रमस्यातिक्रमात्। तथैव, वामनयने किञ्चिदप्यञ्जनमनर्पयित्वेत्यर्थः । अनेन अनेन पुनरपि सम्भ्रमातिशय उक्तः । वातायनस्य गवाक्षस्य तस्यास्तदानीं लोकवेदविरोधो दोषो जातः, सन्निकर्षं समीपं ययौ । न केवलं अपि तु तु वञ्चनादोषोऽपीत्याहतद्वञ्चितवामनेत्रेति । तेनाञ्जनेन करणेन वञ्चितं वामनेत्रं यया सा तथा । प्रतिश्रुत्य अदानमिह वञ्चनमुच्यते । यदाह भोजराजः [सरस्वतीक. ५.५७]- अदानं च प्रतिश्रुत्य विसंवादनमेव च । कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम् ॥ इति । उभयोरपि नेत्रयोरविशेषेणाञ्जनार्पणस्य सङ्कल्पितत्वात् प्रतिश्रुत्य अदानमिह सञ्जातम्। अञ्जनार्पणार्थमुद्धृतायाः शलाकायाः समर्पणमपि सम्भ्रमान्न कृतमित्याहशलाकां वहन्तीति । शलाकामञ्जनार्पणसाधनं वहन्ती दधाना ॥ ५९ ॥ सप्तमः सर्गः जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नानवबद्धनीविः । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वास ॥६०॥ प्रकाशिका ४५७ जालेति । प्रस्थानेन भिन्ना स्रस्ता अनवबद्धा च नीविर्यस्याः । ‘नीविराग्रन्थनं नार्या जघनस्थस्य वासस’ इति नाममाला ॥ ६० ॥ कस्याश्चिदौत्सुक्यातिशयमाह- विवरणम् जालेति। अन्या प्रस्थानभिन्नानवबद्धनीविः हस्तेन वासः अवलम्ब्य तस्थौ । अन्या पुरसुन्दरी प्रस्थानेन भिन्ना स्त्रस्ता अनवबद्धा अकृतबन्धना च नीविर्यस्याः तथाभूता सती । ‘नीविराग्रथनं नार्या जघनस्थस्य वामसः’ इति नाममाला । हस्तेन करेण वासः वसनम् अवलम्ब्य गृहीत्वा तस्थौ । परमेश्वरदर्शनौत्सुक्यवशाद् गमनवेगगलितबन्धनाया नीव्या बन्धनमप्यकुर्वाणा हस्तेन करेण वासः वसनम् अवलम्ब्य गृहीत्वा तस्थौ । परमेश्वरदर्शनौत्सुक्यवशाद् गमनवेगगलितबन्धनाया नीव्या बन्धनमप्यकुर्वाणा हस्तेन वस्त्रमवलम्ब्यैव स्थितवतीत्यर्थः । तत्र हेतुमाहजालान्तरप्रेषितदृष्टिरिति । जालस्य गवाक्षस्य । ‘वातद्वारं गवाक्षः स्याज्जालं वातायनं तथे ‘ति भोजः । तस्यान्तरेण मध्येन प्रेषिता प्रेरिता दृष्टिर्यया सा तथा । औत्सुक्यातिशयकृतं हस्तस्यापि निश्चलत्वमाह – नाभिप्रविष्टाभरणप्रभेणेति । नाभौ प्रविष्टा प्राप्ता आभरणस्य पर्युप्तरत्नस्य कटकस्य प्रभा यस्य तादृशेन हस्तेन । नहि हस्तस्य किञ्चिच्चलने सति कटकरत्नप्रभा नाभिकुहरं प्रविशति ॥ ६० ॥ अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद् रशना तदानी-

मङ्गुष्ठमूलार्पितसूत्रशेषा॥ ६१ ॥ प्रकाशिका अर्धेति । आचयनं गुम्फनम् । दुर्निमिते दुःखेन न्यस्ते । ‘डुमिञ् प्रक्षेप’ इति धातुः । गलन्ती गलन्मणिरित्यर्थः । उपविश्य प्रसारितपदाङ्गुष्ठमूलसंयमितैकदेशे सूत्रे ४५८ रशनामणीन् कुमारसम्भवे ग्रथ्नत्यास्तदागमनश्रवणरभसोत्थिताया गच्छन्त्या योषितः तदनुबन्धवशेन दुःखन्यस्तेषु पदेषु क्रमशो गलन्मणे रशनायाः सूत्रमेवावशिष्ट- मासीदित्यर्थः ॥ ६१ ॥ विवरणम् अन्यस्याः सम्भ्रमवशाद् रशनापरित्यागोऽपि जात इत्याह- अर्धेति । तदानीं कस्याश्चिद् रशना अङ्गुष्ठमूलार्पितसूत्रशेषा आसीत्। रशना काञ्ची अङ्गुष्ठस्य पादाङ्गुष्ठस्य मूले अर्पितं बद्धं सूत्रमेव शेषमवशिष्टं यस्याः सा तथा। सूत्रमात्रावशेषत्वप्राप्तौ हेतुमाह - अर्थाचितेत्यादिना । अर्थाचिता अर्धमाचिता गुम्फिता | कुत्राप्युपविश्य रशनामणिगुम्फनार्थं पादाङ्गुष्ठे सूत्रैकदेशमुपनिबध्य पादं प्रसार्य रशनामणीनामर्धगुम्फनमनेनोक्तम् । पुनश्च हरगमनकोलाहलश्रवणात् सत्वरमुत्थितायाः। सत्वरमित्युत्थानक्रियाविशेषणम्। त्वरासहितं यथा भवति तथा कृतोत्थानायाः । अत एव पदे पदे गलन्ती । पदे पदे सर्वेष्वपि पदावस्थानेषु । गलन्ती गलन्मणिरित्यर्थः । रशनानुबन्धवशात् पादावस्थानस्यापि सौकर्याभावमाहदुर्निमित इति । दुःखेन निमिते न्यस्ते । ‘डुमिञ् प्रक्षेपण’ इति धातुः । अत्र बहुमणिगणाकीर्णाया रशनायाः परित्यागस्य रशनानुबन्धवशात् पदानां दुर्निमितत्वस्य चाज्ञानमौत्सुक्य्यानुभावः, सत्वरोत्थानं तु सम्भ्रमस्येति विभागः ॥ ६१ ॥ तासां मुखैरासवगन्धगर्भै- र्व्याप्तान्तराः सान्द्रकुतूहलानाम्। विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्त्रपत्रावरणा इवासन् ॥६२॥ प्रकाशिका । तासामिति । व्याप्तान्तराः निरवकाशीकृता इत्यर्थः । सान्द्रकुतूहलानामिति व्याप्तान्तरालत्वे हेतुः । मुखस्य विशेषणद्वयेन कमलसादृश्यं द्योत्यते । तच्चोत्प्रेक्षाया हेतुः । सहस्रपत्रमयमावरणं कपाटं येषाम् । तद्भावस्य चोत्प्रेक्षा । मुखानां च निश्चलत्वप्रतीतिः ॥६२॥ विवरणम् इत्थमुपगतानां पुरसुन्दरीणां परमेश्वरदर्शनप्रकारं भङ्गयन्तरेणाह— तासामिति । तासां मुखैः व्याप्तान्तराः । गवाक्षाः सहस्रपत्रावरणाः इव आसन्। तासां पुरसुन्दरीणां मुखैर्वदनैः । व्याप्तान्तराः व्याप्तं निरवकाशीकृतमन्तरं सप्तमः सर्गः ४५९ मध्यं येषां ते तथा । गवाक्षाः वातायनानि । सहस्रं पत्राणि दलानि सन्त्यस्येति सहस्रपत्रं कमलम्। सहस्रशब्दश्चायं बहुसङ्ख्यापरः, न सहस्रसङ्ख्यापरः । सहस्रपत्रमयमावरणं कवाटं येषां तथाविधा इवासन् । अत्र गवाक्षाणां सहस्रपत्रावरणत्वमुत्प्रेक्ष्यते। मुखानां मनोहरत्वमुत्प्रेक्षाहेतुः । निश्चलत्वप्रतीतिः फलम्। तेन च दर्शनौत्सुक्यं ध्वन्यते। मुखस्य कमलसाम्यमेव विशेषणद्वयेन दर्शयन्नुत्प्रेक्षायां हेतुमेव प्रकटयति — आसवगन्धगर्भैरित्यादिना। आसवस्य मधुनः गन्धः गर्भे अन्तर्भागे येषां तैः । तथा विलोलनेत्रभ्रमरैः विलोलानि चञ्चलानि नेत्राणि नयनान्येव भ्रमराः भृङ्गाः येषु तैः । गवाक्षाणां तन्मुखव्याप्तान्तरालत्वे हेतुमाह सान्द्रकुतूहलानामिति । सान्द्रं निबिडं कुतूहलं कौतुकं यासां तासाम् ॥ ६२ ॥ तावत् पताकाकुलमिन्दुमौलि- रुत्तोरणं राजपथं प्रपेदे । प्रासादशृङ्गाणि दिवापि कुर्व- ज्योत्स्नाभिषेकद्विगुणच्छवीनि ॥ ६३ ॥ प्रकाशिका तावदिति । द्विगुणच्छवीकरणं प्रागेव सुधाधवलत्वात् । अत्रोपपादकमिन्दुमौलित्वम् ॥ ६३ ॥ विवरणम् इत्थं पुरवधूवृत्तान्तमुपंसहत्य प्रकृतं भगवद्वृत्तान्तमेव प्रस्तौति- तावदिति । इन्दुमौलिः तावद् राजपथं प्रपेदे । इन्दुमौलिश्चन्द्रशेखरः । तावद् यावदेवं पुरवधूवृत्तान्तः प्रस्तुतः तावदित्यर्थः । राजपथं राजमार्गं प्रपेदे प्राप्तवान् । राजपथस्य मङ्गलोपकरणरमणीयत्वमाह - पताकाकुलम् इति । पताकाभिराकुलं संकुलम्। तथा उत्क्षिप्ततोरणमित्यर्थः । भगवदागमनप्रत्युत्पन्नं शोभाधिक्यमाहदिवापि प्रसादशृङ्गाणि ज्योत्स्नाभिषेकद्विगुणच्छवीनि कुर्वन् इति। दिवेत्यहो वाचकमव्ययम्। अहन्यपीत्यर्थः । प्रासादानां सौधानां शृङ्गाणि शिखराणि । ज्योत्स्नया चन्द्रिकया योऽभिषेकः सङ्क्षालनं तेन द्विगुणा वर्धिता छविः शोभा येषां तथाविधानि कुर्वन् सम्पादयन् । भगवत इन्दुमौलित्वमत्र हेतुः । अत एवेन्दुमौलिरित्युक्तम्। भगवत्कोटीरगतस्य तस्य तत्प्रभावादेव दिवापि ज्योत्स्नाप्रसारणोपपत्तिः । प्रागेव सुधाधवलानि प्रासादशृङ्गाणि शिरश्चन्द्रचन्द्रिकया द्विगुणितधावल्यानि कुर्वन् परमेश्वरो राजमार्गमाससादेत्यर्थः ॥ ६३ ॥ ४६० कुमारसम्भवे तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथाहि शेषेन्द्रियवृत्तिरासां विनोपघातेन जडीबभूव ॥६४॥ प्रकाशिका तमिति । एकदृश्यं दर्शनीयेषु प्रधानम् । पानोपचारेण तृष्णातिशयो ध्वन्यते । विषयान्तराणि शब्दादीनि । एतदुपपादयति – तथाहीति । वृत्तिः व्यापारः । विनोपघातेन शक्तिनिरोधमन्तरेण । श्रवणादिरूपो जडीबभूव कुण्ठिताभवत् । देवदर्शनसमये लोचनकिङ्करीभावमुपगते मनसि ततश्च कुण्ठेषु शेषेन्द्रियव्यापारेषु सन्निहितान्यपि विषयान्तराणि पुराङ्गना नाजानन्नित्यर्थः ॥ ६४ ॥ विवरणम् अथ पुरवधूनां भगवद्दर्शनौत्सुक्यं वर्णयति- तमिति । एकदृश्यं तं नयनैः पिबन्त्यः नार्यः विषयान्तराणि न जग्मुः । एकं प्रधानभूतं दृश्यं दर्शनीयम् । दर्शनीयेषु प्रधानभूतमित्यर्थः । तं परमेश्वरं नयनैः नेत्रः । पिबन्त्यः सतृष्णमवलोकयन्त्य इत्यर्थः । यथा पिपासार्दिता जनाः सलिलं सतृष्णं पिबन्ति, तथावलोकयन्त्य इति दर्शने पानोपचारस्याभिप्रायः । एकदृश्यत्वमत्र हेतुः । नार्यः पुरसुन्दर्यः विषयान्तराणि शब्दादीनि । भगवद्रूपव्यतिरिक्तं रूपमिन्द्रियान्तरविषयभूतं शब्दस्पर्शगन्धरसप्रपञ्चेष्वित्यर्थः । न जग्मुः नाधिगतवत्यः । तत्तदिन्द्रियैस्तत्तद्विषयं न जगृहुरित्यर्थः । एतदेवोपपादयति - तथाहीत्यादिना । तथाहि आसां शेषेन्द्रियवृत्तिः उपघातेन विना जडीबभूव । तथाहि तेन प्रकारेण वर्तमानत्वादित्यर्थः । आसां पुरसुन्दरीणां शेषाणाम् अवशिष्टानामिन्द्रियाणां नेत्रव्यरिक्तानां श्रोत्रादीनां वृत्तिः श्रवणादिरूपा प्रवृत्तिः । उपघातेन विना शक्तिव्याघातमन्तरेण जडीबभूव । अभूततद्भावे च्विः । अकुण्ठितापि कुण्ठिताभवदित्यर्थः । परमेश्वरदर्शनोपक्षीणे चक्षुषि चित्ते च तत्सहायताप्राप्तिमात्रकृतार्थे मनः सहायवैधुर्यात् परिक्षीणशक्तिषु श्रोत्रा - दीन्द्रियेषु पुरवधूजनाः सन्निहितमपि विषयान्तरं नाधिजग्मुरित्यर्थः ॥ ६४ ॥ स्थाने तपो दुश्चरमेतदर्थ- मपर्णया पेलवयापि तप्तम् । या दास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था किमुताङ्कशय्याम् ॥६५॥ सप्तमः सर्गः प्रकाशिका ४६१ स्थान इति । एतच्छब्दः साक्षात्क्रियमाणविश्वोत्तरसकलगुणविशिष्टतया वस्तु परामृशति । अङ्कमुरः । परमेश्वरदास्यमुपगतः पुरुषः स्त्री वा परमपुरुषार्थभाजनं भवेदिति कवेरभिप्रायः ॥ ६५ ॥ विवरणम् इत्थं परमेश्वरदर्शनव्यापृतानां पुरसुन्दरीणामुक्तिप्रकारः श्लोकत्रयेणोच्यते । तत्रादौ सुकुमाराया देव्यास्तत्तादृशतपश्चरणानुसन्धानजनितस्य निजहृदये शल्यवदवस्थितस्य दुःखस्य निवृत्तिं भङ्गयन्तरेणाहुः- स्थान इति । अपर्णया एतदर्थं दुश्चरं तपः अभितप्तं स्थाने। अपर्णाशब्देनात्र पूर्वोक्तं महत्तरं तपश्चरणमनूद्यते । एतदर्थम्, अत्रैतच्छब्देन लोकोत्तरगुणविशिष्टतया साक्षात्क्रियमाणं भगवत्स्वरूपं परामृश्यते । एतादृशपरमेश्वरप्राप्त्यर्थमित्यर्थः । दुश्चरम् अत्यन्तदुष्करमित्यर्थः । अभितप्तं कृतं, तपतिः सकर्मकः करोत्यर्थे वर्तते इति न्यायात् । स्थाने इत्यव्ययं युक्तमित्येतस्मिन्नर्थे । ‘युक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः । एतत्प्राप्तये पार्वत्या स्वयं विशीर्णानि पर्णान्यप्यपास्य दुश्चरं तपस्तप्तमिति यत्, तद् युक्तमेवेत्यर्थः । तादृशतपश्चरणे देव्याः शरीरपाटवाभावमाहुः - पेलवयेति । प्रकृत्या मृद्वङ्गयेत्यर्थः । अत्रार्थादपिशब्दो द्रष्टव्यः । ‘तदानपेक्ष्य स्वशरीरमार्दवं तपो महत् सा चरितुं प्रचक्रमे’ (५.१८) इत्यत्रोक्तोऽर्थोऽनेन दर्शितः । युक्तत्वमेवोपपादयति-येत्यादिना । या नारी अस्य दास्यमपि लभेत सा कृतार्था स्याद्, अङ्कशय्यां किमुत । या नारी अस्य परमेश्वरस्य दास्यं दासीभावमपि लभेत प्राप्नुयात् सा नारी कृतार्था कृतकृत्या भवेत्। या पुनः अङ्कशय्याम् अङ्के उरसि । ‘अङ्कश्चिह्नेऽन्तिकोरसो ‘रिति यादवः । शय्यां शयनं लभेत, सा किमुत किमुच्यते इत्यर्थः । एतादृशस्यास्य दास्यमपि या नारी लभेत, सा कृतार्थैव भवति । या पुनरस्य सुरतपरिश्रमादुरसि शयनमेव लभेत, सा कृतार्थेति किं वक्तव्यमित्यर्थः । अत्र परमेश्वरदास्यमुपगतो जनः परमपुरुषार्थभाजनं भवतीति कवेर्निगूढोऽभि- प्रायः ॥ ६५ ॥ न नूनमारूढरुषा शरीर- मनेन दग्धं कुसुमायुधस्य । व्रीलादमुं देवमुदीक्ष्य मन्ये सन्न्यस्तदेहः स्वयमेव कामः ॥ ६६ ॥ ४६२ कुमारसम्भवे प्रकाशिका नेति । आरूढरुषा अनेन कुसुमायुधस्य शरीरं दग्धमिति प्रसिद्धिमनूद्य नेति निषिध्यते। किन्तर्हीत्याह — व्रीलादिति । अत्र वामनसूत्रम् — ‘अविधौ गुरोः स्त्रियां बहुलं विवक्षा’ (५.२.४२) इति । तस्य चायं वृत्तिग्रन्थः ‘अविधावकारविधाने ‘गुरोश्च हल ः ’ (३.३.१०३ ) इति स्त्रियां बहुलं विवक्षा क्वचिदविवक्षा क्वचिद्विवक्षा क्वचिदुभयमिति । विवक्षा यथा ईहा लज्जेति । अविवक्षा यथा आतङ्क इति । विवक्षाविवक्षे यथा बाधा बाधः, ऊहा ऊहः, व्रीला व्रील इति’ ॥ ६६ ॥ विवरणम् उक्तमर्थमुपापदयितुं परमेश्वरस्य लावण्यातिशयमाहुः - नेति । अनेन आरूढरुषा कुसुमायुधस्य शरीरं न दग्धं नूनम् । अनेन एतादृशशृङ्गारात्मकेन। अनेन शृङ्गाररौद्रयोरत्यन्तविरुद्धत्वात् कोपाविषयत्वमुक्तम् । शरीरं न दग्धम्। नूनंशब्दो निश्चये। असौ कोपमधिष्ठाय कुसुमायुधस्य शरीरं भस्मसादकरोदिति हि लोकप्रसिद्धिः । तत्तु शृङ्गाररौद्रयोरत्यन्तविरुद्धत्वादत्यन्ताशक्ते कुसुमायुधेऽस्य कोपानुपपत्तेश्च नेति वयं निश्चिनुम इत्यर्थः । कथं तर्हि कामदेवो विनष्टोऽभूदत आहुः - कामः अमुं देवम् उदीक्ष्य व्रीलात् स्वयम् एव सन्यस्तदेहः (इति) मन्ये इति । कामः कामदेवः अमुं कामदेवशरीरलावण्यपरिभाविशरीरलावण्यतया दृश्यमानं देवं दीप्यमानम् उदीक्ष्य अवलोक्य व्रीलात् लज्जाया हेतोः । ननु व्रीलाशब्दः स्त्रीलिङ्गतयैव लोके प्रसिद्धः । अतः कथं व्रीलादित्युक्तम् । उच्यते । ‘अविधौ गुरोः स्त्रियां बहुलं विवक्षा’ इति वामनसूत्रम् । तद्वृत्तिकारेण चैतत् सूत्रमेवं व्याख्यातम्— अविधावकारविधाने ‘गुरोश्च हल’ इति स्त्रियां बहुलं विवक्षा, क्वचिद् विवक्षा क्वचिदविवक्षा क्वचिदुभयमिति । तत्रोदाहरणानि चैवमुक्तवान्’विवक्षा यथा ईहा लज्जेति । अविवक्षा यथा आतङ्क इति । विवक्षाविवक्षे यथा बाधा बाधः, ऊहा ऊहः, व्रीला व्रील इति । स्वयमेव न त्वस्य तस्मिन् कर्मणि व्यापारलेशोऽपीति भावः । सन्न्यस्तः सम्यङ् न्यस्तः उपेक्षितो देहो येन स तथा । अत्र पुरसुन्दरीणां बहुत्वेऽपि मन्य इत्येकवचनप्रयोगः प्रत्येकमेकत्वविवक्षयेत्यवगन्तव्यम्। अत्यन्तसुन्दरमस्य शरीरमवेक्ष्य सञ्जातलज्जः कामदेवः स्वयमेव स्वशरीरं योगाग्निना भस्मसादकरोदिति मन्यामह इत्यर्थः । अनेन श्लोकेन पुरसुन्दरीणां स्वपक्षभूतस्य मन्मथस्य मारणेन जनिताया भगवद्विषयाया असूयायाः प्रशमो दर्शितः ॥ ६६ ॥ । सप्तमः सर्गः अनेन सम्बन्धमवाप्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण । मूर्धानमालि! क्षितिधारणोच्च मुच्चैस्तरां वक्ष्यति शैलराजः ॥६७॥ प्रकाशिका ४६३ अनेनेति । दिष्ट्येति हर्षद्योतकमव्ययम् । मनोरथैः सङ्कल्पैः प्रार्थितं विषयीकृतम्। चिराभिलषितमित्यर्थः । ईश्वरेणेति तत्सम्बन्धस्य महार्घता दुरवापता च ध्वन्यते । उच्चमभिमानोदग्रम् । वक्ष्यतीति वहेर्लटि रूपम्। अत्र प्रथमेन श्लोकेन प्रथमं यद् देव्यास्तादृशतपश्चरणानुसन्धानजं दुःखं तत्सौकुमार्यवेदिनीनां पुराङ्गनानां हृदि शल्यायमानमासीत्, तत् तदानीं देवदर्शनेनापनीतमिति प्रतीयते । द्वितीयेन तासां स्वपक्षभूतमन्मथमारणसमुत्थभगवद्विषयासूयाप्रशमः, तृतीयेन स्वाम्यभ्युदयाभिनन्दनद्वारेण तद्विषयोऽनुरागः ॥ ६७ ॥ विवरणम् अथैतादृशेन भगवता सञ्जातसम्बन्धस्य स्वामिनो हिमवतः प्रकृष्टतरमभ्युदयमभिनन्दमानाः (न्त्यः) स्वामिभक्तिं प्रदर्शयन्ति- अनेनेति । आलि! शैलराजः ईश्वरेण अनेन सम्बन्धम् अवाप्य क्षितिधारणोच्च मूर्धानम् उच्चैस्तरां वक्ष्यति दिष्ट्या । आलि! हे सखि ! शैलराज हिमवान् ईश्वरेण त्रैलोक्यनाथेन । अनेन तत्सम्बन्धस्यात्यन्तमहत्त्वं दुरवापत्वं च द्योत्यते । तेन च मूर्धानमुच्चैस्तरां वक्ष्यतीत्यत्र हेतुः प्रदर्शितः । अनेन पुरतो दृश्यमानेन । सम्बन्धप्राप्तेरासन्नत्वमनेन द्योत्यते । क्षितेर्भूमेर्धारणेन उद्धरणेन उच्चमभिमानोदग्रं मूर्धानं शिरः उच्चैस्तराम् अत्युन्नतत्वेन वक्ष्यति वहनं करिष्यति । ‘वह प्रापण’ इति धातोर्लटि रूपम्। शैलराजोऽयमन्यैरत्यन्तदुष्करस्य क्षितिमण्डलधारणस्यानायासेन क्रियमाणत्वादिदानीमेवाभिमानोन्नतमात्मशिरः परमेश्वरसम्बन्धलाभानन्तरमत्युन्नतत्वेन वक्ष्यतीत्यर्थः । दिष्ट्येति हर्षद्योतकमव्ययम् । अहो वयमिदानीं भाग्यवत्यो जाता इति भावः । निजसुताया यौवनोद्भेदकालादारभ्यैतावन्तं कालमस्मत्स्वामिना प्रार्थितोऽयं सम्बन्ध इत्याहमनोरथप्रार्थितमिति । मनोरथैः सङ्कल्पैः प्रार्थितं विषयीकृतम् । चिराभिलषितमित्यर्थः। ‘तस्थौ निवृत्तान्यवराभिलाषः’ (१.५१) ‘अथानुरूपाभिनिवेशतोषिणा’ (५.७) इत्यादिषु स्फुटतरोऽयमर्थः ॥ ६७ ॥४६४ उपसंहरति- कुमारसम्भवे इत्योषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास्त्रिनेत्रः । केयूरचूर्णीकृतलाजमुष्टि- हिमालयस्यालयमाससाद ॥६८॥ प्रकाशिका इतीति । इतिः प्रकारे, एवं प्रकारा अन्या अपीत्यर्थः । श्रोत्रसुखत्वं रमणीयनानाभावप्रकाशकत्वात् । केयूरेति जनसंबाध उक्तः । अंसेनांसावघट्टने हि केयूरचूर्णीकृतत्वमाचारलाजानां भवति । मुष्टिपरिमिता लाजा लाजमुष्टिः ॥ ६८॥ विवरणम् पुरवधूवृत्तान्तमुपसंहृत्य भगवतो हिमवत्पुरप्राप्तिप्रकारमाह- इतीति । त्रिनेत्रः ओषधिप्रस्थविलासिनीनाम् इति कथाः शृण्वन् हिमालयस्य आलयम् आससाद । त्रिनेत्रः परमेश्वरः ओषधिप्रस्थे हिमवत्पुरे या विलासिन्यः स्त्रियः तासाम् । इतिशब्दः प्रकारवाची । एवम्प्रकारा अन्याश्चेत्यर्थः । कथाः वाचः शृण्वन् आकर्णयन् सन् हिमवतः भवनम् आससाद प्राप्तवान्। कथानां मनोहरत्वमाह — श्रोत्रसुखाः । श्रोत्रयोः कर्णयोः सुखकराः । सुखकरत्वं च स्तुतिरूपत्वाद् रमणीयनानाभावप्रकाशकत्वाच्च । पुरप्रवेशसमये जनसम्बाधं स्वभावोत्त्या प्रकाशयति — केयूरचूर्णीकृतलाजमुष्टिरिति । केयूरेण अङ्गदेन चूर्णीकृता चूर्णत्वं प्रापिता लाजमुष्टिः मुष्टिपरिमिता लाजा येन स तथा । अनेन सम्मर्द उक्तः । भगवतः पुरप्रवेशसमये पुरवधूजनैरवकीर्णानां लाजानां केयूरसङ्घट्टनेन चूर्णीभावो तथा भवति, तथा तत्र जनसम्मर्दवशात् परस्परमंसेनांसावघट्टनं जातमित्यर्थः ॥ ६८ ॥ ततोऽवतीर्याच्युतदत्तहस्तः शरद्धनाद् दीधितिमानिवोक्ष्णः । क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥ ६९ ॥ प्रकाशिका तत इति । अत्राप्यच्युते सख्यं कमलासने मान्यत्वं प्रतीयते। अवतीर्येत्यनेन पूर्वं वाहनादनवतीर्ण एव देवः श्वशुरप्रणामं कृतवानिति प्रतीयते ॥ ६९ ॥ सप्तमः सर्गः विवरणम् अथ भगवतो वाहनावतारं प्रदर्शयन् भवनान्तः प्रवेशमाह- ४६५ तत इति । ततः सः दीधितिमान् शरद्धनादिव उक्ष्णः अवतीर्य अद्रिपतेः कक्ष्यान्तराणि विवेश । ततः हिमालयभवनप्राप्त्यनन्तरं दीधितिमानादित्यः शरत्कालमेघादिव उक्ष्णः स्ववाहनभूताद् वृषाद् अवतीर्य कृतावतारः सन् अद्रिपतेः हिमवतः कक्ष्यान्तराणि कक्ष्याविशेषान् विवेश प्रविष्टवान्। अत्रावतरणमात्र एवोपमा। शरद्घनवृषयोर्गौरत्वं महाप्रमाणत्वं च साधारणो धर्मः, तेजस्वित्वं परमेश्वरदीधितिमतोः। यथा शरद्धनाद् दीधितिमानवतरति, तथा वृषादवतीर्येत्यर्थः । परमेश्वरस्य वाहनादवतारे भगवतो नारायणस्य सख्योचितां प्रवृत्तिमाहअच्युतदत्तहस्त इति। अच्युतेन नारायणेन दत्तो हस्तो यस्मै । अच्युतेन दत्तं हस्तमवलम्ब्यावतीर्येत्यर्थः । भगवतः पुरप्रवेशे कमलासनस्य माननीयत्वोचितां प्रवृत्तिमाह — कमलासनेन पूर्वं क्रान्तानि इति । कमलासनेन ब्रह्मणा । पूर्वम्, अग्रेगच्छतेत्यर्थः। क्रान्तानि । क्रमु पादविक्षेप’ इत्यस्माद् धातोर्निष्ठान्तमिदं रूपम् । कृतपदविन्यासानीत्यर्थः। भगवता सबहुमानमग्रेसरतां प्रापितेन परमेष्ठिना पूर्वमुपगतानि कक्ष्यान्तराणि हरः स्वयमेव पश्चादाविवेशेत्यभिप्रायः ॥ ६९ ॥ तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च । गणाश्च गिर्यालयमन्वगच्छन् यशस्यमारम्भमिवोत्तमार्थाः ॥७०॥ प्रकाशिका तमिति । अन्वगनुपदम्। आसन्नमित्यर्थः । अनेनानुगमने तेषामहमहमिका द्योत्यते । सप्तर्षयः पूर्वे पुरस्सरा येषाम् । आरम्भमनुष्ठानम् । उत्तमोऽर्थः प्रयोजनं येषाम् । महेच्छा इत्यर्थः । अत्रोपमानेनानुगमने तेषां सादरत्वं द्योत्यते ॥ ७० ॥ इन्द्रादीनां हिमवद्भवनप्राप्तिमाह- विवरणम् तमिति । इन्द्रप्रमुखा देवाः च सप्तर्षिमुख्याः परमर्षयः च गणाः च तम् अन्वग् गिर्यालयम् अन्वगच्छन् । इन्द्रो महेन्द्रः प्रमुखः प्रधानं येषां ते देवाश्च । सप्तर्षिमुख्याः सप्तर्षिप्रमुखाः । सप्तर्षिपूर्वा इति पाठे सप्तर्षयः पूर्वे पुरस्सरा येषामिति विग्रहः । परमा उत्कृष्टा ऋषयश्च गणा भूतगणाश्च तं परमेश्वरम् । अन्वग् ४६६ कुमारसम्भवे अनुपदम् । प्रत्यासन्नमित्यर्थः । अनुगमनक्रियाविशेषणं चेदम्। अनेन तेषामहमहमिकयानुगमनं द्योत्यते । गिरेः हिमवतः आलयं गृहम् अन्वगच्छन् अनुगमनं कृतवन्तः । तत्रादौ प्राधान्यादिन्द्रस्य तदनन्तरमन्येषां देवानां पुनश्च सप्तर्षीणाम्, अनन्तरमितरेषाम् ऋषीणां, पश्चात् तु भूतगणानामनुगमनमिति प्राधान्यक्रमोऽत्र विवक्षितः । परमेष्ठी पुनरतिप्राधान्यादग्रेसरतामुपगतः । नारायणस्तु सख्यातिशयेन हस्तग्रहणमेव गत इति ‘अच्युतदत्तहस्तः’ (७.६९) इत्यनेन द्योत्यते । एतेषां भगवदनुगमनमुपमिनोति — उत्तमार्थाः यशस्यम् आरम्भम् इव प्रयोजनं येषां ते तथा । महेच्छाः, महान्त इति यावत् । प्रयोजनेष्वाकाङ्क्षा भवति । यशसे हितं यशस्यम् आरम्भं महान्तो यशस्करं कर्मानुवर्तन्ते, तथेत्यर्थः । अनेनोपमानेन तेषामनुगमनादरो द्योत्यते ॥ ७० । तत्रेश्वरो विष्टरभाग् यथावत् सरत्नमर्घ्यं मधुमच्च गव्यम् । नवे दुकूले च नगोपनीतं । इति । उत्तमोऽर्थः नहि महतां क्षुद्रेषु प्रत्यग्रहीत् सर्वममन्त्रवर्जम् ॥७१॥ प्रकाशिका व्यापारमिव । यथा तत्रेति । तच्छब्देनात्र व्यवहितोऽप्यौचित्यादालयः परामृश्यते । विष्टरभाग् मधुपर्कप्रदानार्थं दत्ते विष्टरे निषण्णः । अर्घ्यम् अर्घार्थं जलम्। गव्यमत्र दधि विवक्षितम् । यथाश्वलायनः - ‘दधि मध्वानीय सर्पिर्वा मध्वलाभे’ नगोपनीतमिति युक्तः पाठः । अमन्त्रवर्णं मन्त्रसहितम् ॥ ७१ ॥ विवरणम् इत्थमुपगतभवनस्य भगवतो मधुपर्काद्युपायनमाह- इति । तत्रेति। ईश्वरः तत्र विष्टरभाक् सरत्नम् अर्घ्यं मधुमद् गव्यं नवे दुकूले च सर्वं नगोपनीतम् अमन्त्रवर्जं यथावत् प्रत्यग्रहीत् । ईश्वरः परमेश्वरः तत्र गिर्यालये । विष्टरमासनविशेषः, तद् भजतीति विष्टरभाक् । मधुपर्कप्रदानार्थं दत्ते विष्टरे उपविश्येत्यर्थः । सरत्नं रत्नसहितम्। नवरत्नादिभिः पवित्रितमित्यर्थः । अर्घः पूजा, तदर्थं जलमर्घ्यम् । मधुमद् मधु माक्षिकं तत्सहितम् । गव्यमत्र दधि विवक्षितम् । तदुक्तमाश्वलायनगृह्ये— ‘दधि मध्वानीय सर्पिर्वा मध्वलाभे’ इति । दधिमिश्रं मधु मधुपर्कमित्युच्यते । नवे अभिनवे दुकूले परिधानीयोत्तरीयवसने । चशब्दः सप्तमः सर्गः ४६७ समुच्चयार्थः । सर्वशब्देन पूर्वोक्तमर्ध्यादिवस्तुजातं परामृश्यते। नगेन हिमवतोपनीतं समीपं प्रापितं सत्। अमन्त्रवर्जमिति प्रतिग्रहक्रियाविशेषणम् । मन्त्रसहितमित्यर्थः । यथावद् यथाविधि प्रत्यग्रहीत् प्रतिगृहीतवान् । परमेश्वरो हिमवतः कक्ष्याविशेषे विष्टर उपविष्टो हिमवता कृतामर्घ्यपाद्यादिकां पूजां परिगृहीतवानित्यर्थः ॥ ७१ ॥ दुकूलवान् सोऽथ वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासकाशं स्फुटफेनराशि- र्नवैरुदन्वानिव चन्द्रपादैः ॥७२॥ प्रकाशिका दुकूलवानिति । परिहिततद्दत्तदुकूलः । विनीतैः प्रश्रितवेषभाषादिकैः । रक्षन्तीति रक्षाः । वेला अब्धिकूलम् । उपमानेन तदानीमप्यगाधत्वादयो धर्मा देवे स्फुटा इति ध्वन्यते ॥ ७२ ॥ विवरणम् अथ भगवतः पार्वतीपरिसरप्राप्तिमाह— दुकूलवानिति । अथ दुकूलवान् सः अवरोधरक्षैः वधूसमीपं निन्ये । अथ मधुपर्कादिदानानन्तरम्। दुकूलवान् परिहितनगोपनीपनीतदुकूल इत्यर्थः । सः परमेश्वरः। अवरोधमन्तःपुरं रक्षन्तीति अवरोधरक्षाः तैः । वृद्धकाञ्चुकीयैरित्यर्थः । अन्येषां वधूसमीपप्राप्तावनधिकारादिति भावः । वध्वाः पार्वत्याः समीपं निन्ये प्रापितोऽभूत्। अवरोधरक्षाणां भगवदग्रेसरत्वप्राप्तिसमुचितं भावविशेषमाहविनीतैरिति । प्रवणैः वेषभाषादिभिरित्यर्थः । अत्रोपमामाह - स्फुटफेनराशिः उदन्वान् नवैः चन्द्रपादैः वेलासकाशम् इव इति । स्फुटः प्रकटः फेनानां राशिः समूहो यस्य तादृशः उदन्वान् समुद्रः नवैरभिनवैः चन्द्रपादैश्चन्द्रस्य रश्मिभिः । ‘पादा रश्म्यङ्घ्रितुर्यांशा’ इत्यमरः । वेलायाः कूलस्य सकाशं समीपमिव । अत्र दुकूलस्य फेनोपमानेन धावल्यं प्रतिपादितम् । तच्च मङ्गलदुकूलाङ्गम् । देवस्योदन्वदुपमानेन ‘चन्द्रोदयारम्भ इवाम्बुराशिः’ (३.६७) इत्यत्रोक्ता धर्माः प्रतिपाद्यन्ते । अवरोधरक्षाणां चन्द्रपादोपमानेन जराधवलशरीरत्वादयो धर्माः प्रतिपादिताः । विनीतप्रतिवस्तुतया चन्द्रपादानां नवत्वमुपात्तम् । वृद्धा हि चन्द्रपादा अतिप्रकटा भवन्ति । समीपप्राप्तेरारम्भदशैवेयमित्यप्यनेन द्योत्यते । देव्या वेलोपमानेन लज्जापारतन्त्र्यान्निर्व्यापारत्वं भगवत्प्राप्तियोग्यत्वं च ध्वन्यते ॥ ७२ ॥ ४६८ तयेति । कुमारसम्भवे तया विवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या । प्रसन्नचेतस्सलिलः शिवोऽभूत् संसृज्यमानः शरदेव लोकः ॥७३॥ प्रकाशिका आननसदृशश्चन्द्र आननचन्द्र इत्यादेः समासस्याङ्गीकाराद् विशेषणानामुपमानान्वयित्वमपि द्रष्टव्यम् । प्रसादश्चेतसि हर्षः । सलिलेऽनाविलत्वम्। तया संसृज्यमान इत्यन्वयः ॥ ७३ ॥ विवरणम् देवीसङ्गमे देवस्य प्रसादातिशयं वर्णयति — तयेति । तया कुमार्या संसृज्यमानः शिवः प्रसन्नचेतस्सलिलः अभूत् । तया लोकोत्तरगुणविशिष्टया कुमार्या बालया संसृज्यमानः पदे पदे क्रमेण संसर्गमुपगच्छन् शिवः परमेश्वरः प्रसन्नं हृष्टं चेतस्सलिलं सलिलमिव चेतो यस्य । ‘उपमितं व्याघ्रादिभिः—’ (२.१.५६ ) इति समासः । तथाभूतोऽभूत्। स्वच्छत्वादिना चेतसः सलिलसादृश्यं द्रष्टव्यम् । अत्रोपमामाह – शरदा लोकः इवेति । संसृज्यमान इत्यत्राप्यनुषज्यते । यथा शरदा संसृज्यमानो लोकः प्रसन्नेचतस्सलिलो भवति, तथासावपीत्यर्थः । प्रसन्नमनाविलं चेतस्सलिलं चेतस्सदृशं सलिलं यस्येत्यत्रापि योज्यम्। उपमानोपमेययोः साधारणं धर्मं दर्शयिष्यन्नादौ देवीशरदोः साधारणं धर्ममाह–विवृद्धाननचन्द्रकान्त्या इति । विवृद्धा विशेषेण वर्धनं प्राप्ता चन्द्रसदृशस्याननस्य आननसदृशस्य चन्द्रस्य च कान्तिर्यस्यास्तया । शिवलोकयोः साधारणं धर्ममाह – प्रफुल्लचक्षुः कुमुद इति । प्रफुल्लं विकसितं कुमुदसदृशं चक्षुः चक्षुः सदृशं कुमुदं च यस्य स तथा । चन्द्रकान्तिविवृद्धौ कुमुदस्यैव विकास इति चक्षुषः कुमुदसादृश्यं, न तु कमलसादृश्यम् ॥ ७३ ॥

तयोः समापत्तिषु कातराणि किञ्चिद्व्यवस्थापितसंहृतानि । ह्रीयन्त्रणां तत्क्षणमन्वभूव- नन्योन्यलोलानि विलोचनानि ॥ ७४ ॥ सप्तमः सर्गः प्रकाशिका ४६९ तयोरिति । समापत्तिषु यदृच्छासमागमेषु । कातराण्यधृष्टानि । किञ्चिद्व्यवस्थापितानि अर्थादन्योन्योपरि । ह्रीयन्त्रणां लज्जायन्त्रितत्वम् । अन्योन्यं प्रति लोलानि सतृष्णानि चलानि च । अत्राद्याभ्यां विशेषणाभ्यां ह्रीयन्त्रणाप्रकार उक्तः, तृतीयेन हेतुः ॥ ७४ ॥ विवरणम् चिराभिलषितदर्शनयोस्तयोः परस्परदर्शने शृङ्गारचेष्टां वर्णयति- तयोरिति । तयोः विलोचनानि तत्क्षणं हीयन्त्रणाम् अन्वभूवन् । तयोः पार्वतीपरमेश्वरयोः विलोचनानि कटाक्षविक्षेपाः तत्क्षणं तस्मिन् क्षणे हिया लज्जया यन्त्रणां प्रतिबन्धम् अन्वभूवन् अनुबभूवुः । चिराभिलषितदर्शनयोः पार्वतीपरमेश्वरयोः परस्परकटाक्षविक्षेपास्तदानीं लज्जया परस्परदर्शनाक्षमा बभूवुरित्यर्थः । हीयन्त्रणायाः प्रकारमेव विशेषणद्वयेनाह - समापत्तिष्वित्यादिना । समापत्तिषु कातराणि । समापत्तिर्यदृच्छया समागमः । तेषु कातराणि अधृष्टानि । यदा कटाक्षाणां यदृच्छया परस्परसमागमः, तदा शालीनतासहितानीत्यर्थः । अत एव किञ्चिद्व्यवस्थापितसंहतानि । अन्योन्योपरि किञ्चिद्व्यवस्थापितानि स्थिरीकृतानि पुनस्तदानीमेव लज्जया संहतानि व्यावर्तितानि च । किञ्चिव्यवस्थापितानि संहृतानि चेति समासः । दर्शनौत्सुक्यमाह — अन्योन्यलोलानीति । अन्योन्यं प्रति लोलानि सतृष्णानि । ‘लोलश्चलसतृष्णयोरि’त्यमरः ॥ ७४ ॥ तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः । उमात्मना गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् ॥७५॥ प्रकाशिका तस्या इति । गुरुः पुरोधाः । उमात्मना उमाशरीरेण तच्छङ्किन इति गृहने हेतुः । अत्र ताम्राङ्गुलिप्रतिवस्तुनो नवप्रवालस्य प्ररोहविशेषणत्वेनानुपादानमव्यभिचारेण प्रतीतेः । उत्प्रेक्षया च मनोविकारहेतुत्वं ध्वनितम्॥ ७५ ॥ पाणिग्रहणमेव वर्णयति- विवरणम् तस्या इति । अष्टमूर्तिः तस्याः करं जग्राह । अष्टमूर्तिः परमेश्वरः तस्या करं ४७० कुमारसम्भवे जग्राह समन्त्रं गृहीतवान् । कथं जग्राहेत्यत्राह - शैलगुरूपनीतमिति । शैलस्य हिमवतो गुरुः पुरोहितः, तेनोपनीतं प्रसारितम् । हिमवत्पुरोहितवचनेन हरान्तिकं नीतमिति यावत्। करस्य दर्शनसमय एव मनोहारित्वमाह — ताम्राङ्गुलिमिति । ताम्राः रक्तवर्णाः अङ्गुलयो यस्य तम्। तादृशं करमुत्प्रेक्षते - तच्छङ्किनः उमात्मना गूढतनोः स्मरस्य पूर्वं प्ररोहमिव । तस्मादष्टमूर्तेः शङ्कितुं शीलमस्येति तथा । स्वानुभूतो देहदाहोऽत्र शङ्काहेतुः । शङ्काया अनुभावमाह - उमात्मना गूढतनोरिति । उमात्मना उमाशरीरेण गूढा छन्ना तनुः शरीरं यस्य तस्य स्मरस्य कामदेवस्य । पूर्वं प्रथमोद्गतं प्ररोहम् अङ्कुरमिव । उत्प्रेक्षया दर्शनमात्रेणैव मनोविकारहेतुत्वं ध्वन्यते । अत्र ताम्राङ्गुलिप्रतिवस्तुत्वेन नवप्रवालमिति प्ररोहस्यापि विशेषणमर्थाद् द्रष्टव्यम्। तच्चानुक्तमपि प्ररोहस्य नवप्रवालाव्यभिचारात् प्रतीयत इति महाकविनैवमुक्तम् ॥ ७५ ॥ रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गलिः पुङ्गवकेतुरासीत्। वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥७६॥ प्रकाशिका रोमोद्गम इति । अस्यार्थस्य ‘कन्या तु प्रथमसमागम’ इत्यादिवात्स्यायनवचनविरोधाशङ्का रघुवंशप्रकाशिकायाम् ‘आसीद् वरः कण्टकितप्रकोष्ठः ’ (७.२२) इत्यादि श्लोकप्रसङ्गे निराकृता । मनोभवस्य व्यापारस्तदानीं पाणिसमागमेन कर्त्रा तयोर्द्वयोरन्यूनानतिरिक्तत्वेन विभक्त इवेत्यर्थः ॥ ७६ ॥ विवरणम् प्रवृद्धरागयोस्तयोः पाणिसमागमस्यापि सम्भोगतुल्यकक्ष्यतामाह- रोमोद्गम इति । उमायाः रोमोद्गमः प्रादुरभूत् । रोमोद्गमः रोमाञ्चः प्रादुरभूत् प्रकाशोऽभूत् । ‘प्रकाशे प्रादुराविः स्यादित्यमरः । हरस्यापि तादात्विकं वृत्तमाहपुङ्गवकेतुः स्विन्नाङ्गुलिः आसीदिति । पुङ्गवो वृषः केतुर्ध्वजचिह्नं यस्य सः । परमेश्वर इत्यर्थः । स्विन्नाः स्वेदयुक्ताः अङ्गुलयो यस्य स तथा । ननु वात्स्यायने ‘कन्या तु प्रथमसमागमे स्विन्नकरचरणाङ्गुलिः सन्नतमूर्तिश्च भवति । पुरुषस्तु रोमाञ्चितो भवति । एभिरनयोर्भावं परीक्षेते’त्युक्तम् । अतः कामशास्त्रविरुद्धमिदं वचनमिति चेत् । मैवम् । सात्त्विकविकाराणां स्त्रीपुरुषसाधारणत्वात् तद् वात्स्यायनवचनमुपलक्षणमेव । अत एव रघुवंशे ‘आसीद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलि संववृते कुमारी’(रघु. ७. २२ ) इत्युक्तम् । सप्तमः सर्गः तस्य स्फुरत्फणगणप्रतिपालनोत्थं कम्पं च वीक्ष्य पुलकं च ततो नु तस्या । सञ्जातसात्त्विकविकारधियः स्वभृत्यान् नृत्यान्यषेधदुरगाधिपतिर्विलक्षः ॥ (११.२९) ४७१ इति नैषधकाव्येऽपि। उभयोरप्येवंविधसात्त्विकविकारप्रतिपादने फलितमर्थमुत्प्रेक्षामुखेन दर्शयति - मनोभवस्य वृत्तिः पाणिसमागमेन तयोः समं विभक्ता इव इति । वृत्तिर्व्यापारः । पाण्योः करयोः समागमेन परस्परसङ्गेन कर्त्रा । तयोरित्यधिकरणसप्तमी । पार्वतीपरमेश्वराभिधाने मिथुन इत्यर्थः । समम् अन्यूनातिरिक्तत्वेन विभक्ता कृतविभागाभूदिव । कामदेवव्यापाराः पाणिग्रहणसमये पाणिसमागमेनैव तस्मिन् मिथुने समविभागाः कृता इवेत्यर्थः ॥ ७६ ॥ प्रयुक्तपाणिग्रहणं यदन्यद् वधूवरं पुष्यति कान्तिमग्र्याम् । सान्निध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥७७॥ प्रकाशिका प्रयुक्तेति । अन्यल्लौकिकम् । वधूवरं ‘सर्वो द्वन्द्वो विभाषैकवद्भवती ‘ति । प्रयुक्तविवाहं यल्लौकिकं वधूवरं, तदप्यनयोर्देवीदेवयोः सान्निध्ययोगादग्र्यां कान्ति पुष्यति । तस्मिन् काले तस्य मिथुनस्य कान्तिः किं कथ्यत इत्यर्थः ॥ ७७ ॥ विवरणम् पाणिग्रहणानन्तरं कृतकृत्ययोस्तयोः कान्तिविशेषं वर्णयति- प्रयुक्तेति । प्रयुक्तपाणिग्रहणम् अन्यद् यद् वधूवरं, तद् अनयोः सान्निध्ययोगाद् अग्र्यां कान्ति पुष्यति । प्रयुक्तं कृतं पाणिग्रहणं विवाहो यस्य तादृशं सद् अन्यत् लौकिकम् । वधूर्वरश्च वधूवरम्। सर्वो द्वन्द्वो विभाषयैकवद् भवती’त्येकवद्भावादेव नपुंसकत्वमपि । अनयोः पार्वतीपरमेश्वरयोः सान्निध्यस्य सन्निधानस्य योगाद् अग्र्यां लोकोत्तरां कान्ति द्युतिं पुष्यति प्राप्नोति । कृतविवाहं सदन्यद् यल्लौकिकं वधूवरं, तत् पार्वतीपरमेश्वरसान्निध्यवशादेव लोकोत्तरकान्तियुक्तं भवतीत्यर्थः । ‘वधूरुमात्मिका भर्ता विवाहे शङ्करात्मकः’ इति वचनादिति भावः । नन्वनेन वाक्येन प्रकृते किमायातमित्यत्राह — तदानीं तस्य उभयस्य श्रीः किं कथ्यते इति । तदानीं पाणिग्रहणावसानसमये तस्योभयस्य पार्वतीपरमेश्वराभिधानस्य ४७२ कुमारसम्भवे मिथुनस्य श्री ः शोभा किं कथ्यते । अवाङ्मनसगोचरैवैत्यर्थः । यत्सन्निध्यमात्रेणैव लौकिकमिथुनं लोकोत्तरां कान्तिमनुभवति विवाहसमये, तस्यैव मिथुनस्य कान्तिः किं कथ्यते इत्यर्थः ॥ ७७ ॥ प्रदक्षिणप्रक्रमणात् कृशानो- रुदर्चिषस्तन्मिथुनं बभासे । मेरोरिवान्ते परिवर्तमान- मन्योन्यसंसक्तमहस्त्रियामम् ॥७८॥ प्रकाशिका प्रदक्षिणेति । उदर्चिष इति मेरुसाम्यसिद्ध्यर्थम् । अन्योन्यसंसक्तं निर्व्यवधानम्। अनेन गृहीतपाणिक मिथुनसाम्यं साध्यते ॥ ७८ ॥ विवरणम् पाणिग्रहणानन्तरं विहितमग्निप्रदक्षिणं वर्णयति-

प्रदक्षिणेति । उदर्चिषः कृशानोः प्रदक्षिणप्रक्रमणात् तद् मिथुनं बभासे । उदर्चिषः उद्गतार्चिषः । इन्धनादिभिरिद्धस्येत्यर्थः । एतच्च विशेषणं मेरुसाम्यसिद्ध्यर्थम् । मेरुरपि सुवर्णरत्नार्चिरुज्ज्वलो भवति । कृशानोरग्नेः प्रदक्षिणेन प्रक्रमणाद् गमनाद्धेतोः तद् मिथुनं पार्वतीपरमेश्वराभिधानं द्वन्द्वं बभासे शुशुभे । अत्रोपमामाह – मेरोः अन्ते परिवर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् इव इति । मेरोः महामेरोः अन्ते उपान्ते परिवर्तमानं परितः प्रादक्षिण्येन वर्तमानम् । अन्योन्यसंसक्तं परस्परं संसक्तम् । निर्व्यवधानमित्यर्थः । अहश्च त्रियामा च अहस्त्रियामम्। अत्रापि पूर्ववदेकवद्भावनपुंसकत्वे । अत्रान्योन्यसंसक्तमिति विशेषणं परस्परगृहीतहस्तमिथुनसाम्यसिद्ध्यर्थम् । यथा महामेरोरुपान्ते परस्परमविश्लेषेण वर्तमानमहस्त्रियामं शोभते, तथाग्निप्रदक्षिणसमये तन्मिथुनमपि शुशुभेतरामित्यर्थः । तत्र पार्वतीपरमेश्वरात्मकस्य मिथुनस्य संसक्ताहस्त्रियामसाम्यप्रतिपादनेन तत्संयोगस्यापि नित्यत्वमुक्तम् ॥ ७८ ॥ तौ दम्पती त्रिः परिणीय वह्नि- मन्योन्यसंस्पर्शनिमीलिताक्षौ । स कारयामास वधूं पुरोधा- स्तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥७९॥ अण सप्तमः सर्गः प्रकाशिका ४७३ ताविति । परिणीय परितो नीत्वा । प्रदक्षिणं कारयित्वेत्यर्थः । अन्योन्येत्यादिना प्रदक्षिणकरणस्य प्रयोजकव्यापारसापेक्षत्वमुक्तम्॥ ७९ ॥ लाजहोमं वर्णयति- विवरणम् ताविति । सः पुरोधाः तौ दम्पती वह्नि त्रिः परिणीय समिद्धर्चिषि तस्मिन् वधूं लाजमोक्षं कारयामास । स पुरोधाः हिमवत्पुरोहितः । तौ दम्पती भार्यापतीं ‘दम्पती जम्पती भार्यापती’ इत्यमरः । वह्निं विवाहसाक्षिभूतमग्नि त्रिः परिणीय त्रिवारं परितो नीत्वा । प्रदक्षिणत्रयं कारयित्वेत्यर्थः । समिद्धं सम्यगिद्धमर्चिः ज्वाला यस्य तस्मिन्। तच्छब्देनाग्निः परामृश्यते । वधूं पार्वतीं लजानां मोक्षं होमं कारयामास कारितवान् । अत्र प्रदक्षिणे प्रयोज्यत्वं दम्पत्योः, लाजमोक्षे वध्वाः । उभयोरपि प्रदक्षिणकरणे प्रयोजकव्यापारसापेक्षत्वमाह-अन्योन्यसंस्पर्शनिमीलिताक्षाविति । अन्योन्यस्य परस्परस्य संस्पर्शेन । करग्रहणजनितेन सुखेनेत्यर्थः । निमीलिते नितरां मीलिते अक्षिणी नयने याभ्याम् । तेन उभयोरपि नेत्रव्यापारवैधुर्यात् पुरोहितोपदिष्टमार्गेणैव प्रदक्षिणमिति भावः । अत्र निमीलिताक्षत्वं स्पर्शसुखस्यानुभावः ॥ ७९ ॥ सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद् वदनं निनाय । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ८० ॥ प्रकाशिका सेति । गुरूपदेशाद् धूमाग्रमञ्जलिनादाय पिबेत्येवंरूपात् । तथाविधस्य धूमस्य कर्णोत्पलत्वमसम्भवदुपमां कल्पयतीति निदर्शनात्रालङ्कारः ॥ ८० ॥ विवरणम् सेति । सा गुरूपदेशात् लाजधूमाञ्जलिं वदनं निनाय । गुरोः पुरोहितस्योपदेशाद् धूमाग्रमञ्जलिना गृहीत्वा वदनं नयेत्येवंरूपात् । लाजहोमजनितं धूमं पार्वती कराञ्जलिना निजवदनमानीयाघ्रातवतीत्यर्थः । ‘लाजाञ्जलिं विसृज्य धूमाग्रं समाजिघ्रेदिति प्रयोगवृत्तिकारवचनमत्र प्रमाणम्। गुरुनियोगविहितस्यास्य कर्मणस्तात्कालिकं सुखकरत्वं चास्तीत्याह-इष्टगन्धमिति । इष्टः अभीष्टो गन्धो४७४ कुमारसम्भवे यस्य तम्। सुरभिमित्यर्थः । तात्कालिकं शोभाजनकत्वं चाह— कपोलयोर्गण्डयोः सम्यग् व्याप्तुं शीलमस्या इति कपोलसंसर्पिणी। तादृशी शिखा अग्रं यस्य स तथा। स लाजधूमाञ्जलिः मुहूर्तं क्षणमात्रं कर्णोत्पलतां कर्णालङ्कार-भूतनीलोत्पलत्वं प्रपेदे प्राप्तोऽभूत् । यावदसौ धूमाञ्जलिर्गण्डप्रदेशादूर्ध्वभागं न जगाम, तावदेवासावस्याः कर्णोत्पलसाम्यं प्राप्तोऽभूदित्यर्थः । निदर्शनात्रालङ्कारः ॥ ८० ॥ तदीषदार्द्रारुणगण्डरेख- मुच्छ्वासिकालाञ्जनरागमक्ष्णोः । वधूमुखं क्लान्तयवावतंस- माचारधूमग्रहणाद् बभूव ॥८१॥ प्रकाशिका तदिति । आर्द्रं स्विन्नम् । उच्छ्वासिकालाञ्जनरागं बाष्पक्लिन्नत्वादुद्रिक्तकालाञ्जनवर्णम्। मुखस्य तदेककालभाविभिरेभिर्धर्मैरपूर्वशोभाभाजनत्वं ध्वन्यते ॥ ८१ ॥ विवरणम् देवीमुखस्य तदानीमन्यादृशी काचिदपूर्वा शोभा संजातेत्याह- तदिति । तद् वधूमुखम् आचारधूमग्रहणाद् ईषदार्द्रारुणगण्डरेखम् अक्ष्णोः उच्छ्वासिकालाञ्जनरागं क्लान्तयवावतंसं बभूव । वध्वा नवोढायाः मुखं वदनम् आचारधूमग्रहणात् सदाचारप्राप्ताद् धूमग्रहणाद् धूमस्य ग्रहणादादानाद् ईषदार्द्रा धूमोष्मणा किञ्चित् स्विन्ना अरुणा रक्तवर्णा च गण्डरेखा गण्डप्रदेशो यस्य तत् तथा । अक्ष्णोरिति सप्तमी । नयनयुगले उच्छ्वासी उच्छ्वसनशीलः किञ्चिदुच्छूनतां प्राप्तः कालाञ्जनस्य रागो वर्णो यस्य तत् तथा । बाष्पक्लिन्नत्वमत्र हेतुः । क्लान्तो धूमोष्मणा किमपि म्लानिं प्राप्तः यवावतंसो यवाङ्कुरमयः कर्णालङ्कारो यस्य तत् तथा । चशब्दोऽत्रार्थाद् द्रष्टव्यः । ईषदुष्णस्य तस्य धूमस्य ग्रहणात् तदानीं देव्या वदनं स्विन्नारुणगण्डम् ईषदुच्छूनाञ्जननयनं परिम्लानयवाङ्कुरावतंसं च बभूव । अनेन कान्त्यतिशयो ध्वन्यते ॥ ८१ ॥ वधूं गिरिः प्राह तवैष वत्से ! वह्निर्विवाहं प्रति पूर्वसाक्षी । शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥८२॥ सप्तमः सर्गः प्रकाशिका ४७५ वधूमिति । पूर्वः प्रथमः । अनेन साक्ष्यन्तराणामादित्यादीनामपि सद्भावः सूचितः । मुक्तविचारयेति एतच्चरितेषु सदसच्चिन्तां विहायेत्यर्थः । अयं च प्राजापत्यो विवाहः । ‘सह धर्मं चरतम् इति प्राजापत्य’ (गृ.१.६.१) इत्याश्वलायनवचनात् ॥ ८२ ॥ विवरणम् सहधर्मचरणविधानमाह- वधूमिति । गिरिः वधूं प्राह । गिरिर्हिमवान् वधूं नवोढां पार्वतीं प्राह उवाच । तिङ्प्रतिरूपकमव्ययमेतत् । पञ्चानां ब्रुवआद्यानामाहादेशः स्मृतो लटि । आहेत्येतदतीते तिङ्प्रतिरूपकमव्ययम्॥ इति भोजः । वचनप्रकारमाह - वत्से ! एष वह्निः तव विवाहं प्रति पूर्वसाक्षी । एष विवाहार्थं पुरोभागे संभृतो वह्निरग्निः पूर्वसाक्षी प्रथमः साक्षी । ‘आदित्यचन्द्रावनिल’ इत्यादिस्मृतावादित्यादीनां यद्यपि सर्वकर्मसु साक्षित्वं प्रसिद्धं, तथापि विवाहे बह्निरेव प्रथमः साक्षीति च प्रसिद्धमेवेति द्योतयितुं पूर्वशब्दः । अस्तु साक्षी । मया तु किंकर्तव्यमित्यत्राह — त्वया मुक्तविचारया शिवेन भर्त्रा सह धर्मचर्या कार्या इति । मुक्तः परित्यक्तो विचारो यया तथाभूतया सत्या । शिवचरितेषु सदसच्चिन्तामपहायेत्यर्थः । धर्मचर्या धर्मानुष्ठानम् । अनेन प्राजापत्यो विवाहोऽत्र निर्व्यूढ इति दर्शितम् । ‘सह धर्मं चरतम् इति प्राजापत्य’ इत्याश्वलायनवचनात् ॥ ८२ ॥ आलोचनान्तं श्रवणे विवृत्य पीतं गुरोस्तद् वचनं भवान्या । निदाघकालोल्बणभेदयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ ८३ ॥ प्रकाशिका आलोचनेति । आलोचनान्तं लोचनसमीपावधि । अनेन श्रवणलोचनयोरल्पान्तरत्वमपि द्योत्यते । पीतमित्यादरातिशयद्योतकम् । उल्बणो भेदो विणं यस्याः ॥ ८३ ॥ ४७६ कुमारसम्भवे विवरणम् देव्यास्तद्वचनानुष्ठानोपादानप्रकारमाह- आलोचनेति । भवान्या गुरोः तद् वचनं श्रवणे आलोचनान्तं विवृत्य पीतम् । भवान्या भवपत्न्या । इदानीं भवानीति संज्ञापि जातेत्यनेन द्योत्यते । गुरोः पितुर्हिमवतः तत् सहधर्मचर्याविधायकं वचनं श्रवणे श्रोत्रे आलोचनान्तं लोचनसमीपावधि विवृत्य विदार्य । देव्याः श्रवणलोचनयोर्यदल्पान्तरत्वं स्वाभाविकं, तद् गुरुवचनश्रवणकौतुकेन श्रोत्रयोस्तदानीमत्यन्तविवृतत्वादेवेत्युत्प्रेक्षागर्भेयमुक्तिः । अत्र श्रवणे पानोपचारेण सतृष्णश्रवणत्वमुक्तम् । तेन चादरातिशयो द्योत्यते । अत्रोपमामाह – निदाघकालोल्बणभेदया पृथिव्या माहेन्द्रं प्रथमम् अम्भ इव इति । निदाघकाले घर्मकाले उल्बण उद्रिक्तो भेदो विदारणं यस्यास्तया पृथिव्या भूम्या | माहेन्द्रं महेन्द्रस्येदम्। वर्षजमित्यर्थः । प्रथमम् आद्यम् अम्भो जलमिव । यथा पृथिव्या प्रथमं जलं पीयते, तथा द्वितीयादि नाद्रियत इति प्रथमशब्दोपादानम् । अयं च प्रथमशब्दो वचनस्य सहधर्मचर्याविधायकत्वविशेषणप्रतिवस्तुतयोपात्तः, अम्भः शब्दो वचनप्रतिवस्तुतया, माहेन्द्रशब्दो गुरुप्रतिवस्तुतया च । विदारणस्य श्रोत्रप्रतिवस्तुत्वं पृथिव्या भवानीप्रतिवस्तुत्वं च स्पष्टम् ॥ ८३ ॥ ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य हीसन्नकण्ठी कथमप्युवाच ॥८४॥ प्रकाशिका ध्रुवेणेति । ध्रुवेण भर्त्रा शाश्वतेन पत्या । अनेन वर्ण्यमानेषु शिवचेष्टितेषु लीलासिद्धत्वं कविरनुसन्धत्त इति द्योत्यते । ध्रुवो नक्षत्रविशेषः । प्रियदर्शनेनेति अन्यत्र द्रष्टव्यबुद्धिरेव नास्या इति द्योतयति ॥ ८४ ॥ REMIT ध्रुवदर्शनमाह- विवरणम् ध्रुवेणेति । ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना सा आननम् उन्नमय्य दृष्ट इति कथमपि उवाच। ध्रुवेण शाश्वतेन । जननविनाशशून्येनेत्यर्थः । अनेन विशेषणेन । कविरुक्तेषु वक्ष्यमाणेषु च पार्वतीपरमेश्वरयोश्चरितेषु केवललीलासिद्धत्वमनुसन्दधाति । भर्त्रा पत्या ध्रुवदर्शनाय ध्रुवस्योत्तराशास्थितस्य नक्षत्रविशेषस्य दर्शनायावलोकनाय । सप्तमः सर्गः ४७७ इदं तु ध्रुवदर्शनमरुन्धतीसप्तर्षीणामप्युपलक्षणम्। ‘ध्रुवमरुन्धतीं सप्तर्षीनिति दृष्ट्वा वाचं विसृजेद्’ (गृ. १.७.२२) इत्याश्वलायनवतनात् । प्रयुज्यमाना प्रेर्यमाणा । ध्रुवोऽयमत्र तिष्ठति, तं पश्येति सहस्ताभिनयमुच्यमानेत्यर्थः । आननं वदनमुन्नमय्योत्क्षिप्य । ध्रुवस्योर्ध्वदेशवर्तित्वात् तद्दर्शनार्थमत्र वदनोन्नमनम्। दृष्टः अवलोकितो ध्रुव इति लज्जया कथमप्युवाच उक्तवती । प्रियशरीरव्यतिरिक्तानामर्थानां दर्शनं तन्नियोगादेवास्या इत्याह-प्रियदर्शनेनेति । प्रियं लोकोत्तरसौन्दर्यत्वादिष्टं दर्शनं यस्य तेन । देवस्य यो योऽवयवो दृष्टः, तत्र तत्र नेत्रद्वयं निमज्जति। अतः कथमन्यदर्शनाकाङ्क्षेति भावः । कथमप्युवाचेति यदुक्तं, तत्र हेतुमाह - ह्रीसन्नकण्ठीति । ह्रिया लज्जया सन्नो निरुद्धः कण्ठः स्वरो यस्याः सा तथा ॥ ८४ ॥ इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ । प्रणेमतुस्तौ पितरौ प्रजानां 1 पद्मासनस्थाय पितामहाय ॥८५॥ प्रकाशिका इत्थमिति । प्रकृतमर्थं पुरोहितप्रयोगप्रकारत्वेन परामृशतेत्थंपदेन ध्रुवदर्शनस्यापि तत्प्रयुक्तत्वमवधार्यते । पाणिग्रहणोपचाराः अग्निप्रदक्षिणादयः । प्रजानां पितरावित्यनेन विश्वकारणभूतयोस्तयोः कुलवृद्धस्य ब्रह्मणः प्रणामो लौकिकाचारानुसरणमात्रमिति द्योतयति । प्रथमं लोकमान्यत्वाद् ब्रह्मा देवेन शिरः कम्पेन सम्भावितः, इदानीं तु वधूकुलकूटस्थत्वात् प्रणामेनेति विशेषः ॥ ८५ ॥ EP विवरणम् शास्त्रसिद्धं कर्म समाप्य लोकसिद्धं कर्म वर्णयति इत्थमित्यादिना । तत्र जगत्पूज्यस्य ब्रह्मणः प्रणामं वर्णयत्यनेन इत्थमिति । विधिज्ञेन पुरोहितेन इत्थं प्रयुक्तपाणिग्रहणोपचारी ती पद्मासनस्थाय पितामहाय प्रणेमतुः । विधि जानातीति विधिज्ञः । शस्त्रज्ञेनेत्यर्थः । अनेनानुष्ठापनप्रावीण्यमुक्तम्। पुरोहितेनोपाध्यायेन इत्थं पूर्वोक्तप्रकारेण । अनेन पूर्वोक्तस्य सर्वस्याप्यर्थजातस्य पुरोहितप्रयुक्तत्वं द्योतयता भगवत्कृतस्य ध्रुवदर्शनप्रेरणस्यापि तस्यैव प्रयोजककर्तृत्वमिति ध्वन्यते। प्रयुक्ता कारिताः ४७८ कुमारसम्भवे पाणिग्रहणे विवाहे उपचारा अग्निप्रदक्षिणादयो ययोस्तौ पार्वतीपरमेश्वरौ। पद्ममेवासनं पद्मासनं, तत्र स्थिताय । नारायणनाभिकमलाधिष्ठितायेत्यर्थः । अनेन जगत्पूज्यत्वं ध्वन्यते। पितामहाय ब्रह्मणे प्रणेमतुर्नमश्चक्रतुः । पार्वतीपरमेश्वरकर्तृकोऽयं पितामहप्रणामो लौकिकाचारानुसरणमात्रेणैवेत्याहप्रजानां पितराविति । ब्रह्मादिस्तम्बपर्यन्तानां जीवानां पितरौ मातापितरौ । लोकानुरणादेव देवः पूर्वमपि शिरः कम्पेन तं सम्भावितवान्, इदानीं तु वधूसनाथः प्रणामेनेति भाव ॥ ८५ ॥ वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि ! वीरप्रसवा भवेति । वाचस्पतिः सन्नपि सोऽष्टमूर्ते- राशास्यचिन्तास्तिमितो बभूव ॥ ८६ ॥ प्रकाशिका वधूरिति । प्रतिनन्दनमाशीः । वाचस्पत्तिर्वाण्याः पतिः । अष्टमूर्तिपदेन परमपरिपूर्णत्वं द्योत्यते। देव्या अपि वस्तुतः परिपूर्णत्वेऽपि आशीः पात्रत्वमपह्नुतवैभवत्वात्॥८६॥ परमेष्ठिन आशीर्वादप्रकारमाह-

विवरणम् वधूरिति । विधात्रा वधूः प्रतिनन्द्यते स्म । विधात्रा ब्रह्मणा वधूः नवोढा पार्वती प्रतिनन्द्यते स्म । प्रतिनन्दनमत्रार्थादाशीर्वादः । आशीर्भिरनुगृहीताभूदिति भावः । आशीर्वादमेव प्रदर्शयति – कल्याणीत्यादिना । कल्याणि ! त्वं वीरप्रसवा भव इति । कल्याणि ! हे मङ्गलशीले ! वीरो लोकोत्तरप्रतापः प्रसवः पुत्रो यस्याः सा वीरप्रसवा । वीरपुत्रा भवेत्यर्थः । इतिशब्दः प्रकारवाची । तारकाद्यसुरनिग्रहादिकार्यलाभत्वरया विस्मृतदेवीवैभवो विधाता तस्यै तदनुगुणमाशीर्वादं कृत्वा चतुर्दशभुवननायकस्य परमेश्वरस्याशीर्वादे मूकोऽभूदित्याह — सः वाचस्पतिः सन् अपि अष्टमूर्तेः आशास्यचिन्तास्तिमितो बभूव । सः विधाता वाण्याः पतिः सन्नपि भवन्नपि । तेन अपिशब्दो विरोधवाची । अष्टमूर्तिशब्देनात्र परिपूर्णत्वं द्योत्यते, चाशिषामविषयत्वम्। आशिषो प्रतिपाद्यमाशास्यं तद्विषयया चिन्तया विचारेण स्तिमितो निश्चलो बभूव । परिपूर्णस्यास्य किमल्पैरस्माभिराशास्यमिति चिन्तया तूष्णीमेवावस्थितोऽभूदित्यर्थः ॥ ८६ ॥ सप्तमः सर्गः क्लृप्तोपचारां चतुरन्तवेदिं तावेत्य पश्चात् कनकासनस्थौ । जायापती लौकिकमेषितव्य- मार्द्राक्षतारोपणमन्वभूताम्॥८७॥ प्रकाशिका ४७९ क्लृप्तेति । उपचारः पूर्णकुम्भादिः । लौकिकं लोकाचारसिद्धम् । एषितव्यं बन्धुभिरभिलषणीयमित्यर्थः ॥ ८७ ॥ लोकाचारसिद्धमक्षतधारणमाह- विवरणम् क्लृप्तेति । तौ जायापती पश्चात् चतुरन्तवेदिमेत्य कनकासनस्थौ लौकिकम् एषितव्यम् आर्द्राक्षतारोपणम् अन्वभूताम् । जायापती भार्यापती । पश्चाद् वृद्धजनाभिवादनप्रत्यभिवादनयोरनन्तरम् । चत्वारोऽन्ताः कोणा यस्यास्तादृशीं वेदि मण्डपविशेषम्। चतुरश्रमण्डपमित्यर्थः । एत्य संप्राप्य कनकमये सुवर्णमये आसने स्थितौ भूत्वा लौकिकं लोकाचारसिद्धम् । अत एव एषितव्यं बन्धुजनैरित्यर्थात् । बन्धुभिरभिलषणीयमित्यर्थः । शिवयोस्तु परिपूर्णत्वान्न किञ्चिदप्यभिलषणीयमस्तीति भावः। आर्द्राणामक्षतानाम् । ‘सहरिद्रजलेनात्तो मङ्गल्यस्तण्डुलाक्षत’ इति भोजः । आरोपणं स्वाङ्गेषु विकिरणम् अन्वभूतामनुभूतवन्तौ । मण्डपस्यापि लोकाचारसिद्धमितिकर्तव्यमाह— क्लृप्तोपचारामिति । क्लृप्ता रचिता उपचाराः पूर्णकुम्भादयो यस्यां तथाभूताम् । गन्धोदकप्रोक्षणपुष्पमालालम्बनपूर्णकलशादिभिरलङ्कृते चतुष्कोणमण्डपे प्राङ्मुखमुपविश्य पार्वतीपरमेश्वरौ बन्धुजनैर्विकीर्यमाणस्याक्षतस्य धारणमनुबभूवतुरित्यर्थः ॥ ८७ ॥ पत्रान्तलम्बैर्जलबिन्दुवर्षे- राक्रुष्टमुक्ताफलजालशोभम् । तयोरुपर्यायतनालदण्ड- माधत्त लक्ष्मीः कमलातपत्रम्॥८८॥ विवरणम् अथ तदवसरे देवैः क्रियमाणः शिवयोः सेवाप्रकारश्चतुर्भिः श्लोकैर्वर्ण्यते । तत्रादौ लक्ष्म्याः सेवाप्रकारमाह— ४८० कुमारसम्भवे पत्रान्तेति । लक्ष्मीः तयोरुपरि कमलातपत्रम् आधत्त । लक्ष्मीः श्रीः तयोः पार्वतीपरमेश्वरयोः उपरि उपरिभागे कमलातपत्रं कमलमेवातपत्रं श्वेतच्छत्रम् आधत्त धृतवती । लक्ष्मीः स्वयमेव मूर्तिमती सती पार्वतीपरमेश्वरयोरुपरि कमलमयं श्वेतच्छत्रमाधत्तेत्यर्थः । कमलस्यातपत्रत्वरूपणे हेतुमेव स्फुटयतिपत्रान्तेत्यादिना विशेषणद्वयेन। पत्रान्तलम्बैः जलबिन्दुवर्षेः आक्रुष्टमुक्ताफलजालशोभम् । पत्राणां दलानामन्तेऽग्रे लम्बन्त इति पत्रान्तलम्बाः तैः । जलानां बिन्दवो जलबिन्दवः तेषां वर्षैः । आक्रुष्टा निन्दिता मुक्ताफलजालानां मौक्तिकनिकुरम्बाणां शोभा येन तत् । श्वेतच्छत्रं हि लम्बमानहारपटलपर्यन्तभागं भवति । अत्र तु पत्रान्तलम्बमानैर्जलबिन्दुभिर्मौक्तिकानां शोभाप्यभिभूयत इति भावः । अत्र जलबिन्दुवर्षेणाभिनवत्वमुक्तम्। तेन च शोभाधिक्यं ध्वन्यते । तथा आयतनालदण्डम् । आयतं दीर्घं नालमेव दण्डो यस्य तत् ॥ ८८ ॥ ॥ [ पद्यस्यास्य प्रकाशिका नास्ति ] द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव । संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥ ८९ ॥ प्रकाशिका द्विधेति । सरस्वती मूर्तिमती भगवती । वाग्देवता । तदित्यतिलोकतया परामृशति । नुनाव तुष्टाव । द्वैविध्यं प्रति नियमं च दर्शयति-संस्कारेति । संस्कारो व्याकरणानुसरणम्। वरेण्यं श्रेष्ठम्। अनेनोत्तमनायकत्वात् संस्कृतयोग्यत्वमुक्तम्। सुखग्राह्यनिबन्धनेन देशभाषयेत्यर्थः, ‘स्त्रीषु नाप्राकृतं वदेदिति वचनात् ॥ ८९ ॥ विवरणम् सरस्वत्याः सेवाप्रकारमाह- द्विधेति । सरस्वती च तद् मिथुनं स्त्रीपुरुषयुग्मम् । द्विधा प्रयुक्तेन वक्ष्यमाणविधद्वयमनुसृत्य प्रयुक्तेन वाङ्मयेन वाग्जालेन नुनाव तुष्टाव । ’ णू स्तवन’ इति धातुः । शिवयोर्विवाहावसानसमये सरस्वती साक्षादेव मूर्तिमती समागत्य तुष्टावेत्यर्थः । द्विधा प्रयुक्तेन वाङ्मयेनेति यदुक्तं, तत्र स्त्रीपुरुषविभागकृतं नियमं दर्शयति — वरेण्यं वरं संस्कारपूतेन, वधूं सुखग्राह्यनिबन्धनेनेति । वरेण्यं श्रेष्ठम् । अनेनोत्तमनायकत्वमुक्तम्। तेन च संस्कृतयोग्यत्वं ध्वन्यते । वरं भर्तारम्। संस्कारो व्याकरणानुसरणम्। तेन पूतेन शुद्धेन । वधूं भार्याम्। सुखग्राह्यनिबन्धनेन सुखेन सप्तमः सर्गः ४८१ ग्राह्यं निबन्धनं प्रबन्धो यस्य तेन । नहि प्रबन्धेन विना स्तुतिरुपपद्यत इति निबन्धनपदोपादानम्। अत्र सुखग्राह्यपदेन देशभाषारूपत्वं निबन्धनस्योक्तम् । देशभाषा चात्र प्राकृतभाषा, ‘स्त्रीषु नाप्राकृतं वदेद्’ इति वचनात् । उत्तमनायकं भगवन्तं संस्कृतभाषया, देवीं तु प्राकृतभाषया च वाग्देवता तुष्टावेत्यर्थः ॥ ८९ ॥ तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥९०॥ प्रकाशिका ताविति । सन्धिषु मुखप्रतिमुखगर्भावमर्शनिर्वहणेषु । वृत्तीनां कैशिक्यारभटीसात्त्वतीभारतीनां भेदो व्यत्यासः । रसान्तरेषु शृङ्गारादिरसविशेषेषु । प्रतिबद्धः प्रतिनियतः रागो यत्र । प्रयोगं नाट्यम् । आद्यम् । अत्र भरतस्था काचित् कथा लिख्यते - ब्रह्मणः सकाशाद् भरतस्ताण्डवं शिक्षयामास । ततः परं लास्यशिक्षां प्रार्थितवान्। ब्रह्मा त्वेवमाह – लास्यप्रयोगस्य कैशिकीभूयिष्ठत्वात्, कैशिक्याश्च पुरुषैः प्रयोक्तुमशक्यत्वात् लास्यं तव न शिक्षणीयमिति । अत्र ब्रह्मणोक्तौ श्लोकौ - कैशिकी श्लक्ष्णनैपथ्या शृङ्गाररससम्भवा । अशक्या पुरुषैः साधु प्रयोक्तुं स्त्रीजनादृते ॥ ( ना.शा. १.४५-४६) इत्युक्त्वा तत्प्रयोगार्थं सृष्ट्वाप्सरसां गणम् । शिक्षयामास ललितं लास्यं तस्मात् तदादिकम् ॥ इति। तदादिकमप्सरोजनोपक्रमम् । तस्मात् प्रयोगस्याद्यत्वम् । अनेन प्रयोगस्य प्रथमसंप्रदायत्वेन परिशुद्धत्वमुक्तम् । ललिताङ्गहारं सुकुमाराङ्गविक्षेपम् । अनेन लास्यात्मकत्वमुक्तम्॥ ९० ॥ अप्सरसां सेवाप्रकारमाह- विवरणम् ताविति । तौ मुहूर्तम् अप्सरसां प्रयोगम् अपश्याताम् । तौ पार्वतीपरमेश्वरौ । मुहूर्तं क्षणकालमित्यर्थः । अप्सरसाम् अप्सरः स्त्रीणां प्रयोगं नाट्यम् अपश्यतां दृष्टवन्तौ । प्रयोगस्य नाटकलक्षणानुसारित्वमाह - सन्धिषु व्यञ्जितवृत्तिभेदम् इति । सन्धिषु मुखप्रतिमुखादिषु । यथोक्तं- ४८२ कुमारसम्भवे मुखं प्रतिमुखं गर्भोऽथावमर्शश्चतुर्थकः । तथा निर्वहणं चैव प्रबन्धे पञ्च सन्धयः ॥ इति। व्यञ्जितः प्रकाशितः वृत्तीनां कैशिक्यादीनां भेदो व्यत्यासो यस्मिन् तम् । वृत्तीनामपि चतुर्विधत्वमुक्तं- कैशिक्यारभटी चैव सात्त्वती भारतीत्यमूः । चतस्रो वृत्तयो ज्ञेया नाटकेषु पृथग्विधाः ॥ इति । ‘अवान्तरैककार्यस्य सम्बन्धः सन्धिरुच्यते’ इति सन्धिलक्षणं चोक्तम् । मुखप्रतिमुखादिषु सन्धिषु तत्तदुचिताभिः कैशिक्यारभट्यादिभिर्वृत्तिभिर्भिन्नप्रयोगमित्यर्थः । तत्तद्रविशेषेषु तत्तद्रागविशेषनियमं चाह — रसान्तरेषु प्रतिबद्धरागमिति । रसान्तरेषु शृङ्गारादिरसविशेषेषु प्रतिबद्धः प्रतिनियतो रागो मतरीगुञ्जरीत्यादिरागो यत्र तम्। शृङ्गारवीरकरुणादिषु रसविशेषेषु तत्तदुचितेन रागेण प्रतिनियतमित्यर्थः । प्रयोगस्य प्रथमसम्प्रदायत्वेन परिशुद्धत्वमाह - आद्यमिति । आद्यशब्देनात्र भरतशास्त्रप्रसिद्धा काचन कथा प्रतिपादिता । सा यथा- पद्मयोनेः सकाशात् प्राग् भरतः किल ताण्डवम् । शिक्षयामास सकलं लास्यशिक्षां ततः परम् ॥ भरतः प्रार्थयामास प्रोवाचैनमथात्मभूः । लास्यप्रयोगो भवता नैव शक्यः कथञ्चन ॥ लास्ये हि कैशिकी वृत्तिरधिका सा न पूरुषैः । प्रयोक्तव्या ततो लास्ये नारीणामेव नैपुणम् ॥ कैशिकी श्लक्ष्णनैपथ्या शृङ्गाररससम्भवा । अशक्या पुरुषैः साधु प्रयोक्तुं स्त्रीजनादृते ॥ इत्युक्त्वा तत्प्रयोगार्थं सृष्ट्वैवाप्सरसां गणम् । शिक्षयामास ललितं लास्यं तस्मात् तदादिकम् ॥ इति। अत्र तदादिकमित्यनेनाप्सरोजनोपक्रमत्वमुक्तम्। तत एव प्रयोगस्याद्यत्वम्। तेन च प्रथमसंप्रदायत्वात् प्रयोगस्य विशुद्धत्वम् । शिष्यप्रशिष्यादिपरम्परया दूरान्तरिते हि संप्रदाये प्रयोगस्याप्यशुद्धिः सम्भाव्येत । यथोक्तं- शिष्यस्य बुद्धिमान्द्यादाचार्यस्योपदेशसंवरणात्। परिमुषितसंप्रदायानहह परे दूषयन्ति शास्त्रार्थान् ॥ सप्तमः समः इति । प्रयोगस्य लास्यात्मकत्वमाह - ललिताङ्गहारम् इति । ललितः सुकुमारोऽङ्गहारोङ्गविक्षेपो यस्मिंस्तत् । ‘अङ्गहारोऽङ्गविक्षेप’ इत्यमरः ॥ ९० ॥ देवास्तदन्ते हरमूढभार्यं किरीटदष्टाञ्जलयो निपत्य । शापावसानप्रतिलब्धमूर्ते- र्ययाचिरे पञ्चशरस्य सेवाम् ॥ ९१ ॥ प्रकाशिका देवा इति । तदन्ते प्रयोगावसाने। अनेन शृङ्गारोद्दीपनसम्पदुक्ता । ऊढभार्यमित्यालम्बनसम्पत् । आभ्यां विज्ञापनाया उचितावसरत्वं द्योत्यते । अत एव " वक्ष्यति - ‘काले प्रयुक्ता’ (७.९) इति । किरीटदष्टाञ्जलयो निपत्येति विज्ञापनायां समुदाचारः । शापावसानं प्राक् ‘परिणेष्यति पार्वतीं यदा’ (४.४२) इत्यादिनोक्तं यत्, तत्र प्रतिलब्धमूर्तेर्देवप्रसादात् प्रत्यापन्न - शरीरस्य ॥ ९१ ॥ विवरणम् इन्द्रादिदेवानां सेवायां विशेषमप्याह- तम्। देवा इति । देवाः तदन्ते ऊढभार्यं हरं किरीटदष्टाञ्जलयः निपत्य पञ्चशरस्य सेवां ययाचिरे । देवाः इन्द्रादयः । येषामज्ञानविलसितात् कामो दग्धः, त एवेत्यर्थः । अनेन याचनयोग्यत्वमुक्तम् । तस्य प्रयोगस्यान्तेऽवसाने । अनेन शृङ्गारोद्दीपनविभावातिशयो दर्शितः । आलम्बनविभावातिशयमप्याह – ऊढभार्यमिति । ऊढा परिणीता भार्या येन अनेनोद्दीपनालम्बनविभावातिशयप्रतिपादनेन विज्ञापनोचितमवसरं दर्शयति । अत एव उत्तरश्लोके वक्ष्यति - ‘काले प्रयुक्ते’(कु.सं.७.९२)त्यादि । हरं परमेश्वरम् । किरीटेषु मकुटेषु दष्टाः श्लिष्टा अञ्जलयो येषां तथाभूताः सन्तो निपत्य प्रणिपत्य । सेवावसानकाल इत्यर्थः । अनेन विज्ञापनस्य समुदाचारो दर्शितः । अयमपि फलप्राप्तौ हेतुः । पञ्चशरस्य कामस्य सेवां सम्भोगारम्भे तदुचितशरप्रयोगरूपां शुश्रूषां ययाचिरे याचितवन्तः । निजनियोगमात्रेण परित्यक्तशरीरस्य मदनस्यानुग्रहस्तदानीं सुकर इत्यवधार्य विबुधाः प्रार्थयामासुरित्यर्थः । शरीरयोगस्तु तस्य सुरजनाभ्यर्थनात् पूर्वमेव देवप्रसादाज्जात इत्याह—शापावसानप्रतिलब्धमूर्तेरिति । शापस्य ‘अभिलाषमुदीरितेन्द्रियः’ (४.४१) इत्यत्रोक्तस्य निग्रहवचनस्यान्ते ‘परिणेष्यति पार्वतीं यदा’ इत्यादिनोक्ते शापावसानसमये प्रतिलब्धा प्रत्यापत्तिं प्राप्ता मूर्तिः शरीरं यस्य तस्य । पितामहशापावसानसमये भगवदनुग्रहादेव प्रत्यापन्नशरीरस्येत्यर्थः ॥ ९१ ॥४८४ कुमारसम्भवे तस्यानुमेने भगवान् विमन्यु- र्व्यापारमात्मन्यपि सायकानाम् । काले प्रयुक्ता खलु कालविद्भि- विज्ञापना भर्तृषु सिद्धिमेति ॥ ९२ ॥ प्रकाशिका तस्येति । विमन्युः, न तु तदनुरोधमात्रात् । अत्रात्मन्यपि सायकव्यापाराभ्युपगमेनान्यत् तस्य शरीरयोगादिकं देवेनानुमतमित्यवसातव्यम्॥ ९२ ॥ विवरणम् इत्थमभ्यर्थितस्य भगवतः प्रवृत्तिमाह- तस्येति । भगवान् विमन्युः तस्य सायकानां व्यापारम् आत्मनि अपि अनुमेने । विगतो मन्युः कोपो यस्मात् तथाभूतः सन् । ‘मन्युर्दैन्ये क्रतौ क्रुधि’ इत्यमरः । पार्वतीपरिणयनानन्तरं भगवान् मन्मथं प्रति स्वयमेव विगतकोपः सञ्जातः। न केवलमिन्द्रादिप्रार्थनामात्रमत्र हेतुरिति भावः । तस्य कामदेवस्य सायकानां शराणां व्यापारं प्रहाररूपां प्रवृत्तिम् आत्मनि स्वस्मिन्नपि । अपिशब्देनात्मनि सायकव्यापाराभ्यनुज्ञाया असम्भाव्यत्वं दर्शितम् । तेन च भक्तानुग्रहशीलत्वं भगवतो द्योत्यते । अनुमेने अभ्यनुज्ञातवान् । उक्तमर्थमर्थान्तरन्यासेन समर्थयते - कालविद्भिः काले भर्तृषु प्रयुक्ता विज्ञापना सिद्धिम् एति खलु इति । कालविद्भिः ‘न तु कार्यान्तरासक्ते नापि रोषकषायिते’ इत्यादिविज्ञापनकालवेदिभिरित्यर्थः । काले अवसरे भर्तृषु स्वामिषु प्रयुक्ता विज्ञापनाभ्यर्थना सिद्धिं फलप्राप्तिम् एति प्राप्नोति । खलुशब्दः प्रसिद्धौ । स च समर्थनाद्योतकः । अवसरज्ञानकुशलैर्भृत्यैस्तत्तदवसरे प्रार्थितमर्थं स्वामिनोऽनुमन्यन्त इति लोकप्रसिद्धमेवेत्यर्थः ॥ ९२ ॥ शय्यम्, अथ विबुधगणाँस्तानिन्दुमौलिर्विसृज्य क्षितिधरपतिकन्यामाददानः करेण । कनककलशरक्षाशक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारमागात् ॥९३॥ प्रकाशिका अथेति । कलशः पूर्णकुम्भः । रक्षाशक्तिः रक्षार्थायुधविशेषः । क्षितिविरचित- ‘अत ऊर्ध्वमक्षारालवणाशिनावधश्शायिनौ ब्रह्मचारिणौ स्याताम्’ सप्तमः सर्गः ४८५ (गृ. १.८.१०) इत्याश्वलायनवचनात् । अत ऊर्ध्वं विवाहादूर्ध्वमित्यर्थः । तत एव कौतुकागारं मङ्गलगृहं मन्तव्यं, न तु कामगृहं यथा दक्षिणावर्तव्याख्याने ॥ ९३ ॥ विवरणम् इत्थं प्रतिपादितं विवाहोत्सवमुपसंहरति- अथेति। अथ इन्दुमौलिः तान् विबुधगणान् विसृज्य क्षितिधरपतिकन्यां करेण आददानः कौतुकागारम् आगात् । अथ कामदेवानुग्रहानन्तरम् इन्दुमौलिश्चन्द्रशेखरः विबुधानां देवानां गणान् समूहान् विसृज्य । तेषां स्वपुरप्रवेशायाज्ञां कृत्वेत्यर्थः । क्षितिधराणां पर्वतानां पत्युः कन्यां पुत्री पार्वतीम् । करेणाददानः हस्तेन’ हस्ते गृहीत्वेत्यर्थः । कौतुकागारं मङ्गलगृहम् आगात् प्राप्तवान् । विवाहानन्तरं देवो देव्यासह दीक्षागृहमागादित्यर्थः । कौतुकागारस्य लौकिकाचारसिद्धं विशेषमाहकनकलशरक्षाशक्तिशोभासनाथमिति । कनकमयः कलशः पूर्णकुम्भः । रक्षार्था शक्ती रक्षाशक्तिः। शक्तिरायुधविशेषः । दीक्षागृहे शक्तिनिक्षेपो दुर्देवतापरिहारार्थः । स च देशाचारसिद्धः। पूर्णकुम्भशक्तिभ्यां शोभया सनाथं सहितमित्यर्थः । शास्त्रसिद्धं विशेषमाह – क्षितिविरचितशय्यमिति । क्षितौ भूप्रदेशे विरचिता शय्या शयनीयं यस्मिन्। ‘अत ऊर्ध्वमक्षारालवणाशिनावधः शायिनौ ब्रह्मचारिणौ स्याताम्’ इत्याश्वलायनगृह्यानुसारेणेयमुक्तिः । अत ऊर्ध्वं विवाहादूर्ध्वम् । दिवसत्रयमित्यर्थः ॥ ९३ ॥ नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृतोत्क्षेपमीशः । अपि शयनसखीभ्यो दत्तवाचं कथञ्चित् प्रमथमुखविकारैर्हासयामास गूढम् ॥ ९४ ॥ प्रकाशिका नवेति । नवोऽचिरनिर्वृत्तः । उत्क्षेप उदञ्चनम् | शयनसख्यो विस्रब्धसख्य इत्यर्थः । प्रमथाः पारिषदा भिङ्गिरिटिप्रभृतयो हास्याधिदेवताः । ‘शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवत’ इति भरतः । मुखविकारो हास्यप्रयोगात्मकः । स च लज्जामपहरति । यथा गोनर्दीयः- हास्येन नर्मवचसा नवोढां लज्जितां प्रियाम्। विमुक्तलज्जां कुर्वीत निपुणैश्च सखीजनैः ॥ इति । अत्र वदनापहरणं कृच्छ्राद् वाग्दानं गूढहासश्च लज्जानुभावः । वदनोत्क्षेपणं ४८६ कुमारसम्भवे सखीभिरालापनं हास्यप्रयोगश्च नववधूविषयाः नायकोपक्रमाः । एतच्छायायोनिरर्थो बालरामायणे- स्नायुन्यासनिबद्धकीकसतनुं नृत्यन्तमालोक्य मां चामुण्डाकरतालकुट्टितलयं वृत्ते विवाहोत्सवे । ह्रीमुद्रामपनुद्य यद् विहसितं देव्या समं शम्भुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः । इति । इयं च भिङ्गिरिटेरुक्तिः ॥ ९४ ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां सप्तमः सर्गः । विवरणम् अथ सम्भोगवर्णनरूपस्योत्तरसर्गस्य बिन्दुमुपक्षिपति - नवेति । ईशः तत्र नवपरिणयलज्जाभूषणां गौरीं प्रमथमुखविकारैः गूढं हासयामास । ईशः परमेश्वरः तत्र कौतुकागारे । दीक्षादिषु क्रियाकलापेष्वतीतेष्वित्यर्थात्। सिध्यति । नवेन नूतनेन परिणयेन विवाहेन हेतुना या लज्जा सैव भूषणं यस्यास्ताम् । नवोढानां हि वधूनां लज्जा भूषणमेव । लज्जाया मनोहारित्वाद् भूषणत्वरूपणम्। गौरी पार्वतीम् । प्रमथा भिङ्गिरिटिप्रभृतयो रुद्रपारिषदाः । ‘प्रमथाः स्युः पारिषदाः’ इत्यमरः । ’ प्रमथाः स्युर्भूतगणा रुद्रपारिषदा गणाः’ इति भोजश्च । तेषां मुखविकारैर्हास्यप्रयोगरूपैर्वदनव्यापारविशेषैः गूढमत्यन्तप्रच्छन्नं यथा भवति तथा हासयामास हासं कारितवान् । अत्र गूढत्वं लज्जाया अनुभावः, हासस्तु हास्यप्रयोगस्य । हास्यप्रयोगो हि लज्जामपहरति । यथाह गोनर्दीयः - हास्येन मधुना नर्मवचसावर्जितां प्रियाम् । विमुक्तलज्जां कुर्वीत निपुणैश्च सखीजनैः ॥ इति । हास्यप्रयोग एव केवलं लज्जामपहरति किमुत हास्यरसदेवताभूतानां भिङ्गिरिटिप्रभृतीनां तत्प्रयोग इति भावः । हास्यरसस्य भृङ्गिरिटिप्रभृतयो देवताः । यदाह भरतः – ‘शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः’ इति । प्रयोगान्तराणां निष्फलत्वमाह–तदित्यादिना विशेषणद्वयेन । तत्रादौ देवप्रवृत्तेरेव लज्जापरतन्त्रायां देव्यां वैफल्यमाह — तत्कृतोत्क्षेपं वदनम् अपहरन्तीम् इति । तेनेशेन कृतो विहित उत्क्षेप उदञ्चनं यस्य तत् । ईशस्यात्र कर्तृभूतस्यापि परोक्षवाचिना तच्छब्देन परामर्शः ‘वृषेव सीतां तदवग्रहक्षताम्’ (५.६१) इत्यादिवद् द्रष्टव्यः । तद् वदनमिति पृथक्कृत्य वा योजनीयम् । तत्र तच्छब्देन लोकप्रसिद्धमाधुर्यादिगुण- सप्तमः सर्गः ४८७ शालित्वमुक्तम्। मनोहारित्वेन सततं दिदृक्षितत्वात् परिचयेन शनैः शनैर्लज्जापनोदार्थं च देवेनैवोदञ्चितं मुखमित्यर्थः । अपहरन्तीं नमयन्तीम् । मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लबाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ इति शाकुन्तलोक्तप्रकारोऽनेन दर्शितः । देवनियुक्तानां निपुणानां सखीजनानां प्रवृत्तेरप्यसम्पूर्णफलत्वमाह — शयनसखीभ्यः अपि कथञ्चिद् दत्तवाचम् इति । शयनसखीभ्यो विस्रब्धसखीभ्य इत्यर्थः । याः सख्यः पूर्वं शयनसमयेऽपि देबी न विमुञ्चन्ति, ताभ्योऽपीति भावः । किं पुनरन्याभ्य इत्यपिशब्दार्थः । कथञ्चित् कथमपि दत्ता वाग् यया ताम्। सखीभिर्बहुषु वाक्येषु भाषितेषु यस्य कस्यचिदेवोत्तरं ददाति । तदपि न देवसन्निधौ, नापि देवानुबद्धासु कथास्विति कथञ्चिदित्यस्यार्थः । अत्र गूढहासो वदनापहरणं कथञ्चिद् वाग्दानं च लज्जाया अनुभावः । लज्जापनोदनार्थमात्मना कृते वदनोत्क्षेपे निष्फले देवनियुक्तानां सखीनामालापेऽपि विफलप्राये प्रमथैः कारितो हास्यप्रयोग एव सफलो जात इत्यभिप्रायः । उक्तश्चायमेवार्थो बालरामायणे भिङ्गिरिटिवाक्यप्रकरणे- ॥९४॥ ‘स्नायुन्यासनिबद्धकीकसतनुं नृत्यन्तमालोक्य मां चामुण्डाकरतालकुट्टितलयं वृत्ते विवाहोत्सवे । ह्रीमुद्रामपद्य यद् विहसितं देव्या समं शम्भुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥’ सर्गः सप्तम उत्तमोऽयममितैः पद्यैरवद्येतरै- रुद्यत्स्वादुरसैर्गभीरमधुरैराद्योतितार्थोदयः । हन्तेमा मम निर्गुणा भणितयो बुद्धिस्तु मन्दोद्यमा- प्यस्मिन् मद्गुरुगौरवादकरवं निर्विक्रियां व्याक्रियाम् ॥ इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे सप्तमः सर्गः । क