०६

अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥ १ ॥ प्रकाशिका अथ ‘अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः’ इत्यङ्कावतारन्यायेन सर्गान्तरमवतारयति- अथेति । अथशब्दो हिमवद्विषयस्य कन्याप्रार्थनालक्षणस्य भगवद्व्यापारस्योपक्रमद्योतकः। विश्वात्मने सर्वभूतहृदयस्थं जानानायेत्यर्थः । मिथो रहसि । मे इति कर्मणि षष्ठी । भूभृतां नाथो निर्णयहेतुः क्रियतामित्यर्थः ॥ १ ॥ विवरणम् इत्थमुपवर्णितस्य नायकयोः परस्परानुरागस्य समागमलक्षणं फलयोगं दर्शयितुं तदुपोद्घातभूतः षष्ठः सर्गोऽयमङ्कावतारन्यायेनावतार्यते । पूर्वाङ्कावसानप्रकृतानां पात्राणामविभागेनैवापरस्मिन्नङ्के प्रवेशोऽङ्कावतारः । यथोक्तं दशरूपके — ‘अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः’ (१.६२) इति । अत्र तु पूर्वसर्गान्तरप्रकृतयोर्नायकयोर्नायिकासखीनां चाविभागेनैवावस्थानप्रतिपादनादङ्कावतारन्यायः । तत्र देवे मनोरथानुरूपं प्रसन्ने सति देवी किमकरोदित्याकाङ्क्षायामाह - अथेति । अथ गौरी मिथः विश्वात्मने सखीं सन्दिदेश । अथ ‘अद्यप्रभृति’ (५.८६) इत्यादिवाक्यैर्भगवत्प्रसादनिश्चयानन्तरम् । हिमवद्विषयस्य कन्याप्रार्थनारूपस्य भगवद्व्यापारस्योपक्रमद्योतको वायमथशब्दः । गौरी पार्वती । मिथः रहसि । पूर्वावस्थितात् प्रदेशाद् विजनं किञ्चन प्रदेशान्तरमाश्रित्येत्यर्थः । विश्वात्मने त्रैलोक्यात्मकाय सर्वभूतहृदयगतं सर्वमप्यर्थं यथावज्जानानायेत्यर्थः । अनेन सन्देशस्य लोकस्वभावसिद्धतत्कालौचित्यमात्रपरत्वं व्यज्यते । सखीम् आत्मनः प्रियवयस्याम् । अनेन सन्देशहरणयोग्यत्वमुक्तम् । सन्दिदेश सन्दिष्टवती । सन्देश - प्रकारमाह — भूभृतां नाथः मे दाता प्रमाणीक्रियताम् इति । भूभृतां नाथो हिमवान् । मे इति कर्मणि षष्ठी । दाता दानकर्ता सन् । प्रमाणशब्देनात्र प्रत्यक्षादिप्रमाणगतमर्थनिर्णायकत्वं लक्ष्यते । मद्दानरूपस्यार्थस्य हिमवानेव निर्णयहेतुर्विधातव्य इत्यर्थः। प्रमाणीक्रियतामित्यभूततद्भावे च्विः । यद्यपि दाननिर्णय इदानीमेव संवृत्तः, तथापि हिमवत्कृत एव मत्प्रदाननिर्णय इति लोकप्रतीतिमात्रं क्रियताम् । तथैव हि षष्ठः सर्गः ३३९ कुलवधूविवाहक्रमानुसरणं भवेदिति भावः । इतिः प्रकारवाची । उक्तप्रकारेण सन्दिदेशेति पूर्वेणान्वयः ॥ १ ॥ तया व्याहृतसन्देशा सा बभौ निभृता प्रिये । चूतयष्टिरिवाभाष्ये मधौ परभृतोन्मुखी ॥२ ॥ प्रकाशिका तयेति । निभृता निर्वचना । प्रिय इति विषयसप्तमी । आभाष्ये आलपनाहें। परभृता कोकिला । अत्रोपमानरूपोऽर्थः प्रौढोक्तिमात्रनिष्पन्नशरीरो द्रष्टव्यः ॥ २ ॥ विवरणम् इत्थं देव्या सन्दिष्टा सखी तत्सन्दिष्टमर्थे भगवते व्यजिज्ञपदितीममर्थे भङ्गयन्तरेणाह— तयेति । तया प्रिये व्याहृतसन्देशा सा बभौ । तया सख्या । प्रिय इति विषयसप्तमी । प्रिये विषय इत्यर्थः । व्याहृतसन्देशा व्याहृतः कथितः सन्देशो यस्याः सा तथा । अत्र व्याहरणे सखी कर्त्री । अन्तर्भूतण्यर्थो वा । व्याहारित इत्यर्थः । अत्र सख्याः करणत्वम्। ‘हृक्रोरन्यतरस्याम्’ (१.४.५३) इति कर्मसज्ञाभावपक्षे करणसंज्ञा । सख्या व्याहारितः सन्देशो यया इति विग्रहः । सा पार्वती बभौ शुशुभे । अत्रोपमामाह — मधौ आभाष्ये परभृतोन्मुखी चूतयष्टिः इव । मधौ वसन्ते आभाष्ये आलपनार्हे सति । परभृतोन्मुखी परभृता कोकिला तां प्रत्युन्मुखी अभिमुखी । आत्मना कर्तव्यं प्रियालापं तया कारयितुमित्यर्थात् सिध्यति । चूतयष्टिः चूतलतेव । यथा चूतलता चिरप्रार्थिते वसन्ते कान्ते समागते सति तत्कालोचितं तद्विषयं प्रियालापं किञ्चिदप्यनाचरन्ती कुसुमपल्लवादिभिः प्रसादचिह्नेरात्मनः प्रसादं प्रकाशयन्ती तद्विषयं प्रियालापं कोकिलाभिमुखी भूत्वा तयैव कारयति, तथेयमपीत्यर्थः । उपमया स्वमुखतो वचनादपि सखीमुखेन वचनस्य मनोहारित्वातिशयो ध्वन्यते । उपमानोपमेययोः साधारणं धर्ममाहनिभृतेति । निर्वचना किञ्चिदप्यनालपन्तीत्यर्थः । अत्रोपमानरूपोऽर्थः प्रौढोक्तिमात्रनिष्पन्नशरीरो द्रष्टव्यः ॥ २ ॥ स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्। ऋषीञ्ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ॥३॥ प्रकाशिका स इति । इतिशब्दस्तथाशब्दस्य प्रतिज्ञाप्रकारत्वं द्योतयति । कथमपीति, ३४० कुमारसम्भवे विरहासहत्वात्। ज्योतिर्मयान् ज्योतिः स्वरूपान् । स्मरणमत्र तैरयमर्थो निर्वोढव्य इत्येवंरूपम्। वरबन्धवो हि कन्यावरणेऽधिकारिणः । बन्धवश्च देवस्य सन्तः । सदाचारप्रवर्तकाश्च ते लोकस्य । वक्ष्यति च देवस्तदेव - ‘भवत्प्रणीतमाचारमामनन्ति हि साधवः’ (६.३१) इति ॥ ३ ॥ विवरणम् प्रियासन्देशश्रवणानन्तरं देवस्य तदुचितां प्रवृत्तिमाह- स इति । स्मरशासनः तथा इति प्रतिज्ञाय उमां कथमपि विसृज्य सप्त ऋषीन् सम्मार। सः य एवं सन्दिष्ट इत्यर्थः । स्मरं कामदेवं शास्ति अनुशास्तीति स्मरशासनः । अत्र स्मरशासन इत्युक्तं, न तु स्मरनाशन इति । अनेन देवस्य कामदहनव्यापारो न द्वेषाद्, नाप्यात्मनः कामानुभवपराङ्मुखत्वाद्, नापि देवीवैमुख्याद्, एवं महाजनविरोधस्त्वया न कर्तव्य इत्यनुशासनार्थमेवेति द्योत्यते । तथाशब्दः प्रतिज्ञाप्रकारवाची । तथाशब्दस्य प्रतिज्ञाप्रकारवाचित्वं द्योतयितुमितिशब्दः । प्रतिज्ञाय प्रतिज्ञां कृत्वा । उमां पार्वतीम् । कथमपि कथञ्चिद्, विरहासहत्वादिति भावः । विसृज्य तत्समीपं परित्यज्येत्यर्थः । सप्त सप्तसङ्ख्याभाजः ऋषीन् महर्षीन्। मरीच्यादीन् सप्तर्षीनित्यर्थः । सम्मार स्मृतवान्। अयमभिप्रायःपूर्वश्लोकोक्तप्रकारेण देव्या सन्दिष्टो देवस्तत्सन्दिष्टमर्थं तत्प्रसादानुरूपमेव तथैवेत्यभिधाय लोके वरबन्धूनामेव कन्यावरणेऽधिकारात् सदाचारप्रवर्तकानामेव सतां देवबन्धुत्वात् सप्तर्षीणां स सदाचारप्रवर्तकत्वस्य ‘भवत्प्रणीतमाचारमामनन्ति हि साधवः’ (६.३१) इत्यत्र देवेनैव हि वक्ष्यमाणत्वाद् अत्यन्तबन्धुभूतैः सप्तर्षिभिरेवायमर्थो मया निर्वर्तयितुं शक्य इत्यवधार्य सद्यः सम्प्राप्तये मनसा तान् सञ्चिन्तयामासेति । सप्तर्षीणां प्रभावातिशयमाह – ज्योतिर्मयानिति । तेजः स्वरूपानित्यर्थः । ग्रहस्वरूपानिति वा । अत्र पराशरसंहिता- कलया चरन्ति राशिषु दिवि ये सप्तर्षयो मरीच्याद्याः । सूर्यादयश्च ये ते खचराः सर्वे ग्रहाः प्रोक्ताः ॥ इति ॥ ३ ॥ ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः । सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः ॥४॥ प्रकाशिका स्मृतानां च तेषां देवोपस्थानं वर्णयति- ि त इति । प्रभामण्डलैरित्यादिविशेषणं तपःप्रकर्षद्योतकम् । तथाविधस्य तपसो धनत्वकथनं तेषां भगवत्कैङ्कर्यसमुचितत्वं द्योतयति । सारुन्धतीका इत्युत्तरत्र तस्या षष्ठः सर्गः ३४१ अपि कार्यान्वयस्य वक्ष्यमाणत्वादुक्तम् । अरुन्धती वसिष्ठपत्नी । तस्या एव ग्रहणेन तत्पातिव्रत्यं मुन्यन्तरपत्नीभ्यो दूराधिकमिति द्योतयति । अत्रायमितिहासः पुरा किल सप्तर्षिपत्नीकामुकमग्नि स्वाहा तासां रूपेण रमयितुमुपक्रान्ता नाशकदरुन्धत्या रूपमनुकर्तुम् । ततश्चान्ये मुनयः स्वाः पत्नीस्तत्यजुरिति । सपदि अविलम्बितम् । प्रभोरित्यविलम्बनौचित्यं द्योतयति ॥ ४ ॥ विवरणम् देवेन स्मृतानां तेषां तदुपस्थानप्रकारमाह- त इति । तेप्रभामण्डलैव्यम द्योतयन्त इति । मण्डलाकाराभिः प्रभाभिराकाशदेशं प्रकाशयन्तः । अनेन तेषां तपः प्रकर्षो द्योत्यते । उपरिष्टादरुन्धत्या अपि कार्यान्वयस्य वक्ष्यमाणत्वात् तस्या अपि देवोपस्थानमाह — सारुन्धतीका इति । अरुन्धत्या वसिष्ठपत्न्या सहिताः । अत्र वसिष्ठपत्नीमात्रस्यागमनवर्णनं तत्पातिव्रत्यस्यान्यपत्नीपातिव्रत्येभ्यो व्यतिरेकं द्योतयितुम् । एवं हि पुराणप्रसिद्धिः- सप्तर्षीणां पुरा पत्नीरकामयत पावकः । विज्ञातवृत्ता स्वाहाथ तासां रूपेण पावकम् । रमयामास रुचिरं न शशाक मनागपि । यत्नैररुन्धतीरूपं ग्रहीतुं मुनयस्ततः । अन्ये तु तत्यजुः पत्नीः ॥ इति ॥ ४ ॥ । आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु आकाशगङ्गास्त्रोतस्सु दिङ्नागमदगन्धिषु ॥ ५ ॥ प्रकाशिका क काली आप्लुता इति। आप्लुताः स्नाताः । उत्किरतीत्युत्किरः । परमेश्वरोपस्थाने पूतैर्भाव्यमिति स्नानमुक्तम् । स्रोतोविशेषणे तपस्वित्वेऽपि तेषां भोगयोग्यतां द्योतयतः । एवमुत्तरश्लोकेष्वप्यवसेयम् । वक्ष्यति च – ‘तपसामुपभुञ्जानाः फलान्यपि तपस्विनः’ (६.१०) इति ॥ ५ ॥ विवरणम् अथ षड्भिः श्लोकैस्त एव वर्ण्यन्ते । तत्रादौ तेषां परमेश्वरोपस्थानयोग्यं पूतत्वं प्रतिपादयितुं स्नानं वर्णयति- आप्लुता इति। आकाशगङ्गास्रोतस्सु आप्लुताः । आकाशगङ्गायाः स्रोतः सु प्रवाहेषु आप्लुताः स्नाताः । आकाशगङ्गास्रोतसां विशेषतो मनोहरत्वमाह- . ३४२ कुमारसम्भवे तीरमन्दारकुसुमोत्किरवीचिषु । तीरे कूले ये मन्दाराः कल्पवृक्षाः तेषां कुसुमानि पुष्पाणि उत्किरन्ति ऊर्ध्वं किरन्ति विक्षिपन्तीति तीरमन्दारकुसुमोत्किराः, तथाभूता वीचयस्तरङ्गा येषु तेषु । तीरप्रदेशरूढानां कल्पवृक्षाणां वातवशाज्जलेषु पतितानि पुष्पाणि वीचीभिरूर्ध्वं विक्षिपत्स्वित्यर्थः । पुनरपि मनोहरत्वमाह – दिङ्नागमदगन्धिष्विति । दिङ्नागानां दिग्गजानां मदस्य मदजलस्य गन्धोऽत्रास्तीति तथा । आभ्यां विशेषणाभ्यामाकाशगङ्गास्रोतसां सौरभ्योत्कर्ष उक्तः । तेन च तत्र नित्यमाप्लुतानां मुनीनां तपस्वित्वेऽपि भोगयोगः सूचितः । एवमुत्तरश्लोकेऽपि द्रष्टव्यम् । अत एव वर्णनान्ते वक्ष्यति – ‘तपसामुपभुञ्जानाः फलान्यपि तपस्विनः (६.१०) ’ इति ॥ ५ ॥ मुक्तायज्ञोपवीतानि बिभ्रतो हेमवल्कलाः । रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥६॥ प्रकाशिका मुक्तेति । प्रव्रज्याशब्देनात्र वानप्रस्थाश्रम उच्यते ॥ ६ ॥ विवरणम् अथ तदीयानां तपस्विजनोचितानां परिकराणामपि तपसस्तत्फलोपभोगस्य च साधारणत्वमाह- मुक्तेति । मुक्तायज्ञोपवीतानि बिभ्रतः । मौक्तिकमयानि यज्ञोपवीतानि ब्रह्मसूत्राणि बिभ्रतः दधतः । तथा हेमवल्कलाः हेममयानि वल्कलानि येषां ते तथा । तथा रत्नाक्षसूत्राः रत्नमयमक्षसूत्रं रुद्राक्षमाला येषां ते तथा । तद्देशभवानां वृक्षाणां तत्फलादीनां च सुवर्णरत्नादिमयत्वादित्थमुक्तम्। अत एवोत्प्रेक्षते - कल्पवृक्षाः प्रव्रज्याम् आश्रिता इवेति । कल्पवृक्षा मन्दारादयः प्रव्रज्यां वानप्रस्थाश्रमम् आश्रिताः प्राप्ता इव । कल्पवृक्षाणां सकलरत्नफलत्वं प्रसिद्धम् । उक्तं च नैषधकाव्ये- एषां गिरेः सकलरत्नफलस्तरुर्यः प्राग्दुग्धभूमिसुरभेरिव पञ्चशाखः । मुक्ताफलं फलनसाह्वयनाम तन्व- नाभाति बिन्दुभिरिवच्छुरितः पयोभिः ? पयोधेः ॥ ( ११.१०) इति ॥ ६ ॥ अधःप्रस्थापिताश्वेन समावर्जितकेतुना । सहस्त्ररश्मिना शश्वत् सप्रणाममुदीक्षिताः ॥७॥ प्रकाशिका अध इति । अश्वानाम् अधः प्रस्थापनं केतुसमावर्जनं च सप्तर्षिपदस्य षष्ठः सर्गः ३४३ दूरोन्नतत्वेऽपि हिमवत्प्रस्थावतरणवशादासत्त्या तत्कालभाविन्येत्यवसेयम् । सप्रणाममिति, तेषां लोकगुरुत्वात् ॥७॥ विवरणम् अथ सप्तर्षिमार्गस्य सूर्यमार्गाद् दूरोन्नतत्वेऽपि हिमवत्प्रस्थावतरणवशादत्यासन्नेषु सप्तर्षिषु सूर्यस्य तत्कालोचितां प्रवृत्तिमाह- अथ इति । सहस्ररश्मिना शश्वत् सप्रणामम् उदीक्षिताः । सहस्ररश्मिना सूर्येण शश्वत् पुनः । ‘मुहुर्भूयः पुनः शश्वद्’ इत्यमरः । सप्रणाममिति उदीक्षणक्रियाविशेषणम् । प्रणामसहितं यथा तथोदीक्षिताः ऊर्ध्वमीक्षिताः । सप्तर्षिमार्गस्य सूर्यमार्गादत्युन्नतत्वाद् अवतरणसमयादारभ्योद्वीक्षिता इत्यर्थः । अथ रथसमीपवर्तिषु तेषु रथप्रयाणेऽपि विशेषमाह - अध इत्यादिना विशेषणद्वयेन । अधःप्रस्थापिताश्वेन पूर्वव्यवस्थितान्मार्गात् किञ्चिदधोभागे प्रस्थापिताः प्रस्थानं कारिताः निजस्यन्दनवाजिनो येन तेन । तथा समावर्जितकेतुना सम्यगावर्जितः आनमितः केतुर्ध्वजो येन तेन । रथप्रयाणसमये तद्देहध्वजाहतिभयादानमितध्वजेनेत्यर्थः । सूर्येण केतुसमावर्जनपूर्वकं सप्तर्षिमार्गं दूरतः परिहृत्य मुहुर्मुहुः प्रणम्य सगौरवमीक्षिता इत्यर्थः। अत्र सर्वलोकपूर्वस्यापि सूर्यस्य तत्सेवाप्रतिपादनेन सप्तर्षीणां सप्तलोकगुरुत्वमुक्तम्॥७॥ आसक्तबाहुलतया सार्धमुद्धृतया भुवा। महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥८ ॥ प्रकाशिका अश्वा आसक्तेति । सार्धं विश्रान्ता इत्यन्वयः । अनेन श्रीवराहपुराणगतमाख्यानं सूचितम् । तत्तु विस्तरभयान्नात्र लिखितम् । अनेन तेषां नित्यत्वमुक्तम् ॥ ८ ॥ नित्यत्वमप्याह- विवरणम् आसक्तेति । प्रलयापदि महावराहदंष्ट्रायाम् उद्धृतया आसक्तबाहुलतया भुवा सार्धं विश्रान्ताः । प्रलयः कल्पान्तः । ‘संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ’ इत्यमरः । प्रलय एवापत् । सर्वलोकक्षयकारित्वात् । महावराह आदिवराहस्तस्य दंष्ट्रायाम् उद्धृतया उत्क्षिप्तया । महावराहेणेत्यर्थात् । आसक्ते सम्यक् सक्ते बाहुलते प्रशस्तौ बाहू यस्यास्तया । महावराहदंष्ट्रायामेवेत्यर्थात् । स्त्रीजनसुलभेन भयेनेति शेषः । भुवा पृथिव्या सार्धं विश्रान्ताः सुखासीनाः । सकललोकसंहारकारिणि३४४ कुमारसम्भवे कल्पान्ते समुपस्थिते जलमात्रावशिष्टेषु चतुर्विधेष्ववयविद्रव्येषु विपन्नया स्त्रीजनसुलभेन भयेन हस्ताभ्यां महावराहदंष्ट्राद्वयमवष्टभ्यावस्थितया स्त्रीरूपधारिण्या धरण्या सह महावराहदंष्ट्रायां सुखासीना इत्यर्थः । श्रीवराहपुराणप्रसिद्धश्चायमर्थः ॥ ८ ॥ सर्गशेषप्रणयनाद् विश्वयोनेरनन्तरम् । पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥९॥ प्रकाशिका सर्गेति । तेषां मरीच्यादिप्रजापतिष्वन्तर्भावात् शेषसर्गप्रणेतृत्वमुक्तम् ॥ ९ ॥ विवरणम् इत्थं तेषां प्रलयकालेऽप्यवस्थानमुक्त्वा तदन्तरभाविनो जगत्सर्गस्यापि कर्तृत्वमाह - सर्गेति । विश्वयोनेः अनन्तरं सर्गशेषप्रणयनात् पुराविद्भिः धातारः इति कीर्तिताः । विश्वयोनेस्त्रैलोक्योद्भवस्थानस्य ब्रह्मणः । अनन्तरं पश्चात् । सर्गशेषप्रणयनात् सर्गशेषस्य सृष्टिशेषस्य प्रणयनाद् विधानात् । पुराविद्भिः पुरातनवृत्तान्तवेदिभिर्व्यासादिभिः । धातारः ब्रह्माणः । इतिशब्दः कीर्तनप्रकारवाची । कीर्तिताः कथिताः । ब्रह्मणो जगदेकदेशसर्गानन्तरमवशिष्टस्य सर्गस्य विधानाद् व्यासादिभिः पुराणादिषु ब्रह्मशब्देनैव निर्दिष्टा इत्यर्थः । अत एव पुरातनाः प्राचीनाः । प्रपञ्चोत्पत्तेः प्रागपि सन्त इत्यर्थः । मरीच्यादीनां सर्गशेषविधायित्वं पुराणप्रसिद्धम् ॥ ९ ॥ प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् । तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥१०॥ प्रकाशिका प्राक्तनानामिति । परिपाकमुपेयुषामित्यवर्जनीयत्वं भोगस्येत्युक्तम्। तपस्विनो नित्यं तप आर्जयन्तः । लोके हि तपआर्जनफलभोगकालौ भिन्नाविति लोकतो व्यतिरेको विरोधेन ध्वन्यते । शाकुन्तलेऽप्ययमभिप्रायः प्रकाशितः कविना ‘प्राणानामनिलेन वृत्तिरुचिते (७.१२)’ त्यादिना ॥ १० ॥ तेषां लोकतो व्यतिरेकमाह- विवरणम् प्राक्तनानामिति। प्राक्तनानां तपसां फलानि उपभुञ्जानाः अपि तपस्विनः । प्राक्तनानां पूर्वकृतानामित्यर्थः । तपसां फलानि सप्तर्षिलोकप्राप्तितदुचितभोगानुभ- षष्ठः सर्गः ३४५ वादीनि । उपभुञ्जाना अनुभवन्तः । ‘भुजोऽनवने’ (१.३.६६) इत्यात्मनेपदित्वात् शानच् । अत्र वर्तमाननिर्देशेन निरन्तरोपभोग उक्तः । अपिशब्दो विरोधवाची । नहि लोके तपः समार्जनसमये फलोपभोगः, नापि फलोपभोगसमये तपः समार्जनमिति लोकव्यतिरिक्तमेषां चरितमिति भावः । तपस्विन इति नित्ययोगे मतुप् । निरन्तरेण तपः समार्जयन्त इत्यर्थः । एते हि निरन्तरमेव तपः समार्जयन्ति, निरन्तरमेव तत्फलं चोपभुञ्जते । अहो विचित्रमेषां चरितमिति भावः । शाकुन्तलेऽप्ययमेवार्थो महाकविना प्रदर्शितः- प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ (अङ्क. ७. श्लो. १२) इति। फलोपभोगतपःसमार्जनयोर्यौगपद्ये हेतुमाह —– विशुद्धानामिति । अशुभकर्मसंसर्गलेशेनापि रहितानामित्यर्थः । नहि दुराचारसंपृक्ततपः फलोपभोगे मनः शाम्यतीति भावः । फलोपभोगस्यावर्जनीयत्वमाह — परिपाकमपेयुषामिति । परिपाकं पक्वताम् उपेयुषां प्राप्तवताम् । प्राचीनानां तपः फलानां पक्वतया स्वयमेव प्राप्तत्वादेव तेषां तदुपभोगः, न तु शक्तिवशादिति भावः । अत्र तपःफलानुभवतपश्चरणलक्षणयोः क्रिययोर्युगपद् विरोधाद् विरोधालङ्कारः । ‘विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद् वचः’ इति [ काव्यप्रकाशे ] । तेषां महाप्रभावत्वेन विरोधपरिहारः ॥ १० । तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा। साक्षादिव तपः सिद्धिर्बभासे बह्वरुन्धती ॥११॥ विशेषत आह— प्रकाशिका तेषामिति । तपस्सिद्धिरर्थात् पत्युरेव । बहु भूयिष्ठम् । अत्र साक्षात्त्वाक्षिप्तमूर्त्तत्वविशिष्टायास्तपस्सिद्धेरुत्प्रेक्षया किमप्यरुन्धत्या लोकोत्तरत्वं द्योत्यते ॥ ११ ॥ विवरणम् इत्थं सामान्यतः सर्वानपि वर्णयित्वा पुनरुन्धतीं विशेषतो वर्णयति- तेषामिति । तेषां मध्यगता अरुन्धती बहु बभासे । तेषां सप्तर्षीणां मध्यप्रदेशं गता । अयं शोभाधिक्यप्रतीतौ हेतुः । अरुन्धती वसिष्ठपत्नी । बहु सप्तर्षिभ्योऽ- ३४६ कुमारसम्भवे भ्यधिकतरं बभासे शोभते स्म । अत एवोत्प्रेक्षते - तपः सिद्धिः साक्षाद् इवेति । चिरकालार्जितस्य तपसः सिद्धिः फलं साक्षात् प्रत्यक्षेव । पत्युरित्यर्थात् सिध्यति । पत्युश्चिरकालार्जितस्य तपसः परिपाकावस्थैव प्रत्यक्षतयालक्ष्यतेवेत्यर्थः । अनयोत्प्रेक्षया लोकोत्तरत्वमरुन्धत्याः प्रतिपाद्यते । तथाविधायामुत्प्रेक्षायां हेतुमाहसाध्वीति । ‘सती साध्वी पतिव्रता’ इत्यमरः । पातिव्रत्यनिष्ठामाह — पत्युः पादार्पितेक्षणेति । पत्युः वसिष्ठस्य । पादार्पिते पादयोरर्पिते न्यस्ते ईक्षणे नेत्रे यया सा तथा । भर्तृपदारविन्दादन्यत् किमप्यनवलोकयन्तीत्यर्थः ॥ ११ ॥ तामगौरवभेदेन मुनींश्चापश्यदीश्वरः । स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥१२॥ प्रकाशिका तामिति । अगौरवभेदेन गौरवभेदमकृत्वा । अर्थान्तरं स्त्री पुमानिति । इतिर्हेतौ । स्त्रीत्वं पुंस्त्वं वा सतां न प्रतिपत्तिविशेषहेतुरित्यर्थः । कस्तर्हि तद्धेतुरित्याह – वृत्तं हीति । महितं पूजितम्। गौरवविषय इत्यर्थः ॥ १२ ॥ विवरणम् इत्थं सारुन्धतीकानां देवर्षीणामागमनं वर्णयित्वा देवस्य तद्विषयां प्रवृत्तिं वर्णयति- तामिति । ’ ईश्वरः तां मुनीन् च अगौरवभेदेन अपश्यत् । ईश्वर इत्यनेन तत्कटाक्षस्य दुर्लभत्वं द्योत्यते । ताम् अरुन्धतीम्। मुनीन् सप्तर्षीन्। चशब्द उभयसमुच्चयार्थः । अनेन गौरवभेदाभावो ध्वन्यते । अगौरवभेदेन गौरवभेदमकृत्वा । गौरवे विषये स्त्रीत्वपुरुषत्वनिमित्तो यः परस्परभेदः, तेन विनैवापश्यत् । अत्रार्थान्तरन्यासमाह — सतां स्त्री पुमान् इति एषा अनास्था इति । सतां सञ्जनानाम्। प्रतिपत्तिविशेष इत्यर्थात् सिध्यति । इतिशब्दो हेतौ । एषा लोकप्रसिद्धा । एतच्छब्दोऽयमास्थाविशेषणतया योजनीयः । अनास्था आस्था न भवति । स्त्रीत्वहेतोः पुंस्त्वहेतोश्च यः प्रतिपत्तिविशेषः सर्वलोकप्रसिद्धः, तस्मिन् महतामनादर एव भवतीति भावः । कस्तर्हि महतां प्रतिपत्तिविशेषहेतुरित्यत्राह - वृत्तं हि महितम् इति । वृत्तं चरित्रं महितं पूजितम् । गौरवे विषय इति शेष । गौरवे विषये वृत्तस्यैव पूजितत्वात् तन्निमित्त एव महतां प्रतिपत्तिविशेषः । वृत्तं चात्र सप्तर्षीणामरुन्धत्याश्च समानमेवेति युक्तमगौरवभेदेनावलोकनमिति भावः ॥ १२ ॥ तद्दर्शनादभूच्छम्भोर्भूयान् दारक्रियादरः । क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम् ॥ १३ ॥ षष्ठः सर्गः प्रकाशिका ३४७ तद्दर्शनादिति । भूयान् बहुतरः । कथमरुन्धतीदर्शनाद् दारचिकीर्षातिशय इत्याह — क्रियाणामिति । मूलसाधनं प्रथमसाधनम् । अनेन देवप्रवृत्तेर्धर्मप्रधानत्वमुक्तम् ॥१३॥ विवरणम् अरुन्धतीदर्शने भगवतो मनोवृत्तिमाह- तद्दर्शनादिति । शम्भोः तद्दर्शनाद् दारक्रियादरः भूयान् अभूत् । तस्या अरुन्धत्या दर्शनात्। दारक्रियादरः दारक्रिया विवाहः तस्यामादरो बहुमानः । ‘भूयान् पूर्वस्मादधिकतरोऽभूत्। तत्र हेतुमाह – धर्म्याणां क्रियाणां सत्पत्न्यः खलु मूलसाधनम् इति । धर्मादनपेतानाम् । ‘धर्मपथ्यर्थन्यायादनपेते’ (४.४.९२) इति यत् । क्रियाणां कर्मणाम् । सत्पत्न्यः पतिव्रताः । ‘सती साध्वी पतिव्रता’ इति सिंहः । पत्न्यः भार्याः । खलुशब्दः प्रसिद्धौ । मूलसाधनं प्रथमं साधनम् । अग्निहोत्रादिकर्मणामेव धर्मत्वात् तेषु च सपत्नीकानामेवाधिकाराद् भगवतो दारपरिग्रहाभिलाषः सत्पत्नीदर्शनानन्तरं पूर्वस्मादधिकोऽभूदिति युक्तमेवेत्यर्थः । अनेन भगवत्प्रवृत्तीनां धर्मप्रधानत्वमुक्तम् ॥१३। धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति । पूर्वापराधभीतस्य कामस्योच्छ्वसितं मनः ॥ १४ ॥ अत एवाह- प्रकाशिका धर्मेणेति । गृहस्थधर्मेण हेतुनेत्यर्थः । पदं व्यवसायः । अपिरत्र स्वोपपदविपरीतं सम्भावयति। कामेन हेतुना दारक्रियायां पदकारणं हि स्वतः कामस्योच्छ्वासहेतुः संभाव्यः । इह तु धर्मेणापि तत्कारणमपराधप्रमोषहेतुत्वात् तदुच्छ्वासहेतुरासी-दित्यर्थः ॥ १४ ॥ विवरणम् तस्मिन्नवसरे भगवता दग्धशरीरस्य कामस्य मनोवृत्तिमाह- धर्मेणेति । शर्वे धर्मेण अपि पार्वतीं प्रति पदं कारिते पूर्वापराधभीतस्य कामस्य मनः उच्छ्वसितम् । शर्वे परमेश्वरे धर्मेण गृहस्थधर्मेण । पदकरणे हेतुभूतत्वात् प्रयोजककर्ता । अपिशब्दो मुख्याभावे प्रतिनिधेरपि कार्यकरत्वं द्योतयति । पार्वतीं प्रति पार्वतीमुद्दिश्य पदं व्यवसायं कारिते प्रयोजिते सति । ३४८ कुमारसम्भवे पूर्वापराधभीतस्य पूर्वमात्मना कृतात् तपोविघातरूपादपराधाद्धेतोर्भीतस्य । कामस्य कामदेवस्य मनः चित्तम् उच्छ्वसितम् आश्वस्तम् अभूदित्यर्थः । अयमभिप्रायःकामदेवो हि पूर्वं शूलिनस्तपोविघातानन्तरं तेन देहे दग्धेऽपि किमतः परमसौ करिष्यतीति चिन्तया व्याकुलोऽभूत् । तदानीं तु भगवति पार्वतीवरणायोद्यते सति मास्तु देवस्य भोगेच्छया पार्वतीं प्रति मनोवृत्तिः, धर्मेच्छयैवास्तु । तथाहि नायमित परं मां प्रति कोपं करिष्यति । किञ्च गृहस्थधर्मो भोगेनापि सनाथ एव । ततश्च ‘कदाचिन्मदनुग्रहमप्यसौ करिष्यत्येवेति सञ्चिन्त्य किञ्चिदाश्चस्तोऽभूदिति ॥१४॥ अथ ते मुनयः सर्वे पूजयित्वा जगद्गुरुम् । इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः॥१५॥ प्रसङ्गादिदमुक्त्वा प्रकृतमाह- प्रकाशिका अथेति । सर्वे, न त्वेक इतरैस्तत्र नियुक्तः, यथोत्तरत्र हिमवत्संवाद इत्यर्थः । तत्र हि कार्यनिवेदनमात्रपरत्वाद् गाम्भीर्याच्च एकस्यैव वक्तृत्वमुपपन्नम् । इह तु सकलसत्त्वोत्पत्तिप्रविलयहेतौ षट्त्रिंशत्तत्त्वातीते वाङ्मनसागोचरे परमस्वादौ तपःप्रभृतिसकलस्वानुष्ठानफलभूते परमेश्वरे साक्षाद्भावमुपेयुषि प्रहर्षविस्मृतान्तःकरणानामहमहमिकया भक्त्यनुभावरूपा वाचः परस्परानपेक्षाणामपि सर्वेषामेकरूपाः प्रासरन्निति युक्तम् । जगद्गुरुमित्यनेन पूजायास्तदुचितो विशेषो ध्वनितः । ’ अनूचानः प्रवचने साङ्गेऽधीती ‘ति सिंहः । अनेन विशेषणेन परमेश्वरयाथार्थ्याविदां तेषां तद्दर्शने प्रीतिरूपपन्नेति दर्शयता वक्ष्यमाणायाः स्तुतेर्वेदार्थत्वं द्योत्यते । कण्टको रोमाञ्चः ॥ १५ ॥ विवरणम् इत्थं प्रसङ्गगतमर्थमुक्त्वा प्रकृतमेवाह- अथेति । अथ ते मुनयः सप्तर्षयः सर्वे । न पुनरितरेषामनुमत्या तेष्वेक एव । हिमवत्संवादे वक्ष्यति- अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयश्चोदयामासुः प्रत्युवाच स भूधरम् ॥ (६.६५) इति । तत्र हि कार्यनिवेदनमात्र एव तात्पर्यम् । इह तु श्रुत्यन्तमात्रगम्ये परमानन्दमये परमेश्वरे साक्षाद्भावमुपगते युक्तमेव भक्तिपरवशान्तः करणानां वचनमिति भावः । अत एवाह – जगद्गुरुमिति । जगतां गुरुं एवोक्तंपूजयित्वेति । नमस्कारादिना कालोचितां पूजां मुनीनां सम्भूय नियन्तारम् । अत कृत्वेत्यर्थः । इदं षष्ठः सर्गः ३४९ वक्ष्यमाणम्। अनेन भिन्नवक्तृत्वेऽपि वचसामेकरूपत्वमुक्तम्। अत्र च तेषां तपःप्रभावः परमेश्वरप्रभावश्च हेतुरिति च ध्वन्यते । ऊचुः उक्तवन्तः । तेषां परमेश्वरयाथार्थ्यावगमे हेतुमुक्त्वा स्तुतिवचनानामुपपत्तिमाह — अनूचाना इति । अनूचानाः साङ्गवेदाध्येतारः। ‘अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः’ इति सिंहः । अनूचानो य आचार्यः । परमेश्वरदर्शनस्यानुभावमाह — प्रीतिकण्टकितत्वच इति । प्रीत्या परमेश्वरस्वरूपदर्शनोद्भूतया मुदा सञ्जातकण्टका त्वग् येषां तथा । अत्र त्वक्पदप्रयोगेण कण्टकस्य सर्वाङ्गीणत्वमुक्तम् । तारकादित्वादितच् । कण्टको रोमाञ्चः । ‘सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः’ इति सिंहः ॥ १५ ॥ . यद् ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् । यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ॥ १६ ॥ तत्प्रकारमाह- प्रकाशिका यदिति । ब्रह्म वेदः । सम्यग् आचार्यशुश्रूषादिपुरस्सरम् । आम्नातमधीतम्। हुतं हवनम्। तप्तमार्जितम्। तपःकर्मकस्तपतिरार्जने वर्तते। तच्छब्दवाक्यैः क्रमाद् ब्रह्मचर्याद्याश्रमत्रयधर्मानुष्ठानमुक्तम् । तस्य फलं विपक्वमिति पूर्ववाक्यैः प्रत्येकं संबन्धः । विपाकं भोगयोग्यं जातम् । अद्येति वहोः कालादिति शेषः ॥ १६ ॥ विवरणम् इदंशब्दोक्तान् प्रकारानेवाह नवभिः श्लोकैः । तत्रादावात्मानुष्ठितानामाश्रमत्रयधर्माणामिदानीं सफलत्वं जातमित्याहुर्मुनयः - यदिति । ब्रह्म सम्यगाम्नातं यद् अग्नौ विधिना हुतं यत् तपः तप्तं च यद् नः अद्य तस्य फलं विपक्वम् । ब्रह्म वेदः । ‘बृहत्त्वाद् बृंहणत्वाद् वा ब्रह्म वेदोऽभिधीयत’ इति स्मृतेः । सम्यग् गुरुशुश्रूषादिपूर्वकम् । आत्मातम् अधीतमिति यत्। अनेन ब्रह्मचर्याश्रमधर्मानुष्ठानमुक्तम् । अग्नौ पावके विधिना मन्त्रार्थस्मरणादिपूर्वकम् । हुतं होमः । भावे निष्ठा । विधिना हवनं च यदित्यर्थः । हविरिति कर्माध्याहृत्य योजनीयमिति माधवः । तत्र कर्मणि निष्ठा । अनेन गृहस्थधर्मानुष्ठानमुक्तम्। तपः तप्तम् आर्जितम्। तपःकर्मकस्तपतिरार्जने वर्तते। चशब्द आश्रमत्रधर्मसमुच्चयार्थः । स च सर्वत्र योजनीयः । अनेन वानप्रस्थधर्मानुष्ठानमुक्तम् । नः अस्माकम् । अद्य बहोः कालादिति शेषः । तस्येति तच्छब्दः पूर्वोक्तयच्छब्दत्रयप्रतियोगित्वेनोपात्तः । फलं विपक्वम् । विशेषेण पक्वं पचेर्निष्ठा । ‘पचो वः’ ( ८. २.५२) इति वत्वम् । उपभोगयोग्यं जातमित्यर्थः । सर्वेषामपि कर्मणां ३५० कुमारसम्भवे परब्रह्मसाक्षात्कार एव हि फलं, स्वर्गाद्यवान्तरफलश्रवणं तु प्ररोचनार्थ- मित्यर्थः ॥ १६ ॥ यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोरथस्याप्यपथं मनोविषयमात्मनः ॥ १७ ॥ प्रकाशिका कथं विपक्वमित्याह- यदिति । अध्यक्षेण प्रवृत्तिनिवृत्तिनियमहेतुना । मनोविषयं मनः प्रदेशम् । आरोपणापेक्षया विषयशब्दः । आरोपणेन मनसो दूरोन्नतत्वं द्योत्यते । मनोरथस्याप्यपथमिति पाठः ॥ १७॥ कथं विपक्वत्वमित्यत्राहुः - विवरणम् यदिति । जगताम् अध्यक्षेण त्वया वयम् आत्मनः मनोविषयम् आरोपिताः यत्। जगतां स्थावरजङ्गमात्मकस्य प्रपञ्चस्य । अध्यक्षेण प्रवृत्तिनिवृत्तिहेतुभूतेन । त्वया जगन्नियामकत्वात् प्रपञ्चोत्तीर्णेन । वयं प्रपञ्चान्तर्गतत्वान्नियम्याः । आत्मनो मनोविषयं तव मनः प्रदेशम् । आरोपणापेक्षया विषयशब्दप्रयोगः । आरोपिताः मनसो दूरोन्नतत्वाद् दुरारोहत्वं द्योतयितुमारोपिता इत्युक्तम् । यद् यस्मात् कारणात्। यस्माद् भगवता वयं स्मृताः, तस्मादस्माकमाश्रमत्रयानुष्ठितानां धर्माणां फलमद्योपभोगक्षमं जातमित्यर्थः। भगवन्मनः प्रदेशस्य दुरारोहत्वमेवाह - मनोरथस्य अपि अपथम् इति । मनोरथस्य मनोराज्यस्य । अत्र मनसो रथत्वरूपणेन तद्गतेरनिवारितप्रसरत्वं ध्वन्यते । उक्तं च’मनोरथानामगतिर्न विद्यते’ (५.६४) इति । अत एवापि - शब्दप्रयोगः । अपथं, पन्था न भवतीति अपथम् ‘ऋक्पूर’ – ( ५.३.७४) इत्यादिना समासान्तः। सर्वत्राप्यनिवारितगतेर्मनोरथस्याप्यगोचरमित्यर्थः ॥ १७ ॥

यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः । किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥ १८ ॥ किमियता कृतार्थतेत्याह- प्रकाशिका यस्येति । वर्तेथाः संभावनायां लिङ् । तावत् प्रागेव । यस्य चेतसि वर्तनं संभाव्येत, स वर्तनात् प्रागेव धन्याग्रेसर इत्यर्थः । किं पुनः सुतराम् । ब्रह्मयोनेः प्रजापतिजनकस्य । तव चेतसि वर्तते त्वयाङ्गीकृत इत्यर्थ ॥ १८ ॥ षष्ठः सर्गः विवरणम् ननु कथमेतावता भवतां कृतार्थत्वमित्यत्राहुः- ३५१ यस्येति । त्वं यस्य चेतसि वर्तेथाः सः तावत् कृतिनां वरः । त्वं यस्य जन्तोः चेतसि हृदये वर्तेथाः । तावत् प्रथमम्। त्वद्वर्तनात् प्रागेवेत्यर्थः । यस्य जन्तोश्चेतसि त्रैलोक्यनाथस्य भगवतो वर्तनं कारणपौष्कल्यसंभवात् सम्भाव्यते, स जन्तुः त्वद्वर्तनात् पूर्वमेव कृतिनां वर इत्यर्थः । त्वद्वर्तनयोग्यत्वसम्भवादिति भावः । अस्माकं धन्यत्वं तु वचसामप्यगोचर इत्याहुः - यः ब्रह्मयोनेः तव चेतसि वर्तते, सः किं पुनः । ब्रह्मयोनेः प्रजापतेरपि जनकस्येत्यर्थः । अथवा ब्रह्म वेदः । शास्त्रयोनेरित्यर्थः । तव चेतसि वर्तते, सः किं पुनः । तस्मान्ममैते नियोगकारिण इति भवता स्मृतानामस्माकं धन्यत्वं कीदृशीं काष्ठामधिष्ठितमिति वेधसोऽपि जिह्वा न वक्तुं पारयतीत्यर्थः ॥ १८ ॥ नित्यमर्काच्च सोमाच्च परमध्यास्महे पदम् । अद्य तच्चैस्तरां ताभ्यां स्मरणानुग्रहात् तव ॥ १९ ॥ प्रकाशिका ननु यूयं प्रागेव धन्या इत्याशङ्क्य विशेषमाह - नित्यमिति । परमुपरितनम् । उच्चैस्तरामित्यनुषज्यमानपदविशेषणम् । स्मरणं च तदनुग्रहश्चेति समासः ॥ १९ ॥ विवरणम् ननु यूयं पूर्वमपि धन्या एवेत्याशङ्क्येदानीं विशेषतो धन्यत्वमाहुःनित्यमिति । वयम् अर्काच्च सोमाच्च परं पदं नित्यम् अध्यास्महे । अर्कादादित्यात् सोमाच्चन्द्राच्च परम् उपरि पदं स्थानम् । ‘अधिशीङ्स्थासां कर्म ’ (१.४.४६) इति कर्मसंज्ञा । नित्यं नियमेन अध्यास्महे अधिरुह्यास्महे । ‘आस उपवेशने’ इति धातुः । इत्थं पूर्वावस्थामनूद्य विशेषमेवाहुः - अद्य तु तव स्मरणानुग्रहात् ताभ्याम् उच्चैस्तराम् । पदमध्यास्मह इति अत्राप्यनुषज्यते । तुशब्दोऽद्यतनं विशेषमाह । तव त्रैलोक्याधिपतेः । स्मरणं च तदनुग्रहश्चेति विग्रहः । तस्माद्धेतोः ताभ्याम् अर्कसोमाभ्याम् उच्चैस्तराम् अत्युन्नतम्। तरबन्तादुच्चैस्तरशब्दात् ‘किमेत्तिद्व्ययघादाम्वद्रव्यप्रकर्षे’ (५.४.११) इत्यामुप्रत्ययः । आमः स्वरादिषु पाठात् तदन्यस्याव्ययत्वादुच्चैस्तरामित्यव्ययम् । अत एव पदविशेषणत्वम् । यद्यपि वयं चन्द्रार्कमार्गोत्तीर्णे मार्गे पूर्वमेव वर्तामहे, तथापीदानीं तव स्मरणरूपादनुग्रहात् ततोऽप्यधिकोन्नते पदे वर्तामह इत्यर्थः ॥ १९ ॥ 1 । ३५२ कुमारसम्भवे त्वत्संभावितमात्मानं बहु मन्यामहे वयम् । प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥२०॥ किञ्चेत्याह- प्रकाशिका त्वदिति । आत्मानमिति प्रत्येकप्रतीत्यपेक्षयैकवचनम् । बहु गुणभूयिष्ठमित्यर्थः । मननविशेषणं चैतत् । प्रत्ययं विश्वासम् । प्राय इति तद्विशेषणम्। भूयांसं प्रत्ययमित्यर्थः ॥ २० ॥ विशेषान्तरमाहुः —

विवरणम् त्वदिति । वयं त्वत्सम्भावितम् आत्मानं बहु मन्यामहे । त्वया सम्भावितं कृतसम्पानम्। आत्मानमिति प्रत्येकप्रतीत्यपेक्षयैकवचनम्। बह्विति मनुक्रियाविशेषणम्। गुणभूयिष्ठमित्यर्थः । त्वया कृतसम्मानानस्मान् वयं बहुमन्यामह इत्यर्थः । अत्रार्थान्तरन्यासमाहुः - उत्तमादरः स्वगुणेषु प्रायः प्रत्ययम् आधत्ते । उत्तमादरः उत्तमानामुत्कृष्टानां जनानामादरः बहुमानः । स्वगुणेषु स्वस्य गुणेषु । प्राय इति प्रत्ययविशेषणम्। भूयांसमित्यर्थः । ‘प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु’ इति यादवः । प्रत्ययं विश्वासम् आधत्ते विदधाति । महाजनानां बहुमानः स्वगुणेषु महान्तं विश्वासमादधातीत्यर्थः । आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं [ अभि. शाकु. १. २] इति न्यायोऽनेन दर्शितः ॥ २० ॥ चेतः ॥ या नः प्रीतिर्विरूपाक्ष ! तव निध्यानसंभवा । सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥ २१ ॥ प्रकाशिका येति । तव निध्यानसंभवेति पाठः । त्वदनुध्यानेति पाठे ‘स्मरणानुग्रहात् तव’ (६.१९) इति पुनरुक्तं स्यात् । अन्तरात्मा साक्षिमात्रं कोऽप्यात्मा । अत्र मनुः - योऽस्यात्मन कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतान्मोच्यते बुधैः ॥ षष्ठः सर्गः जीवसंज्ञोऽन्तरात्मा च सहजः सर्वदेहिनाम् । यन्न वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ ( १२.१२,१३ ) इति ॥ २१ ॥ विवरणम् अथ भगवत्स्वरूपसाक्षात्कारसम्भवां प्रीतिं निवेदयन्ति- ३५३ येति । विरूपाक्ष ! नः तव निध्यानसम्भवा प्रीतिः या सा तुभ्यं किम् आवेद्यते। निरूपाक्ष! हे त्रिलोचन! नः अस्माकम् । तव निध्यानसम्भवा प्रीतिः । तवेति कर्मणि षष्ठी । निध्यानं दर्शनम् ‘निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणमिति तु सिंहः । तव निध्यानात् स्वरूपसाक्षात्कारात् सम्भवः उद्भवो यस्याः तादृशी या प्रीतिः, सा तुभ्यं किमावेद्यते । किंशब्दो हेतुप्रश्ने । कस्माद्धेतोः, न कस्मादपीत्यर्थः । ननु परगतायाः प्रीतेः परेणावगन्तुशक्यत्वात् कथमनिवेदनीयत्वमित्यत्राहुः -त्वं देहिनाम् अन्तरात्मा असि इति । देहिनां शरीरिणाम् अन्तरात्मा परमात्मा । असि कर्मसाक्षी भवसीत्यर्थ । अत्र मनुः- योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतोत्मोच्यते बुधैः ॥ जीवसंज्ञोऽन्तरात्मा च सहजः सर्वदेहिनाम् । यन्न वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ इति। नहि सकलशरीरिणामखिलकर्मसाक्षिभूतेन भवता अस्माकं हृदयगतं न विज्ञातमिति सम्भवति। विज्ञातस्यार्थस्य तु पुनर्वचनमनर्थकमेवेति भावः ॥ २१ ॥ साक्षाद् दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा । प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥२२॥ प्रकाशिका साक्षादिति । पुनश्शब्देन विशेषवाचिना तथापिशब्दस्य विषयोऽपहृतः । तदभावे हि स प्रयोक्तव्यः स्यात् । अञ्जसा तत्त्वतः । प्रसीद, प्रसादायत्तमेव ह्यात्मनः कथनमिति भावः । साक्षाद् दृष्टस्यापि तत्त्वतोऽपरिज्ञाने हेतुमाह-न धियामिति॥२२॥ विवरणम् इत्थं भगवद्दर्शने जातेऽपि स्वरूपपरिज्ञानाभावाद् भगवत्स्वरूपमेव सम्यगवगन्तुं प्रार्थयन्ते-३५४ कुमारसम्भवे साक्षादिति । साक्षाद् दृष्टः असि । साक्षात् प्रत्यक्षेणैव दृष्टोऽसि । अस्माभिरिति शेषः । सर्वेषामागमगम्यो भवानिदानीमस्माभिः प्रत्यक्षप्रमाणेनैवावगतोऽसीत्यर्थः । तथापि साक्षात्कारस्य फलं तत्त्वतः परिज्ञानं नाभूदित्याहुः - वयं पुनः त्वाम् अञ्जसा न विद्मः । पुनशशब्दो विशेषवाची । वयन्त्वित्यर्थः । अयमेव तथापीतिशब्दस्यार्थमपि द्योतयतीति तत्प्रयोगाभावः । अञ्जसा तत्त्वतः न विद्मः न जानीमः । यद्यपि भवान् अद्य कृपया नः साक्षात्कारपदवीमुपगतः, वयं तु तथापि त्वां परमार्थतो नावगच्छाम इत्यर्थः । अत एव प्रार्थयन्ते - त्वं प्रसीद इति । त्वम् अस्मद्विषयं प्रसादं विधेहीत्यर्थः। ननु किमतः परं भवतां प्रसन्नेन मया कर्तव्यमित्यत्राहुः — त्वम् आत्मानं कथय इति । आत्मानं परमार्थरूपं भवत्स्वरूपम् । कथय निवेदय । ननु साक्षात्कारे जाते किमतः परं कथनीयमवशिष्यत इत्यत्राहुः - त्वं धियां पथि न वर्तसे इति । धियां बुद्धीनाम् । ‘बुद्धिर्मनीषा धिषणा धीः’ इत्यमरः । पथि मार्गे । न वर्तसे न विषयो भवसीत्यर्थः । ज्ञानविषयत्वे ज्ञेयत्वप्रसङ्गाद् दृश्यमानमिदं न भवतः परमार्थभूतं स्वरूपं, किन्तु मायाशबलमेवेति भावः ॥ २२ ॥ किं येन सृजसि व्यक्तमुत येन बिभर्षि यत् । अथो यस्तस्य संहर्ता भागः कतम एष ते ॥ २३ ॥ प्रकाशिका ननु साक्षाद् दृष्टोऽस्मि, ईश्वरश्चास्मि विदितः, तत् किमत्रापरिज्ञातं तत्त्वमित्याह- किमिति । किंशब्दो विकल्पे । ‘विकल्पे किं किमूत चे ‘ति सिंहः । येन वा सृजसीत्यर्थ । प्रथमविकल्पकरणं स्थाणुर्वा पुरुषो वेतिवद् वोद्धव्यम् । तथा मेघसन्देशेऽपि - ‘सा बलिव्याकुला वा (८३) इति । व्यक्तं प्रपञ्चम् । अथो विकल्पे । भागोंऽशः । अनेनांशिरूपमन्यदेव सकलतत्त्वातीतमगोचरं सर्वकरणा-नामस्तीति ध्वन्यते । तेष्वेष कतम इत्यर्थः ॥ २३ ॥ विवरणम् अत एव पुनरपि तत्त्वजिज्ञासया पृच्छन्ति - किमिति । ते एषः भागः कतमः । एषः अस्माभिः प्रत्यक्षीक्रियमाणः भागः अंशः कतमः । ’ वा बहूनां जातिपरिप्रश्ने डतमच्’ (५.३.९३) । अस्माभिस्तव बहवो भागाः श्रूयन्ते तेषु कतमोऽयं भागः । तानेव भागानाहुः - त्वं येन व्यक्तं सृजसि सः किम् । येन भागेन व्यक्तं प्रपञ्चं सृजसि । किंशब्दो विकल्पे । ‘विकल्पे किं किमूत च’ इति सिंहः । आद्येऽपि विकल्पशिरसि विकल्पवाचकपदप्रयोगः स्थाणुर्वा पुरुषो वेत्यादिवद् द्रष्टव्यः । येन तद् बिभर्षि सः उत । तद् व्यक्तं बिभर्षि षष्ठः सर्गः ३५५ रक्षसि । उतशब्दो विकल्पे । येन प्रपञ्चं रक्षसि स वायं भागः । यः तस्य संहर्ता सः अथो । अथो विकल्पे । अस्माभिर्दृश्यमानस्तवायं भागः प्रपञ्चस्य स्रष्टा वा तस्य रक्षिता वा संहर्ता वेत्यर्थः । अत्र सर्वत्र भागपदप्रयोगाद् भागी परमार्थभूतः सत्त्वरजस्तमोभिरस्पृष्टः कश्चिदस्त्येवेति व्यज्यते । तादृशस्य परमार्थभूतस्यावगमविषयोऽयमस्माकं प्रश्न इति च ध्वन्यते ॥ २३ ॥ अथवा सुमहत्येषा प्रार्थना देव! तिष्ठतु । चिन्तितोपस्थिताँस्तावच्छाधि नः करवाम किम् ॥ २४ ॥ प्रकाशिका , अथाप्रासङ्गिकदुरवापार्थप्रार्थनानिषेधपुरस्सरं प्रकृतं बुभुत्समाना निदेशं प्रार्थयन्तेअथवेति । सुमहती दुरवापेत्यर्थः । अत एव तिष्ठतु, नायमवसरस्तस्या इत्यर्थः । किं करवाम किमस्माभिः कर्तव्यं, तच्छाधि तदाज्ञापयेत्यर्थः । चिन्तितेत्यनेन कर्तव्यस्य सत्ता द्योत्यते । उपस्थितानिति निदेशयोग्यत्वम् । अत्र मुनीनां देवविषया प्रीतिर्भाववनिरिति व्यपदिश्यते । सा च देवस्य सप्रसादावलोकनादिभिरुद्दीपनैरुद्दीप्यमाना हर्षधृतिमतिगर्वचपलतौत्सुक्यसंभ्रमैर्व्यभिचारिभिरुपचीयमाना वागारम्भानुभावेनाभिव्यज्यते ॥ २४ ॥ विवरणम् अथ भगवद्दर्शनकौतुकोन्मादप्रवृत्तालपनप्रसङ्गागतां दुरवगमार्थप्रार्थनां प्रतिषेधन्तो निदेशानुग्रहमेव प्रार्थयन्ते- अथवेति । देव! अथवा सुमहती एषा प्रार्थना तिष्ठतु । हे देव! अथवेति पक्षान्तरे । सुमहती अतिमहती । दुरवापेत्यर्थः । एषा अस्माभिरिदानीं कृता । प्रार्थना प्रकृष्टा याचना तिष्ठतु । नायमस्या अवसरः । अस्मत्सेवया भगवदुपागमनसमय एवेयं प्रार्थना युक्तेत्यर्थः । तर्हि कस्यायमवसर इत्यत्राहुः – त्वं तावत् चिन्तितोपस्थितान् न शाधि । तावत् प्रथमम् । चिन्तितान् अत एवोपस्थितान् प्राप्तान्। अत्र चिन्तितानित्यनेन कर्तव्यांशस्य अस्तित्वमुक्तम्, उपस्थितानित्यनेन निदेशयोग्यत्वम्। नः अस्मान् शाधि । ‘शासु अनुशिष्टाविति धातुः । नियुङ्क्ष्वेत्यर्थः। इत्थं सामान्यतः प्रार्थितं नियोगमेव विशेषतोऽवधारयितुमर्थयन्तेवयं किं करवाम इति । कीदृशोऽर्थविशेषोऽस्माभिः कर्तव्य इत्यर्थः । तच्छाधीति पूर्वेण योजनम्। अत्र प्रकरणे मुनीनां देवविषया प्रीतिर्दर्शिता । सैव भाव इति व्यपदिश्यते । रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः ’ (काव्यप्र. ४. ३५) इति । तस्य च देवस्य कटाक्षमन्दस्मितादिभिः प्रसादावधारण- । ३५६ कुमारसम्भवे मुद्दीपनम् । हर्षधृतिमतिगर्वचपलतौत्सुक्यसंभ्रमास्तु व्यभिचारिणः । वागारम्भादिरूपाश्चानुभावाः। एतैर्देवविषयो रत्याख्यो भावः सुतरामभिव्यज्यते । तत्रास्माकमेवंभूतं भगवद्दर्शनं जातमिति हर्षः । भगवत्प्रसादावगमेन पूर्णार्थता धृतिः । भगवत्स्वरूपयाथार्थ्यावगमाद् बुद्धेः कृतार्थता मतिः । इदानीमस्मत्सदृशः को वास्तीति गर्वः । भक्तिपरवशत्वाच्चपलता । निदेशानुग्रहे कालाक्षमत्वमौत्सुक्यम् । किमिदानीं तिरोधानात् पूर्वमेव सम्यगवलोकनीयं भगवत्स्वरूपम्, उत भगवानेव स्तोतव्यः, उत नमस्कार्य इत्यादेरहमहमिकया प्रतीतेः सम्भ्रमः ॥ २४ ॥ अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः । उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः ॥२५॥ प्रकाशिका अथ देवस्योपसन्नमुनिमण्डलविषयं प्रस्तुतार्थे निदेशमवतारयति- अथेति । मौलिगतस्येति संश्रितपोषणपरत्वं सर्वत्रास्यास्तीति द्योतयति । उपचिन्वन्निति ‘वृद्धिः समानैः सर्वेषामिति न्यायात् । तन्वीमिति दशनांश्वपेक्षयोक्तम् ॥ २५ ॥ विवरणम् इत्थमुपरते मुनिवचसि भगवतो मुनिविषयं प्रकृतोपयोगसुभगं नियोगमवतारयितुमुपक्रमते- अथेति । अथ परमेश्वरः प्रत्याह । अथ शाधीति मुनिवचनानन्तरम् । प्रत्याहेति अथशब्दयोगात् पूर्ववद् भूते लट् । तेभ्यः प्रतिवचनं दत्तवान्। देवस्य स्मितपूर्वाभिभाषित्वं भङ्गयन्तरेण दर्शयति – विशदैर्दशनांशुभिः मौलिगतस्य इन्दोः तन्वीं प्रभाम् उपचिन्वन् इति । विशदैः निर्मलैः । अनेन इन्दुप्रभोपचये दशनांशूनां सामर्थ्यं दर्शितम्। ‘वृद्धिः समानैः सर्वेषामिति न्यायात् । दशनानां दन्तानाम् अंशुभिः प्रभाभिः । मन्दस्मितोद्भूतैरिति शेषः । मौलि जटासंयतं केशं गतस्य प्राप्तस्य । ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रय’ इत्यमरः । इन्दोर्जटागतत्वोत्त्या परमेश्वराश्रितत्वमुक्तम्। तेन च प्रसादातिशयान्मन्दहासाधिक्यं ध्वन्यते । इन्दुप्रभायास्तन्वीत्वप्रतिपादनेन पोषणयोग्यत्वं सूचितम् । प्रभां रश्मिम् उपचिन्वन् वर्धयन्। मन्दस्मितोद्गतैर्दन्तप्रभासन्तानैः कोटीरभारघटितस्य बालचन्द्रस्य प्रभां वर्धयन् प्रत्युवाचेत्यर्थः ॥ २५ ॥ विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥ २६ ॥ षष्ठः सर्गः प्रकाशिका ३५७ निदेशक्रममाह- विदितमिति । वो विदितमिति तत्त्वदृष्ट्या । यूयमेवावधृतपरमार्था इति भावः । किं विदितमित्यत्राह — यथेति । काश्चिदपि मे प्रवृत्तयो यथा न स्वार्थास्तथा वो विदितमित्यर्थः। अत्र स्वार्थत्वनिषेधात् प्रवृत्तीनां परार्थत्वमर्थप्राप्तं, ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत’ इति न्यायात् । ननुरवधारणे । अष्टाभिः खात्मेन्दुवह्निमरुदर्कमहीपयोरूपाभिः इत्थंभूतः अस्वार्थप्रवृत्तिः सूचितः प्रकाशितः । लोकेऽपीति शेषः । प्रत्यक्षैः पृथिव्यादिरूपैः प्रसिद्धास्वार्थधारणादिव्यापारैरप्रत्यक्षमपि मे रूपं परार्थस्वव्यापारं स्थूलदृष्टिभिरप्यनुमातुं शक्यमित्यर्थः । एतच्च वाक्यं वक्ष्यमाणस्य कन्यावरणनिदेशहेतोस्त्रिदशप्रार्थनाहेतुकस्य दाराहरणाभिलाषस्य स्वार्थत्वाभावेऽपि परार्थत्वेनोपपद्यमानतां दर्शयितुम् ॥ २६ ॥ विवरणम् अथ क्रमेण निदेशप्रकारमेव दर्शयति विदितमित्यादिभिरष्टभिः श्लोकैः ॥ तत्रादावात्मनो भार्यापरिग्रहस्य परोपकारार्थतां प्रतिपादयिष्यन् सर्वासामपि निजप्रवृत्तीनां परोपकारार्थतां दर्शयति- विदितमिति । मे काश्चित् प्रवृत्तयः यथा न स्वार्थाः, तथा वः विदितम्। मे काश्चिदपि प्रवृत्तयः व्यापाराः यथा येन प्रकारेण न स्वार्थाः न आत्मार्थाः, तथा तेन प्रकारेण वः । ‘क्तस्य च वर्तमाने’ (२.३.६७) इति कर्तरि षष्ठी । युष्माभिरित्यर्थः । विदितं वर्तमाने क्तः । सर्वेषामपि मे व्यापाराणां यथा न स्वार्थत्वं, तथा तपःप्रभावादवगतपरमार्थैर्युष्माभिरवगम्यत एवेत्यर्थः । अत्र प्रवृत्तीनां स्वार्थत्वनिषेधस्य परार्थत्वविधिरेव फलं, ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तने’ इति न्यायात्। अस्मत्प्रवृत्तीनां परार्थमात्रपरायणत्वं स्थूलदृष्टिभिरन्यैरवगन्तुं शक्यमेवेत्याहअष्टाभिर्मूर्तिभिः इत्थंभूतः ननु सूचितः अस्मि इति । अष्टाभिः । भूमिरापोऽनलो वायुरात्मा व्योम रविः शशी । इतीमाः सर्वलोकानां प्रत्यक्षाः शिवमूर्तयः ॥ इति शैवागमप्रसिद्धाभिः मूर्तिभिः शरीरैः सूचने कर्तृभूतैः । इत्थम्भूतः इमं प्रकारं प्राप्तः । ‘भू प्राप्ताविति धातुः । परार्थव्यापारतां प्राप्त इत्यर्थः । ननुरवधारणे । इत्थंभूत एवेत्यर्थः । सूचितः प्रकाशितः । लोकेऽपीति शेषः । प्रत्यक्षाणां पृथिव्यादीनां मम रूपाणां परार्थत्वदर्शनादप्रत्यक्षमागमैकगम्यं रूपमपि परार्थमात्रपरमिति सर्वैरप्यनुमातुं शक्यमेवेति भावः । पृथिव्यादीनां धारणादिव्यापारस्य परार्थमात्रपरत्वं प्रसिद्धमेव । अत्रागमगम्यं प्रत्यक्षगम्यं चेति द्विविधं मे स्वरूपमिति ३५८ कुमारसम्भवे निजस्वरूपकथनात् ‘प्रसीद कथयात्मानम्’ (६.२२) इति मुनिभिः प्रार्थितं निजस्वरूपकथनमप्यर्थाद् भगवता कृतमित्यवसेयम् ॥ २६ ॥ सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः । अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ २७ ॥ अथ ततः किमित्याह- प्रकाशिका स इति। सः, य एवं परार्थैकप्रवृत्तिः । विद्युत्वान् । ‘झयः’ (८.२.१०) इति मतुपो वत्वम् । चातकैरित्यनेन तेषामनन्यशरणत्वं द्योत्यते । याचित इत्यनेन कामदाहानन्तरमिन्द्रादिभिर्याचित इत्यवसेयम् ॥ २७ ॥ विवरणम् नन्वस्तु भवत्प्रवृत्तीनां परार्थैकपरत्वम् । प्रकृते किमायातमित्यत्राह- स इति । सः अहम् अरिविप्रकृतैः देवैः प्रसूतिं प्रति याचितः । य एवं परार्थमात्रनिरतः सोऽहम्। अरिणा शत्रुभूतेन तारकेण विप्रकृतैः पीडितैः देवैरिन्द्राद्यैः प्रसूतिं प्रति पुत्रोत्पादनमुद्दिश्य याचितः अपेक्षितः । अनेन कामदहनान्तरं भग्नमनोरथैरवगतपरमार्थैर्देवैर्भगवानभ्यर्थितोऽभूदित्येषा कथा द्योत्यते । अत्रोपमामाह— तृष्णातुरैः चातकैः विद्युत्वान् वृष्टिम् इव इति । तृष्णया दाहेन आतुरैः परवशैः चातकैः बकोटैः । विद्युदस्यास्तीति विद्युत्वान् मेघः । ‘झयः’ इति मतुपो मकारस्य वत्वम्। वृष्टिं वर्षमिव । यथा तृष्णातुराश्चातकाः मेघं वृष्टिं याचन्ते, तथा शत्रुपीडितास्त्रिदशाः मां प्रति पुत्रोत्पत्तिमभ्यर्थितवन्त इत्यर्थः । अत्र अरिविप्रकृतत्वस्य तृष्णातुरत्वस्य च बिम्बप्रतिबिम्बत्वेनोपादानम् । चातकदृष्टान्तेन देवानामनन्यशरणत्वं द्योत्यते, तेन च तत्प्रार्थनस्यालङ्घनीयत्वम् ॥ २७॥ अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने । उत्पादाय हविर्भोक्तुर्यजमान इवारणिम् ॥ २८ ॥ प्रकाशिका अत इति । आहर्तुं परिणेतुम् । आत्मजन्मने पुत्राय । क्वचित्तु षष्ठ्यन्तः पाठः । अरण्युपमानेन ‘उभे एव क्षमे वोढुम्’ (२.६०) इत्यादिनोक्तं तस्या एव तद्योग्यत्वं दर्शयति। अत्रेन्दादियाचनमेव परिणयनेच्छायाः कारणत्वेनोपन्यस्तं, न तु देव्यास्तपः, यतस्ते मुनयस्तत्त्वतः शिवयोः शैलीं जानन्ति । तौ हि न कदाचिदपि परस्परविरहितौ । ततश्च न वस्तुतः समागमार्थं तपो देव्याः, किन्तु लोके षष्ठः सर्गः ३५९ स्त्रीधर्मसंशिक्षणार्थं कुले प्रसूतया स्त्रिया सर्वात्मना स्वानुरूपः पतिर्लब्धव्य इति । यथा परार्थैकव्यापारः शिवः, तथा तच्छक्तिरपीति ॥ २८ ॥ अस्त्वेवं, ततः किमित्यत्राह- विवरणम् अत इति। अतः अहम् आत्मजन्मने पार्वतीम् आहर्तुम् इच्छामि। अतः अलङ्घनीयत्रिदशप्रार्थनाद्धेतोः । नन्वत्र महता प्रबन्धेन प्रतिपादितं देव्यास्तपश्चरणमुपेक्ष्य त्रिदशप्रार्थनमेव किमर्थ देवेन परिणयेच्छाकारणत्वेनोपन्यस्तम्। सप्तर्षीमां च तद्दर्शित्वादिति ब्रूमः । ते हि शिवयोः स्वरूपं परमार्थतो जानन्ति । नहि तौ कदाचिदपि परस्परवियुक्तौ । ततो न देव्याः समागमप्रार्थनया तपश्चरणम्। किन्तु महाकुलप्रसूताभिः कन्यकाभिरेवमात्मानुरूपो वरः प्राप्तव्य इति स्त्रीधर्मसंशिक्षणार्थमेवेति युक्तं परमेश्वरस्य मुनीन् प्रति देवीतपश्चरणानुपन्यास इत्यलमनेन । आत्मजन्मा पुत्रः । आत्मजन्मानमुत्पादयितुमित्यर्थः । षष्ठ्यन्तपाठे उत्पादायेति योज्यम्। पार्वतीमित्यनेन संबन्धयोग्यत्वमुक्तम् । आहर्तुं परिणेतुम् इच्छामि । अत्रोपमामाह— यजमानः हविर्भोक्तुः उत्पादाय अरणिमिवेति । यजमानो यागकर्ता हविषो भोक्तुरग्नेः उत्पादाय उत्पादनाय । अरणिर्नाम अग्निहोत्रादिष्वग्निनिर्मन्थनार्थं निर्मितं दारु। अग्न्युत्पादनार्थं यथा यजमानोऽरणिमिच्छति, तथा अहं पुत्रोत्पादनार्थं पार्वतीं परिणेतुमिच्छामीत्यर्थः । अत्र आत्मनो यजमानोपमानेन धर्मप्रवणत्वं सूचितम्। आत्मजन्मनो वह्न्युपमानेन तस्य लोकोत्तरप्रतापत्वं सूचितम् । पार्वत्या अरण्युपमानेन ‘उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम् (२.६०) इत्यादिनोक्तं पार्वत्या एवात्मवीर्यधारणयोग्यत्वं व्यज्यते ॥ २८ ॥ तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः । विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ २९ ॥ प्रकाशिका तत्र किमस्माभिः कर्तव्यमित्यत्राह— तामिति । अस्मदर्थे ‘निमित्तात् कमसंयोगे’ (वा २.३.३६) इति सप्तमी । विक्रियायै विकारं कर्तुम् । विकारो दोषः । सदनुष्ठिताः सद्भिरनुष्ठापिताः । ण्यर्थोऽत्रान्तर्भूतः । अत्र प्रैषार्थस्तव्यप्रत्ययः । एवं परार्थवृत्तिरहं त्रिदशाभ्यर्थनया परिणिनीषुः कन्यावरणे युष्मान् नियुञ्ज्यामित्यर्थः ॥ २९ ॥ विवरणम् आहरणे किमस्याभिः कर्तव्यमित्यत्राह— ३६० । कुमारसम्भवे तामिति । युष्माभिः अस्मदर्थे हिमालयः तां याचितव्यः । युष्माभिः तत्तादृशतपःप्रभावयुक्तैः । तत एव हि सम्बन्धस्य सज्जनकारितत्वं सम्भवतीति भावः । अस्मदर्थे इति ‘निमित्तात् कर्मसंयोग’ इति सप्तमी । अस्मत्प्रयोजननिमित्तमित्यर्थः। हिमालयः हिमवान् अनभिहितकर्म ( २.३.१) तां पार्वतीम् । याचितव्यः अर्थनीयः । प्रैषार्थोऽत्र तव्यप्रत्ययः । इत्थं परार्थप्रवृत्तिरहं सुजनप्रार्थनया विवाहं कर्तुकामः कन्यावरणे युष्मान् नियुञ्ज्यामित्यर्थः । ननु अस्माभिरेवेदं कर्तव्यमिति को नियम इत्यत्राह — सदनुष्ठिताः सम्बन्धाः विक्रियायै न कल्पन्ते । सद्भिः सज्जनैरनुष्ठिता अनुष्ठापिताः । अन्तर्भूतण्यर्थोऽयं प्रयोगः । सम्बन्धाः विवाहादयः विक्रियायै विकारं दोषं कर्तुं न कल्पन्ते न समर्था भवन्ति । ‘कृपू सामर्थ्य’ इति धातुः । सज्जनैः कारिता विवाहदयो न कदाचिदपि दोषमुत्पादयन्तीत्यर्थः। अर्थान्तरन्यासश्चायम्॥ २९ ॥ उन्नतेन स्थितिमता धुरमुद्वहता भुवः । तेन योजितसम्बन्धं वित्त मामप्यवञ्चितम् ॥३०॥ प्रकाशिका , ननु याचितव्य इति किं देवेनोच्यते स एव हि कृतार्थः स्याद्, यदि कन्यां देवः स्वीकुर्यात् । देवस्य तु कियदेतदित्याह - we उन्नतेनेति । उन्नतिः कुलादिना । युष्माभिरिति शेषः । वित्त जानीध्वम् । योजितसंबन्धम् ॥ ३०॥ " स्थितिः स्थैर्यम् । योजितसम्बन्धम् । मामपि न केवलं हिमवन्तं मया विवरणम् ननु यदि भगवता हिमवतः सुता परिगृह्यते, तर्हि स एव कृतार्थः स्यात्, किमर्थं याचितव्य इत्युक्तम् अत आह— उन्नतेनेति । तेन योजितसम्बन्धं माम् अपि अवञ्चितं वित्त। तेन हिमवता योजितो विहितः सम्बन्धो यस्य तम् । युष्माभिरिति शेषः । मामपि न केवलं मया योजितसम्बन्धं हिमवन्तमेव । अत एव तेन योजितसम्बन्धं मामपि इत्यपिशब्दार्थः । वञ्चितो न भवतीत्यवञ्चितः तं कृतार्थमित्यर्थः । वित्त जानीध्वम् । ननु कथं तेन योजितसम्बन्धस्य भगवतः कृतार्थत्वम् इत्यत्र तद्गुणानाह त्रिभिर्विशेषणैः । तत्र हिमवतो देवतात्मकं स्थावरात्मकं च रूपद्वयमस्ति । तत्रोभयत्रापि श्लिष्टं विशेषणत्रयम् । तत्र विवाहेषु उभयकुलशुद्धेरेव प्राधान्यादादौ कुलशुद्धिमाह - उन्नतेनेति। जात्याचारादिभिरुत्कृष्टेनेत्यर्थः, प्रांशुना च । स्थिरव्यवसायत्वमाह षष्ठः सर्गः ३६१ स्थितिमतेति । स्थितिः स्थैर्यं तद्वता स्थिरबुद्धिनेत्यर्थः, अनेन कार्याकार्यविवेककुशलत्वमुक्तम्, अचञ्चलस्वरूपेण च । महाराजत्वमाह - भुवः धुरम् उद्वहता इति । अत्र विशेषानुपादानाद् भूमण्डलस्य न तदेकदेशस्येत्यर्थः । धुरं रक्षाव्यापारम् । उद्वहता दधानेन, सार्वभौमेनेत्यर्थः, भूमेरुद्धरणव्यापारमुद्वहता च । कुलपर्वतैरेव हि पृथिवी ध्रियते ॥ ३० ॥ एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते । भवत्प्रणीतमाचारमामनन्ति हि हि साधवः ॥३१ ॥ स कथं याचितव्य इत्याह- प्रकाशिका एवमिति । वो युष्मभ्यम् । भवत्प्रणीतं युष्मत्कृतबन्धनम्। आचारं लौकिकवैदिकम्। स्मृत्यात्मना निबद्धमाचारं लोके साधवोऽधीयत इत्यर्थः ॥ ३१ ॥ विवरणम् नन्वस्माभिः कथं हिमवान् कन्यां याचितव्यः इत्यत्राह - एवमिति । सः कन्यार्थम् एवं वाच्यः इति वः न उपदिश्यते । सः हिमवान् । कन्यार्थं कन्याप्रयोजनम् । वचनक्रियाविशेषणं चैतत् । एवमिति वचनस्वरूपनिर्देशः । वाच्यः वक्तुं योग्यः । इतिशब्दः उपदेशप्रकारवाची । वः युष्मभ्यम् । नोपदिश्यते । मयेति शेषः । उपदेशस्य निष्प्रयोजनत्वमेवोपपादयति — साधवः भवत्प्रणीतम् आचारं हि आमनन्ति इति । साधवः सज्जनाः । भवत्प्रणीतं भवद्भिः प्रणीतं स्मृत्यात्मना निबद्धम्। आचारं लौकिकवैदिकात्मकम् । हिशब्दः प्रसिद्धौ । आमनन्ति अभ्यस्यन्ति । भवद्भिः स्मृत्यात्मना निबद्ध आचार एव हि सद्भिः अभ्यस्यते । अथवा आचारं भवत्प्रणीतम् वदन्तीत्यर्थः । तस्मादाचारप्रवर्तकान् प्रत्याचारोपदेशो हासकारणमेवेति भावः ॥ ३१ ॥ आर्याप्यरुन्धती तत्र साहाय्यं कर्तुमर्हति । प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ ३२॥ किञ्चेत्याह- प्रकाशिका गर आर्येति । आर्येति निर्देशेन स्वधर्मनिष्ठः सर्वः परमेश्वरस्यापि गौरवविषय इति द्योतयति । किं वयमेव नालमत्रेत्याह - प्रायेणेति । पुरन्ध्रीणां कुटुम्बिनीनाम् ॥ ३२ ॥ ३६२ कुमारसम्भवे विवरणम् गौरवविशेषाभावादरुन्धतीं प्रत्यप्याह- आर्येति । आर्या अरुन्धती अपि तत्र साहाय्यं कर्तुम् अर्हति । अत्रार्यशब्दप्रयोगात् स्वधर्ममात्रनिरता जनाः सर्वेऽपि परमेश्वरस्यापि गौरवविषया इति द्योत्यते। अरुन्धती वसिष्ठपत्नी । अपिशब्दः पूर्वोक्तमुनिजनसाहाय्यसमुच्चयार्थः । तत्र कन्याप्रार्थनायां साहाय्यं सहायत्वं कर्तुम् अर्हति योग्या भवति । ननु वयमेव तत्रालं किमनयेत्यत्राह—एवंविधे कार्ये प्रायेण पुरन्ध्रीणां प्रगल्भता इति । एवंविधे स्त्रीपुरुषसङ्घटनादिरूपे कार्ये कर्तव्ये । प्रायेण, अनेन पुरुषाणां तत्र न्यूनप्रागल्भ्यमुक्तम्। पुरन्ध्रीणां कुटुम्बिनीनां पुरन्ध्री स्यात्कुटुम्बिनी ‘ति भोजः । प्रगल्भता प्रागल्भ्यम् । स्त्रीजना एव तत्र प्रधानाधिकारिण इति भावः ॥ ३२॥ तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् । महाकौशीप्रपातेऽस्मिन् सङ्गमः पुनरस्तु नः ॥३३॥ उपसंहरति- प्रकाशिका तदिति। ओषधिप्रस्थमिति नाम । सिद्धये प्रस्तुतलाभाय । देवप्रसादायत्तं देवस्य दर्शनं क्व पुनर्भावीत्यत्राह — महाकौशीति । महाकौशीति हिमवत्प्रभवा कापि नदी । प्रपतत्यस्मिन्निति प्रपातः ॥ ३३ ॥ वचनमुपसंहरति- विवरणम् तदिति । तद् यूयं सिद्धये ओषधिप्रस्थं हिमवत्पुरं प्रयात। तद् यस्मादवश्यं लोकहितार्थं कन्या प्रार्थनीया, तस्मादित्यर्थः । सिद्धये प्रस्तुतविवाहकार्यलाभाय । ओषधिप्रस्थमिति हिमवत्पुरस्य नाम । हिमवतः पुरं हिमवत्पुरम् । प्रयात प्रतिष्ठध्वं, प्रस्तुतविवाहकार्यसिद्ध्यर्थं भवद्भिरोषधिप्रस्थाभिधानां हिमवतो राजधानीं प्रति प्रयातव्यमित्यर्थः । ‘चिन्तितोपस्थितांस्तावच्छाधि नः’ (६.२४) इति मुनिभिः प्रार्थितो निदेशानुग्रहोऽनेन कृतः । नन्वस्मत्प्रत्यागमसमये देवप्रसादमात्रायत्तं देवस्य दर्शनं कस्मिन् प्रदेशे पुनरस्माकं भविष्यतीत्यत्राह – पुनः नः सङ्गमः अस्मिन् महाकौशीप्रपाते अस्तु । पुनर्भवतां प्रत्यागमनानन्तरम् । नः भवतामस्माकं च । सङ्गमः संयोगः । अस्मिन्निति सहस्तनिर्देशं वचनं सन्निधानं द्योतयति । हिमवच्छिखर एवेत्यर्थः । महाकौशीति हिमवत्प्रभवा काचन महानदी, तस्याः प्रपाते प्रपतत्यस्मिन्निति प्रपातः पतनस्थानं महाकौशीप्रपतनस्थाने इत्यर्थः । यस्मिन् देशे षष्ठः सर्गः ३६३ महाकौशी हिमवच्छिखरादागत्य पतति तस्मिन् प्रदेशे इत्यर्थ । कन्याप्रार्थनानन्तरमत्र दृश्यमाने महाकौशीप्रपतनस्थान एव भवद्भिरागन्तव्यं, वयं तु तत्रैव निवसाम इति भावः ॥ ३३ ॥ तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे । जहुः परिग्रहव्रीलां प्राजापत्यास्तपस्विनः ॥३४॥ प्रकाशिका अथ प्रतिपन्नमहेश्वरनिदेशानां मुनीनां वृत्तमाह — तस्मिन्निति । संयमिनामाद्ये शास्त्रप्रणयनेन स्वयमनुष्ठानेन च निवृत्तिलक्षणस्य धर्मस्य संप्रदायप्रवर्तक इत्यर्थः । परिग्रहैः पत्नीभिः । व्रीलाम्, अद्याप्यमृदितकषाया वयमिति । प्राजापत्या ब्रह्मपुत्राः ॥ ३४ । विवरणम् इत्थं भगवता नियुक्तानां सप्तर्षीणां मानसीं प्रवृत्तिमाह- तस्मिन्निति । संयमिनाम् आद्ये तस्मिन् परिणयोन्मुखे जाते प्राजापत्याः तपस्विनः परिग्रहव्रीलां जहुः । संयमिनां जितेन्द्रियाणाम् आद्ये श्रेष्ठे । अनेन भगवतः शास्त्रप्रणयनेन स्वयमेव तदुक्तार्थानुष्ठानेन च निवृत्तिलक्षणस्य धर्मस्य परम्पराप्रवर्तकत्वमुक्तम्। तस्मिन् परमेश्वरे । परिणयोन्मुखे परिणयो विवाहः तदर्थम् उन्मुखे उद्युक्ते जाते सति । प्रजापतेः ब्रह्मणः पुत्राः । ‘दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः’ (४.१.८५ ) । अनेन परिग्रहत्रीलाया उपपत्तिरुक्ता । तपस्विनः महर्षयः । नित्ययोगे मतुप् । परिग्रहैः पत्नीभिः व्रीलां लज्जां जहुः परित्यक्तवन्तः । निवृत्तिमार्गप्रवर्तके परमेश्वरे स्वयमेव प्रवृत्तिमार्गप्रधाने विवाहे प्रवृत्ते सति ब्रह्मपुत्रत्वात् सन्तततपश्चरणोद्युक्तत्वाच्च मृदितकषायत्वप्राप्त्युपपत्तौ सत्यामपि तदभावजनितां लज्जां सप्तर्षयः परितत्यजुरित्यर्थः ॥ ३४॥ ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् । भगवानपि संक्रान्तः प्रथमोद्दिष्टमास्पदम् ॥३५॥ प्रकाशिका तत इति । परमं बाढम् । ‘ओमेवं परमं मते इति सिंहः । प्रथमोद्दिष्टं महाकौशिकीप्रपातम् । अत्र सर्वेषां कार्यत्वरा गम्यते ॥ ३५ ॥ अथ तेषां गमनोद्योगमाह - विवरणम्३६४ कुमारसम्भवे तत इति । ततः मुनिमण्डलं परमम् इति उक्त्वा प्रतस्थे । ततः भगवन्नियोगानन्तरम्। मुनीनां मण्डलं समूहः । परममित्यनुवादवाचकमव्ययम् । ‘ओमेवं परमं मते’ इति सिंहः । इतिशब्दः प्रकारवाची । उक्तत्वा अभिधाय । प्रतस्थे गन्तुमारेभे । सप्तर्षयः परमेश्वरोदीरितमर्थं तथैवेति प्रतिज्ञाय गमनोद्योगं चक्रुरित्यर्थः । भगवतः प्रवृत्तिमाह — भगवानपि प्रथमोद्दिष्टम् आस्पदं सङ्कान्त इति । भगवान् परमेश्वरः। अपिशब्दः पूर्वोक्तमुनिमण्डलसमुच्चयार्थः । प्रथमं भगवतोद्दिष्टं निर्दिष्टम्। आस्पदं स्थानं सङ्कान्तः प्राप्तः । भगवानपि महाकौशीप्रपातं जगामेत्यर्थः । अनेन सर्वेषां कार्यत्वरा गम्यते ॥ ३५ ॥ त आकाशमसिश्याममुत्पत्य परमर्षयः । आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥ ३६ ॥ प्रकाशिका त इति। असिश्याममित्यनेन तेषां गमनत्वरयाकाशे दूरोत्पतनं ध्वनितम्। मनसा समरंहस इति त्वरा ॥ ३६ । तेषां गमनप्रकारमाह- विवरणम् त इति । ते परमर्षयः आकाशम् उत्पत्य ओषधिप्रस्थम् आसेदुः । परमाः उत्कृष्टाः ऋषयः। अनेनाकाशगमनसामर्थ्यं द्योत्यते । आकाशमुत्पत्य आकाशाभिमुखमुत्पतनं कृत्वेत्यर्थः । ओषधिप्रस्थम् आसेदुः प्रापुः । चातुर्यविशेषादुत्पतनसमनन्तरमेवाकाशे दूरोत्पतनं द्योतयन्नाकाशं विशिनष्टि — असिश्याममिति । असिः खङ्गः तद्वत् श्यामः यः तम् । आकाशस्य कृष्णवर्णत्वं प्रतीतिसिद्धम् । उक्तं च भट्टविष्णुना- अरूपमपि यद्रूपं नीलोत्पलदच्छवि । विभाति व्योमवत् तस्मै परस्मै विष्णवे नमः ॥ इति । दूरोपलभ्यमानास्यैव आकाशस्य एव असिश्यामत्वादुत्पतनसमय तादृशदेशप्राप्तिरनेनोक्ता । तेन च कार्यत्वरा तेषां तपःप्रभावश्च ध्वन्यते । उत्पतनानन्तरमेव हिमवत्पुरप्राप्तौ हेतुमाह — मनसा समरंहस इति । मनसा समं तुल्यं रहो येषां ते तथा । तादृशतपः प्रभावयुक्तानां किं किं न साध्यमित्यर्थः ॥ ३६॥ अलकामतिवाह्येव वसतिं वसुसम्पदाम् । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥३७॥ षष्ठः सर्गः प्रकाशिका ३६५ अलकामिति । अतिवाह्य अतिक्रम्य । स्वर्गाभिष्यन्दवमनं स्वर्गे अमान्त्याः संपदः समानयनम्। अत्र कौटल्यः ‘भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्’ (कौटि. अर्थ. २.१.१९) इति । ग्रामादिनिवेशने यावत्संख्याको जनो व्यवस्थापितः, तावत्संख्याकाज्जनादाधिक्येन यो जनः समुत्पद्यते, सोऽभिष्यन्दशब्देनोच्यते । तस्य वमनमन्यत्रनयनम् । अत्र त्वभिष्यन्दवमनं स्वर्गाधिकसमृद्ध्यानयनम् । वसुसंपदां वसतिमलकामतिवाह्येव स्वर्गाभिष्यन्दवमनं कृत्वेव चोपनिवेशितमोषधिप्रस्थमित्यन्वयः ॥ ३७॥ विवरणम् अथ ओषधिप्रस्थस्य रमणीयत्वमाह दशभिः श्लोकैः । तत्रादौ सर्वसुखानां धनमूलत्वाद्धनबाहुल्यमाह- अलकामिति । वसुसम्पदां वसतिम् अलकाम् अतिवाह्य इव स्वर्गाभिष्यन्दवमनं कृत्वा इव उपनिवेशितम् । वसूनां धनानां संपदां समृद्धीनां वसति निवासस्थानभूताम् अलकां वैश्रवणालयम् अतिवाह्य पराक्रमैरतिक्रम्येव च स्वर्गाभिष्यनन्दवमनं स्वर्गे अभिष्यन्दवमनम् अतिरिक्तसंपदानयनं, स्वर्गे यावती संपद् माति ततोऽधिका संपदत्राभिष्यन्दशब्देनोच्यते, तस्या वमनमन्यत्रानयनं, स्वर्गे अमान्त्याः संपदः समानयनमित्यर्थः । कृत्वा विधायेव च उपनिवेशितं स्थापितम् । हिमवतेति शेषः । तादृशमोषधिप्रस्थं आसेदुरिति पूर्वेणान्वयः । अत्र हिमवत्पुरस्य धनपरिपूर्णत्वदर्शनादुत्प्रेक्षाद्वयम् । वैश्रवणालयमभिभूय तत्रस्थाः संपदः समानीय विरचितमिवेत्येका। स्वर्गादतिरिक्ताः संपदः समानीय विरचितमिवेत्यन्या । द्विविधा हि नयविदां प्रवृत्तिः । यदाह कौटिल्य ःभूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेद्’ इति । अत्राभिष्यन्दशब्दो भोजराजेन व्याख्यातः - द्वावभिष्यन्दनिष्यन्दौ सारे निष्पीडनोद्भवे । व्यवस्थितादभ्यधिकोऽप्यभिष्यन्दो जनादिकः ॥ इति । अत्र तु धनं विवक्षितम् । अत एवादिशब्दप्रयोगः । अत्र वैश्रवणालयस्य परदेशत्वं स्वर्गस्य स्वदेशत्वं च गम्यते, तेन च वैश्रवणोऽपि हिमवदपेक्षया न्यूनः, स्वर्गसंपदपि तदायत्तेति च ध्वन्यते । ॥ ३७॥ गङ्गास्रोतः परिक्षिप्तं वप्रान्तज्वलितौषधि । ज्वलन्मणिशिलासालं गुप्तावपि मनोहरम् ॥ ३८ ॥ ३६६ कुमारसम्भवे प्रकाशिका गङ्गेति । परिक्षिप्तं कृतपरिखाकृत्यम् । वप्रः प्राकाराधिष्ठानम् । सालः प्राकारः । गुप्तौ रक्षायाम् । अन्यानि दुर्गाणि कर्दमोत्तराभिः परिखाभिः कण्टकशाखाधिष्ठितैर्वप्रैश्च शिलामात्रघटितैः सालैश्च दृष्टिपरुषाणि भवन्ति । इदं तु न तथेति व्यतिरेकध्वनिः ॥ ३८ ॥ विवरणम् अथ रक्षाभावे धनस्याप्यस्थिरप्रसङ्गाद् राजधान्या रक्षाप्राधान्याच्च हिमवत्पुरस्य रक्षाविशेषमाह— गङ्गेति । गङ्गास्रोतः परिक्षिप्तं गङ्गायाः स्रोतसा प्रवाहेण परिक्षिप्तं परिवेष्टितम् । कृतपरिखाकृत्यमित्यर्थः। अनेन परिखाया रमणीयत्वमुक्तम् । वप्रस्यापि रमणीयत्वमाह – वप्रान्तज्वलितौषधि । वप्रस्य प्राकाराधिष्ठानस्य । ‘स्याच्चयो वप्रमस्त्रियामित्यमरः । प्राकारस्थैर्यार्थं तस्य परितः कल्पितस्याधिष्ठानस्येत्यर्थः । अन्ते पर्यन्ते ज्वलिताः दीप्ताः ओषधयः वृक्षविशेषा यस्मिंस्तत् । सालस्यापि मनोहरत्वमाह— ज्वलन्मणिशिलासालमिति । ज्वलन्तो मणयः रत्नान्येव शिलाः पाषाणाः तैः कल्पितः सालः प्राकारो यस्मिंस्तत् । ‘प्राकारो वरणः साल’ इति सिंहः । एवम्भूतत्वादेवाह – गुप्तावपि मनोहरम् इति । गुप्तौ रक्षायामपि मनोहरं रमणीयम्। अन्यानि पुराणि कर्दमप्रायैः कलुषैरशुचिभिश्च जलैः परिपूरिताभिः परिखाभिः परिवेष्टितानि, कण्टकिद्रुमावृतैर्वप्रैश्च दृष्टिपरुषाणि, शिलामात्रघटितैः सालैश्च दिदृक्षूणां चक्षूंषि न रञ्जयन्तीति गुप्तौ न रमणीयानि । इदं तु गुप्तावपि मनोहरमेवेति व्यतिरेकध्वनिश्चायम् ॥ ३८ ॥ वीतसिंहभया नागा यत्राश्वा बिलयोनयः । यक्षकिंपुरुषाः पौरा योषितो वनदेवताः ॥ ३९ ॥ प्रकाशिका वीतेति । वीतसिंहभयत्वं दिव्यत्वात् । हिमवति क्वचिद् बिले अश्वानामुत्पत्तिरैतिह्यसिद्धा सिंहलद्वीप इव महिषाणाम् । ननु— अमृताद् बाष्पतो वह्नेर्देवेभ्योऽण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ॥ इत्यश्वशास्त्रेषु परिगणनात् कथं बिलादुत्पत्तिः । अत्र दिव्यत्वात् परिहारः । वनदेवता इति हिमवतः स्थावरराजत्वात् ॥ ३९ ॥ षष्ठः सर्गः विवरणम् ३६७ दिव्यत्वमाह- वीतेति । यत्र नागाः वीतसिंहभयाः । नागाः गजाः । वीतं विरहितं सिंहाद् भयं येषां ते तथा। यत्र गजाः सिंहेषु सत्स्वप्योषधिप्रस्थस्य दिव्यत्वात् तद्भयविरहिता इत्यर्थः । ननु ‘पदं तुषारस्रुतिधौतरक्तम्’ (१.६) इत्यत्र सिंहानां हतद्विपत्वमुक्तम् । इदानीं कथं गजानां वीतसिंह भयत्वम् । मैवम् । हिमवतः शृङ्गान्तरापेक्षया पूर्वमुक्तम् । इदानीं पुनरोषधिप्रस्थनगरमात्रापेक्षयेत्यविरोधात् । तत्रत्यानामश्वानामपि व्यतिरेकं सुलभत्वं चाह — यत्र अश्वाः बिलयोनयः इति । बिलमेव योनिरुद्भवस्थानं येषां ते तथा । अश्वशास्त्रे ह्यश्वानां सप्तधा जन्म प्रतिपादितम् - अमृताद् बाष्पतो वह्नेर्देवेभ्योऽण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ॥ इति । अत्र तु दिव्यत्वाद् बिलादुत्पत्तिः । पुराणप्रसिद्धा च हिमवति बिलादश्वोत्पत्तिः । यथा सिंहलद्वीपे महिषोत्पत्तिः । पौराणामपि विशेषमाह — यत्र यक्षकिंपुरुषाः पौरा इति । यत्र ओषधिप्रस्थे यक्षाः किंपुरुषाश्च पौराः पुरवासिनो भवन्ति । अनेन पौराणामपि दिव्यत्वमुक्तम् । योषितामपि दिव्यत्वमाह — यत्र वनदेवताः योषितः इति । वनाधिष्ठात्र्यो देवताः । हिमवतः स्थावरराजत्वात् स्थावरदेवताजनोपस्थानम् । योषितः स्त्रियः ॥ ३९॥ शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मसु । अनुगर्जितसन्दिग्धाः करणैर्मुरवस्वनाः ॥४०॥ प्रकाशिका शिखरेति । करणैः पटहाद्यवस्थापितैर्वाद्यताडनविच्छेदैः । तथा राजकन्दर्पे- नृत्तवादित्रगीतानां प्रयोगवशभेदिनाम्। संस्थानं ताडनं रोधः करणानि प्रचक्षते ॥ इति । गृहशिखरासक्तत्वान्मेघानामनुस्यूतैर्गर्जितैः संशयिता मुरवध्वनयो यत्र करणैः पृथक्त्वेन ज्ञायन्त इत्यर्थः ॥ ४० ॥ विवरणम् औन्नत्यं नित्यप्रवृत्तोत्सवत्वं चाह— शिखरेति । यत्र वेश्मसु शिखरासक्तमेघानाम् अनुगर्जितसन्दिग्धाः मुरवस्वनाः करमैर्व्यज्यन्ते । वेश्मसु गृहेषु । शिखरेषु शिरोगृहेषु आसक्तानामवस्थितानां मेघानाम् ३६८ कुमारसम्भवे अनुगर्जितैः अनुस्यूतैः गर्जितैः शब्दैः । ’ स्तनितं गर्जितं मेघनिर्घोष’ इत्यमरः । सन्दिग्धाः संशयिताः मुखानां मुरजानां स्वनाः शब्दाः । ’ शब्दे निनादनिनदध्वनिध्वानरवस्वनाः’ इत्यमरः । करणैः वाद्यताडनविच्छेदविशेषैः । तालैरित्यर्थः । यथोक्तं सङ्गीतशास्त्रे- नृतवादित्रगीतानां प्रयोगवशभेदिनाम् । संस्थानं ताडनं तालं करणानि प्रचक्षते ॥ इति। व्यज्यन्ते विविच्य ज्ञायन्ते । गृहाणां मेघमार्गावगाहित्वान्नित्यप्रवृत्तोत्सवेषु तेषु घनगर्जितानां मुरवस्वनानां च नित्यमनुस्यूतत्वादुभयोः सान्द्रगभीरत्वाच्च किमेतानि मेघगर्जितानि उत मुरवस्वना इति जनानां संशये सति परस्परभेदावगमस्य स्वतो दुष्करत्वेऽपि यत्र जनास्तालविशेषैरेव मुरवस्वनान् विविच्यावगच्छन्तीत्यर्थः । घनगर्जितानां तालविशेषाभावादिति भावः ॥४०॥ यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता ॥४१॥ प्रकाशिका यत्रेति । यन्त्रशब्देन परम्पराधारदारुको नीप्रप्रान्तो विवक्षितः । अपौरादरनिर्मिता पौरप्रयत्नं विनैव सम्पादिता ॥ ४१ ॥ कल्पद्रुमाणामपि सद्भावमाह- सम्भावनां विवरणम् यत्रेति । यत्र कल्पद्रुमैः एव गृहयन्त्रपताकाश्रीः । कल्पद्रुमैः कल्पवृक्षैः करणभूतैः । एवशब्दः पताकान्तरव्यावृत्त्यर्थः । गृहे यानि यन्त्राणि पताकाबन्धनार्थं परस्परसङ्घटिताः दारुविशेषाः तेषु वर्तमानानां पताकानां ध्वजपटानां श्री शोभा । भवतीति शेषः । यत्र कल्पवृक्षैरेव ध्वजपटशोभा जायत इत्यर्थः । कल्पद्रुमेषु ध्वजपटशोभायाः सम्भावनां । दर्शयति-विलोलविटपांशुकैरिति । विलोलानि चञ्चलानि विटपेषु शाखासु वर्तमानान्यशुंकानि वसनानि येषु ते तथा । अत्र यन्त्रप्रतिवस्तुतया विटपानामुपादानं, पताकाप्रतिवस्तुत्वेनांशुकानामिति विवेकः । निर्माणप्रयासाभावेनापि व्यतिरेकं दर्शयति – अपौरादरनिर्मितेति । आदरशब्देनात्रादरस्य कार्यभूतः प्रयत्नः कार्यकारणसम्बन्धाल्लक्ष्यते । निर्मातव्यस्य शोभाधिक्यप्रतीतिश्च फलम् । पौरैः प्रयासेन निर्मिता न भवतीत्यपौरादरनिर्मितेति । अथवा सर्वत्र हि पुरवासिभिरादरातिशयात् पताकाः क्रियन्ते । इह तु स्वयमेवोत्पन्नत्वान्न तथेत्यर्थः । यत्र ध्वजपटानां कार्यं कल्पवृक्षांशुकैरेव भवतीति भावः ॥ ४१ ॥ षष्ठः सर्गः यत्र स्फटिकहर्म्येषु नक्तं सोपानपङ्क्तिषु ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥४२॥ प्रकाशिका यत्रेति । उपहारः कुसुमोपहारः ॥ ४२ ॥ काक मानगड विवरणम् एवं पुष्पोहारोत्पादनप्रयासस्याप्यभावमाह- ३६९ यत्रेति । यत्र स्फटिकहर्म्येषु सोपानपङ्क्तिषु नक्तं ज्योतिषां प्रतिबिम्बानि उपाहारतां प्राप्नुवन्ति । स्फटिकमयेषु हर्म्येषु सौधेषु । सोपानं हर्म्याद्यारोहणभूमिः । ‘आरोहणं स्यात् सोपानमिति सिंहः । सोपानानां पङ्क्तिषु परम्परासु । नक्तमिति रात्रिवाचकमव्ययम्। रात्रावित्यर्थः । ज्योतिषां नक्षत्राणां प्रतिबिम्बानि प्रतिच्छायाः उपहारतां पुष्पोपहारत्वं प्राप्नुवन्ति गच्छन्ति । सर्वत्र हि जनाः प्रयत्नेन कुसुमान्यानीय क्रीडागृहसोपानपरम्परासु सन्ध्यायां पुष्पोपहारान् कुर्वन्ति, ओषधिप्रस्थे तु नक्षत्रप्रतिबिम्बैरेव पुष्पोहारः, सोपानपङ्क्तीनां स्फटिकमयत्वादिति भावः ॥ ४२ ॥ यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः । अनभिज्ञास्तमिस्राणां दुर्दिनेऽप्यभिसारिकाः ॥४३॥ प्रकाशिका F यत्रेति । सञ्चरः सञ्चारविषयः । तमिस्रं तमः । दुर्दिने मेघतिमिरे ॥ ४३ ॥ विवरणम् आभिसारितवृत्तस्यापि तत्रैव सौकर्यमित्याह— 1 यत्रेति । यत्र अभिसारिकाः दुर्दिनेऽपि तमिस्राणामनभिज्ञाः । या मदनातुरा कान्तमभिसरति, साभिसारिकेत्युच्यते । ‘कान्तार्थिनी तु या याति सङ्केतं साभिसारिके’त्यमरः। दुर्दिने मेघावृते दिवसेऽपि । ‘मेघच्छन्नेऽह्नि दुर्दिनमिति सिंहः । तमिस्राणां तमसाम् । तमिस्रं तिमिरं तम’ इत्यमरः । कर्मणीयं षष्ठी। अभिज्ञा न भवन्तीत्यनभिज्ञाः, अज्ञा इत्यर्थः । भवन्तीति शेषः । अभिसारिका हि सर्वत्र नक्षत्रशशिप्रभारहितासु मेघसंवृतासु निशासु तमसा पीड्यन्ते, ओषधिप्रस्थे तु न तथेत्यर्थः । नक्तम् ओषधिप्रकाशेन दर्शितसञ्चारा इति । नक्तं रात्रौ ओषधीनां निशासु ज्वलतां वृक्षविशेषाणां प्रकाशेन भासा दर्शितः प्रकाशितः सञ्चरः सञ्चारविषयभूतो याभ्यस्तास्तथा । सञ्चरशब्दो ‘गोचरसञ्चर – ’ ( ३.३.११९) इत्यादिना निपातितः । ३७० कुमारसम्भवे ‘मार्गोऽध्वा सञ्चरः पन्था’ इति भोजः । ओषधिप्रभया प्रकाशितमार्गा इत्यर्थः । अत एव तमसामनभिज्ञा इत्युक्तम् । यत्राभिसारिकाः सुखेनैव रमणवसतिं प्रयान्तीति भावः ॥४३॥ यौवनान्तं वयो यस्मिन्नातङ्कः कुसुमायुधः । रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥ ४४ ॥ प्रकाशिका यौवनेति । अन्तशब्दः स्वरूपवचनः । ’ अन्तोऽस्त्र्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके’ इति यादवप्रकाशः । आतको भयहेतुरित्यर्थः । अत्र यौवनेतरवयःप्रभृतिनिषेधपरत्वाद् वाक्यस्य परिसङ्ख्यालङ्कारः ॥ ४४ ॥ विवरणम् किञ्च तत्रत्यानां दुःखलेशोऽपि नास्तीत्याह- यौवनेति । यस्मिन् वयः यौवनान्तं यौवनस्वरूपम् । ‘अन्तोऽस्त्र्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके’ इति यादवः । ओषधिप्रस्थवास्तव्यानां जनानां सदा यौवनस्वरूपमेव वयः, न कदाचिदपि बाल्यस्वरूपं नापि वार्धक्यादिस्वरूपमिति भावः । दिव्यत्वमत्र हेतुः । राजादिदोषजनितानां भयहेतूनामप्यभावमाह - कुसुमायुधः आतङ्कः । कुसुमायुधः कामदेवः । स एव आतङ्कः भयहेतुरित्यर्थः । यस्मिन् कुसुमायुधादेव भयं, न शात्रवादिभ्य इत्यर्थः । अत्र हिमवतः प्रतापातिशयो हेतुः । रोगादिपीडापि नास्तीत्याह - रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः इति । रतेर्हेतोः खेदो देहसादः तस्मात् समुत्पन्ना सञ्जाता निद्रैव संज्ञाविपर्ययः मोह इति यावत् । अतिविततरतिश्रमानन्तरभाविनी निद्रैव मोहः, न रोगादिसमुद्भवा नष्टचेष्टतेति भावः । अत्रापि दिव्यत्वं हेतुः । अनेन वाक्येन यौवनेतराणि वयांसि, कुसुमायुधव्यतिरिक्ता भयहेतवः, रतिश्रमसञ्जातमहानिद्राव्यतिरिक्तो तदितरविधिमुखेन निषिध्यन्त इति परिसङ्ख्यालङ्कार ॥ ४४ ॥ भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः । मोहश्च यत्र कोपैः कृताः स्त्रीणामप्रसादार्थिनः प्रियाः ॥ ४५ ॥ प्रकाशिका भ्रूभेदिभिरिति । ललितेत्यादि बहुव्रीहिः । यत्र स्त्रीणां कोपैः प्रिया अप्रसादार्थिनः कृताः। तथा यत्र स्त्रीणां कोपैः प्रिया अप्रसादार्थिनः कृताः । तथा यत्र स्त्रीणां कोपो रमणीयः, यथा प्रेयांसः प्रसादनार्थं नार्थयन्त इति लोकतो षष्ठः सर्गः ३७१ व्यतिरेकः । विशेषणानि च तदभिप्रायेणोपात्तानि । दक्षिणावर्तस्तु – आप्रसादार्थिनः यावत्प्रसादमर्थिनः । यत्र स्त्रीणामेवंविधैः कोपैरेव प्रिया आप्रसादार्थिनः कृताः, नान्येषां शत्रूणां कोपैरिति भाव इति व्याचष्ट । न त्वेतदौपयिकमिति प्रतिभाति, यतो न तावत् परिसङ्ख्यात्र स्वारसिकी। परिसङ्ख्यापक्षे विशेषणानां च निरुपयोगता । अर्थनीयं च किञ्चिदन्यदन्वेष्टव्यम् । प्रसादस्यावधित्वेन निर्देशात् । प्रसादस्यैवार्थनीयत्वे प्रसादार्थिन इत्येव वक्तुं युक्तम् । तदा च वीररसस्य प्रकृतत्वाद् भटा इत्यादि युक्तम्, न तु प्रिया इति ॥ ४५ ॥ विवरणम् किञ्च तत्राप्यद्भुतं किञ्चिदस्तीत्याह- भ्रूभेदिभिरिति । यत्र स्त्रीणां कोपैः प्रियाः अप्रसादार्थिनः कृताः । स्त्रीणां कोपैः सपत्नीनामग्रहणादिजनितैः । प्रियाः कान्ताः । प्रसादमर्थयितुं शीलमेषामिति प्रसादार्थिनः, तथाविधा न भवन्त्यप्रसादार्थिनः कृताः विहिताः । सर्वत्र हि कुपितासु वल्लभासु तदैव पादप्रणामादिभिः तासां प्रसादमर्थयन्ते । ओषधिप्रस्थे तु न तथा । तासां कोपकालमात्रसुलभानतिमनोहरान् भावविशेषानेव सानन्दमवलोकयन्तो रमन्त इति भावः। अत एव कोपस्य रमणीयत्वप्रतिपादकानि विशेषणान्याह - भ्रूभेदिभिरित्यादिना । भ्रूभेदवद्भिः, सभ्रुकुटिकैरित्यर्थः । तथा सकम्पोष्ठैः सकम्पाः कम्पसहिताः ओष्ठाः दन्तच्छदा येषु तैः । तथैव ललिताङ्गुलितर्जनैः ललितानि मनोहराणि अङ्गुलिभिः तर्जनानि भर्त्सनानि येषु तैः । नह्येतादृशा रमणीया भावाः कोपेन विना लभ्यन्त इति युक्तमप्रसादार्थित्वं प्रियाणामिति भावः ॥ ४५ ॥ सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं सुगन्धिर्गन्धमादनः ॥ ४६ ॥ प्रकाशिका सन्तानकेति । यस्य बाह्यमुपवनं गन्धमादन इति । तत्रत्यानामासन्नत्वेनोपभोग्यत्वादियमुक्तिः । गन्धमादनशब्दस्य नपुंसकतां मत्वा गन्धवदिति केचित् पठन्ति । अन्ये तु पुस्त्वं मत्वा सुगन्धिरिति । केशवस्त्वाह ‘गन्धमादनशब्दस्तु नृनपोः पर्वतान्तर’ इति । अत्र प्रकरणे ‘अलकाम्’ (६.३७) इति ‘गङ्गास्रोतः (६.३८) इति च पद्ययोरोषधिप्रस्थेन वैभक्तोऽन्वयः, तदनन्तरेषु यच्छब्दशक्तिकृतः । न च यच्छब्दानामुत्तरत्र तच्छब्देन सम्बन्धः । प्रागेवाध्याहततच्छब्देन ‘आसेदुरोषधिप्रस्थम्’ (६.३६) इत्यनेनापेक्षाशमनात् ॥ ४६ ॥ ३७२ कुमारसम्भवे विवरणम् चोरी उपवनस्यापि तत्राप्रयासलभ्यत्वमाह- सन्तानकेति । यस्य बाह्यम् उपवनं गन्धमादनः च । यस्य ओषधिप्रस्थस्य बाह्यं बहिर्भागभवम्। उपवनम् उद्यानं गन्धमादनः गन्धमादनाख्यः पर्वतः । चशब्दोऽवधारणे। तत्रत्यानामासन्नत्वादुपभोग्यत्वेन यस्य बाह्योद्यानं गन्धमादनपर्वत एव भवतीत्यर्थः । हिमवान् निषधो विन्ध्यो माल्यवान् पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ इत्यमरसिंहवचनाद् यद्यपि गन्धमादनशब्दस्य नपुंसकत्वं, तथापि ‘गन्धमादनशब्दस्तु नृनपोः पर्वतान्तरे’ इति केशवस्वामिवचनानुसारेणात्र पुल्लिङ्गतानिर्देशः । तत्रत्यानामुपभोगप्रकारानेव दर्शयति — सन्तानकतरुच्छायासुप्तविद्या- संक्षिप्य धराध्वगम् इति । उपवनविशेषणं चेदम्। सन्तानकतरूणां कल्पवृक्षाणां छायासु सुप्ताः विद्याधरा एव अध्वगाः पथिका यस्मिंस्तत् तथा । अनेन हिमवतो रक्षाचातुर्यात् तेषां वीतभयत्वं द्योत्यते । गन्धमादनस्योपवनधर्मवत्त्वमाहसुगन्धिरिति । शोभनो गन्धो यस्य स सुगन्धिः । ‘गन्धस्येदुत्पूतिसुसुरभिभ्यः ’ ( ५.४.१३५) इति (इकारः समासान्तः)॥४६॥ तत् कान्तं मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसन्धिं सुकृतां वञ्चनामिव मेनिरे ॥४७॥ प्रकाशिका तदिति । कान्तं तथा कान्तमित्यर्थः । दिव्या इति तेषां स्वर्गादन्यत्र बहुमानस्याद्भुतत्वं द्योतयति । स्वर्गेऽभिसन्धि पुण्यफलेभ्यो विशिष्टबुद्धिम् । वञ्चनां मेनिर इवेत्यतथाभावे तथाभाव उत्प्रेक्ष्यते बहुमानातिशयद्योतनाय॥४७॥ विवरणम् तादृशहिमवत्पुरदर्शने मुनीनां मनोवृत्तिविशेषमाह — तदिति । दिव्याः मुनयः हैमवतं तत् पुरं प्रेक्ष्य सुकृतां स्वर्गाभिसन्धि वञ्चनां मेनिरे इव। दिवि भवा दिव्याः । ‘घुप्रागवागुदक्प्रतीचो यत्’ (४.२.१०१) । अनेन तेषां स्वर्गादन्यत्र बहुमानो दुर्लभ इति द्योत्यते । स्वर्गिणामप्येतद्दर्शने विस्मयो जातः, किं पुनरितरेषामिति भावः । हैमवतं हिमवत्स्वामिकं तत् पूर्वोक्तं पुरं षष्ठः सर्गः ३७३ राजधानीं प्रेक्ष्य दृष्ट्वा । शोभनं कर्म कुर्वन्तीति सुकृतः तेषाम् । यागादिकर्मकृतामित्यर्थः । स्वर्गे अभिसन्धि पुण्यफलेभ्यो विशिष्टबुद्धिम् । स्वर्गफलस्यैव प्राधान्यमिति बुद्धिमित्यर्थः । वञ्चनां वञ्चनया जनितां मेनिरे कल्पितवन्त इव । पुण्यफलेभ्यः सर्वेभ्यः स्वर्गप्राप्तेरेव वैशिष्ट्यमिति या सुकृतिनां बुद्धिः, तां प्राक्तनैः कैश्चिदापादितया वञ्चनया जनितां मेनिर इवेत्यर्थः । वञ्चनाशब्देनात्र वञ्चनायाः कार्य लक्ष्यते। अत्र वञ्चनामननाभावेऽपि तथात्वमुत्प्रेक्ष्यते । तेन च तेषामोषधिप्रस्थविषयो बहुमानातिशयो द्योत्यते । तथात्वोत्प्रेक्षायां हेतुमाह — कान्तमिति । पूर्वोक्तप्रकारेण रमणीयमित्यर्थः ॥ ४७॥ ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः। अवपेतुर्जटाभारैर्लिखितानलनिश्चलैः ॥४८॥ प्रकाशिका लिन प्र त इति । अवपेतुरिति प्रथमं दूरोत्पतनात् । अत एव उन्मुखद्वाःस्थवीक्षिताः । वेगातिशयाच्च जटाभाराणां चित्रगतानलप्रख्यत्वम् ॥४८ ॥ विवरणम् अथ तेषां गिरीन्द्रभवनप्राप्तिप्रकारमाह- त इति । ते गिरेः सद्मनि वेगादवपेतुः । सद्मनि गृहे वेगाद् वेगमवलम्ब्येत्यर्थः । अनेन भगवन्नियोगानुष्ठानत्वरा गम्यते । अवपेतुः अवतीर्णवन्तः । ’ त आकाशमसिश्याममुत्पत्य परमर्षयः’ (६.३६) इत्यत्र पूर्वमुत्पतनस्योक्तत्वादिदानीमवपतनमुक्तम्। अत एव उन्मुखद्वाःस्थवीक्षिताः । उन्मुखैः ऊर्ध्वकृतमुखैः द्वाःस्थै द्वारपालैः अवलोकिताः। एते के दूरादवतरन्तीति द्वारपालैः क्षणमात्रं दृष्टाः, न तु पृष्टाश्चेत्यर्थः । वेगातिशयादिति भावः । अत एव लिखितानलनिश्चलैः जटाभारैः उपलक्षिताः । चित्रेषु लिखिता अनला लिखितानलाः, तद्वन्निश्चलैः अचञ्चलैः । जटाभारैः । इत्थंभूतलक्षणे तृतीया । जटैव भारः जटाभारः । भारशब्दो बहुत्वं द्योतयति। अतिदूराद् गगनप्रदेशादतिवेगेनावतरणसमये हि जटाभाराणामूर्ध्वाग्रत्वम् अचञ्चलत्वं च भवति । अत एव लिखितानलोपमा । नहि लिखितोऽनलः समीपवर्तिनो जनानौष्ण्येन बाधते, ताम्रवर्णत्वं च नोपजहाति । जटानां ताम्रवर्णत्वं च प्रसिद्धम् ॥४८ ॥ गगनादवतीर्णा सा यथावृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ४९ ॥३७४ कुमारसम्भवे प्रकाशिका गगनादिति । यथावृद्धेति । अत्र वराहमिहिर ः-

पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् । तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥ पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः । तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥ इति ॥ ४९ ॥ विवरणम् गिरिराजदर्शने तेषां क्रमप्राप्ति वर्णयति- गगनादिति । गगनादवतीर्णा यथावृद्धपुरः सरा सा मुनिपरम्परा तोयान्तर्भास्कराली इव रेजे। गगनाद् आकाशाद् अवतीर्णा कृतावतारा । यथावृद्धं वृद्धजनानतिक्रमेण पुरस्सरा अग्रगामिनो यस्यां सा तथा । मरीचिः पूर्वाभागस्थो वसिष्ठः परतस्ततः । ततोऽङ्गिरास्ततश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥ इति पराशरसंहितायां प्रसिद्धस्तेषामवस्थानक्रमोऽत्र दर्शितः । मुनीनां सप्तर्षीणां परम्परा पङ्क्तिः । तोयस्य जलस्य अन्तः अन्तर्भागे भास्कराणां सूर्यप्रतिबिम्बानाम् आलिः पङ्क्तिरिव रेजे शोभते स्म । यथा चञ्चलस्य जलस्यान्तर्भागे सूर्यप्रति - बिम्बपरम्परा शोभते, तथा सप्तर्षिपरम्परापि गिरिराजभवने शुशुभ इत्यर्थः । भास्करशब्देनात्र तत्प्रतिबिम्बो लक्ष्यते । भास्करस्य जलप्रवेशबहुत्वयोरनुपपत्तेः । बिम्बप्रतिबिम्बभावः सम्बन्धः । मुनिपरम्परायास्तेजः प्रकर्षप्रतीतिः फलम् । प्रतिबिम्बं हि बिम्बापेक्षया न्यूनप्रभं भवति । अत एव रघुवंशे तेजः प्रकर्षस्याप्रतिपाद्यत्वाद्- बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षः कायस्य कण्ठच्छेदपरम्परा ॥ (१२.१००) इत्यत्र प्रतिमाशब्दमेव प्रयुक्तवान् । तत्र हि रक्तसिक्तत्वं प्रतिपाद्यम् । अत एव बालशब्दोपादानम् ॥ ४९ ॥ तानर्ध्यानर्घ्यमादाय दूरात् प्रत्युद्ययौ गिरिः । नमयन् सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥५०॥ प्रकाशिका तानिति । अर्ध्यान् पूज्यान् ॥ ५० ॥ षष्ठः सर्गः विवरणम् अथ गिरीन्द्रस्य प्रत्युत्थानप्रकारमाह- ३७५ तानिति । गिरिः अर्घ्यम् आदाय तान् दूरात् प्रत्युद्ययौ । अर्घः पूजा तदर्थं जलमर्घ्यम् आदाय गृहीत्वा तान् दूरात् । यदा तेषामीषद्दर्शनं जातं, तदैवोत्थायेत्यर्थः । अनेनादरातिशय उक्तः । अर्ध्यानिति पूज्यानित्यर्थः । गिरेर्गौरवातिशयमाह - सारगुरुभिः पादन्यासैः वसुन्धरां नमयन् इति । सारो बलं तेन गुरुत्वयुक्तैः । द्विविधं हि शरीराद्यवयविद्रव्यम् । तत्र श्लथावयवानां कार्पासभाण्डादिवन्न गुरुत्वं, नापि शक्तिः । निबिडावयवानां पुनरायसपिण्डादिवद् गुरुत्वं बलवत्त्वं चास्तीति युक्तं सारवतो गुरुत्वम् । पादयोर्न्यासैः अवस्थापनैः वसुन्धरां भूमिं नमयन् नतां कुर्वन् । निजशरीरगौरवेण वसुन्धरां प्रतिपदन्यासनतां विदधान इत्यर्थः ॥ धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥५१॥ प्रकाशिका धात्विति । स्थावराकारैर्दृष्टैर्धातुदेवदारुशिलापट्टैरधरभुजवक्षसां साम्यदर्शनात् प्रांशुत्वाच्च हिमवानिति सुव्यक्त इत्यभिप्रायः ॥ ५१ ॥ विवरणम् मुनीनां तद्दर्शनानन्तरं कोऽयमागच्छतीति सन्देहो न जात इत्याह- धात्विति । हिमवान् इति सुव्यक्तः । अभूदिति शेषः । पर्वताकारं शरीरं परित्यज्य देवतात्मकं शरीरमादायागच्छन्नपि हिमवानेवायमिति सम्यग् व्यक्तोऽभूदित्यर्थः । नन्वसाधारणधर्मदर्शनाभावे कथं सुव्यक्तत्वमितीमामाशङ्कामसाधारणधर्मप्रतिपादनमुखेन परिहरति चतुर्भिर्विशेषणैः । तत्रादौ मुखदर्शन एव जायमानं विशेषमाह — धातुताम्राधर इति । धातुवद् गैरिकवत् ताम्रः रक्तवर्णः अधरः ओष्ठो यस्य स तथा । अनेनास्याधरस्य स्थावरात्मके शरीरे दृश्यमानेन धातुना साम्यमुक्तम्। शरीराकारस्यापि विशेषमाह – प्रांशुरिति । उन्नतकाय इत्यर्थः । अनेन स्थावरशरीरे दृश्यमानं प्रांशुत्वमस्याप्यस्तीति प्रतिपाद्यते । अस्य भुजानामपि विशेषमाह —– देवदारुबृहद्भुज इति । देवदारुर्बृक्षविशेषः, तद्वद् बृहन्तौ महान्तौ भुजौ यस्य स तथा । अनेन भुजस्य स्थावरशरीरे दृश्यमानैर्देवदारुभिः सादृश्यमुक्तम् । अस्य वक्षः प्रदेशस्यापि विशेषमाह — प्रकृत्या एव शिलोरस्क इति । प्रकृत्या स्वभावत एव शिलेव कठिनं विस्तीर्णं च उरः वक्षः प्रदेशो यस्य स तथा । अनेन ३७६ कुमारसम्भवे स्थावराकारे दृष्टचरैः शिलापट्टैरस्य वक्षसः साम्यमुक्तम् । स्थावराकारावयवभूतैर्धातुदेवदारुशिलापट्टैरस्याप्यधरभुजवक्षसां सादृश्योपलम्भात् प्रांशुत्वाच्च देवशरीरावलम्बनेऽपि हिमवानेवायमिति सुव्यक्तोऽभूदित्यर्थः । अनेनास्य शरीरस्य महापुरुषलक्षणत्वं प्रतिपादितम् । तेन च परमेश्वरसम्बन्धयोग्यत्वं द्योत्यते ॥ ५१ ॥ विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रामयामास शुद्धान्तं शुद्धकर्मभिः ॥ ५२ ॥ प्रकाशिका विधीति। स्वयमिति प्रेष्यवृत्तिरुक्ता । शुद्धान्तं राजगृहम् । शुद्धकर्मभिराक्रामयामासेति शुद्धान्तपावनाभिप्रायो द्योत्यते ॥ ५२ ॥ तेषां राजभवनप्रापणमाह- विवरणम् विधीति । सः तैः शुद्धान्तम् आक्रमयामास । तैः सप्तर्षिभिः शुद्धान्तं राजगृहम्। ‘भूभुजामन्तःपुरं स्यादवरोधनम्, शुद्धान्तश्चावरोधश्चेत्यमरः । आक्रमयामास पादन्यासपूतं कारयामासेत्यर्थः । क्रमु पादविक्षेप’ इत्यस्माद्धातोर्णिजन्तोऽयं शब्दः । अर्घ्यपाद्यादिभिः पूजा तु दर्शनानन्तरमेव कृतेत्याह – विधिप्रयुक्तसत्कारैरिति। विधितः शास्त्रतः प्रयुक्तः सत्कारः पूजा येभ्यस्तैः । राजगृहप्रापणप्रकारमाह — स्वयं मार्गस्य दर्शक इति । स्वयं स्वयमेव, न तु परिजनैः । अनेनात्मनस्तेषां प्रेष्यवृत्तिरुक्ता । मार्गस्य दर्शक उपदेष्टा । स्वयमेवाग्रतो गच्छन्नित इतो भवन्त इति सविनयमवददित्यर्थः । तेषां शुद्धान्तप्रवेशे शुद्धान्तस्यापि शुद्धत्वाधिक्यं जातमित्याह — शुद्धकर्मभिरिति । शुद्धानि अशुभसम्पर्करहितानि कर्माणि येषां तैः । मम गृहानेतेषां पादपांसुभिः पावयिष्यामीति गिरेरभिसन्धिरनेन श्लोकेन द्योत्यते ॥ ५२ ॥ तत्र वेत्रासनासीनाननासनपरिग्रहः । इत्युवाचेश्वरान् वाचं प्राञ्जलिः पृथिवीधरः ॥५३॥ प्रकाशिका FEIST तत्रेति। वेत्रासनस्य तद्योग्यत्वात् तदुक्तिः । ईश्वरान् लोकस्य स्वामिनः ॥ ५३ ॥ विवरणम् अथ गिरेर्वचनावसरं प्रस्तौति छ षष्ठः सर्गः ३७७ तत्रेति । पृथिवीधरः तत्र वेत्रासनासीनान् ईश्वरान् प्राञ्जलिः इति उवाच । तत्र शुद्धान्ते वेत्रलतानिर्मितेष्वासनेष्वासीनान् । मुनीनां वेत्रासनस्यैवोचितत्वादेवमुक्तिः । ईश्वरान् चरात्मकस्य प्रपञ्चस्य स्वामिनः । प्रकृष्टोऽञ्जलिर्यस्य स तथा। कृताञ्जलिर्भूत्वेत्यर्थः । इति वक्ष्यमाणप्रकारेण वाचं वाणीम् उवाच। हिमवतो विनयातिशयं दर्शयति - अनासनपरिग्रह इति । आसनस्वीकारो यस्य नास्ति स तथा । भूमावेवासीन इति यावत् । भूमावेवावस्थाय प्राञ्जलिर्भूत्वा हिमवान् मुनीनेवमुवाचेत्यर्थः ॥ ५३ ॥ अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ५४ ॥ प्रकाशिका अपेति । अतर्कितोपपन्नम् अचिन्तितोपनतम्। अत्र हर्षाद्भुतयोरभिव्यक्तिः तौ च प्रीतेर्व्यभिचारिणौ ॥ ५४ ॥ विवरणम् इतिशब्दोक्तान् वचनप्रकारानेवाह दशभिः श्लोकैः । तत्रादौ मुनीनामचिन्तितोपनतत्वात् सहर्षाद्भुतमाह- अपेति । अतर्कितोपपन्नं वः दर्शनं मे अपमेघोदयं वर्षम् अदृष्टकुसुमं फलं प्रतिभाति । अतर्कितमनिरूपितम् । उपपन्नं प्राप्तम् । अचिन्तितोपनतमित्यर्थः । वः युष्माकं दर्शनम् अवलोकनं मे मम । अपगतो मेघानाम् उदय आविर्भावो यस्मिंस्तादृशं वर्षमिति च अदृष्टानि अनुपलब्धानि कुसुमानि पुष्पाणि यस्य तादृशं फलमिति च मे प्रतिभाति । मेघोदयपुष्पोद्गमयोरनन्तरमेव हि सर्वत्र वर्षोद्भवफलप्रादुर्भावावुपलभ्येते इति तौ चिन्तितोपनतौ । भवदागमनं त्वचिन्तितोपनतम् । तस्मादिदमपमेघोदयं वर्षम् अदृष्टकुसुमं फलमिति चाहं सम्भावयामीत्यर्थः । उक्तश्चायमेवार्थः शाकुन्तले- उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमो भवत्प्रसादस्य पुरस्तु सम्पदः ॥ ( ७.३०) इति । अत्र प्रीतेर्व्यभिचारिणौ हर्षाद्भुतावभिव्यज्येते ॥ ५४ ॥ मूढं बुद्धमिवात्मानं हैमीकृतमिवायसम् । भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ॥ ५५॥ ३७८ कुमारसम्भवे प्रकाशिका मूढमिति । पूर्वस्मिन् क्षणे मूढमात्मानम् अस्मिन् क्षणे भवदनुग्रहाद् बुद्धमिव मन्य इत्यर्थः। एवमन्यत्राप्यात्मानमिति च पठन्ति । अनेनोत्प्रेक्षात्रयेण क्रमाद् ज्ञानतः स्वरूपतोऽधिकारतश्च वैशिष्ट्याभिमान उक्तः ॥ ५५ ॥ विवरणम् मुनिदर्शनानन्तरमात्मनः पूर्वस्मात् कालादुत्कर्षातिशयप्राप्त्यभिमानमाह— मूढमिति । अहं भवदनुग्रहाद् मूढमात्मानं बुद्धमिव आयसं हैमीकृतम् इव भूमेः दिवम् आरूढमिव मन्ये । भवतामनुग्रहाद्धेतोः मूढं ज्ञानलवेनापि रहितं बुद्धं प्रबुद्धम् । सर्वज्ञत्वं प्राप्तमिवाहं कल्पयामीति भावः । अनयोत्प्रेक्षया ज्ञानतो वैशिष्ट्याभिमानो दर्शितः । स्वरूपतोऽपि वैशिष्ट्या भिमानमाह – आयसं हैमीकृतमिव च मन्ये इति। अयसो विकारः । ’ तस्य विकारः’ ( ४.३.१३४) इत्यण् । हैमीकृतं हेममयतां नीतम्। आयसमात्मानं भवदनुग्रहात् सुवर्णमयतां प्राप्तमिव च कल्पयामीत्यर्थः । अधिकारतोऽपि वैशिष्ट्याभिमानमाह — आत्मानं भूमेर्दिवम् आरूढमिव च मन्ये इति । एतावन्तं कालं भूमावेवावस्थितमात्मानमिदानीं स्वर्गाधिरूढमिव च पश्यामीत्यर्थः ॥ ५५ ॥ अद्यप्रभृति मर्त्यानामभिगम्योऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥ ५६ ॥ अद्येति । प्रकाशिका शुद्धये दुष्कर्मशोधनाय । अर्हद्भिः पूज्यैः । चराचरभूतद्वयाभेदविवक्षयेयमुक्तिः ॥ ५६ ॥ विवरणम् स्थावराकारस्यात्मनो भवदनुग्रहादद्य पावनत्वं जातमित्याह- अद्येति । अहम् अद्यप्रभृति शुद्धये मर्त्यानामभिगम्योऽस्मि । अद्यप्रभृति एतस्माद् दिवसादारभ्य। शुद्धये स्वकृतमहापातकादिदुष्कर्मशोधनाय । मर्त्यानां मनुष्यैः । ’ कृत्यानां कर्तरि वा’ (२.३.७१) इति षष्ठी। अभिगम्यः प्राप्योऽस्मि । अहमेतस्माद् दिवसादारभ्य काशीदेशादिवत् पातकादिपरिजिहीर्षुभिर्मनुष्यैराश्रयणीयो जात इत्यर्थः । तत्रोपपत्तिमाह — अर्हद्भिः यदध्यासितं तद् हि तीर्थं प्रचक्षते इति । अर्हद्भिः पूज्यैः । ‘अर्हः प्रशंसायाम्’ (३.२.१३३) इति शतृ । यत् स्थानम्

षष्ठः सर्गः ३७९ अध्यासितम् अधिष्ठितं तदेव हि स्थानं तीर्थमित्युच्यते, नान्यत् । हिशब्दः प्रसिद्धौ । प्रसिद्धिश्चान्यस्य कस्यचित् तीर्थपदवाच्यत्वाभावमपि द्योतयति । काशीदेशस्यापि विश्वनाथाधिष्ठितत्वादेव तीर्थत्वमिति भावः । तस्मात् सज्जनाधिष्ठितस्यैव प्रदेशस्य तीर्थत्वादद्य भवदधिष्ठितः स्थावररूपोऽहमपि शुद्धये मर्त्यैरभिगम्य एवेति भावः ॥ ५६ ॥ अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ! | मूर्धिन गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ ५७ ॥ प्रकाशिका अवैमीति । धौतपादाम्भसेति बहुव्रीहिगर्भः कर्मधारयः । युष्मच्छब्दसापेक्षस्यापि पादशब्दस्य समासो गमकत्वात्॥५७॥ विवरणम् मुनिजनपादलनजलस्य गङ्गाजलसाम्यमाह- अवैमीति । द्विजोत्तमाः ! अहं द्वयेनैव आत्मान पूतम् अवैमि । हे ब्राह्मणश्रेष्ठा ! । अनेन पूतत्वसम्भावनायां हेतुरुक्तः । द्वयेन वक्ष्यमाणाभ्यां द्वाभ्याम् । एवशब्दस्तृतीयस्य कस्यचिदप्यभावमाह, उभयोः साम्यं च द्योतयति । आत्मानं स्थावरजङ्गमात्मकं मां पूतं शुद्धम् अवैमि । ‘इण् गताविति धातुः । गत्यर्थानां ज्ञानार्थत्वाज्जानामीत्यर्थः । केन द्वयेनेत्याकाङ्क्षायामाह — मूर्ध्नि गङ्गाप्रपातेन वः धौतपादाम्भसा चेति । मूर्ध्नि ममाधित्यकायां गङ्गायाः प्रकृष्टेन पातेन पतनेन । प्रकृष्टत्वं च सन्ततपतनात् । वः युष्माकम् । धौतपादाम्भसा धौतः प्रक्षालितः पादो येन तादृशेनाम्भसा जलेन । अत्र यद्यपि धौतयुष्मत्पादाम्भसेत्येव समासो युक्तः, तथापि युष्मच्छब्दस्य समासात् पृथग्भावो गमकत्वादुपपन्नः । अर्थप्रतीतिरेव हि शब्देन साध्या। युष्मत्पादक्षालनपूतेन जलेनेत्यर्थः । चकार उभयसमुच्चयार्थः । सोऽपि द्वयोरपि साम्यं द्योतयति ॥ ५७ ॥ जङ्गमं प्रेष्यपक्षे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्वैरूप्यं तेन मे कृतम् ॥ ५८ ॥ प्रकाशिका जङ्गममिति । द्विरूपमेव द्वैरूप्यम् । चातुर्वर्ण्यादिवत् ष्यञ् । तेनेति प्रेषणचरणन्यासाभ्यामित्यर्थः । तेन मे द्वैरूप्यं विभक्तानुग्रहं कृतमिति मन्य इत्यन्वयः ॥ ५८॥ ३८० कुमारसम्भवे विवरणम् स्थावरजङ्गामात्मकं मम शरीरद्वयमपि भवद्भिरनुगृहीतमित्याह- । । जङ्गममिति । मे जङ्गमं प्रेष्यपक्षे । जङ्गमं जङ्गमशरीरम् । प्रेष्यपक्षे प्रेष्यः किङ्करः । ‘नियोगकृत् कर्मकारः प्रेष्यभृत्यौ च किङ्करः’ इति भोजः । भृत्यकोट्यामित्यर्थः । अभूदिति शेषः । मम जङ्गमशरीरं भवतां भृत्यकोट्यामभूदित्यर्थः । स्थावरशरीरस्य त्वनुग्रहान्तरं जातमित्याह - स्थावरं चरणाङ्कितं च इति । स्थावरं स्थावरशरीरं चरणैः पादन्यासैः अङ्कितं लाञ्छितं च । अभूदिति शेषः । मम स्थावरशरीरं भवत्पादन्यासपवित्रितं चाभूदित्यर्थः । सिद्धमर्थमाह - तेन मे द्वैरूप्यं विभक्तानुग्रहं कृतं मन्ये इति । तेन प्रेषणचरणन्यासाभ्यामित्यर्थः । अत्र तच्छब्देन प्रेषणचरणन्यासरूपमनुग्रहसामान्यं परामृश्यत इत्येकवचनप्रयोगोपपत्तिः । द्वैरूप्यं द्विरूपम् । ‘चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम्’ (वा. ५.१.१२४) इति स्वार्थे ष्यञ् । रूपद्वयमित्यर्थः। विभक्तः कृतविभागः अनुग्रहो यस्य तत्तथा । कृतं विहितम् । भवद्भिरिति शेषः । मन्ये कल्पयामि । प्रेषणचरणन्यासाभ्यां भवद्भिर्मे रूपद्वयस्यापि महाननुग्रहो विभज्य कल्पित इति कल्पयामीत्यर्थः ॥ ५८ ॥ भवत्सम्भावनोत्थाय परितोषाय मूर्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥ ५९ ॥ प्रकाशिका भवदिति । मूर्छते वर्धमानाय । प्रभवन्ति पर्याप्तानि भवन्ति । ‘नमः स्वस्ति’ २.३.१६) इत्यादिसूत्रे अलंशब्दस्यार्थग्रहणात् प्रभवतिना योगे परितोषायेति चतुर्थी ॥ ५९ ॥ विवरणम् मुनिजनागमनजनितं सन्तोषातिशयमेवाह- भवदिति । मे अङ्गानि भवत्संभावनोत्थाय परितोषाय न प्रभवन्ति । मे अङ्गानि ममावयवाः । भवतां सम्भावना भवत्सम्भावना । सम्भावना अनुग्रहः । भवत्सम्भावनाया उत्तिष्ठति उद्भवतीति भवत्सम्भावनोत्थः, ‘सुपि स्थ’ (३.२.४) इति कः, तस्मै । भवत्कृतात् स्थावरजङ्गमात्मकशरीरद्वयानुग्रहादुद्भूतायेत्यर्थः । ‘नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च’ इति सूत्रेणालंशब्दस्यार्थग्रहणात् प्रभवतिना योगे परितोषायेति चतुर्थी । न प्रभवन्ति न पर्याप्तानि भवन्ति । अतर्कितभवदनुग्रहजन्मा ममायं परितोषो न मे शरीरावयवेषु माति, किन्तु हर्षाश्रुपुलकादिरूपेण बहिरुद्गच्छत्येवेत्यर्थः। अयमेवार्थो माघेनोक्तः– षष्ठः सर्गः युगान्तकालप्रतिसंहृतात्मनो जगान्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥ ३८१ ( १.२३) इति । ननु किमङ्गानामतिकृशत्वादमानं, नेत्याह – व्याप्तदिगन्तान्यपीति । व्याप्तो दिगन्तो दिशामन्तो यैस्तथाभूतान्यपि । पर्वतरूपस्य शरीरस्य आच्छादितायतदिगम्बरत्वादित्थमुक्तम् । अपिशब्दो विरोधमाह । अमाने हेतुमाह-मूर्छत इति । वर्धमानायेत्यर्थः । मूर्छा मोहसमुच्छ्राययोरिति धातोः शतृप्रत्ययान्तोऽयं शब्दः ॥ ५९ ॥ न केवलं दरीसंस्थं भास्वतां दर्शनेन वः। अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥६०॥ प्रकाशिका न केवलमिति । रजसः परं तमोऽपीति ‘तमसः सत्त्वमुद्बभाविति तमसो मूलकारणत्ववचनात् । दरीसंस्थतमः पक्षे दर्शनमुपचरितमासत्तौ ॥ ६० ॥ विवरणम् अन्तःकरणशुद्धिरपि मे भवद्दर्शनेन जातेत्याह- न केवलमिति । भास्वतां वः दर्शनेन केवलं मे दरीसस्थं तमः न अन्तर्गतं रजसः परमपि अपास्तम्। भास्वतां तेजस्विनां, सूर्याणामिति च स्फुरति । अनेन तमोनिरसनसामर्थ्यमुक्तम्। वः युष्माकम् । दर्शनेन अवलोकनेन । दरीसंस्थतमः पक्षे दर्शनमासत्तावुपचरितं, हिमवतः सप्तर्षिदर्शनमात्रेण गुहासंस्थतमोनिरासासम्भवात् । दरीषु गुहास्ववस्थितम् अन्तर्गतम् अन्तर्भागं गतम् । हृदयकुहरगतमित्यर्थः । रजसः परं रजोगुणात् परम् उपरितनम्। ‘तमसः सत्त्वमुद्बभौ’ इति वचनेन तमसो मूलकारणत्वप्रतिपादनादुपरितनत्वं, लोकसिद्धक्रमापेक्षया वा । अपास्तं निरस्तम् । भवतामागमनेन मम स्थावरशरीरान्तर्गतं तिमिरमात्रं न केवलमपास्तम्, अपि तु जङ्गमशरीरहृदयकुहरगतस्तमोगुणोऽप्यपास्त इत्यर्थः । अत्र दर्शनस्यैव कर्तृत्वम् । दर्शनस्य हेतुत्वविवक्षायाम् अपास्तमित्यस्य गतमित्यर्थः । नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ इति हि भागवतवचनम् ॥ ६० ॥ कर्तव्यं वो न पश्यामि स्याच्चेत् किं नोपपद्यते । शङ्के मत्पावनायैव प्रस्थानं भवतामिदम् ॥ ६१ ॥ ३८२ कुमारसम्भवे प्रकाशिका कर्तव्यमिति । क्रियामात्रसाध्यमेव वो न संभावयामीत्यर्थः । ईश्वरवत् परिपूर्णत्वादियमुक्तिः । स्याच्चेद् यदि संभवति, किं नोपपद्यते किं न प्राप्यते । किं दुष्प्रापमित्यर्थः । शङ्के संभावयामि । प्रस्थानं समागमनम्। ‘प्रशब्दस्तु प्रकर्षं च द्योतयेच्च समागममित्युपसर्गवृत्तौ ॥ ६१ ॥ विवरणम् अथ मुनीनामागमनकार्यं स्वयमेव विचारयन्नाह - कर्तव्यमिति । अहं वः कर्तव्यं न पश्यमि । कर्तव्यं साध्यमित्यर्थः । न पश्यामि नोपलभे। निपुणं विचारयन्नप्यहं भवतां साध्यभूतं वस्तु लोकत्रये किमपि न पश्यामीत्यर्थः। ईश्वरवत् परिपूर्णत्वादिति भावः । अत एवाह – स्याच्चेत् किं नोपपद्यते इति । स्याच्चेद् भवतां साध्यभूतं यत्किञ्चिदपि भवितुं संभावितं चेदित्यर्थः । किं नोपपद्यते, किं न प्राप्यते । सर्वमपि प्राप्यत इत्यर्थः । भवतां तपश्शक्त्या किं दुष्प्रापमिति भावः । किमर्थं तर्हीदमागमनमित्यत्राह - भवतामिदं प्रस्थानं मत्पावनायैव शते इति । भवतां पूर्वोक्तन्यायेन निराकाङ्क्षाणाम् । इदं दृश्यमानं प्रस्थानं समागमः । ’ प्रशब्दस्तु प्रकर्षं च द्योतयेच्च समागमम्’ इत्युपसर्गवृत्तिः । मत्पावनाय मम पावनाय शुद्धिविधानाय । तादर्थ्ये चतुर्थी । एवशब्दों हेत्वन्तराभावं द्योतयति । शङ्के सम्भावयामि । ममान्तःकरणशुद्धिविधानार्थमेव भवतामिदमागमनमित्यहं कल्पयामीत्यर्थः ॥ ६१ ॥ तथापि तावत् कस्मिंश्चिदाज्ञां मे दातुमर्हथ। विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥ ६२ ॥ प्रकाशिका तथापीति । यद्यपि स्वार्थशून्यं समागमनं तथापीत्यर्थः । तावच्छब्दः क्रमद्योतकः । कस्मिंश्चित् कार्ये मां प्रथममाज्ञापयतेत्यर्थः । कस्मिश्चिदित्यस्य विशेष्यमनुपाददता किङ्करत्वमात्मनो द्योत्यते । विनियोगः कार्य उपयोजनम् । स एव प्रसादो येषाम् । प्रभविष्णुषु प्रभुविषये ॥ ६२ ॥ विवरणम् अथात्मनः कैङ्कर्यमेव प्रकटयन्नाज्ञां प्रार्थयते- तथापीति । तथापि तावद् मे कस्मिंश्चिद् आज्ञां दातुम् अर्हथ । तथापि यद्यपीदं भवदागमनं स्वार्थशून्यं, तथापीत्यर्थः । तावच्छब्दः क्रमार्थः । मे भृत्याय मह्यम् । षष्ठः सर्गः ३८३ कस्मिंश्चित् कार्ये इति शेषः । यत् कार्यं भवतां मनसि स्फुरति तस्मिन्नित्यर्थः । अत्र कस्मिश्चिदित्यनेन कार्यविशेषानुपादानादात्मनः किङ्करत्वं द्योत्यते । आज्ञां नियोगं दातुम् अर्हथ। आदौ कस्मिंश्चित् कार्ये मामाज्ञापयतेत्यर्थः । दर्शनानन्तरमेवाज्ञापनेन हि भृत्यानां प्रसादः । अत एवाह — किङ्कराः प्रभविष्णुषु विनियोगप्रसादा हि इति । किङ्कराः भृत्याः प्रभविष्णुषु प्रभुषु विषये । विनियोगप्रसादाः विनियोगः कार्य उपयोजनमेव प्रसादो येषां ते तथा । हिशब्दः प्रसिद्धौ । यदि प्रभुणा भृत्यः कस्मिंश्चित् कार्ये विनियुक्तो भवेत्, तर्हि स एव तस्य प्रसाद इत्यर्थः । यद्यपि भवन्तो निराकाङ्क्षाः, तथापि मत्प्रसादार्थमाज्ञा दातव्यैवेति भावः ॥ ६२ ॥ एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ ६३ ॥ प्रकाशिका आज्ञाया अपि विषयं सङ्कोचयति- एत इति । अत्र अस्मासु । बाह्यवस्तुषु अस्मद्व्यतिरिक्तपदार्थेषु । अनास्था युष्मभ्यमन्यद् वस्तु दातुमस्माकमनादर एवेत्यर्थः ॥ ६३ ॥ विवरणम् आज्ञाया अपि विषयसङ्कोचं कुर्वन्नाह - एत इति। वयम् एते । वयमित्यात्मनि बहुवचनम् । एते, भवतामग्रे वर्तामह इति शेषः । दारान् दर्शयति - दारा अमी इति । दाराः भार्या। ‘भार्या पत्नी प्रिया जाया दाराः पुंस्येव भूम्नि चे ‘ति भोजः । अमी इति सहस्तनिर्देशं वचनम् । मम भार्याप्येषा भवदनुग्रहकाङ्क्षिणी भवतामग्रे तिष्ठतीत्यर्थः । आत्मनः पुत्रीमपि दर्शयति — कन्येयम् । कन्याप्येषा तिष्ठतीत्यर्थः । कन्याया विशेषमाह -कुलजीवितमिति । कुलस्य जीवितं जीवनभूता । अनया विनास्मत्कुलं मृतप्रायमेवेति भावः । नन्वेते सर्वे तिष्ठन्तु नाम । प्रकृते तु किमायातमित्यत्राह - अत्र येन वः कार्य ब्रूतेति । अत्रास्माकं मध्ये । सामान्यनिर्देशे ‘सामान्ये नपुंसकमिति येनेत्यस्य नपुंसकत्वम् । वः युष्माकं कार्यम् । भवतीति शेषः । ब्रूत वदत । अस्मासु मध्ये मया वा भार्यया वा कन्यया वा भवता कार्यं भवतीति वदतेत्यर्थः । निगूढोऽभिप्रायः । नन्वेत्रयव्यतिरेकेण भवतो भृत्यधनधान्यादिकमस्त्येव । तत् किमर्थं न निर्दिश्यत इत्यत्राह – बाह्यवस्तुषु अनास्था इति । बाह्यवस्तुषु अस्माद्व्यतिरिक्तेषु वस्तुषु पदार्थेषु । युष्मभ्यं दातुमिति शेषः । अनास्था अनादरः । एतत्रयव्यतिरिक्तं वस्तु भवद्भ्यो दातुं ममानास्थैवेत्यर्थः ॥ ६३ ॥ ममेति शेषः । ।३८४ कुमारसम्भवे इत्यूचिवांस्तमेवार्थं दरीमुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥ ६४ ॥ प्रकाशिका उपसंहरति- उत्प्रेक्षा चादर- इतीति । दरीमुखविसर्पिणेति द्विर्व्याहरणोत्प्रेक्षाङ्गम्। उत्प्रेक्षा द्योतिका ॥ ६४ ॥ विवरणम् हिमवतो वचनमुपसंहरति- इतीति । इति ऊचिवान् हिमालयः दरीमुखविसर्पिणा प्रतिशब्देन तं अर्थम् एव द्विः व्याजहार इव । इति उक्तप्रकारेण ऊचिवान् अभिहितवान् । दर्येव मुखं दरीमुखं तत्र विसर्पिणा व्यापनशीलेन । प्रतिशब्देन प्रतिध्वनिना । तं पूर्वोक्तमर्थमेव । द्विः द्विवारम्। द्वित्रिचतुर्भ्यः सुच्’ (५.४.१८) इति क्रियाभ्यावृत्तिगणने सुच्प्रत्ययः । व्याजहार उक्तवानिव । इत्थमभिधाय विरतवचसि हिमवति तस्य स्थावरशरीरदरीमुखव्यापिना प्रतिशब्देन पूर्वं जङ्गमशरीरोदितमर्थमेव स्थावरशरीरेण पुनरप्युक्तवानिवेत्युत्प्रेक्षा । शब्दस्य दरीमुखविसर्पित्वमुत्प्रेक्षाङ्गम् । दरीमुखविसर्पणं शब्दस्य गाम्भीर्यं हेतुः । उत्प्रेक्षया चादरातिशयो द्योत्यते ॥ ६४ ॥ अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयश्चोदयामासुः प्रत्युवाच स भूधरम् ॥ ६५ ॥ प्रकाशिका अथेति । उदाहरणमुक्तिः । यथा ‘पत्रे निवेशितमुदाहरणं प्रियायाः ’ (विक्रमोर्व. २.१३) इति । उदाहरणवस्तुषु उक्तिप्रतिपाद्येष्वर्थेषु ॥ ६५ ॥ विवरणम् अथ मुनीनां प्रतिवचनोपक्रममाह— अथेति । अथ ऋषयः अङ्गिरसं चोदयामासुः । अथ हिमवतो नियोगप्रार्थनानन्तरम्। अङ्गिरसम्, अङ्गिरा इति सप्तर्षीणामन्यतमस्य नाम । तं चोदयामासुः प्रेरयामासुः । प्रतिवक्तुमिति शेषः । अन्ये महर्षयो भगवत्सन्दिष्टमर्थं वक्तुमङ्गिरसं प्रेरयामासुरित्यर्थः । नन्वङ्गिरसः को विशेष इत्यत्राह – उदाहरणवस्तुषु अग्रण्यमिति। उदाहरणम् उक्तिः । यथोक्तमनेनैव - ‘पत्रे निवेशितमुदाहरणं प्रियायाः ’ षष्ठः सर्गः ३८५ [विक्रमोर्व. २.१३] इति । वस्तुशब्दोऽर्थवाची । उक्तिप्रतिपाद्येष्वर्थेष्वित्यर्थः । अग्रणीः श्रेष्ठः तम् । उक्तिकौशलशालिनमिति यावत् । चोदितस्याङ्गिरसः प्रवृत्तिमाह — सः भूधरं प्रत्युवाच इति । सः अङ्गिराः भूधरं हिमवन्तं प्रत्युवाच उत्तरमुक्तवान् ॥ ६५ ॥ उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ ६६ ॥ प्रकाशिका उपपन्नमिति । इदं सर्वं त्वय्युपपन्नम् । अतः परमपीति द्वितीयं वाक्यम् । कथमित्याह - मनस इति । मनस उन्नतिरौदार्यम् । ईदृशस्यौदार्यस्य किं नोपपद्यत इति भावः ॥ ६६ ॥ विवरणम् अथाङ्गिरसः प्रतिवचनप्रकारमेवाह उपपन्नमित्यादिभिः । तत्रादावष्टभिः श्लोकैः हिमवन्तं स्तौति । तत्र च तद्वचनप्रशंसानेन श्लोकेन क्रियते - उपपन्नमिति । त्वयि इदं सर्वम् उपपन्नम्। त्वयि परमेष्ठिनः पुत्रे । इदं सर्वम् ‘अपमेघोदयं वर्षम्’ (६.५४ ) इत्याद्यारभ्य सर्वस्वसमर्पणपर्यन्तं वचनम्। उपपन्नं युक्तम्। त्वया यदभिहितं तत् सर्वं परमेष्ठिनः पुत्रे परिशुद्धान्तःकरणे च त्वयि न विस्मयायेत्यर्थः । किञ्चेत्याह – अतः परमपीति । इतोऽधिकमपीत्यर्थः । त्वय्युपपन्नमिति अत्रापि योज्यम् । एतस्मात् परमपि यत्किञ्चिद्वक्तव्यं समर्पणीयं वास्ति चेत्, तद्वचनं तत्समर्पणं च त्वय्युपपन्नमेवेति भावः । कथमुपपन्नमित्यत्राह - ते मनसः शिखराणां च समुन्नतिः सदृशी इति । मनस उन्नतिरौदार्यम् । शिखराणामुन्नतिस्तुङ्गत्वम् । सदृशी तुल्या । यथा ते शिखराणामुन्नतिर्दृश्यते, तथा मनसोऽपि समुन्नतिरस्त्येवेत्यर्थः। ईदृशस्यौदार्यस्य किं किं नोपपद्यत इति भाव ॥ ६६ ॥ स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथाहि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥६७॥ प्रकाशिका स्थान इति । स्थावरात्मानं विष्णुमाहुरिति स्थावराणां हिमालयः’ (१०.२५) इति भगवद्गीतावचनात् । कुक्षिशब्देन मध्यभाग उच्यते, ऊर्ध्वाधोभागयोव्यमपातालगतत्वात् ॥ ६७॥ ३८६ कुमारसम्भवे विवरणम् उपपन्नत्वमेव हेतुनोपपादयितुं हिमवतो जगदाधारत्वमाह- स्थान इति । स्थावरात्मानं त्वां विष्णुम् आहुः, स्थाने। स्थावरात्मानं स्थावरस्वरूपम्। पर्वतस्वरूपमित्यर्थः । त्वां भवन्तं विष्णुं नारायणम् आहुः वदन्ति । सन्त इति शेषः । स्थाने इति युक्तवाचकमव्ययम् । ‘स्थाने युक्तार्थमव्ययमि ति भोजः । ’ स्थावराणां हिमालयः’ इति भगवद्गीतावचनानुसारेण सन्तो यद् भवन्तं नारायणमेवाहुः, तदुपपन्नमेवेत्यर्थः । कथमुपपन्नमित्यत्राह - तथाहि ते कुक्षिः चराचराणां भूतानाम् आधारतां गतः इति । विष्णुपक्षे कुक्षिशब्द उदरवाची । ’ त्रैलोक्यं मधुसूदनस्य जठरे’ इत्यादिवचनात्। हिमवत्पक्षे तु मध्यभागवाची । चराश्चाचराश्च चराचराः, तेषाम् । भूतानां लोकानाम् आधारताम् आधारत्वं गतः प्राप्तः । यथा विष्णोः कुक्षिः चराचरात्मकस्य जगत आधारत्वेन प्रसिद्धः, तथा भवतो मध्यभागोऽपि । हिमवत ऊर्ध्वभागो हि व्योमव्यापी, अधोभागस्तु पातालव्यापीति युक्तं मध्यभागस्य चराचरात्मकजगदाधारत्वम् ॥ ६७॥ । गामधास्यत् कथं नागो मृणालसदृशैः फणैः । आ रसातलमूलात् त्वमवालम्बिष्यथा न चेत् ॥६८॥ अत एवाह- प्रकाशिका गामिति । मृणालसदृशैरिति, एतदपेक्षया कोमलत्वस्य विवक्षितत्वात् । त्वयैव धृता भूः, शेषेण धृतेति प्रवादमात्रमिति भावः ॥ ६८ ॥ विवरणम् तत्र हिमवत ऊर्ध्वदेशव्यापित्त्वं प्रागेवोक्तम् ‘अधो विवस्वान् परिवर्तमानः (१.१६)इत्यादिष्विति अधोदेशव्यापित्वमसाधारणकर्मत्वप्रतिपादनमुखेनाह— गामिति । त्वं रसातलमूलाद् आ गां न अवालम्बिष्यथाः चेद्, नागः फणैः कथम् अधास्यत्। रसातलं पातालम् ‘अधोभुवनपातालबलिसद्मरसातलमित्यमरः । रसातलमेव शूलं रसातलमूलं तस्मात् । अभिविधावाङ् । गां भूमिं न अवालम्बिष्यथाः नाधास्यश्चेत्, तर्हि । नागः अनन्तः, सामान्यवाचिनः शब्दाः श्रेष्ठपर्यवसायिन इति न्यायात् । फणैः । ’ स्फुटायां तु फणा द्वयोरित्यमरः । कथमधास्यद्, न कथञ्चिदित्यर्थः । ‘लिङ्निमित्ते लृङ् क्रियातिपत्तौ (३.३.१३९) इत्युभयत्रापि लृङ् । यदि त्वं पातालमूलपर्यन्तमधः स्थितः पृथिव्या धरणं नाकरिष्यः, तर्ह्यनन्तः पृथिव्या धारणं कथमकरिष्यदित्यर्थः । फणानां धारणासामर्थ्यमाह- षष्ठः सर्गः ३८७ मृणालसदृशैरिति । मृणालेन सदृशैः तुल्यैः । मृणालवत् कोमलैरित्यर्थः । त्वयैव भूमिरनवरतं ध्रियते । अनन्तफणैर्धियत इति प्रवादमात्रमेवेति भावः ॥ ६८ ॥ आच्छिन्नामलसन्तानाः समुद्रोर्मिनिवारिताः । पुनन्ति लोकं पुण्यत्वात् कीर्त्तयः सरितश्च ते॥६९॥ प्रकाशिका अच्छिन्नेति । सन्तानः प्रवाहः । तथा पुण्यश्लोकस्तथा पुण्यप्रसवश्चासीत्यर्थः । अत्र साम्यगर्भः समुच्चयोऽलङ्कारः ॥ ६९ ॥ विवरणम् अथ हिमवत उत्तमश्लोकत्वं जगत्पावनत्वं चाह- अच्छिन्नेति । ते कीर्त्तयः सरितश्च पुण्यत्वात् लोकं पुनन्ति । ते कीर्त्तयः यशांसि त्वदुद्भूताः सरितश्च पुण्यत्वाद् निसर्गपावनत्वात् । लोकं पुनन्ति । लोकस्याधं हरन्तीत्यर्थः । ’ पूञ् पवने इति धातुः । यथा त्वत्तो निर्गता गङ्गाद्याः सरितो लोकस्याघं हरन्ति तथैव कीर्त्तयश्चेति भावः । कीर्त्तीनां सरितां च साधारणधर्ममाह - अच्छिन्नेत्यादिना विशेषणद्वयेन । अच्छिन्नामलसन्तानाः । अत्र कीर्त्तिपक्षे कीर्त्तिकारणानां धर्मादीनां प्रत्यहमनुष्ठीयमानत्वादच्छिन्नत्वं, दुष्कीर्त्तिलेशेनापि रहितत्वादमलत्वम् । अच्छिन्नः अमलश्च सन्तानः परम्परा यासां तास्तथा इति च योज्यम् । सरित्पक्षे सन्तानः प्रवाहः । योजना तु पूर्ववदेव । अच्छिन्ननिर्मलप्रवाहा इत्यर्थः । तथा समुद्रोर्मिनिवारिता इति । समुद्राणामूर्मिभिः वीचिभिः निवारिताः । अनेनान्यैरनिवारितत्वमुक्तम् । चतुस्समुद्रपर्यन्तं व्याप्ता इत्यर्थः । नदीपक्षे समुद्रं प्राप्ता इत्यर्थः । समुद्रोर्म्यनिवारिता इति वा पाठः । अत्र साम्यगर्भः समुच्चयोऽलङ्कारः ॥ ६९ ॥ यथैव श्लाघते गङ्गा पातेन परमेष्ठिनि । प्रथमेन द्वितीयेन तथैवोच्छिरसि त्वयि ॥७०॥ प्रकाशिका यथैवेति । श्लाघते स्वयं बहुमन्यते । परमेश्वरस्थाने तिष्ठतीति परमेष्ठी । द्वितीयेन तत्सदृशेनेत्यर्थः ॥ ७० ॥ अथ हिमवतो हरसमानत्वमाह- विवरणम् यथैवेति । गङ्गा परमेष्ठिनि प्रथमेन पातेन यथा एव श्लाघते । उच्छिरसि ३८८ कुमारसम्भवे उन्नतं शिरो यस्य स तथा तस्मिन् । आभिजात्यतपः प्रभृतिभिरुत्कृष्टे च । एतच्च परमेश्वरसाम्यद्योतकं विशेषणम् । द्वितीयेन पूर्वपातसदृशेनेत्यर्थः । सादृश्यं चाधिकरणस्य पावनत्वसाम्यात् । पातेनेत्यनुषज्यते । तथैव । श्लाघत इति शेषः । एवशब्दद्वयेन श्लाघायामीषद्भेदस्याप्यभाव उक्तः । यथा पूर्वं परमेश्वरशिरःप्रदेशपतनेन गङ्गा नान्या मत्सदृशी नदीत्यात्मानं बहुमन्यते द्वितीयेन त्वयि निपातेनापि तथैव बहुमन्यत इत्यर्थः । अत्र हिमवतः परमेश्वरसाम्यप्रतिपादनेन वक्ष्यमाणस्य परस्परसम्बन्धस्य युक्तत्वं द्योत्यते ॥ ७० ॥ , तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत् स तु स्वाभाविकस्तव ॥ ७१ ॥ प्रकाशिका तिर्यगिति । व्यापक आसीदित्यन्वयः । अत्र व्यतिरेकः ॥ ७१ ॥ विवरणम् हिमवतो भगवतस्त्रिविक्रमाद् व्यतिरेकमाह— तिर्यगिति । त्रिविक्रमोद्यतस्य हरेः महिमा तिर्यग् ऊर्ध्वम् अधस्तात् च व्यापकः आसीत्। त्रयो विक्रमाः पादविक्षेपाः । क्रमु पादविक्षेप’ इति धातुः । तेषूद्यतस्य उद्युक्तस्य । बलिमखे पदत्रयेण त्रैलोक्यं क्रमितुमुद्यतस्येत्यर्थः । हरेर्विष्णोः महिमा महत्त्वं तिर्यक् परितः ऊर्ध्वम् उपरिभागे अधस्तादधोभागे च । व्याप्नोतीति व्यापकः । आसीत् । वामनावतार इति शेषः । हरेर्महिमा वामनावतारे सकृदेव सर्वलोकव्यापी बभूवेत्यर्थः । त्वन्महिमा तु न तथेत्याह - तव तु सः स्वाभाविकः इति । तुशब्दो विशेषद्योतकः । सः सर्वलोकव्यापी महिमा स्वाभाविकः स्वभावसिद्धः। हिमवच्छिखराणामतिमहत्त्वादित्थमुक्तम्। अत्र व्यतिरेकोऽलङ्कारः॥ ७१ ॥ यज्ञभागभुजां मध्ये पदमाक्रम्य तस्थुषा । उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥७२॥ प्रकाशिका यज्ञेति । पदमाक्रम्य स्थानमधिष्ठाय । वितथीकृतं निरुत्कर्षं कृतमित्यर्थः । शृङ्गं शिखरम्। जातावेकवचनम् । शृङ्गशब्दशक्त्या प्राधान्यमपि ध्वन्यते ॥ ७२ ॥ स्वजात्युत्कर्षमाह- विवरणम् यज्ञेति । यज्ञभागभुजां मध्ये पदम् आक्रम्य तस्थुषा त्वया सुमेरोः हिरण्मयं षष्ठः सर्गः ३८९ शृङ्गं वितथीकृतम् । यज्ञेषु यागेषु भागम् अंशं भुञ्जत इति यज्ञभागभुजः तेषाम् । मध्ये, न तु पार्श्वभागे कुत्रापि । अनेन हिमवतो महेन्द्रादिसमानकक्ष्यत्वं ध्वन्यते । पदं स्थानम् आक्रम्य अधिष्ठाय तस्थुषा स्थितेन त्वया देवतात्मना भवता सुमेरोः महामेरोः हिरण्मयं हिरण्यस्वरूपं शृङ्गं शिखरम् । जातावेकवचनम् । अत्र शृङ्गशब्दशक्त्या प्राधान्यमपि ध्वन्यते । ‘शृङ्गं प्राधान्यसान्वोश्चेत्यमरः । वितथीकृतं निरुत्कर्षं कृतमित्यर्थः । सुमेरोः सुवर्णात्मकत्वेन य उत्कर्षः, स तस्य यज्ञभागभोजित्वाभावाद् यज्ञभागभुजा त्वया निष्फलतां प्रापित इत्यर्थः । किमस्य हिरण्मयशृङ्गवत्त्वादिभिराडम्बरैः, यस्य न यज्ञभाग इति भावः । हिमवतो यज्ञभागभोजित्वं प्रागेवोक्तं ‘प्रजापतिः कल्पितयज्ञभाग’ (१.१७) इत्यत्र ॥ ७२ ॥ काठिन्यं स्थावरे काये भवतः सर्वमर्पितम् । इदं तु ते भक्तिनम्रमर्हदाराधनं वपुः ॥७३॥ प्रकाशिका काठिन्यमिति । भक्त्या नम्रं प्रह्वीकृतमिति मार्दवमुक्तम् । आराधनमिति करणे ल्युट् । अत्राष्टश्लोक्यां प्रथमे तद्वचनाभिनन्दनं, द्वितीये तस्य जगदाधारत्वं तृतीये त्वसाधारणकर्मत्वं, चतुर्थे जगत्पावनत्वं पञ्चमे परमेश्वरसमकक्ष्यत्वं, षष्ठे महत्त्वं, सप्तमे स्वजात्युत्कृष्टत्वम्, अष्टमे प्रश्रय इत्युक्तानि ॥ ७३ ॥ प्रश्रयगुणशालित्वमाह- , विवरणम् काठिन्यमिति । भवतः काठिन्यं सर्वं स्थावरे काये अर्पितम् । काठिन्यं कठिनत्वम् अर्थिषु कार्कश्यमिति च स्फुरति । सर्वं कायान्तरे स्थापयितुं न किञ्चिदप्यवशेषितमिति भावः । स्थावरे काये पर्वतस्वरूपे शरीर इत्यर्थः । अर्पितं न्यस्तम् । शरीरान्तरे काठिन्यलेशस्याप्यभावमाह — अर्हदाराधनम् इदं वपुः तु भक्तिनम्रम् इति। अर्हतां पूज्यानाम्। सज्जनानामित्यर्थः । आराध्यतेऽनेनेत्याराधनम् । करणे व्युत्पत्तिः । सज्जनाराधनसाधनमित्यर्थः । इदं दृश्यमानं वपुः शरीरं, जङ्गमशरीरम् । तुशब्दः शरीरान्तराद् विशेषमाह । भक्त्या नम्रं नमनशीलम् । ‘नमिकम्पि—’ (३.२.१६७ ) इत्यादिना रः । अनेनातिमृदुत्वमुक्तम् । नहि कठिनानां नमनशीलत्वमुपपद्यते ॥ ७३ ॥ यदागमनकार्यं नः शृणु कार्यं तवैव तत् । श्रेयसामुपदेशात् तु वयमत्रांशभागिनः ॥७४॥ ३९० कुमारसम्भवे प्रकाशिका एवं हिमवन्तमभिष्टुत्य प्रस्तुतमवतारयति- यदिति । आगमनस्य कार्यं प्रयोजनम् । तवैव कार्यं तच्छृण्वित्यन्वयः । श्रवणस्य सिद्धत्वेऽपि विधानमवहितश्रवणपरम् । तत्र हेतुः — तवैव कार्यमिति । स्वार्थाभावे वः कथमागमनमित्याह — श्रेयसामिति । अत्रेति लोके । श्रेयसामिति बहुवचनाच्छ्रेयस उपदेशादपि श्रेयो भवतीति भावः ॥ ७४ ॥ अथ प्रस्तुतमर्थमेवावतारयति - विवरणम् , यदिति । त्वं नः आगमनकार्यं यत्, तत् शृणु । नः अस्माकम् । आगनकार्यम् आगमनस्य कार्यं प्रयोजनं यत्, तच्छृणु आकर्णय । अत्रागमनकार्यकथनमात्रेणैव श्रवणस्य सिद्धत्वेऽपि श्रवणविधानेन सावधानश्रवणं प्रतिपाद्यते । आगमनकार्यं सामान्यतो निर्दिशति – तवैव कार्यम् इति । तवैव नान्यस्य कस्यचित् । कार्यं प्रयोजनम् । अस्मदागमनं त्वत्प्रयोजनमात्रपरमित्यर्थः । इदं सावधानश्रवणे हेतुः, अचिरेणैव तव महान् प्रमोदो भविष्यतीति । तस्मात् सावधानमाकर्णत्येत्यर्थः । ननु स्वार्थाभावे कथं वः प्रवृत्त्युपपत्तिः, अत आह— वयं तु अत्र श्रेयसाम् उपदेशाद् अंशभागिनः इति। तुशब्दो विशेषमाह । अत्र लोके श्रेयसामभ्युदयानाम् । अत्र बहुवचनस्यायमभिप्रायः– एकस्मिन्नेव हि कर्मणि बहूनि फलान्युपपद्यन्ते । तेषु कानिचित् तत्र सहायभूतानधिगच्छन्ति । तस्मादुपदेष्टरि विद्यमानेनैवांशेन वयमिह लोके पूर्णकामा भवाम इति । उपदेशाद् ज्ञापनाद् अंशस्य भागिनः भजनशीलाः । ‘संपृच—’ (३.२.१४२ ) इत्यादिना घिनुण् । ‘कुघिण्यतो’ (७.३.५२) इति कुत्वम् । श्रेयसामिति अत्राप्यनुषज्यते ॥ ७४ ॥ अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥ ७५ ॥ प्रकाशिका तत्र प्रथमं वरगुणवर्णनेनोद्धर्षयति- अणिमेति । अणिमादिगुणयोगेन ईश्वरस्य वाचकत्वेनावस्थितम्। यदाहुः अणिमा महिमा लघिमा गरिमा प्राप्तिः प्रकाश्यमीशिता वशिता । ईशस्य यत्र कामावसायितेत्यष्टधैश्वर्यम् ॥ इति । अन्येषां तु तदनुग्रहादष्टैश्वर्ययोग इत्यनीश्वरत्वमपि न विरुद्धम् । अत एवाह-

षष्ठः सर्गः ३९१ अस्पृष्टपुरुषान्तरमिति । वाचकत्वेन पुरुषान्तरमस्पृशन्तमित्यर्थः । उच्चैः लोकप्रख्यातम्। सार्धचन्द्रम् अर्धचन्द्रेणाविनाभूतम्। अनेनास्पृष्टपुरुषान्तरत्वमुप- पादितम्॥ ७५ ॥ विवरणम् अथ वरगुणप्रशंसया हिमवन्तं प्रोत्साहयति त्रिभिः श्लोकैः । तत्रादौ परमेश्वर- स्यानन्यशब्दवाच्यत्वमाह- अणिमेति । यः ईश्वरः इति शब्दं बिभर्ति । अत्र श्लोकत्रये विद्यमानस्य यच्छब्दस्य ‘स ते दुहितरं साक्षाद्’ (६.७८) इति चतुर्थश्लोकगतेन तच्छब्देनान्वयः । यः शंभुः ईश्वर इति शब्दं बिभर्ति वाचकत्वेनैव बिभर्तीत्यर्थः । ईश्वरशब्दं विशिनष्टि चतुर्भिर्विशेषणैः । तत्रादौ परमेश्वरस्येश्वरशब्दवाचकत्वे हेतुमाह - अणिमादिगुणोपेतम् इति । अणिमादिभिरष्टभिः गुणैः उपेतं सहितम् । अणिमाद्यष्टैश्वर्यसहितस्यैव वाचकमित्यर्थः। यथोक्तं स्कान्दपुराणे- अणिमा महिमा चैव लघिमा गरिमा तथा । ईशित्वं च वशित्वं च प्राप्तिः प्रकाम्यमेव च ॥ ईश्वरस्येत्थमैश्वर्यमष्टधा परिकीर्तितम् । इति । अत्र वाचकतया परमेश्वरे वर्तमानस्येश्वरशब्दस्य परमेश्वरगतानामणिमादिगुणानां च सामानाधिकरण्यादुपेतत्वमित्यवसेयम् । इतरेषां च तदनुग्रहादष्टैश्वर्ययोग इति न तेष्वतिव्याप्तिः । अत एव अस्पृष्टं पुरुषान्तरं परमेश्वरव्यतिरिक्तः पुरुषो येन तम् । न केवलं शम्भोरीश्वरशब्दवाच्यत्वं योगमात्रेण, अपि तु रूढ्या चेत्याह – उच्चैरिति । लोकप्रख्यातम्। परमेश्वर एव रूढमित्यर्थः । अस्पृष्टपुरुषान्तरत्वमेवोपपादयतिसार्धचन्द्रमिति । अर्धचन्द्रेणाविनाभूतमित्यर्थः । अर्धचन्द्रधारिणो देवस्यैव वाचकमिति भावः। यस्मादीश्वरशब्दोच्चारणानन्तरमर्धचन्द्रधारी देव एव श्रोतॄणां मनसि स्फुरति, तस्मादस्पृष्टपुरुषान्तर एवायं शब्द इति भावः ॥ ७५ ॥ कल्पितान्योन्यसामयैः पृथिव्यादिभिरात्मभिः । यस्येदं ध्रियते व्यक्तं धुर्यैर्यानमिवाध्वनि ॥ ७६ ॥ प्रकाशिका कल्पितेति । कल्पितं सम्पादितम् अन्योन्यसामर्थ्यं यैः । अप्तेजसी पृथिव्यैव धृते स्वकार्यं कुरुत इति तयोस्तया सामर्थ्यकल्पनम् । एवमन्यत्रापि । आत्मभिर्देहैः । अध्वनीत्युभयशेषः ॥ ७६ ॥ । ३९२ परमेश्वरस्य भोगप्रदत्वमाह- कुमारसम्भवे विवरणम् कल्पितेति । यस्य पृथिव्यादिभिः आत्मभिः इदं व्यक्तं ध्रियते । यस्य शम्भोः । पृथिव्यादिभिः पृथिवीसलिलात्ममारुततेजस्सूर्यचन्द्राकाशरूपैः अष्टभिः । आत्मभिः देहैः इदं दृश्यमानं व्यक्तं विश्वं ध्रियते । ‘धृञ् धरणे’ इत्यस्मात् कर्मणि लडन्तोऽयं शब्दः । पृथिव्यादिरूपैर्यस्य शरीरैरस्य विश्वस्य धरणं क्रियत इत्यर्थः । अत्रोपमामाह — धुर्यैः अध्वनि यानम् इव इति । रथस्य धुरं वहन्तीति धुर्या अश्वाः तैः । अध्वनि मार्गे यानं रथ इव । मार्गे यथा रथानां धारणमश्वैः क्रियते, तथा संसारमार्गे परमेश्वरशरीरैर्विश्वमित्यर्थः । अत्र साधारणं धर्ममाह - कल्पितान्योन्यसामर्थैरिति। कल्पितं सम्पादितम् अन्योन्यस्य सामर्थ्यं यैस्तैः । जलं कूपतटाकादिरूपया पृथिव्या धृतमेव स्वकार्यभूतं स्नानादिकं जनयति । तेजोऽपि काष्ठादिरूपया पृथिव्या धृतमेव पाकादिकार्यकृद् भवति । पृथिवी तु सलिलानुगृहीतैव सस्यादिकार्यमुत्पादयति, जलतेजोभ्यामनुगृहीतैवं घटादिकार्यं सम्पादयतीत्यादि सर्वत्र द्रष्टव्यम् । अथवा कल्पितान्योन्यसामर्थ्यः पञ्चीकृतैरित्यर्थः । धुर्याणामपि वहनसामर्थ्यमन्योन्यकृतमेव चतुर्णामश्वानां मध्ये कस्यचिदभावे त्रयाणामपि वहनसामर्थ्याभावात् । भगवच्छरीरैरेव सर्वे जना यथासुखं वर्तन्त इति भावः ॥ ७६ । , योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम्। अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥७७॥ प्रकाशिका योगिन इति । क्षेत्रं शरीरं तदभ्यन्तरवर्तिनोऽपि विचेयत्वेन परं सूक्ष्मत्वं दर्शयति । सूक्ष्मत्वं दर्शयति । योगिन इति सनकादीनामेव विचयनेऽप्यधिकारे इति द्योतयति । किमेवंविधस्य महता प्रयासेन विचयने तेषां फलमित्याह – अनावृत्तीति । आवृत्तिः संसारः, तस्माद् भयं यत्र नास्ति । पदं स्वरूपम् । कथं धीरास्तत्प्राप्तौ न यतेरन्निति भावः । अत्र प्रथमेन पद्येनानन्यसाधारणमीश्वरत्वम्, अनन्तराभ्यां क्रमाद् भोगमोक्षप्रदत्वं च परमेश्वरस्योक्तम्। यदाहुः- इति ॥ ७७ ॥ भुक्ति मुक्तिमणूनां स्वव्यापारे समर्थताधानम् । जडवर्गस्य विधत्ते सर्वानुग्राहकः शंभुः ॥ मुक्तिप्रदत्वमप्याह- षष्ठः सर्गः विवरणम् ३९३ योगिन इति । योगिनः यं विचिन्वन्ति । योगिनः योगाभ्यासशीलाः यं परमेश्वरम्। विचिन्वन्ति स्वरूपावधारणार्थमतद्व्यावृत्तिमुखेनान्विच्छन्तीत्यर्थः । ननु किं भगवतः शम्भोरत्यन्तदूरावस्थितत्वादन्वेषणं, नेत्याह — क्षेत्राभ्यन्तरवर्तिनमिति । क्षेत्रं शरीरं तस्याभ्यन्तरे वर्तितुं शीलमस्येति तथा । क्षेत्राभ्यन्तरवर्तिनमपि विचिन्वन्तीत्यर्थः । अनेन स्वरूपस्य परमसूक्ष्मत्वमुक्तम् । ननु किमेवंविधस्यात्यन्तदुर्ग्रहस्य तस्य महता प्रयासेन विचयने तेषां प्रयोजनमित्यत्राह — मनीषिणः यस्य पदम् अनावृत्तिभयम् आहुः । मनीषिणो मन्वादयः यस्य शम्भोः पदं स्वरूपम् । अनावृत्तिभयम् । आवृत्तिः संसारः तस्माद् भयं यत्र नास्ति तदनावृत्तिभयम् । आहुः वदन्ति । ‘यतः प्रतिनिवर्तन्ते नैव जातु विपश्चितः’ इत्यादिवचनेष्विति भावः ॥ ७७ ॥ स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणः । वृणुते वरदः शम्भुरस्मत्सङ्क्रमितैः पदैः ॥७८॥ प्रकाशिका स इति । स य एवंभूतत्वेन श्रुत्यादिप्रसिद्धः । ते दुहितरमिति अहो धन्योऽसीति भावः । साक्षादव्यवधानेन । स्वयमेव वृणुते इत्यर्थः । व्यवधानं हि तदर्थमन्येन वरणे सति भवति । वरदः, यः स्वयं तस्य तस्येप्सितान् वरान् ददाति, सोऽपि त्वां वृणुत इति पुनरप्यहो धन्योऽसीति प्रकाश्यते । स्वयमब्रुवन् कथं साक्षाद् वृणुत इत्याहअस्मत्संक्रमितैरिति । लेखस्थानीया वयमिति भावः । अनेन ‘अयाचितारं नहि देवमद्रिः ’ (१.५१) इत्युक्तमयाचनमपास्तम् । वृणुत इति कर्त्रभिप्रायक्रियाफलप्रकाशकेन देवस्य वरणे सादरत्वं द्योतयति ॥ ७८ ॥ अथ परमेश्वरसन्देशमेवाह- विवरणम् स इति । सः शम्भुः ते दुहितरम् अस्मत्सङ्क्रमितैः पदैः साक्षाद् वृणुते । सः यः पूर्वोक्तसकलगुणविशिष्टत्वेन श्रुत्यादिषु प्रसिद्धः स इत्यर्थः । शं मुक्तिसुखं भवत्यस्मादिति शम्भुः परमेश्वरः । ते दुहितरं तव पुत्रीम् । अहो ते भाग्यपरम्परेति भावः । ननु स्वयं किञ्चिदप्यब्रुवन् महेश्वरः कथं स्वयं वृणुत इत्युच्यत इत्यत्राहअस्मत्सङ्क्रमितैः पदैः इति । अस्मासु सङ्क्रमितैः कृतसङ्क्रमैः । सम्पूर्वात् क्रमेर्णिचि निष्ठा । मान्तत्वाद् वृध्द्यभावः । अनेन लेखस्थानीया वयमिति द्योत्यते ।३९४ कुमारसम्भवे अत एवाह – पदैरिति । पदान्यपि तदुदीरितान्येवेत्यर्थः । अनेन लेखस्थानीयत्वमेवोपपादितम्। साक्षादव्यवधानेन । स्वयमेव वृणुत इत्यर्थः । अन्येन वरणे सति हि व्यवधानं भवति, न तु लेखादिना वरण इति भावः । वृणुते याचते । ‘वरणं प्रार्थना याच्ञा’ इति भोजः । ‘वृञ् वरणे’ इति धातोरिदं रूपम् । ‘स्वरित’ (१.३.७२) इत्यादिनात्मनेपदम् । तेन च क्रियाफलस्य कर्त्रभिप्रायत्व - प्रतिपादनेन वरणे देवस्य सादरत्वं द्योत्यते । अथ पुनरपि वरगुणप्रशंसया हिमवतो धन्यत्वमेव प्रतिपादयति विशेषणद्वयेन । विश्वस्य कर्मणः साक्षी । विश्वस्य सर्वेषामपि जीवानाम् । कर्मण इति जातावेकवचनम् । सत्कर्मणां दुष्कर्मणां चेत्यर्थः । साक्षी द्रष्टा । अत एव वरदः तत्तत्फलप्रदातेत्यर्थः । यः सर्वेषामपि जीवानामीप्सितं ददाति, सोऽपि निजाभिमतसिद्ध्यर्थमिदानीं त्वां याचते । अहो धन्योऽसीति भावः । अनेन ‘अयाचितारं नहि देवम्’ इत्यत्रोक्तमयाचनमपास्तं वेदितव्यम् ॥७८ ॥ तमर्थमिव भारत्या सुतया योक्तुमर्हसि । अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ॥ ७९ ॥ प्रकाशिका तमिति । परस्परोपकारकत्वमुपमया ध्वन्यते । प्रकाशते, शब्दश्चार्थप्रकाशनेन चरितार्थो भवति । यतोऽर्थः शब्दोत्पन्नत्वेनैव तत्र तदीप्सिततमत्वेन तस्यापेक्षणीयतरत्वं यदुक्तं, तदुपपादयति-अशोच्येति । अशोच्या श्लाघ्येत्यर्थः । पितुरित्यनेन तवापि श्रेयो भविष्यतीति द्योतयति ॥ ७९ ॥ विवरणम् ननु तदानीं मया किं कर्तव्यमित्यत्राह— । तमिति । त्वं तं सुतया योक्तुम् अर्हसि । तं महेश्वरम् । अत्र कर्मसंज्ञया कर्तुरीप्सिततमत्वात् तवैवाभिमतोऽयमर्थ इति द्योत्यते । तेन च ’ शृणु कार्यं तवैव तत्’ (६.७४) इत्यत्रोक्तोऽर्थोनुसंहितः । सुतया तव पुत्र्या । अनेन त्वदायत्त एवायमर्थ इति द्योत्यते । योक्तुं योजयितुम् अर्हसि योग्यो भवसि । अत्रोपमामाहभारत्या अर्थम् इव इति । भारत्या शब्देन अर्थं पदार्थमिव । ईश्वरकृतः शब्दार्थसम्बन्ध इति तार्किकाणां मतम्। तदनुसारेणेयमुक्तिः । यथेश्वरो जगत्सर्गानन्तरं शब्दार्थं परस्परं योजयति, तथा भवान् पार्वतीपरेश्वरौ परस्परं योजयितुमर्हतीत्यर्थः । अत्रोपमया दम्पत्योः परस्परोपकर्तृत्वं ध्वन्यते । अर्थो हि शब्दोल्लेखेनैव प्रकाशत इति हि वैयाकरणानां मतम् । यथोक्तं— ‘न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते’ इति [ वाक्यपदीये ] । शब्दश्चार्थप्रकाशैनैव चरितार्थो भवतीति यथा षष्ठः सर्गः ३९५ शब्दार्थयोः परस्परोपकर्तृत्वं तथात्रापीत्यर्थः । ’ शृणु कार्यं तवैव तद्’ इत्यत्रोक्तमर्थमेव प्रकाशयति – कन्या सद्भर्तृप्रतिपादिता हि पितुः अशोच्या इति । कन्या पुत्री | सद्भर्तृप्रतिपादिता सते श्रेष्ठाय भर्त्रे वराय प्रतिपादिता दत्ता सती । हिशब्दः प्रसिद्धौ । पितुरिति कर्तरि षष्ठी । पित्रेत्यर्थः । अशोच्या श्लाघ्या भवति । तवाप्यनेनैव श्रेयो भविष्यतीत्यर्थः ॥ ७९ ॥ यावद् द्वयानि भूतानि स्थावराणि चराणि च। मातरं कल्पयन्त्येनामीशो हि जगतः पिता ॥८०॥ प्रकाशिका इत्थमासूत्रितां वध्वा भाविनीं श्लाघ्यतां विश्वातिशायितया श्लोकाभ्यां प्रपञ्चयति- यावदिति । भविष्यन्तीति पूर्वार्धे वाक्यं समापनीयम् । उत्तरार्धे च तावच्छब्दोऽध्याहार्यः। तावत् कल्पयन्तीति वर्तमानसामीप्ये लट् । केचित् तु यावत् कल्पयन्तीति यावत् पुरा - ’ ( ३. ३.४) इति लटमाहुः । दक्षिणावर्तस्तु’यावदवधारणे (२.१.८ ) इत्याह ॥ ८० ॥ विवरणम् इत्थमासूत्रितां पुत्र्यास्तत्तादृशीं भाविनीं श्लाघ्यतां श्लोकद्वयेन प्रपञ्चयति । तत्रादौ पुत्र्या लोकमातृत्वमाह— यावदिति । स्थावराणि चराणि च द्वयानि भूतानि यावत् तावदेनां मातरं कल्पयन्ति । स्थावराणि अजङ्गमानि चराणि जङ्गमानि । द्वयानि द्विविधानीत्यर्थः । भूतानि जगन्ति । यावद्, भविष्यन्तीति शेषः । तावद् एनां तव पुत्रीं मातरं कल्पयन्ति आत्मनो मातृत्वेन कल्पयन्तीत्यर्थः । वर्तमानसामीप्ये लट् । अत्र भूतानामेव कल्पनेऽपि कर्तृत्वम् । चराचरात्मना द्विविधानि भूतानि यावदात्मनः सत्तां लभन्ते, तावदेनां निजमातृत्वेनैव कल्पयिष्यन्तीत्यर्थः । अनेन देव्या नित्यत्वमुक्तम् । मातृत्वकल्पने हेतुमाह —ईशो हि जगतः पिता । ईशो महेश्वरः । हिशब्दः प्रसिद्धौ । जगतः स्थावरजङ्गमात्मकस्य प्रपञ्चस्य । पिता उत्पादकः । यस्मान्महेश्वरो जगतः पितृत्वेन प्रसिद्धः, तस्मात् तत्पत्नी मातैव, ‘पत्न्यः पितुर्मातर एव सर्वाः’ इति न्यायादिति भावः ॥ ८० ॥ प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्यस्याश्चूडामणिमरीचिभिः ॥८१॥ ३९६ कुमारसम्भवे प्रकाशिका प्रणम्येति । प्रणम्येत्यनुवादेन तत्प्रणामस्य स्वतः प्राप्तत्वं द्योतयता विबुधकर्तृकं तच्चरणरञ्जनमुपपादितम् । रञ्जयन्तीति वर्तमानसामीप्ये लट् ॥ ८१ ॥ विवरणम् मातृत्वकल्पनस्य फलमाह- प्रणम्येति । विबुधाः शितिकण्ठाय प्रणम्य तदनन्तरं चूडामणिमरीचिभिः अस्याः चरणौ रञ्जयन्ति । विबुधा देवाः शितिकण्ठाय नीलकण्ठाय । ‘शिती धवलमेचकावि’ त्यमरः । प्रणम्य प्रणमनं कृत्वा तदन्तरं तस्य प्रणमनस्यानन्तरं चूडामणीनां शिरोरत्नानाम् । ‘चूडामणिः शिरोरत्नम् ’ इति सिंहः । मरीचिभिः रश्मिभिः। किरीटरत्नप्रभाभिरिति यावत् । अस्या इति सहस्तनिर्देशं वचनम् । चरणौ पादौ । रञ्जयन्तीति वर्तमानसामीप्ये लट् । रागयुक्तौ करिष्यन्ति । तादृशः कालोऽपि प्रत्यासन्न इत्यर्थः । अत्र शितिकण्ठाय प्रणम्येति नित्यप्राप्तं तत्प्रणमनमनूद्य विबुधकर्तृकं देवीचरणरञ्जनं विधीयत इति देव्यास्तत्समानकक्ष्यत्व- । प्राप्तिर्ध्वन्यते ॥ ८१ ॥ उमा वधूर्भवान् दाता याचितार इमे वयम् । वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥८२॥ प्रकाशिका न केवलमस्याः, किन्तु कुलस्यैवास्य कापि लोकोत्तरता भविष्यतीत्याह- उमेति । इमे वयं याचितारः शम्भुर्वर इत्यन्वयः । एष विधिर्विवाहविधिः । अत्रानूद्यमानानामङ्गभूतानां गुणाधिकानामुपादीनां पदार्थानामेकैकस्य वधूत्वाद्येकैकविधानादङ्गिनो विवाहविधेः किमपि कुलोन्नतिहेतुत्वं समर्थितम् । तत्र गुणा उमायाः शीलादयः, हिमवतः श्रद्धादयः, अस्मदर्थस्य शमादयः, शम्भोः पारमैश्वर्यादयो लोकतोऽधिका द्रष्टव्याः ॥ ८२ ॥ , विवरणम् अपि च अनेन विवाहविधिना न केवलमस्याः, नापि केवलं तवैव, तव कुलस्यापि किमपि लोकोत्तरमौन्नत्यं भविष्यतीत्याह- उमेति । उमा वधूः । उमा पार्वती वधूः कन्या । अत्र हि विवाहविधौ देया पार्वती । सा हि सौशील्यादिबहुगुणविशिष्टा । देयद्रव्यस्य गुणोत्तरत्वं हि दाने प्रधानम्। तस्मादनेनैव तव कुलस्य श्रेयो भविष्यतीत्यर्थः । पुनरपि विशेषमाह षष्ठः सर्गः ३९७ भवान् दाता इति । श्रद्धादिगुणविशिष्टो भवान् दाता दानकर्ता। देयद्रव्यस्य न्यूनगुणत्वेऽपि श्रद्धावता कृतं दानं फलभूयिष्ठं भवति । यथोक्तं भगवतैव – ‘पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति’ (गीता. ९.२६) इति । इत्थं गुणद्वयसाहचर्यमुक्त्वा पुनरपि गुणान्तरमाह – इमे वयं याचितार इति । इमे वयं शमदमादिगुणविशिष्टा वयम् । याचितारः प्रार्थयितारः । विप्रवाक्यपुरस्सरं क्रियमाणं हि सर्वमपि कर्म मङ्गलोदर्कं भवति, ‘विप्रवाक्यं जनार्दन’ इत्युक्तत्वात् । तत्रापि विशिष्टविप्रभाषितत्वमत्र विशेष इति भावः । अत एव माधवेन — विशिष्टविप्रभाषितं शुभग्रहस्य चोदयः । शुभग्रहस्य वर्गता त्रयो महागुणाः स्मृताः ॥ इत्युक्तम्। पुनरपि महागुणान्तरमाह — शम्भुः वरः । वरो भर्ता । पारमैश्वर्यादिलोकोत्तरगुणविशिष्टाय हराय दीयते । अनेनैव त्वत्कुलस्य श्रेयो भविष्यति, उत्तमपात्रदानमात्रस्यैव गुणोत्तरत्वस्मृतेः । तस्मादेकैकमपि वस्तु दाने प्रशस्ततरं, किं पुनः समस्तमित्याह — एष विधिः त्वत्कुलोद्भूतये अलं हि इति । एष विधिः उमाया अस्मन्नियोगपूर्वकत्वत्कर्तृकहरार्पणरूपो विवाहविधिः । तव कुलस्य उद्भूतये उत्कृष्टायै समृद्ध्यै । पूर्वोक्तेष्वेकैकस्यापि समृद्ध्यै पर्याप्तत्वेऽपि समस्तपरिमेलनादत्रोत्कृष्टत्वम्। अलं पर्याप्तः । हिशब्दोऽवधारणार्थः । पर्याप्त एवेत्यर्थः ॥ ८२ ॥ अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः । सुतासम्बन्धविधिना भव विश्वगुरोर्गुरुः ॥ ८३ ॥ प्रकाशिका भवतोऽपि कापि लोकोत्तरता भविष्यतीति विधिमुखेनाह- अस्तोतुरिति । लोको हि स्वनिकृष्टोत्कृष्टापेक्षया स्तवनवन्दनयोः कर्मत्वं कर्तृत्वं च भजते । अयं तु न तथेत्यर्थः । तत्र हेतुर्विश्वगुरुत्वम् ॥ ८३ ॥ विवरणम् न केवलमदृष्टवशादेव तवोत्कृष्टत्वम् अपि तु दृष्टवशादपीत्याह- अस्तोतुरिति । त्वं सुतासम्बन्धविधिना विश्वगुरोः गुरुः भव । सम्बन्धविधिः सम्बन्धविधानम् । सुतया करणभूतया भगवता सहात्मनः सम्बन्धविधानेन । विश्वेषां गुरोः त्रैलोक्यगुरोरपि तस्य गुरुर्भव श्वशुरभावं लभस्वेत्यर्थः । श्वशुरस्यापि गुरुत्वं स्मृतिप्रसिद्धं ३९८ कुमारसम्भवे इति । पित्रादयस्त्रयो भ्राता पितुर्मातामहस्तथा । ज्येष्ठभ्राता मातुलश्च श्वशुरो गुरवस्त्विमे ॥ भगवतो विश्वगुरुत्वमेवोपपादयति — अस्तोतुरित्यादिभिश्चतुर्भिर्विशेषणैः । अस्तोतुः । स्वयं कस्यचिदपि स्तोता न भवतीत्यस्तोता तस्य । आत्मकर्तृकस्तवनरहितस्येत्यर्थः । अनेन स्तवने भगवतः कर्तृत्वं निरस्तम्। स्तवने कर्मत्वमुपपादयति — स्तूयमानस्येति । सर्वैरपि जनैः आत्माभीष्टसिद्ध्यर्थमनिशं कृतस्तवनस्येत्यर्थः । वन्दनेऽपि कर्मत्वमाह – वन्द्यस्येति । वन्दनयोग्यस्येत्यर्थः । वन्दनेऽपि भगवतः कर्तृत्वं निराकरोति - अनन्यवन्दिन इति । अन्यवन्दनशीलो न भवतीत्यनन्यवन्दी। आत्मकर्तृकवन्दनरहितस्येत्यर्थः । अयमेवार्थो माघेन विस्तरतः प्रतिपादितः- केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि । धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ (१४.६६) इति । लोके हि सर्वे जनाः स्वन्यूनगुणेन जनेन वन्द्यन्ते स्तूयन्ते च, उत्कृष्टगुणांस्तु वन्दन्ते स्तुवन्ति च । अयं पुनरितः पूर्वं स्तवनवन्दनयोः कर्मत्वमेव सर्वदा लब्धवान् । विवाहानन्तरं न गुरुभूतत्वदपेक्षया तयोः कर्तृत्वमप्यस्य भविष्यतीति भावः ॥ ८३ ॥ एवंवादिनि देवर्षी पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥८४॥ प्रकाशिका अथ मुनिवचनसमाप्तिं दर्शयन् रसाविष्टः कविः क्रमप्राप्तहिमवद्वृत्तान्तवर्णनात् प्रागेव नायिकावृत्तान्तमनुसन्धत्ते- एवमिति । अत्र लक्ष्यक्रमो लज्जाभावध्वनिः, अनुभावरूपाभ्यां लीलाकमलपत्रगणनाधोमुखत्वाभ्यामन्यथापि कन्यानां सम्भवद्भ्यां प्रवृत्ततपश्चर्याद्यनुसन्धानपुरस्सरं शनैर्लज्जायां प्रतीतिविश्रान्तेः । तस्याश्चालम्बनं देवर्षिवाक्यं पितृपार्श्ववृत्तिरुद्दीपनम् ॥ ८४ ॥ विवरणम् " अथ रसाभिनिविष्टः कविः क्रमप्राप्तान् पर्वतराजवृत्तान्तोपवर्णनात् पूर्वमेव मुनिवचनसमाप्तिं दर्शयन् नायिकावृत्तान्तमनुसन्धत्ते- एवमिति । देवर्षी एवं वादिनि पार्वती पितुः पार्श्वे अधोमुखी लीलाकमलपत्राणि गणयामास । देवर्षी अङ्गिरसि । एवं पूर्वोक्तप्रकारेण वदितुं षष्ठः सर्गः ३९९ शीलमस्येत्येवंवादी । तथाभूते सति । पार्वती पितुः पार्श्वे समीपे । स्थितेति शेषः । अधोमुखी नम्रानना सती लीलार्थं यत् कमलं तस्य पत्राणि दलानि गणयामास सङ्ख्यातवती । अत्र देवर्षीणां पितुश्च वचनाकर्णनकौतुकात् पितृपार्श्ववर्तिन्या देव्या लज्जाख्यो भावोऽनेन वाक्येन ध्वन्यते । अलक्ष्यक्रमो लक्ष्यक्रमश्चेति द्विविधो हि ध्वनिः । तत्र रसभावादिध्वनिरलक्ष्यक्रमः। तथाप्यत्र भावध्वनिर्लक्ष्यक्रम एव । लीलाकमलपत्रगणनाधोमुखत्वाभ्यां झटिति लज्जायाः प्रतीत्यनुदयात् पूर्वानुरागतपश्चर्याद्यनुसन्धानक्रमेण प्रतीतेश्च । लीलापत्रगणनमधोमुखत्वं च लज्जाया अनुभावः, देवर्षिवाक्यमालम्बनविभावः । पितृपार्श्ववर्तनमुद्दीपनविभावः ॥ ८४ ॥ शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत । प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥ ८५ ॥ हिमवतः प्रतिपत्तिमाह- प्रकाशिका शैल इति । मेनामुखोदीक्षणं तदभिप्रायवेदनाय । सम्पूर्णकामस्य तस्य किं तन्मुखोदीक्षणविलम्बनेनेत्याह – प्रायेणेति । गृहिणीनेत्राः गृहिणीप्रमाणाः । कन्यार्थेषु कन्याकार्येषु । कुटुम्बिनो गृहस्थाः ॥ ९५ ॥ विवरणम् अथ प्रकरणक्रमागतां हिमवतः प्रवृत्तिमेवानुसन्धत्ते — शैल इति । शैलः संपूर्णकामः अपि मेनामुखम् उदैक्षत । सम्यक् पूर्णः कामो मनोरथो यस्य तथाभूतः सन्नपि । ‘तस्थौ निवृत्तान्यवराभिलाषः ’ (१.५१) ‘अथानुरूपाभिनिवेशतोषिणा’ (५.७) इत्यादिवचनेषु प्रतिपादितस्याभिलाषस्य देवर्षिवचनश्रवणानन्तरं परिपूर्णत्वे जातेऽपि तदभिप्रायवेदनार्थं मेनाया मुखमुदैक्षत उदीक्षितवान् । ननु किं परिपूर्णमनोरथस्यास्य कार्यविलम्बनमात्रफलेन मेनामुखवीक्षणेनेत्यत्राह — कुटुम्बिनः कन्यार्थेषु प्रायेण गृहिणीनेत्राः इति । कुटुम्बिनो गृहस्थाः । कन्याया अर्थेषु कार्येषु । दानादिकर्मस्वित्यर्थः । प्रायेण प्रायशः । गृहिणी भार्या सैव नेत्रं येषां ते तथा । भवन्तीति शेषः । यथा चक्षुषा विना जनाः कर्तव्यमर्थ किञ्चिदपि न पश्यन्ति तथा गृहस्थाः कन्यादानादिरूपमर्थं भार्यया विना न पश्यन्तीत्यर्थः । गृहिणीप्रमाणा इति भावः । गौणोऽयं प्रयोगः ॥ ८५ ॥ , इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विचिन्त्य सः । आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ॥८६॥ ४०० कुमारसम्भवे प्रकाशिका इदमिति । इदमा वक्ष्यमाणं हृदयगतं परामृश्यते । अत्रेति कन्याप्रार्थने । उत्तरमनन्तरकर्तव्यम्। विचिन्त्य विमर्शपूर्वं निश्चित्य । आददे हस्ते जग्राह । वचसां मुनिवचसाम्। अन्त इत्यविलम्बं द्योतयति । मङ्गलैः गौरसर्षपदूर्वादिभिः । अनेन रसाज्झटितीतिकर्तव्यतानिश्चयानुष्ठाने दर्शिते ॥ ८६ ॥ विवरणम् मेनामुखनिरीक्षणानन्तरं तन्मुखमपि प्रसन्नमवलोकयतो हिमवतः प्रवृत्तिमाह-

इदमिति । सः अत्र इदं न्याय्यम् उत्तरमिति बुद्ध्या विचिन्त्य वचसाम् अन्ते मङ्गलालङ्कृतां सुताम् आददे । अत्र सप्तर्षिकृते कन्याप्रार्थने । इदं वक्ष्यमाणं हृदयगतं कन्यार्पणमेव । न्याय्यं न्यायादनपेतम् । युक्तमित्यर्थः । उत्तरं प्रतिवचनम् । अनन्तरकरणीयमिति यावत् । बुद्ध्या स्वमनीषया विचिन्त्य विचारपूर्वकं निश्चित्य वचसामन्ते मुनिवचनावसानसमय एव । अनेनाविलम्बो द्योत्यते । मङ्गलैदूर्वाङ्कुरादिभिः अलङ्कृतां कृतनेपथ्यां सुतां पार्वतीम् आददे दानार्थं हस्ते गृहीतवान् । शीघ्रमेव कर्तव्यमर्थमवधार्य तनयां त्वरिततरमलङ्कृत्य मुनिवचनावसानसमय एव दातुमारेभ इत्यर्थः ॥ ८६ ॥ एहि विश्वात्मने वत्से ! भिक्षा त्वं परिकल्पिता । अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥८७॥ प्रकाशिका आदानस्योपयोगमुक्तिमुखेन दर्शयति- एहीति । एहि मुनीन् यथोचितमुपगच्छेत्यर्थः । विश्वात्मने परमेश्वराय त्वं भिक्षा परिकल्पिता, ‘रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विन’ इति वचनात् । गृहमेधी गृहस्थः । अनेन ‘उमा वधू’ (६.८२) इत्यादिनोक्तस्यार्थस्य सविशेषाङ्गीकरणं द्योतितम्॥ ८७ ॥ विवरणम् आत्मना परिनिश्चितमर्थं पुत्रीं प्रत्याह- एहीति । वत्से ! त्वम् एहि । हे वत्से ! अनेन स्नेहातिशय उक्तः । त्वम् एहि आगच्छ । किमर्थमहमागच्छामीत्यत्राह - त्वं विश्वात्मने भिक्षा परिकल्पिता इति । विश्वात्मने परमेश्वराय । अनेन पतिगुणप्रशंसया पुत्र्याः प्रदानजं दुःखं निराकरोति । षष्ठः सर्गः ४०१ भिक्षा देयद्रव्यम् । ‘रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विन’ इति वचनानुसारेण भिक्षाशब्दप्रयोगः । कल्पिता, मयेति शेषः । नन्वनर्थिने कथं भिक्षप्रदानोपपत्तिरत आह-मुनयः अर्थिनः इति । मुनयः सप्तर्षयः अर्थिनो याचकाः । परमेश्वरनियोगात् त्वद्याचनार्थमेते समागता इत्यर्थः । आत्मनः प्रसादमपि पुत्रीं प्रति निवेदयति — मया गृहमेधिफलं प्राप्तम् । ‘गृहमेधी गृहस्थः स्यादिति भोजः । गृहमेधिनः फलं गृहस्थाश्रमावलम्बनस्य फलं मया प्राप्तमित्यर्थः । गृहस्थः श्रद्धया दद्याद् भिक्षां भिक्षार्थिने भिक्षामददतः पुंसो गार्हस्थ्यं निष्फलं सदा । भवेत् ॥ इति स्मृतेरिति भावः । अनेन श्लोकेन ‘उमा वधूरि त्यत्र श्लोके यदुक्तं, तस्यैवार्थस्य विशेषेणाङ्गीकरणं कृतमित्यवसेयम्, अत्रापि परमेश्वराय भिक्षा दीयते त्वमत्र भिक्षाद्रव्यं मुनयश्चार्थिन इति पूर्ववदेव सर्वमुक्त्वा तदन्ते गृहमेधिफलं मया प्राप्तमित्युपसंहारात् ॥ ८७ ॥ एतावदुक्त्वा तनयामृषीनाह महीधरः । इयं नमति वः सर्वांस्त्रिलोचनवधूरिति ॥८८॥ प्रकाशिका एतावदिति । एतावत् परिमिताक्षरमित्यर्थः । त्रिलोचनवधूरिति सिद्धतानिर्देशेन मुनिप्रार्थने दूराभ्युपगमं द्योतयति ॥ ८८ ॥ विवरणम् अथ हिमवतो मुनिप्रार्थितस्यार्थस्य सविशेषमङ्गीकरणमेवाह- एतावदिति । महीधरः तनयाम् एतावदुक्त्वा ऋषीनाह । तनयां पुत्रीम् एतावद् एतावन्मात्रम् । परिमिताक्षरमित्यर्थः । अनेन कार्यत्वरा गम्यते । उक्तत्वा अभिधाय । आह उक्तवान् । लिडर्थमव्ययमिदम्। वचनप्रकारमाह - त्रिलोचनवधूरियं वः सर्वान् नमतीति । त्रिलोचनस्य हरस्य वधूः । ’ वधूर्जाया स्नुषा स्त्री चे ‘त्यमरः । इयमिति सहस्तनिर्देशं वचनम् । वः सर्वान् नमति प्रणमति । इतिशब्दः प्रकारवाची । अत्र त्रिलोचनवधूरिति सिद्धवदभिधानान्मुनिप्रार्थितस्यार्थस्य सविशेषमनुवादं दर्शितवान् ॥ ८८ ॥ ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः । आशीर्भिरेधयामासुः पुरः पाकाभिरम्बिकाम् ॥८९॥ अत एवाह- कुमारसम्भव प्रकाशिका ईप्सितेति । ईप्सितार्थोऽभ्युपगमः, तत्क्रियायामुदारं विदग्धम् । वैदग्ध्यप्रदर्शिताभ्युपगममित्यर्थः । अभिनन्द्य प्रशस्य । आशीर्भिः प्रणामसमुचिताभिः । पुरः पाकाभिः पुरस्कृतफलाभिः ॥ ८९ ॥ विवरणम् देवीप्रणामानन्तरं मुनीनां तदनुरूपां प्रवृत्तिमाह — ईप्सितेति । ते गिरेर्वचः । अभिनन्द्य प्रशस्य अम्बिकां पार्वतीम् आशीर्भिः प्रणामानन्तरोचितैराशीर्वादैः एधयामासुः वर्धयामासुः । संवर्धिताभिलषितप्राप्तिनिमित्तभूतादृष्टां व्यधुरित्यर्थः । हिमवद्वचसः प्रशंसार्हत्वमाह – ईप्सितार्थ - क्रियोदारमिति । कन्याप्रार्थनान्तरं मुनिभिरीप्सितस्याभिलषितस्यार्थस्य । अभ्युपगमस्येत्यर्थः । क्रियायां करणे उदारं विदग्धम् । प्रार्थनानन्तरं किमसौ वक्ष्यतीति मुनीनामाकाङ्क्षायां जातायां त्रिलोचनवधूरियं वो नमतीति वैदग्ध्यप्रदर्शिताभ्युपगममित्यर्थः। अत एव कुतूहलाधिक्यादभिनन्दनम् । तेषामाशिषामुत्कर्षमाहपुरःपाकाभिरिति । पुरस्कृतफलाभिरित्यर्थः । पुरः अग्र एव पाकः अनुभवकालो यासामिति विग्रहः ॥ ८९ ॥ तां प्रणामादरस्त्रस्तजाम्बूनदवतंसकाम् । अङ्कमारोपयामास लज्जमानामरुन्धती ॥९०॥ प्रकाशिका तामिति । प्रणामादरः सादरप्रणामः । लज्जमानामिति वरबन्धुबुद्ध्या ॥ ९० ॥ विवरणम् ‘आर्याप्यरुन्धती तत्र’ (६.३२) इति यत् प्रागुक्तं, तदेव श्लोकद्वयेनानुसन्दधाति तामित्यादिना । तत्रादावरुन्धत्याः स्वपदप्रणतवधूविषयां प्रवृत्तिमाह- तामिति । अरुन्धती ताम् अङ्कम् आरोपयामास । तां स्वपदप्रणतां पार्वतीम् अङ्कम् उत्सङ्गम्। ‘उत्सङ्गचिह्नयोरङ्क’ इत्यमरः । आरोपयामास प्रसादातिशयादात्मन उत्सङ्गेऽवस्थापयामासेत्यर्थः । देव्याः देव्याः प्रणामोचितभक्त्यतिशयमाह - प्रणामादरस्रस्तजाम्बूनदवतंसकामिति । प्रणामादरेण सादरेण प्रणामेनेत्यर्थः । स्रस्तः पतितः जाम्बूनदं सुवर्णं ‘स्वर्णं सुवर्णं कनकमित्यारभ्य ’ रुक्मं कार्तस्वरं जाम्बू- षष्ठः सर्गः ४०३ नदमष्टापदोऽस्त्रियामिति सिंहः । तन्मयो वतंसः शिरोलङ्कारो यस्यास्ताम् । सादरे हि प्रणामे शिरः सम्यगानतं भवति । शिरसः सम्यगानमने सति तु शिरोलङ्कारः स्रस्तो भवतीति भावः । वरबन्धुबुद्ध्या सञ्जातं तात्कालिकं भावविशेषमाहलज्जमानामिति । अत्र वर्तमानप्रयोगेण लज्जायाः सन्ततप्रवृत्तत्वमुक्तम् ॥ ९० ॥ तन्मातरं चाशुमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद् गुणैः ॥९१॥ प्रकाशिका तन्मातरमिति । दुहितृस्नेहविक्लबामिति दुहिता मे दूरीभविष्यतीति । अन्या पूर्वं न विद्यते यस्य सोऽनन्यपूर्वः । पुंवद्भावः प्रागुपपादितः । आभ्यां श्लोकाभ्याम् ‘आर्याप्यरुन्धती’ (६.३२) इत्यादिनोक्तमनुसंहितम् ॥९१ ॥ देवीमातृविषयां प्रवृत्तिमाह- विवरणम् तन्मातरमिति । सा दुहितृस्नेहविक्लबां तन्मातरम् अनन्यपूर्वस्य वरस्य गुणैः विशोकाम् अकरोच्च । दुहिता पुत्री, तद्विषयेण स्नेहेन विक्लबां परवशाम् । इतः परं मे दुहिता दूरवर्तिनी भविष्यतीति बुद्ध्या परवशीकृतामित्यर्थः । तस्या देव्या मातरं मेनाम्। अन्या पूर्वं न विद्यते यस्य सोऽनन्यपूर्वः । अन्यशब्दस्य सर्वनामत्वात् पुंवद्भावः । भार्यान्तररहितस्येत्यर्थः । इदमेव हि वधूनां प्रथममाशास्यम्। वरस्य भर्तुः गुणैः सकललोकनियन्तृत्वादिरूपैः । विशोकां विगतशोकामकरोत् । चशब्दो देवीलालनसमुच्चयार्थः । अलं विषादेन, तव पुत्र्या महानुत्कर्षो भविष्यति, नापि सपत्नीशोकलेशोऽपीत्यादिवचनैर्मेनां शोकहीनामकरोदित्यर्थः । दुहितृस्नेहवैक्लव्यस्यानुभावमाह - अश्रुमुखीमिति। अश्रूणि बाष्पजलानि मुखे यस्यास्ताम् । स्वहस्ताभ्यामेवाश्रूणि विमृज्य वरगुणप्रशंसया मेनां सुप्रसन्नामकरोच्चेति भावः ॥ ९१ ॥ वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना । तां त्र्यहादूर्ध्वमाख्याय चेलुश्चीरपरिग्रहाः ॥ ९२ ॥ प्रकाशिका वैवाहिकीमिति । वैवाहिकीं विवाहयोग्याम् । हरबन्धुनेत्यनेन यथा सुतायास्तथा जामातुरपि कुशलं वाञ्छता हिमवता कृतो विशिष्टतिथिप्रश्न इति घोत्यते । त्र्यहादूर्ध्वं चतुर्थेऽह्रीत्यर्थः । चेलुरासनादुदचलन् ॥ ९२ ॥४०४ कुमारसम्भवे हिमवत्संवादप्रकरणमुपसंहरति- विवरणम् वैवाहिकीमिति । हरबन्धुना तत्क्षणं वैवाहिकी तिथिं पृष्टाः चीरपरिग्रहाः तां त्र्यहादूर्ध्वम् आख्याय चेलुः । हरस्य बन्धुना श्वशुरभावं गमिष्यता हिमवता । अत एवं सुतायामिव जामातर्यपि कुशलाभिलाषात् तदानीमेव विवाहोचितविशिष्टदिवसप्रश्नावकाशः । तत्क्षणं तस्मिन् क्षण एव । अहो मोहस्य महिमेति भावः । वैवाहिकीं विवाहयोग्यां तिथिं दिनम् । विवाहयोग्यो दिवसः क इति पृष्टाः चीरपरिग्रहाः मुनयः विवाहयोग्यां, तिथिं त्र्यहादूर्ध्वं दिवसत्रयादूर्ध्वं चतुर्थेऽहनीत्याख्याय चेलुः आसनादुदचलन् ॥ ९२ ॥ ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ ९३ ॥ प्रकाशिका त इति । आमन्त्र्य आपृच्छ्य । तद्विसृष्टास्तदनुज्ञाताः । खमिति ज्योतिष्पथवर्तित्वात्॥ ९३ ॥ विवरणम् त इति । ते हिमालयम् आमन्त्र्य पुनः शूलिनं प्रेक्ष्य च सिद्धमर्थम् अस्मै निवेद्य च तद्विसृष्टाः खम् उद्ययुः । आमन्त्र्य आपृच्छ्य पुनरपि शूलिनं महेश्वरं प्रेक्ष्य दृष्ट्वा च । सिद्धमर्थं निजप्रयाससिद्धं प्रयोजनम् । अस्मै शूलिने निवेद्य च विज्ञाप्य च तद्विसृष्टाः तेन शूलिना विसृष्टाः गमनायानुज्ञाताः । खम् आकाशम् । ज्योतिष्पथमित्यर्थः। उद्ययुः उद्गतवन्तः । अत्र कथासङ्क्षेपो दर्शितः ॥ ९३ ॥ पशुपतिरपि तान्यहानि कृच्छ्रा- दगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्यु- र्विभुमपि तं यदमी स्पृशन्ति भावाः ॥ ९४ ॥ प्रकाशिका पशुपतिरिति । । पशुपतिः सकलब्रह्मादिचेतनवर्गप्रवृत्तिनिवृत्तिनियमकारी । अपिरसम्भावनां द्योतयति। तानीति त्रीणि। अवशम् अस्वतन्त्रम् । विप्रकुर्युर्बाधेरन् । षष्ठः सर्गः ४०५ विभुं स्वतन्त्रम् । भावा औत्सुक्यादयः । परमस्वतन्त्रस्यास्येयमवस्था, किमुतास्वतन्त्राणामितरेषामित्यर्थः । अनेन वक्ष्यमाणस्य सम्भोगस्य प्राणप्रदत्वेनाभिलाषविप्रलम्भो दर्शितः ॥ ॥ इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां षष्ठः सर्गः ॥ ६ । अथ भगवद्वृत्तमेवानुसन्दधाति — विवरणम् पशुपतिरिति । पशुपतिरपि तानि अहानि कृच्छ्रादगमयत् । पशुपतिः पशूनां ब्रह्मादिस्तम्बपर्यन्तानां जीवानां पतिः प्रवृत्तिनिवृत्तिनियमकारी । तदुक्तं शैवागमे- ब्रह्मादयो जगति जीवगणास्तृणान्ताः सर्वे विमोहितधियः पशवः प्रदिष्टाः । तेषामभूदधिपतिः शिव एक एव तस्माद् विदुः पशुपतिं परमेश्वरं तम् ॥ इति । तथाभूतः सन्नपि । अपिशब्दोऽयमसम्भावनां द्योतयति । तान्यहानि विवाहोचितचतुर्थदिवसप्राप्तिपरिपन्थिभूतानि त्रीणि दिनानि । कृच्छ्राद् यथाकथञ्चित् । चित्रदर्शनादिभिरिति भावः । अगमयद् अतिवाहयामास । कृच्छ्रादतिवाहने हेतुमाहअद्रिसुतासमागमोत्क इति । अद्रेः सुतायाः पार्वत्याः समागमे सङ्गमे उत्क उन्मनाः । पार्वतीसमागमोत्सुक इत्यर्थः । परमेश्वरस्य तावदियं समवस्था । इतरेषां का कथेत्याह—अमी भावाः अवशम् अपरं कं न विप्रकुर्युः इति । अमी पशुपतेरपि बाधकाः भावाः औत्सुक्यादयश्च अवशं कर्मपाशनिबद्धत्वादस्वतन्त्रम् ।

मायापराधीनमित्यर्थः । इदं बाधाधिक्ये हेतुः । अपरं भगवद्व्यतिरिक्तम्। कं न विप्रकुर्युः सर्वानपि बाधेरन्नित्यर्थः । तादृशानां भावानां पशुपतावपि प्रवृत्तिं पुनरपि सविस्मयमाह - तं विभुमपि स्पृशन्ति यदिति । अत्राप्यमी भावा इत्यनुषज्यते । तं तत्तादृशं विभुं नित्यमुक्तत्वात् स्वतन्त्रम् । अपिर्विरोधमाह । स्पृशन्ति बाधन्त इत्यर्थः । अत्र स्पृशन्तीत्यनेन स्पर्शनमात्रस्याप्यसम्भावना द्योत्यते । यद् यस्मात् । नित्यमुक्तस्य भगवतस्तावदीदृशी दशा । तस्मादन्येषां बाधने को विस्मय इत्यर्थः । अत्र दिनत्रयं कथाञ्चदतिवाहयामासेत्यनेन चतुर्थेऽहनि कर्तव्यस्य विवाहस्य वर्णनमनन्तरसर्गे क्रियत इत्युत्तरसर्गार्थोपक्षेपः कृतः । औत्सुक्यप्रतिपादनेन तु वक्ष्यमाणानां संभोगानां प्राणभूतोऽभिलाषविप्रलम्भो दर्शित इत्यवगन्तव्यम् ॥ ९४ ॥ ४०६ कुमारसम्भवे षष्ठः सूक्ष्मतरो निसर्गमधुरः सर्गोऽयमत्युज्ज्वलैः प्रत्युत्पन्नरसैरसीमहृदयैः पद्यैश्च विद्योतते । वाणीवेयमणीयसी मतिरतिक्षीणा मदीया तथा- प्यस्मिन् मां गुरुपादभक्तिरमलां व्याख्यां समाख्यापयत् ॥ ऊढाभोगनृसिंहचम्पुरचनादक्षस्य नारायण- क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृद्धोदये । व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया- निष्णाते बत षष्ठ एष निरगात् सर्गे निसर्गोज्ज्वलः ॥ ॥ इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे षष्ठः सर्गः ॥ ६ ॥